आलोकमाला नाम इदम्
॥ नमो बुद्धाय॥
1. अज्ञानत्रयनाशाय स्वभावत्रयभावना।
नमस् तस्मै मुनीन्द्राय येनोक्ता चित्तमात्रता॥
2. उक्तः प्रपञ्चस् त्रिभवान्तकेन
संक्षेपतश् चित्तविकल्पमात्रम्।
तच् चेद् अपास्तं हृदयाद् अशेषम्
अस्तश् च जन्मप्रतिसंधिबन्धः॥
3. भवमोक्षपरिज्ञानात् तत्त्यागाप्तिफलोदयः।
सर्वेषाम् एव सुधियाम् अध्यात्माध्यययनश्रमः॥
(1)
4. रागादिमलिनं चित्तं संसारस् तद्विविक्तता।
संक्षेपात् कथितो मोक्षः प्रहीणावरणैर् जिनैः॥
5. रागः स्वचित्तसंकल्पस् तमो द्वेषश् च देहिनाम्।
धर्मा ये ऽप्य् अपरे बालैः कल्पिता वितथात्मभिः॥
6. परमार्थविकल्पे ऽपि नावलीयेत पण्डितः।
को हि भेदो विकल्पस्य शुभे वाप्य् अशुभे ऽपि वा॥
7. नाधारभेदाद् भेदो ऽस्ति वह्नेर् दाहकतां प्रति।
स्पृश्यमानो दहत्य् एव चन्दने ज्वलितो ऽप्य् असौ॥
8. सर्व एव प्रहातव्यः परिकल्पो ऽलको ऽपि हि।
हृदये ऽभिप्लवायैव भ्रान्तिरूपा हि कल्पना॥
9. भ्रान्तिर् अप्य् अविशुद्धत्वाद् इन्द्रजालविजृम्भितम्।
इन्द्रजालम् अपि ज्ञेयं चित्तविभ्रममात्रकम्॥
(2)
10. इति चित्तस्य तस्याश् च भ्रान्तेर् अद्वयदर्शिता।
मध्यमा प्रतिपत् सैव सैव धर्मनिरात्मता॥
11. भूतकोटिश् च सा सैव तथता सैव शून्यता।
समता सैव सा मुक्तिः सैव विज्ञप्तिमात्रता॥
12. सर्वधर्मान्तरे सत्त्वान् न दूरे नापि चान्तिके।
तथताकृच्छ्रसंबोधाद् रूपम् अस्या न रूप्यते॥
13. स्वसंवेद्या तु सा सौक्ष्म्याद् बुद्धानां सूक्ष्मदर्शिनाम्।
मादृशैः स्वाश्रयस्थापि स्थूलधीभिर् न दृश्यते॥
14. दूरसंज्ञी भवेन् मोक्षे न कथं चन योगवित्।
शून्यः कल्पितरूपेण दृष्टः स्वात्मनि निर्वृतिः॥
15. सूर्याम्बुतिमिरस्वप्नगन्धर्वनगरादयः।
भ्रान्तयो ऽप्य् उपकाराय भ्रान्त्यन्तरनिराकृतेः॥
(3)
16. तैस् तैर् विषयसंकल्पैर् दिवा विभ्रमितात्मनाम्।
गाढं स्वप्ने ऽपि तद्वेगाद् विषमं वासनाविषम्॥
17. अहो मिथ्याविकल्पस्य संतानस्यातिसान्द्रता।
गण्डस्येवोपरि स्फोटः स्वप्ने स्वप्नान्तरं पुनः॥
18. अभूतं ख्यापयत्य् अर्थं भूतम् आवृत्य तिष्ठति।
अविद्या जायमानैव कामलातङ्कवृत्तिवत्॥
19. अभिन्नम् अपि भेदेन बहिश् चाप्य् अबहिर्गतम्।
विषयाकारकलुषं ख्याति चित्तम् अनेकधा॥
20. सूर्याचन्द्रमसौ व्योम ताराचक्रं वसुंधरा।
सरित्सागरदिक्शैलाश् चित्तस्यैता विभूतयः॥
21. त्रैधातुकम् इदं यावद् आभवाग्रपरिच्छदम्।
सर्वम् एव यद् आख्याति विज्ञानविषविप्लुषः॥
(4)
22. यदि खयाति कथं नास्ति ख्यातिः केनासदात्मका।
न सत्त्वं ख्यातितः ख्याति स्वप्ने किं तु न दृश्यते॥
23. प्रच्छादितात्मनिर्वेधाः कलङ्कैर् उपधानजैः।
पररूपेण भासन्ते स्फटिका इव बुद्धयः॥
24. संस्कारवासनालेपे न दृश्यो ऽपि स्वभावतः।
प्राप्यैवोपचयं काले विकल्पो दृश्यतां गतः॥
25. एकम् अपि द्विधा ख्याति चित्तम् आकारविप्लवात्।
ग्राह्यग्राहकभेदेन कथम् अप्य् अतिकौशलात्॥
26. ग्राह्याकारो निरीहत्वाद् बहिर्वद् अवभासते।
ग्राहकस् तु सजीवत्वात् पुनर् अन्तः स्फुरन्न् इव॥
27. नात्र किं चिद् बहिर् नान्तर् इतरेतरसिद्धितः।
नान्तराले न नास्त्य् एव चित्तमात्रव्यवस्थितेः॥
(5)
28. रागो हि नेन्द्रियग्रामे नैवार्थेषु न चेतसि।
न परस्थो न चात्मस्थो नापि सन् नाप्य् असन्न् असौ॥
29. अविभावितसम्बन्धकारणाच् चित्तविभ्रमात्।
कुतो ऽप्य् अब्दधिविवराद् वज्राग्निर् इव जायते॥
30. एवं द्वेषश् च मोहश् च याश् चान्याः क्लेशजातयः।
धातुत्रयविसर्पिण्यः कल्पनाविषसंभवाः॥
31. कल्पनापि निराधारा नैवास्ति परमार्थतः।
ज्वलन्ती व्योम्नि किं दृष्टा केन चिद् अग्निनाशनी॥
32. कथितः प्रतिपक्षो ऽपि मुनीन्द्रेणाशुभादिकः।
शङ्काविषविनाशाय तज्ज्ञैः कुहकमन्त्रवत्॥
33. न कुन्दम् उत्पलाद्य् अस्ति न पुरीषाद्य् अवस्तुके।
स्वप्नवृत्ताव् इव स्त्रीणां जाग्रद्वृत्तेः कलेवरे॥
(6)
34. इति मत्वा द्वयं मिथ्या रागो वैराग्यम् एव च।
न क्व चिद् भिन्नमुष्टित्वाद् रज्यते न विरज्यते॥
35. वैराग्यं यस्य रागो ऽपि तस्य निःसंशयं पुनः।
तस्माद् रागप्रहाणाय वैराग्यम् अपि न स्पृशेत्॥
36. अहो लोकाद् अतीतस्य मार्गस्यास्य विविक्तता।
यत् सत्यपदम् अन्यत्र तद् एवेह मृषापदम्॥
37. भूतम् अप्य् उपघाताय यद् उक्तं स्यान् मृषैव तत्।
