५ संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः
Technical Details
५ संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः।
एवमात्मभावादीनामुत्सर्गं रक्षां च प्रतिपाद्य पुनर्विस्तरेण रक्षाशोधनवर्धनानि प्रतिपादयितुमुपक्रमते। उत्पादितबोधिचित्तेन हि बोधिसत्त्वेन उत्सृष्टस्यापि चात्मभावस्य रक्षाशोधनवर्धनानि कार्याणि। यस्मात्-
परिभोगाय सत्त्वानामात्मभावादि दीयते।
अरक्षिते कुतो भोगः किं दत्तं यन्न भुज्यते॥
तस्मात्सत्त्वोपभोगार्थमात्मभावादि पालयेत्।
कल्याणमित्रानुत्सर्गात्सूत्राणां च सदेक्षणात्॥
[शिक्शा. स. कारिका ५-६]
तच्च आत्मभावादिपरिपालनादि शिक्षारक्षणादेव स्यात्। अन्यथा नरकादिविनिपातगमनात् तन्न स्यात्। अत इदमभिधीयते-
शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः।
न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता॥१॥
शिक्ष्यते उपादीयते गृहीतसंवरणेनेति विहितेषु करणीयता, प्रतिषिद्धेष्वकरणं शिक्षा, तां रक्षितुं परिपालयितुं कामेन इच्छता बोधिसत्त्वेन आत्मचित्तं रक्षितव्यं प्रयत्नत इति कथयिष्यमाणात्। अथ शिक्षारक्षणाधिकारे किमिति चित्तं रक्ष्यत इत्याह-न शिक्षेति। अन्यथा शिक्षैव रक्षितुमशक्या चलमनायत्तं चित्तमरक्षता। चित्तस्य चलतायां शिक्षायाः स्थैर्यायोगात्॥
इतोऽपि चित्तमेव रक्षणीयमित्याह-
अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम्।
करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः॥२॥
अपरिकर्मिता मत्तवरवारणा न जनयन्ति तां पीडामिहलोके। परलोके अवीच्यादौ यां करोति स्वच्छन्दतयावस्थितं चित्तमेव मतङ्गज एव। तथागताज्ञाङ्कुशेन कथंचिद् वशीक्रियमाणत्वात्।
तस्यायत्तीकरणे गुणमाह-
बद्धश्चेच्चित्तमातङ्गः स्मृतिरज्ज्वा समन्ततः।
भयमस्तंगतं सर्वं कृत्स्नं कल्याणमागतम्॥३॥
यदि बद्धः कथंचिद् भवेत्। स्मृतिर्वक्ष्यमाणलक्षणा। सैव रज्जुर्बन्धनोपायत्वात्। समन्ततः सर्वथा असत्पक्षे प्रचारनिरोधात्। तदा भयमस्तंगतं प्रत्यस्तमितं सर्वमशेषम्। सर्वं कल्याणमभ्युदयनिःश्रेयसलक्षणम्। आगतं संप्राप्तम्। देवश्चेद् वृष्टो निष्पन्नाः शालय इति यथा॥
ननु बहवश्च मृगव्यालादयोऽप्युपद्रवकारिणः सन्ति, तेभ्यः कथं चित्तस्य वशीकरणाद् भयं न भविष्यतीत्याह-
व्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः।
सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा॥४॥
सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात्।
चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्ति च॥५॥
सुबोधम्॥
कुतः पुनरेवमित्याह-
यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च।
चित्तादेव भवन्तीति कथितं तत्त्ववादिना॥६॥
सर्वे ह्येते कर्माक्षेपवशादनिष्टदायका भवन्ति। कर्म च चित्तमेव। चेतना कर्मेति वचनात्। वाक्कायकर्मणोरपि चित्तमेव समुत्थापकम्। तदन्तरेण तयोरनुत्पत्तेः। चेतयित्वा कर्मेति वचनात्। तस्मात् सर्वमिह कर्मनिर्मितमेव। तच्च चित्तान्नान्यत्। तदाह-
कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत्।
चेतना मानसं कर्म तज्जे वाक्कायकर्मणी। इति।
[अभि. कोष-४. १]
न च अनपकारचित्तस्य केचिदपकारिणो नाम। यस्मात्-
निवृत्तपापचित्तस्य नास्ति लोके भयं द्विषः।
सुखहानिर्न तस्यास्ति यस्य चित्तं वशे स्थितम्॥
अत इदमुक्तम्-
चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्।इति।
[=धम्मपद-२५]
तत्त्ववादी भगवान् वस्तुतत्त्वकथनशीलत्वात्। तेनेदं तत्त्वं कथितं प्रकाशितम्-सर्वं चित्तप्रसूतमिति। अतः सर्वत्र चित्तमेव प्रधानम्॥
इत्थमेवैतन्नान्यथा इति प्रसाधयन्नाह-
शस्त्राणि केन नरके घटितानि प्रयत्नतः।
तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः॥७॥
नरकपालानां कुन्तासिमुसलादीनि, असिपत्रवनसमुद्भूतानि वा केन कृतानि ? न तत्र कश्चित् कर्तास्ति ईश्वरादिः, तत्कर्तृत्वस्य अन्यत्र निषिद्धत्वात्, इहापि निषेत्स्यमानत्वात्। तप्तलोहमयी च भूमिः केन घटिता ? ताश्च स्त्रियः कुतः कारणसामग्रीतो जाताः, याः पारदारिकैः शाल्मलीवृक्षस्य अधस्तादुपरि च दृश्यन्ते? स च शाल्मलिर्वा
? अतो नान्यत् कारणमत्र चित्तादुपकल्पनीयम्। यदुक्तम्-
सत्त्वलोकमथ भाजनलोकं चित्तमेव रचयत्यतिचित्रम्।
कर्मजं हि जगदुक्तमशेषं कर्म चित्तमवधूय च नास्ति॥इति॥
[मध्यमकावतार-६.८९]
तस्माच्चित्तमेवात्र कारणं नान्यदित्यत आह-
पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः।
तस्मान्न कश्चित् त्रैलोक्ये चित्तादन्यो भयानकः॥८॥
पापकर्मोपस्कृतं चित्तमेव तेषां कारणं भगवान् कथितवात्। नापरं किंचित्। यत एवम्, तस्मान्न त्रिजगति पापचित्तादपरः कश्चिद् भयहेतुरस्ति। तस्माच्चित्तमेव वशीकर्तव्यम्। यदुक्तमार्यरत्नमेघे-
चित्तपूर्वगमाः सर्वधर्माः। चित्ते परिज्ञाते सर्वधर्माः परिज्ञाता भवन्ति॥
अपि च-
चित्तेन नीयते लोकश्चित्तं चित्तं न पश्यति।
चित्तेन चीयते कर्म शुभं वा यदि वाशुभम्॥
चित्तं भ्रमते अलातवत्। चित्तं विभ्रमते तरंगवत्। चित्तं दहते दवाग्निवत्। चित्तं रोहयते(हरते) महाम्बुवत्। इति च॥
एवं ब्युपपरीक्षमाणश्चित्ते सूपस्थितस्मृतिर्विहरति, न च चित्तस्य वशं गच्छति। अपि तु चित्तमेवास्य वशं गच्छति। चित्तेनास्य वशीभूतेन सर्वे धर्मा वशीभवन्तीति॥
स्यादेतत्-दानपारमितादिषु कथमिव चित्तं प्रधानम् ? सा हि सर्वसत्त्वानां दारिद्यापनयनलक्षणेत्याह-
अदरिद्रं जगत्कृत्वा दानपारमिता यदि।
जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम्॥९॥
दारिद्यं हि नाम सास्रवसुखभोगबुभुक्षया चित्तकार्पण्यम् उपकरणवैकल्यं वा। तदपनीय जगतो यदि दानपारमितापरिपूरिर्भवतीत्युच्यते, तदा सा कथम् ? न कथंचिदपि पूर्वतायिनां पूर्वमभिसंबुद्धानां भगवतां युज्यते। कुतः ? जगद्दरिद्रमद्यापि, नाद्यापि यावज्जगद्दारिद्यमुपशाम्यति॥
यद्येवं नेष्यते, कथं सा भवतीत्याह-
फलेन सह सर्वस्वत्यागचित्ताज्जनेऽखिले।
दानपारमिता प्रोक्ता तस्मात्सा चित्तमेव तु॥१०॥
सर्वस्वं बाह्याध्यात्मिकं सर्वं वस्तु दानं दानफलं च सर्वसत्त्वेभ्यः परित्यजतोऽभ्यासेन प्रकर्षगमनाद् यदा अपगतमात्सर्यमलं निरासङ्गतया चित्तमुत्पद्यते, तदा दानपारमितानिष्पन्नेत्युच्यते। तस्मात् सा चित्तमेव नान्या दानपारमिता॥
शीलपारमिता तु सुतरां चित्तमेवेत्यत आह-
मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान्।
लब्धे विरतिचित्ते तु शीलपारमिता मता॥११॥
प्राणातिपातादिसर्वावद्यविरतिचित्तमेव हि शीलम्, न पुनस्तदाश्रयभूतबाह्यविषयनिवृत्तिस्वभावम्। यदि पुनर्वधादिविषयवस्त्वभावेन तद्वधाद्यभावाच्छीलं स्यात्, तदा ते मत्स्यादयः क्व नीयन्तां यत्र तेषां दर्शनं न स्यात् ? अन्यथा तद्वधाद्युपक्रमे शीलं न स्यात्। न चैवम्। तस्मात्तेषु विद्यमानेष्वपि लब्धे विरतिचित्ते निवृत्तिमनसिकारे शीलपारमिता मता संमता तत्स्वभावविदाम्। तस्मात् सा चित्तमेव॥
क्षान्तिपारमितापि न चित्ताद्भिन्नेत्याह-
कियतो मारयिष्यामि दुर्जनान् गगनोपमान्।
मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः॥१२॥
परापकारादिसंभवेऽपि चित्तस्याकोपनता क्षान्तिः। अन्यथा यदि सर्वशत्रूणां तद्विनिपातनेन वैरनिर्यातनं कृतवतः केनचिद्वैराभावादुपशान्तवैरस्य न कश्चिदपकारी स्यात्। इति मर्षणं क्षान्तिः। तदा एतदशक्यानुष्ठानम्। शत्रवो हि गगनसमत्वादपर्यन्ताः। तेषां मारणमशक्यम्। तस्मात् क्रोधादिनिवृत्तिचित्तमेव तेषामुपायेन मारणमिव, तत्कृतापकारस्यागणनात्, जन्मान्तरवैरासंभवाच्च मारितप्रायास्ते॥
अत्र अशक्यतायामप्युपायेन प्रवृत्तौ दृष्टान्तोपदर्शनेन शक्यतामाह-
भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति।
उपानच्चर्ममात्रेण छन्ना भवति मेदिनी॥१३॥
कण्टकाद्युपघातरक्षणार्थं पृथ्वी छादयितुमुचिता। न चैतच्छक्यम्, तावतश्चर्मणोऽभावात्, भावेऽपि छादनस्याशक्यत्वात्। उपायेन पुनः शक्यम्। उपानहश्चर्मणा केवलेन सर्वा भूमिश्छादिता भवति॥
दृष्टान्तोक्तमर्थं प्रकृते योजयन्नाह-
बाह्या भावा मया तद्वच्छक्या वारयितुं न हि।
स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः॥१४॥
शत्रुप्रभृतयो भावा मया वारयितुमशक्याः। तद्वत् मेदिनीचर्मच्छादनवत् अपकारक्रियायाः। अतः स्वचित्तमेव शक्यं वारयिष्यामि। अन्यवारणस्यापार्थकत्वात्, स्वचित्तवारणादेव तत्सिद्धेः। तस्मात् सा चित्तमेव॥
