षष्ठः सर्गः
Technical Details
षष्ठः सर्गः
वसन्तसमयवर्णनम्
प्रादुर्बभूव समयः सुभगो वसन्तः
प्रस्तावनाऽलिकुलकोकिलकूजितानाम्।
बाणाशयो मकरकेतनसायकानाम्
मौहूर्तिको मलयमारुतनिर्गमानाम्॥१॥
उच्चण्डदण्डधरकासरसौर्वभौम-
सन्नाहभीत इव चण्डमयूखमाली।
सद्यो विवर्तितहयो यमदिङ्मुखान्ताद्
यात्रामधत्त हिमभूधरसम्मुखीनाम्॥२॥
चन्द्रोदयोज्ज्वलमुखेन झषध्वजाज्ञां
व्याकुर्वता विमलसूक्ष्मतराम्बरेण।
वन्या वसन्तसमयेन परिग्रहत्व-
सम्भाविता सपदि पुष्पवती बभूव॥३॥
कलेन गाढतरमानपरिग्रहाणां
प्राणानिलान् रसयितुं प्रमदाजनानाम्।
उल्लासितेव रसना कुसुमद्रुमाणाम्
अद्भासते स्म नवकोमलपल्लवश्रीः॥४॥
उन्मोचयन् परिणतच्छदकञ्चुलीका-
मुद्भावयन् मुकुलजालकरोमहर्षम्।
उल्लोलयन् भ्रमरकेशभरं लतानाम्
उद्यानभूषु विजहार वसन्तकालः॥५॥
आरुह्य मन्दमलयानिलमौपवाह्य-
माशाजयप्रचलितस्य मनोभवस्य।
सूनप्रसूतिरभवन्नवलाजवृष्टिः
पुंस्कोकिलध्वनिरभूद् वरशङ्खघोषः॥६॥
मन्दानिलेन वहता वनराजिमध्याद्
उत्थापितः कुसुमकोणकरेणुरुच्चैः।
सेनापराग इव दिग्विजयोद्यतस्य
चेतोभुवः प्रसरति स्म दिगन्तरेषु॥७॥
पुष्पायुधस्य नृपतेः परपुष्टवर्गः
संग्रामसम्भ्रमसहान् सहकारबाणान्।
सञ्चेतुकाम इव सञ्चितचारुपत्रान्
बभ्राम विभ्रमवनेषु नवांकुरेषु॥८॥
वीरेण मारसुभटेन विभिद्य बाणै-
र्बद्धा महाविटपिनां विटपान्तरेषु।
व्याकीर्णकेशनिचया इव शत्रुमुण्डा
व्यालोलभृङ्गनिवहाः स्तबका विरेजुः॥९॥
भृङ्गाभिमुद्रितमुखा मकरन्दपूरैः
पूर्णोदरा रुरुचिरे सुमनोगुलुच्छाः।
वीरस्य मारनृपतेर्विजयाभिषेकं
कालेन कर्तुमिव रत्नघटाः प्रणीताः॥१०॥
ओघीकृता मलयमारुतचन्दनेन
पुष्फोर पूगवननूतनपुष्पपालिः।
चेतोभवस्य नृपतेर्मधुना सलीलम्
आन्दोलिता ललितचामरमालिकेव॥११॥
पुंस्कोकिलाः पुनरनङ्गजयापदान-
गाथासदृक्षकलपञ्चमकूजितानि।
पेठुः प्रसन्नमधुरोज्ज्वलपेशलानि
प्रत्यग्रचूतकलिकासु वनस्थलीषु॥१२॥
उद्वेलसम्भृतमधुव्रतदानराजि-
रुच्छृङ्खलो मलयमारुतगन्धहस्ती।
मानग्रहाद्रिकटकेषु मनस्विनीनां
वप्रक्रियाविहृतिमाचरति स्म मन्दम्॥१३॥
मन्दानिलक्षितिपमङ्गलपाठकानां
माकन्दगन्धगजमण्डनडिण्डिमानाम्।
