Digital Sanskrit Buddhist Canon

कालचक्रगणितोपदेशः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


कालचक्रगणितोपदेशः


   [१B] ओं नमो बुद्धाय।


शकाब्द १०९१ म्लेच्छवर्ष [५४०] शुद्धवर्ष ३६४ अशुद्धमासगण ४३६८ शुद्धमास[ग]ण ४५०२ वह्नौ खेब्धो ४०३ करफणिशशिहृतेऽव[शिष्टं वर्षं २२१। पु]नः परिष्टिहृतेऽवशिष्टं वर्षं ४१ प्रथम(मं) पष्टिसंवत्सरमध्ये एकोनविंशतिवर्षे गते कृतमिति [पक्षैकविकल्पः प्रथमवर्षस्य ] ध्रुवकं ४१ तथागतकालात् षट्वर्षशतैर्मञ्जुश्रीकालः। तस्मादष्टशतैर्म्लेच्छकालः। तस्मात् म्लेच्छकाला [त्खखाब्धीन्दुवर्षाद् द्व्यशी]त्यधिक-शतहीनात्(न्)मासध्रुवकादिकं करणीयमित्युपदेशः। एकोनविंशतिवर्षश्च तत्र प्र[वेशार्थं न पृथक्कृतमिति]।

नमः श्रीकालचक्राय।

कालात्मकं नमस्कृत्य कालचक्रा[ह्वयाद्वयम्]।

मोहा[न्धकारनाशार्थं तस्य दीपः प्रकाश्य]ते॥

इह त्रयोविंशत्यधिकपञ्चशतानि वर्षाणि ध्रुवकस्वरूपोन्य यः षष्टिसंवत्सरा इत्थं साधनीया। तदुक्तं गतानि वर्षाणि र संपूर्णे षष्ठिषष्ठिक्षेपादनित्यमिदं ध्रुवकमिति ज्ञेयम्। तत्र त्रयोविंशत्यधिकपञ्चशतात्मकध्रुवके वर्तमानसंवत्सरार्थे प्रभवादिवर्षः क्षेपः कार्यः। प्रभवा[२A] [दिषष्ष्ठवर्षा एवं सिद्ध्यन्ति]।

[न]वाष्टचत्वारियुतानि कृत्वा

विभ्राजयेच्छून्यशरागरामैः।

लब्धेन युक्तं शकभूपकानां

संशोध्य षष्ट्या प्रभवादिवर्ष(र्षाः)॥ इति।

अस्यायमर्थः- शकाख्यस्य राज्ये गतानि वर्षाणि एकादशभिर्गुणनीयानि पुनश्चतुर्भिर्गुणनीयानि। नवाष्टचत्वारियुतानि कृत्वेति। ऊननवत्यधिकचतुर्भिःशतैर्युतानि कार्याणि।


p.2


विभ्राजयेच्छून्यशरागरामैरिति पञ्चाशदुत्तरसप्तत्रिंशच्छतैर्विभज्य भागशेषो लोप्य, लब्ध्या सहिता शकवर्षा षष्टिभागावशेषाः प्रभवादिवर्षा भवन्ति। लब्धिः प्रभवादि-षष्टिसंवत्सरा परिपूर्णलक्षणा न ग्राह्या। प्रभवादय एकदि (म्लेच्छादि) क्रमेण षष्टिंपर्यन्ता स्वस्वनामप्रसिद्धा न लिखिता गन्थगौरवभयात्। तेन प्रभवादिसहितानि त्रयोविंशत्यधिकपञ्चशतानि म्लेच्छवर्षानि(णि) प्रसिद्धानि भवन्ति। तान्यूनानि द्व्यशीत्यधिकशतेन शेषस्य मासार्थं द्वादशगुणः कार्यः। व[२B]र्तमानमासार्थं चैत्रादिमासयुतः कार्यः। तत्रायं क्रमः वैशाखमासमारभ्येकादिक्षेपः कार्य एकादशपर्यन्तम्। चैत्रमासे सति वर्षपिण्ड(डं) एकं वर्षं क्षिप्त्वा गणनीयम्। एष च मासपिण्ड ऊर्धा(र्ध्वा)ऽधोध्यवेन(भावेन) द्विस्थः कायो(र्यो)ऽधिकमासग्रहणार्थम्। इह हि सूर्यचारवशात् सार्द्धद्वात्रिंशन्मासे परिपूर्णेऽधिकमास एक उदयते। तेन सार्द्धद्वात्रिंशन्मासाश्चतुर्भि-गुणितास्त्रिंशदुत्तरशतं भवति। द्वाभ्यां वा गुणिता पञ्चषष्टिर्भवन्ति। निमित्तस्याधिक-मासमुखग्रहणार्थं चतुर्ग(गु)णे द्विगुणो वा नैमित्तकस्य मासपिण्डस्याशुद्धस्य(स्य शुद्धस्य) भाज्यस्यापि चतुर्गुणो द्विगुणो वा बोद्धव्यः। तन्त्रे तु वृत्ता(त्य)नुरोधाच्चतुर्गुण एवेति ज्ञेयम्। अतो मासपिण्डास्त्रिंशदुत्तरशतेव पूर्वोक्तक्रमेण पञ्चषष्ट्या वा भागेन लब्ध मुपरि मासपिण्डेऽधिकमासात्म[कं प्रक्षिप्य उपरि शुद्धमासात्मकः] पिण्डं(ण्डः) कार्यम्(र्यः)। शेषस्त्वसंपूर्णत्वान्न ग्राह्यः। यदा पुनर्न किञ्चिदवशि [३A)ष्यते तदा द्वय(यं) वर्द्धते मासस्य। एकैकमासस्य वृद्धिश्च मासपिण्डे युक्ता मासद्वयवृद्धौ पुनरधिकमास एक उदयत इति निश्चीयते। तदान्तरे एकं मासं प्रक्षिप्य मासास्त्रिस्थानभूता इत्यादि ध्रुवकत्रयादिकं साधनीयम्। अथवा गतमाससम्बन्धिनि ध्रुवकत्रये यथाक्रमं वारे वारमेकं वारघटिषु द्वात्रिंशघटिका पिण्डे पिण्डद्वयं पिण्डावयवे [एकं] च नक्षत्रे नक्षत्रद्वयं घटिषु घटिकैकादश प्रक्षिप्याधिकमाससम्बन्धिध्रुवकत्रयं बोद्धव्यः। मासद्वयवृद्धं मासपिण्डं त्वागामिमासस्य सम्बन्धि बोद्धव्यम्। शुद्धमासगणः।

