मध्यमकावतारभाष्य
॥ नमो भगवते बुद्धाय॥
मध्यमकशास्त्रस्यावताराय मध्यमकावतारमारब्धुकमो बुद्धत्वस्या-
द्यहेतुसम्पदोऽशेषसंसारचारकावरुद्धात्राणसत्त्वपरित्राणलक्षणाया
भगवत्या महाकरुणायाः सम्यक्सम्बुद्धैर्बोधिसत्त्वैश्चापि प्रथमतः
स्तुत्यर्हतां प्रतिपादयञ्श्लोकद्वयमाह-
मुनीन्द्रजाः श्रावकमध्यबुद्धाः सम्बोधिसत्त्वप्रभवाश्च बुद्धाः।
कारुण्यचेतोऽद्वयधीश्च हेतुः सम्बोधिचित्तं च जिनात्मजानाम्॥
इत्यादि। तत्र निरुत्तरधर्मैश्वर्यसम्पदा श्रावकप्रत्येकबुद्धबोधिसत्त्वे-
भ्योऽपि परमैश्वर्यसम्पन्नतया श्रावकादीनां तदाज्ञावशवर्तित्वाच्च मु-
नीन्द्रा इत्युच्यन्ते बुद्धा भगवन्तः। तेभ्यो जाता मुनीन्द्रजाः श्राव-
कादयः। कथं कृत्वा। सति हि बुद्धानामुत्पादेऽविपरीतप्रतीत्यस-
मुत्पाददेशनायाः सम्प्रवृत्तेः। तच्छ्रवणचिन्ताभावनाक्रमतश्च यथा-
धिमुक्ति श्रावकादीनां परिनिष्पत्तेः। यद्यपि प्रतीत्यसमुत्पादोपदेश-
श्रवणादधिगतपरमार्थश्रवणा अपि न दृष्ट एव जन्मनि केचिन्निर्वाण-
मधिगच्छन्ति। तथापि नियतविपाकस्येव कर्मणो जन्मान्तरे यथा-
(1)
भिलषितफलपरिणतिमासादयन्त्यवश्यमेव तदुपदेशस्य कर्तारः।
यथोक्तम् आर्यदेवेन-
इह यद्यपि तत्त्वज्ञो निर्वाणं नाधिगच्छति।
प्राप्नोत्ययत्नतोऽवश्यं पुनर्जन्मनि कर्मवत्॥
इति। अत एव मध्यमकेऽपि निर्दिष्टम्-
सम्बुद्धानामनुत्पादे श्रावकाणां पुनः क्षये।
ज्ञानं प्रत्येकबुद्धानामसंसर्गात्प्रवर्तते॥
इति। तत्र सम्यगववादफलं श्रावयन्तीति श्रावकाः। तथा हि- कृतं
करणीयम्। नापरमस्माद्भवं प्रजानीम इत्यादि। अथ वा- अग्रफ-
लमनुत्तरसम्यक्सम्बुद्धमार्गं वा तथागतेभ्यः श्रुत्वा तदर्थिभ्यः श्राव-
यन्तीति श्रावकाः। यथोक्तम् आर्यसद्धर्मपुण्डरीकसूत्रे-
(2)
अद्यव्वयं श्रावकभूत नाथ संश्रावयिष्यामयथ चाग्रबोधिम्।
बोधीय शब्दं च प्रकाशयामस्ते-....॥
... जलपाकानामादिमध्यावसानेषु प्राधान्यादुपयोगित्वम्। एवं क-
रुणायाः कालत्रयेऽपि जिनसस्यसम्पदुपयोगित्वं द्योतयति। कारु-
णिको हि परदुःखदुःखितया नियतमेव दुःखिताशेषसत्त्वपरित्राणाय
(3)
बोधिचित्तमुत्पादयति - सकल एवायं लोकोऽवश्यं मया दुःखादुद्धृ-
त्य बुद्धत्वे नियोजनीय इति। इयं च प्रतिज्ञा न तिरस्कृताद्वयज्ञानेन
शक्या साधयितुमित्यद्वयज्ञानेऽपि नियोगत एव प्रवर्तते। इतः करु-
णैव बीजं सर्वबुद्धधर्माणाम्। यथोक्तम्-
करुणापूर्वकाः सर्वे विस्पन्दा ज्ञाननिर्मलाः।
उक्ता यत्र महायाने कस्तन्निन्देत् सचेतनः॥
इति। उत्पादितबोधिचित्तोऽपि यद्युत्तरकालं करुणासलिलपरिषेकं
न मुहुर्मुहुरासादयेत्। नियतमयमनुपचितविपुलफलसञ्चयः श्रावक-
प्रत्येकबुद्धपरिनिर्वाणेन निर्वृतः स्यात्। समासादितानन्तफलाव-
स्थोऽपि यदि कारुण्यपरिपाकरहितः स्यात्। नायं चिरकालमुपभु-
ज्येत। न च पारम्पर्याविच्छिनक्रमो महानार्यफलप्रचयश्चिरमभिवर्धे-
त॥
इदानिमालम्बनविशेषप्रवृत्त्यापि करुणायाः स्वरूपातिशयमभिद्यो-
त्य तस्यै नमस्कारमारब्धुकाम आह-
(4)
पुराहमित्यात्मनि सन्निविष्टे ममेदमित्याहितभावसङ्गे।
भ्रमद्धटीयन्त्र इवास्वतन्त्रे जगत्यभूद्या करुणा नमे ताम्॥
आत्मीयाभिनिवेशात् प्रागेवाहङ्कारेणासन्तमात्मानं सन्तमित्युपक-
ल्प्येदंसत्याभिनिविष्टो ममेदमित्यहङ्कारविषयादन्यस्मिन् भावजाते
सकल एवायं लोकोऽभिनिविष्टः। स चायमात्मात्मीयाभिनिविष्टो
लोकः कर्मक्लेशरज्ज्वा गाढतरमवबद्धो विज्ञानयन्त्रवाहाक्षेपपरायत्त-
वृत्तिर् आ भवाग्रादवीचिपर्यन्तं निम्ने महति संसारकूपेऽनवरतवाह्य-
मानः स्वरसत एवाघोगमनवृत्तिर्यत्नतः कथमप्युत्थापनीयो ऽज्ञाना-
दिक्लेशकर्मजन्मसङ्क्लेशत्रयेऽप्यनवधार्यमाणपूर्वापरमध्यक्रमो दुःख-
दुःखताविपरिणामदुःखताभ्यामहन्यहनि परिभिद्यमानत्वादरघट्टघ-
टीयन्त्रावस्थामनितिवृत्यावस्थितः। बोधिसत्त्वस्तद्दुःखदुःखितया त-
मतीव करुणयालम्ब्य यतस्तं त्रातुमुत्सहते। अतः प्रथमतरमेव भ-
गवतीं महाकरुणां प्रणौति स्म। एषा च सत्त्वालम्बना बोधिसत्त्वानां
करुणा॥
धर्मालम्बनामनालम्बनां च करुणामालम्बनत एव द्योतयन्नाह-
अन्तश्चलद्वारिणि चन्द्रवच्चलं स्वभावशून्यं च जगद्विपश्यतः।
(5)
या करुणा नमे ताम् इत्यनेन सम्बन्धः। तथा ह्यतिविप्रसन्नेऽम्भसि
नातिप्रचण्डमारुतोद्धूयमानावयवविसर्पिण्यन्तरिन्दोः प्रतिबिम्बके
प्रागुपलभ्यमानाधारदेशसहभङ्गिनि समक्षमिवोपलभ्यमानात्मभावो-
दये स्वमात्मानं प्रकटयदिवेदं द्वयमवस्थितं पश्यन्ति सन्तः। यदुत
प्रतिक्षणानित्यतां स्वभावशून्यतां च। एवं बोधिसत्त्वा अपि सत्काय-
दर्शनसरस्ययोनिशोविकल्पानिलप्रचलाविद्याभिनीलविपुलजलान्त-
र्वर्तिनः स्वकर्मप्रतिबिम्बकानिव पुरतो निर्वर्तमानान्पश्यन्तः सत्त्वा-
न्प्रतिक्षणमनित्यताव्यसनसम्पातिनः स्वभावशून्यांश् च तदनित्य-
ताव्यसनस्य व्यसनमिव सद्धर्मामृतरसातिशयपानहेतुं सकलविपर्या-
सकल्पनोपरतिलक्षणं सकलजगद्बन्धुतास्वभावं समवाप्तुं बुद्धत्वम-
भिलषन्ते करुणापरतन्त्राः॥
एतेषां याः करुणाः सत्त्वालम्बना धर्मालम्बना अनालम्बनाश्च। ताः
प्रणम्य बोधिसत्त्वानां बोधिचित्तस्य दशधा भेदं विवक्षुराद्यं तावद्बो-
धिचित्तमधिकृत्याह-
(6)
कृपास्वतन्त्रं जगतां विमुक्तये समन्तभद्रप्रणिधिप्रणामितम्॥
यदस्य चेतो मुदिताप्रतिष्ठितं जिनात्मजस्य प्रथमं तदुच्यते।
ज्ञानमेव हि बोधिसत्त्वानां कारुण्यादिपरिगृहीतमनास्रवं भागशो
विभज्यमानं भूम्याख्यां प्रतिलभते गुणप्रतिष्ठाभूतत्वात्। तच्चोत्तरोत्त-
रगुणसङ्ख्याप्रभावातिशयावाप्तिदानादिपारमिताधिक्यविपाकोत्कर्षभे-
दतो दशधा व्यवस्थापितं प्रमुदितादिभूमिभागेन। न त्वस्य स्वरूपा-
तिशयकृतो भेदोऽस्ति। यथोक्तम्-
यथान्तरीक्षे शकुनेः पदं बुद्धैर्वक्तुं न शक्यं न च दर्शनाय।
तथैव सर्वा जिनपुत्रभूमयो वक्तुं न शक्याः कुत एव श्रुतुम्॥
इति। तत्र प्रमुदिता बोधिसत्त्वभूमिराद्यचित्तोत्पादो बोधिसत्त्वानां
यावद् धर्ममेघा दशमश्चित्तोत्पाद इति। तत्र यथोक्तेन न्यायेन जग-
न्नैः स्वाभाव्यं पश्यतो बोधिसत्त्वस्य करुणाविशेषणत्वेनोपात्तस्य यच्
चित्तं करुणास्वतन्त्रं समन्तभद्रबोधिसत्त्वप्रणिधिपरिणामितं प्रमुदि-
ताभिधानाद्वयज्ञानं तन्निमित्तफलोपलक्षितं च। तत् प्रथमम् इत्य
उच्यते। बोधिसत्त्वस्य तत्र दशमहाप्रणिधानप्रमुखानि दश प्रणिधा-
(7)
नासङ्ख्येयशतसहस्राणि यानि बोधिसत्त्वः प्रथमचित्तोत्पादिक उत्पा-
दयति तानि समन्तभद्रबोधिसत्वप्रणिधानेऽन्तर्गतानि। निरवशेष-
प्रणिधानोपसङ्ग्रहार्थं समन्तभद्रप्रणिधिविशेषणोपादानम्। तत्र यथैव
श्रावकयाने प्रतिपन्नफलमार्गावस्थाभेदेनाष्टौ श्रावकभूमयो व्यव-
स्थाप्यन्ते। तथा महायानेऽपि बोधिसत्त्वानां दश बोधिसत्त्वभूमयः।
यथा चोत्पन्ननिर्वेधभागीयावस्थः श्रावको नैवाद्यफलप्रतिपन्नकावस्थ
इष्यते। एवं भावी बोधिसत्त्वः। यथा रत्नमेघसूत्रे - यद् अधिमात्रा-
धिमुक्तिचर्याधर्मतया प्रथमभूमिप्रतिलम्भाय समनन्तरावस्थानम्
इयं बोधिसत्त्वस्थानुत्पादितबोधिचित्तभूमिरित्युक्तम्। तदधिमुक्तिच-
र्याक्षणावस्थितश्च तत्रैव व्याख्यातः - तद्यथापि नाम कुलपुत्र राजा
चक्रवर्ती समतिक्रान्तश्च भवति मानुष्यकं वर्णमसम्प्राप्तश्च भवति दि-
व्यं वर्णम्। एवमेव बोधिसत्त्वं समतिक्रान्तश्च भवति सर्वलौकिक-
श्रावकप्रत्येकबुद्धभूमीरसम्प्राप्तश्च भवति पारमार्थिकबोधिसत्त्वभूमी-
रिति। यदा त्वयं प्रमुदिताख्याद्यभूमिप्रविष्टो भवति।