उद्दामकामविजयोत्सवघोषणामाम्
उज्जृम्भते स्म रुतमुन्मदषट्पदानाम्॥१४॥
आमूलचूडमभितः प्रविजृम्भमाणो
बालप्रवाहनिवहो वनपादपानाम्।
मानान्धकारहरणाय मनस्विनीनां।
बालातपप्रसरविभ्रममाललम्बे॥१५॥
निरन्तरस्मेरमणीचकानां निष्यन्दमानाभिरनोहकानाम्।
मधूलकासारमहानदीभिर्वनं नदीमातृकतामयासीत्॥१६॥
तटोपकण्ठं मकरन्दसिन्धोः प्रसूनधूलीपुलिनाभिरामे।
आबद्धचक्राः सह कामिनीभिरारेभिरे पातुमलिप्रवीराः॥१७॥
वीरुन्मयीं विभ्रमयन्त्रडोलामारोप्य भृङ्गीमविगीतगीताम्।
समीरणैरात्मगरुत्समुत्थैः सानन्दमान्दोलयति स्म भृङ्गः॥१८॥
अशोकयष्ट्याः स्तबकोपनीतमादाय पुष्पासवमाननेन।
सम्भोगभिन्नां तरणद्विरेफः सचाटुकं पाययति स्म कान्ताम्॥१९॥
अङ्गं समासाद्य लताङ्गनानां षडंघ्रिडिम्भाः स्तबकस्तनेषु।
प्रत्यग्रपुष्पासवदुग्धपानं प्रपेदिरे विस्मृतलोलभावाः॥२०॥
अनेकसंग्रामविमर्दशीर्णां पुराणमौर्वीमपनीय भारः।
कोदण्डयष्टेर्मकरन्दयष्टेरपूर्वमौर्वीकरोद् द्विरेफैः॥२१॥
अनन्ययोनेरपदानगाथां मधोः सकाशादिव शिक्षयन्तः।
शाखासु शाखासु महीरुहाणां शनैः शिशिञ्जुः कलकण्ठशावाः॥२२॥
उत्क्षिप्तशाखाच्छलबाहुदण्डाश्चूतद्रुमाः शूर्पकशासनाज्ञाम्।
कर्णाभिरामैः कलकण्ठनादैरुद्धोषयामासुरिवाध्वगानाम्॥२३॥
विनेतुकामस्य विलासिनीनां मानद्विपेन्द्रं मकरध्वजस्य।
हेमांकुशानामवहन्नभिख्यामग्रे नताः प्रौढपलाशकोशाः॥२४॥
परिभ्रमत्षट्पदकर्बुराणां पंक्तिः पलाशद्रुममञ्जरीणाम्।
देदीप्यमानस्य शिलावलस्य दीप्तिं ययौ दर्शितधूमराशेः॥२५॥
आमोदलुब्धैरलिनां कदम्बराकृष्यमानः सुमनोगुलुच्छः।
ग्रासीकृतो राहुमुखेन राकाकलानिधेर्बिम्ब इवाबभासे॥२६॥
तटीपटीरद्रुमसङ्गभाजां सरीसृपाणामिव साहचर्यात्।
वियोगिनश्चन्दनशैलजन्मा विमूर्च्छयामास मुहुः समीरः॥२७॥
मधुशीकरदुर्दिनान्धकारे वनलक्ष्मीरतिदूतिकोपितानाम्।
भ्रमरीमभिसत्वरीं प्रमत्तः सचमत्कारमरीरमद् द्विरेफः॥२८॥
वकुलद्रुमवाटिका वरस्त्रीमुखगण्डूषमधुद्रवाभिषेकम्।
अनुभूय नवांकुरापदेशादवहन्नञ्चितरोमहर्षशोभाम्॥२९॥
सहकारवनीषु सञ्चरन्त्या मधुलक्ष्म्या इव नूपुरप्रणादाः।
कलकण्ठभुवः कलप्रलापाः श्रवसः पारणमादधुर्जनानाम्॥३०॥
