चन्दन इति २१
Technical Details
तृतीयो वर्गः॥
चन्दन इति २१॥
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो मगधेषु जनपदेषु चारिकां चरन्गङ्गातीरमनुप्राप्तः। तेन खलु पुनः समयेन गङ्गातीरस्य नातिदूरे स्तूपमवकरणं वातातपाभ्यां परिशीर्णं भिक्षुभिर्दृष्ट्वा भगवान्पृष्टः। कस्य भगवन्नयं स्तूप इति॥ भगवानाह। चन्दनो नाम प्रत्येकबुद्धो बभूव। तस्येति॥ भिक्षव ऊचुः। कुतो भगवंश्चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर्नामाभिनिर्वृत्तिश्चेति॥ भगवानाह। इच्छथ यूयं भिक्षवः श्रोतुं यथा चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर्नामाभिनिर्वृत्तिश्च। एवं भदत्त॥ तेन हि भिक्षवः शृणु<त>साधु च सुष्ठु च मनसि कुरु<त> भाषिष्ये॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मेण राज्यं कारयति॥ सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मदीनन्यांश्च देवताविशेषानायाचते। तद्यथारामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते। अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राजश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च <। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहीतरश्च>॥ स चैवमायाचनपरस्तिष्ठति तस्य चोद्याने महापद्मिनी। तत्र पद्ममतिप्रमाणं जातम्। तद्दिवसे दिवसे वर्धते न तु फुल्लति॥ तत आरामिकेण राज्ञेनिवेदितम्। राज्ञा उक्तः परीक्ष्यतामेतत्पद्ममिति॥ यावदपरेण समयेन सूर्योदये तत्पद्मं विकसितं तस्य च पद्मस्य कर्णिकायां दारकः पर्यङ्क बद्ध्वावस्थितः अभिनूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोषः संगतभ्रूस्तुङ्गनासः द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतो ऽशीत्यानुव्यञ्जनैर्विराजितगात्रः। तस्य मुखात्पद्मगन्धो वाति शरीराच्च चन्दनगन्धः॥ तत आरामिकेण राज्ञे निवेदितम्। ततो राजा सामात्यः सात्तःपुरश्च तदुद्यानं गतः। सहदर्शनात्तेन दारकेण राजा संभाषित एहि तात अहं ते ऽपुत्रस्य पुत्र इति। ततो राजा हृष्टतुष्ष्टप्रमुदित उवाच एवमेव पुत्र यथा वदसीति॥ ततो राजा पद्मिनीमवगाह्य तं दारकं पद्मकर्णिकायां गृहीत्वा पाणितले स्थापितवान्॥ यत्र य<त्र> स दारकः पादौ स्थापयति तत्र <तत्र> पद्मानि प्रादुर्भवत्ति। ततस्तस्य चन्दन इति नाम कृतम्॥
यदा चन्दनो दारको ऽनुपूर्वेण महान्संवृत्तः तदा नागरै राजा विज्ञप्तः। इहास्माकं देव नगरपर्व प्रत्युपस्थितं तदर्हति देवश्चन्दनं कुमारमुत्स्रष्टुमस्माभिः सह पर्वानुभविष्यति पद्मैश्च सर्वमधिष्ठानमलङ्करिष्यतीति॥ राजाह। एवमस्त्विति॥ ततश्चन्दनः सर्वालङ्कारविभूषितो ऽमात्यपुत्रपरिवृतो विविधैर्वाद्यैर्वाद्यमानै राजकुलाद्बहिरुपयाति नगरपर्व प्रत्यनुभवितुम्। तत्र तस्य गच्छतः पदविन्यासे पदविन्यासे पद्मानि प्रादुर्भवत्ति दर्शनीयानि मनोरमाणि च। तान्यर्करप्रिमभिः स्पृष्टमात्राणि म्लायत्ति शुष्यन्ति॥
अथ तस्य शुद्धसत्त्वस्य कल्याणाशयस्य पूर्वबुद्धावरोपितुकुशलमूलस्य तद्दर्शनाद्योनिशो मनसिकार उत्पन्नः। यथेमानि पद्मानि उत्पन्नमात्राणि शोभत्ते ऽर्करश्मिपरितापितानि म्लायत्ति शुष्यत्ति एवमेतदपि शरीरमिति॥ तस्यैवं चित्तयतस्तुलयत उपपरीक्षमाणस्य सप्तत्रिंशद्बोधिपक्ष्यधर्मा अभिमुखीभूताः। तेन तस्यैव जनकायस्य मध्ये स्थितेन प्रत्येकबोधिः साक्षात्कृता॥ यावच्छुध्हावासकायिकैर्देवैस्तस्मै काषायाण्युपनामितानि। तानि च प्रावृत्य गगनतलमुत्पतितो विचित्राणि च प्रातिहार्याणि कर्तु प्रवृत्तो यद्दर्शनाद्राज्ञामात्यनैगमसहायेन महान्प्रसादः प्रतिलब्धो विचित्राणि च कुशलमूलान्यवरोपितानि॥
भगवानाह। अतश्चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर्नामाभिनिर्वृत्तिश्चेति॥ भिक्षवो भगवत्तं पप्रच्छु। कानि भदत्त चन्दनेन प्रत्येकबुद्धेन कर्माणि कृतानि येनास्य शरीरं सुगन्धि तीक्ष्णेन्द्रियश्चेति॥ भगवानाह। काश्यपे भगवति प्रव्रजितो बभूव तत्रानेन केशनखस्तूपे गन्धावसेकः कृतः पुष्पाणि चावरोपितानि प्रत्येकबोधौ चानेन मार्गो भावितः। <तस्मात्तर्हि भिक्षव> एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