अतः प्रभृत्येव हि तस्य लाभतः स बोधिसत्त्वध्वनिनैव कथ्यते॥
(8)
सर्वथा पृथग्जनभूमेरतिक्रान्तावस्थायां बोधिसत्त्वध्वनिनैव वचनीय-
स्तच्चित्तलाभी। नान्यथा। तस्य तदानीमार्यत्वात्। यथोक्तं भगव-
त्यामर्धतृतीयसाहस्र्याम्- बोधिसत्त्व इत्यनुबुद्धसत्त्वस्यैतदधिवच-
नम्। येन सर्वधर्मा अनुबुद्धा ज्ञाताः। कथं ज्ञाताः। अभूता असम्भू-
ता वितथाः। नैते तथा। यथा बालपृथग्जनैः कल्पिताः। नैते तथा।
यथा बालपृथग्जनैर्लब्धाः। तेनोच्यते बोधिसत्त्व इति। तत्कस्य हे-
तोः। अविकल्पिता हि बोधिः। अविठपिता हि बोधिः। अनुपल-
म्भा हि बोधिः। न हि सुविक्रान्तविक्रामिंस्तथागतेन बोधिर्लब्धा।
अलाभात् सर्वधर्माणाम्। अनुपलम्भतः सर्वधर्माणां बोधिरित्युच्य-
ते। एवं हि बुद्धबोधिरित्युच्यते। न पुनर्यथोच्यते। ये सुविक्रान्तवि-
क्रामिन्बोधाय चित्तमुत्पादयन्ति - इदं चित्तं बोधायोत्पादयिष्याम
इति। बोधिं मन्यन्ते- अस्त्यसौ बोधिः। यस्यां वयं चित्तमुत्पादयि-
ष्याम इति। न ते बोधिसत्त्वा इत्युच्यन्ते। उत्पन्नसत्त्वास्त इत्युच्य-
न्ते। तत्कस्य हेतोः। तथा ह्युत्पादाभिनिविष्टाश्चित्ताभिनिविष्टा बोधि-
मभिनिविशन्त इत्यादि। भूयोऽप्युक्तम्- अलक्षणा हि बोधिर्लक्षण-
स्वभावविनिवृत्ता। य एवमनुबोधः। इयमुच्यते बोधिरिति। न पुनर्य-
(9)
थोच्यते। एषां हि सुविक्रान्तविक्रामिन्धर्माणामनुबुद्धत्वाद्बोधिसत्त्व
इत्युच्यते। यो हि कश्चित्सुविक्रान्तविक्रामिन्निमान्धर्मानप्रजानन्नन-
वबुध्यमानो बोधिसत्त्वो बोधिसत्त्व इत्यात्मानं प्रतिजानीते। दूरे त-
स्य बोधिसत्त्वभूमिः। दूरे स बोधिसत्त्वधर्माणाम्। विसंवादयति स-
देवमानुषासुरं लोकं बोधिसत्त्वनाम्ना। सचेत् सुविक्रान्तविक्रामिन्
वाङ्मात्रेण बोधिसत्त्वो भवेत्। तेन सर्वसत्त्वा अपि बोधिसत्त्वा भवे-
युः। नैतत्सुविक्रान्तविक्रामिन् वाक्कर्ममात्रम्। यदुत बोधिसत्त्वभूमि-
रित्यादि॥
न केवलं यथोक्तबोधिचित्तलाभी तस्यामवस्थायां बोधिसत्त्वध्वनिनै-
व कथ्यते। अपि च
जातः कुले भवति चैष तथागतानां
संयोजनत्रयमपि क्षतमस्य सर्वम्।
(10)
मोदं बिभर्ति च परं स हि बोधिसत्त्व
आलोकधातुशतकम्पनजातशक्तिः॥
सर्वशः पृथग्जनश्रावकप्रत्येकबुद्धभूम्यतिक्रमात्समन्तप्रभाभिधानत-
थागतभूम्यनुयायिमार्गोत्पादाच्च बोधिसत्त्वस्तथागतकुले जातो भव-
ति। आत्मनो नैरात्म्यसमक्षदर्शित्वात्सत्कायदृष्टिविचिकित्साशील-
व्रतपरामर्शाख्यं संयोजनत्रयमप्यस्यापुनरुत्पादाद्विगतं तदानीम्।
अतत्त्वदर्शिनो ह्यत्मसमारोपात्सत्कायदर्शनं स्यात्। तथैव विचि-
कित्सया मार्गान्तरगमनमस्य सम्भाव्येत। नान्यस्येति। नियामाव-
क्रान्त्या च तद्धेतुगुणलाभतो भूमिविपक्षदोषविगमतश्चासाधारणप्री-
तिविशेषोत्पादात् स बोधिसत्त्वः प्रामोद्यबहुलत्वात् परं प्रमोदं बिभ-
र्ति। विशिष्टप्रमोदसद्भावाच्चेयं भूमिः प्रमुदिताख्यां प्रतिलभते। श-
क्नोति च लोकधातुशतं कम्पयितुम्॥
(11)
ऊर्ध्वं प्रयाति च भुवो भुवमाददानो
रुद्धोऽस्य दुर्गतिपथः सकलस्तदानीम्।
क्षीणाः पृथग्जनभुवश्च तदास्य सर्वा
आर्यो यथाष्टमक एष तथोपदिष्टः॥
यथाधिगतधर्मपरिजित्या द्वितीयादिभूम्यवक्रान्तौ महोत्साहत्वाच्च
भूमेर्भूमिमाक्रामन्न् ऊर्ध्वम् अयं प्रयाति। सङ्क्षेपतो यथैव स्रोत-आप-
न्नस्यार्यस्य स्वानुरूपार्यधर्माधिगमाद्दोषविगमो गुणसम्भवश्च। तथै-
वास्यापि बोधिसत्त्वस्य भूम्यधिगमात्स्वारूपगुणसम्भवो दोषक्षय-
श्च स्रोत-आपन्नदृष्टान्तेन परिदीपितः॥
अयं चापरो विशेषः। यदयं बोधिसत्त्वः
प्रत्येकबुद्धान्समुनीन्द्रघोषजान्पुण्याधिपत्येन जयन्विवर्धते।
सम्बोधिचित्ते प्रथमेऽपि हि स्थितः
यथोक्तम् आर्यमैत्रेयविमोक्षे- तद्यथा कुलपुत्र अचिरजातो राजपुत्रो
राजलक्षणसमन्वागतो मूर्धप्राप्तान्सर्ववृद्धामात्यानभिभवति कुलमा-
हात्म्याधिपत्येन। एवमेवाचिरोत्पन्नबोधिचित्तस्तथागतधर्मराजकु-
(12)
लप्रत्याजात आदिकर्मिको बोधिसत्त्वश्चिरचरितब्रह्मचर्यान् श्रावकप्र-
त्येकबुद्धान् अभिभवति बोधिचित्तमहाकरुणाधिपत्येन। तद्यथापि
कुलपुत्र योऽचिरजातस्य महागरुडेन्द्रपोतस्य पक्षवातबलपराक्रमो
नयनपरिशुद्धिगुणश्च। स सर्वशरीरप्रवृद्धानां तदन्येषां पक्षिगणानां न
संविद्यते। एवमेव यः प्रथमचित्तोत्पादिकस्य तथागतमहागरुडे-
न्द्रकुलगोत्रसम्भवस्य बोधिसत्त्वमहागरुडेन्द्रपोतस्य सर्वज्ञताचि-
त्तोत्पादबलपराक्रमो ऽध्याशयनयनपरिशुद्धिगुणश्च। स कल्पशत-
सहस्रनिर्यातानां सर्वश्रावकप्रत्येकबुद्धानां न संविद्यत इत्यादि॥
दूरङ्गमायां तु धियापि सोऽधिकः॥
यथोक्तम् आर्यदशभूमके- तद्यथापि नाम भो जिनपुत्रा राजकुलप्र-
सूतो राजपुत्रो राजलक्षणसमन्वागतः स जातमात्र एव सर्वामात्य-
गणमभिभवति राजाधिपत्येन। न पुनः स्वबुद्धिबलविचारेण। यदा
पुनः स संवृद्धो भवति। तदा स्वबुद्धिबलाधानतः सर्वामात्यक्रियाम-
तिक्रान्तो भवति। एवमेव भो जिनपुत्रा बोधिसत्त्वः सह चित्तोत्पाद-
मात्रेण सर्वश्रावकप्रत्येकबुद्धानभिभवत्यध्याशयमाहात्म्येन। न पुनः
(13)
स्वबुद्धिबलविचारेण। अस्यां तु सप्तम्यां बोधिसत्त्वभूमौ स्थितो बो-
धिसत्त्वः स्वविषयज्ञानमाहात्म्यावस्थितत्वात्सर्वश्रावकप्रत्येकबुद्ध-
क्रियामतिक्रान्तो भवतीति। तदेवं दूरङ्गमाया एव प्रभृति स्वबुद्धिब-
लाधानेनापि बोधिसत्त्वः श्रावकप्रत्येकबुद्धानभिभवति। नार्वाग्भूमि-
ष्वति ज्ञेयम्। अत एवागमाच्छ्रावकप्रत्येकबुद्धानामपि सर्वधर्मनैः-
स्वाभाव्यज्ञानमप्यस्तीति स्फुटमवसीयते। अन्यथा हि भावनैःस्वा-
भाव्यपरिज्ञानरहितत्वाल्लौकिकवीतरागा इव तेऽपि प्रथमचित्तोत्पा-
दिकेनापि बोधिसत्त्वेन स्वबुद्धिविचारेणाप्यभिभूयेरन्। बाह्यवदेव चै-
षां त्रैधातुकावचरसर्वानुशयप्रहाणं न स्यात्। रूपादिस्वरूपोपलम्भे-
न विपर्यस्तत्वात्। आत्मनैरात्म्यबोधोऽपि न स्यात्। आत्मप्रज्ञप्त्यु-
पादानस्कन्धोपलम्भात्। यथोक्तं रत्नावल्याम्-
स्कन्धग्राहो यावद् अस्मात् तावदेवाहमित्यपि।
अहङ्कारे सति पुनः कर्म जन्म ततः पुनः॥
त्रिवर्त्मैतद् अनाद्यन्तमध्यं संसारमण्डलम्।
अलातमण्डलप्रख्यं भ्रमत्यन्योन्यहेतुकम्॥
(14)
स्वपरोभयतस्यस्य त्रैकाल्ये चाप्यलब्धितः।
अहङ्कारः क्षयं याति ततः कर्म च जन्म च॥
इति। पुनश्चोक्तम्-
अलातचक्रं गृह्णिति यथा चक्षुर्विपर्ययात्।
तथेन्द्रियाणि गृह्णिन्ति विषयान्साम्प्रतानिव॥
इन्द्रियाणीन्द्रियार्थाश्च पञ्चभूतमया मताः।
प्रतिस्वं भूतवैयर्थ्यादेषां व्यर्थत्वमर्थतः॥
निरिन्धनोऽग्निर्भूतानां विनिर्भागे प्रसज्यते।
सम्पर्के लक्षणाभावः शेषेष्वप्येष निश्चयः॥
एवं द्विधापि भूतानां व्यर्थत्वात्सङ्गतिर्वृथा।
व्यर्थत्वात्सङ्गतेश्चैवं रूपं व्यर्थमतोऽर्थतः॥
विज्ञानवेदनासञ्ज्ञासंस्काराणां च सर्वशः।
प्रत्येकमात्मवैयर्थ्याद्वैयर्थ्यं परमार्थतः॥
सुखाभिमानो दुःखस्य प्रतीकारे यथार्थतः।
तथा दुःखाभिमानोऽपि सुखस्य प्रतिघातजः॥
(15)
सुखे संयोगतृष्णैवं नैःस्वाभाव्यात्प्रहीयते।
दुःखे वियोगतृष्णा च पश्यतो मुक्तिरित्यतः॥
कः पश्यतीति चेच्चित्तं व्यवहारेण कथ्यते।
न हि चैत्तं विना चित्तं व्यर्थत्वान्न भविष्यति॥
व्यर्थमेवं जगन्मत्वा याथाभूत्यान्निरास्पदः।
निर्वाति निरुपादानो निरुपादानवह्निवत्॥
अथ स्यात् - बोधिसत्त्वा एव नैःस्वाभाव्यमेवं पश्यन्तीति। एतच्च
नास्ति। श्रावकप्रत्येकबुद्धानधिकृत्यैवंवचनात्। कथमेतज्ज्ञायत इति
चेत्। उच्यते - अनन्तरमेव बोधिसत्त्वानधिकृत्य -
