२४.अभिनिष्क्रमणावदानम्
Technical Details
२४ अभिनिष्क्रमणावदानम्।
हसति सकललोलालोकसर्गाय भानुः।
परमममृतवृष्टयै पूर्णतामेति चन्द्रः।
इयति जगति पूज्यं जन्म गृह्णाति कश्चित्
विपुलकुशलसेतुः सत्त्वसंतारणाय॥ १॥
पुरा शुद्धोदनः श्रीमान् राजा शाक्यपुरेऽभवत्।
यशःशशाङ्कजनकः सुधासिन्धुरिवापरः॥ २॥
खलासक्ता स्वभावेन लक्ष्मीर्गुणिगणार्पिता।
आश्चर्यकारिणा येन कृता सत्पक्षपातिनी॥ ३॥
अद्याप्यखिलदिक्तीर्यवनासक्तैर्विवेकिभिः।
यशोभिः शुचिभिर्यस्य मुनिव्रतमिवोह्यते॥ ४॥
स्यामहं शुद्धमातेति पुरा प्रणिधितः किल।
विश्वकर्मसुतो मर्त्यमाजगामामलद्युतिः॥ ५॥
कीर्तिः सत्पुरुषस्येव तस्याभूद्वल्लभा परम्।
महामायाभिधा देवी चन्द्रस्येव कुमुद्वती॥ ६॥
सापश्यद्दन्तिनं श्वेतं स्वप्ने कुक्षौ विहायसा।
गतमारोहणं शैले प्रणतिं च महाजनात्॥ ७॥
अत्रान्तरे बोधिसत्त्वस्तुषितात् त्रिदशालयात्।
गर्भं तस्याः समापेदे स्वयं लोकानुकल्पया॥ ८॥
वहन्ती बोधिसत्त्वं सा गर्भे भुवननन्दनम्।
इन्दुं दुग्धाब्धिवेलेव बभूव पाण्डुरद्युतिः॥ ९॥
इक्ष्वाकुराजवंश्येन तेन गर्भस्थितेन सा।
भूर्निधानवतीवाभूद् भव्यलक्षणलक्षिता॥ १०॥
बभूव दोहदस्तस्या दानपुण्यमयोदयः।
अङ्कुरेऽप्यविसंवादि सहकारस्य सौरभम्॥ ११॥
अत्घ कालेन संपूर्णं सा लुम्बिनीवने स्थिता।
असूत तनयं देवी दिवाकरमिवादितिः॥ १२॥
मातुर्गर्भमलास्पृष्टं कुक्षिं भित्त्वा स निर्गतः।
तां चक्रेऽथ स्वभावेन स्वस्थाङ्गी विगतव्यथाम्॥ १३॥
निर्गच्छन्नेव रुद्धोऽसौ बलजिज्ञासया क्षणम्।
शक्रेण वज्रसाराङ्गस्तस्याशक्यत्वमाययौ॥ १४॥
जातमातः शुशुर्गत्वा स्वयं सप्त पदानि सः।
दिशो विलोकयन्नूचे सुव्यक्ताक्षरया गिरा॥ १५॥
इयं निर्वृतिः पूर्वा च गतिर्लोकेषु दक्षिणा।
पश्चिमा जातिरप्येषा संसारादियमुत्तरा॥ १६॥
इति तस्य ब्रुवाणस्य पृथिवी समकम्पत।
तमक्षयबलं धर्तुमशक्तेव जगद्गुरुम्॥ १७॥
छत्रं तस्य यशः शुभ्रं सत्त्वस्मेरं सचामरम्।
व्योमाम्बुधाराधौतस्य जगृहुस्तस्य देवता॥ १८॥
अस्मिन्नवसरे पृष्टः स् वस्त्रीयेणासिताभिधः।
नारदेन प्रभां दृष्ट्वा किष्किन्धाद्रिस्थितो मुनिः॥ १९॥
कस्मादर्कशतालोक इवालोकः प्रदृश्यते।
तमोदरिद्रां येनेति गिरयः सगुहागृहाः॥ २०॥
विस्मयादिति तेनोक्तः सोऽवदद्दिव्यलोचनः।
जातः पुण्यप्रभासोऽयं बोधिसत्त्वस्य जन्मनि॥ २१॥
अचिरेणैव तं वत्स द्रक्षावः कुशलाप्तये।
इत्युक्त्वा मुनिरानन्दाद् विश्रान्तिसुखितोऽभवत्॥२२॥
पुत्रजन्मनि सर्वार्थसिद्धिं शुद्धोदनः परम्।
