८. तृष्णावर्गः
Technical Details
(८) तृष्णावर्गः
तृष्णाग्निरेव नरकभूतः
भवोताराय तृष्णाग्निर्ज्वलनः शीत उच्यते।
नरके नारके योऽग्निस्तृष्णाग्निस्त्रिषु धातुषु॥१॥
कल्पभूतो ह्ययं वह्निः योऽयं नरकसम्भवः।
बहुज्वालाकुलो वह्निः तृष्णाहेतुसमुद्भवः॥२॥
कर्मक्षयाद् विमुच्यन्ते नरकात् पापकारिणः।
त्रिषु धातुषु दह्यन्ते नरास्तृष्णावशानुगाः॥३॥
अनादिमति संसारे तृष्णाग्निरतिबन्धकः।
तृष्णाग्निर्नरकं तस्मान्नाग्निर्नरकसम्भवः॥४॥
तृष्णाग्निः शरीरं मनश्च दहति
गात्रदाहं परं कुर्यान्नारकेयो हुताशनः।
शारीरं मानसं दाहं तृष्णाग्निः कुरुते नृणाम्॥५॥
तृष्णाग्निः सामान्याग्निना विशिष्यते
तस्माद् विशिष्यते वह्निः तृष्णाहेतुसमुद्भवः।
नारकेयोऽसमश्चैव तृष्णाग्निर्नितरां स्मृतः॥६॥
अयमग्निः त्रिकालसम्भवः
त्रिस्थानगः त्रिहेतुश्च त्रिकर्मपरिदीपकः।
त्रिकालसम्भवो ज्ञेयस्तृष्णाऽग्निपरकस्तथा॥७॥
तृष्णाग्निः सदैव सर्वत्र दाहकः
रागाग्निर्दह्यते स्वर्गे द्वेषाग्निस्तिर्यगे तथा।
मोहाग्निर्दह्यते पापे तृष्णाग्निः सर्वदा स्थितः॥८॥
तृष्णाग्नेः स्वरूप-निरूपणम्
मानेर्ष्याधूमविशिखः सङ्कल्पे धनसम्भवः।
लोभाग्निर्दहते लोकं नाग्निः कामसमुद्भवः॥९॥
तृष्णाग्निर्विषयसेवनेनैव वर्धते
लोभाशीविषदष्टा ये तेषां शर्म न विद्यते।
सेवितो भावितो लोभो भूय एवाभिवर्धते॥१०॥
लोभसमो रिपुर्भुवि नास्ति
यथा यथेन्धनं प्राप्यानलो वर्धत्यनेकशः।
शक्यः पालयितुं(वह्नि) र्लोभवह्निर्न(शक्यते)॥११॥
चक्रवद् भ्रमते लोको लोभेन परिवञ्चितः।
अनादिनिधने लोके नास्ति लोभसमो रिपुः॥१२॥
विशन्ति सागरजले लोभेन परिवञ्चिताः।
शस्त्रसङ्घातगहनं युद्धं संप्रविशन्ति च॥१३॥
लोभहेतोर्हि भूपाला नाशयन्ति परस्परम्।
शस्त्रासिभैरवप्रोता युद्धयन्ते धनतृष्णया॥१४॥
तृष्णाविषविनिर्मुक्ता लोभाङ्गारविवर्जिता।
समलोष्टकाञ्चना ये निर्वाणस्यान्तिके हि ते॥१५॥
लोभाग्निः सर्वापेक्षया विषमः
अतीवानुपपन्नस्य धनलोभेन दह्यते।
न वह्निर्विषमस्तत्र लोभाग्निर्यत्र वर्तते॥१६॥
लोभशान्तिं विना निर्वाणकथा वृथा
लोभाधारप्रयत्नेन हन्यात् तान् रभसा बुधः।
अनिर्वापितलोभस्य निर्वाणं दूरतः स्थितम्॥१७॥
भवसुखपरित्यागी भवजं दुःखं नाप्नोति
भवाभिलाषिणीं नान्दीं नाभिनन्दन्ति ये नराः।
