3 अपोहसिद्धिः
Technical Details
॥३॥
॥ अपोहसिद्धिः॥
॥ नमस्तारायै॥
अपोहः शब्दार्थो निरुच्यते। ननु कोऽयमपोहो नाम। किमिदमन्यस्मादपोह्यते। अस्माद् वान्यदपोह्यते। अस्मिन् वान्यदपोह्यत इति व्युत्पत्त्या विजातिव्यावृत्तं बाह्यमेव विवक्षितम्। बुद्ध्याकारो वा। यदि वा अपोहनमपोह इत्यन्यव्यावृत्तिमात्रम् इति त्रयः पक्षाः।
न तावदादिमौ पक्षौ। अपोहनाम्ना विधेरेव विवक्षितत्वात्। अन्तिमोऽप्यसंगतः, प्रतीतिबाधितत्वात्। तथा हि पर्वतोद्देशे वह्निरस्तीति शाब्दी प्रतीतिर्विधिरूपमेवोल्लिखन्ती लक्ष्यते। नानग्निर्न भवतीति नित्रृत्तिमात्रमामुखयन्ती। यच्च प्रत्यक्षबाधितं न तत्र साधनान्तरावकाशः इत्यतिप्रसिद्धम्॥
अथ यद्यपि निवृत्तिमहं प्रत्येमीति न विकल्पः तथापि निवृत्तपदार्थोल्लेख एव निवृत्त्युल्लेखः। न ह्यनन्तर्भावितविशेषणप्रतीतिर्विशिष्टप्रतीतिः। ततो यथा सामान्यमहं प्रत्येमीति विकल्पाभावेऽपि साधारणाकारपरिस्फुरणाद् विकल्पबुद्धिः सामान्यबुद्धिः परेषाम्, तथा निवृत्तप्रत्ययाक्षिप्ता निवृतिबुद्धिरपोहप्रतीतिव्यवहारमातनोतीति चेत्।
ननु साधारणाकारपरिस्फुरणे विधिरूपतया यदि सामान्यबोधव्यवस्था, तत् किमायातमस्फुरदभावाकारे चेतसि निवृत्तिप्रतीतिव्यवस्थायाः। ततो निवृत्तिमहं प्रत्येमीत्येवमाकाराभावेऽपि निवृत्त्याकारस्फुरणं यदि स्यात् को नाम निवृत्तिप्रतीतिस्थितिमपलपेत्। अन्यथा असति प्रतिभासे तत्प्रतीतिव्यवहृतिरिति गवाकारेऽपि चेतसि तुरगबोध इत्यस्तु।
अथ विशेषणतया अन्तर्भूता निवृत्तिप्रतीतिरित्युक्तम्। तथापि यद्यगवापोढ इतीदृशाकारो विकल्पस्तदा विशेषणतया तदनुप्रवेशो भवतु किं तु गौरिति प्रतीतिः। तदा च सतोऽपि निवृत्तिलक्षणस्य विशेषणस्य तत्रानुत्कलनात् कथं तत्प्रतीतिव्यवस्था।
अथैवं मतिः- यद् विधिरूपं स्फुरति तस्य परापोहोऽप्यस्तीति तत्प्रतीतिरुच्यते। तदापि सम्बन्धमात्रमपोहस्य। विधिरेव साक्षान्निर्भासी। अपिचैवमध्यक्षस्याप्यपोहविषयत्वमनिवार्यम् विशेषतो विकल्पादेकव्यावृत्तोल्लेखिनोऽखिलान्यव्यावृत्तमीक्षमाणस्य। तस्माद्विध्याकारावग्रहादध्यक्षवद् विकल्पस्यापि विधिविषयत्वमेव नान्यापोहविषयत्वमिति कथमपोहः शब्दार्थो घुष्यते।
अत्राभिधीयते। नास्माभिरपोहशब्देन विधिरेव केवलोऽभिप्रेतः। नाप्यन्यव्यावृत्तिमात्रम्। किन्त्वन्यापोहविशिष्टो विधिः शब्दानामर्थः। ततश्च न प्रत्येकपक्षोपनिपातिदोषावकाशः॥