इदानीं वारध्रुवकमुच्यते। शुद्धमासा ऊर्धा(र्ध्वा) ऽधोभावेन त्रिस्थाः कार्याः। ऊर्द्धे(र्ध्वे) वारात्मका अधःस्था नाड्यात्मका मध्यस्था प्रतिमासवारघटिकार्थम्। ते द्वात्रिंशद्गुणिता अधोराशेः षड्भागलब्धमृणात्मकं नाडीभ्यो भावं निखितव्यम्। भागशेषस्य षष्टिगुणः षडिभर्भा[३B]गं लब्धं पाणीपलात्मकं पूर्वलब्धादधो लेख्यः।


p.3


शेषः षड्गुणः षडिभरेव भागः लब्धं श्वासात्मकं तदधःस्थात् उपरि लब्धं मध्यराशौ नाड्यात्मकं शोधनीयम्। तद[ध]स्थां नाडीमेकां पाणीपलषष्ट्यामि(त्मि)कां कृत्वा शोधनीयम्। तदधस्थां पाणीपलमेकं षट्श्वासात्मकत्वाच्छोधनीयम्। तेनोर्द्धा(र्ध्वाऽ)धोभावेन स्थानचतुष्टयं लभ्यते। वारस्थानं वारस्य षष्ट्यंशात्मकं घटीस्थानं घटेः षष्ट्यंशात्मकं पाणीपलस्थानम्। पाणीपलस्य षड्भागात्मकं श्वासस्थानमिति। तेन षट्श्वासा पूर्णा एकपाणीपलात्मका भवन्ति। षष्टिपाणीपला पूर्णा एकनाड्यात्मका भवन्ति। षष्टिनाडिका पूर्णा एकवारात्मका भवन्ति। एवं सर्वत्र बोद्धव्यम्। इदं ध्रुवकमस्तमनकरणमागतम्। आदित्याद्युदयकरणार्थं मूर्द्धराशौ वारद्वयं धनम्। अधो राशौ त्रिंशद्धटिका धनम्। घटिराशेः षष्टिभागलब्धेनोपरि राशौ मिश्रयित्वा [४A] मूर्द्धराशौ सप्तभिर्भार्गेऽवशिष्टे वारं भवति। एकाद्यके शेषे सति आदित्यादियं प्रसिद्धा, लब्धिस्तु वारपरिवर्तलक्षणा न ग्राह्या।

इदानीं वारात्मकपिण्डध्रुवकमुच्यते। शुद्धमासा द्वादशोत्तरशतमिश्रा ऊर्द्धा(र्ध्वा)ऽधोभावेन द्विस्था कार्या अ[ध]स्थेभ्यः षडिंवशत्यधिकशतेन भागलब्धं पञ्चभिः सहितं उपरि राशौ द्विगुणिते धनं देयं भवति। यतोऽत्र षडिंवशत्यधिकशतेनैकमास-पिण्डं भवति, पिण्डस्थानेऽधिकं भवति चन्द्रचरणवशात्। ऊर्द्धा(र्ध्व)स्थादष्टाविंशति-भागशेषो पिण्डं भवति। लब्धिस्तु वारपरिवर्तरूपा न ग्राह्या। षडिंवशत्यधिकशत-भागशेषः। पिण्डावयवाः पिण्डाधः स्थापनीयाः।

इदानीं सूर्यध्रुवकमुच्यते। शुद्धमासा ऊर्द्धा(र्ध्वा) ऽधोभावेन त्रिस्थाः। उपरि नक्षत्रात्मका अधो घटिरूपा मध्यस्था एकादशहता भवन्ति। अधःस्थेभ्य ऊंनचत्वारिंशद् भागलब्धं द्वाभ्यां मिश्रं स्थाप्यं घटिस्वभावम्। शेषः षष्टिहतो तेन भाग [४B]- लब्धिपाणीपलात्मिका तदधो लेख्याः। शेषः षट् हतस्तेनैव भागः लब्धं श्वासात्मकं तदधो भवति। पाणीपलश्वासात्मकयोरपि लब्धयोर्द्वाभ्यां मिश्रं पूर्ववत् कार्यम्। पूर्वघटिमध्ये घटिस्थाने शोध्यं पाणीपलश्वासपिण्डं त्वधोऽधावलम्ब्य शोध्यमिति सर्वत्र समानो न्यायः। ततो मध्यराशे घट्यात्मकात् षष्टिभागलब्धं द्वाभ्यां हते ऊर्द्ध(र्ध्व) राशौ धनं भवति। अतः सप्तविंशत्या भागशेषा नक्षत्रं भवति। लब्धिस्तु नक्षत्रचक्रपरिवर्त-लक्षणा न ग्राह्या। अधःस्था नाड्यात्मक पूर्ववत् भवन्ति। शुद्धमासध्रुवकम्।

यदा गणनायामलसो भवति तदा वारे वारमेकं वारघटिषु द्वात्रिंशद्धटिका पिण्डे पिण्डद्वयं पिण्डावयवे पिण्डावयवद्वयम्। नक्षत्रे नक्षत्रद्वयं नक्षत्रघटीष्वेकादश घटिका देया मासं प्रति। अशुद्धवारादि ध्रुवकम्।


