Digital Sanskrit Buddhist Canon

उपासकसंवराष्टकविवरणम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

उपासकसंवराष्टकविवरणम्

सर्वबुद्धबोधिसत्त्वेभ्यो नमः।


त्रिशिक्षार्णवपारंगाय सुगताय नमस्कृत्य


(1)


पञ्चशिक्षापदस्थानं हित्वा प्रकाशयिष्यामि


इह नियमतस् त्रयः पुद्गलाः:

(1.a) कश्चित् कामदुश्चरितविवेकचरितः

(1.b) कश्चित् कामचरितमात्रविवेकचरितः


(2)


2. कश्चिद् दुश्चरितमात्रविवेकचरितः.

तथा पूर्वाभ्यासात्.


दुर्हेयकाममात्रविवेकचरितस्य दुराचारम् असंभवम्। न च

शिक्षादुश्चरितविवेकमात्रचरितस्य काममात्राचारम् असंभवम्.


(3)


तद्यथा


1. अतिकठिनदारुच्छेदने कुशलोऽतिमृदुनीलोत्पलपत्त्रच्छेदन आलस्यवान्

दृष्टः,


(4)


2. रणाय चोन्मत्तगन्धहस्तिगणगमनपुरुषकारसिंहशावको,

लघुवायुबलचञ्चलितपल्लवादीनां लोलमात्रेण त्रसितानां मृगादीनां

कलाहाद् भीत


इति न संभवति.


4. अन्य उभयोर् विवेकयोर् अशुद्धः. तत्र प्रथमपुद्गलम् अधिकृत्य

प्रव्रज्योपसंपदन्वितः. द्वितीयम् आरभ्य पञ्चाङ्गोपासकसंवरः

संप्रकाशितः. तृतीयम् उद्दिश्य पोषध उच्यते.


(5)


तत्र द्वौ प्रथमस्य संवरौ विनयम् अधिकृत्य तत्त्वतः प्रतिपाद्यौ.

शेषयोः पुनर् द्वयोः संवरयोर् उपासकसंवरसमादानविधिर् वक्तव्यः.


(6)


कुशलात् संवरस्थाच् च गुरोस् त्रिशरणगमनं गृहीत्वा

यावज्जीवं वधस्तेयान् मिथ्याचारान् मृषावाचः

विरतो मद्यपानाच् च. पूर्णाङ्गानि. यथाविधि.


(7)


इति. संवरस्थाद् इत्य् उपासकसंवरशैक्षान् न त्व् अन्यस्मात्. अवशात्. गुरोर् इत्य्

अनवज्ञातात्. तदपेक्षया पूर्णसामग्र्या अप्य्

शिक्षापदेभ्यो ऽविपन्नसंभवत्वात्। कुशलात् संवरदाने कुशलात्. अन्यस्मान् न.

विपन्नविधेः संवरस्याप्राप्तत्वात्।


(8)


गृहीत इति संवरो गृहीतः. त्रिशरणेषु गमनं त्रिरत्नेषु. शरणगमनं

सर्वसंवरादाने द्वारभूतत्वात् पूर्वं देशितम्. यावज्जीवं इति जीवनान्तम्. इह

समादत्तस्य यावज्जीवत्वात्.


(9)


वध इति मारयिष्याम्य् एनम् इति संज्ञाय तम् एव मारयति. बुद्धेः

पूर्वंगतत्वात् तस्यैव च नान्यं भ्रमित्वा पुरुषत्वात्.

अधस्ताद् अप्य् एवं वेदितव्यम्.


स्वामिनः संमुखात् तस्यापेक्षतो वा परोक्षतो वा परस्वहरणं स्तेयम्.


(10)


मिथ्याचारः काममिथ्याचारः. एकदेशेन सर्वं लक्ष्यते. यथा

सत्यभामायां भामेति.

तान्य् अपि चत्वाराणि. अगम्यगमनम् अनङ्गगमनम् अदेशगमनम्

अकालगमनम् इति. एतानीह विस्तरभयाद् इह नोक्तानि.


(11)


इत्य् अन्यवादः.


उन्मादजनकमद्याद्यानि द्रव्याणीति मद्यपानम्.


(12)


तेभ्यो ऽनन्तरोक्तेभ्यो विरत इति विरमणीयम्.


येनोपासकसंवरं संप्राप्तं तद् एतद् अङ्गम् एव.


(13)


अङ्गान्य् अपि तावत् प्रसादः. अप्रसादानां पुरुषाणां शुभधर्मा नोत्पद्यन्ते.