सत्यासत्येन को ऽर्थार्थस् तत् सत्यं यात् परार्थकृत्॥
38. सत्यस्य सत्यतो ज्ञानं सत्यम् आहुर् मनीषिणः।
सत्यं त्व् असत्यतः पश्यन् न सत्ये व्यवतिष्ठते॥
39. बाललोकस्य वचसाम् असत्यं सत्यतो वरम्।
यातव्यस्य धियो ऽतत्त्वात् सर्वस्यान्ते तदात्मता॥
(7)
40. इति तावन् मृषा सर्वं यावद् यावद् विकल्प्यते।
तत् सत्यं तत् तथाभूतं तत्त्वं यन् न विकल्प्यते॥
41. आहोपुरुषिकाध्मातेर् अत एव न तिष्ठते।
साधनैर् दूषणैश् चार्थो यथेष्टम् उपनीयते॥
42. महायानानभिज्ञानां श्रेयसी धन्धतैव हि।
पङ्गुतैवाध्वनष्टानां दूरनाशान् न शीघ्रता॥
43. येषां भक्तिर् महायाने सौगतास् ते परे गताः।
स्वयूथ्याश् चापि पातालम् अमार्गश्वभ्रविभ्रमात्॥
44. संप्रवृत्तौ च चित्तस्य न विचारो ऽवतार्यते।
बुद्धिसाम्याद् अशेषाणां संसारप्रहतिं प्रति॥
45. संतत्या वर्तमानो ऽसाव् अनादिनिधनात्मकः।
किंस्वभावो ऽस्तीति प्राज्ञैः संसारः परिंऋश्यते॥
(8)
46. प्रभवः प्रलयश् चैव विश्वस्यास्य कुतः क्व वा।
वासनाबीजतः स्वस्माद् आलयज्ञानसंस्थितात्॥
47. सर्वबीजकसंसिद्धिः स्वप्नमूर्च्छाप्रमत्ततः।
विज्ञप्तेश् च निरुद्धायाः समापत्त्युद्भवात् पुनः॥
48. इन्द्रियार्थोद्भवं विश्वं प्रवृत्तिज्ञानसंज्ञकम्।
अभिन्नम् आलयज्ञानात् तत्रैवालीयते पुनः॥
49. जलवत् तरलैस् तैस् तैस् तरङ्गैर् भिन्नरूपताम्।
दर्शयित्वा क्षणाद् याति पुनः स्तैमित्यसुप्तताम्॥
50. द्विधाख्यानं हि यत् तस्य तत्र युक्तेर् अगोचरः।
सहसोच्चारितस्येव शब्दस्य प्रतिशब्दके॥
51. मायाकार इवाकारान् विविधान् दर्शयन् मुहुः।
दृष्ट्वा किं चिद् रहस्यज्ञं स्वभावे व्यवतिष्ठते॥
(9)
52. नीललोहितनिर्भासम् आत्मनः कृकलासवत्।
बालानां दर्शयत्य् अन्यद् अन्यद् द्रव्यं मनीषिणाम्॥
53. रूपम् अस्य मतं स्वच्छं निराकारं निरञ्जनम्।
शक्यं च न हि तज् ज्ञातुम् अबुद्धेन कदा चन॥
54. बुद्धो हि न तथा वेत्ति यथायम् इतरो जनः।
प्रतीत्यतां तु तस्यैव तां जानाति स एव हि॥
55. वयं तु केवलं ब्रूमः पृष्ट्वा शास्त्रागमादिभिः।
जात्यन्धा इव रूपस्य गोचरत्वं सचक्षुषः॥
56. भविष्यति हि सावस्था ज्ञानाञ्जनविशेषतः।
मुनीन्द्र इव यत् सर्वं द्रक्ष्यामस् तत्त्वम् आत्मना॥
57. भाव्यते यद् यद् एवेतः पारम्पर्येण बालिशैः।
तत् तद् एव पुरः ख्याति भावनाबलनिर्मितम्॥
(10)
58. बाध्यते ऽङ्गम् अनभ्यासात् प्रवारैर् अपि संवृतम्।
तीव्रैस् तुहिनसंपातैश् चक्षुषी नेति विस्मयः॥
59. भावनायोगसामर्थ्यात् पाणिभ्यां मृदितस्य च।
चर्मणो चर्मकारस्य दौर्गन्ध्यं नातिबाधकम्॥
60. भक्षितं मरणायैव विषम् आदौ शरीरिणाम्।
तद् एवाभ्यासयोगेन भवत्य् अन्ते रसायनम्॥
61. कुतो वा भूतसंभूतिः कर्मतश् चेन् न युज्यते।
भूतानां तैर् असम्बन्धाच् चित्तस्था कर्मवासना॥
62. तेनैवाकृतिविज्ञप्तिः सौम्या सुकृतकारिणाम्।
हिंस्राणां भीषणात्यर्थं व्याग्रसिंहर्क्षभोगिनाम्॥
63. हस्तपादादिविक्षेपः कथं वा स्यात् क्रियान्तरे।
यदि न ज्ञानरूपत्वं भूतानां परिकल्प्यते॥
(11)
64. वायुना चेत् कुतो वायुः प्रयत्नात् स पुनः कुतः।
इच्छातश् चेत् तम् एवासि मार्गम् अभ्यागतो ननु॥
65. शिरःपाण्यादिभावेन पित्रोर् वा रक्तरेतसाम्।
वृद्धिः स्याद् बीजजातानां कथं च विटपात्मना॥
66. शब्दश् च मुखतः कस्मान् मृदङ्गाच् च पुनर् भवेत्।
प्रत्येककारणेष्व् अस्य स्वभावाभावदर्शनात्॥
67. खगानां गमनं व्योम्नि तिमिरे चार्थदर्शनम्।
मन्दिरे मूषकादीनां मत्स्यानां चाम्बुराशिषु॥
68. श्रवणं दर्शनं चैव भोगिनां चक्षुषोभयम्।
विरुद्धम् अन्यद् अन्येषां तथानेकेन संसृतौ॥
69. अदृष्टस्थानसंस्थाने ऽप्य् अभ्यासाच् छत्रुवेधिनः।
लक्षे ऽक्षूणेषवो वा स्युः कथं ज्ञानागतिं विना॥
(12)
70. अधीतं चाप्य् अनभ्यस्तं यायाद् अध्ययनं पुनः।
किं नाम यदि धारेव न विज्ञप्तिः प्रवाहिनी॥
71. वैषम्यं शैलजातानाम् आनन्त्यं च महोदधेः।
सूक्ष्माणुपरिणामेन को वा कुर्याद् अकर्मकृत्॥
72. कृत्वा वा शक्तिशालित्वात् स एवोन्मत्तवत् पुनः।
नाशकाले कथं नाम नाशयेच् छ्रमम् आत्मनः॥
73. अयस्कान्तोपलादीनां शस्त्राद्याकर्षणं प्रति।
मन्त्राणाम् औषधीनां च शक्तयः केन निर्मिताः॥
74. तस्माद् अज्ञानवैचित्र्यात् प्रतिटैट्टिभिविस्तरैः।
सर्वम् एव यद् आख्याति चित्तस्यैवोपनिर्गमः॥
