Digital Sanskrit Buddhist Canon

महावस्तु अवदानम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2020
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p. 1
महावस्तु अवदानं

अथ बोधिसत्त्वो तुषितभवनातो च्यवनकालसमये चत्वारि महाविलोकितानि विलोकेति। तद्यथा कालविलोकितं। देशविलोकितं। द्वीपविलोकितं। कुलविलोकितं॥ द्वीहि कुलेहि बोधिसत्वा जायन्ति। क्षत्रियकुले वा ब्राह्मणकुले वा। यदा क्षत्रियाक्रान्ता पृथ्वी भवति तदा क्षात्रियकुले जायन्ति। यदा ब्राह्मणाक्रान्ता पृथिवी भवति तदा ब्राह्मणकुले जायन्ति॥ यस्मिं च भिक्षवः कुले बोधिसत्त्वा जायन्ति तं कुलं षष्टीहि अङ्गेहि समन्वागतं भवति। कतमेहि षष्टीहि। अभिज्ञातं च भवति। अक्षुद्रावचरं च जातिसम्पन्नं च गोत्रसंपन्नञ्च पुरुषयुगसम्पन्नञ्च अभिज्ञातपूर्वपुरुषयुगसंपन्नं च बहुस्त्रीकं च बहुपुरुषं च अलोलं च अनूनं च अनीचं च अदीनं च प्रज्ञावन्तञ्च शीलवन्तं च अमान्यप्रेक्षितं च तं कुलं भोगांभूंजति दृढमित्रं च तं कुलं भवति। कृतज्ञं च विधिज्ञं च अच्छन्दगामि च तं कुलं भवति। अदोषगामि च अमोहगामि च अभयगामि च अनवद्यभीरु च स्थूलभिक्षं च पुरुषकारमतिं च दृढविक्रमं च वरविक्रमं च श्रेष्ठविक्रमं च चेतियपूजकं च देवतापूजकं च पूर्वमित्रपूजकं च क्रियाधिमुक्तं च त्यागाधिमुक्तं च आत्मपूर्वापरं च तं कुलं भवति। अभिघोषघुष्टं च अभिदेवादिघोषघुष्टं च कुलज्येष्ठं

p. 2

च कुलश्रेष्ठं च कुलं कुलप्रवरं च कुलवशिप्ताप्तं च महेशाख्यं च महापरिवारं च अश्रमपरिवारं च अनुरक्तपरिवारं च अभेद्यपरिवारं च मातृज्ञं च पितृज्ञं च श्रामण्यं च ब्राहमण्यं च कुलज्येष्ठापचायकं च प्रभूतधनधान्यञ्च प्रभूतकोशकोष्ठागारं च प्रभूतहस्त्यश्वाजैडकं च प्रभूतदासीदासकर्मकरपौरुषेयं च अप्रधर्ष्यं च तं कुलं भवति परेहि प्रत्यर्थिकेहि प्रत्यमित्रेहि। यस्मिं कुले बोधिसत्वा जायन्ति तं कुलं इमेहि षष्टीहि अङ्गेहि समन्वागतं भवति॥ ये ते सत्वा कुलसम्पन्ना भवन्ति एवंरूपा सत्वा महाकरुणां प्रतिलभन्ति। बोधिसत्वो महासंविधानं करोति च्यवनकालस्मिं तुषितभवनातो। देवसहस्रियो चातुर्महाराजिकानुपादाय सर्वे कामावचरा तुषितभवने संनिपतिता बोधिसत्वस्य च्यवनकाले॥ बिम्बिसारप्रभृतिका उक्ता। त्वं राजगृहे उपपद्यहि। त्वयि विनीते महाजनकायो विनयमार्गं गमिष्यतीति। एवं सहसोद्गतो अभयो सार्थवाहो तथान्ये पि गृहपतिमहाशालाः ब्राह्मणमहाशालाः॥ उदयनो वत्सराजा वुच्यति। कौशाम्ब्यां उपपद्याहि। त्वयि विनीते महाजनकायो विनयमार्गं गमिष्यति। घोषिलो गृहपतिः तथान्ये पि क्षत्रियमहाशालाः गृहपतिमहाशालाः। एताये विधीये देवपुत्रसहस्राणि येन भगवतो संसारे सन्सरन्तस्य सहचरितं जम्बूद्वीपे षोडशहि महाजनपदेहि उपपद्यन्ति क्षत्रियमहाशालकुलेहि ब्राह्मणमहाशालकुलेहि गृहपतिमहाशालकुलेहि। निःसंदिग्धं तुफेहि विनीतेहि महाजनकायो विनयमार्गं गमिष्यतीति॥ बोधिसत्वो अवलोकेति कहिं उपपद्यामि। अयं राजा शुद्धोदनो मम योग्यो पिता॥ मातरं गवेषति या प्रासादिका च भवेय कुलीना च शुचिगात्रा च मन्दरागा च अल्पायुष्का च यस्या ससप्तरात्रा दश मासा आयुष्प्रमाणतो अवशिष्टा भवेन्सुः॥

