कवड इति ३२
Technical Details
कवड इति ३२।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। सचेद्भिक्षवः सत्त्वा जानीयुर्दानस्य फलं दान<सं>विभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपापाकमपीदानीं यो ऽसावपश्चिमकः कवडश्चरम आलोपः ततो ऽपि नादत्त्वा ऽसंविभज्य परिभुञ्जीत सचेल्लभेत दक्षिणीयं प्रतिग्राहकं न चैषामुत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत्। यस्मात्तर्हि सत्त्वा न जानत्ति दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकं तस्मात्ते अदत्त्वा ऽसंविभज्य परिभुञ्जते आगृहीतेन चेतसा उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति॥
इदमवोचद्भगवानिदमुक्त्वा सुगतो ह्यथापरमेतदुवाच शास्ता।
एवं हि सत्त्वा जानीयुर्यथा प्रोक्तं महर्षिणा।
विपाकः संविभागस्य यथा भवति महार्थिकः॥
नादत्त्वा परिभुञ्जीरन्न स्युर्मत्सरिणस्तथा।
न चैषामाग्रहे चित्तमुत्पद्येत कदाचन॥
यस्मात्तु न प्रजानत्ति बाला मोहतमोवृताः।
तस्मात्तु भुञ्जते<सत्त्वा> आगृहीतेन चेतसा।
उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति॥
यदा भगवता एतत्सूत्रं भाषितं तदा भिक्षवः संशयजाताः सर्वशंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवान्दानस्य वर्णं भाषते दानसंविभागस्य च फलविपाकमिति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यत्तथागतो दानस्य वर्ण भाषते दानसंविभागस्य च फलविपाकमिति। यन्मयातीते ऽध्वनि याचनकहेतोर्मुखद्वारगतः स्वकवडः परित्यक्तस्तच्छृणुत साधु च सुष्ठु च मनसि कुरु<त> भाषिष्ये ऽहम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं कारयति। स राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते॥ यावदपरेण समयेन महद्दुर्भिक्षं प्रादुर्भूतं दुर्भिक्षात्तरकल्पसदृशम्। ततस्ते जनकाया दुर्भिक्षाकालभयभीताः क्षुत्क्षामकण्ठकपोलाः प्रेताश्रयसदृशाः संगम्य समागम्यैकसमूहेन राजानमुपसृत्य जयेनायुषा च वर्धयित्वोचुः। देव परित्रायस्व अस्मानस्माद्दुर्भिक्षभयात् प्रयच्छ जीवितमिति॥ ततो राजा कोष्ठागारिकं पुरुषमामन्त्रितवान्। अस्ति भो पुरुष कोष्ठागारे अन्नपानं यदस्माकं स्यादेषां च जनकायानाम्। इति श्रुत्वा कोष्ठागारिक आह। परिगण्य देव सस्यान्याख्यास्यामीति॥ ततो गणितकुशलैर्गणानां कृत्वा सर्वेषां विषयनिवासिनां दिवसे दिवसे एककवडो राज्ञो द्वौ कवडावियत्तं कालं भविष्यतीति समाख्यातम्॥ ततो राजा जनकायानाहूयोक्तवान्। तेन हि भवत्तो दिवसानुदिवसमागत्य राजकुले कवडमभ्यवहृत्य गच्छतेति॥ ततस्ते प्रतिदिवसमागत्य प्रत्येकमेकैकं कवडमभ्यवहृत्य यथेष्टं गच्छत्ति॥
अथान्यतमो ब्राह्मणस्तस्यां गणनायां नासीत्। परेभ्यश्च श्रुत्वा राजानमुवाच देव जनपदगतेन मे श्रुता गणना दीयतां ममापि कवड इति॥ ततो राजा स्वकात्कवडद्वयादेकं ब्राह्मणाय दत्तवानेकं कवडं जनसामान्यमभ्यवहर्तुं प्रवृत्तः॥
शक्रस्य देवेन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते। तस्यैतदभवत्। अतिदुष्करं बत वाराणसेयो राजा करोति यन्न्वहमेनं मीमांसेयेति॥ अथ शक्रो देवेन्द्रो ब्राह्मणवेषमात्मानमभिनिर्माय भोजनकाले राजानमुपसृप्तः जयेनायुषा च वर्धयित्वोवाच। बुभुक्षितो ऽहं कुरुष्व स्वकवडेनानुग्रहमिति। ततो राजा स्वजीवितपरित्यागं व्यवसाय कारुण्यात्स्वकवडं ब्राह्मणाय दत्त्वानाहारतां प्रतिपन्नः। यावत्षङ्भक्तच्छेदा अनेनोपक्रमेण कृताः। तं च महाजनकायं भुञ्जानं दृष्ट्वा परां प्रीतिमापेदे॥ अथ शक्रो देवेन्द्रस्तं राज्ञो ऽतिदुष्करं व्यवसायं दृष्ट्वा ब्राह्मणवेषमत्तर्धाप्य स्वेन नूपेण स्थित्वा राजानं संवर्धयामास। साधु साधु महाराज आवर्जिता वयं भवतानेन दुष्करेण व्यवसायेन सनाथश्चायं जनकाय ईदृशेन प्रजापालकेन। न दुष्यतां तव विजिते सर्वबीजानि वाप्यत्तामहं सप्तमे दिवसे तथाविधं माहेन्द्रं वर्षमुत्स्रक्ष्यामि येन सर्वसस्यानि निष्पत्स्यत्त इति॥ राजा तथा कारितं शक्रेणापि तथाविधं माहेन्द्रं वर्षमुत्सृष्टं येन दुर्भिक्षं विनिवर्तितं सुभिक्षं प्रादुर्भूतम्॥
भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्रह्मदत्तो नाम राजा बभूवाहं सः। मया तान्येवंविधे दुर्भिक्षे वर्तमाने स्वजीवितपरित्यागादेवंविधानि दानानि दत्तानि। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्दानानि दास्यामः पुण्यानि करिष्याम इत्येवं वो भिक्षव<ः शिक्षितव्यम्॥ >
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