Digital Sanskrit Buddhist Canon

श्रीहेवज्रसाधनवज्रप्रदीपनामटिप्पणीविशुद्धिः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


श्रीहेवज्रसाधनवज्रप्रदीपनामटिप्पणीविशुद्धिः


ओं नमः श्रीहेवज्राय।

श्रीहेवज्रं प्रणम्यादौ निस्तरङ्ग स्वरूपिणम्।

उत्पत्तिक्रमाश्रित्य विशुद्धिर्वक्ष्यते स्फुटम्॥


प्रथमं तावत् साधनसूत्रं निगद्यते- अथ पुजाचक्रं चतुर्ब्रह्मविहारः परमं सहजं स्वेष्टदेवः रक्षाचक्रं शून्यताधिमोक्षः श्मशानं कूटागारं हेतुमण्डलं द्रुतापत्तिः समुत्थानं न्यासः द्वेषात्मा उत्सर्गो ज्ञानचक्रं अभिषेकोः मुद्रणम् अमृतास्वादो जगत्कार्यं षडङ्गः प्रभास्वरः उत्थानं मन्त्रजापो बलितत्वं सूक्ष्मयोगो द्वितीयन्यासो विहरणं भोजनं चरणं शयनं पुनरुत्थानम्। एतेन द्वात्रिंशत्साधनसूत्रं महापुरुषलक्षणं विशुद्धम्। आदौ तावद्योगी सत्त्वार्थोद्यत मतिरिति। योगं कामयितुं शीलं यस्येति योगी।


p.2


सत्त्वं मनोरथपूरणं कामयतीति सत्त्वार्थोद्यतमतिरिति। सम्यग्गुरुभट्टारकमाराध्य यथाविधिना श्रीहेरुकोत्तमण्डलप्रतिष्ठ इति। तेनात्यन्तैकनिषण्णो भूत्वा कायगौरवं परित्यज्याराध्यगुरुं सम्यक्चित्तेन इति आराधनं सम्यग्गुरूपदेशाम्नाय ज्ञात इति। सम्यग्गुरुभट्टारकमपि तस्याराधने सति। तेन प्रवेशितः हेरुकोक्तमण्डले यथाविधिना इति। हेरुकोक्तमण्डलप्रविष्टः यथा परिपाट्याभिषिक्त इति। उदकादि प्रज्ञाज्ञानाभिषेकपर्यन्तमिति। यथापरिपाट्याभिषिक्त इति। सम्यगनुज्ञातमिति  सिक्त्वा यथाम्नायोपदेशेन तन्त्रं दृश्यते  हितशिष्यं बुद्ध्वा तदनु भाजनं च तस्मै प्रकाशयेत्तत्त्वं परमान्तं विरमादिकम्। अन्यपदार्थं स्वप्नमायामरीच्यादि कृत्वा देशितव्यमिति। सम्यगनुज्ञातः तदनुज्ञातो मन्त्री वक्ष्यमाणक्रमं चरेद् गुप्तेन, यावन्मुद्राप्राप्तः स्यात्। मुद्रालाभ इति किञ्चिल्लाभः स्यात्। सुविशुद्धाविपरीततत्त्वज्ञानप्राप्त इति।


p.3


विपरीतं न भवतीत्यविपरीतम्। किन्त्वस्य प्राकृततनोरविशुद्धतां विहाय सुविशुद्धतत्त्वज्ञानद्वारेण जानाति ज्ञानं ज्ञानेन मार्गं प्राप्तमाहुः। अनेन सुविशुद्धाविपरीततत्त्वज्ञानप्राप्त इति। अथ लब्धनिमित्तश्चेति। कल्पिताकारो निमित्तः सुविशुद्धाविपरीततत्त्वज्ञान-परिप्राप्ते स्तम्भादविपरीतज्ञानस्य कारणं कार्यमविपरीततत्त्वज्ञानम्। तन्निमित्तं जानातीति यथाम्नायतोऽनेन लक्षणनिमित्तम्। अत‍एव-

धूमेन ज्ञायते वह्निः सलिलं तु बलाकया।

निमित्तैर्ज्ञायते गोत्रं बोधिसत्त्वस्य धीमतः॥

चकारात् पुनरनेन ज्ञानसम्पन्नो योगी श्रीमधेवज्रं साधयितुकामो मूलोक्तविद्यापद्मिनीप्राप्तौ सत्यां श्मशानारण्य गमनं कुर्यादिति। तदनु मनोरमे स्थाने स्थित्वा बलिपूजादिकं कृत्वा गुप्तयोगेन यथोक्तविधिना पूजाचक्रमानीय प्रोक्षणपाद्याचमनार्घनिमज्जनान्नीराजनां दद्यादिति। बाह्यगुह्यतत्त्वपूजाविशेषैः संपूज्य भावनामारभेत्। ततःपुष्पादिभिर्नानाप्रकारैरर्चना, वीणादिभिर्वाद्यम्।


p.4


तच्चक्रस्थितदेवीचक्रस्थिते हस्तगतसमयसंकेतद्रव्यभावनागुह्यम्।

नैरात्म्यया सह स्फुरत् संहारद्रव्यविग्रहं नाम तत्त्वम्। एवं संपूजयेत् योऽसौ सुहृत् सूर्यस्थबीजाद्विनिर्गतरश्मिजालकिरणैरानीतः स चक्रभट्टारकः स्व पुरत इति एतेन सुहृत्सूर्यस्थ बीजाद्विनिर्गतार्थः सूचितः। ततः सप्तविधानुत्तरां पूजां कुर्यात्तस्याग्रतः। एतेन पूजाचक्रमुक्तं भगवता पुण्यसंभारार्थम्। पुण्यसंभारात्ज्ञानसंभाराद्बोधिरुत्तमा। इति पूजाचक्रम्॥१॥

तदर्थैकपुत्रप्रेमतालक्षणां मैत्री। सर्वसत्त्वेषूत्पाद्य सदा तत्स्थान् सर्वान् संसारार्णवे पतितान् दृष्ट्वा चारके पुत्रदुःखे सति यथा कष्टं तथाऽशरणान् सत्त्वान् दृष्ट्वा महाकरुणार्थमुत्पाद्य पश्चान्महाप्रामोद्यप्राप्तः योगी कथमात्मानमपि सिद्धमिति मत्वाह सतीतिहर्षयुक्तो मन्त्री मुदितां भावयेत्। संसारासक्तिमहात्मलाभसत्कारादौ सर्वोपेक्षाविरहलक्षणात् महोपेक्षां भावयेत्। इति चतुर्ब्रह्मविहारः॥२॥

एवं भुतो मन्त्री परमसाधनमारभेत् -

प्रथमं भावयेन् मृतकं धर्मधात्वात्मकं विदुः।

योगी तस्योपरि स्थित्वा हेरुकत्वं विभावयेत्॥


p.5


श्रीहेरुकवज्रं तत्र स्थित्वा अक्षरषट्कार्थमामुखं कुर्यात्। सदुपदेशतः श्रीकारमद्वयं ज्ञानमित्यादिना श्रीहेरुकेत्यक्षरचतुष्टयार्थ-ज्ञानालोकवज्रसमाधियोगेन मुखपर्यन्तं भावयेदिति। परमं चन्द्रकान्तमणिप्रभमिति। इति परमम्॥३॥

अनेन अशुचितनुमपनीय सहजयोगमारभेत्। झटिति बुद्धागारमध्येवंकारेण निगदितं - 'पूर्ववद् वक्त्रचिन्हाद्यैश्चन्द्रकान्तमणिप्रभमात्मानं वज्रसत्त्वं महाशान्तं जटामुकुटिनं द्विभुजैकमुखं त्रिनेत्रं वज्रपर्यङ्किनं धर्ममुद्राभृतकरद्वयं विश्वपद्मे शवोपरिचन्द्रस्थं भावयेद् अनन्तलोकधातुकं द्वात्रिंशल्लक्षणधरं व्यञ्जनाशीतिभूषितं सहजहेरुकं त्रिसत्त्वात्मकं चिन्तयेदिति। इति सहजम्॥४॥

तस्मात् - आलिकालिसमायोगो निःस्वभावपदं परं शवस्यार्थोऽयं वज्रसत्त्वस्य विष्टरः। तस्योत्पादहूंफट्कारो न चेष्यते। कथं चकारात्। अक्षरेति शून्यम्। तस्मादकल्पितोद्भवं पिण्डं चेदत एवाक्षरोद्भवपिण्डस्य एतस्य दृढिकरणहेतुत्वात्। अष्टमे पटले चोक्तं भगवता -


p.6


आलिकालि समायोगो वज्रसत्त्वस्य विष्टरः।

अक्षरोद्भवपिण्डस्य हूं-फट्कारो न चेष्यते॥ इति॥

पूर्ववद् वक्त्रचिह्नाद्यैश्चन्द्रकान्तमणिप्रभमिति वचनात्। सत्त्वशब्देन सहजनाथं विचिन्त्य द्वेषवज्रपदमारभेत्। ततो द्वेषवज्रपदं वक्ष्ये ज्रँ-काराक्षर प्रयोगतः। रेफेण सूर्यं तद् हृदये विभाव्य तद्विन्दुना चिन्तयेत् संपूर्णमिन्दुम्। तन्मध्यवर्ति ज-कारेण जगज्जन्म-बीजसूचकं हूँकारम्। एवञ्च त्रिभुवनेश्वरं विभाव्य तद् हृदये वज्रसत्त्वहृदये इत्यर्थः। कथं, देवतापटलोक्तक्रमेण -

स्वहृदि भावयेद्रेफं तद्बवं सूर्यमण्डलम्।

तत्रैव हूँ कृतिं चैव प्रज्ञोपायस्वभावकम्॥

कृष्णवर्णं महाघोरं हूँकारं वज्रसंभवम्।

वज्रवरटकमध्य्स्थं हूँतत्त्वं विभावयेत्॥

वज्रविशेषणादिँकारजं कर्त्रिसहितं वज्रं बोद्धव्यं भावयेत् पुनः। हूँकरपरिणतं दृष्ट्वा द्वेषात्मानं विभावयेत्। हूंकारपरिणतशब्देन एतत्सर्वं चन्द्रादिकं परिणम्य द्वेषवज्रं विभावय हृदये यथोपदेशतः।


p.7


ओं वज्रधृक् हूँ भगवती। अँ आकाशदेशे उत्सर्गयेत् वज्रीद्वेषात्मको भवेत्। वक्ष्यमाणक्रमसंस्थानं ध्यायात्। तत्समविग्रहम्। चतुर्णां मध्यतोयोगी भावयेद्यथाधिमोक्षम्। यथोपदेशात्त्रिविधं त्रिसत्त्वात्मकं स्वेष्टदैवतरूपकम्। अष्टास्यादि महाघोरं भावयेदीदृशं प्रभुम्। 'सत्त्वबिम्बसमुद्भूतं मण्डलेशं भावयेद् ' इति वचनात्।

एवं द्वेषवज्र योगेन स्फारयेत्। स्वहृद्बीजरश्मितः। इति स्वेष्टदेवता॥५॥

क्रोधसंघातं दिक्षु विदिक्षु यथाक्रमम् - हूंकारपरिणतान्सर्वान् महाकिरणज्वालाकुलानुत्सृजेत्। एवं पूर्वादिदिक्षु यमान्तक-प्रज्ञान्तक-पद्मान्तक-विघ्नान्तकान् यथाक्रमं ध्यायात्। कृष्णसितरक्तनीलान् वज्रमुद्गरसितवज्रदण्ड रक्तवज्राब्ज करालवज्रधरान् खर्वलम्बोदरान् वैरोचनरत्नेश-अमिताभवज्र-धर्माक्षोभ्याङ्कितशिरसः। ततः ऐशान्यादिकोणेषु अचलटक्किराजनीलदण्डमहाबलाः। महाकृष्णाः खड्ग-अङ्कुश - दण्ड - त्रिशूलधराः। टक्क्यचलौ ललितौ दिव्याभरणभूषितौ विकृताननौ। नीलदण्डमहाबलौ यमान्तकवट्विकृतौ तन्मध्ये ध्यायात्। पुनरूद्र्ध्वे उष्णीषचक्रवर्ती पीतः पीतश्चक्रधरः। वैरोचनमुकुटी खर्वलम्बोदरः अधरे शुम्भराजः कृष्णवर्णः मुषलधरः 


