p.1
आचार्यश्रीमद्-अललवज्रपादानाम्
सहजद्विभुजहेवज्रसाधनम्
नमः श्रीहेवज्राय
स्वचित्तं सर्वदं सर्वं गुरुं हेवज्रवज्रिणम्।
प्रणम्य योगिनीचक्रं सहजं किञ्चिदुच्यते॥१॥
चित्तं प्रकृतिविशुद्धं स्थिरचलभावस्वभावमिति विमलम्।
ग्राह्यग्राहकविरहितमनु पममजमद्वयखश(स)मम्॥२॥
तदेवाचैत्तं सुगताः ससुताः क्रोधाश्च सर्वदेवत्यः।
चित्तं चैतत्त्रिभवं सममिति लोकः सुखी भवतु॥३॥
नोच्छेदि विश्वं खसमं स्वभावा -
दतोप्यलग्नं सदपति धर्मि।
स्यात्भ्रान्तिमात्रं सकलार्थकारि
ज्ञानस्वभावादुपलभ्यते च॥४॥
आद्यन्तद्वयभाग कल्पविगमादामूलमुन्मूलितम्
बाह्यान्नास्ति पुनर्मनो भ्रमवशात् जातञ्जगच्चित्रं(त्र)वत्।
म्रक्षेपापचयेन निर्जितमिति स्वच्छं बुधाः सेव्यता -
मज्ञानाञ्च(च्च) भवो जिनैः शम इति प्रोक्तं परिज्ञावताम्॥५॥
रूपादयोऽत्र प्रतिभान्ति येऽमी
शान्तस्वभावसुमनः प्रसूताः।
p.2
ते देवताकारवतोपभुक्ता
बुद्धत्वलक्ष्मीफलदा भवन्ति॥६॥
भवशमत्वं स्वमनो जिनत्वं
बोध्यङ्गतां(ता) क्लेशगणश्च यत्र।
प्रयाति तत्र क्रियतां प्रवेशः
सर्वज्ञ मार्गेऽतिसुनिर्मलेऽस्मिन्॥७॥
अविद्यावासनाबद्धं चित्तं [बद्धं] प्रकीर्तितम्।
तदेव वासनामुक्तं मुक्तमित्यभिधीयते॥८॥
बन्धमोक्षविनिर्मुक्तं चित्तं विभ्रमवर्जितम्।
सदसद(दु)भयान्यत्वैर्यतो मुक्तमकल्पितम्॥९॥
स्वकल्पवासनायोगात् साम्वृ[त]पदवस्थितम्।
शून्यताकरुणागर्भं बोधिचित्तं तदेव च॥१०॥
पारम्परम्परान्नेतुं दुःखाद्धेनोरिव स्थितम्।
चिन्तामणिरिवाशेषसमीहितफलप्रदा॥११॥
वाताग्निजलभूम्यूर्द्ध्वं पद्मेन्दुचिह्नबीजतः।
जगाद मण्डलं वज्री बालानां तन्न तत्त्वतः॥१२॥
उत्पन्नमण्डलं सिद्धं श्रीमद्धेवज्रवज्रिणः।
संशुद्धस्कन्धधात्वादिदेवतावृन्दसंयुतम्॥१३॥
सिद्धं खधातुपद्मेन्दो[:] शान्तमक्षररूपं(प)कम्।
असत्संकल्पनिर्मुक्तं भगज्ञानस्वभावतः॥१४॥
तदुद्भवं जगत्सर्वमुत्पत्तिक्रमपक्षतः।
अवाच्याद्धेतुरूपः स्यात्सुदृढं फलरूपि च॥१५॥
प्रस्फुरद्रश्मिसुव्यक्तं जगत्स्थिरचलात्मकम्।
अचिन्त्यानन्तनिर्माण(णं) सर्वबुद्धगुणालयम्॥१६॥
p.3
अतस्तदेव संपूज्य बाह्याभ्यन्तरपूजया।
समुपभुज्यते रूपं गन्धः स्पर्शो रसो ध्वनिः॥१७॥
यदेवमादिकं सर्वं पूजा बाह्या निगद्यते।