75. कथं वा संप्रसिध्येत योगिनां कृत्स्नभावना।
स्थिररूपेषु भूतेषु भावना चान्यथान्यथा॥
(13)
76. इत्थं तु युज्यते भ्रान्तं स्फटिकाकृति नैकधा।
विसर्पि चित्तम् एवेदं वासनाम्बुनि तैलवत्॥
77. लोकविस्मयनीयेषु विस्मयं नैति कुत्र चित्।
अस्त्य् एवेति विनिध्याय निःशेषं सर्वबीजके॥
78. सन्तु तावद् अमी भावा या आख्यानं बहिर् गताः।
अस्तिता तु कथं तेषां भवद्भिर् अवधार्यते॥
79. चित्तेन चेद् अहो युक्तः प्रद्वेषः किम् अकारणम्।
यत् तद् एव तदाकारं नेष्यते वासनाफलम्॥
80. कथं वा ज्ञानम् उत्प्लुत्य गृह्णीयाद् विषयान् बहिः।
किं तद् अस्त्य् उत नास्त्य् आदाव् अस्ति चेद् विषयेण किम्॥
81. आगमाद् अर्थसंवित्तिः प्रत्यक्षे ऽर्थे किम् आगमैः।
अदृष्टे परलोकादाव् आप्तोक्तिर् अनुगम्यते॥
(14)
82. नेयार्थत्वात् तु नैवास्ति सिद्धिर् आप्तागमाद् अपि।
रूपाद्यायतनानां तु देशना चित्तगोचरा॥
83. जायमानं स्वतो बीजाद् इन्द्रियं चित्तम् एव हि।
जातं तु विषयाकारं तद् एव विषयः स्मृतः॥
84. इति बुद्ध्या विभागो ऽस्य पण्डितैः परिकल्प्यते।
अभागस्यापि चित्तस्य लोकसंवृतिसत्यतः॥
85. नेह चक्षुर् न वा रूपं नालोको न मनस्कृतिः।
स्वप्नवच् चित्तविभ्रान्त्या सर्वम् अस्ति च नास्ति च॥
86. सदसन्मित्रसंपर्काद् विशेषो यश् च संततः।
परचित्ताधिपत्येन सो ऽपि भूतग्रहादिवत्॥
87. परोपक्रमतो मृत्युः क्षणिकत्वेन नेष्यते।
किम् उतास्मिन् नये यत्र न घात्यो न च घातकः॥
(15)
88. अनिष्टकृतसामर्थ्यान् नरकेष्व् इव केवलम्।
रौद्रोपक्रमविज्ञप्तिर् भयार्थम् इह जायते॥
89. यथा ख्यान्ति तथैवेति यदि धर्माः स्वभावतः।
किं न सर्वजगन्मुक्तिर् भवेद् भूतार्थदर्शनात्॥
90. अत एव हि विभ्रान्ते जगत्य् अस्मिन् स्वयंभुवः।
कृपा भ्रान्तिव्युदासार्थं स्वस्थात्मनि वृथा भवेत्॥
91. विद्युतो गर्जितं वृष्टिर् अम्भोदाः पवनो ऽशनिः।
नाविना चित्तमात्रेण सिध्यन्ते न नभःस्थले॥
92. भावानां चेद् भवोद्भावः प्रसिद्धः कश् चिद् आत्मना।
रुचिभेदान् न सम्भेद एषां दृश्येत नैकधा॥
93. तरुणी कस्य चित् कान्ता मध्यमान्यस्य चाङ्गना।
स्थूला कस्य चिद् अन्यस्य कृशा श्यामा च कस्य चित्॥
(16)
94. जायते प्रमदाकारं चित्तम् एव यदा तदा।
सलज्जः कामयेत् कामी को नामात्मानम् आत्मना॥
95. सर्वष्व् एवेति मतिमान् स्वात्मरूपेषु सर्वदा।
विषयेषूपभोगाय न प्रवर्तेत बालवत्॥
96. गृहीत्वा पाणिना पाणिम् आत्मनः स्वप्नविभ्रमात्।
चौरः प्राप्तो मयैवेति विरटन् क्षिप्यते परैः॥
97. तिर्यञ्चः शुष्ककक्षेषु नरा नाहारसंज्ञिनः।
अहो वृत्तिर् विकल्पानाम् अचिन्त्या योगिनाम् अपि॥
98. अग्निशौचा मृगा वह्निम् अश्नन्ति विषं मूषिकाः।
विषैश् च न विपद्यन्ते जीवितान्तकरैर् अपि॥
99. मातुः स्मरणसंतानस्पर्शनिद्रासमीरणैः।
वर्तयन्त्य् अपरे सत्त्वा मीनपक्षिश्वभोगिनः॥
(17)
100. यक्षः स्वभवनाकारम् अनुजीविजनाकुलम्।
विजने कर्मवैचित्र्यात् प्लक्षे पश्यति नापरे॥
101. सकृन् मूत्राविलां प्रेता नदीं पूयपरिस्रवाम्।
मनुष्याः स्वच्छतोयौघां पश्यन्ति च पिबन्ति च॥
102. इष्टानिष्टफलाकारं कर्मभिः परिभावितम्।
तैस् तैर् विज्ञानम् एवेदं शून्यम् अर्थेन वर्तते॥
103. अहो विषयवैचित्र्यम् एककालम् अनेकधा।
कदम्बवाद्यध्वनिवत् कल्पनाम् अनुगच्छति॥
104. स्याच् चेद् अर्थो ऽर्थकारित्वं तेन न स्याद् विनापि हि।
अन्यो ऽत्त्य् अम्लादिकं द्रव्यम् अन्यस्याक्लिद्यते मुखम्॥
105. रात्रौ त्रपुषम् अप्य् अश्नन् कश् चिद् उत्प्रासयन् परम्।
ब्रूयाद् यद्य् अम्लम् अद्मीति किं श्रोतुः स्यान् न विक्रिया॥
(18)
106. स्वप्नेच्छेष्टाङ्गनासङ्गसुखसंप्राप्तिहेतुकी।
जायते हि विनाप्य् अर्थाद् विसृष्टिः किं न रेतसः॥
107. अस्तीति स्वप्नदृष्टे ऽपि ग्राहश् चेद् भावनाबलात्।
कन्यागर्भसुतावाप्तिदर्शनाद् इत्य् अयुक्तिमत्॥
108. दीर्घकालाध्यशैलानां देशानां च गृहोदरे।
दर्शनात् प्रविभक्तानां स्वप्नदृष्टम् अनर्थकम्॥
109. विज्ञप्टिर् अपि विज्ञप्तेर् अनर्थो न यदीष्यते।
तदानीं तत्समाधानं नन्व् एति स्थूलतापदम्॥
110. योगिनाम् अपि यज् ज्ञानं तद् अप्य् अज्ञानम् एव हि।
परचित्तादिविषयं स्वात्मचित्ताधिमुक्तिवत्॥
111. सर्वं संवृतिमज् ज्ञानं पण्डितस्येतरस्य च।