यत्तु गोः प्रतीतौ न तदात्मापरात्मेति सामर्थ्यादपोहः पश्चान्निश्चीयत इति विधिवादिनां मतम्, अन्यापोहप्रतीतौ वा सामर्थ्यादन्यापोढोऽवधार्यते इति प्रतिषेधवादिनां मतम्। तदसुन्दरम्। प्राथमिकस्यापि प्रतिपत्ति क्रमादर्शनात्। न हि विधिं प्रतिपद्य कश्चिदर्थापत्तितः पश्चादपोहमवगच्छति। अपोहं वा प्रतिपद्यान्यापोढम्। तस्माद् गोः प्रतिपत्तिरित्यन्यापोढप्रतिपत्तिरुच्यते। यद्यपि चान्यापोढशब्दानुल्लेख उक्तस्तथापि नाप्रतिपत्तिरेव विशेषणभूतस्यान्यापोहस्य। अगवापोढ एव गोशब्दस्य निवेशितत्वात्। यथा नीलोत्पले निवेशितादिन्दीवरशब्दान्नीलोत्पलप्रतीतौ तत्काल एव नीलिमस्फुरणमनिवार्यं तथा गोशब्दादप्यगवापोढे निवेशिताद् गोप्रतीतौ तुल्यकालमेव विशेषणत्वादगोऽपोहस्फुरणमनिवार्यम्। यथा प्रत्यक्षस्य प्रसज्यरूपाभावाग्रहणमभावविकल्पोत्पादनशक्तिरेव तथा विधिविकल्पानामपि तदनुरूपानुष्ठानदानशक्तिरेवाभावग्रहणमभिधीयते। पर्युदासरूपाभावग्रहणं तु नियतस्वरूपसंवेदनमुभयोरविशिष्टम्। अन्यथा यदि शब्दादर्थप्रतिपत्तिकाले कलितो न परापोहः कथमन्यपरिहारेण प्रवृत्तिः। ततो गां बधानेति चोदितोऽश्वादीनपि बध्नीयात्॥
यदप्यवोचद् वाचस्पतिः जातिमत्यो व्यक्तयो विकल्पानां शब्दानां च गोचरः। तासां च तद्वतीनां रूपमतज्जातीयपरावृत्तमित्यतस्तदवगतेर्न गां बधानेति चोदितोऽश्वादीन् बध्नाति। तदप्यनेनैव निरस्तम्। यतो जातेरधिकायाः प्रक्षेपेऽपि व्यक्तीनां रूपमतज्जातीयपरावृत्तमेव चेत्, तदा तेनैव रूपेण शब्दविकल्पयोर्विषयीभवन्तीनां कथमतद्वयावृत्तिपरिहारः॥
अथ न विजातीयव्यावॄत्तं व्यक्तिरूपं तथाप्रतीतं वा तदा जातिप्रसाद एष इति कथमर्थतोऽपि तदवगतिरित्युक्तप्रायम्।
अथ जातिबलादेवान्यतोव्यावृतम्। भवतु जातिबलात् स्वहेतुपरम्पराबलाद् वान्यव्यावृतम्। उभयथापि व्यावृत्तप्रतिपतौ व्यावृत्तिप्रतिपत्तिरस्त्येव।
न चागवापोढे गोशब्दसङ्केतविधावन्यीन्याश्रयदोषः। सामान्ये तद्वति वा संकेतेऽपि तद्दोषावकाशात्। न हि सामान्यं नाम सामान्यमात्रमभिप्रेतम्, तुरगेऽपि गोशब्दसंकेतप्रसङ्गात्। किं तु गोत्वम्। तावता च स एव दोषः। गवादिपरिज्ञाने गोत्वसामान्यापरिज्ञानात्। गोत्वसामान्यापरिज्ञाने गोशब्दवाच्या परिज्ञानात्।
तस्मादेकपिण्डदर्शनपूर्वको यः सर्वव्यक्तिसाधारण इव बहिरघ्यस्तो विकल्पबुद्ध्याकारः तत्रायं गौरिति संकेतकरणे नेतरेतराश्रयदोषः।