p.8


खर्वलम्बोदरः टक्क्यादयश्चत्वारः शुम्भराजस्याक्षोभ्यमुकुटिनः। अमी 

दशक्रोधाः प्रत्यालीढपादाः। वामे तर्जनीपाशधराश्च विश्वाब्जसूर्येषु द्रष्टव्याः। एवं क्रमेणोत्सृज्य क्रोधान् स्वस्वस्थानेतस्य तत्रगतेति विचिन्त्य संमुखीभूयस्थितत्वात् संपुटाञ्जलिं कृत्वा अष्टपदहृदयोपहृदयमन्त्रैः स्तुतिपूर्वकं किं करिष्यामो वयं वदन्तीति पश्येत्। ततः शान्तिकादिप्रभेदेन तु आज्ञापयेत्तान्। ओं शुम्भनिशुम्भेत्यादिना धीमतः। तैर्वज्रधर आज्ञां संगृह्यात्मनिर्माणं स्वस्वस्थानेस्थाप्य स्वयमेव गत्वा विघ्नगणान् गलके वज्रपाशेन बध्वा स्वस्वास्त्रेण त्रासयन् तं गृहीत्वा आगत्य दशदिक्षु विघ्नात्मनः स्वस्वनिर्माणे समर्प्य वज्रधराभिमुखीभूय तिष्ठन्तीति पश्येत्। तत्रायं विघ्नगणः - इन्द्रो गौरः सहस्राक्षो रत्नमुकुटी ललिततनुः। यमः कृष्णः ऊर्ध्वपिङ्गलकेशः खर्वलम्बोदरः वरुणः शुक्लः सफणाङ्कितशिरः ललिताङ्गः। कुबेरःपीतो रत्नमुकुटी ललिततनुः। ईशानः शुक्लः जटामुकुटी खर्वो बृहत्कुक्षिः। अग्निःरक्तः जटामुकुटाङ्कितशिरः खर्वशरीरः। राक्षसो धूम्रः मुक्तकेशः खर्वतनुः, वातः श्यामः


p.9


रत्नमुकुटी ललिततनुः। ऊद्र्ध्वे पितामहः पीतः खर्वोलम्बोदरः जटामुकुटी। अधरे पृथ्वी पीता रत्नमुकुटिनी नीलललिततन्वी। एते विघ्नविनायका यमान्तकादिगृहीताः कातरोद्विग्रास्त्राणान्वेषण तत्परा द्रष्टव्याः। तदनु स्वहृद्बीजात् क्रोधमधः शूलं कृष्णवर्णं महाघोरं प्रलयानलदुःसहम्। ऊर्ध्वेऽमृतकुण्डल्याकारं स्फारयित्वा यमान्तकादिषु समर्प्या चिन्तयेद्विघ्नगणमस्तकेषु। तदनु - ओं घ घ घातय घातय सर्वदुष्टान् फट् फट् कीलय कीलय सर्वपापान् फट् फट् हूं हूं वज्रकील वज्रधर आज्ञापयति सर्वदुष्टविघ्नानां कायवाक्चित्तवज्रं कीलय कीलय हूं हूं फट् फट् इत्यनेन कीलानारोपयेदिति कीलनमन्त्रः। ओं वज्रमुद्गर वज्रकीलय आकोटय आकोटय हूं हूं फट्। इत्यनेन आकोटयन्ति क्रोधाः। सर्वे आत्मचिह्न परिणामेन वज्रमुद्गरं विभाव्य कीलानाकोटयन्ति मन्त्रेण तावद्यावद्धरणितल -


p.10


गता भवेयुः। ततः स्वस्वनिर्माणे प्रविष्टान् यमान्तकादीन् चिन्तयेदिति। तदनु एकीकरणसमये क्रोधवह्निना विनायकपरिवारान् निर्मूली कृतान् पश्येत्। इदानीं -

रेफेण सुर्यं पुरतो विभाव्य

तस्मिन्नाभौ हूंभवविश्ववज्रम्।

तेनैव वज्रेण विभावयेच्च

प्राकारकं पञ्जरबन्धनं च॥

चकारेण वज्रशरजालवज्रवितानवज्रमयभूमिभागप्रतिपादितमारसातलपर्यन्तं चिन्तयेत्। विघ्नानुत्सार् इति वचनात्। रक्षाचक्रं विघ्नोपशमनार्थम्॥६॥

तदनु निःशेषवस्तुतत्त्वसारसंग्राहकं मन्त्रमुच्चरेदिति। तत्त्वतः सर्वधर्मविचारेण यद्रूपम्। तत्सारं तस्य संग्राहकं तत्संग्रहं सर्वजगद् रक्षाचक्रे प्रवेशयेत्। रक्षाचक्रं हृद्बीजरश्मौ रश्मिर्द्वेषवज्रे। द्वेषवज्र - ज्ञानसमये ज्ञानसमयं समाधिसमये हूं यथानुक्रमेण संहरेत्। ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहमिति मन्त्रम्। इत्यनन्तरं मन्त्रार्थमामुखीकुर्वन् त्रैधातुकं निराभासं पश्येत् शून्यताधिमोक्षः॥७॥


p.11


तन्मध्याकाशधातुव्यापिनीं हूंकारोद्भवधर्मोदयां बीजाधिष्ठितां प्रज्ञामेकाकारां शुक्लां भावयेत्। तदुपरीति तन्मध्याकाशो परि द्वादशशूकं वैरोचनादिवर्णं यथानुक्रमेण पृथिवी भवति। निश्चितवाय्वादिक्रमेणानेन चतुर्महाभूतमण्डलसंहारेण विश्ववज्रवेदिको परिकूटागारं श्मशानाष्टकमण्डितं चिन्तयेदिति।

अथ श्मशानानि कथ्यन्ते - यथानुक्रमयोगतः। पूर्वे चण्डोग्रं नाम महाश्मशानम्। शिरीषवृक्षे गजमुखो महर्द्धिकः सितः। इन्द्रो दिक्पतिः गौरः सहस्राक्षः शुक्लैरावतासमासीनः। वासुकिः नागराजः पीतो गर्जितो मेघो विश्ववर्णः सुमेरुः पर्वतश्चतुः - रत्नमयः सितवज्रो नाम चैत्यः श्वेतः॥१॥

दक्षिणे करङ्कभीषणं नाम महाश्मशानम्। आम्रवृक्षे महिषमुखो महर्द्धिकः कृष्णः यमो दिक्पालो महिषारूढः कृष्णः।


p.12


पद्मो नागः सितः। आवर्त्तको मेघो विश्ववर्णः। मलयः पर्वतो गौरः पिशुनवज्रो नाम चैत्यः कृष्णः॥२॥

पश्चिमे ज्वालाकुलं नाम महाश्मशानम्। अशोकवृक्षे मकराननो महर्द्धिकः श्वेतः। वरुणो दिक्पतिः सितः। कर्कोटको नागो रक्तः। घोरो मेघोविश्ववर्णः। कैलाशः पर्वतः सितः। 

संज्ञावज्रो नाम चैत्यः सितः॥३॥

उत्तरे गह्वरं नाम महाश्मशानम्। अश्वत्थवृक्षे मनुष्यमुखो महर्द्धिकः गौरः। कुबेरो दिक्पतिः गौरो नरवाहनः। तक्षको नागः कृष्णः। घूर्णितो मेघः विश्ववर्णः। मन्दरः पर्वतः श्यामः। 

चित्तवज्रो नाम चैत्यः गौरः॥४॥

ऐशान्यां लक्ष्मीवनं नाम महाश्मशानम्। वटवृक्षे गोमुखो महर्द्धिकः सितः। महेश्वरो दिक्पतिः सितो गोवाहनः। शङ्पालोनागः पीतः। चण्डो मेघः विश्ववर्णः। महेन्द्रः पर्वतः कृष्णः।

वाग्वज्रो नाम चैत्यः श्वेतः॥५॥

आग्नेय्यामट्टहासो नाम महाश्मशानम्। करञ्जकवृक्षे छागाननो महर्द्धिको रक्तः। हुताशनो दिक्पती रक्तः छागासनः।


p.13


महापद्मो नागोश्यामः। घनो मेघः विश्ववर्णः। गन्धमादनः पर्वतः पीतः।

कायवज्रो नाम चैत्यो रक्तः॥६॥

नैरृत्यां घोरान्धकारो नाम महाश्मशानम्। लतापर्कटीवृक्षे शवमुखो महर्द्धिकः कृष्णः। राक्षसो दिक्पतिः शवासनः कृष्णः। अनन्तो नागः पाण्डरः। पूरणो मेघो विश्ववर्णः। हेमः पर्वतः श्वेतः। 

रत्नवज्रो नाम चैत्यः कृष्णः॥७॥

वायव्यां किलिकिलारवं नाम महाश्मशानम्। पार्थिववृक्षे मृगाननो नाम महर्द्धिकः श्यामः। मारुतो दिक्पतिः श्यामो मृगारूढः। कुलिको नागः कर्बुरः। वर्षणो मेघो विश्ववर्णः श्रीपर्वतो नीलः। 

धर्मवज्रो नाम चैत्यः श्यामः॥८॥

एते चमध्ये महर्द्धिकाः पुनर्वामे नरकपालाः सृक्परिपूरणकराः व्यग्राः। दक्षिणे नानारसग्रहणाभिनयकरकमलसंपन्नाश्चिन्तनीयाः। तदनु हरितशाद्वलनूतनाङ्कुरितपत्ररचित-नानातरुभिर्घनानि। काककोकिलोलूकशुकशारिकाकपोतकपोतिकागृध्रादिभिर्नानापक्षिगणैरुपशोभितानि। सिंह-वृक-शार्दूल-भल्लूक-शूकरादि-नानामृगैः परिपूरितानि। नानासुगन्धपरिमलकुसुमैराकुली भूतानि। नानासर्पौघपरिपूरितानि। हड्डमुण्डकपालकंकालवसादिभिर्नानाप्रदेश -


p.14


मण्डितानि। पुनर्नानाप्रदेशेषु विहारविहारी ध्यानागारवापिका योगियोगिनी अवधूतावधूती ध्यायि ध्यायिनी यक्षयक्षणी प्रेतप्रेती राक्षसराक्षसी कुम्भाण्डकुम्भाण्डी भूतभूती डाकडाकिनी वीरवीरिणीसमूहैः। केचित् समयसंकेतासक्त-चिन्तान्वितानि। हास्यलास्या-लिङ्गनचुम्बन-विचित्रादि-प्राप्त-डाकडाकिनीगणैः परिपूरितानि। तदनु आनन्दचित्तेन केचिद्वज्रपदैर्नर्तयन्तः। केचिद्वज्रगीतैर्गायन्तः।

केचिन्नानासमयाचारमाचरन्तः। केचित्पञ्चामृतपञ्चप्रदीपं भक्षयन्तः। केचिन्नानावस्तून्युपढौकयन्तः। केचिन्नानासत्त्वान् संतर्पयन्तः। केचिन्मदनानि पिबन्तो द्रष्टव्याः। अपरे च डाक-डमरु-पटह-मर्दल-कृपीट-झर्झर-वीणा-वेणु-वंशा-तालादिभि र्नानावाद्यैर्वादयन्तः। पुनरेकसिद्ध-विद्याधर-विद्याधरी-महोरग-महोरगी-किन्नर-किन्नरी-गन्धर्वगन्धर्वीत्यादिभिर्देवासुर-गरुडसमूहैः परिपूरितानि। किलिकिलारवाणि घोरगह्वराणि भयानकानि नवनाट्य रसेनात्यन्त-मनोऽह्लादकराणि वेताल भूतसंघैरधिष्ठितानि तिष्ठन्ति। अष्ट -


p.15


श्मशानानि चिन्तयेत्। अष्ट श्मशानं विज्ञानाष्टकविशुद्धं अष्ट विज्ञानमिति चक्षुरादि पञ्चविज्ञानम्-आलयविज्ञानं मनोविज्ञानं क्लिष्ट-मनोविज्ञानं आदर्शस्वप्न-मायामरीचिका-गन्धर्वनगर प्रतिश्रुत्कजल-चन्द्राकाशमिति। अत‍एव श्मशानाष्टकं सर्वधर्मपरिज्ञानेन ग्राह्यग्राहकवर्जितम्। इत्यष्टविज्ञानं दृष्टान्तेन ज्ञायन्ते श्मशानानि॥८॥

इदानीमुक्तवायव्यादि-चतुर्महाभूतपरिणतं कूटागारं कथ्यते। चतुर्स्मृत्युपस्थानविशुद्ध्या चतुर्द्वारं चतुःप्रहाणानि चत्वारस्तोरणा

स्मृताः। चतुः ऋद्धिपादविशुद्ध्या चतुर्वेदिकाः पञ्चेन्द्रियाणि चतुरस्रं वज्रसूत्रं च पञ्चन्द्रियाणि चतुरस्रं वज्रसूत्रं च पञ्चबलानि चत्वारि कोणानि हारार्द्धहारं च आर्याष्टाङ्गिकमार्गविशुद्ध्याष्टौ-स्तम्भाः प्रकल्पिताः। सप्तबोध्यङ्गानि पक्षिणी क्रमशीर्ष छत्र-चामर-वितान-घण्टापताकाश्चेति। कूटागारं सप्तत्रिंशद्बोधिपाक्षिकधर्मविशुद्धं प्रभास्वरं भावयेदिति शब्देन कूटागारम्। एतेन बोधिपाक्षिकधर्मार्थस्वभावं स्वरूपतः किन्तूत्पत्तिं प्रति उक्तवद्बोद्धव्यम्। स्वरूपेण पृथिव्यादि-क्रमं ध्यायात्। अथ बोधिपाक्षिकधर्मभेदाः कथ्यन्ते। आर्यसरोरुहपाद-प्रसादतः - प्रथमं तत्र विग्रह उत्पत्तिः। तद्धर्माद् धर्मः सर्वं शून्यम्। 

