p.1
महापण्डितश्रीशून्यसमाधिवज्रपादानां
भगवतः श्रीहेवज्रस्य गुणस्रग्धरानामस्तुतिः
नमः श्रीहेवज्राय।
स्वर्गे स्वर्गेशमन्त्री-सममतिविभवोऽपि क्षमत्वान्न नोतुं
पाताले पन्नगेन्द्रो न हि बहुरसनो वक्तुमीश[स्]स्तुतिन्ते।
मर्त्ये मर्त्यः सुधीः सत्(द्)गुणमभिगदितुं सक्षमो न क्षमोऽलं
वक्ष्येऽहन्ते तथापि स्तुतिमतिविकलां भक्ति युक्तिप्रयुक्ताम्॥१॥
बुद्धाः संबुद्धपुत्रा वरकुलिशकराः श्रावकाः खड्गबुद्धा
देवा गन्धर्वसिद्धोरगमयुमुनयो यक्षरक्षोऽसुराश्च।
स्तुत्वा सम्यक्स्वशक्त्या दशबलबलिनं त्वां समभ्यर्चयन्ति
श्रीम(मा)न्पूजो(ज्यो) गुणी स्याज्जगति हि किमुत त्वादृशः सर्वशास्ता॥२॥
ब्रम्हाद्या ये मदान्धा विगतनिजबला वीक्षितत्वत्प्रभावा
हूँरावापूर्णकर्णाः कलमलितमनोवृत्तयः साध्वसार्त्त(र्त्ताः)
मुग्धास्ते पादमूले नवभिरपि रसैर्नृत्यतस्ते पतन्ति
न स्युः के सा(शा)न्तचिन्ता महाति परिभवस्थानमज्ञाय नाथ॥३॥
मुक्त्वा मूर्त्तिम्महार्हाञ्जननयनहरा(रां) लक्षणैर्लक्षिताङ्ग-
दुष्टानां त्रासहेतोर्भयद भयंकरं रौद्ररूपं बिभर्षि।
प्रज्ञोपायैकरूपं प्रकटयितुमिदं मण्डले ब्रह्मचर्यं
चर्याचर्येण वज्रिन्ननु चितमपि सन्दर्श्यते द्राक्तयार्या॥४॥
p.2
ज्ञान(ना)दर्शेन धर्मान् व्यवहितपिहितो दूरगान् पश्यसि त्वं
सोऽयं वैरोच[न]स्ते स्वपरहितरतो बुद्धरूपः(प)स्वरूपः।
साम्यज्ञानेन बुद्धान् दिशि दिशि विदितान्वीक्षसेऽभिन्नरूपा(पाँ)-
स्तं ते श्रीरत्नराजतनुवचनहृदास्ते दद्ववा(?)रिरूपः॥५॥
यावन्तः सन्ति धर्म्मा मतिपरमयथास्कन्धधात्वादिरूपाः
शश्वत्तांस्तावतोऽपि क्षणमसमतया तेन सन्निश्चिनोमि।
ज्ञानं यत्सत्तृतीयं जिनहितजननं प्रत्यवेक्षाभिधानं
श्रीमद्वागीशरूप(पं) गुणगणसदनं मोहजालैर्विमुक्तम्॥६॥
सर्वा साकाशसंस्थ(स्था)ऋतुं(तु)गतिषु गता ये चतुर्योनिजाताः
क्लिष्ट(ष्टाः) सत्वाः समस्ताः समसुखविरतास्तीव्रदुःखग्निदग्धा(:)।
तेषामर्थङ्करोषि प्रतिदिनमनुलम्भेन हेकारवज्रं
ज्ञानं यत् कृत्यकारि त्रिभवजनहितं कर्मवज्रस्वभावम्।॥७॥
अव्याघातं विशुद्धं सकलमलविकल्पापहं स्वार्थकारि
भास्वद्भास्वत्प्रभावं घनतिमिरहरं जात्यसंहारि हृष्टम्।
ज्ञान(नं) प्रत्यात्मवेद्यं शिवमसमसुखं व्यापि चित्तेशरूपं
यत्ते तेनापि नाथ प्रविशसि सततं धर्मधातुं विशुद्धम्॥८॥
एकानेकाद्यवाच्यो गगनमिव सदा शून्यतात्मा प्रपञ्चो
भावाभावव्यतीतो व्यपगतविकृतिर्व्यापको बुद्धगम्यः।
