भक्तमिति ४२
Technical Details
भक्तमिति ४२।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेनायुष्मान्महामौद्गल्यायनो ऽन्यतरस्मिन्वृक्षमूले निषणो दिवाविहाराय। अश्रौषीदायुष्मान्महामौद्गल्यायनः प्रेत्याः शब्दमार्तस्वरं क्रन्दत्त्या दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानाया भक्तं मार्गत्त्या बुभुक्षितास्मि मार्षाः पिपासितास्मि मार्षा इति। ततः स्थविरमहामौद्गल्यायनेन प्रेती दृष्टा पृष्टा च किं ते पापं कृतं येनैवंविधानि दुःखान्यनुभविष्यसीति॥ प्रेती आह। आदित्ये हि समुद्रते न दीपेन प्रयोजनम्। भगवत्तमेतमर्थं पृच्छ स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति॥ अथायुष्मान्महामौद्गल्यायनो येन भगवांस्तेनोपसंक्रात्तः॥
तेन खलु पुनः समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिज्यमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिनः प्रियालापिन एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। तत्र भगवानायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एहि मौद्गल्यायन स्वागतं ते कुतस्त्वमेतर्ह्यागच्छसीति॥ मौद्गल्यायन आह। आगच्छाम्यहं भदत्त प्रेतचारिकायास्तत्राहं प्रेतीमद्राक्षं सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं स्वकेशसंछन्नां नग्रामार्तस्वरं क्रन्दत्तीं दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानाम्। आह च।
विशुष्ककण्ठोष्ठपुटा सुदुःखिता प्रवृद्धशैलोपमचञ्चिताश्रया।
स्वकेशसंछन्नमुखी दिगम्बरा सुसूक्ष्मसूचीसदृशानना कृशा॥
नग्ना स्वकेशसंछन्ना अस्थियत्त्रवदुच्छ्रिता।
कपालपाणिनी घोरा क्रन्दत्ती परिधावति॥
बुभुक्षया पिपासयाक्रात्ता व्यसनपीडिता।
आर्तस्वरं क्रन्दमाना दुःखां विन्दति वेदनाम्॥
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्।
येन एवंविधं दुःखमनुभवति भयानकमिति॥
भगवानाह। पापकारिणी मौद्गल्यायन सा प्रेती। इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि मौद्गल्यायन शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये।
भूतपूर्वं मौद्गल्यायनातीते ऽध्वनि विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ तस्यां च वाराणस्यामन्यतमा गृहपतिपत्नी मत्सरिणी कुटुकुञ्चिका आगृहीतपरिष्कारा काकायापि बलिं न प्रदातुं व्यवस्यति प्रागेवान्येषां याचकानाम्। सा श्रमणब्राह्मणकृपणवनीपकान्दृष्ट्वा चित्तं प्रदूषयति॥ यावदन्यतरः पिण्डपातिकस्तस्या गृहं प्रविष्टः। तस्यास्तं दृष्ट्वा मात्सर्यमुत्पन्नं चित्तञ्च प्रदूष्य इमां चित्तामापेदे। यद्यहमस्य सत्कारं करिष्यामि पुनरप्येष आगमिष्यतीति। ततस्तया पापकारिण्या ऽनिष्टं परलोकभयमविगणय्य स भिक्षुरुपनिमन्त्र्य द्वारं बद्वा भक्तच्छेदं कारितः बहु च परिभाष्योक्त इयं ते भिक्षो सत्क्रिया मा पुनरिदं गृहं प्रवेक्ष्यसीति॥
सा तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन प्रेतेषूपपन्ना एवंविधानि दुःखानि प्रत्यनुभवति। तस्मात्तर्हि मौद्गल्यायन मात्सर्यप्रहाणाय व्यायत्तव्यमेते दोषा न भविष्यत्ति ये तस्याः प्रेत्या इति॥
इदमवोचद्भगवानात्तमनस आयुष्मान्महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगा भगवतो भाषितमभ्यनन्दन्॥