वीर्यपारमिता तु कुशलोत्साहस्वभावा अतिविस्पष्टं चित्तमेवेत्याह-
सहापि वाक्शरीराभ्यां मन्दवृत्तेर्न तत्फलम्।
यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम्॥१५॥
वचनकायसहितस्यापि चित्तस्य कुशलपक्षे मन्दप्रचारस्य न तादृशं फलमुपजायते, यादृशं ध्यानादिविषये पटुप्रवृत्तेरेकाकिनोऽपि चित्तस्य फलं ब्रह्मभूयादिकम्। तस्मात् सा चित्तमेव॥
ध्यानं तु चित्तैकाग्रतालक्षणं चित्तादन्यथा वक्तुमशक्यमित्याह-
जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि।
अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित्॥१६॥
मन्त्राद्यावर्तनलक्षणा वचनव्यापारा जपाः। तपांसि च इन्द्रियदमनलक्षणाः कायिकाः। तानि अतिबहुकालमभ्यस्तान्यपि अन्यत्र सक्तचित्तेन मिद्धाद्युपहतचित्तेन वा। समानपाटवविकलेनेत्यर्थः। वृथैव निष्फलमेव, अत्यर्थकृशफलत्वात्, अभिमतार्थेऽनुपयोगाद्वा। पुत्रोऽप्यपुत्र एव, पुत्रकार्याकरणाद्यथा। इत्याह भगवान् सर्वज्ञः। तस्माद् ध्यानपारमितापि चित्तमेव॥
प्रज्ञा तु निर्विवादा चित्तमेवेत्याह-
दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे।
यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम्॥१७॥
पञ्चगतिसंसारजात्यादिदुःखं प्रहातुं तत्प्रहाणे निर्वाणसुखमधिगन्तुं ते सत्त्वा मुधा निरर्थका एव भ्रमन्ति अम्बरे कासीपुष्पमिव निष्फलं संसारे। यदनुष्ठितं क्वचिदपि न लग्नमिति तदेवममिधीयते पञ्चाग्निसेवाशिरोलुञ्चनादिव्रतम्। के पुनरेवं भ्रमन्ति ? यैः संसारभयभीरुभिः सुखार्थिभिश्च धर्मसर्वस्वं सर्वलौकिकलोकोत्तरकर्मनिदानभूतं चित्तं बालानामगोचरस्वभावतया गुह्यं न भावितं तत्त्वचित्ततया पुनः पुनः स्थिरीकृतम्। तस्मादियमतितरां चित्तमेव। यथोपवर्णितमार्यगण्डब्यूहे-
स्वचित्ताधिष्ठानं सर्वबोधिसत्त्वचर्या। स्वचित्ताधिष्ठानं सर्वसत्त्वपरिपाकविनयः। पेयालं। तस्य मम कुलपुत्र एवं भवति-स्वचित्तमेवोपस्तम्भयितव्यं सर्वकुशलमूलैः। स्वचित्तमेव परिस्यन्दयितव्यं धर्ममेघैः। स्वचित्तमेव परिशोधयितव्यमावरणीयधर्मेभ्यः। स्वचित्तमेव दृढीकर्तव्यं वीर्येण। इत्यादि॥
इति चित्तस्वभावतां सर्वत्र प्रतिपाद्य उपसंहरन्नाह-
तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम्।
चित्तरक्षाव्रतं मुक्त्त्वा बहुभिः किं मम व्रतैः॥१८॥
एवमुत्पादितबोधिचित्तेन शिक्षारक्षणे यत्नवता मनसि कर्तव्यम्-स्वधिष्ठितं स्मृत्या सुरक्षितं संप्रजन्येन वक्ष्यमाणरीत्या मया स्वचित्तं कर्तव्यं तदेकाग्रमानसेन। अत्रैव सर्वेषामन्तर्भावात्। अतश्चित्तरक्षणमेव प्रधानं व्रतम्। तद्विहाय किमन्यैर्व्रतैर्बहुभिरपि मम प्रयोजनम् ? न किंचित्। तद्रहितस्य निष्फलत्वात्। एतावती चेयं बोधिसत्त्वशिक्षा यदुत चित्तपरिकर्म। एतन्मूलत्वात् सर्वसत्त्वार्थानाम्। तद्यथा धर्मसंगीतिसूत्रे कीर्तितम्-
मतिविक्रमबोधिसत्त्व आह-योऽयं धर्मो धर्म इत्युच्यते, नायं धर्मो देशस्थो न प्रदेशस्थोऽन्यत्र स्वचित्ताधीनो धर्मः। तस्मान्मया स्वचित्तं स्वाराधितं स्वधिष्ठितं सुपरिजितं सुसमारब्धं सुनिगृहीतं कर्तव्यम्। तत्कस्य हेतोः ? यत्र चित्तं तत्र गुणदोषाः। तद्बोधिसत्त्वो दोषेभ्यश्चित्तं निवार्य गुणेषु प्रवर्तयति। तदुच्यते-चित्ताधीनो धर्मः, धर्माधीना बोधिरिति॥
एवं चित्तायत्ततां सर्वत्र निश्चित्य चित्तदृढतायामुदाहरणमाह-
यथा चपलमध्यस्थो रक्षति व्रणमादरात्।
एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा॥१९॥
असमाहितजनमध्ये पुनरुपघातभयात्तद्गतमनसा यथा व्रणं रक्षति कश्चिदप्रमत्तः, एवं तथा शिक्षारक्षणकामः अकारणवैरिबालजनमध्ये संवसन् तत्परश्चित्तं व्रणमिव रक्षेत् सर्वकालम्॥
यथाप्रसिद्धित इदमुदाहरणम्। न तु पुनर्मनागपि सादृश्यमस्तीत्याह-
व्रणदुःखलवाद्भीतो रक्षामि व्रणमादरात्।
संघातपर्वताघाताद्भीतश्चित्तव्रणं न किम्॥२०॥
ईषन्मात्रं दुःखं दुःखलवो व्रणकृतः। तस्माद्भीतो रक्षामि व्रणम्। प्रकृतानुरोधे रक्षतीति पाठो युक्तः। आदरात् तात्पर्येण। संघातनरकप्रभवादनेकवर्षसहस्रानुभूयमानदुःखात् पर्वताघातात्सर्वतो व्याप्तिप्रहारात् भीतः चित्तव्रणं न किं रक्षेदिति प्रकृतेन संबन्धः। यदि वा। अहं तु किं न रक्षामीति परिणामेन योजनीयम्। अथवा। एवमुत्पादितबोधिचित्तेन मनसा चिन्तयितव्यमित्यवतार्यते। तदा रक्षामीति॥
कः पुनरेवं सति गुणः स्यादित्याह-
अनेन हि विहारेण विहरन् दुर्जनेष्वपि।
प्रमदाजनमध्येऽपि यतिर्धीरो न खण्डयते॥२१॥
यस्मादेवंमनसिकारेण विचरन् वनिताजनमध्येऽपि प्रासादपृष्ठे अयमनिवार्योऽतिशयेन कामरागेषु। तेनेदमुक्तं यतिर्धीर इति। अस्मिन् मनसिकारे निध्यप्तचित्तः। न खण्डयते शिक्षारक्षणमनसिकारान्न स्खलति॥
पुनरेवं करणीयमित्यत्रार्थे दृढमभिनिवेशं दर्शयन्नाह-
लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम्।
नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन॥२२॥
चिवरपिण्डपातादयो नश्यन्तु, विलयं यान्तु मम कामं यथेष्टम्। सत्कारो गौरवेण आसनदानपादवन्दनादिपूजा। कायो जीवितं च सर्वमेतन्नश्यतु। अन्यदपि यत्किंचित् सुखसौमनस्यनिमित्तं तदपि नश्यतु। कुशलं पुनर्मम चित्तं मा कस्मिंश्चिदपि काले नङ्क्षीदिति॥
अत्र पुनरादरमुत्पादयितुं शास्त्रकार आह-
चित्तं रक्षितुकामानां मयैष क्रियतेऽञ्जलिः।
स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत॥२३॥
अञ्जलिं कृत्वा प्रार्थयामि। किमर्थम् ? स्मृतिं च संप्रजन्यं च। न केवलां स्मृतिम्, नापि केवलं संप्रजन्यमिति परस्परापेक्षया चकारद्वयम्। तत्र स्मृतिरार्यरत्नचूडसूत्रेऽभिहिता-
यया स्मृत्या सर्वक्लेशानां प्रादुर्भावो न भवति। यया स्मृत्या सर्वमारकर्मणामवतारं न ददाति। यया स्मृत्या उत्पथे कुमार्गे वा न पतति। यया स्मृत्या दौवारिकभूतया सर्वेषामकुशलानां चित्तचैतसिकानां धर्माणामवकाशं न ददाति, इयमुच्यते सम्यक्स्मृतिरिति॥
संक्षेपतः पुनरियं स्मृतिरुच्यते-विहितप्रतिषिद्धयोर्यथायोगं स्मरणं स्मृतिः। यच्चाहस्मृतिरालम्बनासंप्रमोष इति॥
संप्रजन्यं तु प्रज्ञापारमितायामुक्तम्-
चरंश्चरामीति प्रजानाति। स्थितः स्थितोऽस्मीति प्रजानाति। निषण्णो निषण्णोऽस्मीति प्रजानाति। शयानः शयितोऽस्मीति प्रजानाति। यथा यथास्य कायः स्थितो भवति तथा तथैनं प्रजानाति। पेयालं। सोऽतिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति। आलोकिते विलोकिते संमिञ्जिते प्रसारिते संघाटीपटपात्रचीवरधारणे अशिते पीते खादिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तूष्णीभावे प्रतिसंलयने संप्रजानचारी भवतीति॥
इदमेव वक्ष्यति-
एतदेव समासेन संप्रजन्यस्य लक्षणम्।
यत्कायचित्तोवक्षायाः प्रत्यवेक्षा मुहुर्मुहुः॥इति॥
कः पुनरनयोर्व्यतिरेके दोषः, येनैते यत्नेन रक्षणीये कथिते इत्याह-
व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु।
तथाभ्यां विकलं चित्तं न क्षमं सर्वकर्मसु॥२४॥
रोगोपहतसामर्थ्यो यथा पुरुषः सर्वकर्मसु गमनभोजनादिषु अकर्मण्यो भवति, तथा स्मृतिसंप्रजन्याभ्यां विकलं चित्तं सर्वकर्मसु ध्यानाध्ययनादिलक्षणेषु॥
अनयोः समुदायाभावे दोषमुक्त्वा प्रत्येकमभावे कथयितुमाह-
असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम्।
सच्छिद्रकुम्भजलवन्न स्मृताववतिष्ठते॥२५॥
न विद्यते संप्रजन्यं यस्मिंस्तदसंप्रजन्यम्। तच्चित्तं यस्य तस्य। श्रुतचिन्ताभावनामयप्रज्ञापरिनिष्ठितं वस्तु न स्मरणमधिवसति। तन्मूलं च सर्वं कल्याणम्। किमिव ? यथा सच्छिद्रकुम्भे मुखनिक्शिप्तमुदकमधस्ताद्गच्छति नावतिष्ठते॥
इदमपरं तद्वयतिरेके दूषणमाह-
अनेके श्रुतवन्तोऽपि श्राद्धा यत्नपरा अपि।
असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः॥२६॥
बहवोऽपि बहुश्रुताः तथा श्रद्धावन्तो यत्नपराः शिक्षायामादरकारिणः असंप्रजन्यदोषेण आपत्तिकलुषिता भवन्ति कायचित्तप्रचाराप्रत्यवेक्षणात्॥
अपरमपि तदभावे दूषणमाह-
असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा।
उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम्॥२७॥
असंप्रजन्यमेव संप्रजन्याभावः क्लेशस्वभावश्चौरः कुशलधनापहरणात्। तेन स्मृतिमोषानुसारिणा रक्षपालभूतायाः स्मृतेः प्रमोषमभावमनुसृत्य मुषिता विलुप्तकुशलधनाः सन्तः उपचित्यापि पुण्यानि, कुशलधनानां संचयं कृत्वापि, दुर्गतिपरायणा भवन्ति॥
कुतः पुनरेवमिति उक्तमेवार्थं स्पष्टयन्नाह-
क्लेशतस्करसंघोऽयमवतारगवेषकः।