दृष्ट्वा सर्वार्थसिद्धोऽयमिति नामास्य निर्ममे॥२३॥
शाक्यवर्धननामाभूद् यक्षः शाक्यपुराश्रयः।
यत्प्रणामेण शाक्यानां शिशवो निरुपद्रवाः॥ २४॥
तत्स्थित्या प्रेषितः पित्रा प्रणामाय सगुह्यकः।
तं बोधिसत्त्वमालोक्य निपपातास्य पादयोः॥ २५॥
अथोत्सङ्गे समादाय हृष्टस्तं पृथिवीपतिः।
लक्षणानि निमित्तज्ञैस्तस्य देहे व्यलोकयत्॥ २६॥
लक्षणज्ञास्ततः सर्वे नृपमूचुः सविस्मयाः।
देव दिव्यकुमारोऽयं लक्षणैरुपलक्ष्यते॥ २७॥
जायते लक्षणैरेतैर्विश्वविश्रान्तशासनः।
शक्राधिपश्चक्रवर्ती भगवान् स तथागतः॥ २८॥
दीर्घाङ्गुलिदलौ चक्रलाञ्छनौ सुप्रतिष्ठितौ।
अरुणौ चरणावस्य कान्तौ कमलकोमलौ॥ २९॥
राजहंस इव प्रांशुः सजालाङ्गुलिपल्लवः।
एष जानुयुगः श्रीमानाजानुभुजभूषितः॥ ३०॥
सकोशबस्तिगुह्यश्च न्यग्रोधपरिमण्डलः।
दक्षिणावर्तरोमाङ्कः परिणाहसमोन्नतिः॥ ३१॥
रजोमललवास्पृष्टस्तजाम्बूनदद्युतिः।
हस्तपादांसकण्ठाग्रस्पष्टसप्तच्छदाकृतिः॥ ३२॥
दीर्घप्रतनुजिह्वश्च मेघदुन्दुभिनिश्वनः।
अभिनीलाक्षगोक्ष्मः सहजोष्णीषमस्तकः॥३४॥
सितोर्णाङ्को भ्रुवोर्भागः स्वस्तिकोरःस्थलोज्ज्वलः।
लेखाशृङ्गाब्जहस्तोऽयं छत्राकारशिराः शिशुः॥ ३५॥
राजन्नयम् ते तनयश्चक्रवर्ती भविष्यति।
सम्यक्संबोधिसंबुद्धः सर्वज्ञो वा भविष्यति॥ ३६॥
इत्युक्त्वा तेषु जातेषु लेभे हर्षं महीपतिः।
सप्तभिदिवसैः शास्तुर्जननी त्रिदिवं ययौ॥ ३७॥
तस्य जन्मनि शाक्यानां मुनीनामिव शान्तता।
दृष्ट्वा यदा शाक्यमुनिर्नामाभूत्स तदा शिशुः॥ ३८॥
देवानामपि देवोऽयमिति निश्चित्य तेजसा।
देवातिदेव इत्यस्य नाम चक्रे महीपतिः॥ ३९॥
नारदेनाथ सहितस्तत्त्वदर्शी तपोवनात्।
तं समभ्याययौ द्रष्टुमादरादसितो मुनिः॥ ४०॥
स बोधिसत्त्वं बालार्कमिव कल्पप्रकाशनम्।
दृष्ट्वा विकासिवक्र्क्रश्रीर्लेभे कमलतुल्यताम्॥ ४१॥
सोऽब्रावीद्विहितातिथ्यं नृपतिं प्रणतं मुनिः।
राजन् गुणगणेनेव स्पृहणीयोऽसि सूनुना॥ ४२॥
एतानि लक्षणान्यस्य मोक्षलक्ष्मीसमागमम्।
वदन्ति चक्रवर्तिश्रीःफलं नैषां विनश्वरम्॥ ४३॥
अस्य बोधिप्रभावेण संबुद्धस्य् मुखाम्बुजम्।
धन्य पद्माकरस्येव नेत्रपात्रं करिष्यति॥ ४४॥
विबुधाः शुद्धसत्त्वस्य बोधिदुग्धमहोदधेः।
धन्या वागमृतैरस्य भविष्यन्त्युपजीविनः॥४५॥
पुण्यभाजि जगत्यस्मिन्नेक एवास्मि वञ्चितः।
एतत्संदर्शनं यस्य पूर्णकालस्य दुर्लभम्॥ ४६॥
इत्युक्त्वा नृपमामन्त्र्य गत्वा व्योम्ना तपोवनम्।
सुप्रसन्नं मनः कृत्वा देहत्यागमचिन्तयत्॥ ४७॥
स पर्यन्तोपदेशाय नारदेनाभिचोदितः।