तस्मात् प्रथमं कायमुत्पन्नम्।


p.16


अनुशब्देन तस्य भावं तद्धर्मरूपम्। पश्चात् यत्तद्धर्मरूप-स्मृत्युत्पत्तेरभावात्। पूर्वरूपं अशेषवस्तुतत्त्वस्वभावं तस्माच्चित्त-प्रकृतिरिति स्मृतिशब्देन भण्यते चेत्। तदा प्रतिभासते कथं कल्पिताकारेण तेन विना नैवं भवति स्वरूपम्। स पुनर्दर्पणप्रतिबिम्बं यथा तथैव भासते। उत्पत्तिं प्रति कल्पिताकारं उपस्थान शब्देन किं उत्तमादुत्तमं स्थानं अनेनेत्यु पस्थानं उत्तमं प्रभास्वरं स्मृतिशब्देन यदुक्तम्। तदुपस्थानस्थितिहेतोः पूर्वद्वारं कल्पयेदेवं भूतम्। कायानुस्मृत्युपस्थानविशुद्ध्या पूर्वक द्वारम्। एवं वेदनानुस्मृत्युपस्थानविशुद्ध्या दक्षिणद्वारम्। एवं धर्मानुस्मृत्यु-पस्थानविशुद्ध्या पश्चिमद्वारम्। एवं चित्तानुस्मृत्युपस्थान-विशुद्ध्या उत्तरद्वारम्। एवं भवतीति कथं रूपं विहाय वेदना न 


p.17


चेत्यन्यत्र संज्ञापि तथा संस्कारा एव भवन्ति। किन्तु यथा माया यथा स्वप्नं गन्धर्वनगरं यथा तथैव प्रतिभासन्ते द्वाराः। एवं रूप-वेदना-संज्ञा-संस्काराः विज्ञान-विरूपिताः सर्वधर्मा अप्येवं विज्ञान-मप्यलीकं कथं विचारासहञ्चेत् विचारमिति किं एते धर्मविज्ञान-विरूपितास्तद् क्षणिका भावाः। इति शाक्योक्ति। तस्माद्विज्ञानमपि क्षणिकं कथं सर्वधर्मा विचारेण चामीकरादिभिः परिरचित-घटादि-धर्माः। तद्धर्माभावे यथा द्रव्याभावः तथा सर्वधर्माभावे विज्ञानाभावः। अत एव विज्ञानमपि क्षणिकम्। यथा ग्राह्यवस्त्वभावे ग्राहकाभावः। यथा ग्राह्यग्राहकाभावे ग्रहणाभावः। पुनः यथा ग्राह्यमालम्व्य ग्राहकस्थितिः। तथा ग्राह्यग्राहकमालम्व्य ग्र्हणस्थितिः। तयोरभावे ग्रहणाभावः शेषरूपं हि महाद्वारं उत्पत्तिविशुद्ध्या विना न ज्ञायते। एवं भूतद्वार चतुष्टयं ध्यातव्यम्। निर्माणालोक स्वरूपं चतुःप्रहाणानि चत्वारस्तोरणाः स्मृता इति।


p.18


अनुत्पन्नानां पापानां प्रतिपक्षः। उत्पन्नानां पापानां विच्छेदः। अनुत्पन्नानां कुशलमूलानामुत्पादनम्। उत्पन्नानां कुशलमूलानां बुद्धेत्वे परिणामना चेति। प्रतिपक्षविच्छेदः। उत्पादपरिणामना इति। कस्य प्रतिपक्षः ? रागादिक्लेशस्य तस्मादनुत्पत्तौ क्लेशस्य भविष्यतीति। उत्पादस्य कृतविरोधोऽसौ प्रतिपक्षः। उत्पन्ने त्वपि रागादिक्लेशस्य विनाशायानया भावनयातस्य विच्छेदः। 

तस्मादेतद्विनाशात् आमिषाभावः। अत एव निरामयपदोत्पत्तिरुत्पन्ना इयं सत्त्वेन सह साधारणकर्तुकामता परिणामना इति। प्रहाणचतुष्टयविशुद्ध्या चत्वारस्तोरणाः। चतुरृद्धिपादविशुद्ध्या-चतुर्वेदिका। च्छन्दोवीर्यं मीमांसाचित्तः च्छन्द इति। अत्यन्तादरतां चिन्त्या एवं वीर्येप्यत्यन्ताभिलाषता अविच्छेदः तेनैवानवरत-विचारणामीमांसेति। विचारमपि स्वरूपेण तेनैव स्वपरत स्तदाकारकरणं हि नामविचारः। चित्तेति स्वरूपाकारोत्पादश्चित्तपर्यन्तः। तस्माच्चित्तस्य पर्यन्तता साक्षात्क्रिया। एवं चत्वाररृद्धिपाद विशुद्धम्। वेदिकाचतुष्टयं ऋद्द्युत्पादमिति। योऽसौ निर्माणविशुद्ध्याकारस्तस्य स्फुरत्संहारविग्रहं नाम यथेच्छ्या


p.19


ऋद्धिः। अस्याकारस्य साक्षात्कारोत्पादः। तस्मादेतेन विना स्वरूप-वज्रागार-प्रवेशो नास्तीति। पञ्चेन्द्रियाणि चतुरस्रं वज्रसूत्रञ्चेति। श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियमिति। अभिसंप्रत्ययः प्रथमहेतूपादानः श्रद्धेन्द्रिय शब्देन भण्यते। अत्यन्तादरतः द्वितीये प्रवर्तनमात्मज्ञानं विज्ञानानिवृत्तिं विहाय संसारकर्मकानां संसारमासाद्य प्रवर्त्तयतीति प्रवर्त्तनम्। वीर्येन्द्रियशब्देन भण्यते। तत्त्वतोऽहर्निशं योगः। तृतीये आत्मविज्ञानविच्छेदे चित्तप्रवेशमात्रेण यदाकारस्तस्याकृत्रिमोत्पादो योऽसौ स्मृतः। स्मृतीन्द्रियशब्देन भण्यते। चित्तैकाग्रतो चतुर्थे अग्रशब्देन सम्यग्मार्गः। तेन सहैकता चित्तैकाग्रता समाधिसत्त्वमित्यभिधीयते। समाधीन्द्रियशब्देन भण्यते। एवं चतुरिन्द्रियैश्चतुरस्रं च। उरसा शब्देन नान्यत्र भण्यते। वज्रसुत्रैरिति। पञ्चरेखाः पञ्चप्राकारा पञ्चतथागतभेदेन भेदिताः सन्ति। तन्मध्ये बुद्धागारं वज्रेन वज्रशब्देन सर्वेण सह समम्। वज्रमभेद्यं प्रज्ञेन्द्रिय-शब्देन भण्यते। सर्वधर्माप्रतिष्ठानमिति।


p.20


प्रतिपादितं चेत्। तदा समाः प्राकाराः। तथागतानामन्योन्य - भेदो नास्तीति यद्वज्रधरस्वभावेनेति। वज्रसूत्रैरलंकृतेति एभिः प्राकारैर-लंकृतं चिन्तयेद् ध्यानागारम्। चत्वारि कोणानि हारार्द्धहारञ्चेति। पञ्चबलानीति - श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलं चेति। अभिसंप्रत्ययः प्रथमो हेतुः हेतोः परिपूरणं बलं सामर्थ्यं साक्षात्कारः। तं संपादयतीति श्रद्धाबलशब्देन भण्यते। अनवरत-दृढचित्तं कृत्वा प्रवर्तयतीति वीर्यबलम्। पुनस्तत्र क्षणमपि चैतन्यं नोपलभ्यते अहर्निशियोगं यतस्ततः स्मृतिबलम्। चितैकाग्रता यथाभूतगतम्। यथाभूतशब्देन सर्वधर्मानुपलम्भोऽग्रमार्गः। तं साक्षात्कारं करोतीति तेनाभिन्नं तत्साक्षात्कारं समाधिबलशब्देन भण्यते। एवं चतुर्बलविशुद्धं कोणचतुष्टयम्। चतुरिन्द्रियाणां परिपूरणं करोतीति चत्वारो बलाः। परिपूरणशब्देनार्थपूरणमिति। प्रज्ञाबलेन हारार्द्धहारं बलं प्रागुक्तं प्रज्ञेन्द्रियं संपादितम्। सर्वधर्माप्रतिष्ठानं यत्तत् संपूर्णं साक्षात्कारं कृतम्। तेनाभिन्नमात्मानं प्रज्ञाबलेन हारार्द्धहारभावना तेनोक्ता। आर्याष्टाङ्गिकमार्गैरष्टौ -


p.21 


स्तम्भाः प्रकल्पिताः। आरब्धस्यापरित्यागो नाम सम्यक्दृष्टिः। अविसंवादकवचन्नाम सम्यक्संकल्पः। दशकुशलानतिक्रमन्नाम सम्यक्वाक्। सत्त्वाविहठेनाचिन्तनं नाम सम्यक्कर्मान्तः। दशकुशलैकमनः सम्यगाजीवः। आत्यन्तिक-नैरात्मचित्तं नाम सम्यग्व्यायामः। व्यायामो नाम भावाभावविच्छेदः। कालत्रय एकक्षणज्ञता सम्यक्स्मृतिः। त्रैलोक्यैकमूर्तिः सम्यक्समाधिश्चेति। एभिः स्तम्भाः प्रकल्पिताः। सप्ताङ्गानि पक्षिणीक्रमशीर्ष - छत्र-चामर-वितान-घण्टा-पताका इति स्मृताः। सर्वदा कालत्रय परिज्ञानस्मरणं नाम स्मृतिसम्बोध्यङ्गः। अनवरतमहासत्त्वावबोधनं नाम धर्मप्रविचय-सम्बोध्यङ्ग। अविच्छिन्नमहायोगेन प्रवृत्तिर्नाम वीर्यप्रविचय-सम्बोध्यङ्गः। नैरात्म्यं विना नान्यरतिप्रीतिप्रविचयसम्बोध्यङ्गः। सर्वदा शून्यताकरुणाभिन्नयोगन्नाम प्रस्रब्धिप्रविचयसम्बोध्यङ्गः। अविपरीततत्त्वप्राप्तिर्नाम समाधिप्रविचयसंबोध्यङ्गः। समाधौ अनाभोगप्रवृत्तिर्नाम उपेक्षाप्रविचय सम्बोध्यङ्गः। एभिः सम्बोध्यङ्गैः पक्षिण्यादय उक्ता ध्यातव्याः। एतेन सप्तत्रिशब्दोधि -


p.22


पाक्षिकधर्मभेदेन कूटागारभावनापर्यन्तेन प्रथमं शून्यतादौ सर्वज्ञताभिसंबोधिरुक्ता। इति कूटगारम्॥९॥

