Digital Sanskrit Buddhist Canon

विशेषस्तव

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

विशेषस्तव


नमो बुद्धाय।


शास्तॄन् अन्यान् समुत्सृज्य

त्वाम् अहं शरणं गतः।

भगवंस् तत्र को हेतुर्

निर्दोषो गुणवान् असि॥ १ [1]॥


दोषभक्तो ऽथवा लोको

दोषान् वा गुणतो गतः।

गुणग्रहणमन्दो वा

येनान्याञ् शरणं गतः॥ २ [2]॥


वासुदेवेश्वरादीनां

हर्षात् तद्भक्तिभिर् जनैः।

ये गुणाः परिकीर्त्यन्ते

दोषास् ते तव शासने॥३ [3]॥


रुद्रेण त्रिपुरं दग्धं

क्रुद्धेनैकेषुणा किल।

क्रोधाग्निर् एव निर्दग्धस्

त्वया ज्ञानमहेषुणा॥४ [4]॥


दुर्दग्धेन हि कामेन

पुनर् आकर्षितो हरः।

त्वज्ज्ञानाग्नौ हुतः कामः

समूलो विलयं गतः॥५ [5]॥


तिलोत्तमायां जातास्थः

शूली जातश् चतुर्मुखः।

मारकन्याविलासैस् ते

रोमाग्रम् अपि नो ऽञ्चितम्॥६ [6]॥


(1)


चक्रवाकान् अपि जयत्य्

अङ्गेन वनितां वहन्।

शंकरो ऽशंकरेण त्वं

नैव का मेन मोहितः॥ ७ [7]॥


न तन् मारबलं जेतुम्

अलं चक्रित्रिशूलिनौ।

विना चक्रत्रिशूलाभ्यां

यन् मैत्र्यस्त्रेण ते जितम्॥८ [8]॥


नीलकण्ठीकृतः शर्वो

जराबाणैर् हतो हरिः।

सोपक्रमौ तु तौ देवौ

त्वं नाथ निरुपक्रमः॥ ९ [9]॥


वामनं रूपम् आस्थाय

हरिणा मायया बलिः।

वञ्चितस् त्वं तु मायाज्ञो

न च वञ्चयसे परान्॥ १० [10]॥


तैः पङ्गुगतिवद् दृष्टं

विष्णोस् त्रैलोक्यलङ्घनम्।

दृष्टं यैर् अद्भुतं नाथ

त्वदृद्धीनां विजृम्भितम्॥११ [11]॥


कुमारः सहितः षष्ठ्या

ब्रह्मचर्यं चरन्न् अपि।

त्वया तु मैथुनाः सप्त-

संयोगाद् भस्मसात् कृताः॥१२ [12]॥


स्रष्टारो हि वयं लोक-

स्योक्तं ब्रह्मादिभिः किल।

कर्मजास् ते ऽपि लोकश् च

त्वयोक्तं तत्त्वदर्शिना॥१३ [13]॥


(2)


अहल्यादर्शनाद् वज्री

कामेन किल मोहितः।

वीर दारास् त्वया त्यक्त्वा

काम एव विमोहितः॥१४ [14]॥


सोमः कवलतां याति

विवशो राहुहस्तिनः।

तन् नास्ति भूतं यस्य त्वं

विवशो वशम् आप्नुयाः।१५ [15]॥


नृपा रामाम्बरीषाद्या

वनेभ्यः पुनर् आगताः।

विवेकामृततृप्तस् त्वं

पुनः सुगत नागतः॥१६ [16]॥


आलभ्याः पशवो यज्ञे

प्राहुः स्वर्गं जिगीषवः।

पिपीलकस्यापि वधो

नानुज्ञातस् त्वयानघ॥ १७ [17]॥


प्रमदार्थी गतो रामः

पारं किल महोदधेः।

षष्तिं च स्त्रीसहस्राणि

त्वं विहायाश्रमं गतः॥ १८ [33]॥


परेषां जीविताज्येन

स्वार्थम् अन्यैर् मखे हुतम्।

परार्थं तु त्वयैकेन

स्वजीवाहुतयो हुताः॥ १९ [18]॥


ऋषिभिर् बहवो दग्धाः

क्रुद्धैः शापाग्निभिर् जनाः।

त्वया ज्ञानग्निना दग्धा

जनानां जन्महे तवह्॥ २० [19]॥


(3)