बोधिसत्त्वोऽपि दृष्ट्वैवं सम्बोधौ नियतो मतः।
केवलं तस्य कारुण्यादा बोधेर् भवसन्ततिः॥
इत्याद्यभिधानात्। श्रावकोपदेशसूत्रेषु च श्रावकाणां क्लेशावरणप्रहा-
णार्थं फेनपिण्डोदकबुद्बुदमरीचिकाजलकदलीस्कन्धमायाद्युपमानै-
र्निरूपिताः संस्काराः-
(16)
फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा।
मरीचिसदृशी सञ्ज्ञा संस्काराः कदलीनिभाः।
मायोपमं च विज्ञानमुक्तमादित्यबन्धुना॥
इत्यादिना। अमुमेवार्थं प्रतिपादयताचार्येणोक्तम्-
अनुत्पादो महायाने परेषां शून्यता क्षयः।
क्षयानुत्पादयोश्चैक्यमर्थतः क्षम्यताम् इदम्॥
तथा
कात्यायनाववादे च। अस्ति नास्तीति चोभयम्।
प्रतिषिद्धं भगवता भावाभावविभाविना॥
इति।
यस् तु मन्यते - यदि श्रावकयानेऽपि धर्मनैरात्म्यं देशितं स्यात्।
तदानीं महायानदेशनावैयर्थ्यं स्यादिति। तस्यापि तन्मतमेवं युक्त्या-
गमविधुरमुपलक्ष्यते। न च धर्मनैरात्म्यमात्रमेव महायानदेशना प्र-
तिपादयति। किं तर्हि बोधिसत्त्वानां भूमिपारमिताप्रणिधानमहाकरु-
णादिपरिणामनासम्भारद्वयाचिन्त्यधर्मतामपि। यथोक्तं रत्नावल्याम्
(17)
न बोधिसत्त्वप्रणिधिर्न चर्यापरिणामना।
उक्ता श्रावकयानेऽस्माद् बोधिसत्त्वः कुतस्ततः॥
बोधिचर्याप्रतिष्ठार्थं न सूत्रे भाषितं वचः।
भाषितं तु महायाने ग्राह्यमस्माद्विचक्षणैः॥
इति। धर्मनैरात्म्यद्योतनार्थोऽपि महायानोपदेशो युज्यत एव। वि-
स्तराभिधानस्य विविक्षितत्वात्। सूचनामात्रं तु श्रावकयाने धर्मनैरा-
त्म्यस्य। यथोक्तम् आचार्यपादैः-
अनिमित्तमनागम्य मोक्षो नास्ति त्वमुक्तवान्।
अतस्त्वया महायाने तत्साकल्येन देशितम्॥
इति। अलं प्रसङ्गेन॥
अत एवानाकुलधियोऽर्थतत्त्वं स्वयम् अवबोद्धुं समर्था इति प्रकृतमे-
वानुवर्ण्यते।
तदाधिकं तस्य हि दानमेव सम्बुद्धबोधेः प्रथमं निदानम्।
(18)
तस्य हि प्रमुदिताभूमिलाभिनो बोधिसत्त्वस्य दानशीलक्षान्तिवीर्य-
ध्यानप्रज्ञोपायप्रणिधिबलज्ञानाभिधानाभ्यो दशभ्यः पारमिताभ्यो
दानपारमितैवाधिकतरा भवति। न त्वस्या अन्या न सन्ति। तच्च दा-
नं सर्वज्ञतायाः प्रथमं कारणम्॥
अदृश्यदृष्टौ च निमित्तभूतं स्वमांसदानेऽपि कृतादरस्य॥
येऽपि हि बोधिसत्त्वस्यादृश्या गुणा भूम्यधिगमादयः। तेऽपि बाह्या-
ध्यात्मिकवस्तुत्यागविशेषानुमानत एव तदानीं स्पष्टतरं तस्यानुमी-
यन्ते धूमादेरिवाग्न्यादयः॥
यथा च बोधिसत्त्वानां दानं प्रथमं बुद्धत्वस्य कारणमप्रत्यक्षगुणाव-
साये लिङ्गं च। एवं पृथग्जनानां श्रावकप्रत्येकबुद्धानामपि दुःखप्रती-
कारात्यन्तिकसुखावाप्तिकारणमपीति प्रतिपादयितुम् आह-
सुखाभिलाषी सकलो जनोऽयं
सुखं नृणां चास्ति विना न भोगैः।
भोगांश्च दानप्रभवानवेत्य
मुनिः पुरा दानकथाश्चकार॥
(19)
दुःखप्रतीकारमात्र एव भवगतिसुखोदयः। तन्निबन्धने विपर्यासमा-
त्रोपकल्पितात्मसन्ताने क्षुत्पिपासाव्याधिशीतादिप्रतिपक्षनिरस्तोप-
निपातेऽसुखात्मके गाढतरमभिनिविष्टो लोकः। तस्य चेत्थंसुखाभि-
लषिणो यत् सुखं दुःखप्रतीकारमात्रस्वरूपम्। तन् न विना दुःखप्र-
तिपक्षभूताभिलषितविषयविपर्यासात्मकभोगादुपजायमानमुपलब्ध-
म्॥
तेऽपि च दुःखप्रतीकारहेतवो विषया नानुपचितदानमयपुण्यक्रिया-
वस्तूनामुपजायन्त इत्यवेत्य विदिताशेषजगदाशयस्वभावो भगवा-
न्शीलादिकथाभ्यः प्रथमतरं दानकथा एव करोति स्म॥
इदानीं दातृसत्त्ववैरूप्येऽपि स्वव्यापारानुरूपतो दानस्य माहात्म्यमु-
द्भावयन्नाह-
कारुण्यहीना अतिरूक्षचित्ताः
स्वार्थान्तरा एव भवन्ति येऽपि।
तेषामपीष्टाः प्रभवन्ति भोगा
दानाद्धि दुःखोपशमे निदानात्॥
(20)
येऽपि हि वणिज इवाल्पतरधनपरित्यागतो विपुलतरधननिचयफ-
लवाञ्छयार्थिभ्योऽप्यधिकतरमर्थितामापन्ना दित्सामाद्रियन्ते। नो तु
खलु सुगततनया इव करुणापारतन्त्र्याद्दानफलेनाप्यनर्थिन एवाभि-
सम्बध्नन्तो दित्सया प्रीत्युत्सवमभिवर्धयन्ति। तेषामपि तद् दानं दो-
षग्रहणविमुखं गुणमात्रग्रहणलब्धपाटवमनिष्टमेवातिशयिन्या भोग-
सम्पदा शारीरं क्षुत्पिपासादिदुःखमुपघ्नद्भवति दुःखोपशमे निदा-
नम्॥
यश्चायं कारुण्यविरहात्स्वदुःखप्रतीकारापेक्षयैव दित्सामाद्रियते।
कदाचिदेषोऽपि हि दानसङ्गात्क्वचिल् लभेतार्यजनेन सङ्गम्।
ततः समुच्छिद्य भवप्रतानं शिवं प्रयायादपि तन्निदानम्॥
दाता दानपतिः सद्भिश्चानुगम्यत इति वचनाद् दानप्रसङ्गादार्यजनेन
संसर्गात्तदुपदेशतो विदितसंसारनैर्गुण्योऽविद्यां प्रहायामलार्यमार्ग-
सम्मुखीभावादनादिकालप्रवृत्तं जन्ममरणपरम्परया संसारप्रतानम्
उत्सृज्य श्रावकप्रत्येकबुद्धयानेन परिनिर्वाणं याति दानाधिमुक्तः। ए-
वं तावदबोधिसत्त्वानां दानं संसारनिर्वाणसुखावाप्तिकारणम्॥
(21)
जगद्धिताङ्गीकृतमानसास्तु लभ्यं लभन्ते न चिरेण दानात्।
यथोक्तं हि दानफलमबोधिसत्त्वा न दानसमकालं नियोगादुपभुञ्जते।
तदेषामसमक्षदानफलत्वादप्रवृत्तिरपि दाने सम्भाव्येत। बोधिसत्त्वा-
स्तु दानसमकालमेवार्थिजनमनः परितोषादभिलषितदानफलसम्पदा
प्रमोदमुद्वहन्तोऽद्यैव दानफलमुपभुञ्जते। अतः सर्वदैव दानप्रिया
जायन्ते॥
तदेवं यथोपवर्णितेन न्यायेनाभ्युदयनिः श्रेयसहेतुर्दानं सर्वेषां
कृपात्मनामप्यकृपात्मनां च यतस्ततो दानकथैव मूलम्॥
कीदृशः खलु बोधिसत्त्वानामर्थिनां भोगसंविभागैर्मनांसि तोषयतां
प्रीतिविशेषोदयः। यत एते सर्वदैव दानमाद्रियन्त इत्युच्यते-
त्यागेन सर्वस्य शमप्रवेशः सुखं विधत्ते न तथा मुनीनाम्।
देहीति शब्दश्रुतिभावनायाः सुखं यथोदेति जिनात्मजानाम्॥
अर्थिनां देहीति शब्दश्रुतिमेव तावद्भावयताममी मां याचन्त इत्यवे-
त्य मुहुर्मुहुर्बोधिसत्त्वानां यत् सुखमुत्पद्यते। तदेव तावन्निर्वाणसु-
खादपि सातिशयम्। किमुत बाह्याध्यात्मिकवस्तुत्यागादर्थिजनं तो-
(22)
षयतामिति। किं पुनराध्यात्मिकमपि वस्तु त्यजतां बोधिसत्त्वानां
शारीरमपि दुःखं नोत्पद्यते। यत एवमभिधीयत इत्याह- नैव हि म-
हात्मनामचेतनानामिव च्छिद्यमानानां शरीरदुःखोदयसम्भवः। य-
थोक्तम् आर्यगगनगञ्जसमाधौ- तद्यथापि नाम - स्यान्महाशालव-
नम्। तस्मिन् कश्चिदागत्य शालं छिन्द्यात्। तत्र तेषाम् अवशिष्टानां
शालानां नैवं भवति- एष च्छिन्नः। वयमच्छिन्ना इति। न तेषामनु-
नयः। न प्रतिघः। न कल्पः। न विकल्पः। यैवं क्षान्तिः। इयं बोधि-
सत्त्वस्य परमा गगनसमा क्षान्तिपरिशुद्धिरिति।
उक्तं च रत्नावल्याम्-
शरीरदुःखं नैवास्य दुःखं स्यात्केन मानसम्।
लोकदुःखं करुणया तेनैवास्य स्थितिश्चिरम्॥
इति॥
यस्याप्यप्राप्तनिः सङ्गतावस्थस्य देहस्थितिविरोधिविषयसम्पातादव-
श्यमुत्पद्यते शारीरं दुःखम्। तदपि तस्य सत्त्वार्थक्रियास्वधिकतरप्र-
वृत्तिहेतुत्वेनैवावतिष्ठत इत्याह-
(23)
छित्त्वा शरीरं स ददत्स्वदुःखैर्दुःखं परेषां नरकादिकं हि।
पश्यन्स्वसंवेदनयैव तस्य च्छित्यर्थमेवाशु करोति वीर्यम्॥
नरकतिर्यग्योनियमलोकदिगतिसङ्कटावरुद्धेष्वनवरततीव्रतरदुःखो-
पभिद्यमानशरीरेषु शरीरिषु स्वशरीरच्छेददुःखात्सहस्रशोऽप्यधिक-
तरोपचीयमानासह्यदुःखेषु दुःखिषु दुःखं स्वसंवेदनयैव पश्यन् बो-
धिसत्त्वः स्वशरीरच्छेदनदुःखमप्यविगणय्य नरकादिदुःखोपच्छित्तौ
सत्त्वानाम् आशुतरं वीर्यम् आरभते॥
यथोक्तस्य दानस्य पारमिताविभागं ख्यापयन्नाह-
देयप्रतिग्राहकदातृशून्यं लोकोत्तरा पारमितेति दानम्।
निरुच्यते
तत्र पारमुच्यते। संसारार्णवस्य यत्परं तीरं निरवशेषक्लेशज्ञेयावरण-
प्रहाणरूपं बुद्धत्वम्। पारम् इता गता पारमितेति। अलुगुत्तरपद
