भारत् (सस्कृत-) भाषायाम् : धर्मधातुदर्शनगीतिः।
नमः सर्वज्ञाय
(1)
अज्ञाते सर्वथा यस्मिन् भवेषु त्रिषु विभ्रमः।
निःश्रितं सर्वसत्त्वेषु धर्मधातुं प्रणम्य च॥
धर्मधातुं न तद्भिन्नं द्रष्ट्वा वक्ष्ये क्रमेण तम्॥१॥
(2)
गूढं शान्तं निष्प्रपञ्चं यत् तथ्याकृतभास्वरम्।
अनुत्पन्नानिरुद्धादिशुद्धं प्रकृतिनिर्वृतम्॥२॥
(3)
लयौद्धत्यतमोमुक्ताकल्पधीसूक्ष्मचक्षुषा।
मध्यान्तरहितं धर्मधातुं समवलोकयेत्॥३॥
(4)
संसारहेतुभूतो यः तस्य चैव विशोधनात्।
तद्विशुद्धं च निर्वाणं धर्मकायस्तथैव च॥४॥
(5)
पयोमिश्रं यथा सारं घृतं स्पष्टं न भासते।
क्लेशमिश्रस्तथा धर्मधातुश्चापि न दृश्यते॥ ५॥
(6)
यथा दुग्धविशुद्धेर्हि घृतमण्डो विशुध्यति।
तथा क्लेशविशोधेन धर्मधातुर्विशुध्यति॥६॥
(7)
घटमध्यस्थितो दीपो यथा किञ्चिन्न भासते।
तथा क्लेशघटान्तःस्था धर्मतापि न भासते॥७॥
(8)
यस्मिन् यस्मिन् दिशाभागे घटे छिद्रो विधीयते।
तस्मात्तस्माद्दिशाभागात् प्रभाभावो विकीर्यते॥८॥
(9)
यदा समाधिवज्रेण घटो भिन्नो हि जायते।
यावदाकाशपर्यन्तं तदा तेन प्रभास्यते॥ ९॥
(10)
धर्मधातुर्न चोत्पन्नः निरुद्धश्च न जातुचित्।
सर्वकालेष्वसंक्लिष्ट आदिमध्यान्तनिर्मलः॥१०॥
(11)
वैडूर्यं हि यथा रत्नं सर्वकालेऽपि भासेते।
शिलागर्भस्थतस्यास्य प्रभा नैव प्रकाशते॥११॥
(12)
तथा क्लेशावृतो धर्मधातुश्चापि सुनिर्मलः।
तत्प्रभा नेक्ष्यते लोके (निर्वृतौ सा प्रभासते)॥१२॥
(13)
यथा तुषावृतं धान्यं तण्डुलं नानुमन्यते।
तथा क्लेशावृतः सोऽपि बुद्धश्चेति न कल्प्यते॥ १३॥
(14)
तुषेभ्यो हि विनिर्मुक्तौ तण्डुलं भासते यथा।
तथा क्लेशविनिर्मुक्तौ धर्मकायः प्रकाशते॥ १४॥
(15)
गर्भिणीजठरे पुत्रो यथा सन् नापि भासते।
तथा क्लेशावृतो धर्मधातुश्चापि न दृश्यते॥ १५॥
(16)
धर्मधातुर्यतो नात्मा न नारि न पुमानपि।
सर्वग्राह्यविमुक्तत्वाद् ग्राहकः कल्प्यते कथम्॥ १६॥
(17)
अशुभानित्यदुःखत्वैस्त्रिभिश्चित्तस्य शोधनम्।
चित्तस्य शोधकः श्रेष्ठः धर्मो हि निःस्वभावता॥ १७॥
(18)
शून्यताहारकाः सूत्रा ये केचिद् भाषिता जिनैः।
सर्वैस्तैः क्लेशव्यावृत्तिर्नैव धातुविनाशनम्॥१८॥
(19)
शशशीर्षे यथा शृङ्गं प्रज्ञप्तं नैव सद् यथा।
सर्वे धर्मास्तथा चैव प्रज्ञप्ता नैव सन्ति ते॥ १९॥
(20)
परमाणुस्वरूपेण गोशृङ्गं नोपलभ्यते।
यथा पूर्वं तथा पश्चात् कुतस्तस्य परीक्षणम्॥२०॥
(21)
समुत्पादः प्रतीत्यैव निरोधोऽपि प्रतीत्य हि।
स्थित्यादेरप्यसद्भावे बालः कथमवैष्यति॥२१॥
(22)
धर्मधातुस्वभावस्तु निर्हेतुप्रत्ययः खवत्।
जाति जरां स्थितिं नाशं विना चैवाप्यसंस्कृतम्॥२२॥
(23)
बुद्धधर्माविनिर्भागस्तद्गोत्रस्य तथागमः।