न तेषां भवजं दुःखं स्वप्ने समुपविद्यते॥१८॥
तृष्णाबद्धान् जनान् मृत्युः शम्बूक इव कर्षति
मत्स्यान् यथा जालबद्धान् शम्बूकः परिकर्षति।
तृष्णाबद्धांस्तथा सत्त्वान्मृत्युः समुपकर्षति॥१९
तृष्णाविषं कुत्रापि न मुञ्चति
सविषैः सायकैर्विद्धो मृगो यत्र (प्र)धावति ।
तत्र तत्र विषं याति तथा तृष्णाविषं नृणाम्॥२०॥
प्रवाहप्रवहन्नद्या गतिर्गत्यऽनुधाविनी।
यथा निर्दहते बालान् शुष्केन्धनमिवानलः॥२१॥
आपातरम्या(विषया) विपाकज्वलनोपमाः।
तस्मात् तृष्णा विमोक्तव्या यदि सौख्यं हि रोचते॥२२॥
यथा हि वडिशग्रस्ता मीना मृत्युवशानुगाः।
तथा प्रतप्ता विषयान् परिधावन्ति दुःखिताः॥२३॥
तृष्णाग्निः नरकादपि महान्
नरकं नारकेयं च तृष्णानिहितं महत्।
पतन्ति निधना मर्त्याः परदारोपजीविनः॥२४॥
तृष्णाप्रेरितो मुनिरपि दुःखमनुभवति
न चेष्टितमनोपापतृष्णया प्रेरितो मुनिः।
षडिन्द्रियसमुद्भूतो विषयेन्धनदाहकः॥२५॥
देवानपि तृष्णाग्निर्दहत्येव
तृष्णाग्निर्दहते देवं कायाग्निर्न कथञ्चन।
सुखावृताः सुखरताः सुखे(न) परिवञ्चिताः॥२६॥
तृष्णापरिवञ्चितः पतनमपि नावगच्छति
पतनं नावगच्छन्ति तृष्णया परिवञ्चिताः।
ज्वालामालाकुलः सर्वः संसारस्तृष्णयाऽऽवृतः॥२७॥
तृष्णाग्निना वशीभूता जना गच्छन्ति दुर्गतिम्।
तृष्णाग्निभिः परिवृतः सुरलोकः समन्ततः॥२८॥
तृष्णाग्निः सदैव वर्धते
दह्यते विवशो रक्तः कामभोगवशीकृतः।
यथा यथेन्धनं प्राप्य ज्वलनं संप्रवर्धते॥२९॥
तथा तथा सुखं प्राप्य तृष्णाग्निर्वर्धते नृणाम्।
परिवर्तयते पुंसः काष्ठाग्निर्दाहदीपकः॥३०॥
तृष्णाग्निर्दहते लोकं परिहातुं न शक्यते।
ये विशालां नदीं तीर्णा सङ्कल्पकृतभैरवीम्॥३१॥
तृष्णापाशशून्यः परमां शान्तिमाप्नोति
ते गताः परमां शान्तिं यान् हि तृष्णा न बाधते।
तृष्णापाशविमुक्ता ये सङ्गदोषविवर्जिताः॥३२॥
निर्मुक्तपापकल्माषा वीतशोका हि ते बुधाः।
कल्पकोटिसहस्राणि तृष्णया वञ्चिता नराः॥३३॥
तृष्णया वञ्चितो लोकस्तृष्णामेवोपास्ते
(न)ते त्यजन्ति(विषयान्) मायामोहवशंगताः।
तृष्णया वञ्चितो लोकस्तृष्णामेवोपसेवते॥३४॥
लवणोदं तृषातोयं यथा पिबति नारिकः।
न तेन (तुष्यति) जन्तुर्मुहुश्च परिशुष्यति॥३५॥
दुःखकरीं तृष्णां न सेवेत
विषयेष्वेव तृष्णार्तश्चेष्टते पुरुषोऽधमः।
तस्मात् तृष्णां न सेवेत सा हि तृष्णा दुरासदा॥३६॥