इत्यनेन लक्षणेन कर्मविभक्तेरलुकि रूपम्। पृषोदरादित्वाद् वा मा-
न्तत्वनिपातनम्। प्रज्ञां गृहीत्वा व्युत्पत्तिः। दानादयस्तु पारमिता
इव पारमिताः। परिणामविशेषैश्च पारगमने नियोगतः स्थापितत्वा-
द्दानं पारमिताख्यां प्रतिलभते। एवं शीलादयोऽपि वक्ष्यमाणा वेदित-
(24)
व्याः। तच्चैतद्दानं पारमिताभिधानं देयप्रतिग्राहकदातॄणामुपलम्भवि-
रहे सति लोकोत्तरा पारमितेत्युक्तं भगवत्यां प्रज्ञापारमितायां लो-
कादतिक्रान्तत्वादनुपलम्भस्य। उपलम्भस्य च व्यवहारसत्यसङ्गृही-
तत्वेन लौकिकत्वान्नैतदप्राप्तबोधिसत्त्वावस्थैः शक्यमास्थातुम्। अपि
तु
तत्त्रयजातसङ्गं सा लौकिकी पारमितेति दिष्टम्॥
तदेव दानं त्रयोपलम्भे सति लौकिकी दानपारमितेत्युपदिष्टम्॥
इदानीं यथाभिहितभूम्यभिधानज्ञानविशेषस्य गुणानुवादेनातिशयमु-
द्भावयन्नाह-
जिनतनयमनः प्रतिष्ठितेयं जयति सदाश्रयलब्धकान्तिशोभा।
बहलमपि तमो विधूय सर्वमिति मुदिता शशिनो मणिर्यथैव॥
इतिशब्दो यथोपवर्णितप्रकारदर्शनार्थः। मुदितेति भूमेर्नामसङ्कीर्तन-
म्। जयतीति विपक्षान्पराजित्य तिष्ठतीत्यर्थः। सैषा ज्ञानस्वभाव-
त्वाज् जिनतनयमनः प्रतिष्ठितत्वादुच्चैः स्थिता सती बहलमपि तमो
विधूय सर्वं यथोपवर्णितेन न्यायेन जयति प्रमुदिता भूमिः। यथोपव-
र्णितमेवार्थं दृष्टान्तेन स्पष्टयन्नाह- शशिनो मणिर्यथैवेति॥
(25)
मध्यमकावतारे प्रमुदिताभिधानः प्रथमचित्तोत्पादः॥
(26)
उक्तः प्रथमचित्तोत्पादो बोधिसत्त्वस्य। इदानीं द्वितीयमधिकृत्याह-
स्वप्नेऽपि दौःशील्यमलप्रहीणः स शीलसम्पद्गुणशुद्धियोगात्।
भूम्यभिधानज्ञानविशेषस्य सर्वस्यैवैकस्वाभाव्यात्तदविनाभाविशील-
पारमितादिगुणोत्कर्षत एव द्वितीयादिचित्तोत्पादविशेषमुद्भावयति।
तत्र क्लेशानधिवासनात्पापाप्रवृत्त्या च चेतसो विप्रतिसाराग्न्युपशमेन
शीतलत्वात् सुखहेतुत्वेन वा सद्भिः सेवनीयत्वाच्छीलम्। तच्च सप्त-
विरतिलक्षणम्। अलोभाद्वेषसम्यग्दृष्टयस्तु त्रयो धर्मास्तत्समुत्थाप-
का इति शीलाधिकारे दश कर्मपथा व्याख्यायन्ते। शीलसम्पच्
छीलप्रकर्षः। गुणानां शुद्धिः शीलसम्पदा गुणशुद्धि रिति विग्रहः।
स्वगुणपरिशुद्धित्वाच्छीलमेव विशिष्यते। तद्योगात्स बोधिसत्त्वः
स्वप्नावस्थायामपि दौःशील्यमलैर्न सङ्गृह्यते। कथं पुनरस्यैवं शील-
सम्पद्गुणपरिशुद्धिर्भवतीत्याह - यस्माद्द्वितीयायां बोधिसत्त्वभूमौ प्र-
तिष्ठितोऽयं बोधिसत्त्वः
संशुद्धवाक्कायमनः प्रचारो दशापि सत्कर्मपथांश्चिनोति॥
(27)
यथोक्तं द्वितीयायां बोधिसत्त्वभूमौ- तत्र भवन्तो जिनपुत्रा वि-
मलायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः प्रकृत्यैव प्राणातिपाता-
त्प्रतिविरतः खलु पुनर् भवति निहतदण्डो निहरशस्त्रो निहतवैरो
लज्जावान्दयापन्नः सर्वप्राणिभूतेषु हितसुखानुकम्पी। अमैत्रसङ्कल्पे-
नापि प्राणिविहिंसां न करोति। कः पुनर्वादः परसत्त्वेषु सत्त्वसञ्ज्ञि-
नः सञ्चिन्त्यौदारिककायविहेठया॥
अदत्तादानात् प्रतिविरतः खलु पुनर्भवति स्वभोगसन्तुष्टः परभोगा-
नभिलाष्यनुकम्पकः। स परपरिगृहीतेभ्यो वस्तुभ्यः परपरिगृहीत-
सञ्ज्ञी स्तेयचित्तमुपस्थाप्यान्तशस्तृणपर्णमपि नादत्तमादत्ते। कः
पुनर्वादोऽन्येभ्यो जीवितोपकरणेभ्यः॥
काममिथ्याचारात्प्रतिविरतः खलु पुनर्भवति स्वदारसन्तुष्टः परदारा-
नभिलाषी। स परपरिगृहीतासु स्त्रीषु परभार्यासु गोत्रधर्मध्वजरक्षि-
तास्वभिध्यां नोत्पादयति। कः पुनर्वादो द्वीन्द्रियसमापत्त्या वानङ्ग-
विज्ञप्त्या वा॥
(28)
अनृतवचनात्प्रतिविरतः खलु पुनर्भवति सत्यवादी कालवादी भूत-
वादी यथावादी तथाकारी। सोऽन्तशः स्वप्नान्तरगतोऽपि विनिधाय
दृष्टिं क्षान्तिं रुचिं मतिं प्रेक्षां विसंवादनाभिप्रायो नानृतां वाचं निश्चार-
यति। कः पुनर्वादः समन्वाहृत्य॥
पिशुनवचनात्प्रतिविरतः खलु पुनर्भवत्यभेदाविहेठनाप्रतिपन्नः सर्व-
सत्त्वानाम्। स नेतः श्रुत्वामुत्राख्याता भवत्यमीषां भेदाय। नामुतः
श्रुत्वेहाख्याता भवति तेषां भेदाय। स न सहितान् भिनत्ति। न भि-
न्नानामनुप्रदानं करोति। न व्यग्रारामः। न व्यग्ररतः। न व्यग्रकरणीं
वाचं भाषते सद्भूतां वा असद्भूतां वा॥
परुषवचनात्प्रतिविरतः खलु पुनर्भवति। स येयं वागदेशा। कर्कशा।
परुषा। परकटुका। पराभिसञ्जननी। अन्वक्षा। अन्वक्षप्राग्भारा।
ग्राम्या। पार्थग्जनिकी। नेला। अकर्णसुखा। क्रोधरोषनिश्चारिता।
हृदयपरिदहनी। मन्युजननी। मनःसन्तापकरी। अप्रिया। अमना-
(29)
पा। अमनोज्ञा। स्वसन्तानपरसन्तानविनाशनी। तथारूपां वाचं प्र-
हाय येयं वाक्स्निग्धा। मृद्वी। मनोज्ञा। प्रियकरणी। हितकरणी। अ-
नेला। कर्णसुखा। हृदयङ्गमा। प्रेमणीया। पौरी। वर्णविस्पष्टा। विज्ञे-
या। श्रवणीया। अनिश्रिता। बहुजनेष्टा। बहुजनकान्ता। बहुजनप्रि-
या। बहुजनमनापा। विज्ञप्रशस्ता। सर्वसत्त्वहितसुखावहा। समाहि-
ता। मन-उल्लापनकरी। मनःप्रह्लदनकरी। स्वसन्तानपरसन्तानप्र-
ह्लादनकरी। रागद्वेषमोहसर्वक्लेशप्रशमनकरी। तथारूपां वाचं नि-
श्चारयति॥
सम्भिन्नप्रलापात् प्रतिविरतः खलु पुनर्भवति सुपरिहार्यवचनः। का-
लवादी। भूतवादी। अर्थवादी। धर्मवादी। न्यायवादी। विनयवादी।
(30)
स निधानवतीं वाचं भाषते कालेन सावदानाम्। स चान्तश इतिहा-
सपूर्वकमपि वचनं परिहार्यं परिहरति। कः पुनर्वादो वाग्विक्षेपेण॥
अनभिध्यालुः खलु पुनर्भवति। स परकीयेषु भागेषु परवित्तोपकर-
णेषु परपरिगृहीतेषु स्पृहामपि नोत्पादयति। किं पुनर्यत्परेषां तन्मम
स्यादिति। न प्रार्थयते। न प्रणिदधाति। न लोभचित्तमुत्पादयति॥
अव्यापन्नचित्तः खलु पुनर्भवति सर्वसत्त्वेषु मैत्रचित्तो हितचित्तो द-
याचित्तः सुखचित्तः स्निग्धचित्तः सर्वजगदनुग्रहचित्तः सर्वसत्त्वहि-
तानुकम्पाचित्तः। स यानीमानि क्रोधोपनाहखिलमलव्यापादपरिदा-
हसन्धुक्षितप्रतिघाद्यानि। तानि प्रहाय यानीमानि हितोपसंहितानि
मैत्रोपसंहितानि सर्वसत्त्वहितसुखाय वितर्कितान्युपचितानि। तेषा-
मनुवितर्कयिता भवति॥
(31)
सम्यग्दृष्टिः खलु पुनर्भवति सम्यक्पथमुपगतः कौतुकमङ्गलनानाप्र-
कारकुशीलदृष्टिविगत ऋजुदृष्टिरशठोऽमायावी बुद्धधर्मसङ्घनियता-
शय इत्यादि॥
तत्र कायेनाद्यांस्त्रीन्कुशलान्कर्मपथान्निष्पादयति। वाचा मध्यांश्चतु-
रः। मनसा त्रीनन्त्यानित्येवं दशापि कुशलान्कर्मपथांश्चिनोति॥
किं पुनः प्रथमचित्तोत्पादिको बोधिसत्त्व एतान्कर्मपथान्न चिनोति।
असावपि चिनोति। किं तु
पन्थान एते कुशला दशापि
तस्याधिकं शुद्धतरा भवन्ति।
न तथा प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य॥
शान्त्या च कान्त्या च स तैर्विभाति
सदा विशुद्धः शरदीव चन्द्रः॥
शान्तिरिन्द्रियसंयमः। कान्तिर्भास्वच्छरीरता। इत्थम्परिशुद्धशी-
लोऽपि
स हि स्वभावं यदि शीलशुद्धेः
पश्येदतः स्यात्स न शुद्धशीलः॥
(32)
यथोक्तम् आर्यरत्नकूटसूत्रे- इह काश्यप एकत्यो भिक्षुः शीलवान्भ-
वति। प्रातिमोक्षसंवरसंवृतः। आचारगोचरसम्पन्नः। अणुमात्रेष्व-
वद्येषु भयदर्शी। समादाय शिक्षते शिक्षापदेषु। परिशुद्धकायवाङ्मन-
स्कर्मसमन्वागतो भवति। परिशुद्धाजीवः। स च भवत्यात्मवादी।
अयं काश्यप प्रभमो दुःशीलः शीलवत्प्रतिरूपकः। यावत्- पुनर्-
परं काश्यप इहैकत्यो भिक्षुर्द्वादशधुतगुणान्समादाय वर्तते। उपल-
म्भदृष्टिकश्च भवति। अहङ्कारममकारावस्थितः। अयं काश्यप चतु-
र्थो दुःशीलः शीलवत्प्रतिरूपक इति॥
अतो भवत्येष सदैव सम्यक्
त्रयेऽपि हीनद्वयधीप्रचारः॥