अमृषामोषधर्मित्वमादिप्रकृतिशान्तता॥२३॥
(24)
यतः सागरसंङ्काशो मनःशब्दोपमादिभिः।
अगाहोऽलब्धपारश्च स एवातिगभीरकः॥२४॥
(25)
धर्मधातोरसम्भेदाद् दृष्टिभेदो न युज्यते।
तथापि बुद्धिभेदेन दृष्टिभेदोऽल्प उच्यते॥ २५॥
(26)
अस्यार्थं परिगृह्णन्ति मध्यमार्गानुयायिनः।
संवृतिः परमार्थश्च सत्यद्वयमिदं मतम्॥२६॥
(27)
सत्यद्वयविभागज्ञा न मुग्धा मुनिशासने।
सञ्चित्याशेषसम्भारं सम्पत्पारंगता हि ते॥ २७॥
(28)
आत्मात्मीयध्रुवोच्छेदसंक्लेशव्यवदानकः।
फलहेतुग्रहग्राहाः प्रपञ्चः सो हि सांवृतः॥ २८॥
(29)
यन्निरात्मं शिवं शून्यं प्रपञ्चैरप्रपञ्चितम्।
निर्विकल्पमनानार्थमेतत् तत्त्वस्य लक्षणम्॥ २९॥
(30)
पर्यायाच्च ह्यपर्यायात् सदसद्भावतस्तथा।
प्रविभागोऽनयोश्चैषः (संवृतिपरमार्थयोः)॥३०॥
(31)
ख्यातिः प्रज्ञप्तिमात्रं च भावो भ्रान्तत्वमेव च।
माया च व्यवहारश्च पर्यायाः संवृतेरिमे॥३१॥
(32)
शून्यता भूतकोटिश्चाऽनिमित्तं परमार्थता।
धर्मधातुश्च पर्यायाः (शून्यतायाः समासतः)।
संवृतिः संवृणोतीति परमार्थोऽविकारतः॥३२॥
(33)
भूताभूतद्वयज्ञानाद् द्विविधं सत्यमिष्यते।
तत्त्वज्ञानमसच्चेति सत्यं तद् व्यवहारतः॥३३॥
(34)
सर्वमस्तीति वक्तव्यम् आदौ तत्त्वगवेषिणा।
पश्चादवगतार्थस्य निःसंगस्य विविक्तता॥३४॥
(35)
चतुश्चतुःप्रसङ्गोक्तेर्द्विसत्यं नैकभिन्नकम्।
एकं यो वेत्ति भिन्नं वा प्रवृत्तोऽयोनिशः स हि॥३५॥
(36)
रागद्वेषोद्भवस्तीव्रदुष्टदृष्टि-परिग्रहः।
विवादास्तत्समुत्थाश्य भावाभ्युपगमे सति॥३६॥
(37)
न चाभिसमयो नापि लाभः सालम्बसंज्ञके।
यदानुगुण्या न क्षान्तिर्निर्वाणस्य तु का कथा॥३७॥
(38)
विनाशयति दुर्दृष्टा शून्यता मन्दमधेसम्।
सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता॥ ३८॥
(39)
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः।
येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे॥ ३९॥
(40)
स्वभावं परभावं च भावं चाभावमेव च।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने॥ ४०॥
(41)
अस्तित्वपूर्वकं नास्ति अस्ति नास्तित्वपूर्वकम्।
अतो नास्ति न गन्तव्यमस्तित्वं न च कल्पयेत्॥ ४१॥
(42)
नास्तिको दुर्गतिं याति सुगतिं याति चास्तिकः।
यथाभूतपरिज्ञानान्मोक्षमद्वयनिश्रितः॥४२॥
(43)
आरोहद्भिर्नयद्वयं रथं युक्तिकशामपि।
धारयद्भिर्यथार्थं तैर्यस्माद् यानाग्र्-माप्यते॥४३॥
(44)
रूपाद्याभासमारभ्य बुद्धान्ताः सर्वधर्मकाः।
शशगोशृङ्गसदृशा भाव्या माध्यमिकैः खलु॥४४॥
(45)
न सन्नासन्न सदसन्न चाप्यनुभयात्मकम्।
चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः॥ ४५॥
(46)
मध्यमेऽन्तविनिर्मुक्ते निरन्तत्वान्न मध्यमः।