p. 3

सर्वेषां बोधिसत्वानां जनेत्वा पुरुषोत्तमं।
चरमे सप्तमे दिवसे माता जहति जीवितं॥
अत्र किं कारणं भवति यदि सर्वज्ञमातरः।
जनेत्वा पुरुषश्रेष्ठं शीघ्रं जहन्ति जीवितं॥
वसन्तो तुषिते काये बोधिसत्वो इमां स्मृतिं।
लभते शुभकर्मेण परीक्षन्तो जनेत्रियो॥
यस्येह परिशेषं स्या नारीयो जीवितं भवेत्।
दिवसानि सप्त मासा च दश तस्या उरमोतरे॥
किं कारणं अयुक्तं हि अस्मद्विधमनुत्तरं।
धारेत्वा उत्तरे काले मौथुनं प्रतिसेवितुं॥
अथापि प्रतिसेवेयु कामा सुगतमातरि।
न पिता देवसंघानां भिन्नवृत्तो ति तद्भवेत्॥
भगवां च नाम कामानां दोषं सततं भाषति।
अथ च लोकनाथस्य माता कामां निषेवति॥
ये च नृपतिवेश्मेषु भोन्ति रत्नकरण्डकाः।
रतनं पुरुषश्रेष्ठा भाजनं बोधिमातरो॥

अल्पायुष्कां भुवि समन्वेषन्तो बोधिसत्वो अद्राक्षित्कपिलवस्तुस्मिं शुद्धोदनस्य अग्रमहिषीं प्रासादिकां च कुलीनां च शुचिगात्रां च मन्दरागां च अल्पायुष्कां। ससप्तरात्रा चास्या दश मासा आयुष्प्रमाणतो अवशिष्टा॥ बोधिसत्वस्यैतदभवत्॥ एषा ते माता योग्या॥

पश्यति विलोकयन्तो लोकं शुद्धोदनस्य ओरोधे।

p. 4

नारीं अमरवधुनिभां विद्युल्लतानिभां विय मायां॥
सो तां निशाम्य जननीं आमन्त्रयते मरुणां च्यविष्यामि।
अन्तिममुपेत्य वासं गर्भे मरुमानुषसुखार्थं॥
तं अवच देवसंघः कृतांजलिपुटो वराभरणधारी।
ऋध्यतु उत्तमपुद्गल तव प्रणिधि अहीनगुणरूप॥
अयमपि लोकहिता बहु मनोरमां ओशिरित्वा कामरतिं।
पूजार्थं तव अनिन्दित मनुष्यलोके वसिष्यामः।
ते विपुलरुचिरवर्णं मन्दारवपुष्पवर्षमाकाशे।
प्रमुंचिन्सु उदग्रचित्ता स्तवंता मधुराहि वाचाहि॥
यममरवसना प्रशमनमनोरमां शोकदुःखविमिश्रान्।
ईक्षसि न च निषेवसि कामां इदमद्भुतं तुह्यं॥
यं पि अभिभूय मरुगणं जम्बूनदपर्वतोपमप्रकाशो।
उद्योतयसि दश दिशो सुरर्षभ इदं पि आश्चर्यं॥
अभिभवसि देवसंघा समहेश्वरदानवां समारगणां।
तारागणां खगचरां अमितमति इदं पि आश्चर्यं॥
किंचापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु।
अपि च अरविन्दनयन भविष्यसि गतिर्नरमरूणां॥
अथ च्यवनकालसमये विशुद्धशतपत्रपद्मनयनस्य।
आनन्दिता मरुगणा घोषन्ति दिशाहि सर्वाहि॥
एषा च वर्तति कथा तुषितपुरे सा च अप्रतिरूपा माया।
शुद्धोदनस्य महिषी राजानमुपेत्य इदमाह॥