अभिमते च गोशब्दप्रवृत्तावगोशब्देन शेषस्याप्यभिधानमुचितम्। न चान्यापोढान्यापोहयोर्विरोधो विशेष्यविशेषणभावक्षतिर्वा, परस्परव्यवच्छेदाभावात्। सामानाधिकरण्यसद्भावात्। भूतलघटाभाववत्।स्वाभावेन हि विरोधो न पराभावेनेत्याबालप्रसिद्धम्। एष पन्थाः श्रुघ्नमुपतिष्ठत इत्यत्राप्यपोहो गम्यत एव। अप्रकृतपथान्तरापेक्षया एष एव श्रुध्नप्रत्यनीकानिष्टस्थानापेक्षया श्रुघ्नमेव। अरण्यमार्गवद् विच्छेदाभावादुपतिष्ठत एव। सार्थदूतादिव्यवच्छेदेन पन्था एवेति प्रतिपदं व्यवच्छेदस्य सुलभत्वात्। तस्मादपोहधर्मणो विधिरूपस्य शब्दादवगतिः पुण्डरीकशब्दादिव श्वेतिमविशिष्टस्य पद्मस्य॥
यद्येवं विधिरेव शब्दार्थो वक्तुमुचितः, कथमपोहो गीयत इति चेत्। उक्तमत्रापोहशब्देनान्यापोहविशिष्टो विधिरुच्यते। तत्र विधौ प्रतीयमाने विशेषणतया तुल्यकालमन्यापोहप्रतीतिरिति।
न चैव प्रत्यक्षस्याप्यपोहविषयत्वव्यवस्था कर्तमुचिता।तस्य शाब्दप्रत्ययस्येव वस्तुविषयत्वे विवादाभावात्। विधिशब्देन च यथाध्यवसायमतद्रूपपरावृत्तो बाह्योऽर्थोभिमतः, यथाप्रतिभासं बुद्ध्याकारश्च। तत्र बाह्योऽर्थोऽध्यवसायादेव शब्दवाच्यो व्यवस्थाप्यते। न स्वलक्षणपरिस्फूर्त्या। प्रत्यक्षवद्देशकालावस्थानियतप्रव्यक्तस्वलक्षणास्फुरणात्। यच्छास्त्रम्
शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात्।
अर्थस्य दृष्टाविव
इति। इन्द्रियशब्दस्वभावोपायभेदादेकस्यैवार्थस्य प्रतिभासभेद इति चेत्। अत्राप्युक्तम् -
जातो नामाश्रयोन्यान्यः चेतसां तस्य वस्तुतः।
एकस्यैव कुतो रूपं भिन्नाकारावभासि तत्॥
न हि स्पष्टास्पष्टे द्वे रूपे परस्परविरुद्धे एकस्य वस्तुनः स्तः। यत एकेनेन्द्रियबुद्धौ प्रतिभासेतान्येन विकल्पे। तथा सति वस्तुन एव भेदप्राप्तेः। न हि स्वरूपभेदादपरो वस्तुभेदः। न च प्रतिभासभेदादपरः स्वरूपभेदः। अन्यथा त्रैलोक्यमेकमेव वस्तु स्यात्॥
दूरासन्नदेशवर्तिनोः पुरुषयोरेकत्र शाखिनि स्पष्टास्पष्टप्रतिभासभेदेऽपि न शाखिभेद इति चेत्। न ब्रूमः प्रतिभासभेदो भिन्नवस्तुनियतः, किं त्वेकविषयत्वाभावनियत इति। ततो यत्रार्थक्रियाभेदादिसचिवः प्रतिभासभेदस्तत्र वस्तुभेदः, घटवत्। अन्यत्र पुनर्नियमेनैकविषयतां परिहरतीत्येकप्रतिभासो भ्रान्तः॥
