१.प्रभासावदानं
Technical Details
क्षेमेन्द्रविरचिता
बोधिसत्त्वावदानकल्पलता।
नमः सर्वज्ञाय।
१ प्रभासावदानं।
चित्तं यस्य स्फटिकविमलं नैव गृह्णाति रागं
कारुण्यार्द्रे मनसि निखिलाः शोषिता येन दोषाः।
अक्रोधेन स्वयमभिहतो येन संसारशत्रुः
सर्वज्ञोऽसौ भवतु भवतां श्रेयसे निश्चलाय॥१॥
सच्छायः स्थिरधर्ममूलवलयः पुण्यालवालस्थिति-
र्धीविद्याकरुणाम्भसा हि विलसद्विस्तीर्णशाखान्वितः।
संतोषोज्ज्वलपल्लवः शुचियशःपुष्पः सदासत्फलः
सर्वाशापरिपूरको विजयते श्रीबुद्धकल्पद्रुमः॥ २॥
जायते जगदुद्धर्तुं संसारमकराकरात्।
मतिर्महानुभावानामत्रानुश्रूयते यथा॥ ३॥
अस्ति प्रभावती नाम हेमहर्म्यगृहैर्वृता।
पुरी प्रभावतीव द्यौर्विमानैः पुण्यकर्मणाम्॥ ४॥
विद्याधरवती सिद्धगन्धर्वगणसेविता।
गां श्रिता शक्रनगरी सुकृतेन सतामिव॥ ५॥
सेविता सततं सत्यव्रतदानदयामयैः।
राजधानीव धर्मस्य पुण्यावसथशालिनी॥ ६॥
अभूद्भूतिलकस्तस्यां प्रभासो नाम भूपतिः।
सप्रभा सादरैर्यस्य कीर्तिरभ्यर्च्यते सुरैः॥ ७॥
गुणसौरभसंभाराः सर्वासां हरिणीदृशाम्।
यद्यशःपुष्पमञ्जर्यो याताः कर्णवतंसताम्॥ ८॥
उपायज्ञस्य यस्याज्ञां सुवणकुसुमोज्ज्वलाम्।
मालामिव महीपाला मौलिचक्रेषु चक्रिरे॥ ९॥
तं कदाचित्समासीनमभ्येत्य भुवनेश्वरम्।
उवाच क्षितिविन्यस्तजानुर्नागवनाधिपः॥ १०॥
देव दिव्यद्युतिर्दन्ती गृहीतोऽस्माभिरद्भुतः।
त्वत्कीर्तिश्रवणाद्भूमिमैरावण इवागतः॥ ११॥
द्वारि स्थितोऽसौ द्विरदस्त्रिदशार्हः प्रदृश्यताम्।
भृत्यानां प्रभुनां दृष्टः सफलो हि परिश्रमः॥ १२॥
एतदाकर्ण्य नृपतिर्निर्गत्यामात्यसंमतः।
ददर्श द्विरदं द्वारि कैलासमिव जङ्गमम्॥ १३॥
उद्दामसौरभाहूतैर्भ्रमरैर्गण्डडिण्डिमैः।
शृङ्गाराभरणोदारं वसन्तमिव सेवितम्॥ १४॥
दन्तपर्यन्तविश्रान्तकरं मीलितलोचनम्।
स्मरन्तं विन्ध्यकदलीसल्लकीकाननश्रियः॥ १५॥
अगस्त्यशासनाद् यातं भुवि कुञ्जरराजताम्।
स्फुरत्सप्तच्छदामोदं विन्ध्याचलमिवोन्नतम्॥ १६॥
तं विलोक्य क्षितिपतिर्दन्तस्तम्भविभूषितम्।
लक्ष्मीविलासभवनं विस्मयादित्यचिन्तयत्॥ १७॥
अहो नवनवोत्कर्षा निर्माणाश्चर्यशालिनाम्।
कर्मणामनवच्छिन्ना संसारसर्गसंततिः॥ १८॥
अमन्थेन सुधाम्भोधेरनायासेन वासुकेः।
अनाकर्षेण शैलस्य केनायं जनितो गजः॥ १९॥