निर्मध्यान्ता हि या दृष्टिः सा सम्यग्दृष्टिरिष्यते॥ ४६॥
(47)
दृष्टिरनुत्तरा भाव्या तथा बुद्धिमता सदा।
प्रविष्टो यो हि तद्दृष्टौ स सर्वज्ञत्वं समश्नुते॥४७॥
(48)
स्वभावस्त्रिविधः प्रोक्तो विज्ञप्तिमात्रवादिभिः।
कल्पितं परतन्त्रं च परिनिष्पन्नमेव च।
प्रज्ञप्तं हेतुसम्भूतमविकारि यथाक्रमम्॥४८॥
(49)
येन येन विकल्पेन यद् यद् वस्तु विकल्प्यते।
परिकल्पित एवासौ स्वभावो न स विद्यते॥ ४९॥
(50)
परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्भवः।
निष्पन्नस्तस्य पूर्वेण सदा रहितता तु या॥ ५०॥
(51)
अत एव स नैवान्यो नानन्यः परतन्त्रतः।
अनित्यतादिवद् वाच्यो सदसत्त्वान्तकारणैः॥
त्रयः स्वभावा विज्ञेया वैडूर्यस्फटिकोपमाः॥ ५१॥
(52)
आत्मधर्मोपचारौ च शुद्धश्चाशुद्ध एव च।
अविकारविपर्यासौ प्रत्येकं क्रमशो द्वयम्॥५२॥
(53)
सर्वेषाम् एव सुधियाम् अध्यात्माध्ययनश्रमः।
ग्राह्यग्राहकनिर्मुक्तं विज्ञानं परमार्थसत्॥५३॥
(54)
न कश्चिज्जायते धर्मो निरोधं नैति कश्चन।
केवलं ज्ञानमात्रं हि जायते संनिरुध्यते॥ ५४॥
(55)
तेऽसद्धर्मा हि भासन्ते न जडादन्यतोऽपि न।
दोषद्वयेन नाभावात् तस्माज् ज्ञानात्ममात्रकाः॥५५॥
(56)
विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते।
इयमेवात्मसंवित्तिरस्य याऽजडरूपता॥ ५६॥
(57)
नभो भूमी रविर्वायुः सागरो दिक् सरित्तथा।
सम्यगान्तरज्ञानस्य स्वांशो बाह्यवदीक्षते॥ ५७॥
(58)
स्फुटमाभासमानत्वात् तत्सम्बन्धोऽपरोक्षकः।
यत्सम्बन्धेन यो ज्ञाता तेन वेद्यः स वेत्ति च॥५८॥
(59)
अङ्गुल्यग्रासिधारावद् बुद्धया स्वात्मग्रहो न चेत्।
सन्धिनिर्मोचने प्रोक्तं स्वाभासो नैव हीयते॥५९॥
(60)
अतः संसिध्यते बुद्धिः स्वसंविल्लक्षणात्मका।
तथताकृच्छ्रसंबोधाद् रूपमस्या न रूप्यते॥६०॥
(61)
स्वसंवेद्या तु सा सौक्ष्म्याद् बुद्धानां सूक्ष्मदर्शिनाम्।
मादृशैः स्वाश्रयस्थापि स्थूलधीभिर्न दृश्यते॥६१॥
(62)
प्रकाशबुद्धितादात्म्यात् बुद्धिमात्रं हि सत् तथा।
ज्ञानरूपं भवेत् सत्यं तदाकारो मृषा भ्रमः॥ ६२॥
(63)
एकमपि द्विधा ख्याति चित्तम् आकारविप्लवात्।
ग्राह्यग्राहकभेदेन कथमप्यतिकौशलात्॥६३॥
(64)
ग्राह्याकारो निरीहत्वाद् बहिर्वद् अवभासते।
ग्राहकस्तु सजीवत्वात् पुनरन्तःस्फुरन् एव॥
तन्निमित्तं परित्यज्य खवज्ज्ञानं विभावयेत्॥६४॥
(65)
चित्तस्यानास्रवं रूपं यावद् बीजं न क्षीयते।
सास्रवं साऽऽलयावस्था क्षीणे धातुरनास्रवः॥६५॥
(66)
ध्रुवं विमुक्तिकायोऽसौ सूर्य-सूर्यप्रभासमः।
स्थानत्वाद् बुद्धधर्माणां धर्मकायस्तु तायिनाम्॥६६॥
(67)
आत्मात्मीयविनिर्मुक्ताः स्कन्धायतनधातवः।
त्र्यध्वानः पञ्चवस्तूनि श्रावकीयमतानुगाः॥६७॥