p. 5

सा हरिणवत्सनयना विशुद्धगन्धर्ववधुनिभा श्यामा।
सहितं इदं सुमधुरं शुद्धोदनमब्रवीत्माया॥
आभरणस्तम्भितभुजा प्रवरवसनधारिणी सखीहि सह।
त्वया विना शाक्यनन्दन रजनीमिमां क्षपयितुं छन्दो॥
धृतराष्ट्रस्य नरवर प्रासादवरस्य उत्तमां भूमीं।
शयनप्रवरं आरुहि यत्र कुमुदवसनसंनिभं विमलं॥
तेन वचनेन तुष्टो देविये शुद्धोदनो मनापेन।
आमन्त्रयति नरवरो परिवारमुदग्रसंकल्पो॥
प्रतिवेदयन्तु मि लघुं धृतराष्ट्रं प्रवरकुसुमसंछन्नं।
कुम्तकुसुमाभिकीर्णं करोथ दिवि देवभवनं वा॥
ओसक्तपट्टदामं धृतराष्ट्रं च शोभतां चपलमेव।
वरहेमजालच्छन्नं सुमेरुवरशृंगसंकाशं॥
चतुरङ्गिनी च सेना सशूलनाराचतोमरविचित्रा।
परिपालयतां चपलं धृतराष्ट्रं मनोज्ञसंघातं॥
ओसृष्टा येवाज्ञा नरपतिना सज्जं एव च सर्वं।
कृत्वा तत्र सकुशलं राजानमुपेत्य इदमाहुः॥
वर्षसहस्रमनूनं प्रजा परिपालयतु भो महिपालो।
सज्जं ति विमानवरं शोभति तव हर्षसंजननं॥
अथ सा अमरवधूनिभा माया उत्थाय आसनवरातो।

p. 6

अब्रवीत्महीपतिसुतं आदित्ये अस्तमितमात्रे॥
एषा समादियामि प्राणेष्वविहिंसं ब्रह्मचर्यं च
विरमामि चाप्यदिन्नाद्मद्यादनिबद्धवचनाञ्च॥
अखिलवचनाञ्च नरवर विरमामि तथैवं पैशुन्याच्च।
परुषवचनाच्च नरपति विरमामि अयं मम छन्दो॥
परकामेषु च ईर्ष्यां नो संजानेय्यं नाप्यभिद्रोहं।
भूतेषु उपजनेष्यं विपरीतमतिं च विजहामि॥
एकादशप्रकारं शीलं सेवाम्यहं पृथिविपाल।
रजनीमिमां अनूनां एवं मम जायते छन्दो॥
मा सुद खु भूमिपाल कामवितर्को मा मयि प्रतिकाक्षिं।
प्रेषय मा ति अपुण्यं भवेया मयि ब्रह्मचारिणिये॥
सर्वे तव संकल्पां परिपूरेमीति पार्थिवो अवच।
अभिरम भवनवरगता अहं च राज्यं च तव वश्यं॥
सा स्त्रीसहस्रसमग्रा अनन्तरं गृह तं विमानवरं।
अभिरुहिय अभिनिषीदे मनापपरिपूर्णसंकल्पा॥
सा कंचिदेव कालं तस्मिं हिमकुमुदपुण्डरीकनिभे।
शयने प्रशमदमरता तूष्णींभावेन क्षेपयति॥
सा दानिं दक्षिणेन पार्श्वेन परिन्यासि शरीरवरं।
कुसुमलता व द्रुमवरं शयनं परिवेल्लियाशयिता॥
अथ तां निशाम्य शयनोपगतां देवीं दिव्यप्रमदारूपनिभां।
तुषितालया च्यविय देवगणा प्रासादमूर्ध्नि प्रतिष्ठिहिन्सु॥