अथ हस्तिमहामात्रं संयातं नाम भूपतिः।
आदिदेशार्चितादेशं गजोऽयं दम्यतामिति॥ २०॥
तदादिश्य महीपाले यातेऽन्तःपुरमन्दिरम्।
नागं जग्राह संयातः सर्वशिक्षाभरक्षमम्॥ २१॥
स सच्छिष्य इव प्राज्ञः प्राग्जन्माभ्यासयन्त्रितः।
नीतस्तेन प्रयत्नेन सर्वशिक्षाविनीतताम्॥ २२॥
बहुदाननिरुद्वेगः शक्त्युत्साहयुतः क्षमी।
रिपुप्रघातसुगतिः स राज्ञस्तुल्यतां ययौ॥ २३॥
दम्यक्रियासमुत्तीर्णं ततस्तं कुञ्जरेश्वरम्।
नरेश्वराय संयातः कृतकृत्यो न्यवेदयत्॥ २४॥
दृष्ट्वा तमङ्कुशायत्तं निर्विकारबलोदयम्।
उत्साहशिखरारूढं मेने राजा जयश्रियम्॥ २५॥
स संजातप्रहर्षोत्थदाक्ष्यशिक्षादिदृक्षया।
तमारुरोह सोत्साहः सहस्रांशुरिवोदयम्॥ २६॥
संयातोऽथ गजेन्द्रस्य मन्त्रीव वशवर्तिनः।
सर्वमण्डलसंचारचातुर्थं समदर्शयत्॥ २७॥
गजप्रेक्षाप्रसङ्गेन मृगयाकेलिलालसः।
राजा निजोत्साहमिव व्यगाहत वनं महत्॥ २८॥
स ययौ रत्नकेयूरकिरणैर्दूरसर्पीभिः।
सल्लकीपल्लववरैर्दिग्नागानाह्वयन्निव॥ २९॥
व्रजन्तं तत्र ददृशुस्तं वने वनदेवताः।
प्रहर्षविस्मयाकीर्णकर्णपूरीकृतेक्षणाः॥ ३०॥
शबरीकबरीपाशपुष्पसौरभनिर्भराः।
वैन्ध्या वसुंधराधीशं मरुतस्तं सिषेविरे॥ ३१॥
अथ विन्ध्योपकण्ठेषु स्वच्छन्दसुखशाखिषु।
स्मृत्वा विलासवृत्तान्तं गजः सोत्कण्ठतां ययौ॥ ३२॥
करिण्याः प्रेमबद्धाया गन्धमाघ्राय स द्विपः।
नीतिं नृप इवोत्सिक्तस्तत्याजाङ्कुशयन्त्रणाम्॥ ३३॥
सवेगं धावतस्तस्य रागाकृष्टस्य दण्डिनः।
विमूढस्येव संसारे नाभवद्विरतिः क्कचित्॥ ३४॥
दृष्ट्वा प्रभञ्जनजवं कुञ्जरं राजकुञ्जरः।
व्रजन्तं जातसंदेहः संयातमिदमब्रवीत्॥ ३५॥
अहो बतायं भवता विनयं ग्राहितो गजः।
दृष्टः प्रयातो वैमुख्यं गुरोरस्याङ्कुशस्य यः॥ ३६॥
भ्रमतीव दिशां चक्रमनुयान्तीव पादपाः।
पादन्यासभरेणास्य क्षीबेणाधूर्णते क्षितिः॥ ३७॥
अस्मिन् देव इवाकाले प्रयाते प्रतिकूलताम्।
सर्वाः पुरुषकारस्य निष्फला यत्नवृत्तयः। ३८॥
वचः श्रुत्वेति संयातः प्रभोरायातसाध्वसः।
शिक्षापवादवैलक्ष्यादुवाच रचिताञ्जलिः॥ ३९॥
देव सर्वक्रियायत्तः कुञ्जरोऽयं मया कृतः।
करिणीगन्धमाघ्राय यातः किं त्वद्य विक्रियाम्॥ ४०॥
नोपदेशं न नियमं न दाक्षिण्यं न साधुताम्।
स्मरन्ति जन्तवः कामं कामस्य वशमागताः॥ ४१॥