(68)
सर्वान् ग्राह्यसतश्चैव तदालम्बांश्च ग्राहकान्।
द्विविधान् परमार्थेन चैतानभ्युपयन्ति हि॥ ६८॥
(69)
क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनात्।
सत्यान्युक्तानि चत्वारि दुःखं समुदयस्तथा।
निरोधो मार्ग इत्येषां यथाभिसमयं क्रमः॥ ६९॥
(70)
दुःखं स्कन्धा उपादत्ताः कर्मक्लेशौ समुद्भवः।
द्वौ निरोधौ च निर्वाणं पक्ष्योऽध्वा सप्तत्रिंशकः॥ ७०॥
(71)
वृत्तस्थः श्रुतचिन्तावान् भावनायां प्रयुज्यते।
श्रामण्यममलो मार्गः संस्कृतासंस्कृतं फलम्॥ ७१॥
(72)
एकोननवतिस्तानि मुक्तिमार्गाः सह क्षयैः।
चतुष्फलव्यवस्था तु पञ्चकारणसंभवात्॥७२॥
(73)
सम्भोत्स्यमानः सिद्धान्ती निर्मितः शान्तिगस्तथा।
चतुर्धा श्रावका द्वौ च चत्वारोऽष्टादशापि च।
द्वाविमौ सूत्रवादी च तथा वैभाषिकः खलु॥७३॥
(74)
निराकारेण ज्ञानेन रूपाद्यर्थस्य वेदनम्।
मतं वैभाषिकास्ते च ह्यर्थसंवेदनं मतम्।
अर्थोपहृतबिम्बस्यानुभूत्या सूत्रवादिनः॥ ७४॥
(75)
महासांघिकसर्वास्तिवादिनः स्थविरास्तथा।
सम्मितीयाश्च विद्यन्ते चत्वारोऽष्टादशापि च॥ ७५॥
(76)
पूर्वोऽपरश्च हैमाश्च लोकोत्तरत्ववादिनः।
प्रज्ञप्तिवादिनः पञ्च महासंघे निकायकाः॥ ७६॥
(77)
काश्यपेया महीशास्ता ताम्रशाटा बहुश्रुताः।
धर्मगुप्ता विभज्याख्या मूलसर्वास्तिवादिनः॥ ७७॥
(78)
सर्वास्तिवादिनश्चैते जैतारण्येऽभये स्थिताः।
महारामे स्थविर्याश्च ह्यावन्ताः कुरुकुल्लकाः॥ ७८॥
(79)
वात्सीपुत्रीयकाश्चापि सम्मितीयास्त्रिधा मताः।
देशार्थाचार्यभेदेनाष्टादशभिर्विभिन्नकाः॥ ७९॥
(80)
ग्राह्यस्य कल्पनाहानाद् ग्राहकस्याप्रहाणतः।
प्रत्येकबोधिकामित्वाद् आधारात् खङ्गमार्गतः।
पर्यन्तं शतकल्पानि बोधिं भावनया स्पृशेत्॥ ८०॥
(81)
स प्रतीत्यसमुत्पादो द्वादशाङ्गुस्त्रिकाण्डकः।
पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ परिपूरिणः॥ ८१॥
(82)
पूर्वक्लेशदशाऽविद्या संस्काराः पूर्वकर्मणः।
संधिस्कन्धास्तु विज्ञानं नामरूपमतः परम्॥ ८२॥
(83)
प्राक् षडायतनोत्पादात् तत्पूर्व त्रिकसंगमात्।
स्पर्शः प्राक् सुखदुःखादिकारणज्ञानशक्तितः॥ ८३॥
(84)
वित्तिः प्राङ् मैथुनात् तृष्णा भोगमैथुनरागिणः।
उपादानं तु भोगानां प्राप्तये परिधावतः॥ ८४॥
(85)
स भविष्यद्भवफलं कुरुते कर्म तद्भवः।
प्रतिसन्धिः पुनर्जातिर्जरामरणमाविदः॥ ८५॥
(86)
आवस्थिकः किलेष्टोऽयं प्राधान्यात्त्वङ्गर्कीर्तनम्।
पुर्वापरान्तमध्येषु संमोहविनिवृत्तये॥ ८६॥
(87)
क्लेशास्त्रीणि द्वयं कर्म सप्त वस्तु-फलं तथा।
फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः॥८७॥
(88)
हेतुरत्र समुत्पादः समुत्पन्नं फलं मतम्।
द्वादशाङ्गेषु पञ्चैव हेतुः सप्त फलं तथा॥ ८८॥