तृष्णावशो नैव प्रमुच्यते
तृष्णावशो हि पुरुषः संसारान्नैव मुच्यते॥
अनुत्तमानि सौख्यानि भुक्त्वा देवेषु जन्तवः॥३७॥
तृष्णापाशविकृष्टाः नरकं पतन्ति
तृष्णापाशविकृष्टास्ते पतन्ति नरकं पुनः।
अस्वतन्त्रादिकल्याणं नित्यदुःखमयं कटु॥३८॥
तृष्णया कदापि तुष्टिर्न भवति
तृष्णायाः सेवनान्मुक्तः सन्मार्गमधिगच्छति।
सतृष्णस्य कुतस्तुष्टिर्विषयेषु भविष्यति॥३९॥
सा तृप्तिर्या वितृष्णस्य वीतशोकस्य देहिनः।
एवं वितर्कविहिताः प्रमादेन च वञ्चिताः॥४०॥
तृष्णया देवानपि नरकं यान्ति
तृष्णयाः तोषिता देवाः पतन्ति नरकं पुनः।
विडम्बनेयं परमा यत्सुरा नरकं गताः॥४१॥
क्रीडकाः परमा भूत्वा कामस्य वशमागताः।
न चोद्विजन्ति संसारान् प्राणिनश्चित्तमोहिताः॥४२॥
तृष्णया दुःखतरं पदमाप्नोति
दुःखाद् दुःखतरं यान्ति तृष्णया परिवञ्चिताः।
यथा यथा सुखस्याप्तिर्वर्धते जालिनी तथा॥४३॥
जालिनीवह्निदग्धस्य नरकानुपकर्षति।
सतृष्णस्य वितर्का ये तेषां संख्या न विद्यते॥४४॥
विषयगामिनः तृष्णया मृत्युमुखमेव प्रविशन्ति
अवितर्कवितर्कन्तु मृत्युराजो विकर्षति।
वितर्ककामवशगास्तृष्णाविषयगामिनः॥४५॥
कामास्वादप्रमत्ताः विषयिणो दुःखिनस्तिष्ठन्ति
सुखस्य भोगिनं दृष्ट्वा न विद्वद्भिस्तथेष्यते।
कामास्वादप्रमत्तानां प्राणिनां विषयार्थिनाम्॥४६॥
देहिनः तृष्णया दहयन्ते
जालिनी बाधते नित्यं यथा बध्नन्ति देहिनः।
पञ्चालम्बनमेतत्तु तृष्णया नैव दहयते॥४७॥
तृष्णाविमुक्ता विमला भवन्ति
तृष्णाविमुक्तविमला न पापपुरगामिनः।
सङ्कल्पदोषा कुटिला त्रिदोषरजसोद्भवाः॥४८॥
तृष्णया संसारसागरे परिवर्ते पतन्ति जनाः
प्रमादजलगम्भीराः स्त्रीरागकृतसेवनाः।
गीततूर्यस्वराः शीघ्रं सुरापानाच्च चञ्चलाः॥४९॥
सञ्छन्नविषया सर्वे मनः क्षिप्ततरङ्गिणः।
तृष्णानदीषु विषमे वहन्ति न च गोचरे॥५०॥
गाहन्ते ते च सम्मूढाः सुरा रागेण वञ्चिताः।
त्रिदोषकाष्ठसंभूताः प्रमादानिलवेगतः॥५१॥
तृष्णानलः सुरगणान् दहते न च ते विदुः।
न क्षणो नापि हि लवो न मुहूर्त कथञ्चन॥५२॥
या न तृष्णावशगतैः सुरैः समुपभुज्यते।
तृष्णाभूमिरियं काष्ठा वितर्कजलसम्भृता॥५३॥
तृष्णासर्पदग्धः कालवशीकृतो भवति
यस्मिन् क्रीडन्ति विवशाः देवाः कामवशानुगाः।
चित्तादिना प्रचण्डेन तृष्णाविषविसर्पिणा॥५४॥
दष्टानुपञ्चशीर्षेण किं वृथा विलपस्यथ।