p. 7

ते मूर्धना अभिनता सर्वे हृष्टा कृतांजलिपुटा अमरा।
वन्दन्ति तां विपुलपुण्यधरां माय्आं जिनस्य जननीं शयने॥
अथ कौतूहलपरं संजनिया वहुदेवकन्या शुचिमाल्यधरा।
जिनमातुरूपगता द्रष्टुमना प्रासादमूर्ध्नि प्रतिष्ठिहिन्सु॥
उपसंक्रमित्व शयनोपगतां मायां निशाम्य वरविद्युनिभां।
प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमं॥
मानुष्यकं पि किल एदृशकं रूपं सुजातमिदमाश्चर्यं।
कञ्चित्कालं स्थिहियन्तरतो नायं समा मरवधूहि भवे॥
लीलां निशामयथ हे सखिका प्रमदायिमस्य यथ ओपयिकां।
शयने विरोचति मनः हरति विभ्राजते कनकरीतिरिव॥
अयन्तु धरेष्यति महापुरुषं अत्यन्तदानदमशीलरतं।
सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू॥
चोपोदरे करतलप्रमिते वररोमराजिविचित्रे रुचिरे।
इह सो भविष्यति अनन्तमतिः सततं अलिप्त अशुभेन शुचिः॥
बहुदीर्घरात्रनिचितं कुशलं प्रमदायिमस्य विपुलं परमं।
या तं धरेष्यति अनन्तगुणं चिररात्रसन्निचित्तपुण्यबलं॥
अनुरूपा त्वं प्रमदा प्रवरा माता स चैव पुरुषप्रवरो।
पुत्रो प्रहीनवनथो विरजो किं हायते तव नरेन्द्रवधू॥
अथ राक्षसा विविधरूपधरा आणत्ता दिवि परितो चपलं।
तिष्ठन्तु भो प्रवरशस्त्रधरा सर्वदिशां कुरुथ असंवरणां॥

p. 8

तेषामनन्तरं द्विजिहूगणा आरक्षहेतु दिशतासु स्थिता।
वातं पि येष चलितं श्रुणिय क्रोधा समुत्पतन्ति अग्निसमा॥
तेषामनन्तरगता थपिता यक्षा प्रदीप्तशिखरा विकृता।
ये दुष्टचित्त विनिवारयथा मा च वधं कुरुथ कस्य चापि॥
तेषामनन्तरस्थिता बहवो गन्धर्वसंघ शुभरूपधरा।
आरक्षहेतु शुभचापधरा च्यवनक्षणे विमलबुद्धिमतो॥
चत्वारि लोकपतिनो पि स्थिता गगने स्वकपारिवारेण सह।
अद्य च्यविष्यति किल भगवां लोकस्य अर्थसुखवृद्धिकरो॥
त्रिदशेहि सार्धं त्रिदशप्रवरो स्थित अन्तरीक्षे वरचक्रधरो।
अचिरा च्यविष्यति च्युतिं चरिमां आकांक्षमाणो सुखमप्रतिमं॥
मायाय मूलि बहुदेवगणा कृत्वा दशांगुलं नताभिमुखा।
समुदीरयन्ति मधुरं वचनं उल्लोकयन्ति तुषितेषु जिनं॥
व्यवदानसन्निचितपुण्यबला समयो ति अन्तिममुपेहि भवं।
सज्जा ताव भवति ते जननी अनुकंप दानि दुःखितां जनतां॥
एषो च्यवामि इति मूंचि गिरां शुभं वचनं उदीरयि…..।
अथ सुपिनं जिनस्य तस्मिं क्षणे पश्यति वरविपाकफलं॥
हिमरजतनिभो मे षड्विषाणो सुचरणचारुभुजो सुरक्तशीर्षो।
उदरमुपगतो गजप्रधानो ललितगतिः अनवद्यगात्रसन्धिः॥

न खलु बोधिसत्वा कालपक्षे मातु कुक्षिं ओक्रामति॥ अथ खलु पूर्णायां पूर्णमास्यां पुष्यनक्षत्रयोगयुक्तायां रात्र्यां बोधिसत्वा मातुः कुक्षिमवक्रामन्ति॥ उ-

p. 9

पोषधिकायां प्रमदोत्तमायां सनन्दितायां अविलक्षितायां अक्षुद्रावचरायां प्रासादिकायां शुचिगात्रायां मन्दरागायां जातिसंपन्नायां कुलसंपन्नायां रूपसम्पन्नायां वर्णसम्पन्नायां नामसम्पन्नायां आरोहसम्पन्नायां परिणाहसम्पन्नायां व्यक्तायां अग्रयौवनमण्डप्राप्तायां विश्रुतायां पण्डितायां स्मृतायां संप्रजानायां प्रदक्षिणचित्तायां सर्वाकारसम्पन्नायां सर्वाकारपरिपूर्णायां प्रमदोत्तमायां बोधिसत्वा मातुः कुक्षिमवक्रामन्ति॥ बोधिसत्वेन प्रभा ओसृष्टा याये प्रभाये सर्वं बुद्धक्षेत्रं अवभासितं। देवपुत्रो देवपुत्रं पृच्छति॥