इदानीं हेतुवज्रधरोत्पादः कथ्यते कूटागाराभ्यन्तरे विश्वदल-कमलकर्णिकोपरिचतुर्माराः सूर्यक्रान्ता द्रष्टव्याः। हेकारवज्रेण ब्रह्माविष्णुमहेश्वरदेवेन्द्राः। कायो मृत्युः क्लेशो देवपुत्रश्च। एते चत्वारो माराः स्कन्धानां क्लेशकारकाः। अथ तदुपरि सूर्याक्रान्तां दृष्ट्वा तस्योपरि अनुलोमविलोमेन अकारादिस्वरैर्द्विगुणितं कृत्वा तत्परिणामेन चन्द्रमण्डलं भाव्यम्। द्वात्रिंशन्महापुरुषलक्षणसूचकम्। आदर्श-ज्ञानस्वभावम्। ककारादिवर्णे- ड ढ द ध य लेत्यक्षरषट्कं दत्त्वा द्विगुणितं कृत्वा अनुलोमविलोमेन दृष्ट्वा तत्परिणामेन सूर्यमण्डलं पश्येत्। अशीत्यनुव्यञ्जन संसूचकम् , समताज्ञानस्वभावम्। अनयोर्मध्ये हूँ अँ बीजद्वयं दृष्ट्वा तत्संभवविश्ववज्राङ्कितकरोटककर्त्तिकं पश्येत्। बीजद्वयेनाङ्कतं प्रत्यवेक्षणाज्ञानस्वभावम्। बीजाद्रश्मीन्निश्चार्यानन्तलोकधातुनावभासनीयं तत्रैव प्रवेश्य सर्वानप्येकं भावयेत् कृत्यानुष्ठानज्ञानम्। एतत्सर्वं परिणम्य झटित्यात्मानं श्रीहेरुकरूपं सुविशुद्धधर्मधातुज्ञानम्। एतेन पञ्चाकारं बोद्धव्यम्। आदर्शज्ञानेन यथा दृष्टं रूपं समताज्ञानेन तथा समरसी कृतम्।


p.23


प्रत्यवेक्षणाज्ञानेन प्रत्यवेक्षितम्, तथा पुनः कृत्यानुष्ठानज्ञानेन यत्करणीयं तदेकीभावकृतं सुविशुद्धधर्मधातुज्ञानं सर्वाकारेणसहैकरूपं इति पञ्चाकाराभिसंबोधिः। एतेन त्रैलोक्यैकमूर्तिमभिसमीक्ष्य। ततः पूर्वादिद्वारेषु यथाक्रमम् - ब्रह्मेन्द्रोपेन्द्ररुद्राः तथैव ऐशान्यादि कोणेषु वैवस्वत वित्तनायक नैरृतिर्वैमचित्रिणश्च। एवमष्टासनानि विभाव्य तदुपरि चन्द्रार्कसम्पुटमध्येषु गँ चँ वँ घँ पुँ शँ चँ डँ इति बीजाष्टकं पश्येत्। तत्परिणतानि गौर्यादीनां चिह्नानि-कर्त्ति-कृपीट-कूर्म-सर्प-सिंह-भिक्षु-चक्र-वज्राणि चिन्तयेत्। तेन तेनाधिष्ठितानि सर्वमेकत्र परिणम्य गैर्यादयो निष्पादनीया द्रष्टव्याः। खचरी भूचरी नैरात्मा च कायवाक्चित्तपद्मेषु द्रष्टव्याः मूलमन्त्रानुसारतः। एतेन भाव्यमण्डलमुक्तम्। एतासां वर्णचिह्नादि वक्ष्यते। विशुद्धिश्चेदानीं अथ कृपालोचनरक्ते कृपेति सत्त्वेषु एकचित्तता स्नेहः तेन रक्तनेत्रं कृष्णाङ्गो मैत्रचित्ततः मैत्रचित्त इति। स्कन्धधातु इन्द्रियाणां निरोधः। तेन मैत्र चित्तेन कृष्णाङ्गनेत्रशुद्धिस्त्रिवज्रेण कायवाक्चित्तानां निवारणं त्रिवज्रं संग्रहवस्तुचतुष्केन चत्वारश्चरणाः स्मृताः। संग्रहवस्त्वति दानं प्रियवचनं अथ चर्यासमानार्थता चेति। अचिन्त्य -


p.24


तत्त्वे चित्तारोपणं नामदानम्। तत्राचित्ते चित्तारोपणे यथासुखं तथा प्रीतिर्यथोपदेशाद्बोद्धव्यम्। दाहाच्छेदान्निकषाद्यथा सुवर्णस्तथेतितत्त्वं प्रियवचन शब्देन भण्यते। अथ कायवाक्चित्तं विना यथाचरणं तथार्थ-चर्याशब्देन भण्यते। समानार्थशब्देन सर्वैरकमूर्त्तितानाम

एतदेव चतुर्णां चरणानां विशुद्धिः। सुखान्यष्टौ विमोक्षविशुद्धानि रूपं

पश्यति शून्यं अनवकाशं पश्यति शून्यं शुभाशुभज्ञानमापन्नं पश्यति शून्यं कुदृष्टि कृतं पश्यति शून्यं आकाशमापन्नं पश्यति शून्यं आकिञ्चनमापन्नं पश्यति शून्यं नैरात्म्य ज्ञानमापन्नं पश्यति शून्यम्। सम्वित्तिनिरोधं पश्यति शून्यम्। इत्यष्टौ विमोक्षविशुद्धा मुखाः विमोक्षमिति सर्वद्वन्द्व विमुक्तसुखमापन्नमिति। महासुखेन स्वपरसम्वित्तिज्ञाननिरोधश्चेति। भुजाः षोडशशून्यताः शुद्धाः षोडशशून्यतेति - अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, 


p.25


महाशून्यता, शून्यतातिशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृत-शून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, प्रकृतिशून्यता, अप्रकृतिशून्यता, सर्वधर्मशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता इति षोडशशून्यताः।

इदानीं शून्यतार्थश्च कथ्यते - सकलधर्मान्तशून्यता इत्यध्यात्मशून्यता। सर्वधर्मा बाह्यास्तथैव बहिर्धाशून्यता। शून्यताकरुणाभिन्नं यथायोगं भवति गुरोरुपदेशात् तथाध्यात्मबहिर्धाशून्यता। अभिन्नयोगादनुभूतया महाशून्यतेत्यभिधीयते। महायोगाद्यच्छून्यं तच्छून्याच्छून्यं भण्यते। अत‍एव परमार्थ उत्कृष्टाद् दुत्कृष्टतरं इति परमार्थशून्यम्। एताः षट्शून्यताः ताभिः संस्कृता सर्वाकारेण एकीकृता संस्कृतशून्यतेति। असंस्कृतिः असंस्कारोऽपि न विद्यते। जातौसर्वाकारैकयुक्ता इति असंस्कृतशून्यता। सर्वाकारवरोपेता 


p.26


नामात्यन्तशून्यता। अनवराग्रशून्ता इति तेन सह भेदो नास्तीति। प्रकृतिशून्येति प्रकृतिः पञ्चाकारोद्भूता पञ्चाकारमिति आकारशून्यं इति प्रकृतिशून्यता स्वभावन्नास्तीति प्रकृतिस्वभावो प्रज्ञापारमिता इत्यतिप्रकृति शून्यता। स्थावरं जङ्गमः परमाणुरपि सर्वधर्मः। शर्वधर्मशब्देन उक्तमिति यदुक्तं तत्सर्वं शून्यमिति सर्वधर्मशून्यता। अभावमिति किं जगत्सर्वं अलातचक्रमिव भावदर्शनं स्वरूपतः प्रकृतिनिजाख्यातस्वभावशून्यता। स्वभावमिति स्वेति सुचित्तं चित्तमप्यभावं इति स्वभावशून्यता। आकाशधातुविज्ञानस्कन्ध-योरेकीभावे यथा भवेद्रूपं अभावस्वभाव शून्यतेति निगदितं तथा। एता शून्यताशुद्धाभुजाः प्रकीर्तितास्तेषाम्। अथ मुखवर्णविशुद्धिश्च कथ्यते। प्रथमं मुखं कृष्णं द्वेषकर्मसाधनार्थं इन्द्रियाणां निवारकञ्च वाममुखं रक्तं वश्यार्थसाधनम्। कायवाक्चित्तस्य एकीभाव -


p.27


स्वभावता वशात्। दक्षिणं शुक्लं शान्त्यर्थम्। स्कन्धधात्वायतनेषु शुद्धदेवता हंकारतानाम शान्तं च ऊर्ध्वास्य विकरालिनं धूम्रम्।

पश्चिमे उद्भूतक्लेशनाशार्थं द्वेषादयः उद्भूतं क्लेशं चैव। चतुर्मार-विनाशार्थं मुखानि चत्वारि भृङ्गसन्निभानि। स्कन्धाश्रयो मारः स्कन्धमारः, स्कन्धानां स्कन्धस्वभावमृत्युमारम्। सत्त्वापकारं नाम क्लेशमारोऽप्येवम्। स्त्रीलौल्यं नामदेवपुत्रमारं च कथितम्। इति मारचतुष्टय-विनाशार्थं मुखानि चत्वारि भृङ्ग सन्निभानि। चिह्नानां शुद्धिः कथ्यते। कुञ्जरादयो गृहीता नानाक्लेशोपशान्तये। नाना क्लेश इति।

कासश्वासस्तथोन्मादक्षयकुष्ठविचर्चिकाः।

प्लीहयक्ष्मास्वरूपाश्च गजाद्याः परिकीर्तिताः॥

इत्यष्टक्लेशाः। एते करभूताः सत्त्वाः भाजनोपरि धारिता इत्यर्थः। धनदान्ताः पृथिव्यादौ अष्टैश्वर्यप्रसिद्ध्यर्थं वामेन गृहीतं चिह्नम् -


p.28


कायैश्वर्यं वागैश्वर्यं चित्तैश्वर्यं तथैव च।

ऋद्धिः सर्वगतैश्वर्यमिच्छाकर्तागुणाष्टकम्॥ इति॥

कायानन्ते कायैश्वर्यम्, सर्वभाषा वदतीति वागैश्वर्यम्, सत्त्वचित्तं जानातीति चितैश्वर्यम्, ऋद्धिर्नानालोकधातुं पश्यतीति ऋद्ध्यैश्वर्यम्, त्रैलोक्यैकमूर्त्तिः सर्वगतैश्वर्यम्, कामेन महासुखमय - सत्त्वानामभिलाषयन्तीति कामैश्वर्यम्, इच्छाशब्देन काममुक्तं चेत्। कर्तेति कर्ता वज्रधरता इति कर्तैश्वर्यम्, गम्भीरदेवताकारात् निर्वाणे गतम्, निर्वाणात् देवताकारेण विचरणमिति गुणैश्वर्यम्। एतेन चिह्नानां विशुद्धिः। भाजनानां विशुद्धिः कथ्यते। भाजनं करुणाङ्ग प्रतिपादनम्। भुजाशून्यताशुद्धाः एतेन शून्यताकरुणाभिन्नत्वं प्रतिपादितम्। मात्रापञ्चबुद्धा स्युरिति। मात्रेति मुद्रा।

पञ्चतथागताः शुद्धाः। मुद्रेति परिच्छेदः -

चक्री कुण्डलकण्ठी च हस्ते रुचकमेखलम्।

भस्मेति मुद्राषट्कं प्रकीर्तितम्॥


p.29


षण्मुद्रेति सम्यग्ज्ञानम्। सम्यग्ज्ञानमिति यत्र ज्ञानाभावं ज्ञानाभावे यद्रूपं तद् सम्यक्ज्ञानं भवेत्। पञ्चाशदक्षरविरचिता स्कन्धे शिरोमालिका। आलिः पञ्चाशदक्षरविशुद्धिरिति। युगनद्धमार्गोपदर्शिका कण्ठे शिरोमाला। नवनाट्यरसञ्च कथ्यते।

 इदानीं नैरात्मा सहैकरसंशृङ्गारं श्मशानस्थितिर्वीरम्। भृकुटीकरालं बीभत्सम्, ज्वलत्प्रभं रौद्रम्, विकसितवदनं हास्यम्, सार्द्रमुण्डमा लिनं भयानकम्। सत्त्वानुग्रह-चित्तं करुणा, मायारूपमद्भूतं प्रहीणरागादिक्लेशत्वात् शान्तम्। एतैर्नवनाट्यरसैर्युक्तं भगवन्तमात्मानं हेतुभूतं शुष्कपञ्चमुण्डमालाललाटोपरि पञ्चस्कन्धानां निःस्वभावत्वं प्रतिपादितम्। विश्ववज्राङ्कितं मूर्ध्नि विश्वार्थकरणाय कायत्रयपरिज्ञानात्त्रिनेत्रम्। प्रतिमुखेषु सर्वज्ञरूपं चेति। सकलरागादिक्लेशदहनार्थं पिङ्गोर्ध्वकेशदर्शितम्। सकल -


p.30


धर्मनिरावरणप्रतिपादनाय नग्नत्वम्। प्राप्तबोधिपदादर्द्धपर्यङ्कताण्डवम्। सकलत्रैधातुकैकमूर्तिप्रतिपादनाय पादाङ्गुष्ठैकदर्शितेति। भगवानप्यलीकप्रतिभासः। यथा भगवान् तथा भगवती च। भेदः पुनः सकलैकमूर्तिवशादेकमुखी वामदेवासुराणां रक्तेन पूरितकरोटकरव्यग्रा। देवासुरशब्देन किं ? देवं कायवाक्चित्तं तद्विषयमसुरम्। आभ्यां निरक्तीकरणं तेन पूरितं करोटम्। करोटरक्ताभयामेकीकरणन्नाम प्रज्ञापारमितार्थपरिपूरणं दर्शितम्। दक्षिणे अशेषक्लेशच्छेदनाय कर्त्तिधारिणी। शेषं यत्किञ्चिद्भगवतो विशुद्धि-वद्बोद्धव्यम्। भगवत्यां च।

