p.1
रत्नकरण्डोद्घाट - मध्यमनामोपदेशः
नमो भट्टारक-मञ्जुवज्राय। आचार्यनागार्जुनपरम्पराववादो लिख्यते। अत्र यः पुरुष आत्मनोऽशेषजगतश्च अनादिसांसारिक-दुःखमनुस्मृत्य तिलमात्रमपि भावं न गृहीत्वा लोकभावम् अशेषकर्माणि च खेटपिण्डवत् उत्सृज्य आदौ अभ्युद्गत-शुचिं त्रिशीलसंवरं अपरिहरन् श्रवणमननप्रज्ञावान् स्वभावतः करुणामयसद्धर्मार्थं कायं जीवितं चाप्यनपेक्ष्य स आचार्य-आर्यनागार्जुनपरम्पराववादे विद्यमानं सत्पुरुषम् अन्विष्य तं चिरकालं पूजयित्वा आदिकार्मिकत्वात् महासत्रे वा, महानगरे वा, आरण्यप्रान्तादौ वा सुसाध्याजीवे तिष्ठेत्। रत्नत्रयप्रतिबिम्बस्य अग्रे मृदुस्निग्धासने उपविशेत्। एवम् सत्त्वजातीयांस्तु अण्डजान् संस्वेदजान्, औपपादुकान् रूपिणोऽरूपिणो, संज्ञिनोऽसंज्ञिनो पाञ्चगतिकान् सत्त्वान् संपश्येत्। सर्वे तु मम मातरः, आभिः मातृभिः ममार्थं पापः कृतः, उपचय-वशात् तद्विपाकेनाधुनाऽनेकदुःखानि अनुभवन्ति। यथा आर्यनागार्जुन आह -
विकल्पवासनादोषान् जगत्त्रयविमोहकान्।
समभिवीक्ष्य तान् धीमान् संसारस्थानं समुद्धरेत्॥
अपि च, आर्यनागार्जुनपादेन,
भवचारकस्यान्तःस्थितक्लेशवाहिना संताप्तं।
यैः सत्त्वैः पूर्वकाले हि मातापितृबान्धवाः॥
भूत्वाऽहं बह्वुपकृतः मया ते दुःखिनः कृताः।
इदानीं ते सुखीकर्तुं सर्वथा ह्युचितं मया॥
इत्याख्यातत्वात् कृतज्ञतया अतोऽहम् उत्तारयिष्ये मोचयिष्ये आश्वासयिष्यामि, निर्वर्तयिष्यामि - इति चतुरप्रमाणेभ्यो बोधिचित्तोत्पादाय तदर्थं संभारद्वयमुपचेयम्। स्वप्न-चित्तावियोगत्वात् अयमाकाशधातुः रत्नत्रयेण तिलसम्पुटवत् व्याप्तः। तत्र सप्तश्रेष्ठानां, सप्तसंज्ञानां च स्मरणं तावद् अनुस्मृतिगाथायामपि आख्यातम्। षट् प्रतिपक्षद्वारेण कायव्यूहं कृत्वा वन्दना-पूजना-पापदेशना-अनुमोदना-याचना-अध्येषणा-शरणगम-बोधिचित्तोत्पाद-कायसमर्पण-संवरोपादानमहायानमार्गप्रतिष्ठादिप्रतिज्ञाभिः महाबोधौ परिणामयितव्यम्। तत् सर्वम् धर्मधातौ भूत्वा, पूजास्थानमित्येतत् सर्वं पूजागणादि आदौ कुतः आगतम्, अधुना कुत्र गतम् इति परीक्ष्यमाणं सत् कुतश्चिन्ना गच्छति। इमे
p.2
बाह्यान्तर्धर्मा अपि तद्वदेव। सर्वं स्वचित्तं मायाकुर्वितं मृषैव भासते। ये आभासन्ते, तेषां मिथ्यात्वात् ते काये समाहिताः कर्तव्याः। (तदनन्तरं) तेऽपि चित्ते समाहिताः कर्तव्याः। चित्तं तावद् निर्वर्णं निराकारं स्वभावतः प्रभास्वरं तथा आदि-अनुत्पन्नमेव। सा प्रत्यवेक्षणप्रज्ञाऽपि प्रभास्वरा एव भवति। तन्मध्ये प्रज्ञा तावत् किमपि न भवति। सा कुत्रापि अस्थिता, सर्वथा असिद्धा, केनाप्याकारेण अनुत्पन्नैव। सर्वप्रपञ्चोपशमम् सर्वे निमित्ताणवो विचरणस्थलस्य शारदीयमध्यह्नाकाशस्य इव खवज्रसमाधिनिराभासे यथासामर्थ्यं प्रतिष्ठापयितव्याः। अनभ्यासवशात् यदि विचलिता भवन्ति, तदा ते पुनस्तत्रैव आनीय स्थापयितव्याः। अन्येष्वपि यामेषु तथैव करणीयम्। यदि यामसंख्या अधिका स्यात्तदा समयः अल्पः करणीयः। अभ्यासेन यदा चित्तं दृढं भवेत् तदा ( यामसमयः ) यथासम्भवम् अधिकः (लम्बमानः) करणीयः। पञ्चसु आवरणेषु प्रत्येकं (आवरणं) प्रतिपक्षद्वारा शमयितव्यम्। तदनन्तरं अक्षिणी उन्मूल्य कथनीयम् - ' अहो आश्चर्यम्'। पूर्णतः अक्षतेऽपि धर्मधातौ केनापि प्रकारेण तस्यावभासः महाश्चर्यकरः। इदं तावत् स्वचित्तं मिथ्याविकुर्वितं सत् मिथ्यैव सन्दृश्यते। अवभासमानमपि सत् मिथ्यैव, यतो हि अष्टाभिः मायोपमाभिः लक्षितं सदपि निःस्वभावमेव - इत्थं दृष्ट्वा प्रार्थनां विधाय शनैः शनैः पर्यङ्कं परित्यज्य उत्थातव्यम्। तथा सञ्चानिर्माणादिकं यथासम्भवं कुशलकर्म करणीयम्। षट्सु यामेषु सम्भारद्वयसञ्चये प्रयत्नशीलेन भाव्यम्। शयनकाले शून्यता भावयितव्या। भावनां कुर्वता शयनीयम्। तदनन्तरम् अन्तिमे यामे मैत्रीकरुणाभ्यां समुद्भुतेन बोधिचित्तेन जागरणं भवेदिति विचारणीयम्। अनया प्रक्रियया परमार्थबोधिचित्तस्य उत्पत्तिर्भवतीति।
भोजनं हि चतुर्षु भागेषु विभजनीयम्। आर्यनागार्जुनेन कथितम् - परमार्थ - बोधिचित्तं तावत् तन्त्रचर्यासंलग्नाः बोधिसत्त्वाः भावनाबलेन उत्पादयन्ति - एवमभिहितम् अस्ति। इत्थं सादरं निरन्तरं अविच्छन्नः प्रयत्नः स्यात् तदा सत्त्वेषु करुणाऽपि तद्बलेन समुत्पन्ना भविष्यति। आचार्यनागार्जुनेनापि कथितम् -
एवं योगी यदा कुर्यात् शून्यताभावनाभिमाम्।
तदा बुद्धि परार्थे स्यादनुरक्ता न संशयः॥
अर्थे स्वस्मिन्नुत्पादे बुद्धया ह्यादौ समीक्षते।
भवपङ्कावमग्नेषु कारुण्यं जायते स्वतः॥
p.3
एवम् तेन योगिनाऽऽभ्यन्तरसमाहिते सति परमार्थबोधिचित्तं भावयितव्यम्। ततोऽभ्युत्थाने संवृत्ति-बोधिचित्तभावनात् शून्यतामहाकरुणागर्भं द्विविध बोधिचित्तं स्थिरं कुर्यात्। वैरोचनाभिसम्बुद्धौ,
बोध्याकाशस्य लक्षणं सर्वकल्पविहीनं तद्॥
रत्नगुणसञ्चयगाथायामपि -
नास्ति प्राप्यधर्मो हि परमाणुस्वरूपकः।
न च बोधिस्कन्ध विमृशित्व परामृशेया।
ये आदिकर्मिक न देशयितव्य एवम्॥
महामातृसुत्रे (प्रज्ञापारमितासूत्रे) उक्तम्-मया सर्वस्य अप्राप्तौ एव बोधिहृदयम् अभिसम्बुद्धत्वं प्राप्तम्। आर्यधर्मसङ्गीतौ (कथितम्) - तत्र अल्पेच्छवो बोधिसत्त्वाः के सन्ति ? ये बोधिमपि नेच्छन्ति। के सन्ति तृप्ताः ? ये बोधिचित्तं प्रति अपि न सन्ति इच्छुकाः - इत्येवं कथितम्। इत्येवम् अनेकसूत्ररत्नानि तन्त्रे कथिताम्। " श्रीगुह्यसमाजेऽपि - " सर्वभावविगतं स्कन्ध-धात्वायतन-ग्राह्य-ग्राहकवर्जितं धर्मनैरात्म्य-समतया स्वचित्तम् आद्यनुत्पन्नं शून्यतास्वभावम्।"
अष्टसाहस्रिकाप्रज्ञापारमितायाम् अप्युक्तम् - " शारीपुत्र, यन्नास्ति चित्तम्, तदस्ति असच्चित्तम्, यदस्ति असच्चित्तं तदस्ति प्रकृतिप्रभास्वरम् - इति।
आर्यनागार्जुनेनाप्युक्तम् -
सर्वैर्बुद्धैर्न च दृष्टं चित्तं तावन्न दृश्यते।
यदस्ति निःस्वभावं हि कथं तद् द्रष्टुमिष्यते॥
आर्येण आर्यदेवेनापि कथितम् -
यदा चित्तमचित्तं वै कल्पनानां निराकृतिः।
न दृश्यते तदा चित्तं कुत्र तिष्ठति याति वा॥
आर्यधर्मसंगीतौ चाप्युक्तम् -
" अन्यच्च देवपुत्र, बोधिचित्तं प्रति अभिनिवेशोऽपि तावद् मारकर्म। चित्तं मायिकं न ज्ञात्वा चित्तं वस्तुस्वरूपेण परिगृह्य ये अनुत्तरायां बोधौ चित्तोत्पादं कुर्वन्ति, तेभ्यो देशना कर्त्तव्या - एवमुक्तम्। अत एव असंख्यपूर्वजन्मसु महायाने सम्यग्
p.4
अभ्यस्ताः सुसंशोधिततन्त्रमार्गास्तथा तीक्ष्णेन्द्रियास्तु इदमेव संवृतिबोधिचित्तं परमार्थ-बोधिचित्तरूपेण अवगत्य शून्यताकरुणावशात् (तेषां तद्वोधिचित्तं) सर्वाकाराग्रवर्ति-शून्यतायां प्रतिष्ठितं भवति। अनेनैव तावदाशयेन आर्यनागार्जुनेनापि कथितम् -
बुद्धेन बोधिचित्तं तु ह्यात्मस्कन्धादिकल्पनैः।
अनावृतं सदा ज्ञातं शून्यतालक्षणात्मकम्॥
तत्कथमिति चेत् ? संवृतौ मायापुरुषेण ऋद्धिमता पुरुषेण वा उत्पादितचित्तोत्पादवत् उत्पादयितव्यम्। यथा आर्यसागरनागराजपरिपृच्छासूत्रे उक्तम् -
" सागरनागराज, एकेन धर्मेण बोधिसत्त्वः सत्त्वरमेव सम्यक्सम्बोधौ अभिसम्बुद्धो भविष्यति। कोऽस्ति स एको धर्मः ? सर्वसत्त्वापरित्यागात्मकं बोधिचित्तम् इत्युक्तम्। अतः तच्चित्तमुत्पादयितव्यम्। अस्य चित्तोत्पादस्य हेतुः, प्रत्ययः, स्वभावः, आकारः, शोधनं ग्रहणं रक्षा वर्धनं, तस्यानुशंसनम्, त्यागहेतुः, त्यागदोषः, अन्येषु (जनेषु) उत्पादे अनुशंसा, उत्पादे विध्नकरणे दोषः इत्यादीनां ज्ञाने निपुणेन (कुशलेन) भाव्यम्।
सम्पन्नगोत्रलिङ्गादिहेतुमता, यथा-आर्यसत्यकपरिवर्तसूत्रे कथितम् - " स उदाराधिमुक्तिवशात् हीनाधिमुक्तो न भवति। स स्वभावतः महाकारुणिकत्वात् शुक्लगुणान्वितो भवति पापमित्राणां परित्यागकरणात् कल्याणमित्रपरिगृहीतो भवति, यथोक्तानुष्ठानाद् अविसंवादी भवति। बुद्धलोके विचरणेन आनन्दितो भवति। अनवद्यकायवाक्चित्तकर्मवशात् पापरहितः, निर्दोषाध्याशयवशाद् दृढसमादानम्, रसेषु अनासक्तिवशाद् प्रियशीलः, माराधिष्ठानरहितः। कुशलमूलसञ्चयवशेन शोभनाचारवान्। महाकरुणायाः गोचरीभूतत्वात् सत्त्वेषु अनुकम्पकः। उपकरणानां दानवशात् सर्ववस्तुषु अल्परागवान् इति कथितम्। आर्येण असङ्गेन प्रोक्तम् - चतुर्विधः भवति हेतुः, यथा - गोत्रम्, कल्याणमित्रम्, करुणा, सांसारिकदुःखक्षान्तिः इति।
