पुत्रा इति ६८
Technical Details
पुत्रा इति ६८।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्य<न्य>तमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। महतीमहती मांसपेशी जाता यां दृष्ट्वा मातापितरौ विषणावन्ये च गृहवासिनः परिचारका ज्ञातयश्च को नामायमेवंविधो जात इति॥ यावदसौ गृहपतिः शोकागारं प्रविश्य करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः कस्य निवेदयेयं को ज्ञास्यति किमेतदिति। तस्य बुद्धिरुत्पन्ना अयं बुद्धो भगवान्सर्वज्ञः सर्वदर्शी बुद्धस्य भगवतो निवेदयामि स ज्ञास्यतीति॥ स येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवत्तं पप्रच्छ॥ भगवानाह। मा भैषीस्त्वं गृहपते मा भैषीः सुविहिते कर्पासे मांसपेशीं स्थापयित्वा त्रिर्दिवसस्य पाणिनापमृज्य क्षीरेण पुनः परिप्रोक्षस्व यावत्सप्ताहं ततः स्फुटिष्यति कुमारशतमुत्पत्स्यते ते च सर्वे महानग्नबलिनो भविष्यत्ति। इति श्रुत्वा गृहपतिः परं विस्मयमापन्नश्चित्तयति च। लाभा मे सुलब्धा यस्य मे ईदृशाः पुत्रा उत्पत्स्यत्तीति॥ तेन तथैव कृतम्। यावत्सप्तमे दिवसे सा मांसपेशी स्फुटिता। कुमारशतमुत्पन्नं सर्वे अभिनूपा दर्शनीयाः प्रासादिकाः सर्वाङ्गप्रत्यङ्गोपेता महानग्नबलिनः॥
यावत्क्रमेण उन्नीता वर्धिता महात्तः संवृत्ताश्च सर्वे यौवनमदमत्ता इतश्चामुतश्च परिभ्रमत्तो न्यग्रोधारामं गताः। अथ ते ददृशुर्बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णा धर्मश्रवणाय। तेषां भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा सर्वैरेव विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ते दृष्टसत्या मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजिताः॥ तैस्सर्वैर्युज्यमानैर्घटमानैर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्तो बभूवुस्त्रैधातुकवीतरागाः समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखाः सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश्च संवृत्ताः॥
भिक्षवः संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त कुमारशतेन कर्माणि कृतानि येन महानग्नबलिनः संवृत्ताः सहिताश्च भ्रातर इति॥ भगवानाह। एभिरेव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। एभिः कृतानि कर्माण्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्रिर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन यत्रानेकानि प्राणिशतसहस्राणि कारान्कृत्वा स्वर्गमोक्षपरायणानि भवत्ति॥ यावद्गोष्ठिकानां शतं निर्गतम्। तं स्तूपं दृष्ट्वा तथागतगुणाननुस्मृत्य तैस्तत्र स्तूपे एकपुरुषेणेवैकदेहिनेवैकात्मनेवैकचित्तेनेवैकात्मभावेनेव सर्वैरेकसमूहीभूतैः प्रसन्नचित्तकैः प्रीतिजातैरेकात्मनीभूतैस्तत्र स्तूपे पुष्पधूपगन्धमाल्यविलेपनानि नैवेद्यरसरसाग्रभोज्यानि सर्वोपहाराणि चोपढौकितानि ध्वजवितानच्छत्त्राणि चारोपितानि। आरोप्य एकसमूहीभूत्वा एकस्वरेण स्तुतिं कृत्वा प्रदक्षिणशतसहस्रं कृतम्। ततस्तैः सर्वैरेकात्मभावेनैकचित्तकेन प्रणिधानं कृतम्। अनेन कुशलमूलेनास्माकं तथैवैकात्मजाता एकचित्तकाः समानदेहाः समानाचाराः समानधर्माः समानपुण्याः समनिर्वाणा भवत्तु। इति तत्रैव स्तूपे एवं भक्तिपरायणा निर्वृताः॥
* * * * * * तेनैव हेतुनेदानीमेकपेशीजाताः समनूपाः समदेहभावाः समात्मचित्ताः समबलवीर्यपराक्रमाः समाचाराः समधर्मेषु परायणाः समं स्रोता<प>त्तिफलं प्राप्ताः समं चार्हत्त्वं प्राप्ताः। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्त<कृष्णो> विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