ग्रहणे व्यपदेशे च समन् एव प्रवर्तते॥
(19)
112. शून्यतादर्शनाद् आदौ दृष्टम् एव महत् फलम्।
यद् बिभेत्य् अभयप्राप्तो नासाव् इतरलोकवत्॥
113. मरणं जीवितं चैव निर्मितस्येव मन्यते।
आत्मनो यः कथं नाम भयं तस्य भविष्यति॥
114. कर्मनिर्माणम् एवेदं मत्वापि भुवनत्रयम्।
यदि भूयो बिभेत्य् एव हन्त मादृग् जनो हतः॥
115. द्वितीयस्योत्तमाङ्गस्य तृतीयस्य च चक्षुषः।
छेदनोत्पाटनाशङ्का कस्य स्याद् असतोस् तयोः॥
116. इति विषयविनिश्चयेन धीमान्
उपधिमलैः शबलैर् विलङ्घितो ऽपि।
व्रजति मलिनतां न जातु शुद्धं
गगनम् इवाभ्रलवैर् अशुद्धिमद्भिः॥
(20)
117. बहुनात्र किम् उक्तेन भाव्यते यदि केन चित्।
विषाणम् अपि दृश्येत श्वशशाश्वशिरोरुहम्॥
118. मण्डूको ऽपि जटाभारभास्वरो भस्मधूसरः।
शुक्लयज्ञोपवीतश् च स्कन्धार्पितकमण्डलुः॥
119. तत् तद् उत्कल्पयन् भीरुस् तिमिरे किं न मन्दिरे।
स्वचित्ताकारनिर्भासं शिशुः पश्यत्य् अमानुषम्॥
120. कृत्वापि स्वयम् अत्युग्रं यक्षरूपं विलोकयन्।
विजने पुनर् एकाकी किं बिभेति न चित्रकृत्॥
121. चौरो ऽयम् इति संकल्पात् स्थानौ रज्ज्वां च पन्नगः।
किम् अकस्मान् न संत्रासम् आयान्ति बहवो जनाः॥
122. स्वकल्पशिल्परचितैर् इति सर्वो विहन्यते।
अभूतैर् एव विषयैर् बालः स्वात्मापराधतः॥
(21)
123. तुल्ये ऽप्य् अन्धस्यादृष्टे ऽर्थे प्रथमं निशि चाह्नि च।
प्रभातम् इति शब्दाप्तेः सालोकम् इव जायते॥
124. देशकालादयो भावाः स्वप्नविज्ञानविभ्रमाः।
श्रान्तस्याध्वनै ह्रस्वे ऽपि दीर्घता व्यवसायिनः॥
125. तथा चेष्टावियोगाप्तेः कामिनां दिवसो ऽपि हि।
नाडिकागणनातुल्यः पुंसां वर्षशतायतः॥
126. दृष्टतत्त्वैस् तु तैर् एव तथाभूतैस् तथाविधम्।
व्यवहारं च क्रियते नार्थे ऽति च विबुध्यते॥
127. इति विश्वम् इदं धीराः कल्पनारङ्गपेशलम्।
चित्रवत् सर्वम् ईक्षन्ते न चेक्षन्ते स्वभावतः॥
(22)
128. अहो चित्रं चित्रं समविषमनिम्नोन्नतगतौ
धिया धत्ते भ्रान्तिं विदितम् अपि भूतार्थविधिना।
अनादौ संसारे हृदयगगने भागलिखितैर्
अलीकैः संकल्पैस् त्रिभुवनम् इदं संग्रहम् इव॥
129. भावो हि यदि भावः स्यात् किम् अभावः पुनर् भवेत्।
तथतास्थिररूपत्वान् नान्यथात्वं प्रपद्यते॥
130. धर्मान् पश्यति यो ऽलीकान् नामजात्यादिभिर् गुणैः।
विपर्यासहतश् चित्रं स करोत्य् अस्वरे दिवे॥
131. तस्माच् चित्तस्वभावानां स्वभावो निःस्वभावता।
धर्माणां यो ऽन्यथा वेत्ति सो ऽपैति परमार्थतः॥
132. कल्पना यद्य् असद्भूता शून्यता च सती यदि।
आविर्भावतिरोभावाव् अयत्नात् स्वयम् एष्यते॥
(23)
133. नाज्ञाता कल्पनापैति कल्पनापगमं विना।
स्थापिता स्थिररूपापि शून्यता न विभाव्यते॥
134. भेदो हि नानयोः कश् चित् कल्पनेवासदात्मिका।
परतन्त्रतया सम्यग्दृष्टा भवति शून्यता॥
135. कथम् अस्यां समावेशः स्वभावत्रयदर्शनात्।
तद्दृष्टेः सर्वधर्मेषु पिण्डग्राहो निवर्तते॥
136. नैकं पश्यन्न् असंभिन्नं त्रिरूपं दृश्यते स्फुटम्।
वासनावृत्तिसामर्थ्यात् कल्पितम् उज्ज्वलं तयोः॥
137. हानत्वात् कल्पितार्थस्य परतन्त्रः प्रकाशते।
स्वभावो ऽदृष्टरूपत्वाद् आदितः प्रचलन्न् इव॥
138. क्रमाद् अपास्य तत् तस्य प्रख्यानं शून्यता पुनः।
तम् एव स्थिरयन्तीव जायते हृदि भास्वती॥
(24)
139. सापि विद्युद्वद् अस्थैर्या क्षणम् एति च याति च।
सर्वथानादिकालस्य द्वयस्यास्यैव संप्लवात्॥
140. अस्तम् एत्य् अनुयात्य् एव द्वयम् अद्वयतापदम्।
पुनस् तावन् न सा यावत् तन्मध्ये निश्चलीकृता॥
141. निश्चलीभूता सा भूयः सहस्रांशोर् इवोद्गतिः।
विरुद्धत्वात् तमोवृत्तेर् नावकाशं प्रयच्छति॥
142. सावस्था काप्य् अविज्ञेया मादृशैः शून्यतोच्यते।
न पुनर् लोकरूढ्यैव नास्तिक्यार्थानुपातिनी॥
143. नास्तितारूपतैवास्या व्यवहारार्थसंस्थिता।
निःस्वभावेषु धर्मेषु कस्य वा स्तो ऽस्तिनास्तिते॥
144. न स्मर्तव्यं त्वयेत्य् उक्ते स्मरत्य् एष निषेधितम्।
यथा तथैवासच्छब्दाद् अन्तरं संप्रपद्यते॥
(25)
145. विकल्पाद् अर्थविज्ञानं विकल्पो ऽप्य् अर्थबुद्धितः।
द्वयोर् विकल्पधर्मत्वात् कास्तिता का च नास्तिता॥
146. नास्तिताप्य् अस्तिताम् एति भाव्यमानाश्रये क्व चित्।
यद्य् एवम् इष्यते प्राप्तं तद्वद् अस्तित्वम् एव हि।