इदानीं साध्यवज्रधरशरीरे चक्रचतुष्टयं ध्यायात्। यत्किञ्चिन्निर्माणादौ कृत्वा यथायोगेन तत्त्वतोऽनुग्रहेऽत्रं हेतौ धर्मसंभोग-निर्माणमहासुख चतुःकायविशुद्धाश्चत्वारश्चक्रा ध्यातव्याः। इदानीं माण्डलेयविशुद्धिःकथ्यते। गौरीकृष्णा मारविनेयसत्त्वप्रबोधनाय।


p.31


दक्षिणे मिथ्यादृष्टिच्छेदनाय कर्त्तिधारिणी वामे संसारवासनाविनाशाय रोहितम्। गौरीं रक्तां रागविनेयसत्त्व-प्रबोधनाय। दक्षिणे प्रज्ञोपायात्मक प्रतिपादनाय कृपीटम्। वामे मोहविनाशार्थं वराहम्। वेतालीं तप्तहेमाभां पौष्टिकसत्त्वविनेयार्थम्। सुखजननायेत्यर्थः। दक्षिणे शून्यताप्रतिपादनाय कूर्मम्। वामे करुणास्वभावं पद्मभाजनम्। घस्मरीं मरकतमणिनिभां किञ्चिद्रक्त-श्यामशिलाकाराम्। अभिचारकार्य साधने उच्छेदीजनप्रबोधनार्थं च। दक्षिणे द्वेषविशुद्धितः सर्पः। वामे प्रज्ञोपायात्मक योगपात्रिका। पुक्कसीं नीलां स्तम्भनार्थं साधने मानीसत्त्वप्रबोधनार्थं च। दक्षिणे मारसैन्य विदारणाय सिंहः। वामे अशेषद्वन्द्वच्छेदनाय पुर्शुः। शवरीं शुक्लां शान्तसत्त्वप्रबोधनाय। दक्षिणे पञ्चज्ञान-प्रतिपादनाय भिक्षुः। वामेऽद्वैतज्ञानावबोधनाय खिङ्खिरिका।


p.32


चण्डालीं गगनश्यामां स्तम्भनार्थसाधने स्तब्धसत्त्वप्रबोधनाय च। दक्षिणे किञ्चित्ज्ञानमपि च्छेदनायचक्रः। वामेऽज्ञानमलोन्मूलनार्थं लाङ्गलः। डोम्बिनीं कर्बुरां विघ्नार्थप्रसाधने क्रूराशयजन-प्रबोधने च। अभेद्यज्ञानप्रतिपादनाय दक्षिणे वज्रम्। वामे अशेषदुष्टतर्जनाय तर्जनिका। आसामष्टासन विशुद्धिः कथ्यते।

इदानीं रागाविद्याश्रवणपानभोजननिद्रातर्कशुद्धेत्यष्टात्यन्ता-भिनिवेशच्छेदनायाष्टा सनान्युपदर्शितानि। अत्यन्ताभिनिवेशः पुनः कर्तव्यः ध्याने। एवमष्टासनानां विशुद्धिरुक्ता। एताः सर्वास्त्रिनेत्रा ऊर्धपिङ्गलकेशाः पञ्चमुद्राविभूषिताः अर्धपर्यङ्कनाट्यस्था विवस्त्रिकाः दंष्ट्राकरालवदनाः। भगवत्कामेच्छा संपन्ना द्रष्टव्याः भावनीयाः इत्यनन्तरं देवतापट्टिकायां वीणादीन् प्रधानद्वारदक्षिणादारभ्य द्वारकोणसन्धिषु। द्वे द्वे देवत्यौ नाम-प्रधानाद्य-


p.33


क्षरमिन्दुबिन्दु समन्वितमासां बीजमेतज्जनितार्थचिह्नं पुनस्तद्बीजाङ्कितं चन्द्रसूर्ययोर्मध्येषु दृष्टेषु गौर्यादयो यथानिष्पन्नास्तथा वीणादीनामुत्पाद इति कृत्वा चिन्तयेत्। अथ वीणा पीता, वंशा रक्ता, मृदङ्गा धूम्रा, मुरुजा सिता, माला पीता, लास्या रक्ता, गीता अरुणा, नृत्या विश्ववर्णा, पुष्पा शुक्ला, धूपा कृष्णा, दीपा कनकाभा, गन्धा पीता, आदर्शा सिता, रसा रक्ता, स्पर्शा हरिता, धर्मा सिता। एता स्वस्वचिह्नहस्ताः। अभिनयपदाश्चन्द्रासनस्थाः। षोडशविशुद्धा द्रष्टव्याः। एते विश्वपद्मादौ हेतुवज्रधरबिम्बनिष्पत्तिमाण्ड-लेयजनपर्यन्तेन मार्गज्ञताभिसंबोधिः। इति हेतुमण्डलम्॥१०॥

अथेदानीं सूक्ष्म मण्डलस्वभावं रक्तं होः कारपंक्तिद्वयपरिवेष्टितं ध्यायादुपदेशाद्गन्धर्वसत्त्वं महासुखमयमतिरागं स्वरश्मिनाकृष्य यथोपदेशात् प्रवेशितमात्रेण भगवानत्यन्तपरम-महासुखैकरसेन स्वविद्यया सह महारागानुरागं द्रुतापन्नो बीजरूपेणावस्थितोऽभूत्। इति द्रुतापत्तिः॥११॥


p.34


ततः पुक्कस्यादयश्चतस्रो देव्य अनाथा वियमिति कृत्वा महादौर्मनस्य प्राप्ता अतीवोत्कण्ठिताश्चित्त-प्रबोधकारिकाभिर्गवन्त-मुत्थापयन्ति। तत्रायमुत्थापनगाथाचतुष्टयार्थः कथ्यते- "उट्ठ भराडो करुणमण्ड" इत्यादि। उत्तिष्ठ त्वं भट्टारक करुणामनस्कः सदा पुक्कसीं मां परित्राहि महासुखयोगेन कामां हि मां त्यजशून्यतासमाधिं द्रवरूपतामिति। मया तव महामैत्री। त्वया विना मृता हम् उत्तिष्ठ त्वं हेवज्रशून्यतास्वभावताम्। शवर्याः सिध्यतु कायमिति। मया तव महाकरुणा। लोकान् निमन्त्र्य सुरतप्रभो शून्ये तिष्ठ किं अहं चण्डाली विज्ञापयामि। त्वया विना डहे न दीस न दिशं न पश्यामि। तस्मादुत्तिष्ठ मया तव महामुदिता। हे ऐन्द्रजालिक उत्तिष्ठ त्वं अहं जानामि तव चित्तम्। इन्द्रजालं कृत्वा स्थितोऽपि वयं डोम्बिन्योऽति नागरिकाच्छेदकरिकामना इति। मा कुरु कुरुणाविच्छे दमिति। मया तव महोपेक्षाविहारी इति चतुस्तत्त्वविशुद्ध्या 


p.35


द्रुता पत्तिरुपदर्शिता। आत्मतत्त्वं देवतातत्त्वं मन्त्रतत्त्वं ज्ञानतत्त्वमिति। अत्र गुरूपदेशाद्यथा तथा क्रमेण बोद्धव्यम्। चतुस्तत्त्वार्थं ग्रन्थविस्तरभयान्नोक्तमत्र। अत‍एव तत्त्वरूपी भगवान् चेद् -भूत्तया तत्त्वगीतप्रयोगतः स्वप्नप्रबोधितवत् उत्तिष्ठेत्। तथा च प्रप्रसङ्गः। भगवानत्यन्तनैरात्म्यया सहैकचित्तेन नैरात्मको भवेच्चेत्। तस्मादाकाशे 

स्वप्नं पश्यति किं ? अथवा कथं स्वप्नप्रबोधित-वद्भगवान् तिष्ठति ? अत्राह - सत्त्वा निद्रावस्थायां किञ्चिदपि न जानन्ति। अथोत्थानं कथं दृश्यते। इति कर्तव्यं भाववशात् झटित्युत्तिष्ठेत् संत्रस्तवत्। तथा शून्यतासमाधिसमापन्नो भगवान् स्वपरसंवित्तिं न जानाति। अथ च तत्त्वगीतप्रचोदित उत्तिष्ठेत् प्रणिधाना वेधवशात्। तथा च प्रश्नद्वयम्। जन्तवः कायसुखमालम्व्य न 


p.36


जानन्तीति निद्रावस्थायां किन्तु कायेन सता भगवतः किम् तादृक् समुत्थानम्। अथ च मन्त्रिणा प्रथममशुचितनुः शुचीकृतः। शून्यताशुद्ध्या निर्माणकायाभिनिवेशप्राप्तेः। पुनरथ कस्य द्रुत्तापत्तिरसौ निर्माणस्य इति न भवति कथं ? अस्थिमज्जारहितत्वादिति प्रश्नद्वयम्। अत आह आदौ द्रुतापत्तिः हेतोर्न फलस्य। अथ च स्वरूपग्रहणोपाय कथनम्। यथा शुन्यतादि शुद्धितः। हेतुवज्रधर-ग्रहणं तथा द्रुतापन्नादि शुद्धितः। फलं वज्रधरस्यापि ग्रहणम्। एकः प्रश्नो निरस्तः तथा चापरोप्यादौ देवताकारेणाशुचिकायाभावः। अशुचिकायाभावे शुद्धनिर्माण कायाभिनिवेशमात्रम्। तस्याभावेना-मृतद्रवेन्दुवत् स्वप्नमायोपमविज्ञान रुपेण स्थितः। अत‍एव मायाविज्ञानप्रणिधानाधारः। यथा माया स्वपर सम्वित्तिन्न जानाति। अथ च कार्यं करोति। तथा मायाविज्ञानं स्वपरज्ञानं विना चिर -


p.37


प्रणिधानावेधवशादुत्तिष्ठति। तत्रायमुत्थानक्रमः पञ्चाकारप्रयोगतः अमृतद्रवादिन्दुरूपमिति। तदमृतद्रुव परिणामेन पञ्चज्ञानमयं बोधिचित्तम्। तत्रालिपरिणतादर्शज्ञानश्चन्द्रः कालिपरिणतसमताज्ञानं सुर्यः तयोर्मध्यगतं बीजं चिह्नं प्रत्यवेक्षणमुच्यते। सर्वैरकमनुष्ठानं बिम्बनिष्पत्तिः शुद्धधर्मता। ततः पञ्चज्ञानमयबोधिचित्तोत्थान-किरणैः सचराचरमाणीयमाण्डलेयं च तत्रैव समरसं कृत्वा शरच्चन्द्र-मण्डलाकारं बोधिचित्तं पश्येदिति योगसमाधिः॥

तदनु झटिति तत्परिणतं सहजहेवज्रं शरच्छशधराकारं अनन्तलोकधातुप्रकाशकं धर्ममुद्रायुतं पञ्चज्ञानमयं ध्यायाद् अनुयोगो नाम समाधिः॥१२॥

ततः स्कन्धधात्वायतनानां न्यासमारभेत् - अँ-कारं न्यसेद्रूपम्, ओंँ-कारं वेदनायां स्मृतम्। ह्रीँ हीर्घसंज्ञायां भावयेत्।


p.38


उँ संस्कारे न्यसेत्। विज्ञाने त्व‍अँ-कारं पञ्चस्कन्धविशुद्धितः। ओं कारं न्यसेन्मांसे, रक्ते ऋँ पुनः सृजेत्। ॠँ-कारं बोधिचित्ते तु, मज्जमेदयोः लृँ न्यसेत् धातुविशुद्धितः, लॄ-कारं रूपविषये, शब्दे एँ-कारं न्यसेत्। ऐँ-कारं गन्धभागे च, रसे ओँ-कारं पुनः। स्पर्शे औँ-कारं, अँ-कारं धर्मधातुतः। एषां दृढीकरणहेतुत्वात्। नवमे पटले चोक्तं भगवता -

सूपस्कन्धे भवेद् वज्रा गौरी वेदनायां स्मृता।

संज्ञायां वारियोगिनी संस्कारे वज्रडाकिनी॥

विज्ञानस्कन्ध रूपेण स्थिता नैरात्म्य योगिनी।


p.29


रूपे गौरी समख्याता शब्दे चौरी प्रकीर्तिता।

वेताली गन्धभागे च रसे घस्मरी स्मृता।

स्पर्शे च भूचरी ख्याता खेचरी धर्मधातुतः॥

मांसेन पुक्कसी ख्याता रक्ते शवरी प्रकीर्तिता।

चण्डाली शौक्र मित्युक्तं डोम्बी च मेदमज्जयोः॥

एवं सहजनाथालिङ्गितवज्रधात्वी श्वरीञ्चेति न्यासः। इति अतियोगो नाम समाधिः॥१३॥

एतेन स्कन्धधात्वायतनन्यासः। तथा च तस्मात् पुनरपि-

प्रथमं शून्यताबोधिं द्वितीयं बीजसंग्रहम्।

तृतीयं बिम्बनिष्पत्तिं चतुर्थं न्यासमक्षरम्॥


p.40


नाभौ हृदि तथा कण्ठे ललाटे पद्मचतुष्टयम्।

निर्माणचक्रे रक्तं ऊर्ध्वमुखं अकारं पञ्चरश्मिकम्॥

धर्मचक्रं शुक्रं नीलं हूँकारं पूर्वादिदिग्दले - वुँ अँ ज्रीँ खँ हूँ। विदिग्दले एवं मया ऊर्ध्वमुखं संभोगचक्रं रक्तं ओंकारं रक्तं आलिकालिवेष्टितं महासुखचक्रं शुक्लं हूँ-कारं च। अधोमुखं चतुः -

