अथ पञ्चाशः पटलविसरः
Technical Details
॥ श्रीः॥
आर्यमञ्जुश्रीमूलकल्पम्।
(तृतीयो भागः।)
अथ पञ्चाशः पटलविसरः।
अथ खलु भगवां वज्रपाणिर्यक्षसेनापतिः तस्यां पर्षदि सन्निपतितोऽभूत्। सन्निषण्णः उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य स येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - यो हि भगवं मञ्जुश्रिया कुमारभूतेन क्रोधराजा यमान्तको नाम भाषितः तस्य कल्पं विस्तरशो भगवता न प्रकाशितम्। नापि मञ्जुश्रिया कुमारभूतेन। अहं भगवं पश्चिमता जनतामवेक्ष्य भगवता परिनिर्वृते शासनान्तर्धानकालसमये वर्तमाने महाभैरवकाले युगाधमे सर्वश्रावकप्रत्येकबुद्धविनिर्मुक्ते बुद्धक्षेत्रे तथागतशासनसंरक्षणार्थं धर्मधातुचिरस्थित्यर्थं सर्वदुष्टराज्ञां निवारणार्थं रत्नत्रयापकारिणां निग्रहार्थं वैनेयसत्त्वकौशलाचिन्त्यबोधिसत्त्वचर्यापरिपूरणार्थं अचिन्त्यसत्त्वपाकमभिनिर्हरणार्थं च पश्चिमे भगवं काले पश्चिमे सुगतसमये शासनविप्रलोपे वर्तमाने य इमं यमान्तकं नाम क्रोधराजानं यथाविधि कल्पविनिर्दिष्टं प्रयोक्ष्यति तस्य सिद्धिः भविष्यति। नियतं च दुष्टराज्ञां शासनापकारिणां च सत्त्वानां महायक्षाणां महोत्साहिनां निग्रहानुग्रहप्रवृत्तानां महाकरुणाविरहितानां तेषामयं क्रोधराजा प्रयोक्तव्यः नान्येषाम्॥
अथ भगवां तूष्णीम्भावेन बुद्धविकुर्वणाधिष्ठानं नाम समाधिं समापद्यते स्म। मञ्जुश्रीः कुमारभूतोऽपि तूष्णीम्भावेन स्थितोऽभूत्। सर्वावन्तश्च पर्षन्मण्डल षड्विकारं प्रकम्पमजायत।
भीताश्च देवसङ्घा उक्त्रस्ताः सर्वबालेशाः।
सर्वदेवाश्च नागाश्च दानवेन्द्राः समातराः॥
सर्वे च ग्रहमुख्याद्या देवसङ्घाः प्रकम्पिरे।
मानुषा प्रकम्पे भिन्नमनसो दुष्टचित्ताश्च पूतनाः॥
आर्त्ता भीताः ततस्ते वै रौद्रचित्ता नराधिपाः।
शरणं ते तदा जग्मुः धर्मराजस्य शासनम्॥
गुह्यकेन्द्रस्य यक्षस्य वज्रपाणिमहाद्युतेः।
मञ्जुघोषस्य ते भीताः कुमारस्यैव मन्त्रराट्॥
समयं च तदा चक्रे मञ्जुघोषस्य अन्तिके।
परित्रायस्व भो बाल ! सर्वसत्त्वानुकम्पक !॥
निर्दहिष्यामि नो अद्य क्रूरकमन्त्रैः सुदारुणैः।
क्रोधेन मूर्च्छिता ह्यद्य प्रतिष्ठाम महीतले॥
ततस्तां बोधिसत्त्वा वै बालरूपी महाद्युतिः।
मा भैष्ठथ सुराः ! सर्वे ! यक्षराक्षसदानवा !॥
