सुप्रभातस्तव
ओं नमो बुद्धाय॥
स्तुतम् अपि सुरसंघैः सिद्धगन्धर्वमुख्यैर्
दिवि भुवि च विशिष्टैः स्तोत्रवाग्भिर् यतीशैः।
अहम् अपि कृशशक्तिः स्तौमि संबुद्धम् आर्यं
नभसि गरुडयाते किं न यान्ति द्विरेफाः॥ १ [1]॥
सकलघनवितानक्लेशरात्र्यन्धकारे
जिन जगति विबुद्धं तत्क्षणज्ञानलाभात्।
कमलम् इव निशान्ते त्वां तथा सुप्रबुद्धं
स्तुतिकुसुमकलापैर् अर्थयिष्यामि भक्त्या॥२॥
क्षपितदुरितपक्षः क्षीणनिःशेषदोषो
द्रवितकनकवर्णः फुल्लपद्मायताक्षः।
सुरुचिरपरिवेषः सुप्रभामण्डलश्रीर्
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ३[2]॥
मदनबलविजेतुः कापोथोच्छेदकर्तुस्
त्रिभुवनहितकर्तुः स्त्रीलताजालहर्तुः।
शमसुखरमवेत्तुर् भेत्तुर् अज्ञानशैलं
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ४ [3]॥
असुरसुरनराणां यो ऽग्रजन्माग्रदेवः
सकलभुवनधाता लोकसृष्ट्यैकशब्दः।
स्वपिति जगति बुद्धः पद्मपत्त्रायताक्षो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ५ [4]॥
उदयगिरितटस्थो विद्रुमच्छेदताम्रस्
तिमिरनिकरहन्ता चक्षुर् एकं जनानाम्।
रविर् अपि मदलोलः सर्वथा सो ऽपि सुप्तो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ६ [5]॥
(1)
द्विरददशनपाण्डुः शीतरश्मिः शशाङ्कस्
तिलक इव रजन्याः शर्वचूडामणिर् यः।
अविगतमदरागश् चन्द्रमाः सो ऽपि सुप्तो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ७ [6]॥
प्रवरभुजचतुष्कः षोडशार्धार्धवक्त्रो
जपनियमविधिज्ञः सामवेदप्रवक्ता।
अमलकमलयोनिः सो ऽपि सुप्तो विधाता
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ८ [7]॥
कुवलयदलनीलः पुण्डरीकायताक्षः
सुररिपुबलहन्ता विश्वकृद् विश्वरूपी।
हरिर् अपि चिरसुप्तो गर्भवासैर् अमुक्तो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ९ [10]॥
हिमगिरिशिखराभः सर्पयज्ञोपवीती
त्रिपुरदहनदक्षो व्याघ्रचर्मोत्तरीयः।
सह गिरिवरपुत्र्या नित्यसुप्तस् त्रिशूली
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १० [8]॥
कपिलजटकलापो रक्तताम्रारुणाक्षः
पशुपतिरतिकाले सङ्गभङ्गैकदक्षः।
स्मरशरदलिताङ्गः सो ऽपि सुप्तो हुताशो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ ११ [11]॥
ज्वलितकुलिशपाणिर् दुर्जयो दानवानां
सुरपतिर् अपि शच्या विभ्रमैर् मूढचेताः।
अनिशि निशि च सुप्तः कामपङ्के निमग्नो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १२ [9]॥
हिमशशिकुमुदाभो मद्यपानारुणाक्षो
दृढकठिनभुजाङ्गो लाङ्गलासक्तहस्तः।
बल इह चिरसुप्तो रेवतीकण्ठलग्नो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १३ [12]॥
(2)
गजमुखदशनैकः सर्वतो विघ्नकर्त्ता
विगलितमदवारिः षट्पदोद्गीतगण्डः।
गणपतिर् अपि सुप्तो वारुणीपानमत्तो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १४ [13]॥
अतसिकुसुमनीला यस्य शक्तिः कराग्रे
नवकनकवपुष्मान् षण्मुखः क्रौञ्चभेत्ता।
त्रिनयनतनयो ऽसौ सो ऽपि सुप्तः कुमारो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १५ [14]॥
यमवरुणकुबेरा यक्षदैत्योरगेन्द्रा
दिवि भुवि गगनस्था लोकपालास् तथान्ये।
युवतिमदकटाक्षैर् ईक्षितास् ते ऽपि सुप्ता
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १६ [17]॥
ऋषय इह महान्तो वत्सभृग्वङ्गिरो
ऽद्रिक्रतुपुलहवसिष्ठव्यासवाल्मीकिगार्ग्याः।
युवतिजघनसक्तास् ते ऽपि नित्यं प्रसुप्ता
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १७ [16]॥
अशानवसनहीना मृत्युयोगानुरक्ता
बहुविविधविघाताः प्रेतवद् दग्धदेहाः।
उभयगतिविहीनास् ते ऽपि नग्नाः प्रसुप्ता
दशबल तव नित्यं सुप्रभातं प्रभातम्॥ १८ [15]॥
यद् अपि गुणलवं ते नाथ संकीर्त्य भक्त्या
मम शुभम् उपजातं भावशोभावदातम्।
तद् इह जगति शीघ्रं ध्वस्तसर्वानुकारं
दशबल तव नित्यं सुप्रभातं प्रभातम्॥१९॥
सुप्रभातं तवैकस्य
ज्ञानोन्मीलितचक्षुषः।
अज्ञानतिमिरान्धानां
नित्यम् अस्तमितो रविः॥ २० [21]॥
(3)
पुनः प्रभातं पुनर् उद्गतो रविः
पुनः शशाङ्कः पुनर् एव शर्वरी।
मृत्युर् जरा जन्म तथैव भूयशो
गतागतं मूढधिया न बुध्यते॥ २१ [22]॥
अज्ञाननिद्ररजनीतमसि प्रसुप्ते
तृष्णाविशलशयने विषयोपधाने।
लोके शुभाशुभफलैः परिवर्तमाने
जागर्ति यः सततम् एव नमो ऽस्तु तस्मै॥२२ [19]॥
सुप्रभातं सुनक्षत्रं
श्रिया प्रत्यभिनन्दितम्।
बुद्धं धर्मं च संघं च
प्रणमानि दिने दिने॥ २३ [23]॥
तीर्थेषु गोकुलशतानि पिबन्ति तोयं
तृप्तिं व्रजन्ति न च तत् क्षयम् अभ्युपैति।
तद्वन् मुनेः कविवरैर् अपि संस्तुतस्य
न क्षीयते गुणनिधिर् गुणसागरस्य॥ २४ [20]॥
स्तुत्वा लोकगुरुं महामुनिवरं
सद्धर्मपुण्योदधिं
निर्द्वन्द्वं हतरागदोषतिमिरं
शान्तेन्द्रियं निस्पृहम्।
यत् पुण्यं समुपार्जितं पृथु मया
तेनाशु लोको ऽखिलः
प्रत्यूषस्तुतिहर्षिते दशबले
श्रद्धां परां विन्दताम्॥ २५ [24]॥
सुप्रभातस्तवः समाप्तः॥ ॥
कृतिर् इयं राज्ञः श्रीहर्षस्य॥॥।
(4)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project