तद्यथा बीजेष्व् अग्निना दग्धेष्व् अङ्कुरः स्तम्बश् चेति वचानात्. स्त्रीन्द्रियस्य

पुरुषेन्द्रियस्य चाप्य् अवैकल्यात् पञ्चानन्तर्यादिवर्जितत्वाच् च.


यथाविधीति विधिम् अनतिक्रम्य.


(14)


अत्र स एव विधिः. उपासकसंवराकाङ्क्षन् गुरोः पादौ वन्दित्वा कुलपुत्र

भदन्त वा मह्यम् उपासकसंवरम् अनुप्रयच्छत्व् इति संज्ञप्यैकांसम्

उत्तरासङ्गं कृत्वोत्कुटुकेन निषण्णो वा दक्षिणं वा जानुमण्डलं पृथिव्यां

प्रतिष्ठाप्याञ्जलिं प्रणम्य मन्त्रम् अनुजल्प्य समादास्यति।


(15)


तथाहम् एवंनामाद्याग्रेण प्राणोपेतं बुद्धं शरणं गच्छामि. अहम्

एवंनामा धर्मं शरणं गच्छामि. अहम् एवंनामा सम्घं शरणं

गच्छामि. त्रिः. अहम् एवंनामाद्याग्रेण प्राणोपेतं प्राणातिपातात् प्रतिविरमामि.

एवम् आदत्तादानकाममिथ्याचारमृषावादसुरामैरेयमद्यपानात् प्रतिविरमामि।

त्रिर् एव। त्रिशरणगतं पञ्चशिक्षापदगृहीतम् उपासकं माम् आचार्यो धारयतु।


(16)


एवं शिक्षाङ्गपञ्चकम् एतत् परिपूर्णोपासकसंवर इत्य् उक्तम्. यद्य् अपि

सर्वेभ्य विरन्तुं न शक्नोत्य् एकैकशो ऽपि निश्चितस्य पूर्वंगतेभ्यो विरतस्य

महाफलत्वम्.


(17)


पोषधो ऽपि सूर्योदयनिश्रितसूर्य आगन्तुकालंकाराणि मुक्त्वा ग्रहीतव्यः. अत्र

त्रिशरणगमनं पूर्ववत्.


(18)


एष एव विशेषः. 1. यथा त आर्यार्हन्तः प्राणातिपातं प्रहाय प्राणातिपातात्

प्रतिविरता निहितदण्डा निहितशस्त्रा लज्जिनो दयावन्तश् च सर्वसत्त्वप्राणिभूतेष्व्

अन्ततः कुन्तपिपीलकम् अप्य् उपादाय तथाहम् अप्य् एवंनामाद्याग्रेण यावच्

छ्वःसूर्योदयात् प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरंस्यामि. अनेन

प्रथमाङ्गेन तेषाम् आर्याणाम् अर्हतां शिक्षायाम् अनुशिक्षे. अनुविधीये.

अनुकरोमि. 2. यथा त आर्यार्हन्तो ऽपि यावज्जीवम् अदत्तादानाद् 3. अब्रह्मचर्याच् च

4. मृषावादाच् च 5. सुरामैरेयमद्य[प्रमाद]स्थानाच् च 6.

नृत्यगीतवादित्रविशोकदर्शनेभ्यो 7. माल्यगन्धविलेपनवर्णकधारणाच् च 8.

उच्चशयनमहाशयनाच् चाकालभोजनाच् च प्रतिविरतास् तथाहम् एवंनामाप्य्

अद्याग्रेण यावच् छवःसूर्योदयाद् 2. अदत्तादानम् 3. अब्रह्मचर्यं च 4.

मृषावादं च 5. सुरामैरेयमद्यप्रमादस्थानं च 6.

नृत्यगीतवादित्रविशोकदर्शनं च 7. माल्यगन्धविलेपनवर्णकधारणं च 8.

उच्चशयनमहाशयनं चाकालभोजनम् अपि प्रहाय यावद् अकालभोजनात्

प्रतिविरमामि। यावद् एभिर् अष्टाङ्गैस् तेसां आर्यार्हतां शिक्षायाम् अनुशिक्षे.


(19)


अनुविधीये. अनुकरोमि. त्रिर् एवम्. पोषधिनं माम् आचार्यो धारयतु. एवम्

अष्टाङ्गोपवाससंवरः.


