समाध्यनुशिक्षणापरिवर्तः
Technical Details
समाध्यनुशिक्षणापरिवर्तः।
तत्र कुमार यो बोधिसत्त्वो महासत्त्वः सर्वधमाणां स्वभावं प्रजानाति, तस्येमे एवंरूपा गुणानुशंसा भवन्ति-स तथागतानां भूतं गुणवर्णं भाषते। न च तथागतान् व्याख्याति असता अभूतेन। तत् कस्य हेतोः ? यया धर्मतया तथागतः प्रभाव्यते, तां धर्मतां यथाभूतं प्रजानाति। अनन्तात् बुद्धगुणान् प्रजानाति। तत् कस्य हेतोः ? अनन्ता हि कुमार बुद्धगुणा अचिन्त्याश्चिन्तापगताः। तेनाशक्यं चिन्तयितुं वा प्रमातुं वा। तत् कस्य हेतोः ? चित्तं हि कुमार निःस्वभावमरूप्यनिदर्शनम्। इति हि कुमार यत्स्वभावं चित्तं तत्स्वभावा बुद्धगुणाः, यत्स्वभावा बुद्धगुणास्तत्स्वभावास्तथागताः, तत्स्वभावाः सर्वधर्माः। यः कुमार बोधिसत्त्वो महासत्त्व एवं सर्वगुणस्वभावनिर्देशं यथाभूतं प्रजानाति, अयं कुमार उच्यते बोधिसत्त्वो महासत्त्वो निध्याप्तिमानसः। निःसरणकुशलः। त्रैधातुकनिःसरणं यथाभूतं प्रजानाति। यथावदर्शी अवितथवादी अनन्यथाभाषी, यथावादी तथाकारी, अनभिनिविष्टस्त्रैधातुके त्रैधातुकसमतिक्रान्तः। समतिक्रान्तः कामभूमिं रूपभूमिं आरूप्यभूमिं क्लेशभूमिं नामभूमिं घोषभूमिम्। अक्षरपदनयकुशलः। अक्षरविभावितज्ञानः। अनभिलप्यधर्मकोविदः। अक्षरज्ञः। अक्षरकुशलः। अक्षरपदप्रभेदज्ञानकुशलः। अक्षरपदप्रभेदविस्तारज्ञानकुशलः। सर्वधर्मपदप्रभेदकुशलः। सर्वधर्मपदप्रभेदविस्तारकुशलः। सर्वधर्मव्यवस्थानज्ञानकुशलः। निश्चितया बुद्ध्या समन्वागतोऽनभिभूतः सर्वमारैः पापीयोभिर्मारकायिकाभिश्च देवताभिः॥
अस्मिन् खलु पुनर्धर्मपर्याये भाष्यमाणे अष्टानवतेर्नियुतानां देवमानुषिकायाः प्रजायाः पूर्वपरिकर्मकृतायाः कोटीशतसहस्रावर्ताया धारण्या अनावरणायाश्च धर्मविपश्यनायाः क्षान्तेः प्रतिलम्भोऽभूत्। ते च सर्वे भगवता व्याकृता अष्टाचत्वारिंशता कल्पैरसंख्येयशतसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। सर्वे च अन्यान्यनामान एकायुष्प्रमाणा अन्यान्येषु बुद्धक्षेत्रेषु अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। तत्रेदमुच्यते -
यो बोधिसत्त्व मतिमान् प्राप्नोति अनुत्तरां वरां बोधिम्।
अर्थे च धर्मि कुशलो चरति स धर्मस्वभावस्मि॥ १॥
नाभूत् भणति वाचं बुद्धानां यादृशा गुणविशेषाः।
स हि धर्मु तं जिनानां जानति शूरो विगतकङ्क्षाः॥ २॥
एकार्थ सर्वधर्मान् प्रजानति च शून्यतां स एकांशम्।
नानार्थु नास्ति तेषां एकार्थे शिक्षितो भवति॥ ३॥
निष्कल्पानविकल्पान् अनोपलम्भांश्च जानाति मतिमान्।
क्षति अक्षयेऽस्य संज्ञा प्रहीण सर्वा निरवशेषा॥ ४॥
न हि रूपतो दशबलान् पश्यति सो धर्मकाय नरसिंहान्।
नापि लक्षणेहि तस्य प्रहीण सर्वे विपर्यासाः॥ ५॥
धर्मा अचिन्त्य एते चिन्तापगता स्वभाव उपशान्ताः।
एवं प्रजानमानः पश्यति बुद्धान् द्विपदश्रेष्ठान्॥ ६॥
यथ ज्ञात्वात्मसंज्ञास्तथैव सर्वत्र प्रेषिता बुद्धिः।
सर्वे च तत्स्वभावा धर्म विशुद्धा गगनकल्पाः॥ ७॥
न हि जात मानसेऽस्य निःसरणं ज्ञात्व सर्वधर्माणाम्।
त्रैधातुके विमुक्तिप्रणिधानु न विद्यते तस्य॥ ८॥
यथावदर्शि भोति अवितथवचनोऽनन्यथाभाषी।
सर्वं च तस्य वचनं निश्चरति जिनानुभावेन॥ ९॥
अतिक्रान्तु कामभूमिं किलेशभूमिं च रूप आरूप्यान्।
धर्मेष्वसक्तमनसः प्रमुदित चरते जगहिताय॥ १०॥
अतिक्रान्तु नामभूमिं घोषो ज्ञान स्वभावेन चयिकः।
यावच्चिरं पि भणतो न विद्यते निश्रयस्तस्य॥ ११॥
संज्ञाप्रचारु नास्ति दृष्टिविपर्यासु सर्वशः क्षीणः।
सुनिश्चिता बुद्धिश्च ते गगनोपमधीराः॥ १२॥
विहार कोटीनियुता भवेयु विक्षेपणार्थ चित्तस्य।
अभिभवति सर्वमारान् न चापि तेषां वशमुपैति॥ १३॥
सर्वि जह्यु मारजालं परिशुद्धः शीलवानपरिदाहः।
ध्यानसुखस्मि निरतः प्रजानति च शून्यकं लोकम्॥ १४॥
लोकाश्च स्कन्ध उक्तास्तांश्चापि स शून्यकान् प्रजानति।
अनुत्पादाननिरोधान् सर्वान् गगनोपमान् धर्मान्॥ १५॥
आत्मानं स त्यजते न चैव शिक्षां श्रुतां दशबलस्य।
सो शीलपारमिं गत उपपद्यति यत्र प्रणिधेति॥ १६॥
विचरन्तु बुद्धक्षेत्रान् पश्यति बुद्धकोटीनियुतानि।
न स्वर्गं प्रार्थयते न चापि प्रणिधानतो मुक्तः॥ १७॥
न भ्रंशयति स वीर्यं मुहूर्तमात्रमपि धर्म चरमाणः।
प्रशंसितश्च भोति बुद्धभिर्दशदिशे लोके॥ १८॥
तस्मात्तर्हि कुमार श्रुत्वा धर्मानिमान् समाधिस्मिन्।
जहियान ज्ञात्रलाभं प्रकाशय महाजने धर्मम्॥ १९॥
य इच्छति स्वयंभूर्भवेय बुद्धो महागुणसमङ्गी।
इह शिक्षित्वा कुशलो दशबलधारी भवति बुद्धः॥ २०॥
इति श्रीसमाधिराजे समाध्यनुशिक्षणापरिवर्तो नाम द्वादशः॥ १२॥