147. एवम् अस्तित्वनास्तित्वसुखदुःखाद्यसंमतम्।
अपेक्षासिद्धितः सर्वं दीर्घह्रस्वादिभेदवत्॥
148. दुःखव्युपशमात् पुंसः सुखं नाम स्वकल्पितम्।
दुःखं च सुखविभ्रंशाद् आपेक्षिकम् इदं द्वयम्॥
149. सर्वम् एवेति विज्ञेयम् अपेक्षातः समुत्थितम्।
एकम् एवानपेक्षैव परैः किं अवगम्यते॥
150. अन्यापोहेन विज्ञानम् अनिरूपितगोचरम्।
जायते क्वापि संभ्रान्तम् उपदेशादिसाधनैः॥
(26)
151. वर्णाः पदानि वाक्यानि लिङ्गानि वचनानि च।
क्रियाकारकसम्बन्धा वितथत्वाद् अवाचकाः॥
152. श्लोको ऽपि पञ्चभिः पादैस् त्रिभिर् वा किं नु नेष्यते।
वाक्यस्य वाच्यतन्त्रत्वाद् डाकिनीसमयो भवेत्॥
153. ग्रहीतव्येषु भावेषु विद्वन्मन्यैः पुरातनैः।
पातितः किम् अयं लोकः शब्दसंस्कारसंकटे॥
154. एषा नासेति वक्तव्ये पृष्टः को नाम दर्शयेत्।
शिरह् प्रदक्षिणावर्तं भङ्गुरेर्मेण पाणिना॥
155. शिलापेटकदृष्टान्तं लाघवं गमितः स्वतः।
शब्दैर् आत्मा च लोकश् च शब्ददर्दुरराशिभिः॥
156. न चान्येनान्यसंवित्तिर् असम्बन्धेन युज्यते।
किम् असिः पातितो ऽन्यत्र करोत्य् अन्यत्र विक्रियाम्॥
(27)
157. निर्व्यापारितरूपेण को वा केनह भाव्यते।
भावः प्रक्रियते वापि भावेनाभावभाविना॥
158. भावस्याभावस्वभावो भावकाले ऽस्वभावता।
तेनैवातीतरूपो ऽसौ भूत इत्य् उपगीयते॥
159. महाभूतान्य् अपि प्राहुर् अत एव हि तायिनः।
सर्वभूताग्रभूतत्वान् निरुक्तपदपेशलाः॥
160. एकत्र शतधिर् नास्ति नापि यावच् छतं तथा।
तथापि शतम् इत्य् उक्ते भ्रान्तिर् भावति चेतसि।
161. अदृष्टे वापि दृष्टे ऽपि किं तेनाधिगतात्मनि।
वचनाद्युपदेशेण स्वर्गादौ वा घटे ऽपि वा॥
162. हस्ती सैरावणहस्ती स्त्रियश् चाप्सरसः स्त्रियः।
नापूर्वा प्रतिभा तत्र दृष्टोत्कृष्टैव जायते॥
(28)
163. पश्यत्य् अन्यद् वदत्य् अन्यच् छ्रुत्वाप्य् अन्यत् प्रपद्यते।
तथाप्य् उन्मत्तवल् लोको नात्मानम् अवबुध्यते॥
164. उन्मत्तो ऽस्मीति जानीयाद् उन्मत्तश् चेद् भवेद् असौ।
नैवोन्मत्तस्वयंज्ञाने विभ्रमो मद उच्यते॥
165. देशादिनियताकारं यतः ख्याति जगत्त्रयम्।
तथा च न हि तद् भ्रान्तं विज्ञप्तिर् अत एव हि॥
166. हस्तीत्य् अर्थस् तदाकारस् तदभावश् च पण्डितैः।
यथासंख्येन विज्ञेयाः स्वभावाः कल्पितादयः॥
167. अर्थशून्ये ऽर्थनिर्भासे मिथ्यार्थग्रहवस्तुनि।
एकस्मिन्न् एव मातङ्गे मायाकारविनिर्मिते॥
168. एवं संपश्यतः पूर्वम् अर्थग्राहो निवर्तते।
परतन्त्रतदाकारं चित्तम् अस्य प्रवर्तते॥
(29)
169. तद् अस्याकारकलुषम् अर्थस्याभावदर्शनात्।
भूम्यां निर्वासनं पश्चाद् अष्टम्यां विनिवर्तते॥
170. निवृत्ते चित्तचक्रे तु न पुनः संसरत्य् अयम्।
परिनिष्पन्नधर्मत्वाद् भ्रमत्य् अभवसंभवः॥
171. चित्रस्थ इव निश्चेष्टो निराकृतो निरुत्सुकः।
नासाव् उज्झति नादत्ते किं चिद् अद्वयगोचरः॥
172. प्रणिधानबलाधानाद् अनाद्यन्तभवत्रये।
निर्विकल्पो ऽपि लोकस्य तमोघ्नः सूर्यबिम्बवत्॥
173. अत एव च कर्तॄणां पुंसां कर्मफलं च यत्।
तायिनः कल्पनारूपं तस्य प्राहुः शुभाशुभम्॥
174. धर्माधर्मौ तपस् त्यागः संयमो नियमो दमः।
तिर्यञ्चो नारकाः प्रेता मनुष्याः सदिवौकसः॥
(30)
175. भूतानि भौतिकाः स्कन्धा धातवः शासनं मुनेः।
शास्ता च श्रावकाश् चैव सर्वा संवृतिदेशना॥
176. आधिकर्मिकलोकस्य परमार्थावतारणे।
उपायस् त्व् एष संबुद्धैः सोपानम् इव निर्मितः॥
177. अन्ते विशीर्यते सर्वम् इति बालोपलापनम्।
अवाच्यम् अनिरूप्यं च किम् अप्य् अन्यत् प्रकाशते॥
178. तत्राकाशप्रकाशो ऽसौ प्रकाशयति शून्यताम्।
आत्मनः शून्यतायाश् च स्थितो निष्किंचने पदे॥
179. अपश्यन् किं चिद् अप्य् अस्मिन् यथोद्दिष्टेन वर्त्मनि।
हसतीव जगत् कृत्स्नम् प्रहतं शमथाजितम्॥
180. पौराणीम् आत्मनश् चापि तद्ग्रहैकरसात्मताम्।
चिन्तयन्न् अपि यः सद्यो लज्जाम् एवोपगच्छति॥
(31)
181. यदि सर्वम् इदं शून्यं धर्मारम्भो निरर्थकः।
यस्य शून्यं कृतार्थत्वात् तस्य सत्यं निरर्थकः॥
182. पापारम्भो ऽपि नैवास्य सुतरां युज्यते तदा।
शून्यतादृग् अहो योगी रिक्ते मुष्टिं न बन्धते॥
183. कल्पनापतितानां तु सर्वम् एतद् अनन्यथा।
कार्यकारणभावेन संसारे तत्फलाप्तितः॥
184. स्वप्ननिर्वर्तितानां तु कर्मणाम् किं शुभाशुभम्।
न प्रबुद्धः फलं भुङ्क्ते स्वप्न एवाखिलो नरः॥