(20)


अस्यार्यान् उपसंक्रम्य वासनाद् उपवास इत्य् उच्यते. कुशलबीजपोषणात् पोषध

इत्य् उच्यते.


(21)


एतत्पोषधग्रहणेन द्विविधविवेकयोगार्थम् उपवासेनाप्य् उपवासकाले

प्रातिहार्यपक्षे चास्थितिं करिष्यति. अनुपूर्वविशुद्ध्या महोत्साहम् एतं

यावज्जीवं ग्रहीष्यति.


(22)


एकदिवसमात्रनियतकालेनैव दुर्दान्तेन्द्रियपुद्गलवशात्. न पुनर् अदेशितं

संवरम् अन्यथा. तेषाम् अपि यावज्जीवं समादानेन गो-मि-संवरसमादानम्

इतीष्यते. अहोरात्रं नारीशौनिकवद् विरत्यसामर्थ्ये दिवसमात्रे रात्रमात्रे चापि

विरंस्यति. अत्र दिवसमात्रग्रहणे ऽप्य् यावत् सूर्यस्यास्तंगमाद् इत्य् उक्तम्.

रात्रमात्रग्रहणे ऽपि पूर्ववत्. यद्य् एवं सुचरितमात्रो भवति न तु पोषधः.

अहोरात्रकालत्वात्.


(23)


अथास्मिन्न् उपासकसंवरग्रहणे चतुःप्रकृतिसावद्यानि

पञ्चप्रतिक्षेपणसावद्यानि च मद्यपाने प्रहीणे कथं

दशकुशलकर्मपथप्रविष्टाणि. तद् उक्तम्:


(24)


विरतश् च मृषावाचस् तदन्यस्माद् दोषाद् अपि

विरंस्यतीति


यो ऽपि मृषावाचो विरतः स इति. तच्छब्दम् एकदेशग्रहणात्. अन्यस्माद् अपीति

पैशुन्यपारुष्यसंभिन्नप्रलापेभ्यः प्रसिद्धदोषेभ्य विरंस्यति.

एकवचनं दोषजातेर् विरतेः.


(25)


तत्र क्लिष्टाशयस्य परभेदनवचनं पैशुन्यम्.


तादृशचित्तस्यावाप्रियं वचनं पारुष्यम्.


(26)


ईदृशेनैव मनसा मृषा[वादा]देर् यद् अन्यद् रागादिवचनं तत्

सम्भिन्नप्रलापम्।


यद्य् एवं मृषावाद एक एव शिक्षाकायनिर्देशायोक्तः. न तु पैशुन्यादीन्य् अपि.


(27)


तस्यापि मिथ्यावचनस्यातिगर्ह्यत्वात् तस्यैव मृषावादस्यैव. सर्वेष्व्

अवधारणान्वितत्वात्. मिथ्यावचनस्यातिगर्ह्यत्वात्. अतिगर्ह्य एव मृषावादः.

आपन्नमात्रस्यान्येषु सर्वपापेष्व् आपत्तेः.


(28)


तद् उक्तम्:

एकं धम्मं अतीतस्स मुसावदिस्स जन्तुनो

वितिण्णपरलोकस्स न्ऽत्थि पापम् अकारियं

इति वचनात्.


एवं सति कथं कायवाग्दुश्चरितविरत्या मनोदुश्चरितविरतिर् अपि सिद्धा?


(29)


कस्मात्? कायवाचोर् अकुशलयोर् विरतिर् मनःकुशलकर्म.

ततोऽभिध्याव्यापाददृष्टिभ्यो विरतयो सिद्धाः.


(30)


कस्माद् इत्य् अनन्तरम् उक्तम्. कायस्य च वाचश् च दुश्चरिताद् विरतिर् एव

कुशलकर्मेति. अरागाद्वेषामोहस्वरूपं मनः सिध्यति, मनःपूर्वंगता

धर्मा इति वचनात्. तत एवाभिध्याया व्यापादाच् च दृष्टेश् चेति मिथ्यादृष्टेर् इत्य्

एकदेशेण सर्वं लक्ष्यते पूर्ववत्. विरतयः सिद्धा इति. विरतय इति विरतेर्

बहुत्वाद् विरतयोऽपि बहुवचनम्.


(31)


तत्राभिध्येति यस्य "यत् परेषां स्त्रीस्वादि तन् मम स्याद्" इति विषमस्पृहा. एतानि

सत्त्वानि हन्याम् इत्यादि क्रूरविचिन्ताव व्यापादः. मिथ्यादृष्टिर् इति

कर्मतत्फलाद्यपवादकस्य क्लिष्टदौष्प्रज्ञा.