ऋषीणां तपसः सिद्धिः

शापसिद्ध्यानुमीयते।

तव नाथ तपःसिद्धिः

कृपासिद्ध्यानुमीयते॥२१ [20]॥


ऋषिभिः पातितं लिङ्गं

शम्भोः शापेन कामिनः।

त्वया मूलम् अनर्थानां

काम एव निपातितः॥ २२ [21]॥


बहुत्वात् स्मृतिवैकल्यात्

पूर्वोत्तरपराहतम्।

श्रूयते व्यासवचनं

सर्वत्र न च ते मुनेः॥ २३ [19]॥


प्रायः परोक्तान्य् उक्तानि

यानि द्वैपायनादिभिः।

त्वयासाधारणो धर्मः

स्वयं ज्ञात्वा प्रकाशितः॥ २४ [22]॥


विविक्तेष्व् एव कथ्यन्ते

वेदास् तीर्थ्यवचांसि च।

आघोष्य तव सैंहेन

धर्मो नादेन कथ्यते॥ २५ [23]॥


दृष्टतत्त्वो ऽपि सांख्यानां

भारद्वाजो वसन्तया।

संगतः संगता नैव

स्त्रीभिः शिष्यास् तव प्रभो॥२६ [24]॥


विशिष्टे देयम् इत्य् एवम्

कपिलः प्राह नेतरे।

श्वभ्यो ऽपि नाथ दातव्यं

कारुण्याद् भाषितं त्वया॥ २७ [25]॥


(4)


शरीरतापैर् इच्छन्ति 

निर्ग्रन्था ग्रन्थिशातनम्।

त्वं पुनर् मानसैस् तापैर्

ग्रन्थिशातनम् इच्छसि॥ २८ [26]॥


अनपेक्ष्यैव भावानां

सिद्धिम् इच्छन्ति तार्किकाः।

न किं चिद् अनपेक्ष्यास्तीत्य्

उक्तं वाचस्पते त्वया॥२९ [27]॥


मोक्षं किल गतः प्राहुः

शुको भित्त्वा दिवाकरम्।

त्वं तु प्राप्तश् च निर्वाणं

न गतश् चासि कुत्र चित्॥ ३० [28]॥


मोक्षम् अन्येन जनकः

शुको ऽन्येन पथा गतः।

त्वं तु येन पथा यातः

शिष्यास् तेनैव ते गताः॥ ३१ [29]॥


षोडश स्त्रीसहस्राणि

विष्णोर् आसीत् परिग्रहः।

त्वं तु लोकोत्तमः शास्ता

निर्मनो निःपरिग्रहः॥ ३२ [30]॥


संरक्तः काशिसुन्दर्यां

व्यासो विकृतिम् आगतः।

गृहसंस्थो ऽप्य् अनार्यैस् त्वम्

इन्द्रियार्थैर् न मोहितः॥ ३३ [31]॥


कामार्तो विकलीभूतो

वनितापादताडितः।

व्यासो न पुनर् एव त्वं

गृहिभूतो ऽपि कम्पितः॥  ३४ [32]॥


(5)


कर्णदुर्योधनादीनां

हरिणा चिन्तितो वधः।

असवो ऽपि त्वया त्यक्ताः

सत्त्वानां हितकाम्यया॥ ३५ [34]॥


विष्णुना कपटं कृत्वा

या हृता विक्रमैस् त्रिभिः।

सा क्षितिस् तृणवत् त्यक्ता

भवता निर्मुमुक्षुणा॥  ३६ [35]॥


कृत्वा निःक्षत्त्रियं लोकं

प्राणक्षयकरैः शरैः।

यद् यशः प्राप्तवान् रामः

शास्त्रे तद् अयशस् तव॥  ३७ [36]॥


यस्याः कृते न संग्रामः

कृतः कौरवपाण्डवैः।

तां लताम् इव सव्याडां

श्रियं त्याक्त्वासि निर्गतः॥ ३८ [37]॥


देवदारुवने शंभोर्

यद् योगीश्वरचेष्टितम्।

त्वादीयं शासनं प्राप्य

तद् अज्ञानविचेष्टितम्॥ ३९ [38]॥


द्विजैर् अद्यापि मघवान्

अहल्यां परि गीयते।

त्वयाग्रफललाभेन

शक्रस्योद्घोषितं यशः॥ ४० [39]॥


देहाद् देहान्तरं याति

जीवः किल निरञ्जनः।

न शरीरात् पृथग्भूतो

जीवो ऽस्ति कथितं त्वया॥  ४१ [52]॥


(6)