p.4


सम्प्रति वारादिशुद्धिर्भाव्यते शुक्लप्रतिपदमारभ्य यावदमावास्यापर्यन्तं त्रिंशद्दिनानि चन्द्रपदादिक्रमेनै(णै)कैकवृद्ध्या वारपिण्ड[५A]योर्देयानि वारघटिषु घटीस्वरूपाणि हेयानि, यदि (यदा) हेयस्वरूपशोधनीयवारघटिका न पूर्यन्ते तदा वारमेकं षष्टिघटिका कृत्वाधोऽवतार्य शोधनीय इति सर्वत्र न्यायः। यदा पुनरवतारितं वारं चन्द्रपदरविकादिके धन-ऋणे च कृते सत्यत्र वारीभवितुं षष्टिघटिका न पूर्यन्ते। तदा तिथिर्वर्तमाना त्रुट्यतीति वेदितव्यम्। तदा तां तिथिं त्यक्त्वाऽगामिनीं तिथिं दत्वा सर्वकार्यं कर्तव्यम्। यदा पुनर्गणितवशाद्वारघटिका षष्ट्यधिका भवन्ति, तदा सा तिथिर्वर्द्धत इति वेदितव्यम्। तदा च षष्टिघटिका वर्तमानवारे लिखनीया। अधिका घटिका आगामिनि वारे लिखनीया यावदधिका घटिका न त्रुट्यन्तीति। त्रुटितासु तु तास्वधिकासु घटीषु सामान्यन्याय एवं समायाति। पिण्डे भागे चतुर्दशभिर्भागे कृते सति समेन भागेन धनम्। विस(ष) मेन भागेन ऋणं बोद्धव्यम्। तत्रैकेन त्रिभिर्वा भागेन विस(ष)मं ऋणं द्वाभ्यां चतुर्भिर्वा भा[५B]गेन समं धनं बोद्धव्यं भागाभावोऽपि सम एक ऋणे हानिर्धने क्षेपो वारघटिसु बोद्धव्यः। अत्र च पञ्चादिभिर्भागो नास्ति, यतः पिण्डेऽष्टाविंशत्या भागे कृते सति सप्ताविंशतिरधिकस्य शेषता नास्ति। तत्र त्रिंशत्तिथिष्य(ष्व)दत्तास्वपि सप्तपञ्चाशदधिका न सन्ति। तत्र च चतुर्भिरेव चतुर्दशच्छेदकारेण भागः सम्भवति। चतुर्दशभागलब्धिश्च धनऋणप्रतिपदिका न ग्राह्या। भागशेषस्तु चन्द्रचरणप्रतिपादक एकादित्रयोदशपर्यवसानो बोद्धव्यः चन्द्रचरणप्रतिपाद-कमेकावि(व)शेषं त्रयोदशपर्यन्तं लोपयित्वा यथाक्रमं चन्द्रचरणपदानि बोद्धव्यानि। तत्रैकस्मिन् त्रयोदशसु वा चतुर्दशभागावशिष्टे पञ्च चन्द्रवारपदा ज्ञेयाः। एवं द्वयोर्द्वादशसु वा दश त्रिष्वेकादशसु पञ्चदश चतुर्षु दशसु वा ऊनविंशतिः। पञ्चसु नवसु वा द्वाविंशतिः। षट्सु अष्टसु वा चतुर्विंशतिः। सप्तसु पञ्चविंशतिरिति। अत्र च रवि [६A]का देया हेया वा सूर्यवत् सूर्ये यदि हेयो(या)ऽत्रापि हेया।

इदानीं पूर्वोक्तानि चन्द्रवारपदानि समुदितानि। गुणकार्यस्य सुखेन परिज्ञानार्थं पृथक्पृथगुच्यन्ते। अत्रापि पिण्डे चतुर्दशभागाऽवशेषे शून्ये न किञ्चिद्देयं हेयं वा, किन्तु पिण्डावयवं प्रथमेन वारपदेन पञ्चाङ्केन गुणयित्वा षडिंवशोत्तरशतेन भक्त्वा लब्धं 


p.5


चन्द्रवारपदेन सह शीलयेत्। शेषस्तु षष्टिहतः, तेन भागः लब्धं पाणीपा(प)लात्मकं वारपदादधो लेख्यम्। शेषः षड् हतः तेन भागः लब्धं श्वासपिण्डं ततोप्यधःस्थाप्यम्। एवं वक्ष्यमाणेषु न्यासो बोद्धव्यः। एकस्मिन्नवशिष्टे चरणप्रतिपादिकं लुप्त्वा तदधस्थेन चरणपदेन गुणे पूर्वोक्तो न्यायः। द्वयोरवशिष्टयोर्द्वौ लुप्त्वा पूर्वेण वारपदेन सह ज्ञेया पिण्डावयवस्य तदधःस्थैः पञ्चभिर्गुणे उक्तो न्यायः त्रिषु चतुर्दशसु भागा[व]शिष्टेषु पूर्वाभ्यां वारपदा[६B]भ्यां सह पञ्चदश। पिण्डावयवस्य तदधःस्थैश्चतुर्भिर्भागे पूर्ववत्। चतुर्ष्ववशिष्टेषु पूर्वैस्त्रिभिः सह ऊनविंशतिपिण्डावयवस्य तदधःस्थैस्त्रिभिः गुणे पूर्ववत्। पञ्चस्ववशिष्टेषु पूर्वैश्चतुर्भिः सह द्वाविंशतिः पिण्डावयवस्य द्वाभ्यां गुणे पूर्ववत्। ष[ष्ठ]स्ववशिष्टेषु पूर्वैः पञ्चभिः सह चतुर्विंशतिपिण्डा[वय] वस्यैकेन गुणे पूर्ववत्। सप्तस्ववशिष्टेषु पूर्वैः षडिभः सह पञ्चविंशतिः। पिण्डावयवस्य तदधःस्थेनैकेन पाणीपलादिकं कृत्वा षडिंवशत्यधिकशतेन लब्धं पञ्चविंशतौ वारपदे हार्येर्यऋ(हार्यमृ)णं कर्तव्यम् अष्टस्ववशिष्टेषु सर्वत्र चरणप्रतिपादकमङ्कं लुप्त्वा भुक्तपदानि त्यक्त्वाऽभुक्पदानि षट्सु स्थानेसु स्थितानि चतुर्विंशतिवारपदानि लिखितव्यानि सर्वत्रोत्क्रमे रेखा(खां) मध्यामतिक्रम्य गतस्य भुक्तवारपदा[नि] परित्यागोऽभुक्तानां समूहं कृत्वा न्यासः प्रत्ययः (कुर्यात्)। क्रमे तु मध्यां रेखां यावत् भुक्तं भुक्तञ्चारप[७A]दं वारपदं मिलित्वा न्यास इति विशेषः। पिण्डावयवस्यापि क्रमेणागमने भुक्तस्य वारपदस्याधःस्थितेन वारपदेन गुण इष्टः ततोऽपि षडिंवशत्यधिकशतेन लब्धं चरणपदेन संमिश्रं कार्यं यथान्यायम्। उत्क्रमणं तु गमने पिण्डावयवस्य भुक्तस्यानन्तरेण मूर्धस्थितेन गुणितस्य षडिंवशत्यधिकशतेन भागेन लब्धं वारपदे हार्यमृणं यथान्याय मिष्टमिति। एकादशस्ववशिष्टेष्वभुक्तानि त्रिषु स्थानेषु स्थितानि पञ्चदश द्वादश-स्ववशिष्टेष्वभुक्तौ द्वयोः स्थानयोः स्थितौ दश। त्रयोदशस्ववशिष्टेष्वभुक्तं एकस्मिन् स्थाने स्थितं पञ्च वारपदं शून्ये सति चतुर्दशभागेनोक्तो न्यायः। रविकापातोऽपि अत्रापि पक्षे समाना देयहेयता। एतानि समस्तानि वारप[दा]नि पूर्वोक्तन्यायेन समनि(वि)षमगतिं बुद्ध्वा देयानि हेयानि वा वारघटिकास्थिति बोद्धव्यम्। बालजनानां दर्शनाय चा(वा)रपदानीमानि लिखितानि इति वारतिथिनक्षत्रशुद्धिः।