केन रतिरसोत्सिक्ता विषयाभिमुखी मतिः।
अदभ्रश्वभ्रविभ्रष्टशलकुल्येव वार्यते॥ ४२॥
शरीरश्रमशिक्षायां दमकाः कुशला वयम्।
मनोनियमशिक्षायां मुनयोऽपि न पण्डिताः॥ ४३॥
रागादगणितायासः स्खलिताखिलसंयमः।
एष धावत्यमारेण मूर्खः खल इव द्विपः॥ ४४॥
वृक्षशाखां समालम्ब्य त्यजेमं पृथिवीपते।
व्यसनी पतितः सत्यं पातयत्येव दुर्जनः॥ ४५॥
संयातस्य वचः श्रुत्वा तत्कालसदृशं नृपः।
तेनैव सहितः शाखामाललम्बे महातरोः॥ ४६॥
अवतीर्य तरोरश्वमारुह्य नृपतौ गते।
प्राप्यालिलिङ्ग करिणीं विगाह्य गहनं गजः॥ ४७॥
ततः शान्तस्मरो हस्ती दिनैरभ्येत्य सप्तभिः।
स्वयमालानसंबद्धस्तस्थौ भुक्त्वा यथासुखम्॥ ४८॥
शिक्षासंयमयन्त्रितं तं दृष्ट्वा स्वयमागतम्।
संयातः कौशलोत्कर्षहर्षाद्राज्ञे न्यवेदयत्॥ ४९॥
रागवागुरयाकृष्टः प्रययौ यः स्मरातुरः।
शिक्षायामविसंवादी सोऽयं प्राप्तः स्वयं गजः॥ ५०॥
संकेतयन्त्रितो वश्यो रसज्ञः सल्लकीभुवाम्।
संतप्तलोहकवलं गृह्णाति विनये स्थितः॥ ५१॥
एष कामरसाकृष्टः कष्टां विकृतिमाययौ।
पुनः प्रकृतिमापन्नः प्रशान्तमदनज्वरः॥ ५२॥
शक्या दमयितुं देव सिंहव्याघ्रगजादयः।
न तु रागासवक्षीबविषयाभिमुखं मनः॥ ५३॥
एतदाकर्ण्य भूपालस्तत्तथेति विचिन्तयन्।
उवाच सत्यमुचितं संयात कथितं त्वया॥ ५४॥
अप्यस्ति कश्चिल्लोकेऽस्मिन् येन चित्तमदद्विपः।
नीतः प्रशमशीलेन संयमालानलीनताम्॥ ५५॥
इत्युक्ते दे वताविष्टः संयातस्तमभाषत।
देव सन्ति जगत्क्लेशनिःशेषोन्मूलनोद्यताः॥ ५६॥
विवेकालोकिता लोके वैराग्यजनिताग्रहाः।
शमसंतोषविशदा बुद्धा एव प्रबोधिनः॥ ५७॥
इति बुद्धाभिधां श्रुत्वा सम्यक्संबोधिचेतसः।
राज्ञः प्राग्जन्मजाभ्यासप्रणिधानमजायत॥ ५८॥
विनिमज्जज्जगदिदं संसारे मकराकरे।
संतारयेयं संबोधिमुक्तः कुशलसेतुना॥ ५९॥
अथोचुर्देवता व्योन्मस्तं शुद्धावासकायिकाः।
सम्यक्संबोधिसंबुद्धो भविष्यसि महामते॥ ६०॥
इति तद्वचनं श्रुत्वा राजा विरजसां वरः।
जातिस्मरो दिव्यचक्षुः प्रययौ बोधिसत्त्वताम्॥ ६१॥
अथ स विपुलसत्त्वस्तत्त्वनिक्षिप्तचक्षु-
र्भवजलनिधिमज्जत्सर्वभूतानुकम्पी।
अभवदभिनवोद्यत्संवुदित्साहयोगा-
द्दलितकुशलसेतुः सत्त्वसंतारणाय॥ ६२॥
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
प्रभासावदानं नाम प्रथमः पल्लवः समाप्तः॥