तमुवाचामृतं वत्सं कुमारः कथयिष्यति॥ ४८॥
अधिगम्यामृतं तस्मान्नृपसूनोरनामयम्।
तरिष्यसि भवाम्बोधिमित्युक्त्वा तनुमत्यजत्॥ ४९॥
श्रीरसत्क्रियां तस्य कृत्वा सपदि नारदः।
ययौ वाराणसीं सिद्ध्यै लेभे कात्यायनाभिधाम्॥ ५०॥
वर्धमानः कुमारोऽथ सर्वविद्यासु पारगः।
लिपिप्रवीणोऽभिनवाम् लिपिं ब्राह्मीं विनिर्ममे॥ ५१॥
नागायुतसमप्राणे तस्मिन् जगति विश्रुते।
वैशालिकैः प्रियायास्मै प्रेषितो मत्तकुञ्जरः॥ ५२॥
भविष्यति चक्रवर्तीत्यस्य प्रातमुपायनम्।
देवदत्तः परिद्वेषात् तं जघान महागजम्॥ ५३॥
च्युतं चकर्षं द्विदतं नन्दः सप्त पदानि तम्।
कुमारस्तु तदुत्क्षिप्य प्राकाराद् बहिरक्षिपत्॥ ५४॥
एकनारावनिर्भिन्नसप्ततालमहीतलः।
छेद्यभेद्यास्त्रशस्त्रेषु स एवातिशयं ययौ॥ ५५॥
तततुल्यगुणां पत्नीं राजसूनुर्यशोधराम्।
अवाप विश्रुतां लोके शुद्धशील इवोन्नतिम्॥ ५६॥
अत्रान्तरे महावातविच्युतः सप्तयोजनः।
सरित्प्रवाहसंरोधं विदधे विपुलद्रुमः॥ ५७॥
सां स्फारतरुसंरुद्धा रोहिका नाम निम्नगा।
शीलभ्रष्टेव वनिता प्रययौ प्रतिलोमताम्॥ ५८॥
राजपुत्रस्तमुत्क्षिप्य भङ्क्त्वा विक्षुप्य तं द्रुमम्।
न्यवारयत् प्रजामत्स्यजलकल्लोलविप्लवम्॥ ५९॥
ततः कदाचिदुद्याने हंसं निशितयन्त्रिणा।
देवदत्तेन निहतं कुमारः समजीवयत्॥ ६०॥
संतापं तद्विवादेन देवदत्तोऽधिकं ययौ।
न सहन्ते हि कुटिलास्तुल्यकुलगोणोन्नतिम्॥ ६१॥
कदाचिद् गोपिका नाम कुमारं राजकन्यका।
कन्दर्परूपमालोक्य किमप्यौत्सुक्यमाययौ॥ ६२॥
शुद्धोदनः सुतस्थैतां ज्ञात्वा चित्तोचितां वधूम्।
अपूरयद्विवाहेन मन्मथस्य मनोरथम्॥ ६३॥
नैमित्तिकास्ततोऽभ्येत्य नृपमूचुः सुनिश्चयाः।
पुत्रस्ते चक्रवर्ती वा मुनिर्वा सप्तमेऽहनि॥ ६४॥
तच्छ्रुत्वा नृपतिः सूनोश्चक्राव्र्तिपदाप्तये।
प्रव्रज्याचकितश्चिन्तां दिनसंख्यामयीं ययौ॥ ६५॥
लोलां सर्वः स्र्हियं वेत्ति शान्तस्थिरसुखामपि।
अत्थापि भोगरक्तानां संपत्स्वेवादरः परम्॥ ६६॥
ततः कदाचिदुद्यानविहाराय नृपात्मजः।
प्रययौ रथमारुह्य वल्गुतुङ्गतुरङ्गमम्॥ ६७॥
स विवर्णं जराजीर्णम् कीर्णशीर्णशिरोरुहम्।
सुशुष्कपरुषाकारं ददर्श पुरुषं पथि॥ ६८॥
स तं दृष्ट्वा निजं कायमालोक्याचिन्तयच्चिरम्।
अहो पर्याप्तपाकोऽयं कायस्यास्य जुगुप्सितः॥ ६९॥
वयः पर्याप्तमाप्तोऽपि पर्याप्तं नाश्रयत्ययम्।
अतीव पलितव्याजाज्जरा वृद्धं हसत्यसौ॥ ७०॥
शरीरे संततस्नायुपाशप्रोतास्थिपञ्जरे।
वृद्धः पुष्णाति मन्येऽहमहो मोहविहङ्गमम्॥ ७१॥
सारथे किं करोत्येष किं न याति तपोवनम्।