p.6


इ[७B]दानीं प्रतिदिनं सूर्यशुद्धिरुच्यते। नक्षत्रध्रुवके प्रतिपदमारभ्य शुक्लां त्रिंशद्दिनानि एकैकवर्द्धितानि चतुर्भिर्हन्यात्। तत् त्रिभागेन मिश्रिते प्रथमप्रतिपदि विंशतिपाणीपलाधिकघटिचतुष्टयं समायाति। तच्च नक्षत्रध्रुवके क्षेप्तव्यं प्रतिदिनमेकैकवृद्धं तथैव कर्तव्यम्। यद्वा द्वाविंशतिपाणीपलाधिकं नाडीचतुष्टयं क्षेप्यं अयमेवशुद्ध इति प्रतिभासते। अथवा सिद्धान्तन्यायेन श्वासद्वयाधिकषडिंवशतिपाणीपलाधिक-घटिकाचतुष्टयं तच्चाशुद्धसूर्यभोगात्मकं ध्रुवकम्। पूर्वापरी(पूर्वापर) भावेन त्रिस्थाप्य एकत्र त्रिराश्यात्मकं पञ्चचत्वारिंशत् नाड्यधिकनक्षत्रषट्कं बोध्यम्। एवं च मेषादि-राशित्रया शोधितत्वाद्रवेः। कर्क्कटो जन्मराशिः समायाति। शेषं कार्यं मङ्गलस्य यथा सूर्यस्यापि ज्ञातव्यम्। किन्तु मङ्गलस्य चा(वा)रपदानि भिन्नानि। सूर्यस्य षट्चत्वारि एकं च चा(वा)रपदानि प्रथमे कक्कर्टराशौ षट्। द्वितीये सिंहे चत्वारि, तृतीये कन्यायामेकम्। ततो विलो [८A]मेन तुलायां एकः चतुर्थे, विच्छे(वृश्चिके) पञ्चमे चत्वारि। धनुषि षष्ठे षट्। तथैव मकरादावपि बोद्धव्यम्। अत्र यच्चारपदमुदयते तच्चारपदादनन्तरेण हतशेषमुत्थाप्य धनमृणं च कृत्वा घटिकास्थानादौ पञ्चत्रिंशदधिकशतेन भागे एकादिके लब्धेर्षडादि चारपदं धनमृणं वा सूर्यभागे(भोगे) कार्यमयनगतिवशादत्र मकरादौ धनम्, कर्क्कटादावृणमिति संक्षेपः। विस्तरतस्तूपङ्गले (?) वक्ष्यते। इत्यतः प्रत्यहं सूर्यशुद्धिः। करणोक्तविधिना तु शुद्धिर्नास्ति, करणोक्तविधिश्चायम्। कर्क्कट-प्रथमपक्षे उणं(ऋणं) तिस्रो घटिकाः, द्वितीयकर्क्कटपक्षे षट्। एवं सिंहेऽष्ट दश। कन्यायां दश एकादश। तुलायां एकादश दश। वृश्चिकेऽष्ट षट्। धनुषि तिस्रः शून्यमयनान्ते। एवं मकरादौ धनं करणे सिद्धान्ते[ऽ]भिप्रायः। एवं षण्मासं पक्षे दिन करश्चरति सा(मास) संक्रान्तिभेदैरिति।

इदानीं चन्द्रशुद्धिरुच्यते। नक्षत्रध्रुवके प्रतिपदादिका [द्] अमावास्यापर्यन्ता-स्त्रिं[८B]शत्तिथयो नक्षत्रस्थाने नक्षत्रस्य प्रतिदिनमेकैकनक्षत्रवृद्ध्यर्थं देयाः। स्थानान्तरे तास्तिथयो घटिकाः कार्याः षडिभर्हताः सत्यः। पूर्वनाडिकास्वरूपास्ता वारघटिका -


p.7


भिदिः(दिभिः) शुद्धाभियुक्ताः कार्याः। पुनस्ता तथाभूता सत्यो नक्षत्रध्रुवकस्य घटिका-दिभिर्यथास्थानं ऊनीकर्तव्या, एवं च सति चन्द्रभोगघटिकादयस्ताः शुद्धा भवति। नक्षत्रध्रुवकोपरिस्थितं प्रतिदिनमेकैकवृद्धाक्षिप्तं दिनकरनक्षत्रपिण्डं चन्द्रभुक्तं नक्षत्रपिण्डं भवति। पदा तु नक्षत्रध्रुवकघटिकादिभिरूनीकरणाय ता ऊनीकरणीया नाडिकादयो न पूर्यन्ते। उ(ऋ)णघटिकादय एवाधिका भवन्ति। गति(णित)वशात्तदा शोधनीयघटिकास्थाने षष्ठिघटिकां दत्त्वा शोधनीयमृणं पूर्वोक्तम्। नक्षत्रध्रुवके च नक्षत्रमेकं दातव्यं यथाक्रमागतं तु नक्षत्रं त्रुट्यति इति वेदितव्यम्। ततश्चात्र यथामाक्रते। मागत(यथाक्रमगते गत) नक्षत्रं परित्यज्यागामिनक्षत्रं लिखनीयम्। ततः परेण ऋणशो[९A]धितशेषा घटिकादयो लिखनीयाः। यदा पुनर्गणितवशाच्छोधिता शेषा घटिकाः षष्ट्यधिका भवन्ति। तदा नक्षत्रघटिका वर्द्धन्त इति बोद्धव्यम्। तदा च न क्रमागतनक्षत्रात्परतः षष्टिघटिका लिखनीयाः। अधिका तु घटिकाऽगामिनो नक्षत्रात्परतो लिखनीयाः। यावद् गणितवशाद्याऽधिका न त्रुट्यति। त्रुटितायां तु तस्या यथाक्रम एवेति। यदा तु साधिका घटिका षष्टिपर्यन्तं वर्द्धते। तदा नक्षत्रमेकं वर्द्धते इति वेदितव्यम्। तदापि आगामिनि नक्षत्रे षष्टिघटिका लिखनीया यावत् क्रमपरिहान्या न त्रुट्यति। त्रुटितासु तासु यथाक्रममेव।