स्वो मातुलः कुमारेण

शक्त्या भिन्नो ऽभिगीयते।

क्लेशजालं त्वया वीर

प्रज्ञाशक्त्या विदारितम्॥  ४२ [67]॥


स्वम् अप्य् अन्तःपुरं नैव

परित्रातं हि विष्णुना।

त्राणाय सर्वसत्त्वानां

त्वं मुने नित्यम् उद्यतः॥४३ [68]॥


जरासन्धभयं ज्ञात्वा

मथुरां त्यक्तवान् हरिः।

सत्त्वो नैवास्त्य् असौ कश् चिद्

बिभियास् त्वं यतो मुने॥४४ [69]॥


अनयाद् विलयं याता

वासुदेवस्य बान्धवाः।

त्वया तु बान्धवाः सर्वे

संसारात् परिमोचिताः॥ ४५ [70]॥


कृष्णो हि कृष्णयवन-

त्रासार्तो ऽधः प्रविष्टवान्।

खट्वाया मुचुकुन्दस्य

निर्भीस् त्वं सर्वतः प्रभो॥ ४६ [40]॥


प्रजापतिर् दुहितरं

स्वाम् अकामयत श्रुतिः।

अकल्मषं ब्रह्मचर्यं

शिष्याणाम् अपि ते मुने॥ ४७ [41]॥


दानग्रहणवत् प्रोक्ता

संक्रान्तिः पुण्यपापयोः।

द्विजैस् त्वयोक्तम् एवं हि

कृतनाशो ऽकृतागमः॥ ४८ [42]॥


(7)


चेतनालक्षणो ऽस्त्व् आत्मा

कापिलैः परिकल्प्यते।

एवं हि तस्य नित्यत्वम्

आत्मनः कथितं त्वया॥४९ [43]॥


ज्ञानाद् अन्यो विभुश् चात्मा

कणादः परिगीतवान्।

त्वयोक्तम् एवम् अन्यो ऽसौ

काष्ठतुल्यः प्रसज्यते॥ ५० [44]॥


संकोची च विकासी च

जीवो देहप्रमाणवान्।

प्राह नग्नः प्रदेशित्वात्

तस्योक्ता ते विनाशिता ५१ [45]॥


पुरुषः कारणं नित्यं

जगतः कल्प्यते द्विजैः।

नित्यं च कारणं चेति

त्वयोक्तं नास्ति किं चन॥५२ [46]॥


षष्टिं पुत्रसहस्राणि

सगरस्य महात्मनः।

दृष्ट्या ददाह कपिलस्

तत्रापि करुणा तव॥५३ [47]॥


प्रधानाज् जगद् उत्पन्नं

कपिलः प्राह तत्त्ववित्।

कर्मक्लेशोद्भवं जन्म

जगतः कथितं त्वया॥५४ [48]॥


मोक्षे ऽपि कपिलादीनाम्

आत्मनो भवहेतवः।

त्वं तु शान्तिं गतः संख्यां

नैषि शान्त इवानलः॥ ५५ [49]॥


(8)