प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम्॥२८॥
तस्कराश्चौराः तेषां संघातः अवतारगवेषकः पिशाचवदवतारमार्गप्रेक्षी। छिद्रान्वेषणतत्पर इत्यर्थः। प्राप्यावतारं प्रवेशमार्गमासाद्य मुष्णाति। ततो हन्ति शोभनगतये जीवितप्रतिलम्भं कुशलपाथेयाभावात्॥
स्मृतिमधिकृत्याधुना प्राह-
तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन।
गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम्॥२९॥
यतः स्मृतेरभावे दूषणमेवं स्यात्, तस्मादिदमत्र दोषं पश्यता स्मृतिरालबम्नासंप्रमोषलक्षणा मनोद्वारात् मनोगृहप्रवेशमार्गात् नापनेया नापसार्या। सदा अवस्थापयितव्येत्यर्थः। अथ कदाचित् प्रमादतस्ततोऽपगच्छेत्, तदा गतापि पुनर्निर्वर्त्योपस्थाप्या तत्रैवारोपयितव्या। कथम् ? संस्मृत्य मनसि निधाय आपायिकीं नरकादिदुर्गतिव्यथाम्॥
तत्र द्वादशेमाः स्मृतयो निष्फलस्पन्दवर्जनार्थं तथागताज्ञानतिक्रमानुपालनविपाकगौरवस्मृतिप्रभृतयः शिक्षासमुच्चये प्रदर्शिताः, तत एव विवेकेनावधार्याः॥
सापि स्मृतिस्तीब्रादरात्समुत्पद्यते। आदरोऽपि शमथमाहात्म्यमवगम्य आतापेन जायते। एतच्च यथावसरं वक्ष्यामः॥
केषांचित् पुनरन्यथापि स्मृतिरुत्पद्यते। तदुपदर्शयन्नाह-
उपाध्यायानुशासन्या भीत्याप्यादरकारिणाम्।
धन्यानां गुरुसंवासात्सुकरं जायते स्मृतिः॥३०॥
आचार्योपाध्यायसंनिधौ तदन्यतमाराध्यब्रह्मचारिसंनिधौ वा संवसतां तदनुशासन्या, भीत्य तद्भयेनापि आदरः कार्येषु सर्वभावेनाभिमुख्यम्, अवज्ञाप्रतिपक्षो धर्मः। तत्कारिणां यत्नवतां सुकृतिनां तदनुशासनीं हिताहितविधिप्रतिषेधनियममनुगृह्णतामकृच्छ्रेणैव स्मृतिरुत्पद्यते॥
इत्थमपि विहरन् स्मृतिमनसिकारबहुलविहारी भवतीति कारिकाद्वयेन दर्शयन्नाह-
बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः।
सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः॥३१॥
इति ध्यात्वा तथा तिष्ठेत् त्रपादरभयान्वितः।
बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः॥३२॥
सर्वदा बुद्धबोधिसत्त्वानां समस्तवस्तुविषयाप्रतिहतज्ञानचक्षुषां सर्वमेव वस्तुजातं पुरतोऽवस्थितमेव। अहमपि तेषां पुरोऽवस्थित एव, सर्ववस्तुवत्। इति मनसि निधाय तथैव संयतात्मा तिष्ठेत्। त्रपादरभयान्वितः। अप्रतिरूपे कर्मणि त्रपा लज्जा। शिक्षायामादरः, तदतिक्रमे भयम्। बुद्धबोधिसत्त्वेष्वेव वा त्रपादयः। एवं सति अपरोऽपि विशेषः स्यादित्याह-बुद्धेत्यादि। तदेवं विहरतस्तस्य प्रतिक्षणमकामत एव बुद्धानुस्मृतिः स्यात्॥
संप्रजन्यस्य उत्पत्तिस्थैर्ययोः स्मृतिरेव कारणमिति कथयन्नाह-
संप्रजन्यं तदायाति न च यात्यागतं पुनः।
स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते॥३३॥
यदा स्मृतिर्मनोगृहद्वारि क्लेशतस्करसंघातानुप्रवेशनिवारिणी दौवारिकवदवस्थिता भवति, तदा संप्रजन्यमयत्नत एवोत्पद्यते, उत्पन्नं च सत् स्थिरीभवति॥
एवं तावदनयोरन्वयव्यतिरेकाभ्यां गुणदोषावभिधाय अनर्थविवर्जनार्थं निष्फलस्पन्दवर्जनमाह-
पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम्।
निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा॥३४॥
प्रथमं तावत् इदं चित्तमित्यध्यात्मनि चिन्तयति-सर्वकालमीदृशमुक्तक्रमयुक्तमुपस्थापयितव्यम्। ततः परं निष्फलस्पन्दवर्जनार्थमपगतकरणग्रामेणेव निष्फलरूपादिविषयग्रहणसर्वविकल्पोपसंहारात् मया स्थातव्यम्। किमिव ? काष्ठवत्, चक्षुरादिव्यापारशून्यत्वात्॥
इदमेव व्यनक्ति-
निष्फला नेत्रविक्षेपा न कर्तव्याः कदाचन।
निध्यायन्तीव सततं कार्या दृष्टिरधोगता॥३५॥
ईषन्मुकुलितपक्ष्मयुगला नासाग्रविनिवेशिता युगमात्रव्यवलोकिनी वा कार्या दृष्टिः॥
प्रथमारम्भिणः संतताभ्यासेन क्लेशस्य परिहारार्थमाह-
दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन।
आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत्॥३६॥
दृष्टिचित्तपरिखेदपरित्यागाय कदाचित् कर्हिचित् दिशो व्यवलोकयेत्। अथ कदाचित् कश्चित् तत्समीपमागच्छेत्, तदा तस्य प्रतिच्छायामात्रं विदित्वा स्वागतवादेन संतोषणार्थं विलोकयेत्। अन्यथा तत्र तस्य अवध्यानेन अकुशलं प्रसवेत्॥
मार्गेऽपि तथादृष्टेर्गच्छत उपघातपरिहारार्थमाह-
मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम्।
दिशो विश्रम्य वीक्षेत परावृत्यैव पृष्ठतः॥३७॥
भयहेतुचौरादिप्रतिपत्त्यर्थं चतुर्दिशमिति क्रमेण। अन्यथा आत्मभावस्य रक्षा कृता न स्यात्। सर्वदिग्व्यवलोकनं तु क्रियमाणमौद्धत्योपघातपरिहारार्थं स्थित्वा कर्तव्यम्। पृष्ठतो व्यवलोकनं परावृत्य पश्चान्मुखीभूय॥
असमाधानस्य च रक्षणामाह-
सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च।
एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत्॥३८॥
सरेत्पुरः अपसरेत्पश्चात्। प्रपाताद्युपघातं निरीक्ष्य च। एवमित्युक्तक्रमदिशा स्वपरहितप्रयोजनमवगम्य प्रतिपत्तिसारो भवेत्॥
इदानीं संप्रजन्यकारितां शिक्षयितुमाह-
कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः।
कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा॥३९॥
चतुर्णामीर्यापथानामन्यतमस्मिन्नीर्यापथे। कायेनैवमिति स्थितेन निषण्णेन वा अवस्थेयमिति। तदनन्तरं स्वाध्यायादिक्रियामारभ्य पुनरन्तराले व्यवलोकितव्यं कथं कायः स्थित इति तस्मिन्नेवेर्यापथे, उत भिन्ने ईर्यापथे। भिन्ने पुनः पूर्ववदवस्थाप्यः॥
कायप्रत्यवेक्षामभिधाय चित्तप्रत्यवेक्षणामाह-
निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा।
धर्मचिन्तामहास्तम्भे यथा वद्धो न मुच्यते॥४०॥
धर्मस्य स्वपरहितलक्षणस्य चिन्तैव महास्तम्भो वन्धनायत्तीकरणहेतुत्वात्॥
तस्मिन् बद्धोऽपि पुनः पुनर्निरूपणीय इत्याह-
कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः।
समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा॥४१॥
क्व पुनरिदं मनो मम वर्तते, पूर्वस्मिन्नालम्बने अन्यत्र वा गतम्। गतमवगम्य ततो निर्वत्य तत्रैव योजयितव्यम्। स्वरसवाहितायामुपेक्षणीयम्। इति शमथधुरमेकमपि क्षणं यथा न परित्यजति तथा धारयितव्यम्। एतावता शीलं हि समाधिसंवर्तनीममित्युक्तं भवति। यथोक्तं चन्द्रप्रदीपसूत्रे-
क्षिप्रं समाधिं लभते निरङ्गणं
विशुद्धशीलस्यिमि आनुशंसाः॥ इति।
[समाधि. २७.]
अतोऽवगम्यते-ये केचित् समाधिहेतवः प्रयोगाः, ते शीलेऽनुगता इति। तस्मात् समाध्यर्थिना स्मृतिसंप्रजन्यशीलेन भवितव्यम्। तथा शीलार्थिनापि समाधौ यत्नः कार्य इति॥
समाधानपरित्यागावकाशमाह-
भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम्।
दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम्॥४२॥
अग्निदाहादि भयम्। तथा रत्नत्रयपूजादिकृत उत्सवः। समधिकतरः सत्त्वार्थादिर्वा। तत्संभवे यदि स्थातुमशक्तः, तदा कामचार इत्यनुज्ञातम्। सापत्तिको न भवतीत्यर्थः। कुतः पुनरयमनियमो लभ्यत इत्याह-दानेत्यादि। शीलं यद्यपि दानात्प्रकृष्टम्, तथापि अवरशिक्षायां शिक्षमाणस्य तदनन्तरमेव उत्तरशिक्षावस्थितस्य अभ्यासपाटवाभावात् कथंचित् तावत्कालं ततो निवर्तमानस्यापि नापत्तिः। दानस्यासौ कालो न शीलस्य। अत एवोक्तम्-यद्यशक्त इति। एतावन्मात्रेणेदमुदाहरणम्। यथोक्तम्-तत्रैकस्यां शिक्षायां निष्पाद्यमानायामशक्तस्य इतरशिक्षानभ्यासादनापत्तिः। आर्याक्षयमतिसूत्रेऽप्येवमवोचत्-
दानकाले शीलोपसंहारस्योपेक्षा। इति। न चातः शिथिलेन भवितव्यम्॥
यत्र कुशलपक्षसंचारेऽपि क्वचित् समाधानविघातः स्यात्, तन्नोपादेयमित्याह-
यद् बुद्ध्वा कर्तुमारब्धं ततोऽन्यन्न विचिन्तयेत्।
तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना॥४३॥
स्वयमेव तु युक्त्यागमाभ्यां कल्याणमित्रवचनाद्वा यथाबलमवधार्य यत्किंचित्कर्म कर्तुमारब्धं ध्यानाध्ययनादिकम्, प्रथमतस्तदेव तावन्निष्पत्तिं नेयं तन्निम्नेन चेतसा, न पुनस्तदनिष्पन्नमेव परित्यज्य परमारम्भणीयम्॥
किं पुनरेवं स्याद्यदि न स्यादित्याह-
एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत्।
असंप्रजन्यक्लेशोऽपि वृद्धिं चैवं गमिष्यति॥४४॥
यस्मादेवमनुतिष्ठतः सर्वं सुश्लिष्टं कृतं स्यात्। तद्विपर्यये पुनर्दुःश्लिष्टमुभयं पूर्वं चात्तं पश्चात् स्वीकृतं च स्यात्। चलप्रवृत्तेरसंप्रजन्यं स्यात्। प्रवेशे वृद्धिः स्यात्॥
इत्थमपि निष्फलं वर्जयेदित्याह-
नानाविधप्रलापेषु वर्तमानेष्वनेकधा।
कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम्॥४५॥