अस्ंकोचमेति वृद्धस्य देहेन सह सा मतिः॥ ७२॥
वृद्धोऽवलम्बते यष्टिं न तु धर्ममयीं धियम्।
जराकुटिलकायस्य स्वभावो निर्विवेकता॥७३॥
जुगुप्सां जनयत्येष वृद्धः प्रस्खलिताक्षरैः।
वचोभिश्च्युतदन्ताभैर्गलल्लालालवाकुलैः॥ ७४॥
नष्टा दृष्टिः कृशः कायः शक्तिर्लुप्ता हता श्रुतिः।
तथापि मोहाद् दृष्टैव वृद्धस्य तरुणीप्रिया॥ ७५॥
धत्ते धवलतां वृद्धः किमेतामतिगर्हिताम्।
लोला परं विरक्तापि यद्यस्यातिप्रिया तनुः॥ ७६॥
इति चिन्तयतस्तस्य निर्वेदः समजायत।
मन्यमानस्य सापायं कायं निचयमापदाम्॥ ७७॥
पुनश्च समयेऽन्यस्मिन्नपश्यद् व्याधितं नरम्।
विपक्ककूणपप्रायं सपूयमिव पाण्डरम्॥ ७८॥
स प्रदध्यौ तमालोक्य समुद्दिश्य निजां तनुम्।
अहो नु सहजैवास्मिन् काये रोगगणोद्गतिः॥ ७९॥
इदमेव महच्चित्रमियं मांसमयी तनुः।
न याति क्लेदवैक्लव्यं क्षणं पर्युषीतेऽपि यत्॥ ८०॥
इति ध्यात्वा स सोद्वेगः शरीरविचिकित्सया।
बभूव राज्यसंभोप्गरागे विगतितादरः॥ ८१॥
अथान्यस्मिन् क्षणे माल्यवस्त्राच्छादितविग्रहम्।
ददर्श देहसत्कारव्यग्रबन्धुजनं शवम्॥ ८२॥
तं दृष्ट्वा सहसोद्वेगदयादुःखघृणाकुलः।
चिरं निःसारसंसारपरिहारमचिन्तयत्॥ ८३॥
एष प्रेतवनं याति संसक्तां हृदये वहन्॥ ८४॥
अहो नु विषयाभ्यासविलासाध्यवसायिनाम्।
नृणामन्त्यक्षणे कष्टा काष्ठपाषाणतुल्यता॥ ८५॥
उद्वेगवारिभवसागरबुद्बुदेऽस्मिन्
कालानिलाकुलितकर्मलताग्रपुष्पे।
मायावधूनयनविभ्रमसंविभागे
पुंसां क एष वपुषि स्थिरताभिमानः॥ ८६॥
नोक्तं किंचित् परहितयुतं न श्रुतं धर्मयुक्तं
नैव घ्रातं कुशलकुसुमं सत्यरूपं न दृष्टम्।
नैव स्पृष्टं शमपदमिति व्यक्तमासक्तचिन्ता-
विश्रान्तोऽयं वहति सहसा निश्चलत्वं गतायुः॥ ८७॥
राजसूनुर्विचिन्त्येति शरीरं विपदाप्लुतम्।
अशेषविषयासङ्गे पराम् नः स्नेहताम् ययौ॥ ८८॥
अथाग्रे निर्मितं देवैः स शुद्धावासकायिकैः।
व्यलोकयत् प्रव्रजितं पात्रकाषायधारिणम्॥ ८९॥
तं दृष्ट्वैव बभूवास्य प्रव्रज्याभिमुखी मतिः।
ईप्सितालोकनप्रीत्या स्वभावो हि विभाव्यते॥ ९०॥
विराग्यकारणम् तत्र नृपसूनोः पदे पदे।
विलोक्य सारथिः सर्वं क्षितिपाय व्यनेदयत्॥ ९१॥
कुमारोऽथ पितुर्वाक्यात् ग्रामालोकनकौतुकी।
व्रजन् पथि निधानानि विवृतानि व्यलोकयत्॥ ९२॥
तत्पूर्वपुरुषन्यस्तैः स्त्रीकरैरुत्थितान्यपि।
यदा स नाग्रहीत्तानि तदा विविशुरम्बुधिम्॥ ९३॥
ततः स कर्षकान् पांशुव्याप्तपाण्डुशिरोरुहान्।
विदीर्णपाणिचरणान् क्षुत्पिपासाश्रमातुरान्॥ ९४॥