185. प्रबोधे ऽसद् इति ज्ञानात् स्वप्ने वृत्तेर् असत् फलम्।
तेनैवास्त्य् उदिते ज्ञाने सर्वस्यान्ते वृथा फलम्॥
186. स्वप्नालातेन्द्रजालानाम् अभिन्नम् उदयव्ययम्।
हेतुभावे फले चैव ननु सर्वं यद् ईक्ष्यते॥
(32)
187. अन्येद्युर् विषया भुक्ता ये स्वप्ने ये च तत्कृते।
भेदो ऽद्य वद कस् तेषां स्वभावानुभवं प्रति॥
188. प्रतीत्योद्पद्यते यद् यत् तत् तच् छान्तं स्वभावतः।
मायाङ्गानीव संसृज्य मायाकारेण दर्शितम्॥
189. वासानाम् इव भावानां भिन्नानाम् अप्य् अनेकधा।
न भेदो भस्मनः कश् चिद् दग्धानां शून्यताग्निना॥
190. लोकद्वयम् इदं दग्ध्वा सत्त्वभाजनसंज्ञकम्।
आत्मना सापि तत्रैव ज्वलनोल्केव दह्यते॥
191. शून्यतावह्निनिर्दग्धम् एवं पश्यञ् जगत्त्रयम्।
न क्व चिद् रज्यते योगी संसारं विचरन्न् अपि॥
192. न प्रचारो न चाचारो न विचारो न गोचरः।
जायते ऽस्य तदा सूक्ष्मो यदा शून्ये ऽवतिष्ठति॥
(33)
193. शून्यतावस्थितः पश्चात् सर्वेन्धनविवर्जितः।
निर्वाणे कृष्णवर्त्मेव निरुपाख्यो भवत्य् असौ॥
194. तथाभूतस् तु निःसङ्गो निरुपाख्यो निरञ्जनः।
नापि धूमायते भूयो नापि ज्वलति योगवित्॥
195. अज्वलन् शान्तिम् आयाति शान्तश् चाप्य् उपशान्तताम्।
उपशान्तः प्रशान्तत्वं प्रशान्तः शीततां पुनः॥
196. शीतीभूतो निरुष्णत्वं निरुष्मो ऽज्वर उच्यते।
अज्वरो विरजाः शुद्धो निर्द्वन्द्वो निरुपद्रवः॥
197. निर्ममो निरहंकारः समुत्तीर्णभवार्णवः।
न पुनः स्पृश्यते जात्या निर्जातिर् म्रियते न च॥
198. निरस्तो जातिमृत्युभ्याम् अमृतं पदम् अश्नुते।
तं नयं प्राप्य भूयो ऽपि प्राप्तव्यं नाधिगच्छति॥
(34)
199. नापि संसारजैर् दुःखैः सुखैर् वा दुःखहेतुभिः।
प्रतिघानुनयौ धत्ते सर्वत्रोपेक्षतश् चरन्॥
200. सापेक्षः क्षीयते सर्वैः क्षतापेक्षो ऽक्षतः सदा।
अक्षतो ऽक्षरम् आयाति क्षरते नाक्षताक्षरः॥
201. प्रतिष्ठाम् अक्षरे लब्ध्वा न क्व चित् प्रतितिष्ठति।
निर्वाणे संसृतौ वापि वशिताविभुतावशात्॥
202. स वाशी स मुनिः शास्ता स कृती स तथागतः।
सुगतः स च यस्येत्थं ज्ञानैश्वर्यविजृम्भितम्॥
203. विषयेष्व् अतिसक्तस्य बालस्याकृतचेतसा।
शून्यतादेशनां श्रुत्वा दीयते हृदयं द्विधा॥
204. उदारधर्मश्रवणाद् भद्रमित्रोपसेवनात्।
गोत्रतश् चावतारो ऽत्र भवत्य् आतप्तकारिणाम्॥
(35)
205. नित्योद्युक्तश् च प्रयुक्तो मार्गम् एनम् अनुव्रजन्।
नचिरात् सर्वधर्माणां नैरात्म्यम् अधिगच्छति॥
206. न धर्मो धर्मताप्राप्त्यै भवत्य् अपरिभावितः।
किम् अपीतं छिनत्त्य् अम्बु तृष्णां श्रवणदर्शनैः॥
207. वृत्तस्थः श्रुतवान् प्राज्ञः पुण्यसंभारसंभृतः।
विषयान् विषवत् पश्यन् कायजीवितनिःस्पृहः॥
208. भवने वा वने वापि बोधिसत्त्वः समाहितः।
आरुरुक्षुः पदं बौद्धम् आदौ नैरात्म्यवर्त्मना॥
209. लोकार्थम् आत्मनः कृत्वा स्वार्थम् अङ्गं कृपात्मकः।
लोकस्यैव च धर्माणां स्वभावत्रयभावनाम्॥
210. भावयेद् गृहिभूतो ऽपि लब्ध्वा क्षणम् अपि क्षणम्।
बद्ध्वा पर्यङ्कम् आधाय नासाग्रे निश्चलं मनः॥
(36)
211. भोगान् एवाविदूरस्थान् वितथान् उपलापकान्।
आलम्बनं पुरस् कृत्वा यथाप्रख्यान् स्वचेतसः॥
212. न रागायतनं रागी न च द्वेष्यं स दोषवान्।
न मूढः सतमस्कं च कुर्याद् आलम्बनं पुनः॥
213. रागी रागास्पदं कुर्वन् द्विष्टो द्वेषेण बाध्यते।
क्लेशवृद्ध्यैव सुतरां मूढो मौढ्यात् प्रणश्यति॥
214. समाधेर् अप्ररूढत्वाद् विकल्पाद् विकलीकृतः।
विप्रणाशमुखैस् तैस् तैर् अन्यद् एव प्रकल्पयन्॥
215. मूढो ऽपि मुढसंज्ञत्वात् संमूढं वस्तु चिन्तयन्।
सुतराम् अन्धतामिस्रे पतत्य् अन्ध इव भ्रमन्॥
216. विप्रतीपं मनस् कुर्याद् आलम्बनपदे बुधः।
क्लेशानाम् अणुर् अभ्यासो हविर्वद् वृद्धये ऽर्चिषाम्॥
(37)
217. कृतयोग्यस् तु तत्पश्चाच् छूरवत् समरोदरे।
रागाद्यायतनेष्व् एव प्रहरेद् बोधिशत्रुषु॥
218. क्लेशाद्यावरणं प्राहुस् तत्त्वस्याशेषदर्शिनः।
तस्मात् सर्वप्रयत्नेन हन्तव्यं तु तद् एव हि॥
219. ततः ख्यातिस् त्रिधा कार्या कल्पिताद्यात्मना धिया।
अर्थग्रहा निर्भासापि शून्या चार्थेन योगिना॥
220. चिन्तामय्यैव संभिन्नं प्रज्ञया चिन्तयेत् पुनः।
प्रज्ञापारमितानीतिम् अचिन्त्याम् एव चिन्तयेत्॥