(89)
आक्षेपकं तथाऽऽक्षिप्तम् अभिनिर्वृतनिर्वृती।
आदीनवः क्रमादङ्गम् त्रिचतुस्त्र्यैकमेककम्॥८९॥
(90)
दुःखं क्रमेण संस्कारः दुःखं विपरिणामकम्।
पञ्च द्विकं च पञ्च स्युः प्रवर्तन्ते क्रमात् त्रिषु।
धातुषु द्वादशैवं च ह्येकादश च दशापि च॥ ९०॥
(91)
एकादशभिरङ्गैश्च ह्युपपादुक एव च।
जरायुजोऽण्डजश्चैव द्वादशभिर्यथायथम्।
संस्वेदजे प्रवर्तन्ते योज्या पञ्चगतिस्तथा॥९१॥
(92)
त्रिभ्यो भवति द्वन्द्वं द्वन्द्वात् प्रभवन्ति सप्त सप्तभ्यः।
त्रय उद्भवन्ति भूयो भ्रमति तदेवं तु भवचक्रम्॥ ९२॥
(93)
यः संसारः स्वभावेन येनाकाराद् यथैव च।
अनन्तादीनवग्रामो यथा यावत् प्रवर्तते॥ ९३॥
(94)
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।
धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥ ९४॥
(95)
यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥ ९५॥
(96)
निर्वृतश्च यतो यश्च येन यस्मिन् यदा तथा।
यत्र यस्मै यथा यावत् स्वभावश्चाकृतिस्तथा।
प्राप्यं भेदस्तथा कर्म गुणैघैर्विनिवर्त्यते॥ ९६॥
(97)
तीर्थिका द्विविधास्तावत् सावताराः स्वयम्भुवः।
जातिप्रयोगजास्ते च...................................................॥९७॥
(98)
जात्या तृष्णामृषोच्छिन्नाः प्रयोगैर्ध्यानितार्किकौ।
अभिज्ञाबलतो ध्यानी द्वाषष्टिदृष्टिकल्पकः॥ ९८॥
(99)
चतुर्धा शाश्वता अन्ये शाश्वताश्च चतुर्विधाः।
चतुरहायकानन्ताः पूर्वान्तेऽहेतुको द्विधा॥ ९९॥
(100)
नास्तिक्यवादिनश्चाष्टौ षोडश चास्तिसंज्ञकाः।
नासत्सद्वादिनश्चाष्टौ सप्त चोच्छेदका इह।
निर्वाणवादिनः पञ्चापरान्तग्राहदृष्टयः॥ १००॥
(101)
सांख्याद्यैस्तार्किकैर्मानात् सिद्धान्तः परिगृह्यते।
त्रिगुणं मन्यते सांख्यैः सत्त्वं चापि रजस्तमः॥ १०१॥
(102)
मुदिता तुष्टिरानन्दः सुखं शान्तिर्मतिस्तथा।
क्वचिदाभासमानत्वात् सर्वं सत्त्वगुणं मतम्॥ १०२॥
(103)
अप्रीतिः परिसन्तापः शोको रागस्तथाऽक्षमा।
एषामाभासहेतुत्वाद् रजोलिङ्गं च तन्मतम्॥ १०३॥
(104)
मोहोऽविद्या प्रमादश्च निद्रा विक्षेप एव च।
कदाचिदपि भासन्ते तमसो हि गुणा इमे॥ १०४॥
(105)
त्रिगुणं प्रधानमव्यक्तं प्रकृतिश्चापि सैव हि।
ये दृष्टिगोचरास्ते च मायेवात्यन्ततुच्छकाः॥ १०५॥
(106)
प्रकृतेस्तु महांस्तस्मादहङ्कारस्त्रिधाऽऽप्यते।
तत एकादशाक्षाणि तन्मात्राः पञ्च पञ्चकात्॥१०६॥
(107)
प्रकृतिर्विकृतिः पञ्च भूतान्येतदचेतनम्।
चतुर्विंशतिकं तावत् सर्वविच्चेतनो नरः॥१०७॥
(108)
पञ्च विंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः॥ १०८॥
(109)
वैशेषिके षडर्था नवधा द्रव्यं चतुर्विंशतिश्च गुणाः।