एतेन यदाह वाचस्पतिः - न च शाब्दप्रत्यक्षयोर्वस्तुगोचरत्वे प्रत्ययाभेदः कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेरिति, तन्नोपयोगि। परोक्षप्रत्ययस्य वस्तुगोचरत्वासमर्थतात्। परोक्षताश्रयस्तु कारणभेद इन्द्रियगोचरग्रहणविरहेणैव कृतार्थः। तन्न। शाब्दे प्रत्यये स्वलक्षणं परिस्फुरति। किं च स्वलक्षणात्मनि वस्तुनि वाच्ये सर्वात्मना प्रतिपत्तेः विधिनिषेधयोरयोगः। तस्य हि सद्भावेऽस्तीति व्यर्थम्, नास्तीत्यसमर्थम्। असद्भावे तु नास्तीति व्यर्थम्, अस्तीत्यसमर्थम्। अस्ति चास्त्यादिपदप्रयोगः। तस्मात् शाब्दप्रतिभासस्य बाह्यार्थभावाभावसाधारण्यं न तद्विषयतां क्षमते॥
यच्च वाचस्पतिना जातिमद्व्यक्तिवाच्यतां स्ववाचैव प्रस्तुत्यान्तरमेव न च शब्दार्थस्य जातेर्भावाभावसाधारण्यं नोपपद्यते। सा हि स्वरूपतो नित्यापि देशकालविप्रकीर्णानेकव्यक्त्याश्रयतया भावाभावसाधारणीभवन्त्यस्तिनास्तिसंबन्धयोग्या। वर्तमानव्यक्तिसंबन्धिता हि जातेरस्तिता। अतीतानागतव्यक्तिसंबन्धिता च नास्तितेति सन्दिग्धव्यतिरेकित्वादनैकान्तिकं भावाभावसाधारण्यम्, अन्यथासिद्धं वेति विकल्पितम्। तदप्रस्तुतम्। तावता तावन्न प्रकृतक्षतिः। जातौ भरं न्यस्यता स्वलक्षणवाच्यत्वस्य स्वयं स्वीकारात्। किं च सर्वत्र पदार्थस्यस्वलक्षणस्वरूपेणैवास्तित्वादिकं चिन्त्यते। जातेस्तु वर्तमानादिव्यक्तिसंवधीऽस्तित्वादिकमिति तु बालप्रतारणम्। एवं जातिमद्व्यक्तिवचनेऽपि दोषः। व्यक्तेश्चेत् प्रतीतिसिद्धिः जातिरधिका प्रतीयतां मा वा, न तु व्यक्तिप्रतीतिदोषान्मुक्तिः।
एतेन यदुच्यते कौमारिलैः सभागत्वादेव वस्तुनो न साधारण्यदोषः। वृक्षत्वं ह्यनिर्धारितभावाभावं शब्दादवगम्यते। तयोरन्यतरेण शब्दान्तरावगतेन संबध्यत इति। तदप्यसङ्गतम्। सामान्यस्य नित्यस्य प्रतिपत्ताबनिर्धारितभावाभावत्वायोगात्।
यच्चेदम् - न च प्रत्यक्षस्येव शब्दानामर्थप्रत्यायनप्रकारो येन तद्दृष्ट इवास्त्यादिशब्दापेक्षा न स्यात्, विचित्रशक्तित्वात् प्रमाणानामिति। तदप्यैन्द्रियकशाब्दप्रतिभासयोरेकस्वरूपग्राहित्वे भिन्नावभासदूषणेन दूषितम्। विचित्रशक्तित्वं च प्रमाणानां साक्षात्काराध्यवसायाभ्यामपि चरितार्थम्। ततो यदि प्रत्यक्षार्थप्रतिपादनं शाब्देन तद्वदेवावभासः स्यात्। अभवंश्व न तद्विषयख्यापनं क्षमते॥
ननु वृक्षशब्देन वृक्षत्वांशे चोदिते सत्त्वाद्यंशनिश्चयनार्थमस्त्यादिपदप्रयोग इति चेत्।
