सुसंभवपरिवर्तः
Technical Details
॥ सुसंभवपरिवर्तः॥
ससागरा त्यक्त वसुंधरा तदा यदा बभूव नृप चक्रवर्ती।
चत्वारि द्वीपानि सरत्नपूर्णनिर्याति ता पूर्वजिनेषु मह्यम्॥ १॥
न चास्ति तद्वस्तु प्रियं मनापं
पूर्वं च मह्यं न व त्यक्तमासीत्।
तं धर्मकायं परिमार्गणार्थः
प्रियजीवितं त्यक्तमनेककल्पान्॥ २॥
यथ पूर्वकल्पेषु अचिन्तियेषु
रत्नशिखिस्य सुगतस्य शासने।
परिनिर्वृतस्य सुगतस्य तस्य
सुसंभवो नाम बभूव राजा॥ ३॥
स चक्रवर्ती चतुर्द्वीप ईश्वरः
समुद्रपर्यन्तमही प्रशास्यते।
जिनेन्द्रघोषाय च राजधानीय
सुप्तो बभूवा तद राजकुञ्जरः॥ ४॥
स्वप्नान्तरे बुद्धगुणाञ्च श्रुत्वा
रत्नोच्चयं पश्यति धर्मभाणकम्।
स्थित सूर्यमध्ये व विरोचमानं
प्रकाशयन्तं इम सूत्रराजम्॥ ५॥
स्वप्नाद्विबुद्धश्च बभूव राजा
पीतिस्फुटं सर्वशरीरमस्य।
अभिनिष्क्रर्म राजकुलानि दृष्टु
उपसंक्रमी श्रावकसंघमग्रम्॥ ६ ॥
करोति पूजां जिनश्रावकाणां
रत्नोच्चयं पृच्छति धर्मभाणकम्।
क्व चास्ति भिक्षूरिह चार्यसंघे
रत्नोच्चयो नाम गुणान्वितश्च॥ ७॥
तेनान्तरेणा रतनोच्चयो हि
अन्यत्र गूहान्तर संनिषणः।
विचित्ररत्नं इम सूत्रराजं
स्वध्यायमानः सुख संनिषणः॥ ८॥
देशेन्ति राजस्य तदन्तरेण
रत्नोच्चयं भिक्षु स धर्मभाणकम्।
अन्यत्र गूहान्तरसंनिषणं।
तं तेन रश्मीश्रियया ज्वलन्तम्॥ ९॥
एषोऽत्र रत्नोच्चय धर्मभाणको
धारेति गम्भीरजिनस्य गोचरम्।
स्वर्णप्रभासोत्तमसूत्ररत्नं
सूत्रेन्द्रराजं सततं प्रकाशयेत्॥ १०॥
वन्दित्व पादौ रतनोच्चयस्य
सुसंभवो राज इदं प्रवीद्धि।
देशे हि मे पूर्णशशाङ्क चक्रं
स्वर्णप्रभासोत्तमसूत्ररत्नम्॥ ११॥
अधिवासयी सो रतनोच्चयश्च
राज्ञश्च तस्यैव सुसंभवस्य।
सर्वत्रिसाहस्रिकलोकधातौ
प्रहर्षितास्सर्वि बभूवु देवताः॥ १२॥
वसुधाप्रदेशे परमे विशिष्टे
रत्नोदके गन्धजलाम्वुसिक्ते।
पुष्पावकीर्णां धरणीं स कृत्वा
तत्रासनं प्राप्य तदा नरेन्द्रः॥ १३॥
समलंकृतं राज्ञ तदासनं च
च्छत्रैर्ध्वजैर्घण्टसहस्रनेकैः।
नानाविचित्रैर्वरपुष्पचन्द्रैर्
अभ्योकिरे राज्ञ तदासनं च॥ १४॥
देवाश्च नागासुरकिंनराश्च
यक्षाश्च यक्षेन्द्रमहोरगाश्च।
दिव्यैश्च मान्दारवपुष्पवर्षैर्
अभ्यावकीर्णाश्च तदासनं च॥ १५॥
अचिन्तियानन्त सहस्रकोटियो
ये आगता देवभवाग्रकामाः।
अभिनिष्क्रमित्वा रतनोच्चयं हि
अभ्यो किरन्ति स्म च सालपुष्पा॥ १६॥