येभ्यः सत्त्वेभ्यो विरतिं करोति यश्च करोति यां च करोति। त्रयेऽपि
तस्मिन् भावाभावादिद्वयबुद्धिविगतो भवति॥
(33)
एवं तावद्बोधिसत्त्वानां शीलसम्पद्योगमुद्भाव्य सामान्येन तदन्येषा-
मपि शीलसम्पदो दानादिभ्योऽप्यतिमहत्त्वं सर्वगुणसम्पदां चास्पद-
भूतत्वमतः परं प्रतिपादयन्नाह-
दानेन भोगाः कुगतावपि स्युः
शीलक्रमप्रस्खलितस्य जन्तोः।
यत एव हि दानाच्छीलवतोऽस्य सतो दानपतेर्देवमनुष्येषु विशिष्टेषु
भोगसम्पदुदयः। तत एवास्य शीलचरणस्खलिताद् अपायगतिप-
तितस्य प्रत्येकनरकगवाश्वगजवानरनागादिप्रेतमहर्द्धिकादिषूपपन्न-
स्य स्यादेव विचित्रभोगसम्पदां समुदयः। ततश्च
सलाभमौलायपरिक्षयाच्च न तस्य भोगाः पुनरुद्भवेयुः॥
यो हि स्वल्पतरबीजवापात्समासादितविपुलफलोदयः। स फलाय
भूयोऽपि ततो बहुतरकं बीजमावपति। तस्य यथाकालमुपचीयमा-
नाविच्छिन्नक्रमो महाफलोपचयः सम्भाव्यते। यस्तु प्राक्तनीमपि
बीजमात्रां जडतया कृतघ्नचरित उपभुङ्क्ते। तस्य सह लोभेन मौ-
लस्याप्य् आयस्य परिक्षयात् कुतो भावी फलसम्पदामुपचयः॥
(34)
एवं शीलविरहादस्थाने भोगानुपभुञ्जानस्यातिधन्धतयापूर्वभोगाक्षेप-
विरहात्प्रागाक्षिप्तनिःशेषोपभोगाच्च न सम्भाव्येत भूयो भोगानामुद-
यः। न च केवलं भोगोदयनिष्पत्तिरस्यातिदुर्लभा। शीलक्रमरहित-
स्यापायगतस्योत्थितिरप्यतिदुर्लभेति प्रतिपादयन्नाह-
स्वतन्त्रवृतिः समसंस्थितश्च बिभर्ति नात्मानमयं तदा चेत्।
प्रपातयातः परतन्त्रवृत्तिस्ततः समुत्थास्यति केन भूयः॥
इच्छयापराधीनवृत्तिरयं देवमनुष्यादिगतिसंस्थितो मुक्तग्रह इव स-
मदेशसंस्थितः शूरो नात्मानं चेत् तदानीं धारयति। अयमपाययातः
शूर इव बद्धातिमहागिरिदरीप्रक्षिप्तः केन नाम भूयः समुत्थास्य-
तीत्यपायेनैवावासिकत्वमेवास्य नियतमापद्यते। अत एवोक्तम्-
अथ चेन्मनुष्येषूपपद्यते द्वौ विपाकावभिनिर्वर्तयतीति॥
यतश्च दौःशील्यमेवमतिबहुदोषसमुदायास्पदभूतम्।
अतो जिनो दानकथां विधाय शीलान्वया एव कथाश्चकार।
अत एव दानकथाकालसमनन्तरं विजितसकलपापधर्मो जिनो दा-
नादिगुणाविप्रणाशार्थं शीलकथा एव चकार। यस्मात्
(35)
शीलक्षितावेव गुणा विवृद्धा भवन्त्यविच्छिन्नफलोपभोगाः॥
सर्वगुणप्रतिष्ठाभूतत्वाच् छीलमेव क्षितिः। तस्यां दानादयो गुणा वि-
वृद्धा उत्तरोत्तराविच्छिन्नक्रमहेतुफलपरम्परयोपचीयमानफलप्रच-
याश्चिरकालमुपभोक्तुं शक्याः। नान्यथेति॥
तदनेन न्यायेन
पृथग्जनानामथ घोषजानां प्रत्येकबोधौ नियतात्मनां च।
जिनात्मजानां च परं न शीलान्निः श्रेयसायाभ्युदयाय चास्ति॥
यथोक्तम्- एषां दशानामकुशलानां कर्मपथानां समादानहेतोर् अ-
धिमात्रत्वान्निरयहेतुर्मध्यत्वात्तिर्यग्योनिहेतुर्मृदुत्वाद्यमलोकहेतुः।
तत्र प्राणातिपातो निरयमुपनयति। तिर्यग्योनिमुपनयति। यमलोक-
मुपनयति। अथ चेन्मनुष्येषूपपद्यते। द्वौ विपाकावभिनिर्वर्तयति-
अल्पायुष्कतां च बहुग्लान्यतां च। अदत्तादानं निरयमुपनयति।
(36)
यावत् परीत्तभोगतां च साधारणभोगतां च। काममिथ्याचारो निर-
यमुपनयति। यावद् अनाजानेयपरिवारतां च ससपत्नदारतां च। मृ-
षावादो निरयमुपनयति। यावद् अभ्याख्यानबहुलतां च परैर्विसंवा-
दनतां च। पैशुन्यं निरयमुपनयति। यावद् भिन्नपरिवारतां च हीनप-
रिवारतां च। पारुष्यं निरयमुपनयति। यावद् अमनापश्रवणतां च
कलहबहुलतां च। सम्भिन्नप्रलापो निरयमुपनयति। यावद् अनादेय-
वचनतां चानिश्चितवचनतां च। अभिध्या निरयमुपनयति। यावद्
अतुष्टितां च महेच्छतां च। व्यापादो निरयमुपनयति। यावद् अहि-
तैषितां च परोत्पीडनतां च। मिथ्यादृष्टिर्निरयमुपनयति। तिर्यग्यो-
निमुपनयति। यमलोकमुपनयति। अथ चेन्मनुष्येषूपपद्यते। द्वौ वि-
पाकावभिनिर्वर्तयति - कुदृष्टिपतितश् च शठश्च मायावी। एवं खलु
महतोऽपरिमाणस्य दुःखस्कन्धस्येमे दशाकुशलाः कर्मपथाः समु-
दागमाय वर्तन्ते॥
(37)
दशानां पुनः कुशलानां कर्मपथानां समादानहेतोर्मनुष्योपपत्तिमादिं
कृत्वा यावद्भवाग्रमित्युपपत्त्यायतनानि प्रज्ञायन्ते। तत उत्तरमेत ए-
व दश कुशलाः कर्मपथाः प्रज्ञाकारेण परिभाव्यमानाः प्रादेशिकचि-
त्ततया त्रैधातुकोक्त्रस्तमानसतया महाकरुणाविकलतया परतः श्र-
वानुगमेन घोषानुगमेन च श्रावकयानं संवर्तयन्ति। तत उत्तरकालं
परिशोधिता अपरप्रणेयतया स्वयम्भूत्वानुकूलतया स्वयंसम्बोधनत-
या परतोऽपरिमार्गणतया महाकरुणोपायविकलतया गम्भीरेदम्प्र-
त्ययानुबोधेन च प्रत्येकबुद्धयानं संवर्तयन्ति। तत उत्तरि परिशोधि-
ता विपुलाप्रमाणचित्ततया महाकरुणोपेततयोपायकौशल्यसङ्गृहीत-
तया सुनिबद्धमहाप्रणिधानतया सर्वसत्त्वापरित्यागितया बुद्धप्रज्ञान-
विपुलाध्यालम्बनतया सर्वबोधिसत्त्वभूमिपरिशुद्धिपारमितापरिशु-
द्धिचर्याविपुलत्वाय संवर्तन्त इति विस्तरः॥
तदनेन न्यायेनैतान्दश कुशलान्कर्मपथान्परित्यज्य पृथग्जनश्राव-
कप्रत्येकबुद्धबोधिसत्त्वानां यथासम्भवमभ्युदयस्य सांसारिकसुख-
स्यादुःखासुखस्वभावस्य निःश्रेयसस्य च मोक्षलक्षणस्यान्यः प्राप्त्यु-
(38)
पायो नास्तीति स्पष्टमादर्शितं भवति। यस्त्वयं द्वितीयचित्तोत्पादिको
बोधिसत्त्वः। स एषः
यथा समुद्रः कुणपेन सार्धं
यथा च लक्ष्मीः सह कालकर्ण्या।
तथाधिशीलेऽधिकृतो महात्मा
न वासमन्विच्छति तद्विपत्त्या॥
कालकर्ण्यलक्ष्म्याः पर्यायः॥
यथोक्तस्य शीलस्य पारमिताविभागमाह-
यां यश् च येभ्यो विरतिं करोति
त्रयोपलम्भे सति वै निरुक्तम्।
लौकिक्यदः पारमितेति शीलम्
एतच् छीलं त्रयोपलम्भे सति लौकिकी पारमितेत्युक्तम्।
लोकोत्तरा तत्त्रयसङ्गशून्यम्॥
यथोक्तत्रयानुपलम्भे सति तदेव शीलं लोकोत्तरपारमितेत्युक्तम्॥
यथोपवर्णितभूमिगुणानुवादेन शीलपारमिताधिकारं परिसमापयन्ना-
ह-
(39)
इयमपि विमल मलव्यपेता शरदि निशाकरचन्द्रिका यथैव।
अपहरति जने मनोनिदाघं जिनतनयेन्दुभवाभवा भवश्रीः॥
विमलेति दशकुशलकर्मपथवैमल्यादर्थानुजाता सञ्ज्ञा द्वितीयाया
बोधिसत्त्वभूमेः। यथा मलव्यपेता शरदि निशाकरज्योत्स्नापहरति
जनस्य निदाघम्। एवम् इयमपि विमला जिनतनयेन्दुप्रभवा दौः-
शील्यजनितमनःपरिदाहम् अपहरति। सा चेयम् अभवा। संसारा-
पर्यापन्नत्वात्। अपि च भवश्रीः। सर्वगुणसम्पदां तदन्वयत्वाच्चतुर्द्वी-
पैश्वर्यसम्पद्धेतुत्वाच्चेति॥
मध्यमकावतारे विमलाख्यो द्वितीयश्चित्तोत्पादः॥
(40)
इदानीं तृतीयं चित्तोत्पादम् अधिकृत्याह-
प्रभाकरी भूमिरियं तृतीया निःशेषबोध्येन्धनदाहिनोऽग्नेः।
प्रभोदयात्
प्रभाकरीति तृतीयाया बोधिसत्त्वभूमेर्नाम। कस्मात्पुनरियं प्रभाकरी-
त्यन्वर्थतां प्रतिपादयति- अशेषज्ञेयेन्धनदाहिनो ज्ञानाग्नेः शान्ता-
त्मकस्यास्यां प्रभोदयादियं भूमिः प्रभाकरीत्याख्यायते। तस्य तृती-
यचित्तोत्पादिकस्य
ताम्र इवावभासो रवेरिवास्यां सुगतात्मजस्य॥
यथैव हि रवेस्ताम्रावभास उद्यात्प्रागवस्थायामुपजायते। एवं बो-
धिसत्त्वस्य ज्ञानावभासोऽस्याम् उत्पद्यते। तस्य चेत्थञ्ज्ञानावभास-
लाभिनो बोधिसत्त्वस्य क्षान्तिपारमिताया आधिक्यमुद्भावयन्नाह-
अस्थानकोपी यदि तस्य कश्चित्
क्षुरेण मांसं पलशोऽपि देहात्।
छिन्द्यात्सहास्थ्नातिचिरं तदापि
क्षमाधिकं छेत्तरि जायतेऽस्य॥
(41)
परचित्तानुरक्षित्वाद्बोधिसत्त्वस्तथाविधज्ञानसद्भावाच्च नैव तथाजा-
तीयां कायवाङ्मनःप्रवृत्तिमामुखीकरोति। यथा परेषां त्रैकाल्यानर्थ-
शङ्किनाम् आघातवस्तुतां व्रजेद् इत्यतो विशेष्यते-
अस्थानकोपी यदि तस्य कश्चित्
इति। यद्य् एवंविधोऽपि सत्त्वस् तस्य बोधिसत्त्वस्य देहात् सहास्थ्ना