प्रत्ययस्तावद् द्विविधः- प्रयोगप्रत्ययः, आशयप्रत्ययश्च। प्रत्ययप्रयोगस्तावत् सम्भारसञ्चयः, अन्तःशोधनं विशिष्टशरणगमनञ्च। सम्भारसञ्चयोऽपि अहोरात्रे वारत्रयं सप्ताङ्गपूजा, गम्भीरप्रज्ञापारमितासूत्राणां (मनसि) जल्पनं तथा पाठः। धारणीजापः, रत्नानां विस्तृतपूजा, संघपूजा एवं भोजनदानम्, बालोत्सवः, अनाथेभ्यो दानम्, भूतबलिः, इत्यादिकं कर्त्तव्यम्।
अन्तःशोधनमपि पूर्ववत् गम्भीरसूत्राणां (मनसि) जल्पनं पाठश्च धारणीजापः, सप्ताङ्गपूजा, त्रिस्कन्ध (सूत्र) पाठः, कर्मावरणानां धाराविच्छेदः, सुवर्णप्रभास-दुन्दुभिघोषगाथादिभिः पापदेशना कर्त्तव्या।
p.5
विशिष्टशरणगमनं तावत् सप्तभिर्विशेषैर्विशिष्टम्, यथा-अधिष्ठानपुद्गल-वैशिष्ट्यम्, शरणस्थान-त्रिरत्नवैशिष्ट्यम्, कालवैशिष्ट्यम्, आशयवैशिष्ट्यम्, प्रयोगवैशिष्ट्यम्, शिक्षावैशिष्ट्यम्, अनुशंसावैशिष्ट्यं च।
एतेषु शरणस्थानत्रिरत्नवैशिष्ट्ये तावत् (प्रथमं) हीनयानशरणं तु यथा अभिधर्मकोशे प्रोक्तम् -
बुद्धसङ्घकरान् धर्मानशैक्षानुभयांश्च सः।
निर्वाणं चेति शरणं यो याति शरणत्रयम्॥
अत्रेदमस्ति वैशिष्ट्यं यत् रत्नत्रयं तावत् त्रिविधम्, यथा-तथता त्रिरत्नं पुरतः स्थितं त्रिरत्नम्, अभिसमयत्रिरत्नं च। अस्य विस्तृतोऽभिप्रायो गुरुभ्यः प्रष्टव्यः। पुनश्च शिक्षावैशिष्ट्यं कथयामि रत्नत्रयस्य वैशिष्ट्यं गुणानुस्मरणं चानुस्मृत्य रत्नत्रयं कायप्राणानां कृतेऽपि अपरित्यज्य पौनः-पुन्येन शरणगमनद्वारा महाकृतज्ञाताऽनुस्मरणद्वारा च सर्वदा कदाचित् पूजनम्, अन्तशः एकपात्रजलमात्रसमर्पणम्, आहारादिसमर्पणं च कर्त्तव्यम्। यत्किमपि कार्यं क्रियताम् अथवा यत्किमपि प्रयोजनं स्यात् रत्नत्रयस्य प्रार्थनां कृत्वैव करणीयम्। अन्येषां लौकिकोपायानां परित्यागः क्रियताम्। अपि च, अन्येऽपि जीवाः (प्राणिनः) अनेनैव नयेन प्रयोज्यन्ताम्। यानानां सामान्यशिक्षा तु बुद्धस्य शरणागतिरित्येव, अस्मात् कारणात् लौकिकदेवानां वन्दनं नैव करणीयमित्यादि एव। इयं तावत् त्रयाणां शरणानां पृथक् शिक्षा।
आशयस्य हेतुस्तावद् यथा आर्यज्ञानमुद्रासूत्रे करुणापुण्डरीकसूत्रे च कथितम्, यथा - "बुद्धबोधौ चित्तोत्पादः, सद्धर्मस्य विनाशकाले चित्तोत्पादः, दुःखिनः सत्त्वान् अवलोक्य चित्तोत्पादः, बोधिसत्त्वान् प्रति चित्तोत्पादः, पूजाम् स्वार्पणं च कृत्वा चित्तोत्पादः, अपरेषां देवान् दृष्ट्वा चित्तोत्पादस्तथा तथागतकायं दृष्ट्वा चित्तोत्पादः -
एतेषु चित्तोत्पादेषु प्रथमे त्रयश्चित्तोत्पादाः वास्तविकाश्चित्तोत्पादाः सन्तीति अभिहितम्। आर्यदशधर्मकसूत्रेऽपि अभिहितम् - बुद्ध-बोधिसत्त्वानां प्रेरणया चित्तोत्पादः, बोधिचित्तस्य अनुशंसां ज्ञात्वा चित्तोत्पादः, दुःखिनः सत्त्वान् दृष्ट्वा चित्तोत्पादः, बुद्धबोधिसत्त्वानां सम्पन्नतां दृष्ट्वा चित्तोत्पादः क्रियत इति प्रोक्तम्। महायानसूत्रालङ्कारे तावत् पञ्च प्रत्ययाः कथिताः, तथा हि -
मित्रबलाद् हेतुबलान्मूलबलाच्छ्रुतबलाच्छुभाभ्यासात्।
अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात्॥
p.6
आर्येण असङ्गेन चत्वारः प्रत्ययाः चत्वारि च बलानि अभिहितानि। तत्र चत्वारः प्रत्ययास्तावदिमे - (१) तथागतसम्पन्नतां दृष्ट्वा चित्तोत्पादः, (२) तदनुशंसां दृष्ट्वा चित्तोत्पादः, (३) सद्धर्मस्य विनाशकाले चित्तोत्पादः तथा (४) दुःखिनः सत्त्वान् दृष्ट्वा चित्तोत्पादः। तत्रेमानि चत्वारि बलानि, यथा-हेतुबलम्, प्रयोगबलम्, आत्मबलं तथा परबलम्। अनेन प्रकारेण हेतु-प्रत्ययानाम् उपचये सति बोधिचित्तस्य उत्पादो भविष्यति। उत्पादस्वभावः छन्दः कामः प्रणिधानं चेति पर्यायाः। यथा आर्यमैत्रेयनाथेनोक्तम् -
चित्तोत्पादः परार्थाय सम्यक्संबोधिकामता॥
छन्द-करुणासम्प्रयुक्तेन मनोविज्ञानेन विशिष्टविषयालम्बनं तावत् स्वभावः। (यतो हि अयं छन्दः) अशेषाणां शुक्लधर्माणां शोभनः आधार इवास्ते। अयं छन्दः पृथ्वीसदृशः बोधिचित्तमस्ति।
तस्याकारः तस्यैव विशेषः अर्थात् भेदक आस्ते। शठतादिदोषमलैः अलिप्तत्वात् स विमलः। श्यामिकातः मृत्तिकादोषतः रहितः सुवर्णम् इवास्ति। तदैव चित्तं हि सुचित्तं सुवर्णवत्। अस्य तावद् विस्तृतो निर्देशः आर्याक्षयमतिनिर्देशसुत्रेऽभिहितः, तथाहि - भदन्त शारीपुत्र, तद् बोधिचित्तं केनाकारेण उत्पद्यते ? प्रोक्तम् - कुलपुत्र, तद् बोधिचित्तं हीनयानेन असंसृष्टत्वाद् परिशुद्धाकारेण उत्पद्यते - इत्यादिना विस्तरेण प्रतिपादितम्।
तस्य शुद्धिस्तु (चित्तशुद्धिस्तु) तच्चित्तं न आदिकालतः कुतश्चित् समायातं तथा अन्तेऽपि न कुत्रचित् गच्छति, तन्नास्ति कुत्रापि स्थितम्, तत्तावत् निर्वर्णं निराकारम्, आदितः अनुत्पन्नम्, अन्ते चानिरुद्धम्, स्वभावतः शून्यं प्रभास्वरं च। तस्य पौनः - पुन्येन स्मरणं कर्त्तव्यम्। अथवा मैत्रीमयं करुणामयं च बोधिचित्तं अभ्यासेन दृढीकर्त्तव्यं तथा अत्यधिकम् अभ्यसनीयम्। तच्च प्रतिक्षणम् अविच्छिन्नतया स्मर्तव्यम्। (सर्वदा) स्मृत्या सम्प्रजन्येन योनिशश्चिन्तनेन अप्रमादेन च सह वर्त्तितव्यम्।
बोधिचित्तग्रहणं तु चतुर्विधसत्त्वानाम् अपरित्यागेन सह, सत्पुरुषाणाम् अष्टाभिर्विकल्पैः, आभ्यन्तरैर्दशभिः उपायकौशल्यैः, बाह्यैः षड्भिः उपायकौशल्यैः, स्वपरपरिवर्तनेन, स्वपरसमतया, आर्यभद्रचर्या-वज्रध्वजयोः दशभिर्महाप्रणिधानैः सह (प्रणिधानं) कर्त्तव्यम्। सत्त्वानाम् अपरित्यागस्तावत् स्वस्य उपकारकाणाम् सत्त्वापरित्यागः, स्वस्य अपकारकाणाम् अपरित्यागः, साक्षाद्रूपेण दुःखिनां-दुःखहेत्वादीनाम् अपरित्यागस्तथा सामान्यरूपेण सत्त्वानाम् अपरित्याग एवोच्यते।
स्वस्योपकारकाणां सत्त्वानाम् अपरित्यागस्तु कृतज्ञताज्ञापनेन कृतवेदिनाश्चित्तस्य अपरित्याग एवोच्यते आचार्यनागार्जुनपादेनोक्तम् -
p7
भवकारागारे यथा कष्टं दत्तं यथा पुरा।
तथैव सर्वथा युक्तं सुखस्य प्रापणं खलु॥
मातापित्रादिरूपेण बन्धुरूपेण वा कृतः।
उपकारो मया तेषु ज्ञापनीया कृतज्ञता॥
अस्य तावत् विस्तृतोऽर्थः सूत्रेषु द्रष्टव्यः। अस्य जन्मनो माता-पितृभिः, बन्धुमित्रादिभिश्च य उपकारः कृतः तेषामुपकारं ज्ञात्वा तदर्थं कृतज्ञा ज्ञापनीया। यद्येवं न क्रियेत तदा 'कृतं नोपकृतम्' इति। अयं तावद् दोष एव सम्भवति।
स्वस्य अपकारकाणां सत्त्वानाम् अपरित्यागस्तु कर्मस्वकताचित्तेन अपरित्याग एवोच्यते। यथा -
जम्बूद्वीपनिवासिनः उत्तमपुरुषास्तु उपकारस्य स्थाने उपकारं कुर्वन्ति, अपकारस्थानेऽपि उपकारं कुर्वन्ति, दुष्कर्मणः स्थानेऽपि उपकारं कुर्वन्ति।
अपि च, अष्टसाहस्रिकायामप्युक्तम् - अपरैः कृतेऽपि महति अपकारे बोधिसत्त्वस्तेन सह विवादं नैव करोति - अतः द्वेषः क्रोधश्चापि नैव कर्त्तव्यः। यदि स भवन्तं हन्यादपि, तथापि तं प्रति द्वेषो नैव धारणीयः। कमपि सत्त्वं प्रति द्वेषो नैव करणीयः। बोधिसत्त्वैः दृढं चित्तम् उत्पादनीयम्। पुनश्चोक्तम् - बोधिसत्त्वैः सर्वसत्त्वान् प्रति माता-पितृ-पुत्र-पुत्रीवद् संज्ञा उत्पादयितव्या - यथा स्वस्मै सुखमिष्यते तथैव परेऽपि सुखेन योक्तव्याः। अशेषाः सत्त्वाः दुःखेभ्यो मोक्तव्याः। कोऽपि सत्त्वः नैव परित्यक्तव्यः। यदि ते (सत्त्वाः) भवतः शरीरं शतधा विखण्डयन्ति, तदाऽपि तान् प्रति दुर्भावनां नैवावधृत्य मैत्री करुणा चैव उत्पादनीयेत्यभिहितम्।
भट्टारकेण तावद् आर्यदेवेन प्रोक्तम् -
दुर्धर्षा प्राप्यते हनिः पूर्वकर्मफलं हि सा।
इत्यवगन्तव्यम्।
पुनश्चोक्तम् -
p.8
अन्यथा देशनामन्यकृतां हि श्रवणं विना।
क्रुद्धः सन् पीडनं चापि बोधिते च परैरपि॥
देशनाक्रोधनस्त्यागः आक्रोशे क्रोशनादयः।
इत्यादिना पाराजिकस्य दुष्कृतस्य च दोषः प्राप्स्यते।
वस्तुतः दुःखितसत्त्वानाम् अपरित्यागेन शीतोष्णबुमुक्षातृषादिना अनन्तर्यकर्मादिना भ्रष्टशिक्षादिना विभिन्नदुःखसन्तप्तान् जनान् दृष्ट्वा करुणाचित्तेन तेषाम् अपरित्याग एवोपदिष्टः। भट्टारकेण आर्यदेवेन कथितम् -
द्वादशयोजनव्यासं चक्रं वै शिरसि भ्रमत्।
बोधिचित्तं समुत्पाद्य अपनीतमिति श्रुतः॥
आचार्येण शूरेणापि कथितम् -
रुग्णपुत्रमुपादाय यथा माता सुदुःखिता।
तथैव बोधिसत्त्वा हि दुष्टेषु करुणामयाः॥
अपि च आचार्येण भव्येनपि कथितम् -
तीव्रदुःखैस्तु सन्तप्तान् दृष्ट्वा दुःखितपुद्गलान्।
अध्यात्मकरुणोत्पादः उपकारो विधीयते॥