हलकद्दालविषमोल्लेखपक्षव्रणादितान्।
विलोक्य क्लेशविवशान् बभूव करुणाकुलः॥ ९५॥
विधाय दयया तेषां द्रविणौरदरिद्रताम्।
स वृषाणां वृषरतः क्लेशमुक्तिमकारयत्॥ ९६॥
ततः प्रतिनिवृत्तोऽथ सानुजः पार्थिवात्मजः।
मध्याह्नपृथुसंतापे तरलस्तरणित्विषः॥ ९७॥
रथघोषोन्मुखशिखिश्यामीकृतदिगन्तरः।
स्वेदवारिकणाकीर्णः प्रभास्निग्धवनस्थलीम्॥ ९८॥
सोऽवरुह्य रथात्तत्र गण्डस्खलितकुण्डलह्।
विश्राण्त्यै विश्रुतयशा जम्बुच्छायामशिश्रियत्॥ ९९॥
स बभारोरसि व्यक्तां स्वेदाम्बुकणसंततिम्।
वपुराश्लेषललितां हारस्येव कुटुम्बिनीम्॥ १००॥
छायासु परिवृत्तासु शनकैः सर्वशाखिनाम्।
तस्य जम्बूतरुच्छाया न चचाल तनुस्तनोः॥ १०१॥
सा तस्य शीतलच्छाया तापक्लान्तिमवारयत्।
संसारविरतस्येव तीव्रवैराग्यवासना॥ १०२॥
पुत्रदर्शनसोत्कण्ठस्तं देशमथ भूपतिः।
आजगाम गजोत्सर्पत्रस्तभ्रमरचामरः॥ १०३॥
छायां स निश्चलां दृष्ट्वा कुमारस्य प्रभावतः।
गौरवाद्भुतसंप्राप्तः प्रणतं प्रणनाम तम्॥ १०४॥
ततः स सहितः पित्रा नगरं गन्तुमुद्यतः।
अपश्यत् पुरपर्यन्ते श्मशानं शवसंकुलम्॥ १०५॥
स दृष्ट्वा कुणपाकीर्णमशिवं शिवकाननम्।
सोद्वेगं सारथिं प्राह स्थगितस्यन्दनः क्षणम्॥ १०६॥
सारथे पश्य जन्तूनां कायापायमतीं दशाम्।
दृष्ट्वेदमपि रागार्द्रं मनो मोहप्रमादिनाम्॥ १०७॥
परस्त्रीदर्शनात्तृप्तं नेत्रमास्वाद्य सादरम्।
अस्यासत्यवती जिह्वा पश्य काकेन कृस्यते॥ १०८॥
अस्याः स्तनमुखन्यस्तनखोल्लेखसुखस्थितिः।
ख्ण्डयत्यधरं गॄध्रः कामीव मदनिर्भरह्॥ १०९॥
एते दृष्टनिषक्टवायसशकृन्निष्ठिविनः पादपा
मूर्च्छन्तीव विपाकपूयकुणपाघ्राणेन निष्कूणिताः।
दृष्ट्वा गृध्रविदार्यमाणमसकृत् कीऱ्णार्द्रतन्त्र शवं
भूयो वातविलोलपल्लवकरैराच्छादयन्तीव च॥११०॥
क्षीबस्येवाचलस्य द्रुतहृतहृदया जम्बुकी कण्ठसक्ता
रक्ताभिव्यक्तकामा कमपि नखमुखोल्लेखमासुत्रयन्ती।
आस्वाद्यास्वाद्य यूनः क्षणमधरदलं दत्तदन्तव्रणाङ्कं
लग्नानङ्गक्रियायामियमतिरभसोत्कर्षमाविष्करोति॥ १११॥
इत्युक्त्वा जातविरतिर्भवबीभत्सकुत्सया।
कलयन् क्लेशनिर्वाणं प्रविवेश पुरान्तरम्॥११२॥
तत्र हर्म्यगतापश्यत् तं कन्याभिजनोज्ज्वला।
मृगजा नाम मृगजानोदिनी मृगलोचना॥११३॥
सरागतरला दृष्ट्ः श्रोत्रसंचारिणी परम्।
अभूत्तद्दर्शने तस्याः सहसैव विरेकिणी॥ ११४॥
सा तदालोकनेनैव बाला लज्जासहिष्णूना।
स्मरेणेव समाकृष्टा सखीं प्राह पुरःस्थिताम्॥ ११५॥
का धन्या ललना लोके स्पर्शेनास्य शशित्विषः।
यस्या मदनसंतप्ता तनुर्निर्वाणमेष्यति॥ ११६॥