सत्सम्पद्धेतुभूतः शुभशतजनकः सुन्दरानन्दरूपः
काय[स्]स्वाभावाविकस्ते स्वपरहितकृती सर्वथा संनिधत्ते॥९॥
बुद्धक्षेत्रे विशुद्धे विविधमणिमये कूटरोहे वितत्वं
चित्रं लोकोत्तरं सन्निजकुशलबलोत्पन्नमैश्वर्यमग्रम्।
नित्यो धर्म्माधिराजो निखिलगुणनिधिः सर्ववित्सर्वशास्ता
कायः साम्भोगिकस्ते सुखयति सकला[न्] धर्म्मवर्षेण बुद्धान्॥१०॥
जातिञ्चार्यां सुबोधिं क्वचिदतिविमलत्वधचक्रस्मृतिं(?) वा
कुर्वन्सत्त्वार्थहेतोः क्वचिदपि च पुनर्दर्शयन्नात्मभावम्।
p.3
व्यापी सन्विश्वरूपत्रिभुवनहितकृत्साधु देदीप्यमानः
कायो नैर्माणिकस्ते दव इव कुरुते सर्वसत्त्वार्थमेव॥११॥
बुद्ध(द्धः) पाशैः प्रगाढं गज(?)निगडयुतैः सर्प्पपाशप्रकाशैः
सम्यक्सङ्कुञ्चिताङ्गंः[सु?]कमठ इव सुश्लीत(श्लिष्ट)संसक्तदन्तः
भूयः स्वेदोर्द्ध्वदेहः खररविकिरणैः सुप्रतप्तो यथा ते
नामोद्ग्राहेण भक्त्या भवति सुखयुतः पाणिमुक्तो महात्मन्॥१२॥
स्फुर्त्वा रोद्धान्तवह्नेः स्फुटविकटफणाटोपभीष्माद्वयस्ते
आनाकता(काल्)लोललोलाद्विषमविषभृतो भास्वतो भीमभोगात्।
सन्ध्यान्ता रक्तवक्त्रादतिविपुलचलद्वृत्तरक्तोज्ज्वलाक्षात्
सर्प्पात्संसर्प्पतोऽङ्गे भवति गत[सु?] यस्त्वामनुस्मृत्य भक्तः॥१३॥
स्फूर्ज्जज्वालाकरालैः कनः(फण)निकरक रप्रस्फुलिङ्गप्रकीर्णै-
रुद्दामोद्धूमधूम्रैः परमबलबलङ्गर्ज्जदन्दान्दिघोषैः।
दावादौ दीनचेता दह[न?]समुदय(यैर्)दह्यमानोऽपि दीप्तै-
र्ध्यायंस्त्वां श्रद्दधानो भवति गुणनिधे वक्ति मुक्तोऽक्षताङ्गः॥१४॥
दुव्वरि दूरपारे खरलवणजल(ले) लोलकल्लोलमाले
व्यालोलव्यालकीर्णे वरमकरकराघातचञ्चातु(ञ्चत्त)रङ्गे।
दुर्ग्राहग्राहगुप्ते शिशुकमतशिते चक्रनक्रोरगेऽध्वा -
मज्जत्सत्पोतपन्नस्तव गुणगणनान्निर्व्यथः पारेमेति॥१५॥
बभ्रुभ्रुश्मश्रुपक्ष्मभ्रुकुटिल[मनि?]शं खे ललद्रक्तनेत्रो
व्यात्तास्यो लोलजिह्वाज्वलदनलकचो दुष्टदंष्ट्राकरालः।
मुण्डाली-मण्डिता-संमुखकुहरगलल्लोहितोऽट्ट(ट्टा)ट्टहासः
क्रव्यादायानपि द्राक्प्रतिमुखमपयात्येव लिप्यानतस्ते॥१६॥
नानानाराचवर्षैर्विशिखहतहये दत्तकुन्तप्रहारे
संनाहोद्गीर्णसप्तार्च्चिषि कनय(क)कषात् खड्गकृत्तोत्तमाङ्गे।
चक्रच्छिन्नेभकुम्भक्षतजकृत सरित्स्रोतसि क्रुद्धयुद्धे-
द्विच्छिः सम्वेष्टितो यः स्तुतिपरिपठनान्नाथ ते मुच्यतेऽसौ॥१७॥
p.4
वाताली पूतवल्लीदलितशिखिदला पादप(पा)न्नामयन्ती