अस्य विस्तारः सूत्रेषु द्रष्टव्यः। दुःखहेतूनां सत्त्वानां च करुणामयचित्तद्वारा परित्यागो नैव क्रियते, यतो हि तेषां भ्रष्टशिक्षातस्तथा आनन्तर्यादिना हिंसाद्यनेक-पापकर्मभ्यो निवारणं क्रियते। यथा आर्यस्मृत्युपस्थानसूत्रे प्रोक्तम् -
गम्भीरव्रतमादाय न रक्षन्ति ये जनाः।
नूनं तदस्थिमांसादि कुक्कुले ज्वलयिष्यति॥
इत्येवमुदीरितम्। पुनश्च
दुष्टवा दुःशीलसत्त्वांश्च इच्छालोभप्रतिष्ठितान्।
अश्रुपातं करिष्यामो गतिः कान्धस्य भाविता॥
p.9
आचार्यनागार्जुनेनापि कथितम् -
ये चेच्छन्ति जनाः पापं कर्तुं जगति सर्वदा।
ते पापेभ्यो निवृत्ताः स्युर्निर्विध्नाश्च भवन्तु ते॥
सत्त्वापरित्यागस्तु सामान्येन मैत्रीचित्तद्वारा अपरित्याग एव। आर्यप्रतिभानमतिपरिपृच्छायां कथितम् - "बोधिसत्त्वेन सर्वे सत्त्वाः पुत्रवत् द्रष्टव्यास्तथा स्वशरीरवद् द्रष्ट्व्याः।
महायानसुत्रालङ्कारेऽपि प्रोक्तम् -
यथा कपोती स्वसुतातिवत्सला
स्वशावकांस्तानुपगुह्य तिष्ठति।
तथाविधायां प्रतिघो विरुध्यते
सुतेषु तद्वत् सकृपेऽपि देहिषु॥
आर्यविद्योत्तममहातन्त्रेऽपि -
न बोधिसत्त्वः स्वसुखेषु रक्तः
स्वकीयदुःखान्न बिभेति चापि।
परस्य दुःखैः परिपीडितश्च
सुखेऽन्यतो नन्दति बोधिसत्त्वः॥
श्रीवज्रडाकिनीतन्त्रे श्रीपरमाद्यतन्त्रेऽपि कथितम् -
यावज्जगदवस्थायां भवन्ति वरसुरयः।
तावत् सत्त्वार्थमतुलं शक्ताः कर्तुमनिर्वृताः॥
विस्तरस्तु सूत्रे द्रष्टव्यः।
सत्पुरुषाणां तावदष्टौ भवन्ति विकल्पाः, तद्यथा - अहो, अहं सर्वसत्त्वानां जन्मदुःखस्य विनाशं कुर्याम्। एवमेव जरादुःखं व्याधिदुःखं मरणदुःखं विनाशं कुर्याम्।
कदा अहं अनुत्तीर्णजनान् उत्तारयेयम्, अमुक्तजनान् मुक्तान् अनश्वस्तान् अपरिनिर्वृतान् परिनिर्वृतान् कुर्याम्। इत्थं प्रकारकं चित्तं प्रतिक्षणं निरन्तरं स्मर्तव्यम्।
आध्यात्मिकेन उपायकौशल्यं तु परकीयदुःखं स्वकीयदुःखमिव स्वीकरणीयम्, स्वदुःखेन परदुःखस्य निवारणम्, स्वसुखस्य परदुःखेन शह परिवर्तनम्, परेषां दुःखैः सर्वदा सन्तप्तत्वम्, यथाहि विद्योत्तमतन्त्रे प्रोक्तम् -
p.10
न बोधिसत्त्वः स्वसुखेषु रक्तः स्वकीयदुःखन्न बिमेति चापि।
परस्य दुःखैः परिपीडितश्च सुखेऽन्यतोनन्दति बोधिसत्त्वः॥
परकीयपापं स्वपापमिव मत्वा देशनम्, परकीयपुण्यं स्वपुण्यमिव मत्वा अनुमोदनम्, स्वपुण्यं परपुण्यं मत्वा परिणामनं कृत्वा अनुमोदनम् तथा परपुण्यं स्वपुण्यं मत्वा परिणामनं च कुर्वन्ति।
बाह्यम् उपायकौशल्यं तावत् चत्वारि संग्रहवस्तूनि, पञ्च विद्यास्थानानि, दश कौशल्यानि, षट् पारमिताः, चत्वारि अप्रमाणानि इत्यादिभिः अशेषसत्त्वानां परिपाकं कृत्वा अनुग्रह-निग्रह-उल्लोपनताडनोपहारप्रदानादीनि च सन्ति। आर्यवज्रध्वजे प्रोक्तानि दश परिणामनानि, भद्रचर्यायां नागार्जुनविरचितायां प्रणिधानविंशतौ लवणनद्यां प्रोक्तैः एकादशश्लोकैः सत्त्वानां परित्यागः सर्वथा नैव कर्त्तव्यः। आर्यकाश्यपपरिपृच्छायां कथितम् - प्राणानां कृतेऽपि मिथ्याऽभाषणं सत्त्वान् प्रति शाठ्यं विना अध्याशयेऽवस्थानं चित्तोत्पादयुक्ते पुद्गले शास्तृसंज्ञा, सत्त्वानां विपक्वकरणम् इत्यादीनि अनुत्तरसम्यक्संबोधौ विपक्वकरणम् अस्ति, न तु श्रावक-प्रत्येकबुद्धभूमौ। एवमेव आर्यावलोकितेश्वरपरिपृच्छायामपि उक्तम् - "कुलपुत्र, चित्तोत्पादानन्तरं बोधिसत्त्वैः सप्तधर्मेषु शिक्षा शिक्षितव्या, यतो हि ते कल्पनायामपि कामभोगं न कुर्वन्ति, तदा द्वीन्द्रियसंयोगस्य तु कथैव का ? स्वप्नेऽपि अकल्याणमित्रस्य असेवनम्, पक्षीव निष्परिग्रहता, प्रज्ञोपायकौशल्येन अहङ्कार-ममकाररहितता, भावाभावौ परित्यज्य दृढा शून्यतासमाधिभावना तथा असम्यक्कल्पनानां शान्तत्वात् संसारं प्रति आसक्तभावः।
संक्षेपेण स्मृतिसम्प्रजन्यचिन्तनं तथा अप्रमादाद् अवियोगः।
असम्प्रजन्यचित्तस्य श्रुतचिन्तितभावितम्।
सच्छिद्रकुम्भजलवन्न स्मृताववत्तिष्ठते॥
पुनश्च
सिद्धिः सम्यक्प्रहाणानामप्रमादावियोजनात्।
स्मृत्याथ सम्प्रजन्येन योनिशश्चिन्तनेन च॥
इत्थं तावद् आचार्यशान्तिदेवेन कथितम्।
p.11
प्रतिक्षणं चित्तम् अविस्मृत्य अविच्छिन्नस्मृत्या बोधिसत्त्वचित्तं परिग्रहीतव्यम्। यद्येवं न क्रियेत् तदा -
दुःखितानाथभूतेभ्यो धर्मार्थौ मत्सरेण वा।
न दानं धर्मकामेभ्यो रुग्णसेवाविवर्जनम्॥
युक्तार्थेषु प्रवृत्तिर्न सत्त्वार्थे स्वल्पकारिता।
इत्यादिना पाराजिकस्य दुष्कृतस्य च दोषः प्राप्स्यते। बोधिचित्तानां परिरक्षणं तु चित्तस्य अविस्मरणं, ह्रासात् त्यागाच्च रक्षणम् उच्यते। आर्यकाश्यपपरिपृच्छायाम्
उक्तम् -
अन्येषु पश्चात्तापविहीनेषु तेषु पश्चात्तापोत्पादः करणीयः, उपाध्याय-आचार्य-दक्षिणीयानां वञ्चनं, सत्त्वानां शाठ्येन छलेन अनाध्याशयेन भोगः, चित्तोत्पन्नं पुद्गलं प्रति अनुचितकथनम् - एवं कथितम्। (एतेन बोधिचित्तसंरक्षणं न भवति)। आर्यसर्वपुण्य-समुच्चयसमाधिसूत्रे कथितम् - नारायणः चतुर्भिर्धर्मैः बोधिचित्तस्य विस्मरणं कुर्वन्ति, (इमे सन्ति चत्वारो धर्माः) - अभिमानः, धर्मं प्रति अनादरः, कल्याणमित्रस्य व्यवचारः, मिथ्यापवादश्च। पुनश्चत्वारो धर्माः - श्रावक - प्रत्येकबुद्धसंसर्गः, हीनयाने अधिमुक्तिः, बोधिसत्त्वानां द्वेषवशतया अपवादः, धर्ममुष्टिश्च। पुनश्चत्वारो धर्माः - माया, शाठ्यं, गुरु प्रति द्विजिह्वता, लाभसत्कारं प्रति-अत्यभिनिवेशः।
पुनश्चत्वारो धर्माः - मारकर्माऽनभिज्ञता, कर्मावरणावृतत्वम्, दुर्बलाध्याशता, प्रज्ञोपायाभावः। एभिश्चतुर्भिः बोधिचित्तविस्मरणं भवतीत्येवं कथितम्। सागरनागराज-परिपृच्छासूत्रे-नागराज, सर्वज्ञस्य ज्ञानानि तु द्वाविंशतिविपथेभ्यः कुपथेभ्यश्च विरहितानि भवन्ति। श्रावकचित्तादवियोगः प्रत्येकबुद्धचित्तादवियोगः, अभिमानः अध्यभिमानः शाठ्यं चार्वाकमन्त्रः, विपथप्रवेशः जन्मभयः, अहंकारः, विवादः, रागः, द्वेषः, मोहः, कर्मावरणम्, धर्मावरणम्, आत्मस्तुतिः परनिन्दा, धर्ममुष्टिः, विस्मृतिः, पापमित्रम्, गुरुं प्रति वैरः, षट्पारमितावैपरीत्यम्, उच्छेदः, शाश्वतम्, अनुपाय-कौशल्येन चत्वारि संग्रहवस्तूनि सर्वपापेभ्योऽवियोगः - एभिः कारणैः बोधिचित्त-विस्मरणं जायत इति कथितम्। गण्डव्यूहसुत्रेऽपि कथितम् - भोः जिनपुत्राः, बोधिसत्त्वेषु यद्धि दुष्टचित्तादुपत्पन्नम् अवद्यकर्म, ततोऽधिकतरम् अवद्यकर्म मया नैव दृष्टम्। एवमेव श्रद्धाबलोत्पादादिसूत्रेष्वपि विस्तरेण अभिहितम्। अतः सूत्राणीमानि दृष्टव्यानि।
p.12
आपत्तिहेतवः - अगोत्रम्, करुणाल्पता, संसारदुःखेभ्यो अभयभीतत्वम्, पापमित्रेण गृहीतत्वम्, महाबोधिः दूरेऽस्तीति अवगमनम्, माराधिष्ठानम्, हीनयान-पुद्गलसेवनम्, हीनयानग्रन्थेषु प्रयासशीलत्वम्, सत्त्वपरित्यागः, बोधिसत्त्वान् प्रति कटुशब्दमुच्चार्य दुष्टचित्तोत्पादः, बोधिचित्ताद् विपक्षस्य अपरित्यागः, अन्यच्च अज्ञानम्, प्रमादः अनादरः बहवः क्लेशाः सन्ति।
परित्यागदोषः- त्रिसाहस्र-महासाहस्रलोकस्य सर्वे सत्त्वाः अर्हन्तो भवेयुः, तेषां सर्वेषां प्राणातिपाततोऽपि पञ्चानन्तर्यकृतात् पापोऽयं (सत्त्वपरित्यागतो) महत्तरं भवति। अन्यच्च, बुद्धा भगवन्तः आकाशपर्यन्तं सर्वेषाम् अणूनां संख्यां जानन्ति, किन्तु अस्य पापस्य परिणमनम् इयद्भवतीति बुद्धद्वाराऽपि समुच्चारितं नास्ति। अस्य विस्तृतोऽर्थः सूत्रेषु बोधिचर्यादिग्रन्थेषु द्रष्टव्यः।
अन्येषु चित्तोत्पादे सति अनुमोदनस्य अनुशंसामाश्रित्य अष्टसाहस्रिकायां मातरि कथितम् - समस्तलोकधातून् तुलायाम् आरोप्य तेषां परिमाणं ज्ञातुं शक्यते, किन्तु अन्येषु चित्तोत्पादकरणे या अनुशंसा, तदर्थं महायानसूत्राणि बोधिचर्यावतारादयो अवलोकनीयाः।
दशदिगवस्थितबुद्धानां बोधिसत्त्वानां च ज्ञानं नास्ति समुदाचरितम्। अन्येषु बोधिचित्तोत्पादे सति अनुमोदनस्य यो हि पुण्यसम्भारः, तस्य परिमाणं ज्ञातुं नैव शक्यत इति कथितम्। अस्य विस्तारः सूत्रेषु अवलोकनीयः।
अपरेषु चित्तोत्पादे विध्नकरणे यो दोषः आर्यकुशलमूलपरिग्रहसूत्रे - "शारद्वती-पुत्र, ये चित्तोत्पत्तौ विध्नमुत्पादयन्ति, विध्नं वा उत्पादयितुमिच्छन्ति, शारद्वतीपुत्र, तस्य भाग्ये निर्वाणप्राप्तिर्नास्तीति कथितम्। त्रिसहस्रगङ्गानदीबालुकान् यावत् अर्हतां वधतोऽपि पञ्चानन्तर्यकर्मणां पापतोऽपि अधिकं पापं भवतीति अष्टसाहस्रिकायामुक्तम्।
बोधिचर्यावतारेऽपि -
योऽप्यन्यः क्षणमप्यस्य पुण्यविध्नं करिष्यति।
तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थघातिनः॥