इदानीं विष्कम्भादयः सप्तविंशतियोगाः स्फुटीक्रियन्ते। नक्षत्रध्रुवकोपरिस्थित-नक्षत्रानां(णामं)कचन्द्रभुक्तनक्षत्राणां च मिश्रणे सति सम्भवे सप्तविंशतिशोधितायां शेषो विष्कम्भादयः।

इदानीं बवादि सप्त करणान्युच्यन्ते। शुक्लप्रतिपदादयस्तिथयस्त्रिंशदमावस्या-पर्यन्त एकैकवृद्धी द्विगुणाः [९B] सप्तभागावशेषा एकरहिता बवादिर्भवति। अविद्य(ध्य)मान सप्तभागेब्धे(ने)काङ्करहितोपि बवादिरेव भवति।

इति पञ्चस्वङ्गानि वार-तिथि-नक्षत्र-योगः करणमिति। वाराः सप्तादित्यादयः प्रसिद्धा, तिथयः शुक्लकृष्णयो(योः) पक्षयोः पञ्चदश पञ्चदश प्रसिद्धाः। नक्षत्राश्विनी-प्रमुखानि सप्तविंशति प्रसिद्धानि। योगा अपि विष्कम्भादयः सप्तविंशतिरेव। करणानि बवादयः सप्त। शुक्लप्रतिपदपरार्द्धे बवम्। द्वितीयायां पूर्वापरार्द्धे बालवं कौलवम्। तृतीयायां पूर्वापरार्द्धे तैतिलं गरजम्। चतुर्थ्यां पूर्वापरार्द्धे वणिजं विष्टिरिति। एवं 


p.8


p.8


कृष्णचतुर्दशी(श्यां) पूर्वापरार्द्धे(पूर्वार्द्धे) तत्र विष्टिरिति, अपरार्द्धे शकुनिः(नं)। अमावस्या पूर्वार्द्धे चतुष्पदम्, अपरार्द्धे नागम्। शुक्लप्रतिपदि पूर्वार्द्धे किंस्तुघ्नम्, अपरार्द्धे पुनर्बवमिति। एवमेकादश करणानीति पञ्चाङ्गक्रमः। अश्विन्यादिषु नवनवपादे मेषादयो राशयो द्वादश प्रसिद्धा एव। एषां यथाक्रमं क्षे[१०A]त्रिणः अङ्गारशुक्र बुधशशिरविबुधशुक्रभौमगुरुशनिशौरिसुरगुरवः।

इदानीं वर्षसङ्क्रान्तिध्रुवकमुच्यते। शुद्धवर्षा अष्टभिर्मिश्राश्चतुशतैर्गुणिताः अष्टमिश्ररैः करणवर्षैरूनीकृताः। सप्तदशाधिकशतैर्विभक्ता(शतत्रयेण विभक्ता) वारा भवन्ति। लब्धयः पुनर्भागावशिष्टा घटिकार्थं षष्टिहताः पूर्वोक्तेनैव विभक्ता लब्धिघटी भवति। अत्र मङ्गलादिध्रुवकमादित्यादिकरणार्थं वारस्थाने द्वौ देयौ घटिकास्थाने त्रिंशदिति। षष्टिभागेन लब्धो वारो भवति। सप्तभागावशेषो वै वारस्थाने वारोऽब्दसंक्रान्तिमासे भवति इति न्यायः।

इदानीं मेषादौ सङ्क्रान्तौ क्षेपणे क्षेपका द्वादशवर्षध्रुवके उच्यन्ते। मेष-वृष-मिथु[न]-कर्क-सिंह-कन्या एकं(को) वारस्थाने, घटिकास्थाने सप्तपञ्चाशत्। अत्र वारस्थाने वर्षध्रुवकेन सार्द्धं क्षेपो वारो भवति। तेन वारेण मेषसङ्क्रान्ति-तुला-विच्छ-(वृश्चिक)-धनु-मकर-कुम्भ-मीनमेव भवति। घटिकास्थाने या घटिकास्ताभिर्घटिका-भिरिति न्या[१०B]यः सर्वत्र। चत्वारि वारे त्रिपञ्चाद्(शद्) घटिकासु वृषे वारम्। एको वारे सप्तदश घटिकासु मिथुने। चत्वारो वारे त्रिपञ्चाशद् घटिसु कर्कटे। एको वारे द्वाविंशति घटिसु सिंहे। चत्वारि वारे चतुर्विंशति घटिसु कन्यायाम्। षट् वारे एकपञ्चाशद् घटिसु तुलायाम्। एको वारे सप्तचत्वारिंशत्(द्) घटिसु वृश्चिके। त्रीणि वारे षोडश घटिसु धनुषि। चत्वारि वारे सप्तत्रिंशद् घटिसु मकरे। षट् वारे चत्वारि (चत्वारिंशत्) घटी(टि)सु कुम्भे। शून्यं वारे द्वापञ्चा[श]द् घटिषु मीने। सङ्क्रान्तियोगः कारणे ज्ञातव्यः। सिद्धान्ते पुनरयं सङ्क्रान्तिभोगो न भवति, किन्तु पूर्वोक्तविधिना द्वाविंशतिपाणीपलाधिकघटिकाचतुष्टयं प्रतिदिनमेकादिवृद्धं नक्षत्रध्रुवके दत्त्वा सूर्यस्य घटे शुद्धे सति सङ्क्रान्तिर्निश्चेतव्याम्(व्यम्) इत्येषो न्यायः। वर्षमेकमनेन ध्रुवकेन चैत्रादिमारभ्य भवति, वर्षान्तरे पुनरपरवर्षमेकं प्रक्षिप्य ध्रुवकान्तारं(न्तरं) यत्तेन


p.9


सङ्क्रान्तिनि(र्नि)श्चयः अथवा उत्तरायणमासादौ दशदिनं यावत्परीक्षा क[११A]र्तव्या शंकुच्छायया। यस्माद्दिनादारभ्य शङ्क(ङ्कु)च्छाया निवर्तते उत्तरतस्तु संक्रान्तिदिनं सूर्यस्य, तेन वारेण तया तिथ्या तेन योगेन तेन करणेनेति। तस्मिन् दिने सूर्यभोगे(गो) नक्षत्रभोग स्थाने विंशति घटिकास्थाने पञ्चदश इति मूलध्रुवकम्। तस्मिन् ध्रुवके प्रतिदिनं सूर्यस्य मण्डलदिनैर्लब्धं प्रक्षिप्य ततो रविपदानि शोधयेत् पूर्वोक्तविधिनेति।