द्रव्यगुणक्रियाजातिविशेषसमवायाश्च षोढा॥ १०९॥
(110)
कर्माणि पञ्च सामान्यं द्वेधा विशेषश्च समवायः।
षण्णां ज्ञानं हि वरं सर्ववेदव्यतिक्रान्तं तत्॥ ११०॥
(111)
जीवाजीवौ तथा पुण्यं पापमास्रवसंवरौ।
बन्धश्च निर्जरामोक्षौ नवार्था नग्नके मते।
यस्तत्त्वानि नैवतानि पश्चति स विशुध्यति॥ १११॥
(112)
अर्था न्याये षोडश, मानमेयसंशयप्रयोजनं च।
दृष्टान्तः सिद्धान्तोऽवयवतर्कनिर्णया वादः॥ ११२॥
(113)
जल्पवितण्डाहेत्वाभासाश्छलजातिनिग्रहस्थानम्।
एभ्यो हि षोडशभ्यो निर्याणं प्राप्यते चैवम्॥११३॥
(114)
मीमांसकैश्चतुरर्थाः पृथिव्यप्तेजोऽनिलास्ते सर्वे।
असंस्कृताः खलु नित्या अनुत्पन्ननिरुद्धाः सुस्थाः॥ ११४॥
(115)
तस्मात् कर्मफले न स्तः तथा पूर्वापरान्तकौ।
येषां चिन्ता तथा यान्ति दृष्टिमात्रेण निर्वृतिम्॥११५॥
(116)
विष्णुनिमित्तवादिनाम्..............................................।
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥ ११६॥
(117)
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥ ११७॥
(118)
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्।
अक्षराणामकारोऽस्मि ....................................॥११८॥
(119)
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः।
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते देश।
येन विष्णुगुणा नित्यं भाविताः सुखमेधते॥ ११९॥
(120)
ईशकर्तृत्ववादी तु जगतः सकलस्य च।
कर्त्ता त्वीश्वरश्चास्ते सोऽपि चाष्टगुणान्वित॥ १२०॥
(121)
अणिमा लघिमा व्याप्तिः प्राकाम्यं गरिमा तथा।
ईशित्वं च वशित्वं च तथा कामावशायिता॥ १२१॥
(122)
चक्षुषी च करौ पादौ शरीराणि मुखं तथा।
बहून्युत्पद्य नश्यन्ति भाषितश्चाणिमा ततः॥ १२२॥
(123)
आकाशे वायुभूम्योश्च जले चाग्नौ विहारिणः।
सङ्कोचाद् विस्तराच्चैव लघिमा तेन भाषितः॥ १२३॥
(124)
त्रैलोक्ये पूजितत्वाच्च तथा स्थावरजङ्गमैः।
अर्च्यत्वात्सर्वभूतैश्च महिमेति निगद्यते॥१२४॥
(125)
शासनं सर्वभूतेषु चराचरेषु पूरणम्।
यस्य येच्छा भवेत्तस्या ईशित्वं सम्प्रगीयते॥ १२५॥
(126)
आत्माधीनः स्वतन्त्रश्च कस्मादपि च नो भयम्।
सर्वेषां च वशी यस्मात् वशित्वं तत्प्रकीर्तितम्॥ १२६॥
(127)
स्वर्गापायेषु सर्वत्र व्याप्तत्वाद् व्याप्तिरुच्यते॥ १२७॥
(128)
सत्त्वं रजस्तमस्त्रीणि तानि यत्र स्थितानि वै।
निमेषमात्रे जायन्ते प्राकाम्यमुच्यते ततः॥ १२८॥
(129)
मोक्षे देवशरीरे वा यत्रेच्छा ह्यात्मनो भवेत्।
कामतः सर्वलाभाच्च कामावशायितोच्यते॥ १२९॥
(130)
यः सूक्ष्म एकः प्रभवन् स्थितो वै
सर्वस्य चासौ जनको विनाशकः।
देवश्च पूज्यो वरदः प्रभुः सः
कर्ता गुणानामतिशान्तिमाप्तः॥ १३०॥
