१४ औपम्यपरिवर्तश्चतुर्दशः
Technical Details
१४ औपम्यपरिवर्तश्चतुर्दशः।
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-यो भगवन् बोधिसत्त्वो महासत्त्वः सहश्रवणेनैव अस्यां गम्भीरायां प्रज्ञापारमितायामधिमुच्यते नावलीयते न संलीयते नावतिष्ठते न धन्धायति न विचिकित्सति न काङ्क्षति, अभिनन्दति च प्रज्ञापारमिताम्, स भगवन् कुतश्च्युत्वा कुत्रोपपन्नः? भगवानाह-यः सुभूते बोधिसत्त्वो महासत्त्वः सहश्रवणेनैव अस्यां गम्भीरायां प्रज्ञापारमितायामधिमोक्ष्यते नावलेष्यते न संलेष्यते नावस्थास्यते न धन्धायिष्यति न विचिकित्सिष्यति न काङ्क्षिष्यति, अभिनन्दिष्यति च दर्शनं श्रवणं च, धारयिष्यति भावयिष्यत्येनां गम्भीरां प्रज्ञापारमिताम्, प्रज्ञापारमिताप्रतिसंयुक्तांश्च मनसिकारान्न विहास्यति, न विपृष्ठीकरिष्यति मानसम्, छन्दं जनयिष्यत्युद्ग्रहीतुं धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुम्, करिष्यत्यनुबन्धम्, अनुगमिष्यति धर्मभाणकं नोत्स्रक्ष्यति। तद्यथापि नाम सुभूते तरुणवत्सा गौर्नोत्सृजति वत्सम्, एवमेव सुभूते यो बोधिसत्त्वो महासत्त्व एनां गम्भीरां प्रज्ञापारमितां श्रुत्वा तावन्न प्रहास्यति धर्मभाणकं यावदस्येयं प्रज्ञापारमिता कायगता वा भविष्यति पुस्तकगता वा, अयं सुभूते बोधिसत्त्वो महासत्त्वो मनुष्येभ्य एव च्युतो मनुष्येष्वेवोपपन्नः॥
सुभूतिराह-स्याद्भगवन् एतैरेव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽन्येभ्यो बुद्धक्षेत्रेभ्यश्च्युत इहोपपन्नः? भगवानाह-स्यात्सुभूते बोधिसत्त्वो महासत्त्वोऽन्येभ्यो बुद्धक्षेत्रेभ्योऽन्यान् बुद्धान् भगवतः पर्युपास्य परिपृच्छ्य परिप्रश्नीकृत्य तेभ्यश्च्युत इहोपपन्नः, एतैरेव गुणैः समन्वागतो वेदितव्यः। पुनरपरं सुभूते यो बोधिसत्त्वो महासत्त्वस्तुषितेभ्यो देवेभ्यश्च्युत इहोपपन्नः, सोऽप्येतैरेव गुणैः समन्वागतो वेदितव्यः। येन मैत्रेयो बोधिसत्त्वो महासत्त्वः पर्युपासितः परिपृष्टः परिपृच्छितः परिप्रश्नीकृतः इमां प्रज्ञापारमितामारभ्य, सोऽप्येतैरेव गुणैः समन्वागतो वेदितव्यः। येन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता श्रुता, न तु परिपृष्टा भवेत्, न परिपृच्छिता न परिप्रश्नीकृता, तस्य पुनरपि मनुष्येष्वेवोपपन्नस्य अस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां भवति काङ्क्षायितत्वम्, भवति धन्धायितत्वम्, भवति चित्तस्यावलीनता, वेदितव्यमेतत्सुभूते, अयं बोधिसत्त्वः पूर्वान्ततोऽप्यपरिपृच्छकजातीयोऽभूत्। तत्कस्य हेतोः? तथा हि अस्यां अस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां भवति काङ्क्षायितत्वम्, भवति धन्धायितत्वम्, भवति चित्तस्यावलीनतेति॥
पुनरपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेनेयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततोऽपि श्रुता भवति, पर्युपासिता परिपृष्टा परिपृच्छिता परिप्रश्नीकृता च भवति, एकं वा दिनं द्वे वा त्रीणि वा चत्वारि वा पञ्च वा दिनानि, तस्य तावत्कालिकी श्रद्धा भवति, संह्रियते च, पुनरेवासंहार्या च भवति परिपृच्छया। तत्कस्य हेतोः? एवं ह्येतत्सुभूते भवति-येन पूर्वं न संपरिपृष्टा भवतीयं प्रज्ञापारमिता, न संपरिपृच्छिता, न संपरिप्रश्नीकृता, न चानुवर्तिता भवति, तस्य कंचित्कालं छन्दोऽनुवर्तते अस्यां गम्भीरायां प्रज्ञापारमितायां श्रवणाय, कंचित्कालं छन्दो न भवति। स पुनरेवोत्क्षिप्यतेऽवसीदति। तस्य चलाचला बुद्धिर्भवति। तूलपिचूपमश्च स भवति। सोऽयं बोधिसत्त्वोऽचिरयानसंप्रस्थितो वेदितव्यः। नवेन यानेनागतः स बोधिसत्त्वस्तां श्रद्धां तं प्रसादं तं छन्दं प्रहास्यति, यदुतैनां गम्भीरां प्रज्ञापारमितां नानुग्रहीष्यति नानुवर्तिष्यते नानुपरिवारयिष्यति। तस्य द्वयोर्भूम्योरन्यतरा भूमिः प्रतिकाङ्क्षितव्या-श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा। तद्यथापि नाम सुभूते महासमुद्रगतायां नावि भिन्नायां ते तत्र काष्ठं वा न गृह्णन्ति फलकं वा, मृतशरीरं वा नाध्यालम्बन्ते, वेदितव्यमेतत्-अप्राप्ता एवैते पारमुदके कालं करिष्यन्तीति। ये खलु पुनः सुभूते महासमुद्रगतायां नावि भिन्नायां तत्र काष्ठं वा गृह्णन्ति फलकं वा, मृतशरीरं वा अध्यालम्बन्ते, वेदितव्यमेतत्सुभूते-नैते उदके कालं करिष्यन्ति, स्वस्तिना अनन्तरायेण पारमुत्तरिष्यन्ति, अक्षताश्चानुपहताश्च स्थले स्थास्यन्तीति। एवमेव सुभूते यो बोधिसत्त्वः श्रद्धामात्रकेण प्रसादमात्रकेण प्रेममात्रकेण छन्दमात्रकेण समन्वागतः स च प्रज्ञापारमितां नाध्यालम्बते, वेदितव्यमेतत्सुभूते अन्तरैवैष व्यध्वनि व्यवसादमापत्स्यते, अप्राप्त एव सर्वज्ञतां श्रावकत्वे प्रत्येकबुद्धत्वे वा स्थास्यतीति। येषां खलु पुनः सुभूते बोधिसत्त्वानां महासत्त्वानामस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः, अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः, अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, ते च प्रज्ञापारमितामध्यालम्बन्ते। एवं तेषां सा श्रद्धा सा क्षान्तिः सा रूचिः स च्छन्दः तद्वीर्यं सोऽप्रमादः साधिमुक्तिः सोऽध्याशयः स त्यागः तद्गौरवं सा प्रीतिः तत्प्रामोद्यं स प्रसादः तत्प्रेम सा अनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। ते च प्रज्ञापारमितां प्राप्य सर्वज्ञतायां स्थास्यन्ति। तद्यथापि नाम सुभूते स्त्री व पुरुषो वा अपरिपक्वेन घटेनोदकं परिवहेत्, वेदितव्यमेतत्सुभूते-नायं घटश्चिरमनुवर्त्स्यते, क्षिप्रमेव परिभेत्स्यते, प्रविलेष्यते इति। तत्कस्य हेतोः? यथापि नाम तदपरिपक्वत्वाद्धटस्य, स भूमिपर्यवसान एव भविष्यतीति। एवमेव सुभूते किंचापि बोधिसत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः अस्ति रूचिः अस्ति छन्दः अस्ति वीर्यम् अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः अस्ति त्यागः।