किं कारणं सुरवरेण प्रभा प्रमुक्ता
चन्द्रांशुशीतलतरा कनकावदाता।
येनासुरेश्वरगणा मनुजेश्वराश्च
प्रह्लादिता च नरका ज्वलनाग्निकल्पा॥

सो दानि आह॥

ये तत्रतत्र जनतां प्रतिपालयन्ति
संसारपंजरगतां मदनाभिभूतां।
तेषां विमोक्षकरणेन महायशेन
आमन्त्रणार्थमनघेन प्रभा प्रमुक्ता॥

बोधिसत्व आह॥

मुञ्चथ अमरा पुराणि न किल प्रामोद्यस्य अयं कालो।
जरामरणपुरं भेत्तुं कालो ज्ञानप्रहारेण॥

बोधिसत्वो स्मृतो संप्रजानो प्रदक्षिणचित्तो मातुः कुक्षिं ओक्रान्तो॥

इति स नदिय सिंहनादं नरसिंहो च्यवनकालसमयस्मिं।
अन्तरहितो क्षाणेन नरेन्द्रभवने समुपपद्यि॥

p. 10

यो सो तुषितं कायं ओभासेति शुभेन वर्णेन।
देवपुराच्च्यवमानो तं अनतिवरं जिनं वन्दे॥
सब्रह्मकं च लोकं सश्रमणब्राह्मणीं प्रजां सर्वां।
वर्णेनोभासयति अनतिवरो लोकप्रद्योतो॥
आश्चर्यमद्भुतमिदं पश्यथ यावत्महर्द्धिकः शास्ता।
स्मृतिमां सुसंप्रजानो मातुः कुक्षिस्मिं ओक्रान्तो॥
यावच्च नरप्रवरो उत्तमलक्षणसमङ्गि अस्थासि।
माताये कुक्षिस्मिं स्मृतिमतिमां संप्रजानो च॥

समनन्तरोक्रान्ते च बोधिसत्वे इयं महापृथिवी अतीव षड्विकारं कम्पे संकम्पे प्रकम्पे संहर्षणीयं च कम्पयति मोदनीयं च प्रह्लादितं च निर्वर्णनीयं च उल्लोकनीयं च आसेचनकं च अप्रतिकूलं च प्रामोदिकं च प्रसादनीयं च निरुद्वेगं च निरुत्त्रस्तं च। कम्पमाना च पुनर्न कंचित्सत्वं व्यापादयति यमिदं चलं वा स्थावरं वा॥

ततो अयं सागरमेरुमण्डला
प्रकम्पिता षड्विधमासि मेदिनी।
कृता लोका विमला मनोरमा
महान्धकारापनुदस्य तेजसा॥

यावत्तका नागराजानो नागाधिपतयो रक्षावरणगुप्तये औत्सुक्यं समापद्येन्सु।

चतुरो पि लोकपाला रक्षामकरेन्सु लोकनाथस्य।
मा कोची अहितेषी नमुचिबलनुदं विहिंसेया॥

p. 11

शक्रोपि देवानामिन्द्रो सुयामो पि देवपुत्रो संतुषितो पि देवपुत्रो सुनिर्मितो पि देवपुत्रो वशवर्ती पि देवपुत्रो महाब्रह्मा पि शुद्धावासा पि देवा बोधिसत्वस्य मातुः कुक्षिगतस्य रक्षावरणगुप्तये औत्सुक्यं समापद्येन्सुः॥