अनेकप्रकारेऽसंबद्धाभिधानेऽपरोपाधिके प्रवर्तमाने आश्चर्यवस्तुषु च समस्तेषु स्वयमपि तत्क्रियायां दर्शनश्रवणाय वाकूचित्तस्य तारतम्यं निवारयेत्॥
अपरमपि निष्फलवर्जनाय प्रातिमोक्षोद्दिष्टमाचरेत् इत्याह-
मृन्मर्दनतॄणच्छेदरेखाद्यफलमागतम्।
स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत्॥४६॥
भूमिफलकादिषु नखदण्डादिना रेखाकर्षणलेखनादि निष्प्रयोजनमागतमापतितं विवर्जयेत् भगवता अत्र निवृत्तिराज्ञप्तेति संस्मृत्य, तदतिक्रमविपाकफलभयात्। तत्क्षणमिति न तत्र कालपरिलम्भं कुर्यात्॥
संक्लेशसमुदाचारे संप्रजन्यकारितां यदेत्यादिभिः सप्तभिः श्लोकैः शिक्षयितुमाह-
यदा चलितुकामः स्याद्वक्तुकामोऽपि वा भवेत्।
स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत्॥४७॥
प्रथमत एव स्वचित्तं निरूप्य। उक्तम् (?) असंक्लिष्टावस्थायां करणीयमुक्तम्॥
एतदेव दर्शयति-
अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः।
न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा॥४८॥
रक्तं द्विष्टं वा स्वचित्तं यदा पश्येत्, तदा हस्तपादादिचलनमात्रमपि न कर्तव्यम्, नापि वचनोदीरणम्। अन्यथा तदुत्थापिते कायवाग्विज्ञप्ती अपि संक्लिष्टे स्याताम्। अतो बहिरिन्द्रियव्यापारविकल्पावुपसंहृत्य स्थातव्यं काष्ठवत्तदा। सर्वव्यापारविरहान्निर्व्यापाराः सर्वधर्मा इति मनसि निधाय॥
अपरमाह-
उद्धतं सोपहासं वा यदा मानमदान्वितम्।
सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत्॥४९॥
उद्धतमिति। सद्धर्मादिश्रवणप्रमादादपि उद्धतम्। विक्षेपबहुलमित्यर्थः। सोपहासं वाग्विहेठनारम्भकम्, तया युक्तं वा। मानश्चित्तस्योन्नतिः। मदः स्वधर्मे (?) चित्तस्याभिनिवेशः। ताभ्यामन्वितं तत्संप्रयुक्तम्। उत्प्रासः कायिकी विहेठना, तेन सहोत्कटम्। वक्रं कुटिलं शठं वा। वञ्चकं प्रतारकं मायावि वा। यदि मनो भवेत्, स्थातव्यं काष्ठवत्तदेति संबन्धः॥
यदात्मोत्कर्षणाभासं परपंसनमेव वा।
साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा॥५०॥
आत्मोत्कर्षणं स्वगुणातिशयप्रकाशनम्। तदाभासं तत्प्रतिभासं तद्विकल्पनात्। परपंसनं परविग्रहः दोषाविष्करणं वा, तद्युक्तम्। अधिक्षेपः परस्य वचनतिरस्कारः। संरम्भः सदाकलिविवादनिमित्तचित्तप्रदोषः। उभयत्र सह तेन वर्तत इति विग्रहः। एवं यदा पश्येत्स्वकं मनः, स्थातव्यं काष्ठवत् तदेति सामान्योक्तमभिसंबध्यते॥
लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः।
उपस्थानार्थि मे चित्तं तस्मात्तिष्ठामि काष्ठवत्॥५१॥
कीर्तिर्यशः। परिवारः दासीदासकर्मकरादिः। उपस्थानं पादधावनमर्दनादि। एभिरर्थि तदभिलाषं मम चित्तम्। तस्मात्तिष्ठामि काष्ठवत्॥
परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा।
वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत्॥५२॥
परार्थरूक्षं परार्थविमुखम्। स्वार्थार्थि स्वार्थाभिनिविष्टम्। परिषत् शिष्यान्तेवासिप्रभृतिजनसमाजः। तदभिलाषि तत्परिवारार्थि॥
असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा।
स्वपक्षाभिनिविष्टं च तस्मात्तिष्ठामि काष्ठवत्॥५३॥
असहिष्णु असहनशीलम्। अलसं क्रियासु अकर्मण्यम्। कुसीदमित्यर्थः। भीतं कायजीवितभीरु भयहेतुभ्यो वा। प्रगल्भं धृष्टम्। मुखरं दुर्वचस्कम्, युक्तायुक्तमनपेक्ष्य अभिधायकं वा। स्वपक्षेः शिष्यान्तेवासिज्ञातिसालोहितादौ अभिनिविष्टं पक्षपातातिशयवत्॥
सांप्रतं प्रतिकारनिर्देशमाह-
एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः।
निगृह्णीयाद् दृढं शूरः प्रतिपक्षेण तत्सदा॥५४॥
उपदर्शितक्रमेण संक्लिष्टं संक्लेशसंप्रयुक्तं निष्फलव्यापारं वा ज्ञात्वा स्वचित्तं सर्वप्रवृत्तिनिगेधेन प्रभावमन्दतां विधाय निगृह्णीयादभिभवेत्। दृढं यथा पुनरपि समुदाचारधर्मकं न भवति। क्लेशादिसंग्रामे विजयाय कृतपरिकरः शुरो बोधिसत्त्वः। प्रतिपक्षेण यो यस्मिन् प्रतिपक्ष उक्तः यथा रागादावशुभादि, तेन तद्विपरीतविधानेनेत्यर्थः। सदा सर्वकालम्, यदा यदा संक्लिष्टं प्रतीयते। उग्रपरिपृच्छायां गृहिणं बोधिसत्त्वमधिकृत्योक्तम्-
तेन सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतेन भवितव्यम्, अमत्तेन अनुन्मत्तेन अचपलेन अचञ्चलेन अभ्रान्तेन अमुखरेण अनुन्नतेन उपस्थितस्मृतिनाससंप्रजन्येन। इति॥
अत्रैव च प्रव्रजितं बोधिसत्त्वमधिकृत्योक्तम्-स्मृति संप्रजन्यस्याविक्षेपः। इति॥
तथा आर्यतथागतगुह्यसूत्रे दर्शितम्-
न खलु पुनः कुलपुत्र बोधिसत्त्वस्य वाग् रक्ता वा दुष्टा वा मूढा वा क्लिष्टा वा क्षणव्याकरणी वा स्वपक्षोत्कर्षणवचना वा परपक्षनिग्रहवचना वा आत्मवर्णानुनयवचना वा परवर्णप्रतिघातवचना वा प्रतिज्ञोत्तारणवचना वा आभिमानिकव्याकरणवचना वेति॥
एवं निष्फलस्पन्दवर्जनेन अनर्थादात्मभावस्य रक्षा प्रतिपादिता भवति। तस्मान्मया शीलसुस्थितेन अप्रकम्पेन अशिथिलेन भवितव्यमिति॥
एतच्च समाहितचित्तस्य सिध्यति। अत इदं शमथमाहात्म्यमवगम्य तात्पर्येण भावयितव्यम्। अनेन तीव्र आदरो भवति शिक्शासु। तेनापि स्मृतिरुपतिष्ठते। उपस्थितस्मृतिर्निष्फलं वर्जयति। तस्य अनर्था न संभवन्ति। तस्मादात्मभावं रक्षितुकामेन स्मृतिमूलमन्विष्य नित्यमुपस्थितस्मृतिना भवितव्यम्। एतदेवाह-
तत्रात्मभावे का रक्षा यदनर्थविवर्जनम्।
केन तल्लभ्यते सर्वे निष्फलस्पन्दवर्जनात्॥
एतत्सिध्येत्सदा स्मृत्या स्मृतिस्तीव्रादराद्भवेत्।
आदरः शममाहात्म्यं ज्ञात्वातापेन जायते॥इति।
[शिक्षा. स. कारिका-७-८]
शमथमाहात्म्यं तु यथावसरमिहैव कथयिष्यते॥
अयमत्र पिण्डार्थः अनर्थविवर्जनार्थमवधारयितव्य इति वृत्तत्रितयेनोपदर्शयन्नाह-
सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम्।
सलज्जं सभयं शान्तं पराराधनतत्परम्॥५५॥
परस्परविरुद्धाभिर्बालेच्छाभिरखेदितम्।
क्लेशोत्पादादिदं ह्येतदेषामिति दयान्वितम्॥५६॥
आत्मसत्त्ववशं नित्यमनवद्येषु वस्तुषु।
निर्माणमिव निर्मानं धारयाम्येष मानसम्॥५७॥
सुनिश्चितं संदेहविपर्यासरहितम्। सुप्रसन्नं सदा प्रीतिसौमनस्यबहुलम्। धीरमचञ्चलम्। आदरः कथित एव। गौरवं आराध्येषु चित्तस्य नम्रता। ताभ्यां सह वर्तते। सलज्जं पूर्ववत्। सभयं स्खलित[मालोक्य] भीतम्। शान्तं संयतेन्द्रियम्। सत्त्वाराधनयत्नवत्॥
यदेकस्य रुचिजनकं तदन्यस्य विपरीतम्। अन्योन्यविरुद्धाभिः पृथग्जनेच्छाभिरखेदितमविप्रतिसारि। कथम् ? दयान्वितम्। हेतुपदमेतत्। कुतः ? यस्मात् क्लेशोत्पादान्न स्वातन्त्र्यादिदमेतत् परस्परविरुद्धचरितमेषां बालानामिति मत्वा॥
आत्मसत्त्ववशं स्वपरायत्तं सर्वकालम्। किं सर्वत्र ? न। अनवद्येषु वस्तुषु उभयसावद्यशून्येषु। किंवत् ? निर्माणमिव निर्मितवत्। विगतमानं मानसं धारयामि। एषोऽहमिति बोधिसत्त्वो मनसि निवेशयेत्॥
अस्मादपि संवेगमनसिकाराच्चित्तस्यानर्थविवर्जनेन रक्षा विधातव्येत्याह-
चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः।
धारयामीदृशं चित्तमप्रकम्प्यं सुमेरुवत्॥५८॥
अतिचिरेण कालेन लब्धम् उक्तं क्षणवरं स्मरणेन चेतसि कृत्वा पुनः पुनरन्तरं स्थिरीकरोमि ईदृशमुक्तस्वभावम्। अप्रकम्प्यं कम्पयितुमशक्यं कामादिवितर्कपवनैः पर्वतराजवत्॥
एवमेताभ्यां शीलसमाधिभ्यामन्योन्यसंवर्धकाभ्यां चित्तकर्मपरिनिष्पत्तिः। तस्मादवस्थितमेतत्-चित्तपरिकर्मैव बोधिसत्त्वशिक्षा इति। तेन यदुक्तम्-
चित्तरक्षाव्रतं मुक्त्वा बहुभिः किं मम व्रतैः।
[बोधि. ५.१८]
इति, तत् परिनिष्ठितम्॥
पुनस्तदेकान्तमवधारयितुं कायप्रत्यवेक्षामाह-
गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः।
न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम्॥५९॥
कायस्य सर्वथा क्वचिदपि व्यापारो नास्ति, स्वात्मन्यपि सामर्थ्याभावात्। अन्यथा चित्तरहितो मृतस्य कायः । गृध्रादिभिर्विप्रलुज्यमान इतस्ततः प्रतिकारमात्मरक्षणार्थं किमिति न करोतीति पृच्छति सर्वसामर्थ्यविकलत्वात्। अत एव चित्तपरिकर्मैव साध्यम्। तस्मिन् परिकर्मिते कायस्य अयत्नत एव परिकर्मसिद्धेः, तत्परतन्त्रत्वात्तस्येत्युक्तं भवति॥
एवं सर्वथानुपयोगिनि काये सापेक्षतां निरस्यन्नाह-
रक्षसीमं मनः कस्मादात्मीकृत्य समुच्छ्रयम्।
त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः॥६०॥
हे मनः, अनात्मकमेव आत्मत्वेन स्वीकृत्य मांसास्थिपुञ्जं कायसंज्ञकं कस्मात्कारणात् त्वं रक्षसि ? किमेवमिति चेत्, भवतो यदि भिन्न एवायं कायः, तेन अस्यापचये तव किमपचीयते ?