तृष्णानदी विशालेयं पञ्चतीर्थसमुद्भवा॥५५॥
तृष्णामोहेन्द्रजालेन विप्रकीर्णेन सर्वदा।
तथा प्रपञ्चिता देवा यथा न शुभभागिनः॥५६॥
तृष्णाविषयघृतसिक्तो वर्धत एव
नेन्द्रियाणि सदा कामैस्तृप्यन्ति हि कथञ्चन।
संवर्धते तथा तृष्णा घृतसिक्तो यथाऽनलः॥५७॥
तृष्णया विविधासु योनिषु जनाः भ्रमन्ति
नानाविधैः सुखैरेषा जालिनी लोकनाशिनी।
नरकप्रेततिर्यक्षु भ्रामयन्ती नरान् सदा॥५८॥
वीततृष्णः निर्मुक्तबन्धनः परमां गतिमाप्नोति
मृत्यूपपत्तिदोलायां श्लिष्यन्ते बालिशाः जनाः।
सुशीलावीततृष्णाश्च गतास्ते परमां गतिम्॥५९॥
निर्मुक्तबन्धना धीरा गतशोका गतव्यथाः।
सुखं प्राप्नुवन्ति नित्यं ये न तृष्णावशानुगाः।
जन्मदुःखमयैः पाशैर्न ते विध्यन्ति सूरयः॥६०॥
तृष्णाविसृष्टिः ज्ञानाय प्रवर्तयति
येषां सर्वास्ववस्थासु ज्ञानेषु विहितं मनः।
अनिमित्ते मनो येषां विसृष्टा ये च तृष्णया।
ते वीतमलकान्ताराः पारं प्राप्ताः सुखोदयम्॥६१॥
तृष्णामोहप्रमत्ताः भवे भवे भ्रमन्ति
तृष्णामोहप्रमत्ता ये रतिसौख्यास्तथैव च।
मोहितास्ते देवगणा भ्रमिष्यन्ति भवे भवे॥६२॥
अहर्निशं तृष्णा तापयति
कुट्टनव्यवहारा ये परिचित्तापहारिणः।
अविद्याबहुला ये वा नित्यं दाहाभिकाङ्क्षिणः।
न रात्रौ न दिवा तेषां हृदयं सुप्रसीदति॥६३॥
लोभाभिभूताः तुषाग्निकल्पा भवन्ति
लोभाभिभूतमनसां परिवित्ताभिकाङ्क्षिणाम्।
तेषां तुषाग्निकल्पानां विश्वसेन्न स्वभावतः॥६४॥
विषयेन्धन सर्पाद् भयमेवोचितम्
बिभेति हि नरः सर्वः सर्पादिव विषेन्धनात्।
लोभेन विषयेणैवाऽभिभूतास्ते नरा भृशम्॥६५॥
तृष्णावशगाः विविधां योनिं लभन्ते
ते मृता नरकं यान्ति प्रेतयोनिं तथैव च।
तस्मादपि विनिर्मुक्ता नरकाद् वह्निसम्मुखात्॥६६॥
आकाङ्क्षिणः नित्यं दुःखभागिनो भवन्ति
पञ्चजन्मशतान्येते भवन्ति परिकाङ्क्षिणः।
विवर्णा दीनवदना नित्यं दुःखस्य भागिनः।
भवन्ति मनुजाः सर्वे लोभोपहतचेतसः॥६७॥
विवेकसम्पन्नाः परमां गतिं लभन्ते
प्रहीणलोभा ये सन्ति नित्यं ज्ञानाभिकाङ्क्षिणः।
बुद्धिमन्तः सदा सन्तः ते गताः परमां गतिम्।
निर्वाणहृदया वीतलोभमोहाः सदा नराः॥६८॥
लोभाकृष्टस्य विनिपातः
लोभाशीविषदष्टस्य विनिपातो ध्रुवं स्थितः।
क्रियमाणो ध्रुवं लोको वर्धते स मुहुर्मुहुः॥६९॥
शुष्केन्धनं समादाय यथा वह्निः प्रवर्धते।