ततो कोटिसहस्राणि देवानां कपिलाहूयं।
उपगतानि तुष्टानि आरक्षं वरबुद्धिनो॥
देवनगरं इव कपिलपुरमुत्तमं कृतमनुविशन्तेहि।
मनोमयविक्रमगतेहि अमरगणेहि अभिविरोचति॥
मायां परिवारेत्वा महेश्वरगणानां किल सहस्राणि।
आशु विगतमलमखिला आकाशगता अभिनिषणाः॥
तेषां दानिं पृष्ठतो इन्द्रसहस्राणि विमलशिखराणि।
सुबहूनि बहुगुणस्य आरक्षार्थं निषणानि॥
तेषां दानिं पृष्ठतो देवेन्द्राणां सहस्रनयुतानि।
कामावचरा देवा निषणा गगने निरालम्बे॥
देवगणानां पृष्ठतो असुरा असुराणां च द्विजिह्हूगणाः।
यक्षाश्च विकृतरूपाः राक्षससंघाश्च संनिषणाः॥
एताये विधिये गगनममरशतसहस्रसंकुलं श्रीमद्।
अत्यन्तसुपरिशुद्धं कुशलमुपचितं हि वरदेन॥
सो यं महानुभावो स्मृतिमां तुषितभवना च्यवित्वान।
पाण्डरवराहकनिभो भवित्व गजरूपि षड्डन्तो॥
वीरशयने शयन्तिये पोषधिकाये विशुद्धवसनाये।
स्मृतसंप्रजानकुशलो मातुः कुक्षिस्मिं ओक्रान्तो॥

p. 12

सा च रजनीप्रभाते आख्यासि भर्तुनो मनापस्य।
राजवर पाण्दरो मे गजराजो कुक्षिमोक्रान्तो॥
तं च श्रुणित्वान राजा वैपंचनिकां समागतां अवच।
सुपिनस्मिं अस्य सर्वे भणाथ भूतं फलविपाकं॥
ते तत्र चावचिंसू नैमित्तिका पृच्छिता स्वयं राज्ञा।
द्वाद्रिंशलक्षणधरो कुक्षिं देवीये ओक्रान्तो॥
हृष्टो भवाहि नरवर यस्य तव कुलस्मिं प्रत्युत्पन्नो।
पृथिवीधर वीरगर्भो अनोपमसत्वो महासत्वो॥
यथ मय पौराणानामाचार्याणां स्वयं समुपाहृतं।
द्वे स्य गतयो अनन्या भवन्ति नरवीरशार्दूल॥
यदि आसिस्यंति अगारे महिपति होति सरतनो महर्द्धिको।
नित्यानुबद्धविजयो राजशतसहस्रपरिवारो॥
अथ खलु प्रव्रजिष्यति चातुर्द्वीपां महीं विजहियान।
होहिति अननयनेयो बुद्धो नेता नरमरूणां॥
[सुपिनं पि शाकियानी आख्यासि भर्तुनो मनापस्य।
श्वेतो गजनाथो मे कुक्षिं भेत्त्वान ओक्रान्तो॥
एतं श्रुणित्व राजा वैपंचनिकां समागतां अवच।
सुपिनस्मिं अस्य सर्वं भणाथ भूतं फलविपाकं॥
ते तत्र चावचिंसू नैमित्तिका पृच्छिता स्वयं राज्ञा।
द्वात्रिंशलक्षणधरो कुक्षिं देवीये ओक्रान्तो॥
यदि पुनरगारमध्ये वसति पृथिवीं अभिजेष्यते सर्वां।

p. 13

शूरां पुत्रसहस्रं लभेत एतादृशां वीरां॥
अथ रतन अनन्ताकरं पूर्णां महीमुज्कियान प्रव्रजति।
बुद्धो होहिति लोके सर्वज्ञो सर्वदर्शावी॥]

महाब्रह्मा आह॥

स्वप्नान्तरे या प्रमदा अदर्शि
सूर्यं नभा कुक्षिमनुप्रविष्टं।
प्रसूयति स्त्रीरतनं सुभागं
भर्तास्य भोति नृपो चक्रवर्ती॥
स्वप्नान्तरे या प्रमदा अदर्शि
चन्द्रं नभा कुक्षिमनुप्रविष्टं।
प्रसूयते सा नरदेवगर्भं
सो भवति राजा बलचक्रवर्ती॥
स्वप्नान्तरे या प्रमदा अदर्शि
सूर्यं नभा कुक्षिमनुप्रविष्टं।
प्रसूयते सा वरलक्षितांगं
सो भवति राजा बलचक्रवर्त्ती॥
स्वप्नान्तरे या प्रमदा अदर्शि
श्वेतं गजं कुक्षिमनुप्रविष्टं।
प्रसूयते सा गजसत्त्वसारं
सो भवति बुद्धो बोधितार्थधर्मो॥