समयं वो मया ह्युक्तः अलङ्घ्यः सर्वदेवतैः।
मानुषामानुषाश्चापि सर्वभूतैस्तु केवलैः॥
मैत्रचित्त सदा भूत्वा तन्मन्त्रं स्मरते सदा।
सम्बुद्धं द्विपदामग्र्यं शाक्यसिंहं नरोत्तमम्॥
तेनैव भाषितं मन्त्रं उष्णीषाद्याः सलोचनाः।
त्रैलोक्यगुरवश्चकी तेजोराशिं जयोद्भवम्॥
विजयोष्णीषमन्त्राद्यां पद्मपाणिं सलोकितम्।
अवलोकितनाथं च भृकुटी तारां यशस्विनीम्॥
देवीं च सितवासिन्यां महाश्वेता यशोवतीम्।
विद्यां भोगवतीं चापि हयग्रीवश्च मन्त्रराट्॥
एते ह्यब्जकुले मन्त्रा प्रधाना जिननिःसृता।
एकाक्षरश्चक्रवर्ती वा मन्त्राणामधिपतिं प्रभुम्॥
स्मृत्वा देवदेवं च मन्त्रनाथं महाद्युतिम्।
क्रोधमप्रभवो तस्य यमान्तो नाम नामतः॥
अवलोकितनाथस्य चेतांसि करुणोदयाः।
महाकरुणाकृष्टमनसो पूर्वबुद्धैः प्रकाशिता॥
सा तारा तारयते जन्तूं अवलोकितभाषिता।
विद्या समाधिजा आर्या स्त्र्याख्या संज्ञारूपिणी॥
बोधिसत्त्वोऽथ चरते बोधिचारिकमुत्तमाम्।
लोकधातुसहस्राणि असङ्ख्या बहुधा पुनः॥
पर्यटन्त तदा देवी सत्त्वानां हितकारणा।
स्त्रीरूपधारिणी भूत्वा मन्त्ररूपेण देहिनाम्॥
विधिनेयतदां सत्त्वां बोधियानेति योजयेत्।
चर्या बोधिसत्त्वानां अचिन्तेयं प्रकाशिता॥
वज्रपाणिं तथा वीरं मन्त्राणामधिपतिं स्मरेत्।
मामकीं कुलन्दरीं देवीं त्रैलोक्यप्रतिपूजिताम्॥
शङ्कुला मेखलां चैव वज्रमुष्टिं यशस्विनीम्।
क्रोधेन्द्रतिलकं शत्रुं नीलदण्डं सभैरवम्॥
एते दूतिगणाः क्रोधाः विद्याध्यक्षाः प्रकीर्तिताः।
प्रधानां वज्रकुले सर्वे अस्मद्रक्षिता हि ते॥
गजगन्धं तथा लोके बोधिसत्त्वं महर्द्धिकम्।
महास्थानगतं धीमं बोधिसत्त्वं महर्द्धिकम्॥
ज्येष्ठं तनयमुख्यं तु समन्तभद्रं सुशोभनम्।
यः स्मरेत् तदा काले भयं तेषां न विद्यते॥
माणिभद्रं तथा नित्यं जम्भलं यक्षमुत्तमम्।
सर्वश्रावकप्रत्येकं बुद्धानां च कुतो भयम्॥
स्मरणात् पूजनात् तेषां महारक्षा प्रकीर्त्तिता।
बृहत् फलं तदा देवां पुण्याभां च असंज्ञका॥
स्त्रीरूपधारिणां देवीं वीतरागां महर्द्धिकाम्।
रत्नत्रये च पूजां वै प्रसन्ना जिनशासने॥
तेषां न विद्यते किञ्चित् मित्रामित्रभयं यदा।
समयं तत्र इत्युक्तः अलङ्घ्यं सर्वमन्त्रिभिः॥
एतत् क्रोधवरे ख्यातं यमान्तस्यैव वर्णिते।
समये च स्थितां सत्त्वां अभक्षाः सर्वमानुषाः॥