क्षोदक्षोभातिरुद्धा खरपरुषशिलासङ्करासारकर्त्री।
पाथः प्रोल्लासयन्ती धरणिधरशिरः पातयन्ती प्रयाति
स्वामिन्शान्तिन्तवोक्तात्प्रण वपदनमस्कारयुक्तस्य नाम्ना॥१८॥
कान्तारे कण्टकाङ्के विषमखरशिलाकर्क्कशे दुर्ग्गमार्ग्गे
चण्डाच्चञ्चच्छटाग्रात् मधुरमृगपलग्राष(स)पुष्टाङ्गयष्टेः।
वीराद् व्यान्ताननान्तद्रुतमभिरस(भिसर)तो दारुणादुग्रदंष्ट्रो-
न्न(र्न)स्यात्त्वां ध्यायतो भीर्भवभयशमनः कस्त्वदन्योऽस्ति लोके॥१९॥
काम्ये काम्ये कडारैर्बलिभिरति वरैरर्च्चयित्वोपहारै -
रर्च्चान्ते पुस्तकं वा विधिलिखितपदं ये नमस्यन्ति नित्यम्।
ते स्वर्गे सुन्दरीभिः सुरसरिति सुखं नर्द्द(र्त्त)ने वा [र?]मन्ते
पूज्ये पूजाः प्रयुक्त(क्ताः) विधिवदनुदिनन्नाथ नूनं फलन्ति॥२०॥
देवेन्द्रो देववृन्दस्फुटमणिमुकुटोत्घृष्टपादारविन्दः
प्रासादे वैजयन्ते स्फुरु(र)दुरुकिरणा(णो) रत्नभारङ्जिताङ्गः।
पश्यन्शच्यास्यचन्द्रन्ततवित[त]युतां गीतिकां साधु शृण्वन्
भक्त्या त्वत्पादपङ्केरुह-नुति-करणान्नाथ के [?] सदास्ते॥२१॥
मान्धाता धर्मधाता सुरभुजगनृणां सम्मतः सम्मतोऽपि
क्ष्मापालौ लोकपालप्रतिमतनुबलौ वर्ण्णिभिर्वेष्टितौ तौ।
सूतैः संवर्ण्णितौ सद्युवतिकरधुतैर्वीजितौ चामराग्रे
नाथार्च्चायोगतस्ते बहलवररतौ रेजतुल्लत्वराज्यौ(?)॥२२॥
बल्यागारोरगाग्राग्रिममणिकिरणालक्तकारक्तपादौ
निश्वासोद्वान्तवह्निः फणमणिकिरणद्योतिताशाविकाशः।
शेषोऽशेषोरगेन्द्रः सजलजलधरव्योमनीलाब्जवर्ण्णः
पृथ्वीम्पृथि(थ्)वीं सपाथोनि धिसि(सु)रसरितं त्वत्प्रभावाद्बभर्त्ति॥२३॥
ये त्वा निन्दन्ति मूढा अविदितपरमार्थास्तवार्यस्य शास्तु [:]
दुःखन्ते संसहन्ते दहनपचनभेदादिजं यत्तदन्ते।
p.5
गाहन्तेऽवीचिकष्टं ज्वलितरविरसापूर्णपात्र(त्रं) महोर्मी
चर्म्मादीन्सप्तधातून स्वरगतजननानद्रुतं द्रावयन्तीम्॥२४॥
लब्धा त्वन्नासनं सच्छिवममृतं(त)पदं दुःखसंघातघाति
श्रेयः सत्त्वार्थकारि प्रकृतिसुविष(श)दं दुर्लभं वन्दनीयम्।
मोहाद्यैर्लान्ति तैर्थम्मतमतिमलिनं लौकिकं दुःखदायि
क्षिप्रन्ते यान्ति नूनं विमलगुणतिरश्चाङ्गतिर्(तिं) निन्दनीयाम्॥२५॥
घोरां(रं) तीक्ष्णं विपाके विषमिव विषमन्तीव्रसन्तापकारि
स्तोकं यद्वा प्रभूतं तव घ(ध)नमतिलुब्धाः प्रमुह्यन्तिये ते।
प्रेताः स्युः सूचिकास्याः सलिलनिधिसमानोदरा दीनरेफाः
क्षुत्क्षामा निम्ननेत्रा गलमलिनतरास्तर्षशुष्कोऽस्य कण्ठाः(ठः)॥२६॥