मांसं विश्रम्य विश्रम्य पलशः सुचिरतरं छिन्द्यात्। तथाविधेऽपि
च्छेत्तरि न केवलं बोधिसत्त्वस्य न व्यारोषचित्तता भवति। अधिक-
तरं क्षमैवोपजायते तत्पापकर्मप्रत्ययं नरकादिदुःखमध्यालम्बमान-
स्य॥
अपि च
सम्बोधिसत्त्वस्य निरात्मदृष्टेश्छिद्येत किं केन कदा कथं वा।
धर्माश्च तेन प्रतिबिम्बकल्पा दृष्टा यतस्तेन तितिक्षतेऽसौ॥
न केवलं तत्पापकर्मप्रत्ययं नरकादिदुःखमध्यालम्ब्यातितरां तिति-
क्षते। धर्माश्च तेन यतः प्रतिबिम्बकल्पा दृष्टाः। अतोऽप्यात्मात्मीय-
(42)
सञ्ज्ञाविगमात्सुतरां तितिक्षत इति। चशब्दः क्षमाकारणसमुच्चया-
र्थः। न केवलं बोधिसत्त्वानां तितिक्षा समुत्थितो धर्मः। तदन्येषाम-
प्ययं सकलगुणगणारक्षाहेतुरपीति व्यारोषादसूयावतो निवर्तयितुं
युक्तिमाह-
कृतेऽपकारे यदि तस्य खेदो निवर्तते किं कृतमस्य खेदात्।
व्यर्थस्ततः खेद इहास्य नूनं लोकः परश्चापि भवेद्विरुद्धः॥
यदि तावदयं व्यारोषावकाशदायी कृतापकाराय परस्मै क्रुध्यति। त-
दापकृतस्यानिवार्यत्वात्तदालम्बनः खेदोदयो निःप्रयोजन एव। भवि-
तव्यस्य भूतत्वात्। न केवलं तदानीम् अस्य खेदोदयो निःप्रयोजनः।
परलोकश् च विरुध्यते। सति प्रतिघोदयेऽनिष्टविपाकाक्षेपात्।
योऽस्यापि स्वयङ्कृतदुश्चरितफलविपाकावशेषमुपभुञ्जानस्य मोहाद-
परो मामपकरोतीति कल्पयतोऽपकारिणि खेद उपजायते। प्रत्यप-
कारेण च यास्यापकारविजिगीषा। तामपि निवर्तयन्नाह-
(43)
पुराकृतस्याकुशलस्य कर्मणः फलं यदेव क्षयकृद्विवक्षितम्।
परापकारेण रुषा च बीजतां तदेव दुःखाय कथं हि नीयते॥
यद् अपीदं निशितशस्त्रधारापातेन तस्यातिमहद्देहक्षतिवैशसमराति-
भिरुपसंह्रियते। तदपि पुराकृतप्राणातिपातादिकर्मणां नरकतिर्यग्यो-
नियमलोकाद्यनुभूतातितीव्रविपाकफलानामवशिष्यमाणनिष्यन्दफ-
लक्लेशानामशेषानिष्टफलनिवृत्तिहेतुश्चरमः फलोदयः। स कथं जठ-
रगतरोगापगमकारणमिव पश्चिमभैषज्यापानं पुनरपि विक्रिय-
याऽतिक्रान्तानिष्टफलादप्यधिकतरोपघातकारिणि फलोदये हेतुता-
मुपनीयेत व्यारोषपरापकाराभ्याम् इत्यतो युक्तं तस्य रोगापगमहेतौ
निशितशस्त्रकर्मकारिणि वैद्य इवापातदुःखोदयनिबन्धने सुतरां ति-
तिक्षितुम्॥
न केवलं यथोपवर्णितेन न्यायेनानिष्टविपुलविपाकाक्षेपहेतुरसूया।
चिरोपात्तपुण्यप्रचयपरिक्षयहेतुरपीति प्रतिपादयन्नाह-
(44)
शुभं हि दानादथ शीलतश्च हन्त्यक्षमा कल्पशतैरुपात्तम्।
यस्मात्क्षणेनापि जिनात्मजेषु नातोऽक्षमायाः परमस्ति पापम्॥
पुद्गलविशेषावसायविरहादवसायेऽपि क्लेशाभ्यासपरायत्तवृत्तितया
यद्ययमुत्पादितबोधिचित्तेषु क्षणम् अपि सद्भूतासद्भूतदोषाध्यारोपतः
कुर्यात्प्रतिघाताशयम्। इत्यतापि कल्पशतोपचितं पुण्यप्रचयं पुरोप-
दिष्टदानशीलपारमिताभ्यासपरमप्य् उपहन्यात्। महाबोधिस-
त्त्वोऽपि। किमुताबोधिसत्त्वो बोधिसत्त्वेष्विति। नात्र विपाकस्य म-
र्यादा शाक्या नियन्तुं पलसङ्ख्ययेव महासमुद्रजलपरिमाणस्य। तदेवम्
अक्षमाया उत्कृष्टं पापम् अनिष्टविपाकाक्षेपकं शुभोपघातकं च नाप-
रमस्ति। उक्तं हि भगवता - प्रतिघः प्रतिघ इति मञ्जुश्रीः कल्पशत-
सहस्रसञ्चितं पुण्यं प्रतिहन्ति। तेनोच्यते- प्रतिघ इति॥
(45)
अपि चेयमक्षमा परापकारासमर्थानामात्मानमेवोपघ्नती शक्तानां
चाघृणानामात्मानं परांश्च निघ्नत्युदय एव
करोति वैरूप्यमसाधुतां नयेन्नयानयज्ञानविचारणां हरेत्॥
उत्तरकालं तु निकायसभागत्यागात्
प्रपातयेद् दुर्गतिमाशु चाक्षमा।
यद्यक्षमाया एते दोषाः। तद्विरोधिन्यास्तितिक्षायास्तु के गुणा इत्याह
कुर्यात्क्षमा तूक्तविरोधिनो गुणान्॥
प्रासादिकः साधुजनप्रियश्च नयानयज्ञानविचक्षणश्च।
अतः परं देवमनुष्यजन्म तितिक्षया स्यादशुभक्षयश्च॥
अक्षमाया ये दोषा उक्ताः। तद्विरोधिन्यास्तितिक्षाया एते गुणा वेदि-
तव्याः॥
तदेवम्
रोषक्षमादोषगुणानवेत्य पृथग्जनेनाथ जिनात्मजेन।
हित्वाक्षमामाशु निषेवणीया क्षान्तिः सदैवार्यजनप्रशस्ता॥
(46)
रोषश्च क्षमा च रोषक्षमे। दोषाश्च गुणाश्च दोषगुणाः। रोषक्षमयोर्
दोषगुणा इति विग्रहः। रोषदोषान्यथोक्तान् अवेत्य क्षमागुणांश्च वि-
पर्ययेण बुद्धाक्षमां परित्यज्य क्षमैव सर्वकालं निषेवणीया॥
इदानीं पारमिताविभागं क्षमाया दर्शयन्नाह-
त्रयोपलम्भे सति लौकिकीयं सम्बुद्धबोधौ परिणामितापि।
या च तितिक्षा यश्च तितिक्षते येषु च सत्त्वेषु तितिक्षते। एतस्य त्र-
यस्योपलम्भे सतीयं क्षान्तिर्बुद्धत्वपरिणामितापि लौकिकी क्षान्तिपा-
रमितेत्युच्यते॥
लोकोत्तरा पारमितेति बुद्धा उशन्ति तामेव विनोपलम्भम्॥
यथा च क्षान्तिपारमिता विशुद्धा भवत्यस्यां भूमौ बोधिसत्त्वस्य। ए-
वम्
ध्यानान्यभिज्ञा भुवि बुद्धसूनो रागस्य दोषस्य परिक्षयश्च।
अस्यां भवत्येष च कामरागं लोकस्य हन्तुं सततं समर्थः॥
ध्यानानीति ध्यानशब्द उपलक्षणार्थः समापत्त्यप्रमाणान्यपि ग्राहय-
ति। यथोक्तं तृतीयायां बोधिसत्त्वभूमौ - सोऽस्यां प्रभाकर्यां बोधिस-
(47)
त्त्वभूमौ स्थितो बोधिसत्त्वो विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः
सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानं समापद्य विहर-
ति। स वितर्कविचाराणां व्युपशमादध्यात्मसम्प्रसादाच्चेतस एकोती-
भावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य
विहरति। स प्रीतेर्विरागादुपेक्षको विहरति स्मृतिमान्सम्प्रजानन्।
सुखं च कायेन प्रतिसंवेदयते। यत्तदार्या आचक्षते- उपेक्षकः स्मृ-
तिमान्सुखविहारीति। निष्प्रीतिकं तृतीयं ध्यानमुपसम्पद्य विहरति।
स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव सौमनस्यदौर्मन-
स्ययोर् अस्तङ्गमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुप-
सम्पद्य विहरतीति चत्वार्येतानि ध्यानानि॥
चतस्र आरूप्यसमापत्तयः। तद्यथा - स सर्वशो रूपसञ्ज्ञानां सम-
तिक्रमात्प्रतिघसञ्ज्ञानामस्तङ्गमान्नानात्वसञ्ज्ञानाममनसिकारादन-
न्तमाकाशमित्याकाशानन्त्यायतनमुपसम्पद्य विहरति। स सर्वश
आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानमिति विज्ञानान-
(48)
न्त्यायतनम् उपसम्पद्य विहरति। स सर्वशो विज्ञानानन्त्यायतनस-
मतिक्रमान्नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसम्पद्य विहरति। स
सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसञ्ज्ञानासञ्ज्ञायतनम्
उपसम्पद्य विहरतीत्येताश्चतस्र आरूप्यसमापत्तयः॥
चत्वार्यप्रमाणानि। तद्यथा - स मैत्रीसहगतेन चित्तेन विपुलेन मह-
द्गतेनाद्वयनिःश्रितेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावध्येन स-
र्वत्रानुगतेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं
लोकं स्फरित्वोपसम्पद्य विहरति। एवं करुणासहगतेन मुदितासह-
गतेनोपेक्षासहगतेन चित्तेन विपुलेनेति पूर्ववत्॥
पञ्चाभिज्ञाः। तद्यथा- सोऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति। पृ-
थिवीमपि कम्पयति। एको भूत्वा बहुधा भवति। बहुधा भूत्वैको भव-
ति। आविर्भावं तिरोभावमपि प्रत्यनुभवति। तिरःकुड्यं तिरःप्राका-
(49)
रम् असज्जन् गच्छति। तद्यथापि नामाकाशे। आकाशेऽपि पर्यङ्केन
क्रामति। तद्यथापि नाम पक्षी शकुनिः। पृथिव्यामुन्मज्जननिमज्जनं
करोति। तद्यथापि नामोदके। उदके ऽप्यमज्जन्गच्छति। तद्यथापि
नाम पृथिव्याम्। धूमायत्यपि प्रज्वलत्यपि। तद्यथापि नाम महा-
नग्निस्कन्धः। उदकमपि कायात्प्रमुञ्चति। तद्यथापि नाम महामेघः।