विस्तारः सूत्रेषु अवलोकनीयः
बोधिचित्तवर्धनम् - तस्य बोधिचित्तस्य त्रिविधे चित्ते वर्धनं करणीयम्, यथा-बोधिचित्तसंवरशीलम्, बोधिचित्तकुशलधर्मसंग्रहशीलम्, बोधिचित्तसत्त्वार्थ-क्रियाशीलमिति। यथा शुक्लपक्षे चन्द्रस्य क्रमशः वृद्धिर्भवति, तथैव चित्तस्यापि वर्धनं भवति, तथाहि -
p.13
आयतो विपुलो ह्रष्ट उपकारो महान्।
कल्याणश्चैवमाधिक्याच्छयो ह्यध्याशयः सताम्॥
अध्याशयस्तावद् नवचन्द्र इव भवति। प्रस्थानचित्तमपि तदुच्यते। बोधिसत्त्वशीलपटले तावदुक्तम् - त्रिविधिं शीलम्, यथा - प्रकृतिशीलम्, अभ्यस्तशीलम् एवं समादानशीलम इति। सर्वे सत्त्वाः समानगोत्राः तथागतगर्भशालिनः महायानगोत्रवन्तश्च भवन्ति। यदि ते साधनरताः स्युस्तदा साधनायां भाग्यशालिनः स्युः। किन्तु ते चतुर्भिः दोषैः आवृता भवन्ति, यथोक्तं महायानसूत्रालङ्कारे -
क्लेशाभ्यासः कुमित्रत्वं विघातः परतन्त्रता।
गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः॥
गोत्रवन्तः पुरुषाः स्वभावतः करुणावन्तस्तथा स्वभावतः स्वस्मिन् पारमिता-गुणवन्तश्च भवन्ति, इदमेव प्रकृतिशीलमित्युच्यते। अभ्यासशीलं त्रिविधम्, यथा -
पूर्वजन्मसु कृतः महायानस्य भूयान् अभ्यासः, कृतः मध्यमाभ्यासस्तथा अप्रमेयेषु जन्मसु अभ्यासः। अत एव आर्यमैत्रेयेण प्रोक्तम् -
कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः।
मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम्।
बुद्धोपासनसम्प्रश्नदानशीलादिचर्यया।
उद्ग्रहधारणादीनां भाजनत्वं सतां मतम्॥
तत्र समादानशीलं तु आचार्यद्वारा त्रिविधया परीक्षया सुसम्यक् परीक्ष्य भाजनक्रमेण प्रदीयते। पूर्वोक्तपुद्गलाय प्रातिमोक्षोक्तान् चतुःपाराजिकान् माहायानिक-पाराजिकसदृशान् चत्वारः, षट्चत्वारिंशत् दोषाः प्रदेयाः। मध्यमपुरुषाय तावत् संवरः प्रदेयः, तदुपरि आर्याकाशगर्भादिषूक्ता अष्टादशमूलापयः, आचार्य शान्तिदेवेन भाषिताश्चतुर्दश दोषाः दातव्या। तत्र तृतीयपुरुषस्तु तदुपरि आर्यसप्तशतकसूत्रोक्त चतुःशतशीलानि, महायानसूत्रे भाषिताः सम्भारमार्गीयसमस्तबोधिस्त्वशिक्षा रक्षितव्याः। यतो हि सम्भारमार्गे संवरशीलं हि प्रधानम्। प्रयोगमार्गे कुशलधर्मसंग्रहशीलं तावत् प्रधानम्। लोकोत्तरमार्गे तु सत्त्वार्थक्रियाशीलं प्रधानम्। यदि खलु एकस्मिन् पुद्गले तन्त्रानुसारं लघुसम्भारमार्गस्य अवस्थायां प्रथमपुद्गलशिक्षायाः प्रयत्नशीलत्वं भवति। मध्यमसम्भारमार्गस्य अवस्थायां मध्यमपुद्गलशिक्षायां प्रयतितव्यम्। तृतीयपुद्गलेन
p.14
तृतीयशिक्षायां प्रयतितव्यम्। पूर्वोक्तम् अभ्यासशीलं विचार्य आर्यमहायानप्रसाद-प्रभावनासूत्रे कथितम् -
"महायाने प्रसादवासनाबलेन ये बोधिसत्त्वाः अनुसरन्ति, ते इत्थम् अनुसरन्ति, यथा - "स गच्छन्, उपविशन्, शयानः, जातिव्यतिवृत्तावपि, मद्यपानावस्थः उन्मत्तः सर्वदा महायाने प्रसादचित्तो भवति। अस्य बोधिसत्त्वस्य जन्मान्तरे महायाने प्रसादचित्तत्वात् बोधिचित्तस्य विस्मरणेऽपि तेषु जन्मसु स (पुरुषः) नीचयोनिजन्मा वा भाग्यहीनो नैव भवति। पापमित्रेण श्रावकेण प्रत्येकबुद्धेन सह सङ्गमेनापि यदा तान् प्रति नैव भवति आकर्षणम् आसक्तिर्वा तदा तैर्थिकान् प्रति कथं भविष्यति (आकर्षणम्) ? महायानं प्रति अल्पमात्रेऽपि प्रसादप्रत्यये समुपलब्धे, (स प्रसादः) शीघ्रमेव तीव्रः समुपजायते, परम्परया स महायाने पूर्णतया श्रद्धान्वितो भवति। अतः महायानं प्रति श्रद्धावासनाया अनुत्कर्षेऽपि आगामिषु अनेकजन्मसु सा (श्रद्धा) वृद्धिंगता भूत्वा अनुत्तरसम्यक्सम्बुद्धत्व-प्राप्तिपर्यन्तं स्थिता भवतीति कथितम्।
तत्र बोधिचित्तानुशंसा तावद् द्विविधा, यथा - प्रणिधानानुशंसा प्रस्थानानुशंसा च। प्रणिधानानुशंसाऽपि हि अप्रमेया भवति, संक्षेपेण त्रिरत्नवंशानुच्छेदः, सर्वेषां
शुक्लधर्माणां हेतुभावापन्नता वा बीजभावापन्नता वा, पापानाम् अपाकरणम्, आपत्तिभ्यः समुत्थानम्, अमानवीयानां ज्वरादीनां वा विध्नानां पराभवः - इत्यादिकं कथितम्।
आर्यकुशलमूलपरिग्रहसूत्रे उक्तम्-शारद्वतीपुत्र, प्रथमचित्तोत्पादस्यापि पुण्यस्कन्धो न भवति अवरमात्रात्मकः वा अल्पमात्रात्मकः, यतो हि सहस्रकल्पेषु वा शतसहस्रकल्पेष्वपि स नैव कथयितु शक्यते। अतः बोधिसत्त्वानां चित्तोत्पादस्य पुण्यं कथं ज्ञातुं शक्यत इति कथितम्। अष्टसाहस्रिकायां प्रज्ञापारमितायाम् अपि कथितम् - येन औपलम्भिकः गङ्गानदीबालुकासमेषु कल्पेषु यः कश्चित् कुशलमूलार्जनं करोति, अन्यश्च कश्चित् एकदिनम्, दिनार्धम् अथवा उच्छटामात्रसमयं बोधिचित्तोत्पादं करोति, तस्य पुण्यम् अत्यधिकं भवति। बोधिचर्यावतारेऽपि कथितम् -
भवचारकबन्धनो वराकः
सुगतानां सुत उच्यते क्षणेन।
सनरामरलोकवन्दनीयो
भवति स्मोदित एव बोधिचित्ते॥
अशुचिप्रतिमामिमां गृहीत्वा
जिनरत्नप्रतिमां करोत्यनर्घाम्।
p.15
रसजातमतीव वेधनीयं
सुदृढं गृह्णत बोधिचित्तसंज्ञम्॥
इत्यादिकमुक्तम्।
प्रस्थानबोधिचित्तस्याप्यनुशंसा बोधिचर्यावतारे -
बोधिप्रणिधिचित्तस्य संसारेऽपि फलं महत्।
न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः॥
अपि च,
ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः।
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः॥
इत्येवमभिहितम्। बोधिसत्त्वभुमौ सूत्रेषु चापि विस्तारः द्रष्टव्यः।
बुद्धानां च बोधिसत्त्वानां सत्त्वानां संसाराद् उद्धारातिरिक्तम् अन्यन्नास्ति किमपि कर्म। आचार्येण नागार्जुनेनापि कथितम् -
परार्थसम्पद् बुद्धानां फलं मुख्यतमं मतम्।
बुद्धत्वादि यदन्यत्तु तादर्थ्यात् फलमिष्यते॥
अत एव बुद्धस्य कायः ज्ञानं गुणाः कर्माणि चेति सर्वाणि परार्थकरणादेव सिद्धानि भवन्ति। इत्थं भगवान् शाक्यनाथोऽपि अचिन्त्यकल्पपूर्वं तथागता-र्हत्सम्यक्संबुद्ध 'इन्द्रकेतु' - नाम्ना बुद्धो बभूव। वर्तमानकालेऽपि बुद्धोऽभवत्। आर्यावलोकितेश्वरोऽपि असंख्यकल्पपूर्वं तथागतार्हत्सम्यक्संबुद्धधर्मध्वजनाम्ना अभिसंबुद्धोऽभवत्, इदानीमपि सुखावत्यां रात्रेः भगवान् अमिताभः तृतीये प्रहरे निर्वाण-प्राप्त्यनन्तरं चतुर्थप्रहरे अवलोकितेश्वरो सम्बोधिं प्राप्स्यतीति कथितम्, तथा भट्टारको वज्रपाणिः गङ्गानदीबालुकासमेषु द्विनवतिजन्मपूर्वं तथागत-ज्ञानप्रदीपनाम्ना बुद्धोऽभवत्। इदानीमपि अस्मिन् भद्रकल्पानन्तरं तथागतवज्रवेगगतिनामकः सम्यक्सम्बुद्धो भविष्यति-इत्येवं कथितम्।
इत्थं संसारस्य न आदिरस्ति न वा अन्तः। अतः मञ्जुश्रीरपि अनादिरेव। अत स (मञ्जुश्रीः) आदिबुद्ध एव। त्रैकालिकानाम् अशेषबुद्धानां स ज्ञानचित्तम्। सर्वे बुद्धाः षट्सु जातिषु संगृह्यन्ति। षण्णां जार्तानां हृदयेषु वज्रतीक्ष्णादयो ज्ञानसत्त्वाः विराजन्ते। श्रीगुह्यसमाजतन्त्रस्य प्रधानदेवताः मञ्जुश्रीवज्रसमन्तभद्रः मञ्जुश्रीयमान्तकश्च इमौ द्वौ
p.16
चक्रस्य प्रधानभूतौ। श्रीवज्रभैरवस्तु हेरुकरूपेण अवभासते, श्रीसंवरव्याख्या-तन्त्राभिधानस्य देवचक्रस्य प्रधानभूतास्तु सिहनादः कुमुता कुमारभद्रः मञ्जुश्रीः शब्ददत्तकुमारः इत्येतेषु विनेयजनेषु यथाधिमुक्ति अवभासन्ते। अयं (मञ्जुश्रीः) पूर्वदिशि अभिसंबुद्धो भविष्यतीति मञ्जुश्रीक्षेत्रव्यूहसूत्रे कथितम्।
बुद्ध-बोधिसत्त्वैः सत्त्वानां परित्यागाभावात् यावत् संसारो रिक्तो न भवेत् तावत् काय-वाक्-चित्तकर्माणि सप्तविंशतिः कर्माणि, पञ्चत्रिंशत् कर्माणि तिस्रः महत्यः ऋद्धयः इत्येताः सर्वाः अविच्छिन्नरुपेण प्रवर्तमानाः सत्त्वान् उद्धरन्ति, तथापि संसारे सत्त्वाः समाप्ता नैव भविष्यन्ति, यतो हि संसारस्य नास्ति आदिर्नापि अन्तः। इमम् अर्थं स्पष्टीकर्तुम् अवलोकितेश्वरेण संसारात् सत्त्वान् उद्धर्तुं प्रतिज्ञा कृता। सत्त्वधातोः अवलोकनात् सत्त्वोद्धारसमये भगवान् अमिताभः तस्य शिखरे विराजमानो भवति।
सर्वैः बुद्ध-बोधिसत्त्वैः सर्वसत्त्वेभ्यः अप्रमेयाणि दुष्करकृत्यानि सम्पादितानि। एवमेव भगवता शाक्यमुनिना अपि त्रिषु असंख्येयकल्पेषु तत्तज्जन्मनि त्याग-महात्यागात्यन्त-त्याग-शील-क्षान्ति-वीर्य-ध्यानादीनि सत्त्वहिताय अप्रमेयदुष्करकृत्यानि सम्पादितानि। यथा क्षारनदीसूत्रे कथितम् -
त्यक्ताः कलत्रसुतराज्यमहेश्वरत्व मांसाक्ष्यसृक्तनुवसाः परसौख्यहेतु। पूजोत्तमा मम हि सत्त्वहितं यतः स्यात् हानिर्भवेन्मम तु सा यदि सत्त्वहानिः॥