पूर्वमेव चिरं स्वीकृत इति चेदाह-
न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम्।
अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम्॥६१॥
हे मूढ, मोहविजृम्भितमेतद् भवतः। शुचिं पवित्रम्। अयं च अशुचिः। इदमेवाह-अमेध्येति। पूतिकं शतनधर्मकम्॥
स्यादेतत्-किमन्यस्मिन्नसन्नपि दोष उच्यते इत्यत्राह-
इमं चर्मपुटं तावत्स्वबुद्धयैव पृथक्कुरु।
अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय॥६२॥
अस्थीन्यपि पृथक्कृत्वा पश्य मज्जानमन्ततः।
किमत्र सारमस्तीति स्वयमेव विचारय॥६३॥
चर्ममयं पुटम्। स्वमतिविशेषेण पृथक् कुरु स्वकायादपसारय। अस्थिघटितपञ्जराद् यन्त्रात् प्रज्ञात्मकेन शस्त्रेण मांसकर्तनेन। तदनन्तरमस्थीन्यपि खण्डशः पृथग् भिन्नानि कृत्वा मज्जानं पश्य अवलोकय। यदि अन्तरं कायः चतुर्महाभूतिकः मातपित्रशुचिकललसंभूतः दुःखमयः कृतघ्नश्चेति विस्तरेण प्रतिपादयिष्यतीति किमत्र सारमस्ति विज्ञप्रशस्तं न्याय्यं वा, इत्यात्मनैव विचारय॥
एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते।
अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि॥६४॥
एवं कथितनयेन। साधूक्तमिति चेत्, अधुना वद कस्मात् त्वमद्यापि सर्वगुणविकलमपि कायं रक्षसि ? एवं विद्वानपि॥
तथापि अस्ति किंचिदत्रोपादेयमिति चेदाह-
न खादितव्यमशुचि त्वया पेयं न शोणितम्।
नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि॥६५॥
यदस्ति, न तदुपयुक्तमिति संक्षेपार्थः। अतः किमनुपयोगिना कायेन करिष्यसि ? अत्र आसङ्गो न युक्त इत्यर्थः॥
अन्यप्रयोजनाभावादिदमेवोचितमुत्पश्यामः इत्याह-
युक्तं गृध्रशृगालादेराहारार्थं तु रक्षितुम्।
कर्मोपकरणं त्वेतन्मनुष्याणां शरीरकम्॥६६॥
यस्मात् कर्मणि केनचित् सहकारिभावेनोपयुज्यते इति रक्ष्यते॥
तथापि नात्राभिनिवेशः कार्य इत्याह-
एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः।
कायं दास्यति गृध्रेभ्यस्तदा त्वं किं करिष्यसि॥६७॥
आच्छिद्येति बलात्। भवतो गृहीत्वा निष्कृपो मृत्युस्तव कायं गृध्रेभ्यो दास्यति, तदापि न कश्चित्प्रतिकारो भविष्यति इत्यभिप्रायः॥
स्यादेतत्-यद्यपि एवम्, तथापि भक्ताच्छादनमात्रेणापि परिपालनीय इत्यत्राह-
न स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते।
कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम्॥६८॥
यदि नाम भृत्यकर्मकरणं तथापि तत्रानवस्थायिस्वभावे विचक्षणो ज्ञात्वैव प्रवर्तते, एवं प्रकृतेऽपि तद्धर्मिणि केनाभिप्रायेण हे मनः, त्वं कुरुषे व्ययमुपकरणोपक्षयम् ? तत् किं सर्वथैव निरवकाशोऽयं कर्तव्यः ? नेत्याह-
दत्वास्मै वेतनं तस्मात्स्वार्थं कुरु मनोऽधुना।
न हि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते॥६९॥
वेतनं कर्ममूल्यम्। तावन्मात्रं दत्वा अस्मै गत्वरशरीराय, कर्मोपकरणत्वात्, स्वप्रयोजनमनुविधेयं हे मनः। अनेनैवोपार्जितं कस्मादस्मै न दीयते इति चेत्, न हि यस्मात् यत्किंचित् कर्मकरेणोपात्तं सर्वं तस्मै कर्मकराय प्रदीयते इति न्यायोऽस्ति॥
तस्मादेवमुपस्तम्भमात्रं दत्वा-
काये नौबुद्धिमाधाय गत्यागमननिश्रयात्।
यथाकामंगमं कायं कुरु सत्त्वार्थसिद्धये॥७०॥
काये नौबुद्धिं कृत्वा प्रवृत्तिनिवृत्तिहेतोः इच्छायत्तं कायं कुरु सत्त्वार्थानुष्ठानाय निष्पत्तये वा। हे मनः इति प्रकृतमभिसंबध्यते॥
इति कायप्रत्यवेक्षया तत्स्वभावमुपयोगं च विचार्य परिनिश्चितकायप्रयोजनमुपसंहरन्नाह-
एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत्।
त्यजेद् भृकुटिसंकोचं पूर्वाभाषी जगत्सुहृत्॥७१॥
उक्तनीत्या आयत्तीकृतः आत्मा चित्तकायलक्षणः। सर्वदा प्रसन्नवदनो भवेत्। भ्रूललाटसंकोचं च प्रसादहानिकरं त्यजेत्। पूर्वमेव असंचोदित एव परेण स्वागतादिवादैः संतोषणशीलो भवेत्। सर्वसत्त्वानामकारणबान्धवश्च॥
इत्यपि शिक्षा अनर्थवर्जनाय कार्येत्याह-
सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत्।
नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा॥७२॥
सहसा त्वरितमेव निष्प्रयोजनं हस्तदण्डादिना कपाटं च नाकोटयेत्। संक्षेपतः निःशब्दाभिरतिर्भवेत्॥
कः एवं सति गुणः स्यादित्याह-
बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन्।
प्राप्नोत्यभिमतं कार्यमेवं नित्यं यतिश्चरेत्॥७३॥
एते सर्वे निःशब्दा अनुद्धताश्च विहरन्तो विवक्षितमर्थं लभन्ते। व्रतिनापि तथैव समाधानकण्टकपरिहारेण विहर्तव्यम्॥
इत्यपि शिक्षितव्यमित्याह-
परचोदनदक्षाणामनधीष्टोपकारिणाम्।
प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत्॥७४॥
कौकृत्यविनोदनाववादानुशासनीसमर्थानां विनयादिकोविदानाम् अप्रार्थितहितैषिणां हितविधायकं वचनं मूर्ध्ना गृह्णीयात्। न तेषु स्वचित्तं दूषयितव्यम्, नाप्यवमानना कार्येति भावः। सर्वसत्त्वेषु गुरुगौरवधिया समाचरितव्यमिति सर्वं सर्वेभ्यः शिक्षेत्॥
ईर्ष्यामलप्रक्षालनामाह-
सुभाषितेषु सर्वेषु साधुकारमुदीरयेत्।
पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत्॥७५॥
परकीयगुणवर्धनवचनेषु तत्परितोषणाय साधु साधु, भद्रकमिदम्, इति शब्दमध्याशयेनोच्चारयेत्। कुशलकर्मकारिणमपि दृष्ट्वा साधु कृतम्, धन्यो भवान् सुकृतकर्मकारी, इत्यादिभिः स्तुतिवचनैः प्रोत्साहयेत्॥
लपनाशङ्कां निरस्यन्नाह-
परोक्षं च गुणान् ब्रूयादनुब्रूयाच्च तोषतः।
स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम्॥७६॥
परगुणान् सद्भूतानपि परोक्षं ब्रूयान्न समक्षम्। अन्यथा लपनां कश्चिन्मन्येत। परेण तु तत्समक्षमन्यस्य गुणे भाष्यमाणे तदनुवादकतया समक्षमपि ब्रूयात्। अन्यथा नास्य रूचिरत्रेति मत्वा स्वचित्तं प्रदूषयेत् परः। स्वगुणे पुनः केनचिद् गुणपक्षपातिना प्रसन्नेन समक्षं परोक्षं च कीर्त्यमाने चित्तस्योन्नतिं निवारयंस्तस्यैव गुणाभिधायकस्य गुणानुरागितां मनसि कुर्यात्॥
परगुणामर्षणं वारयन्नाह-
सर्वारम्भा हि तुष्टयर्थाः सा वित्तैरपि दुर्लभा।
भोक्ष्ये तुष्टिसुखं तस्मात्परश्रमकृतैर्गुणैः॥७७॥
सर्वेषां हीनमध्योत्कृष्टानां सत्त्वानाम्। सर्वे वा उपक्रमाः दुःखपरिहारेण तुष्टयर्थाः। सर्वारम्भपरिश्रमेण तुष्टिरेवोत्पादयितव्येत्यर्थः। सा च तुष्टिर्धनविसर्गैरपि दुर्लभा, स्याद्वा न वेति। इह पुनरयत्नसिद्धोपस्थिता कस्मात्परिहीयत इति मत्वा भोक्ष्ये अनुभविष्यामि संतोषसुखम् अन्ययत्ननिष्पादितैर्गुणैरुपनामितम्। न हि प्रियपुत्रगुणैरक्षमायुक्ता। इति भावनया परगुणश्रवणाच्चित्तकार्कश्यमपकुर्यात्॥
अत्रैवोपचयमाह-
न चात्र मे व्ययः कश्चित्परत्र च महत्सुखम्।
अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च॥७८॥
नैव अस्मिन्नर्थे प्रवृत्तिमतो मम इहलोके वा उपक्षयलेशोऽपि संभवति। उपचयः पुनर्विद्यत एवेति दर्शयति-परत्र महत्सुखं परगुणाभिनन्दनात्। एवमक्रियमाणे पुनरपचयो दृश्यते, उभयलोकेऽपि दुःखं परगुणासहनात्॥
तस्मात् सर्वकल्मषपरित्यागेन इयमुचिता कर्मकारिता शिक्सणीयेत्याह-
विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम्।
श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत्॥७९॥
सर्वावद्यविनिर्मुक्तत्वाद्विश्चस्तम्। आनुपूर्व्या व्यवस्थितपदम्। असंदिग्धार्थम्। मनःप्रह्लादनकरम्। श्रवणाप्यायकम्। करुणारसनिष्यन्दभूतं न रागादिनिदानम्। मृदुस्वरमकर्कशवचनम्। मन्दस्वरं यावता ध्वनिना प्रतिपाद्यस्य प्रतीतिः स्यात्, न ततो न्यूनं नातिरिक्तमुदीरयन्।
ऋजु पश्येत्सदा सत्त्वांश्चक्षुषा संपिबन्निव।
एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति॥८०॥
अवक्रमकुटिलं परमप्रीतिरसभरावनतेन चक्षुषा तृषित इव शीतलजल परमाह्लादकरं संपिवन्निव सत्त्वान् व्यवलोकयन्। न रक्तेन न दुष्टेन मुग्धेन। परमोपकारका ह्येते। कुतः ? यस्मादेतान् सत्त्वान् समासाद्य दुर्लभलाभं बुद्धत्वं मे भविष्यति उत्पत्स्यते। एवं च विहरन् अद्यत्वेऽपि सत्त्वार्थसमर्थो भवत्येव। यदुक्तम्-
सर्वत्राचपलो मन्दमितस्निग्धाभिभाषणात्।
आवर्जयेज्जनं भव्यमादेयश्चापि जायते॥ इति।
[शिक्षा. स. कारिका-१०]
एतदेव च बोधिसत्त्वस्य कृत्यं यदुत सत्त्वावर्जनं नाम। यथा धर्मसंगीतिसूत्रे आर्याप्रियदर्शनेन बोधिसत्त्वेन परिदीपितम्-
तथा तथा भगवन् बोधिसत्त्वेन प्रतिपत्तव्यं यत्सहदर्शनेन सत्त्वाः प्रसीदेयुः। तत्कस्माद्धेतोः ? न भगवन् बोधिसत्त्वस्यान्यत् करणीयमस्ति अन्यत्र सत्त्वावर्जनात्। सत्त्वपरिपाक एवेयं भगवन् बोधिसत्त्वस्य धर्मसंगीतिरिति॥
एवमक्रियमाणे को दोष इति चेत्-
अनादेयं तु तं लोकः परिभूय जिनाङ्कुरम्।
भस्मच्छन्नं यथा बह्निं पच्येत नरकादिषु॥इति।
[शिक्षा. स. कारिका-११]
तस्मात् सत्त्वाराधनमेव बोधिसत्त्वस्य कर्म उपकारिक्षेत्रमसाधारणं पुण्यप्रसूतिहेतुरिति॥
तत्प्रसङ्गेन अन्यदपि दर्शयन्नाह-
सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च।
गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम्॥८१॥
समादानेन क्रियमाणम्। अभिनिवेशोत्थं तीव्रप्रसादजनितम्। प्रतिपक्षोत्थं क्लेशप्रतिपक्षशून्यतादिभावनाप्रसूतम्। गुणक्षेत्रं बुद्धबोधिसत्त्वादि। उपकारिक्षेत्रं मातापितादि। दुःखिता ग्लानादयः। एतेषु स्वल्पमति कृतमप्रमेयशुभहेतुरुपजायते॥
इदमपि बोधिसत्त्वेनाभ्यसनीयमित्याह-
दक्ष उत्थानसंपन्नः स्वयंकारी सदा भवेत्।
नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु॥८२॥