निर्वाणशब्दं श्रुत्वैव राजपुत्रः समीहितम्।
तां ददर्शोन्मुखः पद्मवनानीव दिशन् दृशा॥ ११७॥
स तस्यास्तेन वचसा वपुषा व प्रसादितः।
हारं सुवृत्तं चित्तं च विक्षेपास्यै गुणोज्ज्चलम्॥ ११८॥
आलोकनानुकूल्येन भावं विज्ञाय भूपतिः।
पुत्रस्यान्तःपुरपदे तामादाय न्यवेशयत्॥ ११९॥
षण्णां काण्तासहस्राणां वृतमन्तःपुरं ततः।
विवेश राजतनयः प्रियां शान्तिं विचिन्तयन्॥ १२०॥
अत्राण्तरे नरपतिं प्राहुर्नैमित्तिकाः स्फुटम्।
मुनिर्वा चक्रवर्ती वा प्रातस्ते बह्विता सुतः॥ १२१॥
ततः संचिन्त्य नृपतिः प्रव्रज्याम् चकितः परम्।
अकारयत् पुरद्वारगुप्तिं रुद्धगमागमाम्॥ १२२॥
द्रोणोदनमुखान् भ्रातॄन् द्वारेषु विनिवेश्य सः।
नगरस्य स्वयं मख्ये तथा सामात्यसैनिकः॥ १२३॥
राजपुत्रादथ प्राप्तगर्भा देवी यशोधरा।
वभाषे शारदीव द्यौः प्रत्यासन्नेन्दुपाण्डुरा॥१२४॥
एकरात्रावशेषेऽथ नगरद्वाररक्षणे।
शमप्रवृत्तार्कमभूत् प्रव्रज्याभिमुखं दिनम्॥ १२५॥
चिरं विचर्य संसारं शान्तिं याते दिवस्पतौ।
काषायाम्बरमालम्ब्य ययौ संध्यावदृश्यताम्॥ १२६॥
अशेषाशातमोमोहविरामविमलां शनैः।
इन्दुर्गामुदितश्चक्रे पूर्णालोकविलोकिनीम्॥ १२७॥
सरागतापे वभसश्चेतसीव गते रवौ।
शुद्धेन्दुहृदयस्याभूत् प्रसादः कोऽप्यविप्लवः॥ १२८॥
अथास्मिन्नन्तरे कान्तासंततान्तःपुरोदरे।
रत्नहर्म्यप्रविष्टेन्दुद्युतिसंदोहहासिनि॥ १२९॥
निःसारविरसं सर्वं राजसूनुर्विलोकयन्।
जगा गगनस्वच्छस्वच्छन्दोच्छलितस्मृतिः॥ १३०॥
गणोऽयं नारीणां मदनदहनोल्कापरिकरः
परित्याज्यस्तीव्रव्यसनशतसंतापसचिवः।
इदानीं युक्ता मे तरुतललताशीतलरे
परित्यक्तागारप्रशमसुखसारे परिणतिः॥ १३१॥
एताश्चन्द्रद्युतिमदमया यामि नार्यो वनेऽस्मिन्
निद्रामुद्रानियमितदृशः संस्तरस्रस्तवत्राः।
स्वप्नोत्पन्नानुचितवचनाः केशसंछादितांसाः
क्षिप्रं मन्दानिलविचलितान् लज्जयन्तीव दीपान्॥ १३२॥
सरलस्रस्तगात्राणां निर्लज्जानां विवाससाम्।
सुप्तानां च मृतानां च भेदः को नाम देहिनाम्॥ १३३॥
इति तस्य ब्रुवाणस्य संजाते गमनोद्यमे।
मिथः कथा समभवन्नगरद्वाररक्षिणाम्॥ १३४॥
भो भोः कः कोऽत्र जागर्ति जाग्रतो नास्ति विप्लवः।
प्रभुचित्तग्रहव्यग्राः समग्रा एव जाग्रति॥ १३५॥
जागर्ति संसारगृहे मनीषी मोहाण्धकारे स्वपिति प्रमत्तः।
ज्जीवितमेव लोके मृतस्य सुप्तस्य च को विशेषः॥ १३६॥
इति मर्ह्यस्थितः श्रुत्वा रात्रौ राजसुतः कथाः।
प्रस्थितं सत्पथेनेव निजं मेने मनोरथम्॥ १३७॥
निवॄत्तेर्लक्षणं दृष्ट्वा स स्वप्नं क्षणनिद्रया॥ १३८॥