कैश् चित् तीर्थकरैर् मोक्षो

गतिमान् इत्य् उदाहृतः।

गतिर् यत्र स संसारस्

त्वया ज्ञात्वा प्रकाशितः॥ ५६ [50]॥


आरामाद्याः समारम्भा

नग्नानां पापहेतवः।

त एव खलु सर्वज्ञ

त्वयोक्ताः पुण्यहेतवः॥ ५७ [51]॥


शिशुपालस्य संग्रामे

जीवः कृष्णेन घातितः।

न शरीरात् पृथग्भूतो

जीवो ऽस्तीत्य् उदितं त्वया॥ ५८ [deest]॥


क्रोधान् मृतस्य संग्रामे

व्यासेनोक्ता शुभा गतिः।

तदवस्थेन चित्तेन

त्वयोक्ता नाथ दुर्गतिः॥ ५९ [53]॥


कीर्तनात् पाण्डुपुत्राणां

पुण्यम् उक्तं पृथक् पृथक्।

अगम्यां येऽभिगच्छन्ति

निन्द्यास् ते तव शासने॥ ६० [54]॥


मतानि परतीर्थ्यानां

विमृशामि यथा यथा।

तथा तथा मे त्वय्य् एव

नाथा चित्तं प्रसीदति॥ ६१ [71]॥


इत्य् असर्वज्ञसिद्धान्ते

दोषविग्राहिताशयाः।

निर्दोषम् अपि शास्तारं

त्वां न पश्यन्त्य् अबुद्धयः॥ ६२ [72]॥


(9)


लोको ऽब्रवीद् अमी शाक्या

वेददेवद्विजद्विषः।

स्वकम् एवापराधं तु

लोकः किं नावबुध्यते॥ ६३ [73]॥


सुरेन्द्रोपेन्द्ररुद्राद्या

धारयन्ति सदायुधम्।

भयाद् वा भीषणार्थं वा

निर्भीस् त्वं न च भीषणः॥ ६४ [55]॥


न भीषयसि कं चित् त्वं

न च कैश् चिद् विभीषितः।

न्यस्तशस्त्रस् त्वम् एको हि

तेनासि जगतो ऽधिकः॥ ६५ [56]॥


वेदादिवचनं प्रायः

पूर्वोत्तरपराहतम्।

वक्तुः संक्लेशतां वक्ति

वचः सर्वज्ञतां तव ६६ [57]॥


पूर्वापरं विरोधीनि

शास्त्राण्य् अन्यानि प्रायशः।

आदिमध्यावसाने तु

तव वाकल्मषं मतम्॥ ६७ [58]॥


न शूद्राय मतिं दद्याद्

इत्य् उक्तं वेदपारगैः।

चण्डालेभ्यो ऽपि कारुण्यात्

सद्धर्मो देशितस् त्वया॥ ६८ [59]॥


द्रुमं भद्रं विनिर्मुच्य

दुर्वनं कः समाचरेत्।

त्वां वीतरागम् आसाद्य

को ऽन्याञ् शास्तॄन् नमेद् बुधः॥ ६९ [60]॥


(10)


विषयान् अपि भुञ्जाना

ज्ञानान् मुच्यन्ति कापिलाः।

संक्लिष्टस्य कुतो मोक्षस्

त्वयोक्तं वीतकल्मष॥ ७० [61]॥


अन्यशास्त्रेषु तन् नोक्तं

यद् उक्तं भगवंस् त्वया।

कृत्वा तु पुण्यसंभारः

सत्त्वेभ्यः परिणाम्यते॥ ७१ [62]॥


देवायतनयज्ञेषु

कृत्वा भूताभिमर्दनम्।

लौकिका धर्मम् इच्छन्ति

तच् छास्त्रे गर्हितं त्वया॥ ७२ [63]॥


धर्म एव कुतस् तत्र

यत्र प्राणिवधो ध्रुवम्।

स्वकैर् अपि त्वया प्राणैः

सत्त्वाः संरक्षिता विभो॥ ७३ [64]॥


यत्र सत्यम् अहिंसा च

ब्रह्मचर्यं दमो दया।

शाक्यराजकुलोद्भूत

स धर्मस् तव संमतः॥ ७४ [65]॥


आततायिनम् आयान्तम्

अपि वेदान्तगं रणे।

उक्तं लोके त्वयाप्य् उक्तं

कारुण्यं वधकेष्व् अपि॥ ७५ [66]॥


यतः सुखं सुखेनैव

लभ्यते तव शासने।

अतस् ते वादिशार्दूल

जनो ऽयं रमते मते॥ ७६ [74]॥


(11)


भूतान् प्रभाषमाणस्य

विधिनानेन ते गुणान्।

यत् पुण्यम् अस्ति मे तेन

जगद् अस्तु त्वाया समम्॥ ७७ [75]॥


विशेषस्तवम् उच्चार्य

यन् मयासादितं शुभम्।

तेनायं निखिलो लोको

भूयाद् बोधिपरायणः॥ ७८ [76]॥


विशेषस्तवः समाप्तः॥

भट्टराधस्वामिनः॥॥


(12)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project