यस्त्वन्मन्त्रं सबीजञ्जपति जयकरं वज्रवाराविविक्ते
सोऽयं गद्यैः सपद्यैः ललितपदयुतैर्वक्ति वाचं विचित्राम्।
दृश्यद्वादीन्द्रवादं शमयति शमवान् केशरीवे भदर्प्प(र्पं)
स स्याद्विश्वस्य वेत्ता जनयति जनतामात्मसाच्चारुचर्याम्॥२७॥
कल्पद्रुमः कामदुग्धोर्ग्गगनगतिरसिर्ज्जायुरार्ज्जगन्तो
दृग्भूषा भद्रकुम्भो रसनिधिगुडिका रत्नयाम्मेपचारुः।
षाण्मौनीन्द्रा अभिज्ञा बलिगृहगमने सद्गुणाख्या(?)निमाद्या
अन्याश्चापि प्रयत्नास्त(त्) तव [स]परिचरात्सिद्धयो यान्ति सिद्धिम्॥२८॥
कल्ययापालो(कल्यालापो)पशान्तम्मधुरमधुनिमित्तं(निभं)
विश्वरूपाभिधानो
योगी योगप्रभावाद् गगनतलगतं सप्तसप्तिम्नवत्वम्।
गोदावर्याः समीपे मुहुरबलगणात् स्फोटमायासभीमं
यच्छ्रीर्त्रैलोक्यगामिं विलसितमिदमेभ(भा)न्तवेशस्य सर्वम्॥२९॥
डोम्बीवज्राब्जवज्रादिभिरुरुमतिभिर्योगिभिर्योगनिष्ठैः
प्राप्ता मुद्रातिभद्रा [त]व शमशमनी हेरुक त्वत्प्रसादात्
चण्डाली-चण्डचित्ता अकुशलनिरता मारणे सम्प्रसक्ता-
स्त्वामासाद्य प्रयान्ति प्रशमपदमल(लं) लंघिताचारचर्याः॥३०॥
p.6
धारण्यो भूमयोऽर्क्का दशदशवशिताज्ञप्तयः पारगाश्च
वर्द्धन्ते ते नृपस्य प्रकृतय इव ता धर्म्मराजस्य सत्वाः।
सन्तिष्ठन्तेऽनुरक्ताः स्त्रिय इव च सदा निर्विकारा गुणाढ्याः
श्रीमन्(त्) सङ्कल्पवृक्षे परहितनिरते सम्पदः संविशन्ति॥३१॥
मैत्र्याद्यैरप्रमाणैर्जगदिदमखिलम्वीक्ष्यसे नाथ नित्यं
तानि त्वत्तच्च नैवोपलभस उरुसत्वोऽविकल्यांशि शश्वत्।
सत्त्वेभ्यो धर्मवर्षञ्जनयसि न च तान् पश्यसि त्वं कदाचि -
च्चिन्तारत्नां(त्नं) जगद्भ्यः प्रदिशतिवसु तन्निर्विकल्पं यदिष्टम्॥३२॥
त्वम्मे माता पिता त्वं शरणमपि महत् त्वं प्रभु[स्]त्वं हि शास्ता
च्छेत्ता त्वं सर्वदोषांस्तरुणकरुणया नाथ विश्वस्य जन्तोः।
संसारे संसरन्तं व्यसनशतशरैर्भिद्यमानं विमानं
मासं पुण्यं पवित्रं परमसुखकरं प्रापयाज्ञाय मोक्षम्॥३३॥
कृत्वा नाथ स्तुतिन्ते सकलकलिमलक्षालनैकक्षमान्तां
यन्मे पुण्यं प्रसूतं हरहसनहसं कुन्दचन्द्रांशुशुभ्रम्।
भूयात्तेनाशु नाथस्त्रिभवभवजनो हेरुकः श्रीनिवासः
सम्यक्सत्त्वार्थकारी गुरुगुणधनधामा महाधर्म्मराजः॥३४॥
समाप्तेयम्भगवतः श्रीहेवज्रस्य गुणस्रग्धरानामस्तुतिः।
कृतिरियं महापण्डितश्रीशून्यसमाधिवज्रपादानामिति॥
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project