निरंशत्वेन प्रत्यक्षसमधिगतस्य स्वलक्षणस्य कोऽवकाशः पदान्तरेण। धर्मान्तरविधिनिषेधयोः प्रमाणान्तरेण वा। प्रत्यक्षेऽपि प्रमाणान्तरापेक्षा दृष्टेति चेत्। भवतु तस्यानिश्चयात्मकत्वादनभ्यस्तस्वरूपविषये। विकल्पस्तु स्वयं निश्चयात्मको यत्र ग्राही तत्र किमपरेण। अस्ति च शब्दलिङ्गान्तरापेक्षा। ततो न वस्तुस्वरूपग्रहः॥
ननु भिन्ना जात्यादयो धर्माः परस्परं धर्मिणश्चेति जातिलक्षणैकधर्मद्वारेण प्रतीतेऽपि शाखिनि धर्मान्तरवत्तया न प्रतीतिरिति किं न भिन्नाभिधानाधीनो धर्मान्तरस्य नीलचलोच्चैस्तरत्वादेरवबोधः। तदेतदसङ्गतम्। अखण्डात्मनः स्वलक्षणस्य प्रत्यक्षेऽपि प्रतिभासात्। दृश्यस्य धर्मधर्मिभेदस्य प्रत्यक्षप्रतिक्षिप्तत्वात्। अन्यथा सर्वं सर्वत्र स्यादित्यतिप्रसङ्गः। काल्पनिकभेदाश्रयस्तु धर्मधर्मिव्यवहार इति प्रसाधितं शास्त्रे।
भवतु वा पारमार्थिकोऽपि धर्मधर्मिभेदः। तथाप्यनयोः समवायादेर्दूषितत्वादुपकारलक्षणैव प्रत्यासत्तिरेषितव्या। एवं च यथेन्द्रियप्रत्यासत्त्या प्रत्यक्षेण धर्मिप्रतिपत्तौ सकलतद्धर्मप्रतिपत्तिस्तथा शब्दलिङ्गाभ्यामपि वाच्यवाचकादिसंबन्धप्रतिबद्धाभ्यां धर्मिप्रतिपत्तौ निरवशेषतद्धर्मप्रतिपत्तिर्भवेत्। प्रत्यासतिमात्रस्याविशेषात्॥
यच्च वाचस्पति, न चैकोपाधिना सत्त्वेन विशिष्टे तस्मिन् गृहीते उपाध्यन्तरविशिष्टस्तद्ग्रहः। स्वभावो हि द्रव्यस्योपाधिभिर्विशिष्यते। न तूपाधयो वा विशेष्यत्वं वा तस्य स्वभाव इति। तदपि प्लवत एव। न ह्यभेदादुपाध्यन्तरग्रहणमासञ्जितम्। भेदं पुरस्कृत्यैवोपकारकग्रहणे उपकार्यग्रहणप्रसञ्जनात्। न चाग्निधूमयोः कार्यकारणभाव इव स्वभावत एव धर्मधर्मिणोः प्रतिपत्तिनियमकल्पनमुचितम्। तयोरपि प्रमाणासिद्धत्वात्। प्रमाणसिद्धे च स्वभावोपवर्णनमिति न्यायः॥
यच्चात्र न्यायभूषणेन सूर्यादिग्रहणे तदुपकार्याशेषवस्तुराशिग्रहणप्रसञ्जनमुक्तम्, तदभिप्रायानवगाहनफलम्। तथा हि त्वन्मते धर्मधर्मिणोर्भेदः, उपकारलक्षणैव च प्रत्यासत्तिस्तदोपकारकग्रहणे समानदेशस्यैव धर्मरूपस्यैव चोपकार्यस्य ग्रहणमासञ्जितम्। तत्कथं सूर्योपकार्यस्य भिन्नदेशस्य द्रव्यान्तरस्य वा दृष्टव्यभिचारस्य ग्रहणप्रसङ्गः सङ्गतः। तस्मादेकधर्मद्वारेणापि वस्तुस्वरूपप्रतिपत्तौ सर्वात्मप्रतीतेः क्व शब्दान्तरेण विधिनिषेधावकाशः। अस्ति च। तस्मान्न स्वलक्षणस्य शब्दविकल्पलिङ्गप्रतिभासित्वमिति स्थितम्॥
नापि सामान्यं शाब्दप्रत्ययप्रतिभासि। सरितः पारे गावश्चरन्तीति गवादिशब्दात् सास्नाशृङ्गलाङ्गूलादयोऽक्षराकारपरिकरिताः सजातीयभेदापरामर्शनात् सम्पिण्डितप्रायाः प्रतिभासन्ते। न च तदेव सामान्यम्।
