२४ नागकुमारावदानम्
Technical Details
२४ नागकुमारावदानम्।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति-कुतो भदन्त तेन नागकुमारेण तत्प्रथमतः श्रद्धा प्रतिलब्धा ? भगवानाह-भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उत्पन्नस्तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदन्म्यशारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स एवं श्रावकाणां धर्मं देशयति-एतानि भिक्षवोऽरण्यानि शून्यागाराणि पर्वतकन्दरगिरिगुहापलालपुञ्जाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि ध्यायत। भिक्षवो मा प्रमादत। मा पश्चाद्विप्रतिसारिणो भूत। इदमस्माकमनुशासनम्। तत्र केचिद्भिक्षवः सुमेरुपरिषण्डायां गत्वा ध्यायन्ति, केचिन्मन्दाकिन्याः पुष्करिण्यास्तीरे, केचिदनवतप्ते महासरसि, केचित् सप्तसु काञ्चनमयेषु पर्वतेषु, केचित् तासु तासु ग्रामनिगमराजराष्ट्रधानीषु गत्वा ध्यायन्ति॥
अन्यतमश्च चिरजातको नागकुमारः सुपर्णिना पक्षिराजेन सुमेरुपरिषण्डायामुपरिष्टादपह्रियते। यावत् तेन भिक्षवो ध्यानाध्ययनयोगमनसिकारयुक्ता विहरन्तो दृष्टाः। दृष्ट्वा चास्य चित्तमभिप्रसन्नम्। प्रसादजातः संलक्षयति-मुक्ता ह्येते आर्यका एवंविधाद् दुःखात्। च्युतः कालगतो वाराणस्यां षट्कर्मनिरते ब्राह्मणकुले जातः। उन्नीतो वर्धितो महान् संवृत्तः। सोऽपरेण समयेन काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजितः। तेनोद्यता घटता व्यायच्छता सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन् संवृत्तः पूर्ववद्यावन्मान्यश्च पून्यश्चाभिवन्द्यश्च संवृत्तः। स संलक्षयति-कुतोऽहं च्युतः ? तिर्यक्षु। कुत्रोपपन्नः ? मनुष्येषु। कुत्र मम मातापितरौ ? यावत् पश्यति नागभवने रुदन्तौ तिष्ठतः। स तत्र गतः। गत्वा पृच्छितुमारब्धः-अम्ब तात कस्यार्थे रुदितः ? तौ कथयतः -आर्य, सुचिरजातकोऽस्माकं नागकुमारः सुपर्णिना पक्षिराजेनापहृतः। स कथयति-अहमेवासौ। आर्य, तादृशः स दुष्टनागो यद्वयं सुगतिगमनमपि न संभावयामः, प्रागेवेदृशानां धर्माणां लाभी भविष्यति। तेन तौ स्मारितौ। पादयोर्निपत्य कथयतः- आर्य, एवंविधास्त्वया गुणगणा अधिगताः। आर्य त्वं पिण्डकेनार्थी, वयं पुण्येनार्थिकाः। इहैव त्वमागम्य दिवसे दिवसे भक्तकृत्यं कृत्वा गच्छ। स नागभवने दिव्यां सुधां परिभुक्त्वा आगच्छति। तस्य श्रामणेरकः सार्धविहारी। स भिक्षुभिरुक्तः-श्रामणेरक, अयं ते उपाध्यायः कुत्र भुक्त्वा भुक्त्वा आगच्छति ? स कथयति-नाहं जाने। ते कथयन्ति-नागभवने दिव्यां सुधां परिभुज्य परिभुज्यागच्छति। त्व कस्यार्थे न गच्छसि ? स कथयति-अयं महर्द्धिको महानुभावो येन गच्छति। कथमहं गच्छामि ? ते कथयन्ति- यदा अयं ऋद्ध्या गच्छति, तदा त्वमस्य चीवरकर्णिकं गृहाण। स कथयति-मा पतेयम्। ते कथयन्ति-भद्रमुख, यदि सुमेरुः पर्वतराजा चीवरकर्णिकमवलम्बते, नासौ पतेत्, प्रागेव त्वं पतिष्यसीति। यो यस्मिन् स्थानेऽन्तर्धास्यति, तेन तत्र निमित्तमुद्गृहीतम्। स तत्प्रदेशं पूर्वमेव गत्वा अवस्थितः। स चान्तर्धास्यतीति तेन चीवरकर्णिकं गृहीतम्। तौ उपरि विहायसा प्रक्रान्तौ यावत् तौ नागैर्दृष्टौ। तयोर्द्वे ते आसनप्रज्ञप्तिकृतौ। द्वौ मण्डलकौ आमार्जितौ। स संलक्षयति -कस्यार्थेऽयमपर आसनः प्रज्ञप्तः? स प्रतिनिवर्त्य पश्यति यावत् श्रामणेरकम्। स कथयति-भद्रमुख, त्वमप्यागतः ? उपाध्याय, आगतोऽहम्। शोभनम्। नागाः संलक्षयन्ति-अयमार्यो महर्द्धिको महानुभावः। शक्यते दिव्यां सुधां कारयितुम्। अयमन्यो न शक्यते। तैस्तस्य दिव्या सुधा दत्ता, तस्यापि प्राकृत आहारः। स तस्य पात्रग्राहकः। तेन तस्य पात्रं गृहीतं यावत् तत्रैका ओदनमिज्य (?) वतिष्ठते। सा तेनास्ये पक्षिप्ता यावद्दिव्यमास्वादनम्। स संलक्षयति-ईदृशा अपि मत्सरिणो नागाः। एकध्ये निषण्णयोरस्य दिव्या सुधा दत्ता, ममापि प्राकृत आहारः। सप्रणिधानं कर्तुमारब्धः- यन्मया भगवति काश्यपे सम्यक्संबुद्धेऽनुत्तरे महादक्षिणीये ब्रह्मचर्यं चीर्णम्, अनेनाहं कुशलमूलेनैतं नागमस्माद्भवनाच्च्यावयित्वा अत्रैवोपपद्येयमिति। तस्य दृष्ट एव धर्मे उभाभ्यां पाणिभ्यां जलं स्यन्दितुमारब्धम्। नागस्यामि शिरोर्तिर्बाधितुमारब्धा। स कथयति-आर्य, अनेन श्रामणेरकेनाशोभन-चित्तमुत्पादितम्। प्रतिनिवर्तापयतु एनम्। स कथयति-भद्रमुख, अपाया ह्येते, निवर्तय चित्तम्। स गाथां भाषते-
प्रवणीभूतमीदं चित्तं न शक्नोमि निवारयितुम्।
इहस्थस्यैव मे भदन्त पाणिभ्यां स्यन्दते जलम्॥१॥
स तं नागं तस्माद्भवनाच्च्यावयित्वा तत्रैवोपपन्नः। तत्र भिक्षवस्तेन नागकुमारेण तत्प्रथमतः श्रद्धा प्रतिलब्धा॥
इति श्रीदिव्यावदाने नागकुमारावदानम्॥