यथाभूत परिज्ञानं पूजा बाह्या त्रिवज्रिणाम्॥१८॥
मनसः कालिक(कं) कर्म हानिरित्यघदेशना।
शुभे धर्मे प्रवृत्तिश्च पुण्यानाञ्चानुमोदना॥१९॥
सम्यक्सन्मार्गस्याश्र यणघातं [?]।
कायवाक्चित्तसंशुद्धिः शुद्धं त्रिशरणं मतम्॥२०॥
बोधिचित्तसमुत्पादो जगदर्थोद्यतं मनः।
स्वचिह्नं तदिदं सर्वमित्येवं मुनिनोदितम्॥२१॥
तेनेष्टपुत्रवत्मैत्री स्थिता सत्त्वे स्वभावतः।
दुःखाद्दु(द्दुः)खस्य हेतोर्वा स्वपरोद्धर्तुकामता॥२२॥
करुणा करुणा सापि स्वाभाविको(का)वसंस्थिता।
अन्येषां सुखलाभेन सुखत्वं यत्तु जायते॥२३॥
अकामम्मनसोऽजस्रं प्रमोदो मुदिता मता।
जगदर्थं प्रतिज्ञातं कर्तुमुपायचिन्तनात्॥२४॥
अर्थान्तर परित्यागादुपेक्षा परिकीर्तिता।
अथ शून्यमस्वभावं जलचद्रोपमञ्जगत्॥२५॥
प्रतीतिजं जगत्प्राह वर्जितं तुर्यकोटिभिः।
नि[:]स्वभावतया शून्यं निमित्तं [त]महेतुतः॥२६॥
ऊर्ध्वस्यापगमात् सर्वं जगत्प्रणिधिवर्जितम्।
कृत्रिमकल्पनानाशादनभिसंस्कृतलक्षणम्॥२७॥
अतः स्कन्धादिकं शून्यमाद्यनुत्पन्नरूपतः।
तस्मात् सहजरूपेण शून्यताबोधिरग्रतः॥२८॥
p.4
अज्ञानमितिरध्वन्सि सम्यक्ज्ञानमहा[र]वौ।
चित्तमात्रमक्षरं शुद्धं सिद्धं तदुद्भवं स्फुटम्॥२९॥
अनन्ताकाशपर्यन्तदिक्प्राकारशोभितम्।
वज्रमयी महीमध्ये व्योमपञ्जरमध्यगम्॥३०॥
अनादिनिधनं शान्तं स्वच्छं त्रिभवमण्डलम्।
तत्र मध्यस्थितं श्चि(चि)त्तवज्रधृगविकारिणम्॥३१॥
स एव सहजः प्रोक्तो द्वितीयं बीजसङ्ग्रहम्।
स्वचिह्नबीजनिर्जातो हेयोपादेयतत्त्ववित्॥३२॥
तृतीयं बिम्बनिष्पत्तिरित्याह तत्त्ववित् स्वयम्।
तत्र देव[ता] यच्छान्तं स्थितं चित्तं स्वभावतः॥३३॥
बीजमनाश्रितं तुर्यमक्षरन्यासमेव तु।
शून्यताकरुणाजातः प्रज्ञोपायाद्वयात्मकः॥३४॥
जगद्द्विभुजहेवज्रः स्थितः सहजरूपतः।
तथाष्टावष्टदिक्वक्रे योगिन्यः काममूर्त्तयः॥३५॥
तास्वार्याष्टाङ्ग मार्गस्य स्वभावैर्म्मनस(सि) स्थिताः।
प्रज्वलत्सुप्रभालोकव्यक्ताशेषनिरालयः(याः)॥३६॥
तस्य हृद्बीजसंभूतदीप्तिपूरितदिङ्मुख -।
खद्योता इव लक्ष्यन्ते व्युदिताः सूर्यकोटयः॥३७॥
यस्यास्य वाताततिवेपितानि
क्षेत्राण्यनन्तानि जिनाश्रयाणि।
तेषां रजोभिः प्रमितानि तानि