वर्णाकृत्यक्षराकारशून्यं गोत्वं हि कथ्यते।
तदेव च सास्नाशृङ्गादिमात्रमखिलव्यक्तावत्यन्तविलक्षणमपि स्वलक्षणेनैकीक्रियमाणं सामान्यमित्युच्यते तादृशस्य बाह्यस्याप्राप्तेर्भ्रान्तिरेवासौ केशप्रतिभासवत्। तस्माद् वासनावशाद् बुद्धेरेव तदात्मना विवर्तोऽयमस्तु। असदेव वा तद्रुपं ख्यातु। व्यक्तय एव वा स्वजातीयभेदतिरस्कारेणान्यथा भासन्तामनुभवव्यवधानात् स्मृतिप्रमोषो वाभिधीयताम्। सर्वथा निर्विषयः खल्वयं सामान्यप्रत्ययः। क्व सामान्यवार्ता।
यत् पुनः सामान्याभावे सामान्यप्रत्ययस्याकस्मिकत्वमुक्तं तदयुक्तम्। यतः पूर्वपिण्डदर्शनस्मरणसहकारिणातिरिच्यमानविशेषप्रत्ययजनिका सामग्री निर्विषयं सामान्यविकल्पमुत्पादयति। तदेवं न शाब्दे प्रत्यये जातिः प्रतिभाति। नापि प्रत्यक्षे। न चानुमानतोऽपि सिद्धिः। अदृश्यत्वे प्रतिबद्धलिङ्गादर्शनात्। नापोन्द्रियवदस्याः सिद्धिः ज्ञानकार्यतः कादाचित्कस्यैव निमित्तान्तरस्य सिद्धेः। यदा पिण्डान्तरे अन्तराले वा गोबुद्धेरभावं दर्शयेत् तदा शावलेयादिसकलगोपिण्डानामेवाभावादभावो गोबुद्धेरुपपद्यमानः कथमर्थान्तरमाक्षिपेत्। अथ गोत्वादेव गोपिण्डः। अन्यथा तुरगोऽपि गोपिण्डः स्यात्। यद्येवं गोपिण्डादेव गोत्वमन्यथा तुरगत्वमपि गोत्वं स्यात्। तस्मात् कारणपरम्परात एव गोपिण्डो गोत्वं तु भवतु मा वा। ननु सामान्यप्रत्ययजननसामर्थ्यं यद्येकस्मात् पिण्डादभिन्नं तदा विजातीयव्यावॄत्तं पिण्डान्तरमसमर्थम्। अथ भिन्नम्, तदा तदेव सामान्यम्, नाम्नि परं विवाद इति चेत्। अभिन्नैव सा शक्तिः प्रतिवस्तु। यथा त्वेकः शक्तस्वभावो भावस्तथान्योऽपि भवन् कीदृशं दोषमावहति। यथा भवतां जातिरेकापि समानध्वनिप्रसवहेतुः , अन्यापि स्वरूपेणैव जात्यन्तरनिरपेक्षा, तथास्माकं व्यक्तिरपि जातिनिरपेक्षा स्वरूपेणैव भिन्ना हेतुः॥
यत्तु त्रिलोचनः -अश्वत्वगोत्वादीनां सामान्यविशेषाणां स्वाश्रये समवायः सामान्यं सामान्यमित्यभिधानप्रत्यययोर्निमित्तमिति। यद्येवं
व्यक्तिष्वप्ययमेव तथाभिधानप्रत्ययहेतुरस्तु, किं सामान्यस्वीकारप्रमादेन। न च समवायः संभवी।
इहेति बुद्धेः समवायसिद्धि-
रिहेति धीश्च द्वयदर्शनेन।
न च क्वचित् तद्विषये त्वपेक्षा
स्वकल्पनामात्रमतोऽभ्युपायः॥