धनतृष्णारताः सत्त्वाः धनोपार्जनतत्पराः॥७०॥
मृत्युकाले समुत्पन्ने त्यजन्ति विवशा धनम्।
यच्च तत्सम्भवं योगात् तत् सर्व न विनश्यति॥७१॥
लोभात्मा घोरं नरकं याति
तेन वित्तेन लोभात्मा नीयते नरकं भृशम्।
अन्यैस्तद्भुज्यते वित्तं स तु पापेन लिप्यते॥७२॥
प्रयान्ति नरकं घोरं पश्चात्तापेन दह्यते।
अनर्थो ह्यर्थरूपेण सुखरूपेण वा सुखम्॥७३॥
लोभत्यागं प्राज्ञः कुर्यात्
अमित्रं मित्ररूपेण लोभोऽयं हृदि वर्तते।
न लोभं संश्रयेत् प्राज्ञो लोभाग्निर्दह्यते सदा॥७४॥
लोभदग्धाः नरकगामिनो भवन्ति
तेन दग्धा भृशं सत्त्वाः पश्चान्नरकगामिनः।
लोकसाधारणा ह्येते विभवाः सुखवर्जिताः॥७५॥
तृष्णाभयविमुक्तिरेव श्रेयस्करी
तेषामर्थे कथं पाप क्रियते मन्दबुद्धिभिः।
तृष्णाभयविमुक्तस्य निराशस्य हि सर्वतः॥७६॥
वीतकाङ्क्षस्य धीरस्य नित्यं पदमवस्थितम्।
सम्पत्तौ धाबते लोको विपत्तौ नावबुध्यते॥७७॥
सम्पत्तिः क्षयान्ता
विपदन्ता हि सम्पत्तिः क्षयान्तं दिवसं यथा।
यथा तिष्ठति सम्पत्तिः विपत्तिः पापिका तथा॥७८॥
कामभोगैर्देवा अपि नरकं यान्ति
अवितृप्तस्य कामेभ्यस्तृष्णया परिदह्यते।
यस्येष्टाः सम्पदो नित्यं सुखं चाभिमतं सदा॥७९॥
जनि नाशयते तासां तृष्णा नष्टा सुखावहा।
ते देवा नरकं यान्ति कामभोगैस्तथार्पिताः॥८०॥
अनलाचेष्टितं सर्व तद् वदन्ति तथागताः।
मनुष्या यच्च नरकं प्रया(न्ति) शतशस्तथा॥८१॥
विमुग्धाः यति जीवनं नावगच्छन्ति
चेष्टितं तद् विशालायाः योषिकाया विदुर्बुधाः।
विमोहिता न विन्दन्ति त्वरितं स्वल्पजीवितम्।८२॥
तृष्णया सुकृतानि विनश्यन्ति
सुकृतानि च नश्यन्ति तृष्णा नैव विनश्यति।
भवे भवे गता सत्वाः न विन्दन्ति शुभाशुभम्॥८३॥
शुभस्य फलमेवेष्टं यत् सुराः परिभुञ्जते।
अशुभस्य तथा दृष्टमसुखं विनिपातजम्॥८४॥
शुभाशुभप्रहीणा एव जरामरणरहिता भवन्ति
शुभाशुभप्रहीणा ये सङ्गदोषविवर्जिताः।
ते गताः परमं स्थानं जरामरणवर्जितम्॥८५॥
तृष्णानदीपरिक्षिप्तः जनः किमपि नावगच्छति
पञ्चारं भवचक्रं तत् तृष्णानाभिपुरःसरम्।
नदीरागपरिक्षिप्तं न च लोकोऽवबुध्यते॥८६॥
दोषावर्ततरा ज्ञेया सङ्कल्पमकराकुलाः।
तृष्णानदी विशालेयं न च लोकोऽवबुध्यते॥८७॥
तृष्णा त्रिषु कालेषु वञ्चिका
त्रिकाले वञ्चनी तृष्णा नित्यमज्ञानकारिणी।
न तस्यां विश्वसेद् धीमान् संसारबन्धना हि सा॥८८॥