षष्ठ्यष्ट तथा षोडशब्दात्रिंशद्यथानुक्रमतो ध्यात्वा चिन्तयेत्तत्र सचराचरम्। ततो मन्त्रपटलोक्तक्रमेण कायत्रयाधिष्ठानं कुर्याद्यथाम्नायोपदेशतः। ओंकारेण कायवज्रम्। आः कारेण वाग्वज्रम्। हूँकारेण चित्तवज्रम्। इति महायोगः॥

इदानीं तदुपरीति सत्त्वहृदये पूर्वोक्तक्रमेण साधनोक्तक्रमेणापि तथैव श्रीहेरुकाकाररूपं चतुर्णां मध्ये त्वेकवीरं स्वेष्टदेवं नैरात्म्य -


p.41


समापन्नं स्वविद्यायुतं वा बिम्बनिष्पन्नमात्मानं पश्येत्। इत्यनन्तरं समयत्रयमारभेत्। समयसमयज्ञानसमयसमाधिसमयाः। तत्र वज्रधर आत्मसमयम्। हृत्सूर्यज्ञानसमयम्। तस्योपरि हूँकारं समाधिसमयम्। वक्ष्यमाणोपदेशात् ज्ञातव्यौ द्वौ ज्ञानसमाधिसमयौ। न्यासं पुनर्यथा भगवति तथा भगवत्यां कुर्यादधिकतरसाधनं पुनर्भगवत्यां पञ्चकुलकलापः। परापरसाधने प्रसिद्धः कलाप इति तथागतसमूहः। आः कारेण त्रिदलं पद्मं साह्लादकरं हूंकारेण कमलकिञ्जल्कं हूँकारे जाता पञ्चशूककुलिशं तन्मणि-ओंकारं पश्येत्। ओंपद्मसुखाधारेत्यादि गाथाद्वयेनाधिष्ठाय। पद्मवज्रं अनाहताक्षरोच्चारणपूर्वकं वज्रं चालयित्वा रतिमारभेत्।


p.42


पचतथागतानां मध्ये वाग्वज्रा हंकारतः। प्रथमं शून्यतासमाधिमोक्षादौ रतिसुखपर्यन्तेनादियोगो नम समाधि॥१४॥

एतच्च प्रज्ञोपायैक महासुखसंभवबोधिचित्त विनिर्गतमिति। विदित्वा मातृपुरमध्ये त्रितत्त्वोच्चारणपूर्वकं सेवयेद्वज्रजिह्वया। ओं सर्वतथागतपूजावज्रस्वभावात्मकाः सर्वधर्माः। ओं सर्वतथागतपूजा-वज्रस्वभावात्मकोऽमिति पठित्वा गरुडमुद्राधरेण योगिना। एवं तथागतपूजा भवेन्नित्यं बाह्येऽपि। यदि वा भद्रा प्रज्ञा भवति नो वा भद्रा भवेत्तया न कर्तव्यं मूलापत्तिः स्यात्। स्वकायस्थाने सर्वतथागतान् पूजयित्व संतर्पयामीत्यभिव्यवधृत्य तदनु यत्किञ्चित् लवलेशपरमाणुलवबोधिचित्तकणिकास्थिता। तत्परिणामेन देवती पद्ममध्ये समण्डलमाण्डलेयं प्रभुं विचिन्त्य मन्थमन्थानयोगात्। ओं वज्रधृक्, भगवती अँ, गौरी गँ, चौरी चँ, वेताली वँ, घस्मरी घँ, पुक्कसी पुँ, शवरी शँ, चण्डाली चँ, डोम्बिनी डँ।


p.43


तदनन्तरं गौर्यादीनामपि उत्सर्ग(र्ज)येदित्यादिना, पूर्वादिद्वारेषु यथाक्रमम्। गौर्यादयोऽष्टौ देव्यः। भगवद्भगवत्यौ उत्सृज्य हूँकाराभ्यां भगवान् भगवती च प्रविष्टः। भगवति भगवत्याञ्च तथैव। गन्धर्वसत्त्वप्रवेशादौ मण्डलोत्सर्ग पर्यन्तेन सर्वाकारज्ञताभिसंबोधिः॥१५॥

तदनु बोधिचित्तोत्सर्ग संभूता चन्द्रासनस्था गौर्यादयो भावनीयाः। भूचरी-खेचरी-नैरात्म्या च पुनर्भट्टारकोत्सर्गार्थ प्रवेशान् प्रविष्टा ध्यातव्याः। पूर्वोक्तस्थानेषु यथाक्रमेण। एवं यथानिर्दिष्ट मण्डलचक्रान्तर्गतं विद्यागणपरिवेष्टितं रश्मिसमूहं व्याप्तनभस्तलं सम्यग्विभाव्य।


p.44


इदानीं ज्ञानचक्राकर्षणप्रवेशनबन्धनतोषणं कुर्यात्। स्व हृद्बीजाद्रश्मीन्निश्चार्य गगणकुहरे स्फारयित्वा ज्ञानचक्रमानीय पुरतो विचिन्त्यार्घपाद्यादिकं दत्वा संपूज्य संस्तुत्य। ओं वज्रगौरि आकर्षय जः इत्यादिना जः हूँ वँ होः इत्यनेनाकर्षणं प्रवेशनं बन्धन-तोषणञ्च कुर्यात्। ज्ञानचक्रं समयचक्रे प्रवेश्य यथासुखमेकीभूय देवताहंकारमुद्वहेत्। हृदये ज्ञानाहंकार चिन्तनम्। यद्यपि आत्मसत्त्ववत् ज्ञानसत्त्वं तथा च प्रवेशानन्तरं द्विभुजैकमुखं रक्तं प्रज्ञायुतं ज्ञानसत्त्वं स्वहृदये चिन्तयेत्। तद् हृदये समाधिनाथं ततो भगवत्यादौ गौर्यादीनामपि तथैव चिन्तयेदिति। ज्ञानचक्राकर्षणादिनां ज्ञानसत्त्व ज्ञानचक्रप्रवेशपर्यन्तेन सर्वाकाराभिसंबोधिः॥१६॥


p.45


तदनु ज्ञानचक्रसमयचक्रयोरेकीकरणसमये ज्वलित-रश्मि-भिराकृष्याकाशदेशे पञ्चतथागतं हेरुकरूपापन्नं समण्दलात्मकं ध्यात्वा अभिषिञ्चन्तु मां सर्वतथागता इति प्रार्थयन्तं पश्येत्। तस्तथागतैः पञ्चविजय कलशसंयुक्तकरैः। "यथा हि जातमात्रेण स्नापिताः सर्वतथागता" इत्यादि गाथां पठित्वा स्नापयन्ति स्वयमेव। ओं सर्वतथागताभिषेक-समयश्रिये हुँ इति पश्येत्। तदनु कुंकुमचन्दन्नानासुगन्धिपरिमलपुष्पवृष्टिर्भवति। दुन्दुभिशब्द उच्छलति नाट्यवाद्यस्तुतिशब्देनानन्त लोकधातुकोलाहल उच्छलति इत्यभिषेकः॥१७॥

अभिषिक्तस्तु शिरसि चित्तेशः स्यात्। भगवतीञ्च चित्ताङ्कां चित्तेशशाश्वतरत्नेशामिताभौ गौर्यादिभिर्मुद्रयेत्।


p.46


पुनरेभिर्बुद्धैर्यथाक्रमं पुक्कस्यादिन् शिरस्यङ्कयेत्। ततो वीणादयः स्वस्वविषयेनाभ्यर्चयन्ति प्रभुम्। दर्पणवीणागन्धशङ्खनानारस-पूरिताधारपात्र स्पर्शवस्तुबोधिचित्त परिपूर्णधर्मोदयाः। एतान् गृहीत्वा भगवन्तमर्चयन्ति रूपवज्रादयः।

तुहं परिवेति अजो‍इणि सोत्थें तुहुं वरलब्धा अप्पण चित्ते।

तञ्चि जगसकल चराचरसो हि‍अ करुणचित्ते सतु संबोधि‍अ।

आ अपवञ्चे साहसिकज्ज तुट्ठ मोहणेसिरि हेरु‍अवज्ज॥ इति॥

वज्रगीत्या लोचनादयो भगवन्तु स्तुवन्ति। तथागतबोधि-सत्त्वविद्यादेवी क्रोधादयो हृदयोपहृदयमालाष्टपद मन्त्रैः संमुखा -


p.47


काशे स्थित्वा स्तुवन्ति ते। ओं सर्वतथागताभिषेकवज्रस्वभावात्मको-

हमित्यधितिष्ठेत्। अभिषेकस्तुतिपूजा एतेना भिषेकः प्रथमादौ स्तुतिपर्यन्तेन मूर्द्धाभिसंबोधिः॥१८॥

तदनु पुरतो यँ-भवं वायुमण्डलं ध्वजाङ्कितम्। तदुपरि रँ भवं अग्निमण्डलं ज्वालाङ्कितम्। तस्योपरि आःकारजं त्रिमुण्डोपरि पद्मभाजनं पुनराकाराधिष्ठितम्। तन्मध्ये रक्तं बाह्ये सितं बुँ आँ ज्रीँ खँ हूँ लाँ पाँ ताँ वाँ मध्ये एतानि परिणम्य पञ्चामृतपञ्चप्रदीपं निष्पाद्य। तदुपरि ओंकारेणाच्छादितं आकारेण चन्द्रमण्डलं हूँकारेणाधिष्ठितं दृष्टवा वातप्रेरिताग्नितापादेकं पारदरसाकार-वद्भूतं हूँकारेण शोधनं आःकारेण बोधनं ओंकारेण ज्वालनं कृत्वा तदनु त्रितत्त्वं रश्मिना ज्ञानामृतमानीय तत्रैव प्रवेश्य।


p.48


ओं आः सर्वतथागतज्ञानामृते हूँ इत्यनेन वज्रहस्तेन बलिपात्रं स्पृशेत्। एकीकृत्य हूँ भववज्रेणालोड्य समरसीकृत्य वज्रममृते विलीनं पश्येत्। तथागतज्ञानामृतप्रवेशेनातिशीतलं भवेत्। इति निष्पाद्य- त्रितत्त्वेनाधिष्ठाय हूँ भववज्रजिह्वयाकृष्य रश्मिना स चक्रमात्मानं भुञ्जयेत्। ओं सर्वतथागतामृतास्वादवज्रात्मकाः सर्वधर्माः ओं सर्वतथागतामृतास्वादवज्रस्वभावात्मकोऽहमिति पठित्वा आनन्दितोऽभूत्। अमृतास्वादादौ तत्पर्यन्तेनानुपूर्विकाभिर्समाधिः। इत्यमृतास्वादम्॥१९॥

तदनु स मण्डलमाण्डलेयं तन्प्रतिस्फुरण योगेण यस्य यत्र विनेया स्तस्य निर्माणेन तत्र गत्वा तान् विनीयागत्य स्वस्वकाये संहृत्यानेनैव क्रमेणपरिपाट्य षडङ्गभावनामारभेदिति। उत्सर्गादौ जगदर्थपर्यन्तेन मण्डलराजाग्रीनामसमाधिः॥२०॥


p.49


ततो रविशशिसंपुटमध्ये महामन्त्रराजचक्रवर्तिबीजाक्षरं दृष्ट्वा षडङ्गं भावयेत्। कुतः स्वहृदयस्य चन्द्रसूर्यान्तर्गतं हूँकारविनिर्गत रश्मिसमूहात्ततो ज्ञानसत्त्व हृदये प्रथमं समाधिनाथं भावयेत्। कृष्णं तत्परिणम्य बिन्दुरूपं ध्यात्वा पश्चाद्वर्णं विसर्जयेत्। वक्ष्यमाण सूक्ष्मयोगं भावयित्वावर्णविसर्जनशब्देन द्विधा बोद्धव्याः। वर्णस्तथागता हंकार शान्तिकादि भेदार्थतः। विसर्जनशब्देन प्रभास्वरः प्रवेशोपायकथनम्। तत आलिकालिश्वासोच्छ्वासतः संस्फार्य संहार्य तत्रैव स्वयं प्रवेश्य एकीभूय इति। आलिकालिपंक्तिं संस्फार्य कुतःश्वासोच्छ्वासतः। श्वासपथेनालिकाल्युच्छ्वासपथेन। निःसृत्य तद्रश्मिभिर्लक्षणव्यञ्जनानि संशोध्य सचराचरेण सहैकी भूय तत्रैव प्रवेश्य स्वयं गौर्यादीन् नैरात्मां च संहार्यात्मना वज्रधारपदं तिष्ठेद् विकल्पतः सर्वभावतः। अत‍एव द्विभुजैकमुखं शुक्लं कुत्र 


p.50


रविशशिसंपुटमध्य इति। भावाभावानुपलम्भयोग इत्यर्थः।

अत‍एवाभ्रान्ततत्त्वलाभाय संभोगमिति स्मृतम्। हूँ फट्कारविनिर्मुक्तं सत्त्वबिम्बशिवं परम्।