(32)


यद्य् एवम् एकादशाङ्गोपासकसंवरः प्रसज्यते. कथं पञ्चाङ्गिको भवति?


पञ्चाङ्गसंवरोक्तत्वम् अवतारस्यैवेच्छया


(33)


सत्यम् एतत्. पञ्चाङ्गोपासकसंवर इत्य् आदौ भगवतोक्तं तावल्

लघुबुद्ध्यवतारः. अनुपूर्वेनान्येभ्यो ऽकुशलेभ्यो ऽपि विरंतुं

शक्नुवन्तीत्य् अभिप्रायः.


यद् उक्तं भगवतो ऽभिप्रायः सर्वेभ्य एव विरतिर् इत्य् अत्र भिक्षवो वा कुलपुत्रो

वा कुलदुहिता वापि प्रसादवन्तो भवन्ति. सर्वस्मिन् कर्मविपाके प्रसादकारिणो

निश्चयकारिणश् चासंशयाश् च भवन्ति.


(34)


स कृष्णशुक्लकर्मफलम् अविप्रनाशं विदित्वा जीवितार्थायाप्य् अकार्यं न करोति. स

प्राणातिपातात् प्रतिविरमत्य् अदत्तादान-काममिथ्याचार-मृषावाद-पैशुन्य-पारुष्य-

संभिन्नप्रलापाभिध्या-व्यापाद-मिथ्यादृष्टिभ्यश् च विरमति. स 

दशकुशलकर्मपथसमादाने प्रवर्तते. दशकुशलकर्मपथान् न करोमीत्यादि.

एवम् अष्टाङ्गोपवाससंवरो वेदयितव्यः.


(35)


एवम् एकादशविरतिः सिध्यति. किं सर्वेष्व् अपि नष्टेषु केषु चिद् वापि संवरो

नश्यति?


नृवधः परिपूर्णार्थस्तेयं परदारस्य च

स्वीकृतिर् मृषावादश् च क्षतसंवरहेतवः.


1. पञ्चशाखाभिनिर्वृत्तानां पुरुषाणाम् उदरे स्थितानां निर्गतानां वा

भैषज्यशाल्यादिभिर् आयुरुच्छेदहेतुर् इत्य् आपत्तिकधर्म एकः.


2. परिपूर्णस्य कार्षापणचतुर्थांशस्य तन्मूल्यवस्तोर् वापहरणम् इति

द्वितीयः.


3. बलात् तस्या वा कामेन परदारोपगमनम् इति तृतीयः.


4. मृषावादधर्म उच्यते परचित्तज्ञानादि ममास्तीति प्रतिज्ञेति चतुर्थः.


(36)


किम् एष उपासकश् चतुर्णाम् एकस्य पतनीयधर्मस्योत्पादेनापात्रपाराजिकभिक्षुवद्

दृष्टे धर्मे पुनः संवरं गृह्णाति न वा?


संवरं पुनर् गृह्णातु तादृशाद् एव पुद्गलाद्.


तादृशाद् पूर्वोक्ताद् पुद्गलाद् एव. न पुनः स्वतो बोधिसत्त्वसंवरवत्.

परविज्ञप्तेर् प्रातिमोक्षसंवरप्राप्तिर् इष्यते. उपासकसंवरं पुनर् यथाक्रमं

ग्रहीष्यति.


(37)


अथान्यस्मिन् धर्म उत्पन्ने कथं कर्तव्यम् इति अन्ये पुनः कथं?

देश्याः कुशलायेति. कुशलाय वाग्विज्ञप्तितदर्थावबोधबलोपेताय

कर्मसंवरोपेताय च पुद्गलाय.


(38)


पतनीयेभ्यो ऽन्याः प्राणातिपातादिपैशुन्याद्यब्रह्मचर्याद्यापत्तीर् मद्यपानं

च प्रहास्यति.


(39)


कथम् इत्य् ..... सादर्त्वेन कायप्रयोगम् आदाय मध्ये व्याम

उत्तरासङ्गम् एकांसं कृत्वा उट्कुटुकं निषद्य दक्षिनं वा जानुमण्डलं

पृथिव्यां प्रतिष्ठाप्याञ्जलिं प्रणम्य वस्तु कीर्त्ययित्वा देशयितव्या.


(40)


इयं तस्य देशनाया वाचना. समन्वाहरतु मां कुलपुत्र भदन्त वाचार्य वा.