तृष्णा लोकबन्धनभूता
मित्रवद् दृश्यते काले शत्रुवच्च निकृन्तति।
न तस्यां विश्वसेत् प्राज्ञः सा हि लोकस्य बन्धनम्॥८९॥
शक्यं हि बन्धनं छेत्तुमायसं दारुवत्तथा।
न तृष्णाबन्धनं छेत्तुं नित्यं कामगवेषिभिः॥९०॥
यस्येष्टो बन्धभेदोऽयं यस्येष्टं सुखमव्ययम्।
स तृष्णया विमुक्तः (स्यात्)प्रज्ञाशो (धनकृद्) भवेत्॥९१॥
ज्ञानेन तृष्णावृक्षस्य छेदनं कर्त्तव्यम्
ज्ञानालोकः सुखालोको दुःखं तृष्णातमःस्मृतम्।
तस्मादालोकमास्थाय तमो नुदति पण्डितः॥९२॥
ज्ञानखड्गेन तीक्ष्णेन तृष्णावृक्षं निकृन्तति।
निकृत्तवृक्षः (स) नरः सुखं प्राप्नोत्यनुत्तमम्॥९३॥
दोषेण बहुला ह्येषा नदी प्रस्रवणाकुला।
दोषा नेतानहित्वा ( न) भवान्मुञ्चति पण्डितः॥९४॥
प्रज्ञानावमाश्रित्य तृष्णानद्याः पारं गच्छति
तृष्णानदीं त्रिपथगां प्रमादावर्तदुस्तराम्।
प्रज्ञानावं समाश्रित्य पारं गच्छन्त्यनामयम्॥९५॥
महेच्छतामहच्छत्रं येन चायान्ति बालिशाः।
तस्मान्महेच्छता बध्या त्वयेयं ज्ञानचक्षुषा॥९६॥
महेच्छैव हृदयव्रणभूता
महेच्छताव्रणस्तीव्रो हृदये यस्य जायते।
न रात्रौ न दिवा तस्य सुखं भवति लोभिनः॥९७॥
सङ्कल्पे तु न सम्भूतः तृष्णावायुसमीरितः।
महेच्छतामयो वह्निर्दहते हृदयं नृणाम्॥९८॥
लोभेनात्मनोऽहितं कुर्वन्ति जनाः
लोभेनावेष्टितमनाः पुरुषो लघुचेतसा।
जीवितान्यपि साराणि जहाति धनतृष्णया॥९९॥
पापानि हि च कर्माणि कुर्वन्ति पुरुषाः क्षितौ।
धनलाभेन तत् सर्व प्रवदन्ति मनीषिणः॥१००॥
ये साहसं न कुर्वन्ति विशन्ति ज्वलनं च यत्।
तत् सर्व लोभदोषेण कुर्वन्त्यहितमात्मनः॥१०१॥
शस्त्रानिलानि दुःखानि विविधानि च (सर्वतः)।
विशन्ति (वै) नरा मूढा लोभस्तत्र हि कारणम्॥१०२॥
हृदयस्थो मनोवह्निर्नित्यं बह्विच्छतां नृणाम्।
अल्पेच्छतया (हि) हृच्छान्तिर्भवतिलाभिनः॥१०३॥
यथाग्निरिन्धनेनैव प्रशान्तिमधिगच्छति।
तथा वह्विच्छतां नृणां धनैर्वृद्धिः प्रजायते॥१०४॥
अल्पेच्छतैव सुखम्
भूपाला (हि) धनैस्तृप्ताः कोटिशो निधनं गताः।
यास्यन्ति चान्ये निधनं तस्मादल्पेच्छता सुखम्॥१०५॥
तृष्णाविहीन एव सुखमाप्नोति
दुःखं वह्विच्छता नृणां लक्षणं सुखदुःखयोः।
(हेया सर्वप्रयत्नेन ) इदमुक्तं परीक्षकैः।
एष पन्थाः शिवः श्रेष्ठो येन तृष्णा वशीकृता॥१०६॥
॥इति तृष्णावर्गोऽष्टमः॥