ततस्ते हृष्टमनसः सर्वे देवा ह्यमानुषाः।
समये तस्थिरे सर्वे जिनपुत्रानुबुद्धिना॥
यक्षसेनापतिः क्रुद्धः वचनं चेत् पराभवम्।
सम्प्रकम्प्य तदा सर्वां लोकधातुमसङ्ख्यकाम्॥
निरर्थं क्रोधराजं तु किमर्थमिदं प्रकाशितम्।
जिनपुत्रैस्तदा पूर्वं सत्त्वानां विनयकारणात्॥
प्रभावं क्रोधराजस्य उद्यष्टं च पुरातनम्।
एवमुक्तास्ततो वज्री वज्रं निक्षिप्यं तस्थुरे॥
ततः प्रहस्य मतिमां बालरूपी महर्द्धिकः।
कुमारो मञ्जुघोषो वै इमां वाचमुदीरयेत्॥
मा प्रदुष्य महायक्ष ! वज्रपाणि ! महर्द्धिक !।
मया प्रकाशितो ह्येष क्रोधराजो महर्द्धिकः॥
तवैव मन्त्रं दास्यामि यथेच्छं सम्प्रकाशय।
त्वया न शक्यं क्रोधस्य प्रभावं परिकीर्तितम्॥
तयैव संस्थितो ह्येष देहस्थ इह दृश्यते।
आकृष्टः तेन वै तुभ्यं हृदयं ते यदि पृच्छसि॥
न शक्यं निवर्त्तितुं ह्यत्र क्रोधाविष्टो हि वै प्रभो।
यथेच्छं सम्प्रकाशयस्व समयं त्यक्त्वानुमन्यतः॥
अस्नाते प्रसुप्ते च ग्राम्यधर्मानुवर्त्तिते।
तैलाभ्यक्ते अरक्षे च दुष्टचित्तेषु वा सदा॥
त्यक्तो मन्त्रवरैः सर्वैः अप्रसन्नेषु शासने।
वैचिकित्सो तथा मर्त्यो अश्राद्धेषु दुःस्थिते॥
सद्धर्मरत्नसङ्घे च प्रतिक्षेप्तव्याः समाहिते।
नग्नके च सदोच्छिष्टे अशुच्याचारगोचरे॥
अगुप्ते ह्यमन्त्रयुक्ते च नित्योच्छिष्टे हि निर्घृणे।
देवावसथचैत्येषु विहाराङ्गणमण्डले॥
मैथुनाभिरता तत्र तेषां क्रोधो विनाशयेत्।
समयभ्रष्टा प्रसन्नाश्च मन्त्रयुक्तिमजानका॥
इषिस्खलितगताचारा तेषां क्रोधो निपातयेत्।
सर्वेषां मानुषां लोके अप्रमादो न विद्यते॥
प्रमादमभिरागिन्यः समयभ्रंशानुच्छिद्रिणे।
हन्यन्ते क्रोधराजेन अप्रयुक्तैस्तु मन्त्रिभिः॥
सर्वथा बालिशाः सर्वे प्रमादा वशगामिनः।
वीतरागां सदा मुक्त्वा प्रत्येकार्हश्रावकाम्॥
सर्वे वै क्रोधराजस्य वध्या दण्ड्याश्च सर्वतः।
एवमुक्तास्तु मञ्जुश्री करुणाविष्टेन चेतसाम्॥
अचिन्त्यं चर्यबुद्धानां बोधिसत्त्वां महर्द्धिकाम्।
एवमुक्त्वा ततः सर्वां तूष्णीम्भूतो हि तस्थुरे॥
अथ वज्रधरः श्रीमां भूयो वज्रं परामृशेत्।
गृह्य वज्रं तदा तुष्टो लब्ध्वानुज्ञां प्रभाषत इति॥
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् अष्टचत्वारिंशत्तमः यमान्तकक्रोधराजपरिवर्णनमन्त्रमाहात्म्यनियमपटलविसरः परिसमाप्त इति॥