वर्तमानकालेऽपि अस्मिन् जम्बूद्वीपे आचार्यनागार्जुनेन शिरोदानम् आचार्येण आर्यदेवेन चक्षुर्दानम् आचार्यमातृचेटेन अश्वघोषेण वा व्याघ्राय कायदानं तथा मम गुरुणा महर्षिणा जितारिणा स्वपादौ व्याघ्राय दत्वा तत्कालमेव प्राणान् तत्त्याज। इमे (महा)पुरुषाः मैत्री-करुणाभ्यां स्वसन्ताने स्निग्धस्य बोधिचित्तस्य संशोधनं कुर्वन्तः आसन्।
उत्तमबोधिसत्त्वेषु प्रयोगमार्गे सम्यग् बोधिचित्तं समुत्पद्यते, यथा-बोधिसत्त्व-भूमौ कथितम्- "तत्राधिमुक्तिचर्याविहारिणा स्थिरकुशलमूलानां तच्चित्तमुत्पद्यते - एवं कथितम्। अतः बोधिसत्त्वानां परे (अन्ये) प्रियाः भवन्तिः अतस्तैः स्व-पर-परिवर्तनद्वारा बोधिचित्तं संशोधयितव्यम्। यदाऽहं पूर्वं सोमपुरवने निवसन् आसम्, तदा अहं लोकेश्वरं साक्षात् कृतवान्, तदा तैरुक्तम् - 'कुलपुत्र, त्वम् अचिरमेव संबुद्धो भविष्यसि, परार्थं चेद् इच्छसि ' बोधिचित्तशोधने तद्वर्धने च प्रयासं कुरु ' - इत्येवं कथयित्वा अन्तर्हितो बभूव। पुनश्च यदा अहं वज्रासनं परिक्रमन् (परिक्रमां कुर्वन्) आसम्, तदा तारा, भट्टारिका भृकुटी अवोचताम् - "शीघ्रं बुद्धत्वं प्राप्तुकामेन बोधिचित्तभावनायां यत्नं कुर्यात् इति।
p.17
अपि च, यदा अहं वज्रासने निवसन् आसम्, तदा गवाक्षसकाशात् एवं श्रुतम् - "भदन्त, यदि भवान् बोधिचित्तं शोधयितुकामः, तदा मैत्री तथा करुणा अभ्यसनीये। अपि च, भट्टारकेण सुवर्णद्वीपेन कथितम्-आयुष्मन्, मैत्री-करुणा-समुद्भूतं बोधिचित्तं शोधनीयम्। यदि संशोधनं न करिष्यति, तदा बङ्गयोगिनः इव सिद्धो न भविष्यति। बोधिचित्तं हि अशेषाणां महायानधर्माणां मूलं वा हेतुर्वा बीजं वा, यतो हि श्रीवैरोचनाभिसम्बोधौ प्रोक्तम् - 'सर्वज्ञस्य हेतुः बोधिचित्तमेव। मूलं महाकरुणैव। अतः चित्तस्य प्रतिक्षणं स्मृति-सम्प्रजन्याभ्यां मैत्री-करुणामयं बोधिचित्तं स्वसन्ताने अविच्छिन्नतया समुत्पादनीयम्। तस्मिन् (वैरोचनाभिसम्बोधि) - तन्त्रे एवमुक्तम् - चतुर्विधा अपूर्णत - (१) बोधिचित्तस्य त्यागः, (२) सत्त्वहानिः, (३) तद्धर्मत्यागः (४) मत्सरश्च। तत्र यदि बोधिचित्तप्रहाणं न भवति, तदा त्रयाणामपि
क्षतिपूर्तिः सम्भवा। यदि तत्प्रहाणं भवति तदा त्रयाणां प्रहाणे असत्यपि क्षतिपूर्तिर्नैव सम्भवा। अत समुत्पादे, नैपुण्ये, ग्रहणे, साधने, शोधने, वर्धने च अत्यन्तं दृढेन भाव्यम। विस्तृतो अर्थः आर्यमैत्रेयप्रस्थानसूत्रे सागरनागराजपृच्छायां सर्वपुण्यसमुच्चय-सूत्रे गगनगञ्जपरिपृच्छादिसूत्रेषु द्रष्टव्यः।
पूर्वमुपादत्तानां त्रयाणामपि शीलानां चक्षुः फलकस्येव रक्षा करणीया। शीलानां हि चामरीपुच्छमिव रक्षा कर्त्तव्या। कार्यकारणादिकं ज्ञात्वा तेषां विनाशो न करणीयः। निश्चयेन शीघ्रमेव मृत्युर्भवेत्, यतो हि जम्बूद्वीपस्य आयुर्न निश्चितम्। सम्प्रति कषायकालिकायुष्ट्वात् चिरकालं यावत् चिरकालपर्यन्तं स्थितौ शक्तिर्नास्ति। अतः मरणानुस्मृतिः करणीया। सर्वे आभ्यन्तर-बाह्यभावाः त्रिभिः अनित्यैः परिगृहीताः सन्ति। अतः निश्चयेन शीघ्रं नष्टा भविष्यन्तीति विचारणीयम् तथा सर्वेषां पापानाम् आपत्तीनां च चतुर्भिर्वलैः शोधनं कर्त्तव्यम्, अपि च, यदि बोधिचित्तं समुत्पन्नं भवति, तदा शुद्धं भवति।
महायाने प्रवेशेन मोच्यन्ते श्रावका भवात्।
सत्त्वस्नेहं करिष्यन्ति नूनं स्वस्य सुतेष्विव॥
मैत्रीकरुणयोर्भावाद् दोषाः शुध्यन्ति पूर्वकः॥
इति आचार्यनागार्जुनेनाभिहितम्। विशिष्टधारणीजापेन आपत्तिदेशनया कर्मावरण-सन्ततेरुच्छेदेन तथा त्रिस्कन्धसूत्रादिभिरपि शुद्धा भवन्ति। अपि च, आपत्तयः पापानि च अनुत्पादज्ञानेनापि परिशुध्यन्तीति सूत्रेष्वभिहितम्। सर्वधर्माणां समताज्ञानेनापि शुद्धिर्भवति, अतः समता द्रष्टव्या। सत्त्वानाश्रित्यैव बुध्यन्ति, अतः सत्त्वा एव
p.18
प्रधानत्वेन स्वीकर्त्तव्याः। मध्यमकतर्कज्वालायामप्येवमभिहितम् - यदुत ये फलाशां कुर्वन्ति, ते पाशेन बद्धा एव, ते दानस्य दक्षिणीयान् चिन्वन्ति। अपरे पुनः बुभुक्षा-तृषादिदुःखानि शमयितुं पात्रभेदम् अकृत्वा यदि दानं ददति, तदा सर्वधर्मसमताज्ञानं भविष्यति। यतो हि सूत्रेप्युक्तम् -
"एकेन हि धर्मेण बोधिसत्त्वः शीघ्रतया अभिसम्बुद्धत्वं प्राप्स्यति। (कः स एको धर्मः ?) सर्वे सत्त्वाः समानास्तेषु नास्ति कश्चन भेदः। त्रीणि रत्नानि मम ज्ञानस्रोतांसि, किन्तु न सन्ति तिर्यगादीनीति यदि एवं विचारः स्यात्तदा नास्तीदं बोधिसत्त्वस्य धर्मसमताज्ञानाम्। अत एव "त्रीणी रत्नानि गुरुश्चैव दक्षिणायाः सुपात्राणि, न तु तिर्यगादीनि" इति अनुर्वरायां भूमौ बीजवपनमिव, एवं विधो विचारः नास्ति बोधिसत्त्वधर्मः - एवमभिहितम्। अतः ये बोधिसत्त्वाः दृढाशयाः करुणया स्निग्धचित्ताश्च, तैः दानक्षेत्रस्य चयनं नैव कर्त्तव्यम् - एवं तर्कज्वालायां कथितम्।
आचार्यनागार्जुनेन क्षारनदीसूत्रात् सत्त्वसन्तोषकरान् श्लोकान् उद्धृत्य कथितम्।
अन्येषु महायानसूत्रेष्वपि उपदिष्टम्। राज्ञा इन्द्रभूतिना कथितम् -
सम्यक्चित्तं समुत्पाद्यं समत्वं सर्वदेहिषु।
बोधिचित्तमिदं ज्ञेयमन्यथा वितथं भवेत्॥
बोधिचित्तं न तन्नाम विषमत्वं यदा स्थितम्।
न तदुत्पत्त्यते ज्ञानमीदिमध्यान्त वर्जितम्।
इति कथितम्।
मन्दबुद्धि-आदिकर्मिकैः नैव अशोधितबुद्धिभिः अनभ्यसास्तकरुणाभिः अल्पकरुणावतां क्षेत्रचयनं कर्त्तव्यमिति सूत्रे तन्त्रे धर्मशतकादिषु एवं कथितम्। तेन आदिकर्मिकेण असमाहितकाले सर्वचार्याः स्मृति-सम्प्रजन्यसहितेन गृहितव्याः। प्राकृतजनैः सह अच्छटाकालमात्रमपि संवासो नैव कार्यः। प्रलापं परित्यज्य, सर्वदा प्रेतोभ्यो बलिप्रदानं, प्रज्ञापारमितापाठः अध्ययनम् करणीयं तथा यावद् अभिज्ञा नैव प्राप्यते तावद् धर्मोपदेशोऽपि नैव प्रदातव्यः।
शून्यस्थः सत्त्वापरिवर्जितः।
यथोक्तवत्कारी सुगताधिष्ठितः॥
एवं गुणैः युक्तेन भाव्यम्। स्वप्नावस्थाकालेऽपि चित्तावस्थायां करुणावियुक्तेन नैव भाव्यम्। सर्वा अपि आकस्मिकचर्याः रत्नमेघे यथा वर्णितास्तथा विधातव्याः। केनापि प्रकारेण अपरे जनाः सन्तुष्टाः स्युरेवं करणीयम्। अल्पेच्छः सन्तुष्टस्तथा शान्तः
p.19
विनीतो भवेत्। अष्टौ लौकिका धर्मा अवरोद्धव्याः। दश कुशलकर्माणि बलवन्ति कार्याणि। सर्वधर्मेषु अनासक्तः अल्पासक्तो वा भवेत्। सर्वधर्मेषु समत्वसम्पन्नस्तथा क्लेशोपक्लेशेषु प्रतिपक्षाभूतः स्यात्। यदि प्रव्रजितः कश्चन दुःखिजनो दृष्टः, तदा स्वजीवितोपकरणानि विहाय दानं प्रदातव्यम्। यदि सः स्याद् गृहस्थः तदा उपकरणासक्तिं विना तानि प्रदातव्यानि।
आत्मभावांस्तथा भोगान् सर्वत्र्यध्वगतं शुभम्।
निरपेक्षस्त्यजाम्येषः सर्वसत्त्वार्थसिद्धये॥
गुरुणा भट्टारकेण अवधूतीपादेन चापि कथितम् -
स्वीयदोषान् परिज्ञातुं तीव्रचक्षुर्भवेत्तथा।
अन्ध इव परदोषे ऋजुर्विगतमानसः॥
भूत्वा सर्वदा नित्यं शून्यतां भावयेत् पुमान्॥
पारम्पर्येण साक्षाच्च करुणापूर्वकं खलु।
येन परसत्त्वा हि भवेयुः स्वात्मतः प्रियाः॥
एवं हि गुरुणा नरोपापादेन कथितमित्युच्यते। बोधिसत्त्वेन अपरे (जनाः) स्वात्मतोऽपि प्रियाः सन्तीति मन्तव्यम्। अत एव आत्मपरपरिवर्तनं कर्त्तव्यम्। मैत्री, करुणा तथा बोधिचित्तं तु तन्त्राणामपि मर्माणि सन्ति। चतुर्दशमूलापत्तिषु चापि कथितम्, तथाहि -
मैत्रित्यागेन सत्त्वेषु चतुर्थी कथिता जिनैः।
बोधिचित्तं धर्ममूलं तस्य त्यागाच्च पञ्चमी॥
इत्येवं कथितम्।
अपरैर्जनैर्निन्दितात् तथा परेषां पापकारणभूतात् स्थानात् (बोधिसत्त्वेन) शतयोजनं दूरं गन्तव्यम् -
यत्र स्थाने विवादः स्यात् तस्माद्धि शतयोजनम्।
दूरं गच्छेद् बोधिसत्त्वश्चित्तहानिस्तु चान्यथा॥
यथासम्भवं षट्पारमितानाम् आचरणं कुर्यात्। सम्भारमार्गस्य त्रयोदश धर्माः सप्त आर्यधनानि, षट् अनुस्मृतयः, चत्वारि संग्रहवस्तूनि, सत्पुरुषाणां षोडशविकल्पाः अनुस्मर्तव्याः। विशेषतः बोधिसत्त्वानां अष्टौ विकल्पाः स्मर्तव्याः। आर्येण नागार्जुनेन
p.20
सप्त संसारदोषाः अभिहिताः तथा आर्येण असङ्गेन सप्तसंसारस्य अनित्यादयः दोषाः कथितास्तेऽनुस्मर्तव्याः। पञ्चानां कामगुणानां दोषान् ज्ञात्वा प्रतिपक्षः सेवनीयः। किमपि अधार्मिकं कार्यं न कुर्यात्। मैत्रीं करुणां च अनुस्मरन् साक्षात् परम्परया वा सत्त्वार्थं कुर्यात्। अहो, इमे सत्त्वाः कस्मिंश्चित् समये संसाराद् उद्धरिष्यन्ते, अहो, एतेषां कृते किं कुर्याम् - एवं पुनः पुनः स्मरणं कर्त्तव्यम्।