स्रोन्ती नयत्वश्रियमावहन्ति॥३८॥
एवंविधं स्थिरं व्यक्तं सिद्धं सर्वमिदं जगत्।
आदर्शस्थमिव स्वच्छं पश्यन्नादर्श उच्यते॥३९॥
p.5
समत्वं चैकरूपत्वात् स्वान्ययोः समता मताः(ता)।
प्रस्फुटाकारसद्रूपस्येक्षणात् प्रत्यवेक्षणा॥४०॥
तद्वत्कुर्वन् ज[ग]त्कृत्यं कृत्यानुष्ठानमुच्यते।
जातो यः सहजाकारः क्लेशज्ञे यावृतेः क्षयात्।
सर्वदा सुविशुद्धाख्यो धर्मधातुरिति स्मृतः॥४१॥
इत्थं चित्तं स्वभावं तद्यज्जग[त्] किञ्चिदीक्षते।
प्रवेशो ज्ञानसत्त्वस्य ज्ञानाज्जगदभेदतः॥४२॥
ज्ञानामृतमयः सेकाच्चित्तमेकञ्च लक्षयन्।
स्वाधिपाक्रान्तमौलिः स्यात् ज्ञानस्य ज्ञानमुद्रणा॥४३॥
स्वाकारधारणाद्धर्म्मः कायः स्वाभाविको मतः।
विश्वोपभुञ्जनं कामं कायः संभोग उच्यते।४४॥
निर्मिणोति जगद्यस्मात् कायो निर्माणसंज्ञकः।
अविद्याक्षयात्कायोऽयं महासुख इति स्मृतः॥४५॥
इत्थं मण्डलचक्रमेतदि(द)खिलं त्रैधातुकनिर्मल(कैर्निर्मलं)
पुण्यज्ञानमयं विचित्रं(त्र)मनघं शुद्धं स्वभावादिदम्।
सत्त्वाचिन्त्यमहासुखोत्सवरसैः पूर्णं किमप्यद्भुतं
निःशङ्कं भव भुंक्त निर्मममिदं चेतस्त्वया निर्मितम्॥४६॥
सिद्धिमद्वयचिद्रूपहेतुशून्यमरूपि च।
न स्थितं क्षाय्यजातत्वाद्विश्वं श्रीहेरुकी यति॥४७॥
अधुना कथ्यते शुद्धिः कायादीनां विशोधना।
सर्वेषां खलु वस्तूनां विशुद्धस्तथता मता॥४८॥
अतः शुद्धाः स्वतः स्कन्धायतनेन्द्रियधातवः।
भवेदष्टदलं पद्ममैश्वर्यादष्टभिर्गुणैः॥४९॥
तिरस्करोति यतो नित्यं तेजसा त्रिभवं समम्।
तद्विशुद्ध्या कथ्यतेऽसौ सूर्यस्योपरि संस्थिताः॥५०॥
p.6
धर्मधातुस्थितत्वेन गतप्राणोत्तमा मनः।
जगत्सहजरूपत्वात् सहजाकारतया स्थितः॥५१॥
अनित्यताजगद्दग्धः तस्माद्धूलितविग्रहः।
पञ्चाशत्वर्णमालाभिर्मुण्डमालाविभूषितः॥५२॥
पञ्चबुद्धस्वभावत्वात् पञ्चमुद्रासमन्वितः।
जगत् ज्ञानैकरूपत्वादेकाकारतया स्थितः॥५३॥
भवनिर्वाणरूपत्वादद्वयाका[र]रूपधृक्।
अभेद्यत्वाद्धृतवज्रो दक्षिणे(ण)त्वेन दक्षिणे॥५४॥
वामत्वाद्धार्यते वामे प्रज्ञा खड्गाङ्गरूपिणी।
कपालं संस्कृतं वामे कं सुखं तस्य पालनात्॥५५॥
पुण्यज्ञानस्वभावत्वाद्भुजद्वयविभूषितः।
कल्पनाक्लेशनाशाय द्वेषान्नीलकलेवरः॥५६॥