ततः प्रबुद्धा सहसा त्रस्ता देवी यशोधरा।
तत्कालोपनतं स्वप्नं दयिताय न्यवेदयत्॥ १३९॥
पर्यङ्काभरणान्गानि स्वप्ने भग्नानि मे विभो।
श्रीर्व्रजन्ती मया दृष्ट्वा चन्द्रार्कौ च तोरिहितौ॥ १४०॥
इत्याकर्ण्य स तामूचे मुग्धे सत्यविवर्जितः।
संसार एव स्वप्नोऽयं स्वप्ने स्वप्नोऽपि कीदृशः॥ १४१॥
स्वप्नेऽद्य नाभिसंजाता लता व्याप्ता विहारसा।
मेरूपधानशिरसा पूर्वपश्चिमवारिधौ॥ १४२॥
भुजाभ्यां चरणाभ्याम् च दक्षिणाब्धिर्मया धृतः।
भद्रे स्वप्नः शुभोऽयं ते स्त्रीणां भर्तुशुभं शुभम्॥ १४३॥
इत्युक्ते बोधिसत्त्वेन नोचे किंचिद् यशोधरा।
पुनश्च निद्राभिमुखी बभूव मीलितेक्षणा॥ १४४॥
शक्रब्रह्ममुखाः सर्वे समेत्याथ सुधाभुजः।
चक्रिरे बोधिसत्त्वस्य सत्त्वोत्साहप्रपूरणम्॥ १४५॥
तैर्देवपुत्राश्चत्वारः समादिष्टा महाजवाः।
सहाया गमने तस्य भूशैलाब्धिधृतिक्षमाः॥ १४६॥
शक्रादिष्टेन यक्षेण पाञ्चिकाख्येन निर्मितैः।
सहर्म्यासक्तसोपानैरवतीर्य विनिर्ययौ॥ १४७॥
सुप्तं सारथिमादाय छन्दकाख्यं प्रबोध्य सः।
उत्सादमिव जग्राह कण्ठकाख्यं तुरङ्गमम्॥ १४८॥
तं तीक्ष्णरुचिरं लक्ष्मीकटाक्षतरलं हरिम्।
स चक्रे संयमालीनं मूर्धि संस्पृश्य पाणिना॥ १४९॥
शमोद्यमे सुमनसा स् अकोऽप्यन्तर्बहिः समह्।
शिशवोऽपि विमुञ्चन्ति यत्प्रभावेण चापलम्॥ १५०॥
बलजिज्ञासया न्यस्तं तेनाथ चरणं क्षितौ।
न ते कम्पयितुं शेकुर्देवपुत्राः सविस्मयाः॥ १५९॥
छन्दकेन सहारुह्य निस्तरङ्गं तुरङ्गमम्।
स जगाहे महद्व्योम विमलं स्वमिवाशयम्॥ १५२॥
प्रययौ तरलावर्तिनर्तितोष्णीषपल्लवः।
संसर्पिपवनोल्लसैः शोकोच्छ्वास इव श्रियः॥ १५३॥
तस्याभरणरत्नांशुलेखाभिः शबलं नभः।
जग्राह सूत्रपत्रालीविचित्रम्जिव चीवरम्॥ १५४॥
ख़िर्णाश्रुबिन्दुकलिता विलोलनयनोत्पलाः।
व्रजन्तं ददृशुर्दृश्यास्तमन्तःपुरदेवताः॥ १५५॥
संसारमिव विस्तीर्णं पुरं सनृपबान्धवम्।
दूरात् प्रदक्षिणीकृत्य क्षम्यतामित्यभाषत॥ १५६॥
क्षपायां क्षणशेषायाम् जने निद्राभिमुद्रिते।
तं ददर्श महान्नाम प्रबुद्धो राजबान्धवः॥ १५७॥
दिवि दृष्ट्वा व्रजन्तं तं शशाङ्कशङ्कया हृतः।
ऊचे चिरं विचार्योच्चैर्बाष्याज़्न्चितविलोचनह्॥ १५८॥
चित्रमेतद् विरक्तव्तं बन्धुजीवोपमस्य ते।
कुमार रुचिराकार न युक्तं युक्तकारणम्॥ १५९॥
वंशोत्कर्षविशेषार्थू निबद्धाशः पिता त्वयि।
कस्मान्निराश क्रियते सर्वाशाभरण त्वया॥ १६०॥
इति शाक्यस्य महतः श्रुत्वा वाक्यं नृपात्मजः।
तमूचे बान्धवप्रीतिर्बन्धो वन्धनशृङ्खला॥ १६१॥