221. यत् पश्यामि न तत् तथ्यं यन् न पश्यामि तत् तथा।
भावेष्व् एव विकल्पान्धस् तिमिरोपप्लवादिवत्॥
222. किं चित् पश्याम्य् असद्वस्तु कल्पितं भ्रान्तिमात्रिकम्।
निर्निमित्तं निमित्तं तु निमित्तोपहतश् चिरम्॥
(38)
223. वितथावेशविभ्रान्तिर् अहो लोकस्य चक्षुषः।
वालं पश्यति शैलाग्रे स्थूलं शैलं न पश्यति॥
224. यावद् अस्तु जगच्छौर्यो वालमौक्तिकवेधकः।
अत्यन्तं शिल्पकुशलो निमित्तप्रतिवेधिभिः॥
225. सर्वं कल्पितम् एव निर्मलतरं ख्यात्य् अर्थतो ऽर्थेक्षिणां
वाताभ्याहतनर्तितोर्मिनिचयप्रख्यं मृगस्याम्बुवत्।
अभ्याशे ऽप्य् उपपन्नम् अम्बु न तथा सत्यं तडागादिषु
प्रायो भूतम् अभूतकल्पपतितं निर्यत्नतो गृह्यते॥
226. नास्तीति चिन्तयेच् चित्ते निमित्तं स्वप्नवृत्तिवत्।
ततस् तु चित्तम् आप्नोति परतन्त्रम् अकल्पितम्॥
227. स्वभावः ख्यात्य् असंक्लिष्टो निष्पन्नासन्नभूमिकः।
यं प्राप्य परिनिष्पन्नं निर्विकल्पे ऽवतिष्ठते॥
(39)
228. तम् अप्य् आलोक्य मतिमान् नान्याद् रूपं समाविशेत्।
नैव तद् भावतो ऽभ्यस्तम् असत्त्वात् कल्पितात्मनः॥
229. यद्य् असौ तत्र तादात्म्यं दृष्टो ऽपि वितथात्मनः।
दर्शयेद् आत्मनः शीघ्रं ततः स्वप्नेन बिम्बयेत्॥
230. स्वप्नवृत्त्या तु विज्ञातो न पुनर् वितथात्मना।
तत्क्षणं ख्याति मन्दं वा स्तम्भितः प्रतिपक्षतः॥
231. एवम् आपितसारस्य नास्तितान्तं स्पृशेद् यदि।
आलम्ब्या तथतात्यन्तं सा चेत् तदवलम्बना॥
232. Ms. om.
233. वज्रलेपोपलिप्तेन द्वारेणेवासुरो लयम्।
योगी विशति विज्ञप्तिं पार्श्वद्वयम् असंस्पृशन्॥
(40)
234. Ms. om.
235. ज्ञेयान्य् अत्र तु लिङ्गानि लब्धालोकेन योगिना।
सिद्धेर् अव्यभिचारीणि धूमवत् कृष्णवर्त्मनः॥
236. निरासात् कल्पितस्यास्माद् ईषद् उन्मृष्टचित्रवत्।
ध्यानोत्थितो ऽपि सकलं ध्यामलं जगद् ईक्षते॥
237. शीर्णवज् जीर्णवच् चैव भग्नवच् च समन्ततः।
शून्यग्रामवद् ध्वस्तं च निरारामं निराश्रयम्॥
238. भूसमुद्वेगजननं चीरीरावम् इवादधत्।
अस्वामिकं च निःस्वं च केवलं नाममात्रकम्॥
239. दृष्टे तु परतन्त्राख्ये स्वभावे वीक्षते पुनः।
स्वचित्तस्यन्दनारूढम् अन्तर् विशद् इवात्मनः॥
(41)
240. इन्द्रजालोदितप्रख्यं तद् इदं भ्रान्तिमात्रकम्।
ध्वान्ताक्रान्तम् इवाशेषं पश्यन् तत्र न कल्पितम्॥
241. वासनाशेषरेखाभिर् आलीढम् इव सर्वतः।
क्लेशैर् एव संकीर्णं च चक्रवच् च परिभ्रमत्॥
242. गाढस्वप्नोत्थितज्ञानं लक्षालक्षं च तत्क्षणम्।
दृष्टनष्टनिभं चैव किम् अपीव च पश्यति॥
243. ज्ञाते तु परिनिष्पन्ने सर्वम् एकरसात्मकम्।
निर्विभागम् अनाद्यन्तं निराकारं निराग्रहम्॥
244. अनुद्वेगम् अनायासम् अदीर्घपरिमण्डलम्।
सूर्यनिर्भिन्नतिमिरम् आकाशम् इव निर्मलम्॥
245. समताधर्मनिर्वेधात् सर्वं समसमं पुनः।
संवृत्या दृष्टधर्मो ऽसौ परमार्थेन नेष्यते॥
(42)
246. विकल्पः संवृद् आख्यातो विकल्पान्तरकारणम्।
स एव परमार्थस् तु विकल्पविनिवर्तनम्॥
247. सो ऽपि नाम यथोद्देशं संवृताव् एव तिष्ठते।
परमार्थो यथा तस्य भूमिर् न स तथा गिराम्॥
248. मा भूत् संवृत्प्रतिष्ठानम् अत एव मुनेर् भयम्।
भिनत्ति देशना धर्मम् उक्तोक्ता शून्यतात्मना॥
249. चिरसंवर्धितैस् तुष्टा विकल्पैर् एव बालिशाः।
अद्यापि वर्धयन्त्य् एव प्रपञ्चासक्तचेतसः॥
250. कुशलस्यास्य चित्तस्य निमित्तचरणं प्रति।
न विकल्पविधेः शान्त्रि उपैति वास्ति कुत्र चित्॥
251. औदासीन्यम् इवायाति स्वपतीव निरुत्सुकम्।
चित्तं नैरात्म्यम् आलम्ब्य शान्तं विश्राम्यतीव च॥
(43)
252. करोति स्तब्धताम् अक्ष्णोः शिरसश् चावनम्रताम्।
स्तैमित्यं चित्तचैत्तानां शून्यता शून्यतेक्षिणाम्॥
253. दृष्टाद् एव कृतार्थो ऽहम् इति लिङ्गेक्षणात् पुनः।
भावनां नोत्सृजेद् वीरः परतो ऽप्य् अस्त्य् अतः परम्॥
254. शक्यते तत्त्वं नाख्यातुम् इदं तद् इति केन चित्।
अभ्यासाद् अस्य योगस्य स्वयम् एवावगम्यते॥
255. इत्य् अन्तद्वयमध्यस्था दृष्टा विज्ञप्तिमात्रता।
दर्शयत्य् अखिलस्यास्य जगतस् तत्त्वसंपदम्॥
256. तत्त्वसंपत्स्थितः पश्चात् कृपालुः सुगतात्मजः।
जीवितेनापि सत्त्वार्थे न चोपेक्षां करोत्य् असौ॥
257. विषयेषु च का चिन्ता स्वप्नेन जितवृत्तिषु।
परेषु भुज्यमानेषु पुत्रदारादिकेष्व् अपि॥
(44)