अङ्गनावदनपद्मपूरणीमादरेण परिपीय वारुणीम्।
उद्ववाम पुनरेव केसरः स्यन्दमानमकरन्दकैतवात्॥३१॥
परिमललहरीषु पादपानां भरितसमस्तदिगन्तरापगासु।
जलविहरणमाचचार दिर्घं मलयमहीधरमन्दगन्धवाहः॥३२॥
मनोभवो मण्डलितास्त्रमौर्विकागभीरविष्फारविराविताम्बरम्।
अशेषसांसारिकशेमुषीमुषो ववर्ष चूतांकुरशातसायकान्॥३३॥
इति प्रवृत्ते मधुमासवैभवे विधातुमुद्यानविहारमुत्सुकः।
रथं समारुह्य नरेन्द्रनन्दनः सहावरोधेन विनिर्जगाम सः॥३४॥
ततः कुमारस्य पुरन्दरश्रियः प्रबोधकालोऽयमिति प्रबोधितुम्।
क्रमेण वृद्धातुरलुप्तजीवितान् प्रदर्शयामासुरमुष्य देवताः॥३५॥
क्रमेण पश्यन् पुरतः स्थितानमून् नितान्तमुद्विग्नमनाः नृपात्मजः।
किमेतदित्याहितविभ्रमः स्वयं पुरोगतान् पर्यनुयुंक्त सारथीन्॥३६॥
सविस्तरं तेऽपि सुरैरधिष्ठिता नरेन्द्रपुत्रस्य विरक्तिकारणम्।
क्रमेण तेषामतिमात्रदुःसहं जराविकारादिकमाचचक्षिरे॥३७॥
निशम्य तेषां वचनं नृपात्मजो निकामनिर्वेदविभाविताशयः।
नियन्त्रितोद्यानविहारकौतुको निवर्तयाश्वानिति सूतमब्रवीत्॥३८॥
अनन्तरं तस्य पुरः सुराधिपैरदर्शि शान्तानुशयस्तपोधनः।
विवृद्धकारुण्यसमुद्रवीचिकाविटङ्कविश्रान्तविशाललोचनः॥३९॥
प्रतप्तचामीकरगौरविग्रहः प्रवालभङ्गारुणचारुचीवरः।
प्रसन्नपूर्णेन्दुनिभाननद्युतिः प्रभूतमैत्रीपरिवाहिताशयः॥४०॥
तमेनमालोक्य च शाक्यनन्दनस्तपस्विनामग्रसरं सविस्मयः।
क एष का वाऽस्य चरित्रचातुरीत्यपृच्छदभ्याशजुषः स्वसारथोन्॥४१॥
अयं महाभाग ! विशुद्धमानसः पवित्रशीलः परमार्थदेशिकः।
सवासनोन्मूलितसर्वकिल्विषस्तपोधनः कश्चिदपश्चिमः सताम्॥४२॥
अमुष्य यः शासनमाश्रितो जनो जराविकारादितरङ्गभङ्गुरम्।
क्रमेण निस्तीर्य स जन्मसागरं प्रयाति निर्वाणपदं निरुत्तरम्॥४३॥
इति प्रवीराः क्षितिपालनन्दनप्रबोधनार्थं विबुधानुभावतः।
वितेनिरे वाङ्मनसाऽतिगोचरं तपोनिधेस्तस्य चरित्रवर्णनम्॥४४॥
इत्थं श्रुत्वा सारथीनां वचस्तल्लब्धोपायः संसृतेर्निष्क्रमाय।
सन्तुष्टान्तर्मानसो राजसूनुर्भूयोऽप्यैच्छत् कर्तुमुद्यानलीलाम्॥४५॥
इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये षष्ठः सर्गः॥