अस्ति गौरवम्, अस्ति प्रीतिः अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। स च प्रज्ञापारमितया उपायकौशल्येन च अपरिगृहीतो भवति, वेदितव्यमेतत्सुभूते अयं बोधिसत्त्वोऽन्तरा व्यध्वनि व्यवसादमापत्स्यत इति। कश्च सुभूते बोधिसत्त्वस्यान्तरा व्यध्वनि व्यवसादः- श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा? तद्यथापि नाम सुभूते स्त्री वा पुरुषो वा सुपरिपक्वेन घटेन नदीतो वा सरस्तो वा तडागतो वा उदपानाद्वा ततोऽन्येभ्यो वा उदकाधारेभ्य उदकं परिवहेत्, तस्य तदुदकं परिवहतो वेदितव्यमेतत्सुभूते स्वस्तिना अनन्तरायेण अयं घटो गृहं गमिष्यतीति। तत्कस्य हेतोः? यथापि नाम सुपरिपक्वत्वाद्धटस्य। एवमेव सुभूते यस्य बोधिसत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः अस्ति रुचिः अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेमः अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। स च प्रज्ञापारमितया उपायकौशल्येन च परिगृहीतो भवति। वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो महासत्त्वोऽन्तरा व्यध्वनि व्यवसादमापत्स्यते। अक्षतोऽनुपहतः सर्वज्ञतायां स्थास्यतीति। तद्यथापि नाम सुभूते दुष्प्रज्ञजातीयः पुरुषः सामुद्रिकां नावमनाकोटितामपरिकर्मकृतां चिरबन्धनबद्धामुदकेऽवतार्य समारोपितभाण्डां परिपूर्णां भारार्तामभिरूढः स्यात्, वेदितव्यमेतत्सुभूते-एवंधर्मेयं नौर्भविष्यति, यदुत उदकेऽसंतीर्णभाण्डैव संसत्स्यतीति। तस्यान्येन भाण्डं भविष्यति, अन्येन सा नौर्विपत्स्यते इति।
एवं स सार्थवाहोऽनुपायकुशलो दौष्प्रज्ञेन महता अर्थवियोगेन समन्वागतो भविष्यति, महतश्च रत्नाकरात्परिहीणो भविष्यतीति। एवमेव सुभूते किंचापि बोधिसत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः, अस्ति रुचिः अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, स च प्रज्ञापारमितया उपायकौशल्येन च विरहितो भवति, वेदितव्यमेतत्सुभूते अप्राप्त एवायं बोधिसत्त्वः सर्वज्ञतारत्नाकरमन्तरा संसत्स्यति, व्यवसादमापत्स्यते, महतः स्वार्थात्परिहीणो भविष्यति, महतश्च परार्थरत्नराशेः परिहीणो भविष्यति, यदुत सर्वज्ञतामहार्थरत्नाकरात्परिहीणत्वादिति। का पुनः सुभूते बोधिसत्त्वस्य अन्तरा व्यध्वनि संसीदना? यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा। तद्यथापि नाम सुभूते पण्डितजातीयः सार्थवाहः सामुद्रिकां नावं सुबद्धां बन्धयित्वा स्वाकोटितामाकोटयित्वा सुपरिकर्मकृतां कृत्वा उदकेऽवतार्य भाण्डमारोप्य पूर्णां कृत्वा समं योजयित्वा युक्तेन वातेनाभिप्रेतां दिशमनुपूर्वेण गच्छेत्, ततस्तद्यानमिति, वेदितव्यमेतत्सुभूते नेयं नौरुदके संसत्स्यति। गमिष्यतीयं नौस्तं प्रदेशं यत्रानया गन्तव्यम्। महालाभेन चायं सार्थवाहः संयोक्ष्यते यदुत लौकिकै रत्नैरिति। एवमेव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः अस्ति रुचि छन्दः अस्ति वीर्यम्, अस्त्यप्रमादः अस्त्यधिमुक्तिः, अस्त्याध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, स च प्रज्ञापारमितया परिगृहीत उपायकौशल्येन चाविरहितो भवति, वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो महासत्त्वोऽन्तरा व्यध्वनि संसत्स्यति, न व्यवसादमापत्स्यते, स्थास्यत्ययं बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधौ। तत्कस्य