अविद्याहानये क्रुद्धस्त्रिकायत्वात्त्रिलोचनः।
सत्यद्वयस्थितत्वेन पादद्वितीयसंस्थितः॥५७॥
अर्धपर्यङ्कनाट्यस्थो विश्वमुपहसन्निव।
विश्वस्योपरि रूपत्वादूर्ध्वकेशस्वयंभुवः॥५८॥
अन्यदवयवं सर्वं सर्वबुद्धगुणैर्युतम्।
सहजत्वविरुद्धोऽयं संवरः कथ्यतेऽधुना॥५९॥
मण्डलं पादलेख(खं) स्यात् मलनात् मण्डलमुच्यते।
सर्वधर्मपरिज्ञानं पूजा प्रज्ञाग्रपूजनम्॥६०॥
हस्तविक्षेपणं मुद्रा ध्यानं सहजचिन्तनम्।
स्तुतिगीतादिकं कृत्यं संकल्ल्य त्यजनं बलिः॥६१॥
श्रुवाकारस्तु कुण्डाग्निर्भक्षणं होम उच्यते।
प्रज्ञाजलसुधापानं जपं जल्पनमुच्यते॥६२॥
p.7
मनस्तु त्राणभूतत्वात्तन्मन्त्रमिति कीर्तितम्।
भ्रमणं तस्य सत्त्वार्थो वचनदेशना मता॥६३॥
कराख्या कर्ममुद्रा स्यात् धर्ममुद्रा भुजाः स्मृताः।
स्वाभा समयमुद्रा तु महामुद्रा निरुत्तरा॥६४॥
वायुजपोऽथ मैत्र्यादिरा कृतिर्वीतरागता।
यथाभिमतध्यानञ्च चित्तस्य स्थैर्यकारकम्॥६५॥
स्वप्नज्ञाने सुखध्याने निद्रायाः समदर्शने।
चक्षुरादौ मनो न्यस्तं स्थैर्यमेति सुनिश्चितम्॥६६॥
विश्ववज्रं सुखाकार एकतत्त्वार्थदीपकम्।
गत्यागतिरथारूढमचिन्त्यमुपदेशतः॥६७॥
श्रीमदललवज्रेण योगिणीतन्त्रगोपितम्।
पञ्चविधक्रमोद्देशं लेशमत्रैव सूचितम्॥६८॥
अतिगाढतरारोपात्स्फुटरूपस्य योगिनः।
कायवाक्चित्तवज्रं कर्मसंकल्पानकृतमतम्(?)॥६९॥
समीक्ष्य मृत्युं प्रियविप्रयोगं
व्याधिं जराकर्मविपाकमुग्रम्।
नित्यं जना निश्चलचित्तवृत्त्या
स्वदेवता भावयत प्रयत(त्)नात्॥७०॥
श्रद्धां च वीर्यंस्मरणं समाधि -
प्रज्ञां सदा रक्षतपञ्चधर्मान्।
व्यापादकामोद्धतसंशयाख्यान्
मिद्धञ्च पञ्चापि विवर्ज्जयध्वम्॥७१॥
नन्दिपादाज्ञया स्वल्पं लिखितं सिद्धसाधनम्।
तेनार्यवज्रयोगिन्यः क्षमा कुर्वन्तु मे सदा॥७२॥
p.8
यदत्रोपचित(तं) पुण्यं लिखनात् साधनस्य मे।
तेनाऽस्तु निखि[लो] लोकः श्रीमद्धेवज्ररूपकः॥७३॥
इति सहजमचिन्त्यैकान्तमाद्यन्ततु(त)स्थं
गगननगरकल्पं मण्डलं विश्वमेतत्।
भवशमसमरूपिप्रस्फुटं निःस्वभावम्
प्रभवतु भवभाजां सर्वसम्पत्तिहेतोः॥७४॥
इति सहजद्विभुजहेवज्रसाधनं समाप्तम्।
कृतिरियमाचार्यश्रीमदललवज्रपादानाम्॥
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project