एतेन सेयं प्रत्ययानुवृत्तिरनुवृत्तवस्त्वनुयायिनी कथमत्यन्तभेदिनीषु व्यक्तिषु व्यावृत्तविषयप्रत्ययभावानुपातिनीषु भवितुमर्हतीत्यूहाप्रवर्तनमस्य प्रत्याख्यातम्। जातिष्वेव परस्परव्यावृत्ततया व्यक्तीयमानास्वनुवृत्तप्रत्ययेन व्यभिचारात्।
यत् पुनरनेन विपर्यये बाधकमुक्तम्, अभिधानप्रत्ययानुवृत्तिः कुतश्चिन्निवृत्त्य क्वचिदेव भवन्ती निमित्तवती, न चान्यन्निमित्तमित्यादि। तन्न सम्यक्। अनुवृत्तमन्तरेणाप्यभिधानप्रत्ययानुवृत्तेरतद्रूपपरावृत्तस्वरूपविशेषादवश्यं स्वीकारस्य साधितत्वात्। तस्मात् -
तुल्ये भेदे यया जातिः प्रत्यासत्त्या प्रसर्पति।
क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम्॥
यत् पुनरत्र न्यायभूषणोक्तं न ह्येवं भवति, यया प्रत्यासत्त्या दण्डसूत्रादिकं प्रसर्पति क्वचिन्नान्यत्र सैव प्रत्यासत्तिः पुरुषस्फटिकादिषु दण्डिसूत्रित्वादिव्यवहारनिबन्धनमस्तु, किं दण्डसूत्रादिनेति। तदसङ्गतम्। दण्डसूत्रयोर्हि पुरुषस्फटिकप्रत्यासन्नयोः दृष्टयो दण्डिसूत्रित्व प्रत्ययहेतुत्वं नापलप्यते।सामान्यं तु स्वप्नेऽपि न दृष्टम्। तद् यदीदं परिकल्पनीयं तदा वरं प्रत्यासत्तिरेव सामान्यप्रत्ययहेतुः परिकल्प्यताम्, किं गुर्व्या परिकल्पनयेत्यभिप्रायापरिज्ञानात्।
अथेदं जातिप्रसाधकमनुमानमभिधीयते। यद्विशिष्टज्ञानं तद्विशेषणग्रहणनान्तरीयकम्। यथा दण्डिज्ञानम्। विशिष्टज्ञानं चेदं गौरयमित्यर्थतः कार्यहेतुः। विशेषणानुभवकार्यं हि दृष्टान्ते विशिष्टबुद्धिः सिद्धेति। अत्रानुयोगः। विशिष्टबुद्धेर्भिन्नविशेषणग्रहणनान्तरीयकत्वं वा साध्यं विशेषणमात्रानुभवनान्तरीयकत्वं वा।
प्रथमपक्षे पक्षस्य प्रत्यक्षबाधा साधनावधानमनवकाशयति, वस्तुग्राहिणः प्रत्यक्षस्योभयप्रतिभासाभावात्। विशिष्टबुद्धित्वं च सामान्यहेतुरनैकान्तिकः, भिन्नविशेषणग्रहणमन्तरेणापि दर्शनात्। यथा स्वरूपवान् घटः, गोत्वं सामान्यमिति वा।
द्वितीयपक्षे तु सिद्धसाधनम्। स्वरूपवान् घट इत्यादिवत् गोत्वजातिमान् पिण्ड इति परिकल्पितं भेदमुपादाय विशेषणविशेष्यभावस्येष्टत्वादगोव्यावृत्तानुभवभावित्वाद् गौरयमिति व्यवहारस्य। तदेवं न सामान्यसिद्धिः। बाधकं च सामान्यगुणकर्माद्युपाधिचक्रस्य केवलव्यक्तिग्राहकं पटुप्रत्यक्षं दृश्यानुपलम्भो वा प्रसिद्धः।
तदेवं विधिरेव शब्दार्थः। स च बाह्योऽर्थो बुद्ध्याकारश्च विवक्षितः। तत्र न बुद्ध्याकारस्य तत्त्वतः संवृत्या वा विधिनिषेधौ, स्वसंवेदनप्रत्यक्षगम्यत्वात्। अनध्यवसायाच्च। नापि तत्त्वतो बाह्यस्यापि विधिनिषेधौ, तस्य शाब्दे प्रत्ययेप्रतिभासनात्। अत एव सर्वधर्माणां तत्त्वतोऽनभिलाप्यत्वं प्रतिभासाध्यवसायाभावात्। तस्माद् बाह्यस्यैव सांवृतौ विधिनिषेधौ। अन्यथा संव्यवहारहानिप्रसङ्गात्। तदेवं
