सम्बन्धपरीक्षा
नमो वीतरागाय॥
पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता।
तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति भावतः॥१
रूपश्लेषो हि सम्बन्धो द्वित्वे स च कथं भवेत्।
तस्मात् प्रकृतिभिन्नानां सम्बन्धो नास्ति भावतः॥ २
परापेक्षा हि सम्बन्धः सो ऽसन् कथम् अपेक्षते।
संश् च सर्वनिराशंसो भावः कथम् अपेक्षते॥३
द्वयोर् एकाभिसम्बन्धात् सम्बन्धो यदि तद्द्वयोः।
कः सम्बन्धो ऽनवस्था च न सम्बन्धमतिस् तथा॥४
(1)
तौ च भावौ तदन्यश् च सर्वे ते स्वात्मनि स्थिताः।
इत्य् अमिश्राः स्वयं भावास् तान् मिश्रयति कल्पना॥ ५
ताम् एव चानुरुन्धानैः क्रियाकारकवाचिनः।
भावभेदप्रतीत्यर्थं संयोज्यन्ते ऽभिधायहाः॥ ६
कार्यकारणभावो ऽपि तयोर् असहभावतः।
प्रसिध्यति कथं द्विष्ठो ऽद्विष्ठे सम्बन्धता कथम्॥७
क्रमेण भाव एकत्र वर्तमानो ऽन्यनिःस्पृहः।
तदभावे ऽपि तद्भावात् सम्बन्धो नैकवृत्तिमान्॥ ८
यद्य् अपेक्ष्य तयोर् एकम् अन्यत्रासौ प्रवर्तते।
उपकारी ह्य् अपेक्ष्यः स्यात् कथं चोपकरोत्य् असन्॥९
यद्य् एकार्थाभिसम्बन्धात् कार्यकारणता तयोः।
प्राप्ता द्वित्वादिसम्बन्धात् सव्येतरविषाण योः॥ १०
(2)
द्विष्ठो हि कश्चित् सम्बन्भो नातो ऽन्यत् तस्य लक्षणम्।
भावाभावोपधिर् योगः कार्यकारणता यदि॥ ११
योगोपाधी न ताव् एव कार्यकारणतात्र किम्।
भेदाच् चेन् नन्व् अयं शब्दो नियोक्तारं समाश्रितः॥ १२
पश्यन्न् एकम् अदृष्टस्य दर्शने तददर्शने।
अपश्यन् कार्यम् अन्वेति विनाप्य् आख्यातृभिर् जनः॥ १३
दर्शनादर्शने मुक्त्वा कार्यबुद्धेर् असम्भवात्।
कार्यादिश्रुतिर् अप्य् अत्र लाघवार्थं निवेशिता॥ १४
तद्भावभावात् तत्कार्यगतिर् याप्य् अनुवर्ण्यते।
सण्केतविषयाख्या सा सास्नादेर् गोगतिर् यथा॥१५
(3)
भावे भाविनि तद्भावो भाव एव च भाविता।
प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः॥ १६
एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः।
विकल्पा दर्शयन्त्य् अर्थान् मिथ्यार्था घटितान् इव॥ १७
भिन्ने का घटना ऽभिन्ने कार्यकारणतापि का।
भावे ह्य् अन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ॥ १८
संयोगिसमवाय्यादि सर्वम् एतेन चिन्तितम्।
अन्योन्यानुपकाराच् चन् न सम्बन्धी च तादृशः॥१९
जनने ऽपि हि कार्यस्य केनचित् समवायिना।
समवायी तदा नासौ न ततो ऽतिप्रसङ्गतः॥२०
(4)
तयोर् अनुपकारे ऽपि समवाये परत्र वा॥
सम्बन्धो यदि विश्वं स्यात् समवायि परस्परम्॥ २१
संयोगजनने ऽपीष्टौ ततः संयोगिनौ न तौ।
कर्मादियोगितापत्तेः स्थितिश् च प्रतिवर्णिता॥२२
संयोगाद्याश्रये योग्यं अयोग्यं तच् च जायते।
नित्ययोग्यस्वभावस्य तद्वैकल्यविरोधतः॥२३
इति तद्योग्यतावाच्यः स्वभावो ऽस्य निरुच्यताम्।
विभागयोगगतिभिः किम् अन्यैर् गमनादिभिः॥ २४
तेषु सत्स्व् अपि तस्येति सम्बन्धस्याप्रसिद्धितः।
युक्तः स्वभावभेदो ऽयं तत् प्रतिक्षणजन्मनाम्॥२५
सम्बन्धपरीक्षाकारिका समाप्ता॥॥ कृतिर् आचार्यधर्म-
कीर्तिपादानाम्॥॥
(5)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project