निर्यायणाय य इच्छति बुद्धज्ञाने समचित्त सर्वजगती पितृ-मातृसंज्ञ।
हितचित्त मैत्रमन एव पराक्रमेय्या अखिलार्जवो मृदुगिराय पराक्रमेय्या॥
इत्थं यद्धि कथितं तथैव आचरणीयम्। यदि सूक्ष्मस्यापि शीघ्रं परिणामना न करिष्यते, तदा अपलालस्य (नागराजस्य) तथा अटवकयक्षस्य कथासदृशं भविष्यति। एवं गौरवं चिरमविच्छिन्ने तद्बोधिसत्त्वेभ्योऽसमाहितकालऽपि अविच्छिन्नरूपेण यथोक्तधर्माणां पालनं कृत्वा समाहितकाले पूर्वोक्तस्य आकाशाग्रसमाधेः भावनां कुर्यात्। यदा परमार्थबोधिचित्तं कथञ्चित् सुस्पष्टं प्रकाश्यते, तदा स्वशरीरस्य सत्ताऽपि नैव वेद्यते, क्लेशाः अपि कथञ्चित् सुशान्ता भविष्यन्ति लोकस्तावत् कर्माणि व्यवहारांश्च तुच्छान् कथयिष्यति। सर्वाणि बाह्याभ्यन्तरवस्तूनि सवर-आकीर्ण-सूक्ष्म-लघिम-व्याप्त-मृदु-लघु-मुदित-कल्परूपेण अनुभूतानि भविष्यन्ति। अपि च आर्यप्रज्ञापारमितासंग्रहे कथितानि लिङ्गान्यपि प्रादुर्भविष्यन्ति, यथाहि -
नानात्वसंज्ञविगता गिरयुत्तमाणा।
इत्यादीनि चतुर्विंशतिपादानि उक्तानि। चत्वारि स्मृत्युपस्थानानि, चत्वारि प्रहाणानि, चत्वारः ऋद्धिपादाः, श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञानां भावनया सम्भारमार्गेण स्थितो भवति। आदिकर्मिकभूम्यां श्रद्धाभूम्यां च स्थितो भवति तथा मोक्षभागीयानि कुशलमूलानि उत्पन्नानि भवन्ति।
तत्पश्चाद् निर्वेधभागीयानां कुशलमूलानाम् उत्पादनार्थं पूर्वोक्त श्रद्धा, चिरकालिकम् अविच्छिन्नं वीर्यम्, क्रमशः पञ्चेन्द्रियाणि, पञ्चबलानि, आलोकलाभः, आलोकवृद्धिः तत्त्वार्थैकपक्षे प्रवृत्तिः, आनन्तर्यसमाधिप्राप्तिस्तथा परमार्थसत्यस्य ज्ञानं भवति, तदा प्रथमा प्रमुदिताभूमिः प्राप्यते। तस्मिन् समये चतस्रः क्षान्तयः चतस्रश्च समताः उत्पत्स्यन्ते। तदनन्तरं दशपारमितानां सम्पन्नता, दश वशिताः, अष्टौ अवभासाः, चत्वारः अलङ्काराः, करुणादयः षोडश धर्माः प्राप्स्यन्ते। दशभूमकसूत्रे भूमिव्यवस्था समुद्दिष्टा, दशभूमिं यावत् समाहित-पृष्ठलब्धावस्थाः प्राप्यन्ते। यथा -
आर्य-अविकल्पप्रवेशधारण्यां - यदा बोधिसत्त्वाः अन्तःसमाहिता भवन्ति, तदा सर्वे
p.21
धर्माः आकाशमण्डलमिव दृश्यन्ते, ततः पृष्ठलब्धावस्थायां अष्टमायोपमवत् दृश्यन्ते - एवं सुस्पष्टमेव तत्र परिदीपितम्। यदा विकल्पानाम् अन्ते वज्रोपमसमाधिलाभो भवति, तदा पृष्ठलब्धाभासोऽपि न भवति, यतो हि तदा धर्मधातुं प्राप्य धर्मकायस्य साक्षात् लाभो भवति। एनामवस्थामारभ्य आकाशस्थितिं यावत् धर्मकायरूपेण स्थितत्वात् पृष्ठलब्धावस्थाऽपि नैव भवति। तथाहि -
ये मां रूपेण चाद्रक्षुर्ये मां घोषेण चान्वगुः।
मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यन्ति ते जनाः॥
धर्मतो बुद्धा द्रष्टव्या धर्मकाया हि नायकाः॥
इत्येवमुक्तम्।
श्रीवज्रमालातन्त्रे समुद्दिष्टम् -
विज्ञानस्कन्धमायाति विज्ञानं च प्रभास्वरम्।
निर्वाणं सर्वशून्यं च धर्मकायश्च गद्यते॥
आर्यधर्मसंगीतौ चाप्युक्तम् - "वस्तुतः बुद्धोऽनुत्पन्नः" इति। आर्यलोकोत्तर-परिवर्तेऽपि -
बुद्धस्तु धर्मकायो हि विशुद्धाकाशन्निभः।
आचार्यदिङ्नागपादेनापि कथितम् -
प्रज्ञापारमिता ज्ञानद्वयं सा तथागतः।
आचार्यपादेनाप्युक्तम् -
आकाशमिव निर्लेपां निष्प्रपञ्चां निरक्षराम्।
यस्त्वां पश्यति भावेन स पश्यति तथागतम्॥
तव चार्यगुणाढ्याया बुद्धस्य च जगद्गुरोः
न पश्यन्त्यन्तरं सन्तश्चन्द्रचन्द्रिकयोरिव॥
पुनः स्वयम् आचार्यपादेन (नागार्जुनेन) कथितम् -
अस्थितः सर्वधर्मेषु धर्मधातुगतिं गतः।
परमगम्भीरतां प्राप्तो गम्भीराय नमोऽस्तु ते॥
p.22
पुनः
बुद्धानां धर्मधातोश्च तेनाभिन्नत्वमर्थतः।
अपि च -
अनुत्पन्नस्वभावेन उत्पादस्ते न विद्यते।
न गतिर्नागतिर्नाथ अभावाय नमोऽस्तु ते॥
अपि च -
तादृश्यां धर्मतायां हि बुद्धो नित्यं विराजते॥
इत्यादिकं बहु उक्तम्। अलं तावत्।
भट्टारकेण आर्यदेवपादेन निरूपितम् -
आकाशकान्तारजपद्मतुल्यम्
अवस्तुकं वस्तु इदं हि तावत्।
द्वयाद् हि भिन्नं शशशृङ्गकल्पम्
मोक्षस्वरूपं सदृशं किमस्तु॥
पुनश्च, श्रीवज्रज्ञानसमुच्चयतन्त्रेऽपि - बुद्धोऽपि यदा परार्थं न करोति, तदा भूतकोट्यां स्थितः सन् सर्वप्रपञ्चान् शमयित्वा विहरति इति।
आचार्येण असङ्गपादेनापि समुद्दिष्टम् - अनेन प्रकारेण सर्वे सत्त्वाः यदा अभिसम्बोधिम् अभिसंबुद्ध्य धर्मकायभूता भवन्ति, तदा अशेषाः बुद्धाः विशुद्धधर्मधातु-स्वरूपा भूत्वा तस्मन्नेव विलीना भवन्तीति विनिश्चयसंग्रहे उक्तम्।
अयम् आचार्यः (असङ्गः) तत्त्वतः अद्वयज्ञानं न मनुते, निर्विकल्पज्ञानानन्तरं पृष्ठलब्धमपि न मनुते। यतो हि तृतीयभूमीश्वरत्वलाभत्वात् तेन सर्वधर्माणाम् अनुत्पत्तौ अधिगमः कृतः।
अनेनैव अर्थाशयेन वज्रमालातन्त्रेऽपि समुपदिष्टम् -
परमार्थमिदं सत्यं निराभासमलक्षणम्।
सर्वबुद्धनिवासश्च परमार्थः समुच्यते॥
आचार्येण चन्द्रकीर्तिपादेनापि कथितम् -
अनुत्पादेपि बुद्धानां यथैव धर्मता स्थिता।
p.23
अनादिकालाद् भावाभिनिवेशवशाद् सत्यद्वयनयम् अजानाना जनाः कथयन्ति - भवतां माध्यमिकानाम् अनुसारं यदि स्यात्, तदा बुद्धैः (भगवद्भिः) अनेकेषु असंख्येयकल्पेषु बोधिसत्त्वावस्थावस्थितैः अप्रमेयाणि दुष्कराणि कृतानि, यो हि असंख्येयः पुण्यसम्भारः सञ्चितः, तत् सर्वं व्यर्थं भविष्यति तथा धर्मः संघश्चापि विनष्टः स्यात्। सत्त्वानां संसाराद् उद्धारकोऽपि न स्यात्, अतः इदं पापदर्शनं दूरं कुर्यात्। इदं तु शुक्लधर्मरूपस्य शस्यस्य कृते करका निपात इव, उच्छेदवादिनः तैर्थिकादपि अधिकत्वाद् एतादृशि गोपनमेव युक्तम्। माध्यमिकैस्तावदुक्तम् - भवन्तस्तु बुद्धिशोधनं न कुर्वन्ति, अतः महामूर्खाः, यतो हि महामेघसूत्र-लङ्कावतार-महादुन्दुभिपरिवर्त-मञ्जुश्रीमूलकल्पादिषु पुनः पुनः व्याकृतस्य आर्यनागार्जुनस्य ग्रन्थानाम् अपवादस्तावद् आत्मघात एव। तन्मतानुसारिभ्यो ग्रन्थेभ्यः बुद्धाः भगवन्तः धर्मकायिका भवन्ति। तेषां ज्ञानमपि सर्वविकल्पान् परिहृत्य धर्मधातुर्भवति, धातु-ज्ञानयोः विषयविषयिणश्च अभावो भवति, अतः निर्विकल्पनामकं ज्ञानमिदं कीदृशमस्ति ? आचार्यपादैस्तावदुक्तम् -
यतोऽभावो ह्यतीतस्य तस्मान्नास्त्यनागतः।
स्थितेश्च परिणामत्वात् प्रत्युत्पन्नस्य क्व स्थितिः॥
अपि च,
समाधानासमाधानं यस्य नास्त्येव सर्वथा।
युगनद्धे स्थितो योगी भावाभावविवर्जितः॥
एवं ह्युक्तम्।
अतो निर्विकल्पकं ज्ञानं न स्वीक्रियते। तदा निर्विकल्पज्ञानस्य असत्त्वात् अशेषप्रपञ्चाः शाम्यन्ति, अतः पृष्ठलब्धं नाम ज्ञानं कथं भविष्यति। अर्थान्नैव भवति।
आर्यलङ्कावतारे ह्युक्तम् -
भ्रान्तिं विधूय सर्वां तु निमित्तं यदि जायते।
सैव चास्य भवेद् भ्रान्तिरशुद्धं तिमिरं यथा॥
तिमिरं भवति त्रिविधम् - तैमिरिकः मूढः, तैमिरिकः बिद्वान्, तैमिरिकः शुद्धः विद्वान्। बुद्धः अतैमिरिकः, अतः तिमिरं नावभासते पुनः। यदि तस्मिन् बुद्धे कायः ज्ञानं गुणः कर्म च न विद्यन्ते इति चेत् ? तदा उक्तम् - त्रिभिः हेतुभिः एकेन प्रत्ययेन
p.24
च विनेयजनेषु अवभासः भवति। अतः विनेयजनानां भेदेन काया अपि नानाप्रकारेण अवभासन्ते। ज्ञानमपि स्वयम्भू महाज्ञानम्, यतो हि गुरुभिः अवधूतीपादैः गुरुभिस्ताम्र-द्वीपीयपादैश्च प्रोक्तम् -
धर्मधातोर्न भिन्नं हि ज्ञप्तं ज्ञानं स्वयम्भु तत्।
अचिन्त्यं निष्प्रपञ्चं च पदप्रपञ्चविकलं च।
विनेयानामनुरोधेन कथितं पञ्चधा हि तत्॥
इदम् आचार्येण नागार्जुनेन कथितमित्युच्येन। अनेनैव प्रकारेण दश बलानि, त्रीणि प्रातिहार्याणि, पञ्चविंशतिः कर्माणि द्वात्रिंशत् कर्माणि विनेयजनानां दृष्टिपथम् अवभासन्ते। अतः आचार्यपादेन ह्युक्तम् -
न तेऽस्ति मन्यना नाथ न विकल्पो न चेञ्जना।
अनाभोगेन ते लोके बुद्धकृत्यं प्रवर्तते॥
पुनश्च -
सर्वविकल्पमरुद्भिः आशयः परिपूर्यते॥
सत्त्वसंज्ञा च ते नाथ सर्वथा न प्रवर्तते।
दुःखार्त्तेषु च सत्त्वेषु त्वमतीव कृपात्मकः॥
अपि च -
परार्थसम्पद् बुद्धानां फलं मुख्यतमं मतम्।
बुद्धत्वादि यदन्यत्तु तादर्थ्यात् फलमिष्यते॥
इक्युक्तम्।
पुनश्च, आर्यपादेनाप्युक्तम् -
अनेकासंख्यकल्पेषु परार्थ एव सदा कृतः।
तेन प्राप्तो धर्मकायोऽनिवृत्य स्थितो हि सन्॥
परार्थमेव कुरुते यावल्लोकः प्रवर्तते॥
अत एव बोधिसत्त्वा न चरन्ति हितं विना।