नाकारस्य न बाह्यस्य तत्त्वतो विधिसाधनम्।
बहिरेव हि संवृत्या संवृत्यापि तु नाकृतेः॥
एतेन यद् धर्मोत्तरः आरोपितस्य बाह्यत्वस्य विधिनिषेधावित्यलौकिकमनागममतार्किकीयं कथयति, तदप्यपहस्तितम्।
नन्वव्यवसाये यद्यध्यवसेयं वस्तु न स्फुरति तदा तदध्यवसितमिति कोऽर्थः। अप्रतिभासेऽपि प्रवृत्तिविषयीकृतमिति योऽर्थः। अप्रतिभासाविशेषे विषयान्तरपरिहारेण कथं नियतविषया प्रवृत्तिरिति चेत्। उच्यते। यद्यपि विश्वमगृहीतं तथापि विकल्पस्य नियतसामग्रीप्रसूतत्वेन नियताकारतया, नियतशक्तित्वात् नियतैव जलादौ प्रवृत्तिः। धूमस्य परोक्षाग्निज्ञानजननवत्।
नियतविषया हि भावाः प्रमाणपरिनिष्ठितस्वभावा न शक्तिसांकर्यपर्यनुयोगभाजः। तस्मात् तदध्यवसायित्व माकारविशेषयोगात् तत्प्रवृत्तिजनकत्वम्। न च सादृश्यादारोपेण प्रवृत्तिं ब्रूमः, येनाकारे बाह्यस्य बाह्ये वा आकारस्यारोपद्वारेण दूषणाबकाशः। किं तर्हि स्ववासनाविपाकवशादुपजायमानैव बुद्धिरपश्यन्त्यपि बाह्यं बाह्ये प्रवृत्तिमातनोतीति विप्लुतैव। तदेवमन्याभावविशिष्टो विजातिव्यावृत्तोऽर्थो विधिः। स एव चापोहशब्दवाच्यः शब्दानामर्थः प्रवृत्तिनिवृत्तिविषयश्चेति स्थितम्।
अत्र प्रयोगः। यद् वाचकं तत्सर्वमध्यवसितातद्रूपपरावृतवस्तुमात्रगोचरम्। यथेह कूपे जलमिति वचनम्। वाचकं चेदं गवादिशब्दरूपमिति स्वभावहेतुः। नायमसिद्धः। पूर्वोक्तेन न्यायेन पारमार्थिकवाच्यवाचकभावस्याभावेऽप्यध्यवसायकृतस्यैव सर्वव्यवहारिभिरवश्यं स्वीकर्त्तव्यत्वात्। अन्यथा सर्वव्यवहारोच्छेदप्रसङ्गात्। नापि विरुद्धः। सपक्षे भावात्। न चानैकान्तिकः। तथा हि शब्दानामध्यवसितविजातिव्यावृत्तवस्तुमात्रविषयत्वमनिच्छद्भिः परैः परमार्थतो
वाच्यं स्वलक्षणमुपाधिरुपाधियोगः
सोपाधिरस्तु यदि वा कृतिरस्तु बुद्धः।
गत्यन्तराभावात्। अविषयत्वे च वाचकत्वायोगात्। तत्र
आद्यन्तयोर्न समयः फलशक्तिहाने -
र्मध्येऽप्युपाधिविरहात् त्रितयेन युक्तः॥
तदेवं वाच्यान्तरस्याभावात् विषयवत्त्वलक्षणस्य व्यापकस्य निवृत्तौ विपक्षतो निवर्त्तमानं वाचकत्वमध्यवसितबाह्यविषयत्वेन व्याप्यत इति व्याप्तिसिद्धिः।
महापण्डितरत्नकीर्तिपादविर(चि) तमपोहप्रकरणं
समाप्तम्॥