येन वारिणा त्रिसाहस्रमहासाहस्र्यामादीप्तायां निर्वापयति। इमावपि
चन्द्रसूर्यावेवं महानुभावावेवं महेशाख्यौ पाणिना परामृषति परिमा-
र्जयति। यावद्ब्रह्मलोकमपि कायेन वशं वर्तयतीत्येषा च ऋद्ध्यभि-
ज्ञा॥
स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेणोभयाञ्शब्दा-
ञ्शृणोति दिव्यान्मानुष्यकान्। सूक्ष्मान् औदारिकांश्च। ये वा दूरे ये
(50)
वान्तिके। अन्ततो दंशमशककीटपक्षिकाणाम् अपि शब्दाञ्शृणो-
ति। एषा दिव्यश्रोत्राभिज्ञा॥
स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं स्फरित्वा यथाभूतं प्रजा-
नाति। सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाति। वीतरा-
गं चित्तं वीतरागं चित्तम् इति यथाभूतं प्रजानाति। एवं सदोषं वि-
गतदोषं समोहं विगतमोहं सक्लेशं निष्क्लेशं परीत्तं विपुलं महद्गतमप्र-
माणं सङ्क्षिप्तं विक्षिप्तं समाहितं असमाहितं विमुक्तमविमुक्तं साङ्गणम-
नङ्गणं औदारिकं चित्तमौदारिकं चित्तम् इति यथाभूतं प्रजानाति।
अनौदारिकं चित्तमनौदारिकं चित्तम् इति यथाभूतं प्रजानातीति हि
(51)
परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति। एषा प-
रचित्तज्ञानाभिज्ञा॥
सोऽनेकविधं पूर्वनिवासमनुस्मरति। एकामपि जातिमनुस्मरति। द्वे
तिस्रश्चतस्रः पञ्च दश विंशत्त्रिंशच् चत्वारिंशत्पञ्चाशज् जातिशत-
मपि। जातिसहस्रमपि, अनेकान्यपि जातिशतानि। अनेकान्यपि
जातिसहस्राणि। अनेकान्यपि जातिशतसहस्राणि। अनेकान्यपि
जातिकोटीनियुतशतसहस्राण्यनुस्मरति। संवर्तकल्पमपि। विवर्त-
कल्पमपि। संवर्तविवर्तकल्पम् अपि। अनेकान्यपि संवर्तविवर्तक-
ल्पान्यनुस्मरति। कल्पशतमपि। कल्पसहस्रमपि। कल्पशतसहस्र-
मपि। कल्पकोटीसहस्रमपि। यावदेनेकान्यपि कल्पकोटीनियुतशत-
सहस्राण्यनुस्मरति। अमुकोऽहमासमेवन्नामैवङ्गोत्र एवञ्जात्य एवंवर्ण
एवम्प्राग्भार एवमायुष्प्रमाण एवञ्चिरस्थितिक एवंसुखदुःखप्रतिसंवे-
(52)
दी। सोऽहं ततश्च्युतोऽमुत्रोपपन्नः। ततश्च्युत इहोपपन्न इति साकारं
सनिमित्तं सोद्देशमनेकविधं पूर्वनिवासमनुस्मरति। इयं पूर्वनिवा-
सानुस्मृत्यभिज्ञा॥
स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान्पश्यति।
च्यवमानानुपपद्यमानान् सुवर्णान्दुर्वर्णान्सुगतान्दुर्गतान्हीनान्प्रणी-
तान् यथाकर्मोपगान्सत्त्वान्यथाभूतं प्रजानाति। इमे भवन्तः सत्त्वाः
कायदुश्चरितेन समन्वागताः, वाग्दुश्चरितेन समन्वागताः, मनोदुश्च-
रितेन समन्वागताः, आर्याणामपवादका मिथ्यादृष्टयो मिथ्यादृष्टिक-
र्मसमादानहेतोस् तद्धेतोस्तत्प्रत्ययं कायस्य च भेदात्परं मरणादपा-
यदुर्गतिविनिपातं नरकेषूपपद्यन्ते। इमे पुनर्भवन्तः सत्त्वाः कायसु-
चरितेन समन्वागता यावद् आर्याणामनपवादकाः सम्यग्दृष्टयः स-
(53)
म्यग्दृष्टिकर्मसमादानहेतोस् तद्धेतोस्तत्प्रत्ययं कायस्य च भेदात्परं
मरणात्सुगतौ स्वर्गलोके देवेषूपपद्यन्त इति दिव्येन चक्षुषा विशुद्धे-
नातिक्रान्तमानुष्यकेण साकारं सोद्देशं सनिदानं सर्वसत्त्वान्पश्यति।
च्यवमानानुपपद्यमानान्सुवर्णान्दुर्वर्णान्यावद् यथाकर्मोपगान् स-
त्त्वान्यथाभूतं प्रजानाति॥
स इमानि ध्यानानि विमोक्षान्समाधीन्समापत्तीश्च समापद्यते च व्यु-
त्तिष्ठते च। न च तेषां वशेनोपपद्यते। अन्यत्र, यत्र बोध्यङ्गपरिपूरिं
पश्यति, तत्र सञ्चिन्त्य प्रणिधानवशेनोपपद्यते। तत्कस्य हेतोः। त-
था हि तस्य बोधिसत्त्वस्योपायकौशल्याभिनिर्हृता चित्तसन्तति-
रिति॥
(54)
एवम् अस्यां भूमौ बोधिसत्त्वस्य ध्यानान्यभिज्ञाश्चोत्पद्यन्ते। कथं
रागद्वेषयोः परिक्षयः। चशब्दोऽनुक्तसमुच्चयार्थः। मोहपरिक्षयश्चा-
स्य भवति। कथम्। एतदपि यथासूत्रम्, यथोक्तम्- सर्वधर्माणाम्
असङ्कान्तितां चाविनाशितां च प्रतीत्यप्रत्ययतया व्यवलोकयति।
तस्य भूयस्या मात्रया सर्वाणि कामबन्धनान्य् अत्र न भवन्ति। द्वेष-
बन्धनानि, सर्वाणि रूपबन्धनानि, सर्वाण्यविद्याबन्धनान्य् अत्र न
भवन्ति। दृष्टिकृतबन्धनानि चास्य पूर्वमेव प्रहीणानि भवन्ति। त-
स्यास्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्यानेकानि
कल्पशतानि, अनेकानि कल्पसहस्राणि, अनेकानि कल्पशतसहस्रा-
णि, अनेकानि कल्पनियुतशतसहस्राणि, अनेकाः कल्पकोट्यो या-
वद् अनेकानि कल्पकोटीनियुतशतसहस्राण्यनुपचयं मिथ्यारागप्र-
(55)
हाणं गच्छति। अनुपचयं मिथ्याद्वेषप्रहाणम्, अनुपचयं मिथ्यामो-
हप्रहाणं गच्छति। एवमस्य रागद्वेषमोहपरिक्षयो भवति॥
कथम्
कामरागं लोकस्य हन्तुं सततं समर्थः॥
यथोक्तम्- तत्र भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रभाकरी नाम तृ-
तीया बोधिसत्त्वभूमिः, यया स निर्दिश्यते, यस्यां प्रतिष्ठितो बोधिस-
त्त्वो भूयस्त्वेनेन्द्रो भवति, देवराजः, त्रिदशाधिपतिः कृती प्रभुः स-
त्त्वानां कामरागविनिवर्त्तनोपायोपसंहाराय कुशलः सत्त्वान्कामप-
ङ्कादभ्युद्धर्तुम् इति। एवम् एष कामरागं लोकस्य हन्तुं समर्थो भवति
जिनपुत्र इति। एवमयं बोधिसत्त्वस्तृतीयायां बोधिसत्त्वभूमौ क्षान्ति-
(56)
पारमितापरिशुद्धिं ध्यानाप्रमाणसमापत्त्यभिज्ञा रागादिपरिक्षयं च
नियोगतः प्रतिलभत इति॥
इदानीं क्षान्तिपारमितावसानस्य पारमितात्रयस्याश्रयविशेषसम्भार-
स्वाभाव्यफलपरिनिष्पत्तिव्यवस्थां द्योतयन्नाह-
दानादयोऽमी गृहिणां त्रयोऽपि प्रायः प्रशस्ताः सुगतेन धर्माः।
सम्भार एषोऽपि च पुण्यनामा सम्बुद्धरूपात्मककायहेतुः॥
यद्यपि बोधिसत्त्वा एव यथोपवर्णितदानाद्याश्रयाः, तथापि गृहिप्रव्र-
जितभेदाद्द्वैतसम्भवमेषामपेक्ष्यैवमुच्यते। तत्र गृहिणां प्रायश एते
दानादयस्त्रयो धर्माः सुखसाध्याः, प्रव्रजितानां वीर्यध्यानप्रज्ञाः। न
त्वितरेषामितरो न सम्भवति। द्वौ च सम्भारौ बुद्धत्वस्य हेतुः, यदुत
पुण्यसम्भारो ज्ञानसम्भारश्च। तत्र पुण्यसम्भारः, एताश्च तिस्रः पार-
मिताः। ज्ञानसम्भारो ध्यानं प्रज्ञा च। वीर्यं तूभयहेतुरिति व्यवस्था।
तत्र योऽयं पुण्यसम्भारः, स सम्बुद्धानां भगवतां शतपुण्यलक्षण-
स्याद्भुतस्याचिन्त्यस्य विश्वरूपिणो रूपकायस्य हेतुः। धर्मात्मक-
स्य तु कायस्यानुत्पादलक्षणस्य ज्ञानसम्भारो हेतुः॥
(57)
इदानीमाश्रयादिमाहात्म्येन माहात्म्यमुद्भाव्य तृतीयाया बोधिसत्त्व-
भूमेर् अधिकारं परिसमापयन्नाह-
अभिलषति जगत्तमोनिघातं स्वगततमांसि पुरा विधूय सम्यक्।
जिनतनयरवौ प्रभाकरीयम्
सुगततनयरवौ स्थितेयं प्रभाकरी भूमिः स्वाश्रयगतमज्ञानमात्मो-
त्पादविबन्धभूतमुत्पद्यमानावस्थायामेव निरस्याभिलषति तदन्येषां
तथाविधोपदेशदानात् तृतीयभूम्युत्पादविबन्धतमोनिर्घातम्। स चा-
यं बोधिसत्त्वः
इह भुवि तीक्ष्णतरोऽपि नैति कोपम्॥
गुणोपघातिदोषान्धकारघातेन रविरिव तीक्ष्णतरवृत्तिर् अप्ययं दोष-
वति जने नैति कोपम्, अधिकतरक्षमाभ्यासात्कारुण्यस्निग्धसन्तान-
त्वाच्चेति॥
मध्यमकावतारे प्रभाकर्याख्यस् तृतीयश्चित्तोत्पादः॥
(58)
इदानीं दानशीलक्षान्तिपारमिताभ्यो वीर्यपारमिताधिक्योद्भावनेन च-
तुर्थं चित्तोत्पादमधिकृत्याह-
वीर्यान्वया एव गुणा अशेषाः सम्भारयोः पुण्यधियोश्च हेतुः।
वीर्यं हि यस्यामुपयाति दीप्तिमर्चिष्मती भूमिरसौ चतुर्थी॥
कुशले कर्मण्यनुत्साहवतः सर्वथा दानादिषु प्रवृत्त्यभावे सर्वगुणोद-
यासम्भवः। प्रागुपात्तगुणोपचयस्योत्साहवतस्त्वधिगतानधिगतवृ-
द्ध्यधिगमसम्भवाद्वीर्यमेव हेतुः सर्वगुणानाम्। सम्भारद्वयहेतुत्वं प्रा-