दक्षः सर्वत्र पटुप्रचारः। उत्थानसंपन्नः कौसीद्यापनयनाद् वीर्यसमन्वागतः। अत एव स्वयमेव सर्वं करणीयम्, न परापेक्षा क्वचिदपि कर्मणि कार्या। इदमेव नावकाश इत्यादिना दर्शयति॥
पारमिताभ्यासेऽनर्थविवर्जनायानुपूर्वकारितामाह-
उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः।
नेतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः॥८३॥
उपर्युपरितः। दानाच्छीलं श्रेष्ठम्, शीलात् क्षान्तिरित्यादयः। अतोऽवरपारमिताहेतोरुत्तरं न त्यजेत्। तद्विरोधेन न सेवेतेति भावः। किं सर्वथा ? नेत्याह-अन्यत्रेति। बोधित्त्वानां य आचारः शिक्षासंवरलक्षणः स एव कुशलजलरक्षणाय सेतुबन्धो विहितः, तस्मादन्यत्र तं विहाय। स यथा न भिद्यते इत्यर्थः॥
तस्मात्संभारमुपादित्सुना करुणापरतन्त्रेण सर्वं करणीयमुक्तमित्याह-
एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः।
निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः॥८४॥
एवमनुत्तरं ज्ञात्वा सत्त्वानां हितसुखविधानाय नित्यमारब्धवीर्यो भवेत्। प्रतिषिद्धार्थे प्रवृत्तौ कथं न सापत्तिक इति चेत्, न। क्वचिन्निषिद्धमपि सत्त्वार्थविशेषं प्रज्ञाचक्षुषा पश्यतः करणीयतया अनुज्ञातं भगवता। सनिःसरणं च भगवतः शासनम्। तच्चापि न सर्वस्य, अपि तु कृपालोः करुणाप्रकर्षप्रवृत्तितया तत्परतन्त्रस्य परार्थैकरसस्य स्वप्रयोजनविमुखस्य। इति प्रज्ञाकरुणाभ्यामुद्भूतपरार्थवृत्तेरुपायकुशलस्य प्रवर्तमानस्य नापत्तिः। अत्र च उपालिपरिपृच्छायामापत्त्यनापत्तिविभागो वेदितव्यः। तथा उपायकौशल्यसूत्रे ज्योतिष्कमाणवकाधिकारे॥
एषा रक्षात्मभावस्य भैषज्यवसनादिभिः।
[शिक्षा. स. कारिका-१३]
इत्येतत् प्रतिपादयितुमाह-
विनिपातगतानाथव्रतस्थान् संविभज्य च।
भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत्॥८५॥
भैषज्यवसनादिभिरात्मभावो हि परिपालनीयः परार्थोपयोगित्वात्। यथोक्तं प्राकूतत्र द्विविधं भैषज्यं सततभैषज्यं ग्लानप्रत्ययभैषज्यं च। तत्र सततभैषज्यमोदनादि। तदर्थं पिण्डाय गोचरे चरता ग्रामप्रवेशे यथोक्तशिक्षायां स्मृतिमाधाय चरितव्यम्। ततो लब्धात् पिण्डपातात् चतुर्थभागविभक्तात् विनिपातगताननाथव्रतस्थान् संविभागिनः कुर्यात्। एकं प्रत्यङ्गं विनिपातिनाम्। द्वितीयमनाथानाम्। तृतीयं सब्रह्मचारिणां दत्वा चतुर्थमात्मना परिभुञ्जीत। स परिभुञ्जानो न रक्तः परिभुङ्क्ते असक्तः, अगृद्धः, अनध्यवसितः, अन्यत्र यावदेवास्य कायस्य स्थितये यापनायै। मध्यमां मात्राम्। तथा च परिभुङ्क्ते यथा नातिसंलिखितो भवति, नातिगुरुकायः। तत्कस्य हेतोः ? अति संलिखितो हि कुशलपक्षपराङ्मुखो भवति, अतिगुरुकायो मिद्धावष्टब्धो भवति। तेन तं पिण्डपातं परिभुज्य कुशलपक्षाभिमुखेन भवितव्यम्। इति आर्यरत्नमेघेऽभिहितम्। आर्यरत्नराशावपि-
परिभुञ्जता च एवं मनसिकार उत्पादयितव्यः-सन्ति अस्मिन् काये अशीतिकृमिकुलसहस्राणि, तानि अनेनैवोजसा सुखं विहरन्तु। इदानीं चैषामामिषेण संग्रहं करिष्यामि। बोधिप्राप्तश्च पुनर्धर्मेण संग्रहं करिष्यामि। इति विस्तरः॥
पुनरत्रैवोक्तम्-
द्वयोरहं काश्यप श्रद्धादेयमनुजानामि। कतमयोर्द्वयोः ? युक्तस्य मुक्तस्य च। इति॥
अनया दिशा सर्वपरिभोगाः सत्त्वार्थमधिष्ठातव्याः। अन्यथा-
आत्मतृष्णोपभोगात्तु क्लिष्टापत्तिः प्रजायते॥इति॥
[शिक्षा. स. कारिका-१३]
यथोक्तं चन्द्रप्रदीपसूत्रे-
ते भोजनं स्वादुरसं प्रणीतं
लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः।
तेषां स आहारु वधाय भोति
यथ हस्तिपोतान बिसा अधौतकाः॥
[=समाधि. ९. २९]
विस्तरेण चैतच्छिक्षासमुच्चये द्रष्टव्यम्॥
ग्लानभैषज्यं तु यामिकं साप्ताहिकं यावज्जीविकमिति त्रिविधम्। एतच्च भिक्षुविनये प्रतिपादितं तत्रैवावधार्यम्॥
वसनादिभिरात्मरक्षामाह-त्रिचीवरबहिस्त्यजेत्। इति। सचेदागत्य कश्चिद् बोधिसत्त्वं पात्रचीवरं याचेत, तेन अतित्यागो न कर्तव्यः। किं तु यत्तदनुज्ञातं भगवता-त्रिचीवरं श्रमणकल्पः, ततोऽतिरिक्तं च यद्भवेत्, त्यक्तव्यमर्थिने, नान्यथा। उक्तं च बोधिसत्त्वप्रतिमोक्षे-सचेत्पुनः कश्चिदागत्य पात्रं वा चीवरं वा याचेत, सचेत्तस्यातिरिक्तं भवेद् बुद्धानुज्ञातात्त्रिचीवरात्, यथापरित्यक्तं दातव्यम्। सचेत्पुनस्तस्य ऊनं त्रिचीवरं भवेत् यन्निश्रित्य ब्रह्मचर्यावासः, तन्न परित्यक्तव्यम्। तत्कस्माद्धेतोः ? अविसर्जनीयं हि त्रिचीवरमुक्तं तथागतेन। सचेच्छारिपुत्र बोधिसत्त्वस्त्रिचीवरं परित्यज्य याचनगुरुको भवेत्, न तेन अल्पेच्छता आसेविता भवेत्। इति॥
अतित्यागं निषेधयन् पुनरात्मरक्षामुपदर्शयन्नाह-
सद्धर्मसेवकं कायमितरार्थं न पीडयेत्।
एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत्॥८६॥
सतां सत्पुरुषाणां बोधिसत्त्वानां धर्मः। लौकिकलोकोत्तरपरहितसुखविधानम्। तत्सेवकं कायम् अल्पार्थनिमित्तं न पीडयेत्। अन्यथा महतोऽर्थराशेर्हानिः स्यात्। अत एव पूर्वस्मिन् हेतुपदमेतत्। कुतः पुनरेवम् ? यस्मादनेनैव सुकुमारोपक्रमेण संवर्धमानः शीघ्रमेव सत्त्वानां हितसुखसंपादनसमर्थो भवति॥
यत एवं तस्मात्-
त्यजेन्न जीवितं तस्मादशुद्धे करुणाशये।
तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते॥८७॥
स्वशरीरशिरोदानादि न कर्तव्यमिति निषिद्धम्। कदा ? अशुद्धे मित्रामित्रेतरसर्वव्यसनिजनसाधारणप्रवृत्ते कृपाचित्ते। अत्यारब्धेन हि वीर्येण स्वपरहितार्थस्य बाधा स्यात्। समप्रवृत्ते पुनराशये स्वपरात्मनोऽतिरिक्ते वा न निषिध्यते। यदुक्तम्-तथा स्वपरबोधिपक्षश्रुताद्यन्तरायकरौ त्यागात्यागौ न कार्यौ। अधिकसत्त्वार्थशक्तेस्तुल्यशक्तेर्वा बोधिसत्त्वस्य अधिकतुल्यकुशलान्तरायकरौ त्यागात्यागौ न कार्याविति सिद्धं भवति। इदमेव च संधाय बोधिसत्त्वप्रातिमोक्षेऽभिहितम्-यस्तु खलु पुनः शारिपुत्र अभिनिष्क्रान्तगृहावासो बोधिसत्त्वो बोध्यङ्गैरभियुक्तः, तेन कथं दानं दातव्यम्, कतरं दानं दातव्यम्, कियद्रूपं दानं दातव्यम्। पेयालं। धर्मदायकेन भवितव्यम्। यश्च शारिपुत्र गृही बोधिसत्त्वो गङ्गानदीवालिकासमानि बुद्धक्षेत्राणि सप्तरत्नपरिपूर्णानि तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च शारिपुत्र प्रव्रज्यापर्यापन्नो बोधिसत्त्वः एकां चतुष्पदिकां गाथां प्रकाशयेत्, अयमेव ततो बहुतरं पुण्यं प्रसवति। न शारिपुत्र तथागतेन प्रव्रजितस्य आमिषदानमनुज्ञातम्। पेयालं। यस्य पुनः शारिपुत्र पात्रागतः पात्रपर्यापन्नो लाभो भवेद्धार्मिको धर्मलब्धः, तेन साधारणभाजिना भवितव्यं सार्धं सब्रह्मचारिभिरिति॥
तत्रैवाह-यस्तु खलु पुनः शारिपुत्र अनभिनिष्क्रान्तगृहावासो बोधिसत्त्वः, तेन धर्म आसेवितव्यः। तत्र तेनाभियुक्तेन भवितव्यमिति। अन्यथा हि एकसत्त्वार्थसंग्रहार्थं महतः सत्त्वराशेस्तस्य च सत्त्वस्य बोधिसत्त्वाशयपरिकर्मान्तरायान्महतोऽर्थस्य हानिः कृता स्यादिति॥
अनेनोपायकौशलेन विहरन् न बोधिमार्गात्परिभ्रश्यते। अयमभिप्रायः-दत्तः पूर्वमेव अनेन आत्मभावः सर्वसत्त्वेभ्यः। केवलमकालपरिभोगात्परिरक्षणीयः। अतो न मात्सर्यस्यावकाशः। नापि प्रतिज्ञातार्थहानिरिति। यदुक्तम्-
भैषज्यवृक्षस्य सुदर्शनस्य
मूलादिभोग्यस्य यथैव बीजम्।
दत्वापि संरक्ष्यमकालभोगात्
संबुद्धभैषज्यतरोस्तथैव॥इति॥
सत्त्वाशयरक्षणादप्यात्मा रक्षितव्य इत्याह-
धर्मं निर्गौरवे स्वस्थे न शिरोवेष्टिते वदेत्।
सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके॥८८॥
देवमनुष्यपूजितो हि भगवतो धर्मः। ततोऽवध्यायन्ति देवतादयो गौरवमकुर्वतो धर्मप्रकाशनात्। निषिद्धं चैतद्भगवता इति तदाज्ञातिक्रमे सापत्तिको भवेत्। न वस्त्रादिबद्धशिरसि। सहशब्देन त्रिष्वपि संबन्धः। तथोत्तरीयादिना पिहितशीर्षे। प्रत्येकं स्वस्थ इति संबन्धनीयम्। ग्लाने पुनरनापत्तिः। उपलक्षणं चैतत्। न स्थितेन सुप्ताय निषण्णाय वा, न निषण्णेन सुप्ताय, न चानासनेन निषण्णाय। नोत्पथयायिना मार्गयायिने, नाग्रगामिने पृष्ठगामिना, नाप्यलंकारयुक्ताय। इत्यादयोऽपि द्रष्टव्या इति॥
इदमप्यनर्थविवर्जनाय मूलापत्तिकारणमकरणीयमित्याह-
गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना।
गम्भीरो दुर्मेधसामगाधत्वात्। उदारश्च प्रकर्षपर्यन्तत्वात्। तादृशं च धर्ममल्पेषु असंस्कृतबुद्धिषु हीनाधिमुक्तिषु वा न वदेदिति प्रकृतेन संबन्धः। न मातृग्रामस्य एकाकी रहोगतो धर्मं वदेत्। वदन् सापत्तिको भवति। न दोषः पुरुषो यदि स्यात्॥
हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत्॥८९॥
श्रावकयानभाषितेषु वा महायानभाषितेषु वा धर्मेषु तुल्यं चित्तप्रसादादिकं कुर्यात्। अन्यथा सद्धर्मप्रतिक्षेपः स्यात्॥
नोदारधर्मपात्रं च हीने धर्मे नियोजयेत्।
न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत्॥९०॥
गम्भीरोदारधर्मभाजनं च सत्त्वं निमित्तज्ञैर्ज्ञात्वा न श्रावकयानादिधर्मेष्ववतारयेत्। न च आचारं शिक्षासंवरकरणीयतां मुक्त्वा सूत्रान्तादिपाठेनैव तव शुद्धिर्भविष्यति इति धर्मकामं प्रभावयेत्। आह चात्र-पुनरपरोऽनर्थो रत्नकूटे दृष्टः-अपरिपाचितेषु सत्त्वेषु विश्वासो बोधिसत्त्वस्खलितम्। अभाजनीभूतेषु उदारबुद्धधर्मप्रकाशना बोधिसत्त्वस्खलितम्। उदाराधिमुक्तिकेषु सत्त्वेषु हीनयानप्रकाशना बोधिसत्त्वस्खलितमिति॥