(131)
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा॥ १३१॥
(132)
न स्यान्मेरुरयं न चेयमवनी नैवायमम्भोनिधिः
सूर्याचन्द्रमसौ निवेशसुभगौ नैतौ जगच्चक्षुषी।
ईशानो न कुलालवद्यदि भवेद्विश्वस्य निर्माणकृत्।
सत्त्वादीश्वरकर्तृकं जगदिदं वक्तीति कश्चित्किल॥१३२॥
(133)
सुक्षमोऽचिन्त्यतनूकरश्च निखिलज्ञाता च सर्वङ्करः
योगाभ्यासलभः सुधीश्च विषयो ध्यानस्य च ध्यानिनाम्।
चन्द्रार्कावनिवारिवह्निपवनाशाकाशकायस्तथा
शान्त्यानन्दसुखेप्सुभिस्तु सततं सम्भावितव्यो हरः॥ १३३॥
(134)
कालाधारोद्भवाः सर्वो भावाश्च कालवादिनः।
मातुलो यस्य गोविन्दः पिता यस्य धनञ्जयः।
निर्भयः क्रोधनो नष्टः कालो हि दुरतिक्रमः॥ १३४॥
(135)
कालः पचति भूतानि कालः संहरते प्रजाः।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥ १३५॥
(136)
दुर्गं त्रिकूटः परिखाः समुद्रः
रक्षांसि योधा धनदश्च वित्तम्।
शास्त्रं च यस्योशनसा प्रणीतं
सः रावणः कालवशाद् विपन्नः॥ १३६॥
(137)
स्वभाववादिनां भावो स्वभावैनैव सिध्यति।
अग्नेस्तु रक्तता चैव सत्पुरुषाणां परोपकारित्वम्।
असतां च निर्दयत्वं त्रयं सिद्धं स्वभावतः यथा॥ १३७॥
(138)
कः कण्टकानां प्रकरोति तैक्ष्ण्यं
वैचित्र्यमात्रं मृगपक्षिणां च।
माधुर्यमिक्षौ कटुता च निम्बे
स्वभावतः सर्वमिदं च सिद्धम्॥ १३८॥
(139)
तापो रवौ चन्द्रमसि प्रशैत्यं
रागो नरे नैव मुनौ तथा च।
सौख्ये सुतृप्तिस्तपनं च दुःखे
सिद्धानि चेमानि स्वभावतो हि॥ १३९॥
(140)
अहेतुवादिनस्तैर्हि ( नाहुः स्वमपि कारणम्)।
सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते॥ १४०॥
(141)
राजीवकेसरादिना वैचित्र्यं कः करोति हि।
मयूरचन्द्रकादिर्वा विचित्रः केन निर्मितः॥ १४१॥
(142)
वर्षावाय्वादयो (तैक्ष्ण्यादिकमेहतुकम्)।
कादाचित्कतया तद्वद् दुःखादीनामहेतुता॥ १४२॥
(143)
अत्यौदार्यातिगाम्भीर्याद्विषण्णैरकृतात्मभिः।
निन्द्यतेऽद्य महायानं मोहात् स्वपरवैरिभिः॥१४३॥
(144)
शीलादपि वरं भ्रंशो न तु दृष्टेः कथञ्चन।
शीलेन गम्यते स्वर्गो दृष्ट्या याति परं पदम्॥ १४४॥
(145)
विघ्नं तत्त्वस्य यः कुर्याद् वृतो मोहेन केनचित्।
कल्याणाधिगतिस्तस्य नास्ति मोक्षे तु का कथा॥ १४५॥
(146)
बीजभूताननर्थस्य विलोक्य तीर्थिकान् बहून्।
धर्मकामे जने कस्य करुणा नैव जायते॥ १४६॥
(147)
धर्मधातुमतो ह्येनं पश्येयुर्मोक्षकाङ्क्षिणः॥ १४७॥
(148)
धर्मधातुदर्शनगीतिः महाचार्य-दीपंकरश्रीज्ञानकृता समाप्ता
भारतीयोपाध्यायेन तेनैव भोटानुवादकेन भिक्षुणा छुलठिम्
ग्यल-वा (शीलविजेयन) महोदयेन चानूदिता।
(149)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project