इदानीं मण्डलदिनमानोपाय उच्यते। षष्ट्युत्तरत्रिशतं द्विस्थम्, अधस्थं द्विगुणितं ततः पञ्चषष्ट्या लब्धं मूर्ध्नि क्षिपेत्। शेषः षष्टिहतः तेनैव भागः लब्धि-र्घटिकामूर्द्धराशेरधो लिखनीया। पुन(नः) शेषः षष्टिहतः तेनैव भागः लब्धिः पाणीपलं ततोऽप्यधः। शेषः षड्गुणः तेनैव भागेन लब्धिः श्वासस्ततोप्यधः। एवं मापित(साधित) दिनादीनि त्रिस्थाने स्थाप्यारदण्डेभ्यो घटिकाधिकसप्ताधिकसप्तशतैर्मध्य-राशिषु धनं भवति। मध्यराशिभ्यश्चतुष्षष्टिभागलब्धमूर्द्धराशिषु ऋणं [११B] कार्यम्। शेषास्तु यथाक्रमेण दिनादीनि ज्ञेयानि इति सूर्यमण्डलदिनशुद्धिः। 

इदानीं सूर्यस्य दिनभुक्तिरुच्यते। नक्षत्रचक्रात् षष्टिहतात्म(न्म)ण्डलदिनलब्धं घटिकादयो भवन्ति। एवमन्येषामपि स्वस्वमण्डलदिनेन यथास्थाने भागे(गेन) लब्धिर्दिनभुक्तिर्वेदितव्या। चन्द्रस्य तु दिनभुक्तिरपरचक्रनाडीतो माससूर्यस्य त्रयस्त्रिंशदुत्तरशतात्मकं भुक्तिमिश्रास्तं त्रिंशद्दिनभागलब्धात्मिकेति घटी-पाणीपला-श्वास-मण्डलदिनं तु यावतीभिर्दिनभुक्तिभिर्गुणिताभिर्नक्षत्रचक्रं पूर्यते, ताभिः मण्डलदिनानि वेदितव्यानि। दिनानि घटि-पाणीय-मङ्गलमण्डलदिनानि चतुश्चत्वारिंशत्पाणी-पलाधिकैकदण्डाधिकसप्ताशीति अ(त्य)धिकषट्शतानि। दण्ड-पा-(पा=पाणिपल) बुधस्य मण्डलदिनानि सप्तनवत्यधिकसप्तशताधिकाष्टासहस्राणि। गुरोर्मण्डलदिनानि द्वात्रिंशत्य(द)धिकत्रिशताधिकचतुःसहस्राणि। शुक्रस्य मण्डलदिनानि सप्तचत्वारिंश-दधिकद्विशताधि [१२A]कद्विसहस्रम्। शनैश्चरस्य मण्डलदिनानि षट्षष्ठ्यधिकसप्त-शतोत्तरायुतैकम्। राहोर्मण्डलदिनानि नवशतोत्तरसहस्रषट्कम्। केतोस्तु सूर्यसह-चारित्वात् सूर्यस्य मण्डलदिनान्येव। दिनभुक्तिष्तु सर्वेषां स्वस्वमण्डलदिनैर्नक्षत्रचक्रात् पूर्वोक्तेन न्यायेन लब्धा निश्चेया। मङ्गलस्य दण्ड-पाणीपलश्वासबुधस्य पा.


p.10


(पाणीपल) गुरोः पा. श्वा.(पाणिपल-श्वास) शुक्रस्य पा. श्वा.(पाणिपल-श्वास) शनैश्चरस्य पा.(पाणिलप) राहोर्दण्डश्वासार्द्धकेतोः सूर्यस्य भुक्तिरेव।

इदानीं दिनदिशयोर्दक्षिणोत्तरायणयोर्हानिवृद्धी उच्येते। श्वासचतुष्टयाधिक-पाणीपलत्रितयेन इदं मानं कैलाशस्योत्तरभागे हिमवन्तं यावद् वेदितव्यम्।

इदानीं राहुनक्षत्रभोग उच्यते। करणमासा द्वाविंशत्युत्तरशतेन मिश्राः पक्षराशिनिमित्तं द्वाभ्यां हताः पूर्णिमाभोगार्थं पक्षैकस्वभावमेकेन मिश्रा अमावास्या भोगार्थं द्वाभ्यां पक्षद्वयस्वभावाभ्यां मिश्राः षष्ठ्युत्तरशतचतुष्टयेन पक्षस्वभावेन राहोः पक्षभोगार्थं भक्ता भागलब्धिस्तु त्याज्याः। [१२B] शेषाः सप्तविंशतिहता नक्षत्रार्थम्। ततः षष्ट्युत्तरचतुःशतभागलब्धं नक्षत्रं भवति। पूर्ववत् षष्ठ्यादिभिर्गुणेऽनेनैव भागे घटिकादयो भवन्ति। अनेन नक्षत्रादिनोनं (त्रदिनेन) चक्रं शिष्टमुखराहुर्भवति। अश्विन्यादिना नक्षत्रभोगा भवन्ति। चक्रार्द्धमिश्रमेव पुच्छराहुर्भवति।

इदानीं मङ्गलादीनां नक्षत्रभोगार्थं दिनगणनम् उच्यते। करणमासा दिनगण[न]निमित्तं त्रिंशद्धता दिनानि भवन्ति। तानि वर्तमानार्थं पूर्व[व]देकादि दिनसहितानि त्रिस्थानि कर्तव्यानि। अधोराशेः सप्ताधिकसप्तशतैर्लब्धं मध्यराशौ धनं [देयम्]। मध्यराशेरपि चतुःषष्टिभागलब्धं यत्तेन हीनो मूर्द्धरासि(शि)रस्फुटो दिनगणो भवति। द्वयोरपि राश्योः भागशेषो न ग्राह्यः। अस्फुटत्वं च कदाचिद्वाराधिक्यो न ताभ्याम्। स्फुटर्थमेकस्य हानियुता कार्यं स्फुटो भवति।