आर्यसर्वधर्मवैपुल्यसंग्रहे सूक्ष्मोऽप्यनर्थ उक्तः-सूक्ष्मं हि मञ्जुश्रीः सद्धर्मप्रतिक्षेपकर्मावरणम्। यो हि कश्चिन्मञ्जुश्रीः तथागतभाषिते धर्मे कस्मिंश्चित् शोभनसंज्ञां करोति, क्वचिदशोभनसंज्ञाम्, स सद्धर्मं प्रतिक्षिपति। तेन सद्धर्मप्रतिक्षेप्त्रा तथागतोऽभ्याख्यातो भवति, संघोऽपवादितो भवति, य एवं वदति-इदं युक्तमिदमयुक्तम्। इति विस्तरः॥
आर्याकाशगर्भसूत्रे च मूलापत्तिप्रस्तावे चोक्तम्-पुनरपरमादिकर्मिको बोधिसत्त्वः केषांचिदेवं वक्ष्यति-किं भोः प्रातिमोक्षविनयेन ? शीलेन सुरक्षितेन शीघ्रं त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयस्व। महायानं पठ। यत्ते किंचित् कायवाङ्मनोभिः क्लेशप्रत्ययादकुशलं कर्म समुदानीतम्, तेन ते शुद्धिर्भविष्यत्यविपाकम्, यावद्यथा पूर्वोक्तम्। इयमादिकर्मिकस्य बोधिसत्त्वस्य तृतीया मूलापत्तिरिति॥
अतः इदमपि प्रातिमोक्षनिषिद्धं नाचरणीयमित्याह-
दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम्।
नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम्॥९१॥
खेटस्य श्लेष्मणो विसर्जनमपावृतं न कुर्यात्। जले स्थले भोग्ये उपभोग्ये मूत्रपुरीषादेरपि कुत्सितम्। अत्रापि देवताद्यवध्यानादपुण्यं प्रसवेत्॥
मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम्।
प्रलम्बपादं नासीत न बाहू मर्दयेत्समम्॥९२॥
मुखं पूरितं कृत्वा महत्कवलग्रहणात्। सशब्दं सुकसुनिकादिशब्देन। [प्रसृताननं] दूरं विदारितमुखम्। प्रलम्बपादं भूम्याद्यलग्नपादं खट्वाद्यारोहणे सति नासीत। द्वावपि बाहू सममेकस्मिन् काले न मर्दयेत्। क्रममर्दने न दोषः। सति प्रत्यये॥
नैकयान्यस्त्रिया कुर्याद्यानं शयनमासनम्।
एकया अद्वितीयया अन्यस्त्रिया। गृहिप्रव्रजितयोरिदमिह साधारणमित्यन्यग्रहणम्। न कुर्याद्यानादि। संक्षेपेण संकलय्य दर्शयन्नाह-
लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत्॥९३॥
लोकानां यत् प्रसादजनकं न भवति, तत् सर्व दृष्ट्वा शास्त्रे व्यवहारे वा। पृष्ट्वा विज्ञान्। वर्जयेत्। अनेनैतद्दर्शितं भवति-दृष्टेऽपि यद्बाधाकरमेवंविधं तद्वर्जयेत् आपत्तिर्भवतीति। यदुक्तम्-
रत्नमेघे जिनेनोक्तस्तेन संक्षेपसंवरः।
येनाप्रसादः सत्त्वानां तद्यत्नेन परित्यजेत्॥इति॥
[शिक्षा. स. कारिका-१२]
यथाह-कतमे च ते बोधिसत्त्वसमुदाचाराः ? यावदिह बोधिसत्त्वो नाघःस्थाने विहरति, नाकाले। नाकाले भाणी भवति। नाकालज्ञो भवति। नादेशज्ञो भवति। यतोनिदानमस्यान्तिके सत्त्वा अप्रसादं प्रतिसंवेदयेयुः। स सर्वसत्त्वानुरक्षया आत्मनश्च बोधिसंभारपरिपूरणार्थं सम्यगीर्यापथो भवति, मृदुभाणी मन्दभाणी असंसर्गबहुलः प्रविवेकाभिमुखः सुप्रसन्नमुखः इति॥
न बोधिसत्त्वेन अवमन्यना क्वचिदपि कर्तव्येत्याह-
नाङ्गुल्या कारयेत्किंचिद्दक्षिणेन तु सादरम्।
समस्तेनैव हस्तेन मार्गमप्येवमादिशेत्॥९४॥
एकया अङ्गुल्या तर्जन्यादिकया न किंचिदुपदर्शयेत्, अपि तु समस्तेनैव समग्रेणैव हस्तेन। दक्षिणेन न वामेन। मार्गमपि कथयेत्। आस्तां तावत्सगौरवं वस्तु॥
लोकाप्रसादनिवारणायाह-
न बाहूत्क्षेपकं कंचिच्छब्दयेदल्पसंभ्रमे।
अच्छटादि तु कर्तव्यमन्यथा स्यादसंवृतः॥९५॥
न भुजमुत्क्षिप्य कंचिदाह्वयेत्, अल्पप्रयोजनतारतम्ये। महति पुनरदोषः। अच्छटादिशब्दं तु कुर्यात्। तदकरणेऽसमाहितचारितायामसंवृतः स्यात्। एतावता औद्धत्यपरिहारोऽपि दर्शितो भवति॥
स हि शय्यां परिकल्पयन्नेवं परिकल्पयेदित्युपदर्शयन्नाह-
नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा।
संप्रजानंल्लघूत्थानः प्रागवश्यं नियोगतः॥९६॥
भगवतो महानिर्वाणशय्यामिव शय्यां परिकल्पयेत्। अभिमतया दिशा शिरो विधाय, दक्षिणेन पार्श्वेन, पादस्योपरि पादमाधाय, दक्षिणं बाहुमुपधानं कृत्वा, वामं च प्रसार्य जङ्घोपरि निवेश्य, चीवरैः सुसंवृतकायः, स्मृतः, संप्रजानानः, उत्थानसंज्ञी, आलोकसंज्ञी, शयितः, नाचित्तकमिद्धावष्टब्धः। न च निद्रासुखमाखादयेत्, न च पार्श्वसुखम् अन्यत्र यावदेवैषां महाभूतानां स्थितये यापनायै इति। लघुत्थानः शीघ्रमेवोत्तिष्ठेत्। न तु जृम्भिकां गात्रमोटनं कुर्वन्नालस्योपहितश्चिरेण। एतेभ्य एव सर्वेभ्यः पूर्वमेव॥
इदमपरमभिसंक्षिप्य कथयन्नाह-
आचारो बोधिसत्त्वानामप्रमेय उदाहृतः।
चित्तशोधनमाचारं नियतं तावदाचरेत्॥९७॥
आचारः शिक्षणीयम्। अप्रमेयः असंख्येयः बोधिसत्त्वप्रातिमोक्शादिषु प्रदर्शितः। तत्संग्रहरूपं प्रथमतः चित्तशोधनमेव आचारमाचरेत्। नियतमवश्यंतया॥
सामान्यापत्तिशोधनायाह-
रात्रिंदिवं च त्रिस्कन्धं त्रिष्कालं च प्रवर्तयेत्।
शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात्॥९८॥
त्रिष्कृत्वो रात्रेः। त्रिष्कृत्वो दिवसस्य। त्रिस्कन्धः त्रयाणां स्कन्धानां पापदेशनापुण्यानुमोदनाबोधिपरिणामनानां समाहारः। त्रिस्कन्धं प्रवर्तयेत्। शेषा मूलाया अन्याः। अथवा, संचित्य कृता याः प्रतिकृताः ताभ्योऽन्याः स्मृतिसंप्रमोषेण असंप्रजानता वा कृताः। तासां प्रशमः प्रतिकरणं तेन त्रिस्कन्धपरिवर्तनेन बोधिचित्तस्य जिनानां च भगवतां समाश्रयणाच्च॥
एतेन विदूषणासमुदाचारादयो दर्शिता भवन्ति॥
तत्र पापशोधनं चतुर्धर्मकसूत्रे देशितम्-
चतुर्भिर्मैत्रेय धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृतोपचितं पापमभिभवति। कतमैश्चतुर्भिः ? यदुत विदूषणासमुदाचारेण, प्रतिपक्षसमुदाचारेण, प्रत्यापत्तिबलेन, आश्रयबलेन च। तत्र विदूषणासमुदाचारः अकुशलं कर्म कृत्वा विप्रतिसाररूपात्सविगर्हणा पापदेशना, तदनुष्ठानं तत्समुदाचारः। तत्र प्रतिपक्षसमुदाचारः अकुशलप्रतिपक्षः कुशलम्, तत्समुदाचारः, कृत्वाप्यकुशलं कर्म कुशले कर्मण्यत्यन्तमभियोगः। तत्र प्रत्यापत्तिबलं संवरसमादानादकरणसंवरलाभः। तत्राश्रयबलं बुद्धधर्मसंघशरणगमनम्, अनुत्सृष्टबोधिचित्तता च। स बलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुम्। एभिर्मैत्रेय चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृतोपचितं पापमभिभवतीति॥
विशेषतस्तु बोधिसत्त्वापत्तीनां गुर्वीणां लध्वीनां च देशना आर्योपालिपरिपृच्छायामुक्ताः। ताः शिक्षासमुच्चये द्रष्टव्याः॥
सर्वापत्तयो बोधिसत्त्वेन पञ्चत्रिंशतां बुद्धानां भगवतामन्तिके रात्रिंदिवमेकाकिना देशयितव्याः। तत्रेयं देशना- अहमेवंनामा बुद्धं शरणं गच्छामीत्यारभ्य यावत् संघं शरणं गच्छामि, नमः शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय। नमो वज्रप्रमर्दिने इत्यारभ्य यावत् उपैमि सर्वान् शरणं कृताञ्जलिः।
इति विस्तरमुक्त्वाह-इति हि शारिपुत्र बोधिसत्त्वेन इमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्वतथागतानुगतैर्मनसिकारैः पापविशुद्धिः कार्या। तस्यैवं पापविशुद्धस्य त एव बुद्धा भगवन्तो मुखान्युपदर्शयन्ति। पेयालं। न तत् शक्यं सर्वश्रावकप्रत्येकबुद्धनिकायैरापत्तिकौकृत्यस्थानं विशोधयितुं यद्बोधिसत्त्वस्तेषां बुद्धानां भगवतां नामधेयधारणपरिकीर्तनेन रात्रिंदिवं त्रिस्कन्धकधर्मपर्यायप्रवर्तनेन आपत्तिकौकृत्यान्निःसरति, समाधिं च प्रतिलभते॥
एतत्साकल्येन शिक्षासमुच्चये वेदितव्यम्॥
उक्तो विदूषणासमुदाचारः। प्रतिपक्षसमुदाचारप्रत्यापत्तिबले अपि विस्तरेण शिक्षासमुच्चयादेव द्रष्टव्ये। आर्यमैत्रेयविमोक्षे तु बोधिचित्तेन पापविशुद्धिरुक्ता। तच्चोक्तमेव प्राक्। जिनाश्रयात् पापविशुद्धौ सूकरिकावदानमुदाहार्यम्।
ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।
प्रहाय मानुषान् कायान् दिव्यान् कायांल्लभन्ति ते॥
एवं धर्मं संघं चाधिकृत्य पाठः। अनेनाश्रयबलमुक्तम्॥
पुनरनियमेन दर्शयन्नाह-
या अवस्थाः प्रपद्येत स्वयं परवशोऽपि वा।
तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः॥९९॥
स्वयमात्मना परायत्तो वा सत्त्वार्थक्रियायां प्रवृत्तः॥
किं पुनरेवमनियमेनाभिधीयत इत्याह-
न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः।
न तदस्ति न यत्पुण्यमेवं विहरतः सतः॥१००॥
यस्मात् सर्वाकारं सर्ववस्तुतत्त्वमधिगम्य सर्वेषां हितसुखविधानार्थमुद्यच्छद्भिर्बुद्धसुतैः न तदस्ति किंचित्, यन्न शिक्षितव्यम्। अन्यथा सर्वाकारः सर्वसत्त्वानामर्थः कर्तुमशक्यः। पुण्यसंभारोऽपि एवं विचरतोऽपर्यन्त एव स्यात्॥
इयमपि शिक्षापदमुद्रा अवधारयितव्येत्याह-
पारंपर्येण साक्षाद्वा सत्त्वार्थ नान्यदाचरेत्।
सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत्॥१०१॥
अन्ततः स्वयमाहारादिक्रियया परप्रेरणया अपरापरदूतप्रेरणया वा, साक्षात् स्वयमेव आमिषदानादिना वा, यत् सत्त्वानां हितसुखहेतुर्न भवति, तन्न कुर्यात् कारयेद्वा। न चैतदेव केवलम्। किंचित् सत्त्वानामेव संसारदुःखपतितानां ततो निःसरणाय सर्वं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयेत्॥
एतावता श्लोकद्वयेन पुण्यवृद्धिरुपदर्शिता भवति॥
यदुक्तं कल्याणमित्रानुत्सर्गादिति [शिक्षा. स. कारिका-६] तदाह-
सदा कल्याणमित्रं च जीवितार्थेऽपि न त्यजेत्।
बोधिसत्त्वव्रतधरं महायानार्थकोविदम्॥१०२॥
कल्याणकर्मणि अभ्युदयनिःश्रेयसप्राप्तिलक्षणे मित्रमसाधारणो बन्धुः, तत् कायजीवितविप्रणाशभयभीतोऽपि न त्यजेत्। कल्याणमित्रानुशंसाश्च प्रज्ञापारमितायामार्याष्टसाहस्रिकायां [अष्ट. ३०] सदाप्ररुदितपरिवर्ताद्वेदितव्याः। चतुर्धर्मकसूत्रेऽप्युक्तम्- कल्याणमित्रं भिक्षवो बोधिसत्त्वेन महासत्त्वेन यावज्जीवं न त्यक्तव्यमपि जीवितहेतोरिति। अपरित्याज्यस्य कल्याणमित्रस्य लक्षणमाह-बोधिसत्त्वशिक्षासंवरे व्यवस्थितम्। महायानार्थपण्डितम्। एतादृशं सुदुर्लभम्॥