सर्वा हि पञ्च गतयः स्वहिताय सदा रताः॥
p.25
परार्थाय सदा करुणाम् अभ्यसन्ते नरोत्तमाः।
मातापितृसदृशस्ते लोके प्रिया भवन्ति वै॥
कायत्रयव्यवस्था तावदाचार्येण अन्यत्र प्रतिपादिता, अतो नात्र प्रतिपादयिष्यामि। अनेन धर्मकायस्य अधिष्ठानेन त्रिभिर्हेतुभिस्तथा एकेन प्रत्ययेन रूपकायस्य यो हि गम्भीरस्तथा उदारो धर्मस्तस्य निर्देशं कुर्वन्ति, यतो हि कायकर्माणि यावत्संसारं स्थास्यन्ति। इमम् आशयं समुद्दिश्य तन्त्रे प्रोक्तम् -
भिन्नाशयाच्चाधिमुक्तेर्बहुत्वात्
सत्त्वाधिकराद् बहवो विशेषाः।
एकं हि नानाजलभाजनेषु
चन्द्रस्य नानाप्रतिबिम्बभासवत्॥
भट्टारकेण आर्यदेवपादेनाप्युक्तम् -
चन्द्रो यथा फलति शङ्खमणिप्राढ
वैडूर्यताम्रघटराशिसु भिन्नरूपः।
नाथस्य चित्तमपि तिष्ठति तत्त्ववज्रं॥
रूपैः प्रसृत्य विविधैर्जगतां समूहे॥
भाग्यहीनायां च मृद्विन्द्रियानां नैव पश्यति कायः। महायानसूत्रालङ्कारे चाप्युक्तम् -
यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते।
तथा दुष्टेषु सत्त्वेषु बुद्धबिम्बं न दृश्यते॥
अनेन प्रकारेण अयमपि उपदेशः विनेयजनानां पात्रताऽनुसारं प्रदत्तः। तथाहि -
बुद्धोऽवदत्तथा धर्मं विनेयानां यथाक्षमम्॥
केषाञ्चिदवदद्धर्मं पापेभ्यो विनिवृत्तये।
केषाञ्चित्पुण्यसिद्ध्यर्थं केषाञ्चिद् द्वयनिश्रितम्॥
द्वयानिश्रितमेकेषां गम्भीरं भीरुभीषणम्।
शून्यता-करुणागर्भमेकेषां बोधिसाधनम्॥
p.26
एवं आचार्यनागार्जुनेनोक्तम्। पुनश्च, यः खलु अशुद्धं भाजनं, स नैव पश्यति, यथा ब्रम्हपरिपृच्छायाम् उक्तम् -
गम्भीर शान्तो विरजः प्रभास्वरः
प्राप्तो मि धर्मो ह्यमृतोऽसंस्कृतः।
देशेय चाहं न परस्य जाने
यन्नून तूष्णीं पवने वसेयम्॥
आचार्यपादेनापि उक्तम् -
सर्वज्ञ इति सर्वज्ञो बुधैस्तेनैव गम्यते।
येनैतद्धर्मगाम्भीर्यं नोवाचाभाजने जने॥
अत एव इमम् अर्थम् आर्य अचिन्त्यगुह्यः कथितवान्। अतः आर्यनागार्जुनानुसारिणि मध्यममार्गे नास्ति कोऽपि दोषलेशः।
ये (जनाः) ग्रन्थस्यास्य अपवादं कुर्वन्ति, ते गम्भीरं विशालं च धर्मं परित्यजन्ति, अतस्ते नूनं चिरकालं यावत् नारकीयं दुःखभोगं करिष्यन्ति।
पूर्वाचार्यैस्तावद् एकैकस्य पक्षस्य रचना कृता। आचार्यदिङ्नागधर्मकीर्ति-प्रभृतिभिः प्रमाणमधिकृत्य विस्तृतानां ग्रन्थानां रचना कृता। आचार्यधर्मत्रात-बुद्धदेव-वसुमित्र-घोषक-मनोरथप्रभृतिभिः श्रावकवैभाषिकसम्मताः विस्तृताः आगमग्रन्थाः संरचिताः। आचार्यशुभगुप्त-धर्मोत्तर-वसुबन्धुप्रभृतिभिश्च श्रावक-सौत्रान्तिकानां विस्तरेण ग्रन्थाः संरचिताः। आचार्य-असङ्ग-पूर्ववसुबन्धु-स्थिरमति-प्रज्ञाकरगुप्त-कलिङ्गपाद-देवेन्द्र मति-प्रभृतिभिः तथा उपासक-श्रामणेरनिःस्वभावप्रभृतिभिरपि साकार-निराकारविषये ग्रन्थानां रचना कृता। आचार्यभव्य-बुद्धपालित-देवशर्म-अवलोकितेश्वरव्रत-शान्तरक्षित-कमलशील-प्रभृतिभिरपि मध्यमकदर्शनमधिकृत्य विस्तरेण ग्रन्थाः संरचिताः। आचार्य-चन्द्रगोमि-आचार्यशूर-आचार्यसागरमेघ-आचार्यशान्तिदेवादिभिः तथा लुनतकादिभिरपि जातमात्रचित्तोत्पाद-आदिकर्मिकाणां कृते चत्वारि अप्रमाणिनि चत्वारि सङ्ग्रहवस्तूनि पारमितादयः - एतेषां कथम् अभ्यासः करणीयः - इत्येनं विषयमादाय विपुलानाम् आचारग्रन्थानां रचना कृता। आर्यनागार्जुनः आचार्य-आर्यदेवः, आचार्यमातृचेटः, आचार्यकम्बलः आचार्यचन्द्रकीर्तिः - एभिः पञ्चभिराचार्यैः विरचिताः ग्रन्थाः मध्यमक-ग्रन्थानाम् उद्गमभूताः प्रवर्तकाश्च सन्ति। (इमे तावत्) मध्यमकग्रन्थानां मूलभूतत्वाद् अतुल्याः सन्ति। अनेनैव प्रकारेण गुह्यतन्त्रग्रन्था आचार्यबुद्धगुह्य-शाक्यमित्र-आचार्य -
p.27
प्रज्ञासिद्धि-आचार्य-आनन्दगर्भादिभिः योगतन्त्रक्रियातन्त्रादिकमधिकृत्य तन्त्रार्थः सुस्पष्टं सम्प्रकाशितः। आचार्य इन्द्रभूतिः आचार्यबुद्धज्ञानपादप्रभृतिभिः केवलं श्रीगुह्यसमाज-तन्त्रस्य सुस्पष्टार्थः सम्प्रकाशितः। आचार्यचर्यापाद-आचार्यवज्रघण्टापाद-आचार्य-लुईपादादिभिरपि श्रीसंवरोदयतन्त्रस्य सुस्पष्टार्थः सम्प्रकाशितः। आचार्य-डोम्बीहेरुक-सररूपादिभिरपि श्रीहेवज्रतन्त्रस्य सुस्पष्टार्थः सम्प्रकाशितः। आचार्येण कुक्कुरीपादेन एवं धर्मपादादिभिरपि महामायातन्त्रस्य अर्थः प्रकाशितः। ते आचार्यपादास्तु अशेष-पुरुषाणां महापरिग्राहकाः सन्ति, यतो हि तैः सामान्यजनानां कृते अत्यन्तम् उपकार-करणाय गुह्यगवेषणाप्रधानग्रन्थानां रचना कृता। मन्त्रिणां उपकरणाय प्रज्ञाशतक-द्वादशकल्प-प्रभृतीनां ग्रन्थानां रचना कृता। राज्ञां कृते तावत् सुहृल्लेखः, रत्नावली-प्रभृतीनां ग्रन्थानां रचना कृता चतुःपरिवारान्तर्गतानाम् अल्पपुण्यानां जनानां कृते बृहल्लघुगन्धयुक्त्या-दीनां (ग्रन्थानां) रचना कृता। वैद्यानां कृते योगशतक-योगद्वात्रिंशिका-विंशति-अमृतहृदयबिन्दु-जीवकसूत्रादीनां रचना कृता। महायाने सम्प्रविष्टानां कृते तावद् चित्तोत्पादविधि-बोधिसत्त्वचर्याप्रकाश-सूत्रसमुच्चयादीनां रचना कृता। अपि च, मूलमध्यमकप्रज्ञा (मध्यमककारिका), तद्विस्ताररूपेण विग्रहव्यावर्तनी, शून्यतासप्ततिः इत्यादीनां रचना कृता। एतेषाम् अङ्गभूतानां युक्तिषष्टिका-महायानविंशिका-भव- सङ्क्रान्ति-भावनाक्रम-वैदल्यसूत्र-अक्षरशतक-बोधिचित्तविवरण-धर्मधातुस्तव-परमार्थ-स्तव-निर्विकल्पस्तव-अचिन्त्यस्तव-लोकातीतस्तव-चित्तवज्रस्तव-शालिस्तम्बवृत्ति-प्रतीत्य-समुत्पाद-मूलवृत्त्यादीनां रचना कृता। एवमेव ये तीक्ष्णेन्द्रियाः ये महायानतन्त्रस्य पात्रभूताः सन्ति, तेषां कृते श्रीगुह्यसमाजतन्त्रार्थ-श्रीगुह्यसमाज-मण्डलाभिषेकविधि-विंशतिविधि-पिण्डीकृत-सूत्रमेलापक-पञ्चक्रमादीनां रचना कृता। श्रीचतुष्पीठतन्त्रस्य टीकाऽपि विरचिता। नामसंगीतिवृत्ति-भट्टारकखसर्पणसाधना-षडक्षर-अरपचन-वागीश्वर-पददत्त-कुमारादीनाम् अनेकसाधनानां रचना कृता। अपि च, त्रिसमयव्यूहविधि-एकवीर-साधना-तदुपदेशकामधेनु-बलित्रिंशिका-बुद्धसमायोगानिष्पत्तिक्रम-महोपदेशादीनां अनेकेषां (ग्रन्थानां) रचना कृता।
स सत्पुरुषः साक्षाद् बुद्ध एव। अतः तेन विरचितेषु पूर्णतया विश्वासः करणीयः। कथमिति चेद् ? तदा महामेघसूत्रे प्रवेदितम् - देवपुत्र, लिच्छिवीकुमारोऽयं सर्वेषां जनानां कृते प्रियदर्शनः अप्रमेय-असंख्येयकल्पपूर्वं तथागतः नागजातिप्रदीपः यदा लोके समुत्पन्नोऽभूत्, तस्मिन् समये चक्रवर्ती राजा महावीर्यः नागशासनधरो विद्यमान आसीत् तथा मन्त्री अपि सद्धर्मकोशधारी अभवत्। राजा मन्त्री चोभौ अस्थिधातुर्विद्यते न वेति विषये विवादं कुर्वाणौ आस्ताम्। राज्ञः सुभाषितम् आश्रित्य तत्कालीना परिषद् आश्चर्यचकिता भूत्वा भगवन्तम् आरोचयामास - यद् नृपोऽयं
p.28
गम्भीरेषु अर्थेषु प्रवीणः। तदा भगवता तस्य राज्ञः गुणा विस्तरेण सम्प्रकाशिताः। वृत्तमिदं सूत्रेषु द्रष्टव्यम्। तत्पश्चात् सपरिवारेण राज्ञा अञ्जलिपूर्णानि रत्नानि बुद्धाय समर्प्य एवविधं प्रणिधानं कृतम् - भविष्यति काले यदा बुद्धशासनं विलुप्यमानं भविष्यति तदा अहं प्रव्रजितो भूत्वा धर्मान्तसमये वारत्रयं महानादं कृत्वा चीवरधारणमात्रं मुण्डनमात्रं कुर्वतां जनानां बहिर्निष्कासनं करिष्ये तथा सद्धर्मस्य समुद्धारं कृत्वा सद्धर्मस्य कृते स्वकीयान् प्राणान् त्यजेयमिति प्रणिधानं कृतम्। तदनन्तरं मन्त्रिभिः राज्ञीभिः प्रणिधानं कृतम्। देवपुत्राः, मम परिनिर्वाणानन्तरं वर्षाणां शतेषु व्यतीतेषु दक्षिणप्रान्ते सुचरितभद्रो नाम राजा भविष्यति। ततः वर्षाणां शतके व्यतीते सद्धर्मस्य ह्रासो भूत्वा अल्पमात्रमेव अवशिष्टो भविष्यति, तदा मम श्रावको भविष्यति सद्धर्मस्य च समुद्धारको भविष्यति, सद्धर्मस्य चक्रप्रवर्तनं करिष्यति। अपरेभ्यो विस्तरेण महायानस्य उपदेशं करिष्यतीति कथितम्। पुनश्चोक्तम् - शृण्वन्तु, अहं तं भिक्षुम् व्याकरिष्यामि। स मयि सुश्रद्धः स मम शासनस्य विस्तारं कृत्वा भारं च (दायित्वं) ग्रहीष्यति। स च मम शाक्यकुमारः विद्यते। स मयि परिनिवृत्ते सति दक्षिणप्रान्ते विलोमनाम्नः ऋषेः राष्ट्रे पुण्यवति महानगरे उत्तरभागे जन्म ग्रहीष्यति। विमलं महाकुलं तु शाक्यकुलमेव सर्वसत्त्वेषु प्रियदर्शनः लिच्छिविकुमारः मम धर्मस्य विस्ताराय उत्तमपुरुषो बोधिसत्त्वः उत्तमकुले क्षत्रियकुले जन्म ग्रहीष्यति। तस्य कुले जाताः सर्वे जनाः तस्य नाम्ना विभूषिता भविष्यन्ति। स प्रव्रजितो भूत्वा तस्य परिषदापि सद्धर्मार्थं प्राणान् अपि परित्यज्य धर्मोपदेशं करिष्यति। तदनन्तरं तन्मते अधिमुक्ता अपि जनाः न्यूनसंख्याका भूत्वा प्रायः सर्वेऽपि तन्मतस्य त्यागं करिष्यन्ति। चतुर्भिर्धर्मैः समन्वागताः तस्मिन् विश्वासं करिष्यन्ति। पूर्वबुद्धाः तन्मतं श्रुत्वा अधिमुक्ता अभूवन्। स कल्याणमित्रैः परिगृहीतः अध्याशयप्रवृत्तः दृढकुशलमुलः उदाराधिमुक्तश्च भविष्यति। तस्मिन् अनधिमुक्ताः तन्मते अविश्वासं कुर्वन्तो जनाः मारेण अधिष्ठिता मोहिताः एव। तस्मिन् अधिमुक्ताः तन्मते विश्वासं कुर्वन्तः बुद्धद्वारा अपि मनसा गृहीताः भविष्यन्ति।