सो चापि रत्नोच्चय धर्मभाणकः
शुभाभगात्रः शुचिवस्त्रप्रावृतः।
उपसंक्रमित्वा च तदासनं हि
कृताञ्जलीभूत्व नमस्यते च॥ १७॥
देवेन्द्रदेवानि च देवतानि
मान्दारपुष्पं च प्रवर्षयन्ति।
अचिन्तिया तूर्यशता सहस्रा
प्रवादयन्ति स्थित अन्तरीक्षे॥ १८॥
अभीरुहित्वा च स संनिषणो
रत्नोच्चयो भिक्षु स धर्मभाणकः।
अनुस्मरित्वा दशसू दिशासु
अचिन्तिया बुद्धसहस्रकोट्यः॥ १९॥
सर्वेष सत्त्वान कृपांज नित्य
कारुण्यचित्तं समुपादयेत् सः।
राज्ञश्च तस्यापि सुसंभवस्य
प्रकाशितं सूत्रमिदं तदन्तरे॥ २०॥
कृताञ्जलीभूत्व स्थिहित्व राजा
यः कायवाचा मनुमोदितः सः।
सद्धर्मवेगाश्रुप्रमुक्तनेत्रः
प्रतिस्फटस्तस्य बभूव कायः॥ २१॥
इमस्य सूत्रस्य च पूजनार्थं
सुसंभवो राज तदन्तरेण
गृह्णित्व चिन्तामणिराजरत्नं
सर्वार्थहेतोः प्रणिधिं चकार॥ २२॥
वर्षन्तु अद्या इह जम्बुद्विपे
ससप्तरत्नाणि च भूषणानि
ये चेह सत्त्वाः खलु जम्बुद्विपे
सुखिताश्च भेष्यन्ति महाधनाश्च॥ २३॥
चतुर्षु द्वीपेषु प्रवर्षितानि
सप्तानि रत्नानि तदन्तरेण।
केयूरहारा वरकुण्डलानि
तथान्नपाने वसनानि चैव॥ २४॥
दृष्ट्वा च तं राज सुसंभवश्च
रत्नप्रवर्षं खलु जम्बुद्वीपे।
चत्वारि द्वीपानि सरत्नपूर्णा
निर्यातयी रत्नशिखिस्य शासने॥ २५॥
अहं च सः शाक्यमुनिस्तथागतः
सुसंभवो नाम बभूव राजा।
येनेह मे त्यक्त वसुंधरा तदा
चत्वारि द्वीपानि सरत्नपूर्णा॥ २६॥
अक्षोभ्य आसीत् स तथागतश्च
रत्नोच्चयो भिक्षु स धर्मभाणकः।
येनास्य राजस्य सुसंभवस्य
प्रकाशितं सूत्रमिदं तदान्तरे॥ २७॥
यन्मे श्रुतं सूत्रमिदं तदन्तरे
एकाग्रवाचामनुमोदितं च।
तेनैव मह्यं कुशलेन कर्मणा
श्रोतानुमोदेन श्रुतेन तेन॥ २८॥
सुवर्णवर्णं शतपुण्यलक्षणं
लभेयि कायं प्रियदर्शनं सदा।
नयनाभिरामं जनकान्तदर्शनं
रतिंकरं देवसहस्रकोटिनाम्॥ २९॥
नवोत्तरं नोतिसहस्रकोट्या
कल्पानभूवं नृपचक्रवर्ती।
अनेक कल्पान सहस्रकोट्यो
त्रैलोक्यराजत्व मयानुभूतम्॥ ३०॥
अचिन्तिया कल्प बभूव शक्रः
तथैव ब्रह्मेन्द्र प्रशान्तमानसः।
आरागिता मे बलाप्रमेया
येषां प्रमाणं न कदाचि विद्यते॥ ३१॥
तथा प्रमाणं बहु पुण्यस्कन्धं
यन्मे श्रुतं सूत्रनुमोदितं च।
यथाभिप्रायेण मि बोधि प्राप्ता
सद्धर्मकायश्च मया हि लब्ध॥ ३२॥
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे सुसंभवपरिवर्तो
नाम चतुर्दशमः॥