अयं कायः क्षयं याति मिथ्यागृहसुखप्रियः।
विषयोग्रविष्र्तानाममृतायतनं वनम्। १६२॥
हस्ताकृष्टस्त्रिफणिफणभृन्मस्तकन्यस्तमृत्यु
कण्ठाबद्धित्कटविषलतापल्लवालोलमालः।
दीप्ताङ्गारप्र्करगहनं गाहते दुर्गमार्गं
संसारेऽस्मिन् विषयनिचये सप्रमोदः प्रमादी॥ १६३॥
इत्युदीर्य व्रजन् व्योम्ना विलङ्घ्य नगरं क्षणात्।
बहिर्भूतलमभ्येत्य स ययौ वाजिना जवात्॥ १६४॥
महता शाक्यमुख्येन बोधितस्याथ भूपतेः।
अन्तःपुरे च कान्तानामुद्भूतः करुणः स्वरः॥ १६५॥
अथ ब्रह्मेन्द्रधनदप्रमुखस्त्रिदशैर्वृतः।
राजसूनुर्वनं प्राप गत्वा द्वादशयोजनम्॥ १६६॥
अवरुह्याथ तुरगात्ग् विमुच्याभरणानि सः।
उवाच सूचितानन्दश्छन्दकं वदनत्विषा॥ १६७॥
गृहीत्वाबह्रणानि त्वं हयं च व्रज मन्दिरम्।
मेदानीमस्ति मे कृत्यमेतैर्मायानिबन्धनैः॥ १६८॥
वनेऽस्मिन्नहमेकाकी शमसंतोषबान्धवः।
एकः संजायते जन्तुरेक एव विपद्यते॥ १६९॥
विषमविषययोगं भोगमुत्सृज्य रे कः
सरसरति विशेषक्लेशशोषप्रवृत्तः।
परिभवभुवनेऽस्मिन्नेष नः संनिवेशः
शमितमदनकान्तिः शान्तिमेव श्रयामि॥ १७०॥
इत्युक्त्वाभरणान्यस्य दीप्तान्यङ्के मुमोच सः।
त्यक्तशोकान्वितानीव मुक्तापक्कणसंचये॥ १७१॥
चूडां निस्कृष्य खङ्गेन स चिक्षेप नभःस्थले।
शक्रश्च तम् समादाय निनाय दिवमादरात्॥ १७२॥
केशः क्लेश इवोत्कृत्तो यत्र तेन महात्मना।
केशप्रतिग्रहं चैत्यं सद्भिस्तत्र निवेशितम्॥ १७३॥
छन्दकोऽप्यश्वमादायं प्रयातः सप्तभिर्दिनैः।
शनैः प्राप पुरोपान्तं शोकार्तः समचिन्तयत्॥ १७४॥
शून्यं तुरगमादाय परित्यज्य नृपात्मजम्।
द्रष्टुं शक्नोमि नृपतिं कथं पुत्रप्रलापिनम्॥ १७५॥
विचिन्त्येति हयं त्यक्त्वा स तत्रैव व्यलम्बत।
शून्यासनः परं वाजी मूर्तः शोक इवाविशत्॥ १७६॥
तं दृष्ट्वान्तः पुरजनः सामात्यश्च महीपतिः।
प्रतिप्रलापमुखराश्चक्रिरे निखिला दिशः॥ १७७॥
उद्भूतार्तस्वरैः कण्ठैः सोत्कण्ठैः स विषादवान्।
सर्वैर्गृहीतकीर्णाश्रुर्वाजी जीवितमत्यजत्॥ १७८॥
स बोधिसत्त्वसंस्पर्शपुण्यप्राप्तिपवित्रितः।
जग्राह ब्राह्मणकुले जन्म संसारमुक्तये॥ १७९॥
शक्रदत्तं कुमारस्तु यत्र काषायमग्रहीत्।
काषायग्रहणम् तत्र चैत्यं चक्रे महाजनः॥ १८०॥
विभवमभववृत्त्यै जन्म जन्मप्रमुक्त्यै।
विजनमपि जनानां मोहगर्तान्निवृत्त्यै।
इति स कुशलकामः काममुत्सृज्य भेजे
गुणकृतजनरागः श्लाघ्यतां त्यक्तरागः॥ १८१॥
इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलताया-
मभिनिष्क्रमणावदानं चतुर्विशः पल्लवः॥