तथा च कुलपटले संभोगमित्युक्तम् -

देहस्थं च महाज्ञानं सर्वसंकल्पवर्जितम्।

व्यापकः सर्ववस्तूनां देहस्थोऽपि न देहजः॥

तथा च 

आदर्शबिम्बे सकलाङ्गयुक्तं रुपं यथा स्वच्छतरं विभाति।

अशीत्यनुव्यञ्जनलक्षणाद्यो देहस्तथा वज्रधरः सदैव॥

स्वाधिष्ठानक्रम एषः जगदर्थाद्यो सहजपर्यन्तेन एकक्षणाभि-संबोधिः॥२१॥

ततो बीजावस्थायां स्थितमिति कोऽर्थः ? सहजोऽसौ बीजः। अत्र प्रस्तावे इदं स्मर्त्तव्यमिति।

हसितेक्षणालिङ्गनद्वन्द्व चतुर्विशुद्ध्या ज्ञातव्याः क्व 'आचार्य गुह्यप्रज्ञा च चतुर्थं ततः पुनस्तथा' अनेनानन्दक्षण भेदार्थः 


p.51


कथ्यते। आचार्यशब्देन विमर्दविलक्षणे विरमानन्दः। परमसुख-पर्यन्तमिति चतुर्थः तत्पुनस्तथेतिशब्देन विलक्षणलक्षणः सहजानन्दः। कर्ममुद्राप्रसंगेकिञ्चित्सहजच्छायोन्मेषमात्रम्। ज्ञानमुद्राप्रसंगे सम्यक्संवेदनम्। महामुद्राप्रसङ्गेपुनः संवेदनाभा कथम्।

आ‍इ न अन्त न मह्यु तहिं नत्र भव नत्र निर्वाण।

एहु सो परममहासुह न‍उ पर न‍उ अप्पाण॥इति॥

यथा सत्त्वाः सहजावस्थायां प्रविशन्ति ततो भगवानपीति। भगवानपि प्रभास्वरे प्रविशतीत्यर्थः। एतेन तद्बीजाक्षरं चन्द्रसूर्यौ च मिश्रीभूय इत्यनेन ज्ञानाभावः सूचितः। अमृतस्वभावमित्यनेन सहजावस्था दृढीकृता रश्मिपुञ्जाकार क्रमेण दीपशिखा इव यावदनुपलब्धिं कुर्यादिति। रश्मीतिकरणं पुञ्जाकर मिति स्कन्धसमूहं 


p.52


क्रमेणेति। पञ्चस्कन्धानुपूर्वेण प्रवेश दीपशिखा इवेति। यथा दीपशिखा झटिति अस्तंगता दीपात्तथा भगवतः स्कन्धानुक्रमेण रूपाद्रूपम्। वेदनायां वेदनासंज्ञायां संज्ञा। संस्कारेषु संस्कारं, विज्ञानेविज्ञानम्। रूपं वेदनायाम्, एवं वेदना संज्ञायाम्, संज्ञा संस्कारे, संस्कारः विज्ञाने विज्ञानमाकाशे पक्षाभावात्। पूर्वतो गौर्यादीनां संहारः कथं भवेत् ? तत्रायं क्रमः कथ्यते। आलिकालीभ्यां निःसृत्य सकलत्रैधातुकमेकीकृत्य यथाक्रमेण प्रवेशयेत्। गौरी स्वविषयं गृहीत्वा भगवद्रूपे गता। तथा चौरी, वेताली, घस्मरी च वेदना-संज्ञा-संस्कारेषु गताः। पुक्कसी कठिनधातुं गृहीत्वा वज्रधर-रूपधातौ गता। तथा शबरी, चण्डाली, डोम्बी च। आप स्तेजो-


p.53


मरुत्सु गताः। यद्यपि गौर्यादीनां संहारैः पुक्कस्यादीनां संहारः। तथा च भेदः कथ्यते। किं स्वधातुं विहाय रूपादीनां संहारः। किमु तान् गृहीत्वा समकाले। अतः पुक्कस्यादीनामपि ग्राह्यग्राहकग्रहणे सति ज्ञानत्रयविधुद्ध्या भूचरी-खेचरी-नैरात्माप्रकृतिरूपा अन्यत्र-

लोकालोकाभासा लोकोपलब्धिशब्देन उक्तः। नैरात्मादेवी पक्षद्वयमासाद्य वज्रधरविज्ञाने पूर्वगता सर्वमेव कुतो नैरात्माहृच्चन्द्रमण्डले अंकारं पश्येत्। तेनैव अंकारे चन्द्रमण्डलेन सहजद्रुतापन्नां भगवतीं भगवद् हृदये प्रविष्टां चिन्तयेदिति। वचनाद् भगवती संहारः। एतेन सहजादौ प्रभास्वर पर्यन्तेन धर्मकायाभिसंबोधिः॥२२॥

अथ प्रभास्वरादुत्थानं कथ्यते। अथे प्रभास्वरोऽसौ परमयोगः। उत्थानं प्रति यथाज्ञानलोक वज्रात्सहजोत्पत्तिः। पश्चात्सहजादौ कृत्वा प्रभास्वर पर्यन्तेन यथास्यात्। तथा प्रभास्वरात्पुनः 


p.54


सहजं सहजात्। पुनरनेनैव क्रमेण ध्यातव्यम्। यावदाबोधिलाभः स्यात्। चतुःसन्ध्याधिष्ठान क्रमेणेति प्रातर्मध्याह्नापराह्नरात्रिश्चेति इत्युत्थान॥२३॥

भावनाक्रमः तदनु भावनात् खिन्नो योगी मन्त्रं जपेत्। तदनु प्रभास्वरादुत्थाय भावनाजपोबलिश्च वा चिन्तयितव्यः। तथा च परमादौ कृत्वा स्वेष्टरूपं निष्पाद्य सहजहेवज्रयोगतो यथोक्तक्रमेण। ततो मन्त्रजापं प्रति भगवन्तं निष्पाद्य डाकिनीचक्रात्मकम्। यथा पूर्वे तथा परे कार्यकारणसंबन्धेन भगवन्तमादौ तदनु डाकिनीचक्रं चिन्तयेत्। बलिदानं प्रति तथैव किन्त्वत्र वज्रधरः क्रोधात्म-कश्चिन्तनीयो दुष्टदमनार्थं कर्मयोगं तु षडङ्गमाश्रित्य। ततो जापावतारे गौर्यादिमन्त्रजापं प्रति यस्या जापस्तामालिङ्ग्य भगवतीं तस्या निवासे चिन्तयेद्योगिनी सञ्चारणेति। वज्रधर -


p.55


मूलाष्ट पदहृदयोपहृदयानां जापः। नो वा नैरात्म्याश्च गौर्यादीनां हृदयमन्त्रं वा जप्तव्यम्। तत्रायं क्रमः चक्रमध्ये प्रज्ञात्मकमात्मानं दृष्टवाऽनेनैव विधिना मन्त्राक्षराणि देवतीमुखाद्विनिर्गतानि सरश्मिकानि स्वमुखे प्रविश्य वज्रमार्गोत्सृष्टानि स्वदेवतीपद्मेप्रविष्टानि पुनर्देवतीमुखात् स्वमुखनेनैव क्रमेणाविच्छिन्नं मन्त्रमावर्तयेत् इति दिलाजापः॥

हृत्सूर्ये मन्त्राक्षराणि विन्यस्य सरश्मिकानि ऊर्ध्वशिरस्कानि ध्यातव्यानि। इति पिण्डजापः॥

तन्मन्त्राक्षराणि मण्डलेश्वरस्य माण्डलेयानां च मुखादुच्चारयन्तीति मनसा बोद्धव्यमिति। इति समयजापः॥

तदनु नाभेरूर्ध्वं गच्छन्तीं चिन्तयेत्। यथेच्छयानुपलम्भ-पर्यन्तमुच्छवासः नासिकायाश्चिन्तयेन्निश्वासं तथैवाधरे अनुप -


p.56


लम्भयथेच्छयाशब्दबोधः। परमगोपितं आम्नायं च तथा। इति वज्रजापः॥

ततः पूर्वोक्तक्रमेण क्रोधेश्वरपदं निष्पाद्य यथाक्रमतः क्रोधान् स्फारयित्वा प्रवेशयेद्विघ्नगणानाम्। आनय २ ओं शुम्भनिशुम्भेत्यादि नानात्वं प्रवेश्य मोक्षपुरे त्रयं चिन्तयेत् त्रितत्त्वतः॥२४॥

इति चिन्तयित्वा पद्मभाजन संहारेण वज्रं तथैव क्षोणीभाजनेन घण्टामुत्पाद्य वज्र वज्रघण्टाधरो भूय त्वा सत्त्वहितहेतो र्वल्यधिष्ठानं कुर्यात्। कर्मभेदेन वर्णयोगतः। तैरानीतवज्रधरपुरे विनायकान् ऊर्ध्वोष्णीषचक्रवर्तिना अधः सशुम्भराजेनानीत मात्रेण। ओं इन्द्रयमजलेत्यादिना मन्त्रेणामन्त्र्य। ओं आकर्षय जः, ओं पद्मत्रयं प्रवेशय हूँ, ओं स्वस्वस्थाने क्रोधबन्धेन वन्धय वँ। ओं वज्रघण्टायां वशीकुरु होः। इत्यनेनाकर्षण-प्रवेशनबन्धन -


p.57


तोषणाञ्च कृत्वा उक्तविधिनामृतमुत्पाद्य पुष्पधूपदीपगन्धादिपूजा-स्तुतिबल्युपहारपूर्वकं सन्ध्यागीतमुच्चरन्तं कमलावर्तादीन् कारयेत्। तदनु आलिङ्गनान्तरे मुद्राबन्धं कृत्वा विघ्नान्वीक्षयेत्। तत्र मोक्षपुरेषु मध्ये तस्य मध्यपुरे प्राग्दले इन्द्रः सहस्राक्षो गौरो वज्रपाणिः। शुक्ल ऐरावतासीनः। दक्षिणे यमो दण्डपाणिः कृष्णोमहिषारूढः।

पश्चिमे दले वरुणः श्वेतो मकरवाहनः, कुमुदकमलपाणिः। उत्तरदले यक्षः पीतः नरवाहनः श्रीफलपाणिः। एते सर्वालङ्कारधरा रत्नमुकुटिनः यमः सूर्यासनः सूर्यप्रभः। शेषाश्चन्द्रासनाश्चन्द्रप्रभाः। ऐशान्यदले भूतपतिः श्वेतः त्रिनेत्रो जटामुकुटी वृषभवाहनः चन्द्रासनश्च चन्द्रप्रभाः त्रिशूलपाणिः व्याघ्रचर्माम्बरधरो भस्मोद्धूलितविग्रहः। सर्वाभरणभूषितः चन्द्रासनश्चन्द्रप्रभः। अग्निदले वह्निर्लम्बोदरोऽतिपीतः खर्वश्छागवाहनः रक्तः अक्षसूत्रकमण्डलु-धरोजटामुकुटी सूर्यासनःसूर्यप्रभः। चीरवासाः नैरृत्यदलेराक्षसः 


p.58


मुक्तकेशः कटारकपालधरः क्रुद्धः सभ्रूभङ्गः कृष्णः शवोपरि सूर्यासनः सूर्यप्रभः। वायव्यदले वायुर्वज्रपाणिः श्यामो रत्नमुकुटी मृगवाहनः चन्द्रासनश्चन्द्रप्रभः सर्वालङ्कारधराः। वरटके पृथिवी पीता दिव्यवसना सर्वालङ्कारधराः घटहस्ताश्चन्द्रासना चन्द्रप्रभा। प्रीता दिव्यवसना सर्वालङ्कारधराः घटहस्ताश्चन्द्रासन चन्द्रप्रभा।

प्रेताश्च पृथिवीमावेष्ट्य संस्थिताः। इन्द्रादयः पञ्च वामनाग-पाशधराः सर्वे पुनः प्रत्यालीढपदाः।