अहम् एवंनामोपासको यथोक्तापत्तिवस्तूपेतस् तद् ऐकध्यं पिण्डयित्वा

कुलपुत्रस्याचार्यस्य वा भदन्तस्य वान्तिके देशयिष्यामि. देशयन् सुखस्पर्शं

विहर्ष्यामि न त्व् अप्रतिदेशयन्न् अदेशयन्न् इति वक्तव्यम्. किं त्वं कुलपुत्र आपत्तिं

पश्यसि. अनेनोच्यते पश्यामीति. तेन पुनर् उच्यते किम् आयतिं संवृणोषि? अनेन पुनर्

उच्यते संवृणोमीति। साध्व् इति प्रतिजानाति. जानन् पश्यन् स्मरंश् च यथाधर्मं

यथाविनयं करिष्यामि. त्रिर् एवम्.


(41)


यतो ऽन्येषु लघुषु कृतेषु कथं विधीयते? यच्छेल् लघून् इति यानि

पतनीयेभ्यो ऽन्यानि प्रानातिपाताद्यपूर्णान्गानि पैशुन्याद्यपूर्णाङ्गानि च तानि

लघूनि संयतव्यानि. तच् छुभम्.


(42)


तादृशचरितं पुनर् एव संवृणोमीति चित्तम् उत्पादयितव्यम् इति यावत्. देशना न

करणीया संवृतमात्रेण व्युत्थानात्.


(43)


सर्वकर्मावरणविशुद्ध्यर्थम् अपि त्रिस्कन्धकधर्मपर्यायः

षण्मुखधारणी चाहोरात्रं षट्कृत्वः सर्वदा पठनीयौ.


(44)


निवृत्तिशीलम् उक्त्वा प्रवृत्तिशीलं सत्करोति. एवं संवरशीलस्थः प्रवृत्तिम् अपि

शक्तिवत्। सत्कुर्याद् इति. एवमुक्तक्रमेण निवृत्तिशीलं दृधीकृत्वा प्रवृत्तिशीलं

प्रवृत्त्या शीलं श्रुतचिन्तादिलक्षणं दानादिमयं च. शक्तिवद् यथाबलं

सत्कुर्यात्.


(45)


तत् कस्य हेतोः. तत्प्रयोगेन विविधं फलम् दत्तम्. तन् निवृत्तिशीलम्. तेन

प्रवृत्तिशीलस्य प्रयोगेन संबन्धेन विविधा संपद् आत्मने दत्ता.


इदानीम् उपसंहारतो द्विविधशीले योजयति: अत्र यत्नतो योक्तव्यं सुगतिम्

एवापीप्सुना. अत्रेति तस्मात् तेन द्विविधशीले यत्नतो योगः करणीयः.


(46)


सुगतिम् अपि सदेवमनुष्यसंपल्लक्षणाम् इप्सुनाभीलाषिणा. मोक्षम् इप्सुना प्राग्

एव. अथ कस्माद् द्विविधशीलकृत् कदाचिद् दुर्गतिम् एव गच्छत्य्, न तु सुगतिम्

एवंकामेनापि प्रविशतीति चेत्, प्रियङ्ग्वङ्कुरहेतुत्वेन कुत्र शालिबीजं दृष्टं?

शालिबीजं प्रियन्ग्वङ्कुरहेतुत्वेन कुत्र दृष्तम् इति न क्वापि विदितं ज्ञातं च.


(47)


तत् कस्य हेतोः. शालिबीजत्वेन हेतुफलनियमत्वात्. तथा शीलम् अपि सुगतिहेतुः कथं

दुर्गत्युपपत्तिहेतुर् भवेद् इत्य् अभिप्रेतम्. एवंविषयो हेतुफलनियमस्

त्रिमण्डलपरिशुद्धागम एव. अन्योपायाभावात्.


(48)


मत्प्रकाशितोपासकसंवराष्टकपदवृत्त्या

पुण्यबलवतो मम यद् उत्पन्नम् आदित्ययानप्रवेशपथावधिगतम्

तेनैव संसारसमुद्रप्रविष्टा दुरुत्तीर्यपारोत्तरणारम्भिनः

सत्त्वा अत्याश्चर्यदर्शनस्योपभोगेनोत्तमेन प्रयुञ्जताम्.


आचार्यसुनयश्रीविरचितोपासकसंवराष्टकविवरणं समाप्तम्.


(49)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project