इदानीं मङ्गल उच्यते। स्फुटदिवसगणः सप्तषष्ट्युत्तरशतेन मिश्रः सप्ताशीत्य-धिकषट्शतैर्मङ्गलमण्डल[१३A] दिनैर्भक्तः, लब्धिर्नक्षत्रचक्रपरिवर्तलक्षणा न ग्राह्याः। शेषो नक्षत्रचक्रहतः पुनर्मण्डलदिनैर्भाग लब्धमृक्षं भवन्ति, पूर्वं(पूर्ववत्) नाड्यादयो ये।


p.11


इदानीं मङ्गलशुद्धिरुच्यते। इह मङ्गलस्य नक्षत्रादिभोगे पूर्वापरभावेन पृथक्कृते एकस्मिन् भोगे शोध्यानि, नवनक्षत्रानि(णि) सार्द्धानि जन्मराशिग्रहणार्थम्। इत्थं सति सिंहे जन्मभवति। अश्विन्यादौ नक्षत्रभोगे यदि ऋणमधिकं भवति शोधनीयराशिहीनो भवति। तदा चक्रं क्षिप्त्वा शोधनीयम्। यदि शोधितशेषस्य चक्रार्द्धादधिकं चक्रार्द्धं वा परिपूर्णं भवति, तदा चक्रार्द्धे त्यक्ते वा तद् द्वितीये मङ्गलभोगराशौ घटिकादौ धनं बोद्धव्यम्। यदा नवनक्षत्रादौ शोधिते चक्रार्द्धं न पूर्यते तदा ऋणम्। एवं सर्वेषामपि बोद्धव्यम्। शोधितं शेषं यदि नक्षत्रमेकमपि न तिष्ठति तदा प्रथमेन चरणपदेन नाड्यादिकं हत्वा पञ्चत्रिंशदधिकशतेनैकराशिनाड्यात्मकेन लब्धं नाडिकादौ यथोक्तेन न्यायेन धनमृणं चापरभोगरा[१३B]शौ ज्ञातव्यम्। परिशोधितं शेषं नक्षत्रं तिष्ठति तदा तन्नक्षत्रं षष्ट्या हत्वाऽधस्था नाडीपिण्डेन सहैकीकृत्य ततो नाडीपिण्डात्पञ्चत्रिंशदधिकशतभागलब्धं एकादिकं चरणपदप्रतिपादकमङ्कं लुप्त्वा चरणपदेष्वेकादिक्रमेण चिह्नं लिखितव्यम्। तत्र पूर्वार्द्धे भुक्तपिण्डमेकीकृत्य तद-धस्थेन शेषनाड्यादिकं निहत्य पञ्चादिना भागं कृत्वा लब्धमुपक्षिप्यापरभोगराशौ धनं देयमृणं हेयं ज्ञेयम्। यदा अपरार्द्धे स्थितेन प्रथमचरणपदेन गुणस्तदोक्तचरण-पदमेकीकृत्यापरार्द्धचरणप्रथमगुणिताच्छेश(षो) नाड्यादि पदात्पञ्चादिलब्धमेकीकृताद् भुक्तचरणपदादावूनीकृत्योनीकृतेन भुक्तचरणपदसमूहेन धनमृणं च बोद्धव्यम्। यदा पुनामू(नर्मू)लरेखां लंघयित्वा गच्छति चरणपदप्रतिपादकमङ्कं चिह्नं तदाऽपरार्द्धे भुक्तपदानि परित्यज्याभुक्तचरणपदानि मीलयित्वाऽभुक्तप्रथमचरणपदेन पञ्चादिलब्ध-शेषं नाड्यादिकं नि[१४A]हत्य ततो निहतात् पुनः पञ्चादिलब्धमभुक्तचरणसमूहे यथास्थानमूनीकृत्योनीकृतशेषमेव धनमृणं ज्ञेयम्। यदाऽपरार्द्धेऽन्तिमे चरणपदे चिह्नं क्रामति तदा तत्परित्यज्य पञ्चादिलब्धशेषं पूर्वार्द्ध(र्द्धे) प्रथमचरणपदेन हत्वा 


p.12


ततो हतात्पञ्चादिलब्धं देयं हेयं वा। एवं सर्वत्र वक्ष(क्ष्य)माणेष्वपि न्यायः समासो (सामान्येन) बोद्धव्यः। चरणपदानि प्रथमे पञ्चविंशतिः द्वितीयेऽष्टादश तृतीये सप्त पूर्वार्द्धे। ततो मध्यरेखां दत्वाऽपरार्द्धराशित्रये बोद्धव्यं विलोमेन। एवं सर्वत्र। ततश्चतुर्थे सप्त पञ्चमेऽष्टादश षष्ठे पञ्चविंशतिः। इति मन्दकर्मणि मङ्गलशुद्धिः।

इदानीं शीघ्रकर्मविधिरुच्यते। मन्दकर्मशुद्धो मङ्गलो बृहस्पतिः शनिश्च रवि-कारहिते रविते शोधनीयः। शुक्रभोगबुधभोगयोस्तु सूर्यः शोध्यः शुक्रभोगबुध-भोगार्थम्। अत्र शीघ्रे मन्दः शोधनीय इति न्यायः। बुधशुक्रौ सूर्याच्छ्रीघ्रौ [१४B] शेषा मन्दा इति। बुधशुक्रयोः सूर्यः शोध्यः शेषा सुधर्मे। इह शीघ्रकर्मणि क्रमेण धनम्, उत्क्रमेण ऋणं सर्वत्र ज्ञेयम्। अर्द्धचक्रे परित्यक्ते ऋणम्, अपरित्यक्ते धनम्। अत्र चक्रार्द्धऽपरित्यक्ते वा एकादि-त्रयोदशपर्यन्तमवशिष्यते। तत्रैकादावैका दिकचरणपद-मेकादिकमवशिष्टमङ्कचिह्नभूतं लुप्त्वा त्रयोदशस्थानस्थ पर्यन्तं लिखनीयम्। पूर्वार्द्धे भुक्ताधःस्थेन चरणपदेनापरार्द्धेऽभुक्तप्रथमेन पूर्वस्थनाडीप्रभृतिकं हत्वा षष्ट्या भागेन पूर्वार्द्धे तेन भागेन लब्धेन सह धनमृणमपरमङ्गलभोगे कार्यम्। अपरार्द्धे लब्धेन हीनं कृत्वाऽपरिभुक्तचरणपदपिण्डमीलयित्वाऽत्रापि धनमृणं ज्ञेयं शेषं पूर्ववत्। वारपदानि प्रथमे चतुर्विंशतिः त्रयोविंशतिस्त्रिधा तत एकविंशतिः द्विधा। ततोऽष्टादश पञ्चदश एकादश त्रयः, ततो मूलरेखा। तत [ए]कादश अष्टात्रिंशत् अशीति त्रिपञ्चाशत्। 