यदि तं सेविष्यन्ते, तदा त्रैकालिकानां बुद्धानां सेवा भविष्यति। यदि तेषां वचन श्रोष्यन्ति तदा त्रैकालिकानां बुद्धानां वचनं श्रुतं भविष्यति। तदनन्तरं तस्य मृत्युकालसमये मम सद्धर्मो लुप्तो भविष्यति। एवं तत्सदृशः अन्यः पुद्गलो न भविष्यति न तस्य सम्भावनाप्यवशिष्यते।
तदनन्तरं अनेकेषां कथानाम् अनन्तरं तत्पक्षधारकाः तत्पक्षविस्तारका तस्य परिषदः तन्मतस्य च ग्रहणशीलाः तस्य बुद्धत्वप्राप्तिसमये प्रमुखाः पारिषद्याः भविष्यन्ति। तस्य भद्रकल्पस्य अनन्तरं द्विषष्टिकल्पपर्यन्तं बुद्धो नैव प्रादुर्भविष्यति। तदनन्तरं सप्त बुद्धा भविष्यन्ति। तदनन्तरं प्रसन्नप्रालोकधातौ तथागतः अर्हन्
p.29
सम्यक्सम्बुद्धः ज्ञानाकरप्रभरूपेण बुद्धो भविष्यति। एवम् अनेकवारम् उक्तम्। अत्र दिङ्मात्रं प्रदर्शितम्। मञ्जुश्रीमूलकल्पे कथितम्, यथा -
नागाह्वयो नाम सौ भिक्षुः।
निःस्वभावर्थतत्त्ववित्॥
मायूरी नामतो विद्या सिद्धा।
जीवेद् वर्षशतानि षट्॥ इत्यादि॥
आर्यलङ्कावतारसुत्रेऽप्युक्तम् -
महामते निबोध त्वं यो नेत्रीं धारयिष्यति।
दक्षिणापथवेदल्यां भिक्षुः श्रीमान् महायशाः॥
नागाह्वयः स नाम्ना तु सदसत्पक्षदारकः।
आसाद्य भूमिं मुदितां यास्यते।सौ सुखावतीम्॥
आर्यमहादुन्दुभिसूत्रेऽपि व्याकृतम् - आर्यसुवर्णप्रभाससूत्रे यद्यपि व्याकर्तारः शब्दाः न सन्ति, तथापि बुद्धस्य अस्थिकृते ब्राम्हणकौण्डिन्य-लिच्छिवीसर्वदर्शन-प्रिय-योर्मध्ये विवादोल्लेखः संविद्यते। आचार्यचन्द्रकीर्तिनाऽप्युक्तम् - एवं आचार्य-श्रीनागार्जुनपाद-अनुप्राप्तस्वकार्थः प्रत्यात्मवेद्यं महावज्रधरसमाधिं लोके प्रतिपाद्य देव-मनुष्यसुखमतिक्रम्य तीर्थिक-श्रावक-प्रत्येकबुद्धध्यानसमापत्तिसमाधिसुखमतिक्रम्य उत्पाद-भङ्गरहितं सर्वाकारवरोपेतमासेचनकविग्रहं दशबलवैशारद्यादिसर्वबुद्धालङ्कृतं (तथागतकायं) प्रतिलभ्य सुखावतीं गत्वाष्टगुणैश्वर्यान्वितो विहरति। इति प्रदीपद्योतने उक्तम्।
इत्येवम् उक्तप्रकारकम् आचार्यनागार्जुनमतं ये धारयन्ति तत्परम्परागतं चोपदेशम् आचारे अवतारयन्तः पुद्गलाः अचिन्त्यकल्पपर्यन्तं महायानानुरूपम् आचरणं कुर्वन्ति। अतः यावत्पर्यन्तं बुद्धशासनं स्थास्यति तावत्पर्यन्तं तदुपदेशानाम् उच्छेदो नैव भविष्यति। यतो हि भट्टारकेण आर्यदेवपादेन कथितम्, (तथाहि) - भगवता बुद्धेन अर्द्धरात्रिसमये यदा अभिसम्बोधिसमाधेः साक्षात्कारः कृतः, तत आरभ्य बौद्धशासनस्य स्थितिपर्यन्तम् आचार्यनागार्जुनतः आरभ्य गुरुमुखाद् गुरुमुखक्रमेण तस्य सङ्क्रमणं भविष्यति, यतो हि आचार्यपादानाम् उपदेशाः सर्वबुद्ध-बोधिसत्त्वैः डाकनीभिः अधिष्ठिताः सन्ति। आचार्यचन्द्रकीर्तिपादेन कथितम् - "ये हि योगिनः अस्मिन्नेव वर्तमाने जीवने सम्बोधिम् आकाङ्क्षन्ते, तेऽपि आचार्यपादेनोपदिष्टम् उपदेशम् अत्यन्तगम्भीरं दुर्लभं निधिसदृशम् आचार्येभ्यः रत्नकलशे अमृतजलपूरणमिव मुखाद्
p.30
मुखं कर्णतः कर्णपर्यन्तं सङ्क्रमणं कृत्वा गृह्णन्ति। यावत्कालपर्यन्तं शाक्यमुनिबुद्धस्य शासनं स्थास्यति तावत्कालपर्यन्तं इदमपि नैव अस्तङ्गतं भविष्यतीत्येवं कथितम्। आचार्यनागार्जुनस्य स विपाककायः अद्यापि श्रीपर्वते विहरति।
एकस्मिन् समये यदा राज्ञः गौतमीपुत्रस्य पुत्रेण श्रीपर्वते गत्वा आचार्यस्य शिरसः याचना कृता, तदा आचार्येणोक्तम्-राजकुमार, (असिना) कर्तनं कृत्वा गृह्यताम्। खड्गेन पञ्चबारं कृतेऽपि प्रहारे शिरःकर्तनं नैव जातम्। तदा आचार्यपादेन कुशानयनार्थम् आदिष्टम्। राजकुमारेण आनीय प्रदत्तम्। स्वयम् आचार्येण तृणघर्षणेन शिरः पृथिव्यां पातयित्वा राजकुमारहस्तेषु प्रदत्तम्। राजकुमारः शिरसः उत्थापने अशक्तो भूत्वा तत्रैव स्थापयित्वा प्रचलितः। अद्यापि तच्छिरः कायश्च स्फुरितरत्नगर्भे गृहकूटे रत्नासने विद्यते। देवाः यक्षाः गन्धर्वादयः रात्रिन्दिवं सर्वदा पूजयन्ति। विषयेऽस्मिन् विस्तृता कथा अस्ति, किन्तु अत्रैव विरम्यते।
प्रणिधानकायस्तु सुखावत्यां विराजते। भगवता अमिताभेन 'बोधिसत्त्वमतिरत्न' इति नाम कृतम्। सितवर्णः (तस्य कायः)। द्वयोर्हस्तयोर्मध्ये दक्षिणहस्तः वरदमुद्रायां तथा वामहस्ते पुण्डरीकं गृहीतं वर्तते।
भट्टारकेण गुरुणा अवधूतीपादेन कथितम् - महाभट्टारकः गुरुः अवधूतीपादः अभिज्ञाबलेन यथा (आचार्यः नागार्जुनः) पूर्वं विद्यमान आसीत् तथैव द्रष्ट्वा तेभ्यो धर्मश्रवणं करोति स्म। कदाचित् श्रीपर्वते तिष्ठन् पश्यति स्म। आर्यशिष्यः भट्टारको नागबोधिः, यो अद्यतने 'शबरीपा' इति नाम्ना विख्यातः अस्ति, सोऽपि धर्मश्रवणं कुर्वन् आस्ते - इति गुरुणा अवधूतीपादेन कथितम्।
स्वदुःखानि उपेक्ष्य ये परदुःखाग्निना प्रताडिताः तीक्ष्णेन्द्रियाः गम्भीरधर्मतः नैव भयभीताः भूत्वा स्वयं प्रतिपत्तितः अवियुक्ताः अस्मिन्नेव वर्तमाने जन्मनि बुद्धत्वप्राप्तिं कामयन्ते तथा परार्थाय श्रमम् अननुभूय शीघ्रं अत्यधिकं श्रमं कुर्वन्ति, अविलम्बमेव अभिज्ञोत्पादं चेच्छन्ति, तैः उपायविशिष्टे याने प्रवेशः करणीयः। सद्गुरुतः वज्राचार्यतः अभिषेकं प्राप्य साधनाप्रधानो भवेत्। गुह्य-प्रज्ञाज्ञानाभिषेकयोः प्रदानं ब्रह्मचर्यमुक्तिमार्गस्य आचरणं कुर्वद्भ्यो नैव कर्त्तव्यम्। शिष्यैश्चापि ग्रहणं न कर्त्तव्यम्। तस्य (ग्रहणेन) ब्रम्हचर्यस्य क्षयो भविष्यति तथा बुद्धशासनं क्षयं गमिष्यति। गुरु-शिष्यौ उभौ नरकं गमिष्यतः - नास्त्यस्मिन् सन्देहलेशः। यदि गुह्यमन्त्रस्य सेवनम् इष्टं तदा अभिषेकं गृहीत्वा कुम्भाभिषेकं प्राप्य कस्मिन्नपि तन्त्रद्वारे प्रवेशः करणीयः। स्वेच्छया इष्टदेवं गृहीत्वा समाधिं मन्त्रजापादिकं च गुरुतः गृहीत्वा प्रधानतः साधनां कृत्वा विंशतिं संवरान् विशोध्य तेषां च रक्षणं कृत्वा साधना करणीया। यदा (समाधि-)बलम्
p.31
उत्पन्नं भविष्यति तदा चत्वारि कर्माणि, अष्टाभिर्लोकसिद्धिभिः परार्थकरणं नैव दुष्करं भविष्यति। अत एव तन्त्रेषु उक्तम् -
सागरस्तन्त्ररूपो यश्छादितो यश्च ह्यूर्मिभिः।
सिद्धैः व्याकरणपदैः सोऽनुमातुं न शक्यते॥
यानद्वयप्रहाणेऽपि महामुद्रा च लभ्यते।
मन्त्रयानमतः कोऽत्र विद्वान्नैव समाचरेत्॥
एकार्थत्वेऽप्यसंमोहाद् बहूपायाददुष्करात्।
तीक्ष्णेन्द्रियादिकाराच्च मन्त्रयानं विशिष्यते॥
अत्र (तन्त्रे) अभिषेकप्राप्तिं विना प्रवेशो निषिद्धो वर्तते। अतः इष्टदेवसाधनं मन्त्रजपादिकं नैव कर्त्तव्यम्। यतो हि अनुज्ञाप्राप्त्यभावात् गुह्यतन्त्रस्य पारमितायाश्च विमोक्षस्य च मिश्रणं भविष्यति। सम्पन्नक्रमः यो निष्प्रपञ्चवज्रबोधिचित्तम् अस्ति, तस्योपदेशः अपात्रेभ्यो नैव दातव्यः। पूर्णोपासकः यः रागमार्गी विद्यते, तस्मै अभिषेकद्वयग्रहणे नास्ति दोषः।
स्वललनया संतृप्तः परनारीं न गच्छति।
मिथ्याचारपरित्यागी स स्वर्याति ह्युपासकः॥
एवं सूत्रे ह्युक्तम्।
आवरणद्वयशुद्धयै सम्भारद्वयपूर्तये।
शिक्षितव्यं मन्त्रयानं दीपंकरेण प्रोच्यते॥
शाक्यभिक्षुस्तीक्ष्णबुद्धिः करुणाज्ञानशीलवान्।
शीलजिद्भद्रशिष्यो यो रचितो तस्यानुरोधतः।
विक्रमशीलाख्यमहाविहार इष्टे हि देवपालेन।
यथोपदिष्टं गुरुभिर्लिखितं दीपङ्करेण तथा॥
नास्य धनं भोजनमप्यपेक्ष्यम् देयं च नैतद् ह्यपरीक्ष्य सम्यक्॥
यो नार्य नागार्जुनकेऽधिमुक्तः गाम्भीर्यहानान्तरकं व्रजेत्सः॥
श्रीदीपंकरश्रीज्ञानपादविरचितो रत्नकरण्डोद्घाट-मध्यमनामोपदेश समाप्तः।
भारतीयोपाध्यायेन दीपङ्करश्रीज्ञानेन भोटानुवादकेन महोपासकेन ज्ञ-वीर्यसिंहेन च भिक्षुशीलजितेन च अनूद्य संशोध्य निर्णीतः॥
शक्तिसङ्गमसन्क्षोभात शाक्त्यवेशावसानिकम्।
युत्सुखं ब्रम्हत्त्वस्य तत्सुखं स्वाख्यमुच्यते॥
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project