गेव व्याख्यातम्। तद् वीर्यं यस्यां भुवि स्वगुणपरिशुद्ध्याधिकां दीप्ति-
मुद्वहति, सेयम् अर्चिष्मती नाम चतुर्थी बोधिसत्त्वभूमिः॥
कस्मात्पुनरेषार्चिष्मतीत्याख्यायत इति सञ्ज्ञाप्रवृत्तिनिमित्तम् उद्भा-
वयन्नाह-
ताम्रावभासादधिकोऽवभासः सम्बोधिपक्ष्याधिकभावनाजः।
आजायतेऽस्यां सुगतात्मजस्य
(59)
यस्माद् अस्यां भूमौ बोधिसत्त्वस्य सप्तत्रिंशतो बोधिपक्षाणां भाव-
नायाः प्रागुक्तताम्रावभासादधिकोऽवभास उत्पद्यते। अतः सम्य-
ग्ज्ञानाग्न्यर्चिष उदयादर्चिष्मतीति नामास्या बोधिसत्त्वभूमेः॥
तत्र सप्तत्रिंशद्बोधिपक्ष्याः, यदुत चत्वारि स्मृत्युपस्थानानि, चत्वारि
सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि,
सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्ग इति॥
तत्र चत्वारि स्मृत्युपस्थानानि। यथोक्तम् - स खलु पुनर्भवन्तो जि-
नपुत्रा बोधिसत्त्वोऽस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ प्रतिष्ठितः सन्न्
अध्यात्मकाये कायानुदर्शी विहरति, आतापी सम्प्रजानन्स्मृतिमा-
न्विनीय लोके ऽभिध्यादौर्मनस्ये। बहिर्धाकाये कायानुदर्शी विहरति,
आतापी सम्प्रजानन्स्मृतिमान्विनीय लोकेऽभिध्यादौर्मनस्ये। अ-
ध्यात्मबहिर्धाकाये कायानुदर्शीति पूर्ववत्। एवमध्यात्मवेदनासु, ब-
हिर्धावेदनासु, अध्यात्मबहिर्धावेदनासु, अध्यात्मचित्तेषु, बहिर्धाचि-
(60)
त्तेषु, अध्यात्मबहिर्धाचित्तेषु विहरतीति पूर्ववत्। अध्यात्मधर्मेषु, ब-
हिर्धाधर्मेषु, अध्यात्मबहिर्धाधर्मेषु विहरति, आतापी सम्प्रजानन्न्
इति विस्तरः॥
चत्वारि सम्यक्प्रहाणानि, तद्यथा- सोऽनुत्पन्नानां पापकानामकुश-
लानां धर्माणामनुत्पादाय च्छन्दं जनयति, व्यायच्छते, वीर्यमारभते,
चित्तं प्रगृह्णाति, सम्यक्प्रणिदधाति। उत्पन्नानां पापकानामकुशलानां
धर्माणां प्रहाणायेति पूर्ववत्। अनुत्पन्नानां कुशलानां धर्माणाम्
उत्पादायेति पूर्ववत्। उत्पन्नानां कुशलानां धर्माणां स्थितयेऽसम्प्र-
मोषाय वैपुल्याय भूयोभावाय परिपूर्यै च्छन्दं जनयति व्यायच्छत
इति पूर्ववत्॥
चत्वार ऋद्धिपादाः, तद्यथा- छन्दसमाधिप्रहाणसंस्कारसमन्वाग-
तमृद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्य-
(61)
वसर्गपरिणतम्॥ एवं वीर्यसमाधिप्रहाणसंस्कारसमन्वागतमृद्धिपादं
भावयति। चित्तसमाधिप्रहाणसंस्कारसमन्वागतमृद्धिपादम् इति पू-
र्ववत्। मीमांसासमाधिप्रहाणसंस्कारसमन्वागतमृद्धिपादम् इति पू-
र्ववत्॥
पञ्चेन्द्रियाणि, यदुत- श्रद्धेन्द्रियं भावयति विवेकनिश्रितम् इति वि-
स्तरः। एवं वीर्येन्द्रियं भावयति। स्मृतीन्द्रियं भावयति। समाधी-
न्द्रियम्, प्रज्ञेन्द्रियं भावयति विवेकनिश्रितं विरागनिश्रितम् इत्यादि।
पञ्च बलानि तान्येव निर्जितविपक्षाणीति पूर्ववत्॥
(62)
सप्त बोध्यङ्गानि, यदुत - स स्मृतिसम्बोध्यङ्गं भावयति विवेकनिश्रि-
तम् इत्यादि। एवं धर्मप्रविचयसम्बोध्यङ्गम्, वीर्यसम्बोध्यङ्गम्, प्रीति-
सम्बोध्यङ्गम्, प्रस्रब्धिसम्बोध्यङ्गम्, समाधिसम्बोध्यङ्गम्, उपेक्षास-
म्बोध्यङ्गं भावयति विवेकनिश्रितम् इति पूर्ववत्॥
आर्याष्टाङ्गो मार्गः यदुत - सम्यग्दृष्टिं भावयति विवेकनिश्रितां विरा-
गनिश्रितां निरोधनिश्रितां व्यवसर्गपरिणताम्। सम्यक्सङ्कल्पं भाव-
यतीति पूर्ववत्। सम्यग्वाचम्, सम्यक्कर्मान्तम्, सम्यगाजीवम्, स-
म्यग्व्यायामम्, सम्यक्स्मृतिम्, सम्यक्समाधिं भावयति विवेकनिश्रि-
तम् इति पूर्ववत्॥
न केवलं बोधिपक्षभावनास्यां भूमावुपजायते।
स्वदृष्टिसम्पर्कपरिक्षयश्च॥
(63)
अस्याम् एव भूमावस्य स्वदृष्टिक्षयश्च जायते, यथोक्तम् - तस्य खलु
पुनर्भवन्तो जिनपुत्रा बोधिसत्त्वस्यास्यामर्चिष्मत्यां बोधिसत्त्वभूमौ
स्थितस्य यानीमानि सत्कायदृष्टिपूर्वङ्गमान्यात्मसत्त्वजीवपोषपुरुष-
पुद्गलस्कन्धधात्वायतनाभिनिवेशसमुत्थान्य् उन्मिञ्जितनिमिञ्जितानि
वितर्कितानि विचारितानि केलायितानि ममायितानि धनायितानि
निकेतस्थानानि, तान्यस्य सर्वाणि विगतानि भवन्ति॥
मध्यमकावतारे ऽर्चिष्मत्याख्यश्चतुर्थश्चित्तोत्पादः॥
(64)
इदानीं पञ्चमं चित्तोत्पादमधिकृत्याह-
सर्वैः स मारैरपि नैव जेतुं शक्यो महात्मा भुवि दुर्जयायाम्।
पञ्चम्यां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्वः सर्वलोकधातुव्यवस्थि-
तैर् अपि देवपुत्रमारैर् अशक्यो जेतुम्, किं पुनस्तदन्यैर्मारकिङ्कराद्यै-
रित्यत एवास्या भूमेः सुदुर्जयेति नाम। एष च बोधिसत्त्वो वेदितव्यः
ध्यानाधिकः सन्मतिसत्यसूक्ष्मस्वरूपबोधेऽप्यतिकौशलाप्तः॥
दशभ्यः पारमिताभ्यो ध्यानपारमितैवास्याधिकतरा जायते। सन्म-
तय उच्यन्त आर्याः। तेषां सत्यानि सन्मतिसत्यान्यार्यसत्यानीत्य-
र्थः। स्वरूपं स्वभावः। सूक्ष्मज्ञानगम्यं स्वरूपं सूक्ष्मस्वरूपम्। स-
न्मतिसत्यानां सूक्ष्मस्वरूपपरिज्ञाने महदस्य कौशलमुपजायते। तत्र
चत्वार्यार्यसत्यानि दुःखसमुदयनिरोधमार्गाख्यानि। ननु च द्वे एव
सत्ये भगवता निर्दिष्टे, यदुत संवृतिसत्यं परमार्थसत्यं च। यथोक्तं
पितापुत्रसमागमसूत्रे-
(65)
सत्य इमे दुवि लोकविदूना दिष्ट स्वयमश्रुणित्व परेषा।
संवृति या च तथा परमार्थः सत्यु न विद्यति किंचि तृतीयम्॥
इति।
मध्यमकेऽप्युक्तम्-
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥
इति। तत्कुतः सत्यद्वयव्यतिरेकेणापराणि चत्वार्यार्यसत्यानीत्याह-
यद्यप्येवम्, तथापि हेयोपादेययोः प्रत्येकहेतुफलभावसन्दर्शनार्थं च-
त्वार्यार्यसत्यानीहोपदिश्यन्ते। तत्र हेयपक्षः सङ्क्लेशः। तस्य फलं
दुःखसत्यम्। हेतुः समुदयसत्यम्। उपादेयपक्षो व्यवदानम्। तस्य
(66)
फलं निरोधसत्यम्। तत्प्राप्त्युपायो मार्गसत्यम्। तत्र संवृतिसत्या-
न्तर्गतानि दुःखसमुदयमार्गसत्यानि। परमार्थसत्यस्वरूपं निरोध-
सत्यम्। एवमन्यदपि यत्किञ्चित्सत्यजातम्, तदपि सत्यद्वयान्तर्गत-
मेव यथासम्भवमवसेयम्॥
किं पुनः सत्यचतुष्टयव्यतिरेकेणान्यदपि सत्यमस्ति। अस्तीत्याह
यथोक्तं पञ्चम्यां बोधिसत्त्वभूमौ - इदं दुःखमार्यसत्यमिति यथाभूतं
प्रजानाति। अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोध-
गामिनी प्रतिपद् आर्यसत्यमिति यथाभूतं प्रजानाति। एवं संवृतिस-
त्यकुशलश्च भवति। परमार्थसत्यकुशलश्च भवति। लक्षणसत्यकुश-
लश्च भवति। विभागसत्यकुशलश्च भवति, निस्तीरणासत्यकुशलश्च
वस्तुसत्यकुशलश्च प्रभवसत्यकुशलश्च क्षयानुत्पादज्ञानसत्यकुशल-
श्च मार्गज्ञानावतारसत्यकुशलश्च। सर्वबोधिसत्त्वक्रियानुसन्धिनिष्पा-
दनतया यावत्तथागतज्ञानसमुदयसत्यकुशलश्च भवति। स परस-
त्त्वानां यथाशयसन्तोषणेन संवृतिसत्यं प्रजानाति। एकनयसमवस-
(67)
रणात्परमार्थसत्यं प्रजानाति। स्वसामान्यलक्षणानुबोधाल्लक्षणसत्यं
प्रजानाति। धर्मविभागव्यवस्थापनानुबोधाद्विभागसत्यं प्रजानाति।
स्कन्धधात्वायतनव्यवस्थापनानुबोधान् निस्तीरणासत्यं प्रजानाति।
चित्तशरीरप्रपीडनोपनिपातित्वाद् वस्तुसत्यं प्रजानाति। गतिस-
न्धिसम्बन्धात् प्रभवसत्यं प्रजानाति। सर्वज्वरपरिदाहानामत्यन्तोप-
शमात्क्षयानुत्पादज्ञानसत्यं प्रजानाति। अद्वयाभिनिर्हारान्मार्गज्ञाना-
वतारसत्यं प्रजानाति। सर्वाकाराभिसम्बोधात्सर्वबोधिसत्त्वभूमि-
क्रियानुसन्धिनिष्पादनतया यावत्तथागतज्ञानसमुदयसत्यं प्रजाना-
तीति॥
मध्यमकावतारे सुदुर्जयाख्यः पञ्चमश्चित्तोत्पादः॥
(68)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project