कल्याणमित्रस्य पर्युपासनपरिज्ञानार्थमाह-
श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम्।
श्रीसंभवविमोक्षात् आर्यगण्डव्यूहपरिवर्तात् कल्याणमित्रपर्युपासनं शिक्षेत् जानीयात्। यथोक्तमार्यगण्डव्यूहे आर्यश्रीसंभवेन-कल्याणमित्रसंधारिताः कुलपुत्र बोधिसत्त्वा न पतन्ति दुर्गतिषु। यावत्-संचोदकाः कल्याणमित्रा अकरणीयानाम्। संनिवारकाः प्रमादस्थानात्। निष्कासयितारः संसारपुरात्। तस्मात्तर्हि कुलपुत्र एवंमनसिकाराप्रतिप्रस्रब्धेन कल्याणमित्राण्युपसंक्रमितव्यानि। पृथिवीसमचित्तेन सर्वभारोद्वहनापरितसनतया। वज्रसमचित्तेन अभेद्याशयतया। चक्रवालसमचित्तेन सर्वदुःखासंप्रवेधनतया। लोकदाससमचित्तेन सर्वकर्मसमादानाविजुगुप्सनतया। रजोहरणसमचित्तेन मानाभिमानविवर्जनतया। यानसमचित्तेन गुरुभारनिर्वाहनतया। अश्वसमचित्तेन अक्रुध्यनतया। नौसमचित्तेन गमनागमनापरितसनतया। सुपुत्रसदृशेन कल्याणमित्रमुखवीक्षणतया। आत्मनि च ते कुलपुत्र आतुरसंज्ञोत्पादयितव्या कल्याणमित्रेषु च वैद्यसंज्ञा, अनुशासनीषु भैषज्यसंज्ञा, प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा। आत्मनि च ते कुलपुत्र भीरुसंज्ञोत्पादयितव्या, कल्याणमित्रेषु शूरसंज्ञा, अनुशासनीषु प्रहरणसंज्ञा, प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञा॥
यदुक्तं सूत्राणां च सदेक्षणादिति [शिक्षा. स. का.-६], तदुपदर्शयितुमाह-
एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात्॥१०३॥
एतदिह शास्त्रे प्रतिपादितम्, अन्यद्यदिह नोक्तम्। बुद्धेन भगवता बोधिसत्त्वानां करणीयतया निर्दिष्टम्, तन्नानासूत्रान्तार्थपरिचयाद् वेदितव्यम्॥
एतदेव दर्शयति-
शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि बाचयेत्।
शिक्षा बोधिसत्त्वानां हेयोपादेयलक्षणाः। सूत्रेषु महायानसूत्रान्तेषु रत्नमेघादिषु।
यत एवं तस्मात्। इदं तु विशेषनिर्देशमाह-
आकाशगर्भसूत्रे च मूलापत्तीर्निरूपयेत्॥१०४॥
आर्याकाशगर्भसूत्रे क्षत्रियस्य मूर्धाभिषिक्तस्य पञ्च मूलापत्तयो निर्दिष्टाः। तथा सामान्येन एका मूलापत्तिः। तथा आदिकर्मिकस्य बोधिसत्त्वस्य अष्टौ मूलापत्तय इति। तथा च तत्रोक्तम्-पञ्च कुलपुत्र क्षत्रियस्य मूर्धाभिषिक्तस्य मूलापत्तयः याभिर्मूलापत्तिभिः क्षत्रियो मूर्धाभिषिक्तः सर्वाणि पूर्वावरोपितानि कुशलमूलानि झोषयति। वस्तुपतितः पराजितः सर्वदेवमनुष्यसुखेभ्यः अपायगामी भवति। कतमाः पञ्च ? यः कुलपुत्र क्षत्रियो मूर्धाभिषिक्तः स्तौपिकं वस्तु अपहरति सांघिकं वा चातुर्दिशसंघे निर्यातितं वा, स्वयं वा अपहरति हारयति वा। इयं प्रथमा मूलापत्तिः। एवं त्रियानभाषितधर्मप्रतिक्षेपात् द्वितीया। प्रव्रजितस्य शीलवतो दुःशीलस्य वा काषायापहरणात्, गृहस्थकरणात्, कायप्रहारात्, चारके प्रक्षेपात्, जीवितवियोजनाद्वा तृतीया। पञ्चानन्तर्येष्वन्यतमकरणाच्चतुर्थी। मिथ्यादृष्टेः, दशाकुशलकर्मपथसमादानात्, परसमादापनाद्वा पञ्चमीति॥
तथा ग्रामभेदादिकरणात् सर्वेषां साधारणी चैका। तत्रैवोक्तम्-
आदिकर्मिकाणां महायानसंप्रस्थितानां कुलपुत्राणां कुलदुहितृणां च अष्टौ मूलापत्तयः, यामिर्मूलापत्तिभिः स्खलिता आदिकर्मिका महायानसंप्रस्थिताः सर्वाणि पूर्वारोपितानीत्यादि पूर्ववत्। कतमा अष्टौ ? ये सत्त्वाः पूर्वदुश्चरितहेतुना अस्मिन् क्लिष्टे पञ्चकषाये लोके उत्पन्नाः, ते इत्वरकुशलमूलाः। यावत्, तेषामिदं परमं गम्भीरं शून्यताप्रतिसंयुक्तं सूत्रान्तं यावद्विस्तरेणाग्रतः स्मारयन्ति प्रकाशयन्ति। ते हि अकृतश्रमा बालपृथग्जनाः शृण्वन्त उत्रस्यन्ति, यावद् विवर्तयन्ति अनुत्तरायाः सम्यक्संबोधेश्चित्तम्, श्रावकयाने चित्तं प्रणिदधति। एषा आदिकर्मिकस्य बोधिसत्त्वस्य मूलापत्तिः प्रथमा, यया मूलापत्त्या इत्यादि पूर्ववत्। तस्माद्बोधिसत्त्वेन परसत्त्वानां परपुद्गलानामाशयानुशयं प्रथमं ज्ञात्वा यथाशयानां सत्त्वानामनुपूर्वेण धर्मदेशना कर्तव्येति। सोपायायाः सम्यक्संबोधेर्विनिवर्त्य हीनयाने परस्य चित्तमुत्पादयतो द्वितीया। प्रातिमोक्षशिक्षासंवरं विहाय महायाने चित्तोत्पादमात्रेण तत्पठनेन चास्य शुद्धिप्रकाशनात् तृतीया। श्रावकादियानस्य तत्फलस्य गोपननिन्दाप्रकाशनात्, महायाने सर्वशुद्धिप्रकाशनात्, परेषां तद्वचनकरणाच्चतुर्थी। कीर्तिलाभादिहेतोः महायानपठनादिना, तथा तत्प्रत्ययात् परेषां कुत्सानिन्दादिभाषणात्, आत्मोत्कर्षणात्, उत्तरमनुष्यधर्मोपगमात् पञ्चमी। पाठमात्रेण गम्भीरधर्माधिगमप्रकाशनात्, परेषां तथैव समादापनात् षष्ठी। क्षत्रियस्य पुरोहितामात्यचण्डालैर्ये भिक्षवो दण्डिता अर्थदण्डेन सांघिकं स्तौपिकं वा चातुर्दिशसांघिकं वा द्रव्यमपहृत्य तेभ्य एवोपनामयन्ति। ते च क्षत्रिया उभयेऽपि मूलापत्तिमापद्यन्ते। इयं सप्तमी। धर्माधर्मविवादनापूर्वं शिक्षाप्रणयनात्, तन्मूलाचारविपन्नानां सत्कारात्, प्रहाणिकानामुपभोगपरिभोगाण्यन्यत्र परिणामनात् उभयेऽपि मूलापत्तिमापद्यन्ते। इयमष्टमी॥
आसां च मूलापत्तीनां सुखग्रहणार्थं शास्त्रकारोपदर्शिताः संग्रहकारिका उच्यन्ते-
रत्नत्रयस्वहरणादापत्पाराजिका मता।
सद्धर्मस्य प्रतिक्षेपाद् द्वितीया मुनिनोदिता॥
दुःशीलस्यापि वा भिक्षोः काषायस्तैन्यताडनात्।
चारके वा विनिक्षेपादपप्रव्राजनेन च॥
पञ्चानन्तर्यकरणान्मिथ्यादृष्टिग्रहेण च।
ग्रामादिभेदनाद्वापि मूलापत्तिर्जिनोदिता॥
शून्यतायाश्च कथनात्सत्त्वेष्वकृतबुद्धिषु।
बुद्धत्वप्रस्थितानां तु संबोधेर्विनिवर्तनात्॥
प्रातिमोक्षं परित्याज्य महायाने नियोजनात्।
शिष्ययानं न रागादिप्रहाणायेति वा ग्रहात्॥
परेषां ग्रहणाद्वापि पुनः स्वगुणकाशनात्।
परपंसनतो लाभसत्कारश्लोकहेतुना॥
गम्भीरक्षान्तिकोऽस्मीति मिथ्यैव कथनात्पुनः।
दण्डापयेद्वा श्रमणान् दद्याद्वा शरणत्रयात्॥
गृह्णीयाद्दीयमानं वा शमथत्याजनात्पुनः।
प्रतिसंलीनभोगं च स्वाध्यायिषु निवेदनात्॥
मूला आपत्तयो ह्येता महानरकहेतवः।
आर्यस्याकाशगर्भस्य स्वप्ने देश्याः पुरःस्थितैः॥
बोधिचित्तपरित्यागाद्याचकायाप्रदानतः।
तीव्रमात्सर्यलोभाभ्यां क्रोधाद्वा सत्त्वताडनात्॥
प्रसाद्यमानो यत्नेन सत्त्वेषु न तितिक्षते।
क्लेशात्परानुवृत्त्या वा सद्धर्माभासवर्णनात्॥इति॥
तस्मिन्नेव सूत्रे समुद्धरणमासामुक्तम्॥
शिक्शासमुच्चयेऽपि बोधिसत्त्वानां करणीयमुपदिष्टमिति तदपि निरूपणीयमित्याह-
शिक्षासमुच्चयोऽवश्यं द्रष्टव्यश्च पुनः पुनः।
विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः॥१०५॥
शिक्शासमुच्चयोऽपि स्वयमेभिरेव कृतः। अवश्यं नियमेन। द्रष्टव्यः पुनः पुनरसकृत्। अभ्यसनीय इति भावः। कुतः ? यस्मात् सतां बोधिसत्त्वानाम्। आचरणमाचार इतिकर्तव्यता। तत्र शिक्षासमुच्चये। विस्तरेण प्रबन्धेन। प्रदर्शितः विस्पष्टीकृत्य प्रकाशितः, तस्मात्॥
यदि तस्याभ्यासेऽशक्तिः, तदा-
संक्षेपेणाथवा तावत्पश्येत्सूत्रसमुच्चयम्।
नानासूत्रैकदेशानां वा समुच्चयमेभिरेव कृतं संक्षेपेण पश्येत् व्यवलोकयेत् ग्रन्थतोऽर्थतो वा। अत्रापि पूर्वकमेव प्रयोजनम्॥ यदि वा-
आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः॥१०६॥
आर्यनागार्जुनपादैर्निबद्धं द्वितीयं शिक्षासमुच्चयं सूत्रसमुच्चयं च पश्येत् प्रयत्नतः आदरतः। यदिह न दृश्यते, तत् तत्र दृश्यते इति भावः॥
नियमेन शिक्षादर्शनेऽपि साकल्येन सर्वेषामुपयोगमाह-
यतो निवार्यते यत्र यदेव च नियुज्यते।
तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत्॥१०७॥
यतो हेयादकरणीयान्निवार्यते, न करणीयमेतदिति प्रतिषिध्यते। यत्र शिक्शासमुच्चये सूत्रसमुच्चये वा। यदेव कर्म कर्तव्यतया नियुज्यते विधीयते, तत् प्रसिद्धं विहितं वा। लोकानां चित्तमाशयः तस्य रक्षार्थम्, तद्यथा विकोपितं न स्यात्। शिक्षां दृष्ट्वा शिक्षासमुच्चयादिषु। प्रतिपादं समाचरेत्, यत्र यद्यथा युज्यते, तत्र तथा व्यवहरेत्। अन्यथा अर्थसंमूढव्यवहारस्य आपत्तिकश्मलता स्यात्॥
एतावता आत्मभावस्य शुद्धिराख्याता। यदाह-
आत्मभावस्य का शुद्धिः पापक्लेशविशोधनम्।
संबुद्धोक्त्यनुसारेण यत्नाभावे त्वपायगः॥इति॥
[शिक्षा. स. कारिका-१९]
यदुक्तम्-सदा स्मृतिसंप्रजन्यचारिणा भवितव्यमिति, ततः स्मृतेः स्वनाम्नैव स्वरूपं प्रतीतम्। संप्रजन्यस्य तु न ज्ञायते कीदृशमिति, तत्स्वरूपप्रतिपत्तये प्राह-
एतदेव समासेन संप्रजन्यस्य लक्षणम्।
यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः॥१०८॥
यत्कायावस्थायाः चित्तावस्थायाश्च सर्वेर्यापथेषु प्रत्यवेक्षा निरूपणं सर्ववारं यथा प्रतिपादितं प्राक्॥
सर्वमेतदुक्तशिक्षाकौशलं कर्मणा निष्पादयितव्यं न वचनमात्रेणेति नियमयितुमाह-
कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत्।
चिकित्सापाठमात्रेण रोगिणः किं भविष्यति॥१०९॥
मनःपूर्वंगमत्वात् कायव्यापारस्य, सोऽप्यनेनैव प्रतिपादितः। प्रतिपत्त्या सर्वं संपादयिष्यामि, न तु शब्दमात्रघोषणया निष्फलत्वादिति बोधिसत्त्वेन यतितव्यम्। कथमिव ? वैद्यकशास्त्राध्ययनमात्रेण तत्क्रियामकुर्वतो व्याधिग्रस्तस्य किं फलं निष्पत्स्यते ? तावन्मात्रेण रोगस्य तस्याविनिवृत्तेः। न किंचिदिति भावः। तस्मात् सर्वमेतत् क्रियानुष्ठानेन निष्पादयितव्यमिति॥
इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां
संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः॥