हेतोः? एवं ह्येतत्सुभूते भवति-यतोऽस्य बोधिसत्त्वस्य महासत्त्वस्य अस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः, अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। एते चास्य धर्माः प्रज्ञापारमितया परिगृहीता उपायकौशल्येन चाविरहिता न श्रावकभूमिं न प्रत्येकबुद्धभूमिं वा प्रतिपत्स्यन्ते। अपि तु येन सर्वज्ञता, तेनैते धर्मा अभिमुखाः संप्रस्थिताः ततोऽस्या अनुत्तरायाः सम्यक्संबोधेरभिसंबोधाय भविष्यन्तीति।
तद्यथापि नाम सुभूते कश्चिदेव पुरुषो जीर्णो वृद्धो महल्लकः सविंशतिवर्षशतिको जात्या भवेत्, तस्य कश्चिदेव शरीरे व्याधिरुत्पद्येत वाततो वा पित्ततो वा श्लेष्मतो वा संनिपाततो वा। तकिं मन्यसे सुभूते अपि नु स पुरुषोऽपरिगृहीतो मञ्चादुत्तिष्ठेत् ? सुभूतिराह-नो हीदं भगवन्। भगवानाह-सचेत्पुनः सुभूते स पुरुषो मञ्चादुत्तिष्ठेत्, अथ च पुनर्न प्रतिबलोऽर्धक्रोशान्तरमपि प्रक्रमितुम्। स तया जरया तेन च व्याधिना क्षपितो यद्यपि मञ्चादुत्तिष्ठेत्, तथापि पुनरप्रतिबलः स पुरुषः प्रक्रमणाय। एवमेव सुभूते किंचापि बोधिसत्त्वस्य अस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः, अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः, अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। स च प्रज्ञापारमितया अपरिगृहीत उपायकौशल्येन च विरहितो भवति, किंचापि संप्रस्थितोऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। अथ च पुनः सुभूते एवं वेदितव्यम्-अयं बोधिसत्त्वोऽन्तरा व्यध्वनि संसत्स्यति, व्यवसादमापत्स्यते, यदुत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा स्थास्यतीति। तत्कस्य हेतोः? यथापि नाम प्रज्ञापारमितया अपरिगृहीतत्वादुपायकौशल्येन च विरहितत्वात्। तद्यथापि नाम सुभूते स एव पुरुषो जीर्णो वृद्धो महल्लकः सविंशतिवर्षशतिको जात्या भवेत्, तस्य शरीरे कश्चिदेव व्याधिरूत्पद्येत वाततो वा पित्ततो वा श्लेष्मतो वा संनिपाततो वा, स च मञ्चादुत्तिष्ठेत्। तमेनं द्वौ बलवन्तौ पुरुषौ वामदक्षिणाभ्यां पार्श्वाभ्यां स्वध्यालम्बितमध्यालम्ब्य सुपरिगृहीतं परिगृह्य एवं वदेताम्-गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि यावच्चाकाङ्क्षसि गन्तुम्, अनुपरिगृहीतस्त्वमावाभ्याम्, न तवान्तरामार्गे पतनभयं भविष्यति, यावन्न त्वं तदधिष्ठानमनुप्राप्तो भविष्यसि, यत्र त्वया गन्तव्यमिति। एवमेव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्य अस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः, अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, स च प्रज्ञापारमितया अनुपरिगृहीतो भवति, उपायकौशल्यसमन्वागतश्च भवति। वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो महासत्त्वोऽन्तरा व्यध्वनि संसत्स्यति, न व्यवसादमापत्स्यते, प्रतिबलोऽयं बोधिसत्त्वो महासत्त्वस्तत्स्थानमनुप्राप्तुं यदुतानुत्तरं सम्यक्संबोधिस्थानमिति॥
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामौपम्यपरिवर्तो नाम चतुर्दशः॥