258. प्रमादस्थैर् न वैकृत्यम् उदारैर् अपि चेतसः।
विभवे नापि चापदि सर्वत्र समचेतसः॥
259. अकालाम्बुदवद् भूयः कुतो ऽप्य् अभ्युत्थितो ऽम्बरे।
दर्शयत्य् आत्मना तच् च तद् अद्भुतविजृम्भितम्॥
260. ज्वलनं वर्षणं चैव समकालं स कालवित्।
मज्जनोन्मज्जने वापि जलवद् वसुधातले॥
261. कम्पनं पर्वतादीनां दारणं हरणं तथा।
गमनं चात्मना व्योम्नि सलीलं राजहंसवत्॥
262. MS. om.
263. अतो यत् किं चिद् अन्येषु बाह्येष्व् अपि विभाव्यते।
स्वरसाभ्यागतम् एषां तद् अनेनैव वर्त्मना॥
(45)
264. पश्यन् न किं चिद् अप्य् एकं सर्वं पश्यति सर्ववित्।
अत एवैकरूपत्वाद् विभिन्नम् अपि कल्पितम्॥
265. एकश् च दृष्टः परमार्थतो ऽर्थः
सर्वं च दृष्टं जगद् एकतो ऽर्थात्।
कूलप्रदेशे ऽपि हि पीतम् अम्बु
ज्ञातं भवेद् तोयनिधेर् अशेषम्॥
266. एककालं च भिन्नेषु भिन्नदेशादिकेषु च।
न विना शून्यतादृष्ट्या ज्ञानं जायति तायिनाम्॥
267. आत्मचित्तपरिकल्पवर्णकं
संनिवेशविशदं बहिर्गतम्।
नैकजन्मपरिभावितोज्ज्वलं
चित्रभेदसदृशं जगत्त्रयम्॥
268. दृष्टम् एतद् अखिलं तु तायिना
तत्प्रपञ्चपरिकल्पवेदिना।
निःस्वभावम् अनिमित्तम् अव्ययं
केवलं च परिकल्पमात्रकम्॥
(46)
269. इति भावन [- U -] तरागाः
सुखसंभोगनिरुत्सुकाः क्रमेन।
[- -]स्तमुनीन्द्रताभिलाषाः
पदम् आयान्ति परं परार्थयुक्ताः॥
270. [- - U ] ओक्ते [U] विभाग [- U -]
[- - U] विस्पष्टपदप्रकल्पना।
आलोकमालेयम् अमार्गयायिनाम्
[- - U] अज्ञानतमो ऽभिघातनी॥
271. भावग्राह [U - U] ओति विषयस्याप्तां छिनत्ति स्पृहाम्
आलोकं हृदि [- U -UUU - - - U - - U-]।
ज्ञानालोक [U - U -UUU - - - U - - U-]
प्रज्ञापारमितेयम् [U - UUU - ] चिन्तामणिः सर्वदा॥
272. संवृत् समारोप [U- U - -]
नीतार्थ [- - UU -U - -]।
ये बाह्यम् इच्छन्ति पुरो न तेषाम्
आचार्यमुष्टिः सुगतैर् विभिन्ना॥
(47)
273. [- -] यदा [- U] अम् अप्य् अनक्षरं
प्राप्यापि सम्बोधिम् अनश्वरं त्वया।
दूरप्रनष्टैस् तु तदा कथं हि तैर्
मिथ्याभियोगः क्रियते निरङ्कुशैः॥
274. सर्वः [U - -] प्रविभज्यमानः
सूक्ष्मेक्षिकाक्षमधिया कृतान्तः।
बौद्धस्य बाह्यस्य विभागकर्ता
न स्याद् इहैका यदि शून्यतोक्तिः॥
275. सर्वज्ञभावः परिकल्प्यमानः
कल्पयेत भिन्नात्मनि निर्निमित्तम्।
शास्तुर् निमित्ते क्षणभङ्गुरे च
नित्या समा चैव न शुन्यता चेत्॥
(48)
276. यो योगिनां सिद्धिविशेषहेतुतो
ज्ञानाभिमानः परचित्तगोचरः।
मन्येत तेषाम् अधिकं तमोमलं
बद्धात्मका बालजना यथा स्थिताः॥
277. यः सर्वथान्धस् तिमिरेक्षणश् च
तयोर् वरं पूर्वक एव दूरम्।
अन्धो ऽहम् अस्मीत्य् अवलेपशून्यो
न फल्गुदृक् तैमिरिको ऽभिमानी॥
278. दोषात्मना वेत्ति न यः स्वदोषांस्
तथ्यान् अनाद्यान् गुणिनो गुणांश् च।
कल्याणमित्रे च करोत्य् अवज्ञां
पास्यत्य् असौ तत्त्वरसं कथं नु॥
(49)
279. नभस्तलालेख्यविभक्तिपण्डितैर्
विशेषवस्तुप्रतिपादनोद्यतैः।
अहो जनो ऽन्यैः प्रथमप्रपञ्चितैः
प्रपञ्च्यते चित्रकथाप्रणेतृभिः॥
280. जलप्रयाताहिपदानि पश्यतः
खपुष्पमालारचनाश् च कुर्वतः।
असूत्रकं चापि पटं वितन्वतः
कथं नु लोकस्य न जायते त्रपा॥
281. क्षेपाभिलाषाद् अपि यो ऽभ्युपैति
मौनीन्द्रम् एतद् वचनं न भक्त्या।
आसाद्य सुस्वाद्व् इव तिक्तजातम्
अन्योदितं को नु वचो ऽनुयायात्॥
283. Ms. oM.
(50)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project