इदानीं बुधशुद्धिरुच्यते। दिनपिण्डं शतेन मिश्रं तदेव शतगुणितं त्रयोविं[१५A]शत्यधिकैकसप्तविं(सप्तति)शतैर्हीनम्। ततः सप्तनवत्यधिकसप्ताशीतिशतैर्मण्डल-दिनैर्हतम्। शेषः पूर्ववत्। ततः सूर्यध्रूवकं पूर्वापरी(र) भावेन द्विस्थाने स्थाप्य एकत्रषोडशनक्षत्रं सार्द्धं त्याज्यम्। ततो विच्छे(वृश्चिके) जन्म भवति। अन्यत् मङ्गलवत्, 


p.13


किं तु वारपदानि भिन्नानि [आदौ] दश सप्त [त्रयः]। तत्र मूलरेखातस्त्रयः सप्त दश शीघ्रचारपदानि षोडश द्विः पञ्चदश चतुर्दश त्रयोदश एकादश सप्त पञ्च शून्यः मूलरेखातश्चत्वारि एकादश विंशतिः अष्टाविंशति चतुस्त्रिंशत्।

इदानीं बृहस्पतिरुच्यते। दिनपिण्डमूलं(नं) षडिंवशतिशतेः द्वात्रिंशदधिकत्रि-शताधिकसहस्रचतुष्टयेन दिनमण्डलाङ्केन विभक्ता। शिष्टं मङ्गलवत्। बृहस्पतिभोगे पूर्ववत्कृते एकत्र द्वादशनक्षत्राणि शोध्यानि। शिष्टं कार्यं मङ्गलवत्। हरा नव त्रीणिमूलात् त्रीणि नव एकादश शीघ्रं वारपदानि।

इदानीं शुक्रशुद्धिरुच्यते। दिनगणं शतैर्हत्वा ऊनं चतुरशी [१५B]त्या सप्तचत्वारि दश(रिंशद)धिकद्वाविंशतिशतैर्दिनमण्डलस्वभावैर्भक्तम्। शेषकार्यं मङ्गलवत्। बुधस्यैव सूर्यध्रुवके पृथक्कृते एकत्र षट्नक्षत्राणि शोध्यानि, मन्दकार्ये पदानि पञ्च चत्वारि रे(ए)कः मूलं एकः। चत्वारि पञ्च शीघ्रं वारपदानि।

इदानीं शनैश्चरशुद्धिरुच्यते। दिनगणं ऊनो विंशत्यधिकाष्टशतानि(धि)क(शत)-चतुर्भिः सहस्रैः [षट्] षष्ट्यधिकमष्ट(सप्त)शताधिकदशसहस्रैर्मण्डलदिनैर्व(र्भ)क्तम्। शेषकार्यं मङ्गलवत्। शनैश्चरभोगं पूर्ववत् पृथक्कृत्वा एकत्राष्टादश नक्षत्राणि शोध्यानि। एवं धनुषि जन्म भवति। मन्दचारपदानि द्वाविंशतिः पञ्चदश षट् मूला षट् पञ्चदश द्वाविंशतिर्भवति। सर्वत्र विलोसेव(मेन) बोद्धव्यानि भवन्ति। शीघ्रचार-पदानि षट् पञ्च पञ्च चत्वारि [चत्वारि] द्वौ द्वौ शून्यमूलरेखायाः परेण द्वौ चत्वारि पञ्च षट् अष्ट त्रीणि इति। [एवं] मङ्गलादीनां पञ्चानां ग्रहाणां शुद्धिरुक्ता। मङ्गलादीनां पञ्चानां ग्र[हा]णां [१६A] मन्दशीघ्रकर्माभ्यामेव सर्वार्थशुद्धिरिति उभयथा शुद्धिरुक्ता।

इदानीं चारलक्षणमुच्यते। इह पञ्चानां ग्रहाणां चारद्वयं शीघ्रो मन्दश्च। तत्र सूर्यमण्डलादुदितानां पञ्चानां क्रमेण गमने शीघ्रचार इत्युच्यते। चरणपदभोगस्तु मूलरेखापर्यन्तम्। मन्दचारस्तु वक्रगमने, पश्चिमाभिमुखेन गमने चारपदे तु मुखां(मूलां) लङ्घयित्वा गमने। अत‍एव क्रमेन धनम्, उत्क्रमेणार्द्धचक्रपरित्यागे ऋणम्।


p.14


अतः क्रमगमने शीघ्रचार इत्युच्यते। उत्क्रमणे मन्दचारे वक्रचार इत्युच्यते। यदा सूर्य[स्य] दक्षिणेन गमनं तदा दक्षिणचारः, उत्तरेणोत्तरचार इत्युच्यते। सूर्यप्रभया समीपगता प्रभाया अस्तमनं तदाऽस्तङ्गता इत्युच्यन्ते। बुधो बृहस्पतिश्च शीघ्रचारे बलवान् भवति। भौमकेतू तु वक्रे बलवन्तौ। मन्दशुक्रौ वक्रचार एव। शीघ्रचारे सर्वे पूर्वाभिमुखाः, वक्रे पश्चिमाभिमुखाः।

इदानीं केतुशुद्धिरुच्यते। षटिंत्रशन्मा[१६A]सैः केतुः पञ्चचत्वारि घटिकाश्चरति। प्रतिदिनं पाणीपलद्वयं श्वासत्रयं चेति। कि[न्तु] यो सूर्यस्य पूर्वेण क्रम सूर्यस्य पश्चिमेन समेक सप्तमः। ततोऽग्नि मासं तस्योदयः ते सता मासैस्त्रिगुणितैः पूर्वपश्चिमोदयभेदेनोदय मण्डले प्रविप्य तिष्ठति। तदा स्य भवन्ति।


[ इति कालचक्रगणितोपदेशः समाप्तः। ]

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project