ऊर्ध्वधर्मोदयस्थपद्माष्टदलेषु पूर्वदले चन्द्रः श्वेतः श्वेताश्ववाहनः। रत्नमुकुटी कुमुदपाणिः। सर्वालङ्कारधरः चन्द्रासनश्चन्द्रप्रभः। दक्षिणदले सूर्यो रक्तः भुजाभ्यां पद्मधरो हरिताश्ववाहनः रत्नमुकुटी सर्वालङ्कारधरः स्वासनार्थप्रभः। पश्चिमदले बुधः पीतो मूषकारूढः सूर्यासनः सूर्यप्रभो रत्नमुकुटी शरहस्तः। उत्तरदले शुक्लः नीलः सूर्यासनः सूर्यप्रभः रत्नमुकुटी शक्तिधरः। ऐशान्यदले मङ्गलो रक्तो सूर्यासनः सूर्यप्रभः। ऊर्ध्वमुक्तकेशः पद्मधरः। अग्निदले बृहस्पतिः पीतः सूर्यासनः सूर्यप्रभः रत्नमुकुटी 


p.59


गदाधरः। नैरृत्यदले शनैश्चरः कृष्णः पिङ्गलकेशः सूर्यासनः सूर्यप्रभः त्रिशूलधरः वायव्यदले राहुकेतू सूर्यासनः सूर्यप्रभो महाकृष्णः धूम्रवर्णो संसारचक्रमाकृष्य भक्षणाभिनयो राहुः संपुटाञ्जलिधरः केतुः। तन्मध्यवरटके ब्रह्मा चतुर्मुखश्चतुर्भुजः। त्रिदण्डधरोऽभयपाणिः अक्षसूत्रकमण्डलुधरः शेषभुजाभ्यां पीतो हंसवाहनः चन्द्रासनश्चन्द्रप्रभः यज्ञोपवीती पीतः जटी खर्वः ब्रह्माणमावेष्ट्य ब्रह्मकायिका ब्रह्मपुरोहितास्तुषितायामा अकनिष्ठा देवैः परिवृताः। अधोधर्मोदये दिग्विदिक्क्रमेण वासुकिः पीतःपद्मो नागः सितः, कर्कोटको नागो रक्तः, तक्षको नागः कृष्णः, शंखपालो नागः पीतः, महापद्मो नागः श्यामः। अनन्तो नागः पाण्डरः कुलिको नागः कर्बुरः। एते चाष्टौ रत्नमुकुटिनः मनुष्यास्याः सर्वालंकारधराः सप्तफणाङ्कित शिरसः। असुरनारकसत्त्वसहिताः वरटके शेषः 


p.60


श्वेतो रत्नमुकुटी नरमुखः फणी। इत्थमेतान् स्थिरीकृत्य पुनस्तान् परिणम्य श्रीहेरुकाकारेण निष्पाद्य कायवाक्चित्तप्रयोगतः। ऊर्ध्वस्थाः कायाकारा मध्यस्थाः पुनरक्षोभ्याकाराः अधस्था वाग्वज्राकारा द्रष्टव्याः। सार्वकर्मिकार्थाय भुजमुखं पुनर्यथात्मनस्तथा हेषाम्। अपरकर्मा हंकारो यथायोगतः कर्तव्यः। सर्वेषां यथात्मनो रूपं तदनु ओं प्रवरसत्काराग्र श्रीहेरुकार्घं प्रतीच्छ हूँ स्वाहा। इति मन्त्रेण प्रचोद्य शंखमुद्रयार्घं दद्यात्। संदंशमुद्रया पादाय पाद्यं दत्वा एवं बलिं भुञ्ज जिघ्रेत्यादिना भोजयेत्। कार्यंञ्च निवेदयेत्। तदनु सन्ध्यागीतं भगवद्भगवतीदेवती चक्रक्रोधानां मन्त्रं पठता वज्रघण्टाधरेणाभिनयपूर्वकं घण्टां वादयन् वज्रोल्लालनादिकं कृत्वा। ओं अकारो मुखमित्यादि पठित्वा। ओं वज्रहेरुक समयमनुपालय। 


p.61


हेरुकत्वेनोपतिष्ठ। दृढो मे भव, सुतोष्यो मे भव, सुपोष्यो मे भव, अनुरक्तो मे भव, सर्वसिद्धिं मे प्रयच्छ, सर्वकर्मसु च मे चित्तं श्रेयः कुरु हूँ ह ह ह ह होः भगवन् श्रीहेरुकवज्र। मा मे मुञ्च हेरुकोद्भव। महासमयसत्त्व आः हूँ हूँ फट्। इत्यनेन संतोष्य विसर्जयेत्। तत्रायं विसर्जनमन्त्रः। ओं आः हूँ फट् ३। ओं कारेण प्रणिधानम्। आः कारेण संतोषणम्। हूँ कारेण तृप्तीकरणम्। त्रिफट्कारेण उपसंहारम्।

देव्यः प्रमाणं समयं प्रमाणं तदुक्तवाचश्च परं प्रमाणम्। एतेन सत्येन भवेयु रेता देव्यो ममानुग्रहहेतुभूताः॥

भवशमसमसङ्गा भग्नसंकल्पसङ्गाः,

खमिव सकलभावं भावतो वीक्षमाणाः।


p.62


गुरुतरकरुणाम्भः स्फीतचित्ताम्बुनाथाः,

कुरुत कुरुत देव्यो मय्यतीवानुकम्पाम्॥

एतेन षडङ्गादौ बलितत्त्वपर्यन्तेन कर्मराजाग्री नाम समाधिः॥२५॥

तदुत्थाय दर्मध्ये तु विश्ववज्रपद्मं चिन्तयेत् तद्दलेऽष्टौऽष्टा-नामीश्वरञ्च। तद् हृदये चिन्तयेद्बीजम्। बीजान्नादाग्रकोटिं विभागयेत्। चित्तस्थैर्यकरणार्थं चिन्तयेत् सूक्ष्मां कोटिं तया सहैकभावेन चित्तस्थैर्यकरणं भवेन्न संशयः। चित्तस्थैर्यमात्रेण स्फारयेत् ताथागतव्यूहं योगिनीजालमतिविस्तरं चानन्तलोकधातुव्यापकम्। कुतः स्वचिह्नात् स्फुरितं अचिन्तितं नाथं समण्डलात्मकं प्रभुम्। उक्तधर्मशब्देन द्विविधं यथोपदेशाद्बोद्धव्यम्। चिह्नं पुनः सर्षपस्थूलमात्रकं चिन्तयेत्। इति सूक्ष्मयोगो नाम समाधिः॥२६॥

तदुत्थाय यदि वा विहरेद्योगी कवचद्वयं कृत्वा सहजहे वज्रयोगतः अक्षोभ्यश्चक्रिरूपेणेत्यादिना। हूँ शिरसी चक्री विधर्तव्यः,


p.63


ह्रीः कर्णयोर्दिव्यकुण्डलम्। त्रां कण्ठे कण्ठमालाम्। ओं हस्तयो रुचकद्वयम्। खँ कट्यां मेखलञ्चैकः। हँ सर्वाङ्गे भस्मविग्रहं कवचयेन्महदुपदेशतः। एवं चक्षुषो मोहवज्रेत्यादिना कवचं तत्रायं कवचमन्त्रः। आँ अँ इँ ईँ उँ अँ। एतेनानेकवज्रयोगिनी-तथागता-दिभिः परिघटितशरीरोऽसौ भगवानिति। कवचद्वयमनेन महासन्नाहसन्नद्धा भूय सिंहवद्विहरेद्योगी सहजहेवज्रयोगतः। इति न्यासं द्वितीयम्॥२७॥

कुत्र त्रैलोक्यागारमध्ये। तथा च -

कूटागारमिदं न यत्त्रिभुवनं न प्राणिनोऽमी जिनाः।

चक्रेशोऽस्मि न मानुषो न विषया नाक्षाणि न क्ष्मादयः॥


p.64


रूपाद्या न च धर्मतात्मकतया ते माण्डलेया इमे।

विश्वं मण्डलचक्रमाकलयतश्चेतः किमु भ्राम्यसि॥

इति विहरणम्॥२८॥

तदनु यत्किञ्चिदुपार्जितं भक्ष्यं द्रव्यं योगिना लब्धं वा तत्सर्वं पूर्ववदमृतास्वादविधिना विशोध्य त्रितत्त्वेनाधिष्ठाय भक्ष्ये भोजनम्॥२९॥

ततो भक्षणे विधिमुक्त्वा स्थितिचरणं कथयामि मूलमन्त्रानुसारतः। तथाहि -

लोभं मोहं भयं क्रोधं ब्रीडा कार्यञ्च वर्जयेत्।

निद्रामात्मानमुत्सृज्य चर्यां कुर्यान् न संशयः॥


p.65


अत‍एव

शरीरं दानं दत्वा च पश्चाच्चर्यां समारभेत्।

भागाभागविचारेण तस्माद्दानं न दीयते॥

भक्ष्यं योज्यं तथा पानं यथा प्राप्तं तु भक्षयेत्।

ग्रहणं नात्र कर्तव्यमिष्टानिष्टं विकल्पतः॥

पञ्चवर्ण समायुक्तमेकवर्णं तु कल्पितम्।

अनेकेनैकवर्णेन यस्माद्भेदो न लक्ष्यते॥

एकवृक्षे श्मशाने वा भावना कथ्यते शुभा।

मातृगृहे तथारात्रौ अथवा विजने प्रान्तते॥

किञ्चिदूष्मे तु संप्राप्ते चर्यां कर्तुं यदीष्यते।

सिद्धिं गन्तुं यदीच्छास्ति चर्यया त्वनया चरेत्॥


p.66


अपरोऽपि मूले च स्पष्टं चर्येति यदिष्टं चर्यत इति चर्याचरणम्। स्थिति-व्यवहाराचारः परमार्थतस्तु शून्यतेति। अधिमात्रतरं-प्राप्याधिमात्रतरस्य कोऽर्थः ? किञ्चिदूष्माप्राप्तिमिति कोऽर्थः ? मृदवे रात्रौ वा स्वस्थाने निर्भृतं चरेदेव यावत् किञ्चल्लाभः स्यात्। कुतः यथा भेदो न जायते इति वचनात्। लाभे सति अव्यवस्थां करोतु न करोतु वा स्वतन्त्र एवासौ इति चरणम्॥३०॥

ततोऽपर संध्यायां शरनेच्छया विरमान्तयोगाभिमुखी कृत्य शयीत, शिरस्थाने गुरुबुद्धबोधिसत्त्वान् दृष्ट्वाऽष्टाङ्गपात -


p.67


प्रणामाशयेन सिंहशय्यायां प्रभास्वरसमाधियोगे भगवन्निर्वाणवत् इति शयनम्॥३१॥

उत्थानकाले पुनः पुक्कस्यादि-गीतसंचोदितस्तिष्ठेत्। उत्थाय तादृशं कुर्यादनेनैव क्रमेण। यावत्मण्डलचक्रलाभः स्यात्। तेन बिना महोबोधिं न स्यात्। अत एवोत्पत्तिक्रमं विना उत्पन्नं यथा न ज्ञायते। तथोत्पन्नयोगं विना उत्पत्तिर्न ज्ञायते। तथा च तन्त्रे -

'क्रमद्वयं समाश्रित्य वज्रिणां धर्मदेशना।'

एवं यथानिर्दिष्टमण्डल चक्रान्तर्गतम्। एकमुखमद्वयज्ञान-विशुद्धं द्विभुजं शून्यताकरुणाविशुद्धं दक्षिणकरे वज्रमभेद्यज्ञानप्रति-पादकम्। वामे कपालखट्वाङ्गञ्च। खट्वाङ्गं प्रज्ञास्वभावरूपम्। कपालं बोधिचित्तं-प्रतिपादकम्। एवं चतुर्भुजं चतुर्मारविनाशार्य-मेकमुखमचिन्त्यज्ञानविशुद्धम्। प्रथमदक्षिणभुजे वज्रं युगनद्धमार्ग-प्रतिपादकम्। प्रथमवामभुजे कपालं देवासुराणां रक्तेन पूरितम्।


p.68


देवासुरशब्देन भावाभावम्। रक्तशब्देन तदेकीकरणम्। पूरितशब्देन तत्पदप्राप्तम्। एतद्विशुद्धिं नरकपालं शेषभुजाभ्यां वज्रवाराह्यालिङ्गितम्। एवं षड्भुजं षट्पारमिताविशुद्धिम्। त्रिमुखं कायवाक्चित्तप्रतिपादकम्। वामे घण्टाशून्यताशुद्ध्या। त्रिशूलं अज्ञानद्वयच्छेदनार्थं दक्षिणे वज्रं समताज्ञानविशुद्धम्। कर्तिका शेषाज्ञानच्छेदनाय। एवं द्विभुज चतुर्भुजषट्भुजानाम वस्थितार्द्धपर्यङ्केन शवोपरि सूर्ये। अपरं यथा षोडशभुजे तथा एषु त्रिष्वपि। इत्यपर उत्थानम्॥३२॥

श्रीमत्सरोरुहपादोद्देशसूत्रम् आदेशेन मयोक्तम्।

जालन्धरि इति ख्यातेनार्षवचनाश्रित्य टिप्पितम्॥

कृत्वा सुरतवज्रेण विशुद्धिक्रमटिप्पणीम्।

तेन भूयाज्जगत्सर्वं वज्र-श्रीज्ञानपरागः॥


p.69


इत्याचार्यसरोरुहपादविरचित-श्रीहेवज्रसाधनस्य वज्रप्रदीपा नाम टिप्पणीविशुद्धिः समाप्ताम्। कृतिरियं पण्डिताचार्यश्रीसुरत-पादानामिति।

ये धर्मा हेतु प्रभवा हेतुस्तेषां तथागतो ह्यवदत्।

तेषां च यो निरोधो एवं वादि महाश्रमणः॥


समाप्तः।


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project