देवी पृच्चीयति॥ किं धरेसि॥ सा आह॥ चक्रवर्तिन्ति॥

p. 14

कुक्षिं प्रभासयन्तं कनकवपुं प्रवरलक्षणसमंगिं।
धारेमि चक्रवर्ति वरपुरुषं राजशार्दूलं॥

देवा नभे भगवतो घोषमुदीरयेन्सुः। बुद्धो भविष्यति न राजा चक्रवर्ती॥ महाब्रह्मा गाथां भाषति॥

गजं रत्नश्रेष्ठं मदनबलवेगापनयनं
प्रदीपं लोकस्य तमतिमिरमोहापनयनं।
गुणानां कोषं त्वं अपरिमितरत्नाकरधरं
धरेसि राजर्षिं अप्रतिहतचक्रं समरुचिं॥

देवी आह॥

यथा मम न रागदोषा प्रसहन्ति नरेन्द्रगर्भमुपलभ्य।
निःसंशयं भविष्यति समरुचि यथ निश्चरति वाचा॥

बोधिसत्वे खलु पुनर्मातुः कुक्षिगते मातु सुखं गच्छति पि तिष्ठति पि सुखं निषीदति पि शय्यां कल्पयति बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनः मातुः कुक्षिगते बोधिसत्वमातुः काये शस्त्रं न क्रामति। न विषं नाग्नि न अशनी प्रसहति बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुन मातुः कुक्षिगते बोधिसत्वमातरं देवकन्या दिव्येहि उच्छादनपरिमर्दनपरिशेषेहि परिजागरन्ति बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते बोधिसत्वमाता दिव्यवस्त्रसंवृतशरीरा भवति दिव्याभरणधारिणी बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनः मातुः कुक्षिगते माता लाभिनी भवति दिव्यानां गन्धानां दिव्यानां माल्यानां दिव्यानां विलेपनानां दिव्यानामोजानां बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन

p. 15

मतुः कुक्षिगते बोधिसत्वमातुः खलु पुनः यो अस्या अभ्यन्तरपरिवारो सो से अतीव श्रोतव्यं श्रद्धातव्यं मन्यन्ति बोधिसत्वस्यैव तेजेन। किंकरणीयकप्रतिसंयुक्तेहि निमन्त्रेन्ति बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते बोधिसत्वमातुर्न कोचिदुपरिमेन गच्छति अन्तसो पक्षी पि। अल्पाबाधा भवति अल्पातंका। समाये विपाननीयग्रहणीये समन्वागता। नाप्यतिशीताये नाप्यति उष्णाये ऋतुपरिणामाये बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते बोधिसत्वमाता लाभिनी भवति प्रणीतानां खादनीयभोजनीयानां अग्ररसानां उत्तरमरसाना अधिगतरसानां प्रत्यग्ररसानां बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते बोधिसत्वमाता विगतरागा भवति अखण्डमच्छिद्रमशबलमकल्माषं परिशुद्धं परिपूर्णं ब्रह्मचर्यं चरति। मनसापि ताये प्रमदोत्तमाये रागो न उत्पद्यति सर्वपुरुषेहि अन्तमसतो राज्ञापि शुद्धोदनेन बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुन मातुः कुक्षिगते बोधिसत्वमाता पंच शिक्षापदानि समादाय वर्तति तानि च सपूर्वसमादिन्नानि भवन्ति बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते यावत्ता नागराजानो नागाधिपतयो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते सर्वे निवेशनमुपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि दिव्यानि तमालपत्रचूर्णानि प्रकिरन्ति अगुरुचूर्णानि प्रकिरन्ति दिव्यानि केशरचूर्णानि प्रकिरन्ति दिव्यानि कुसुमानि प्रकिरन्ति। समाप्ताये च नं अर्चनाये अर्चयन्ति परिपूर्णाये च नं अर्चनाये अर्चयेन्सुः॥ ते दिव्यानि चन्दनचूर्णानि च प्रकिरित्वा दिव्यानि अगुरुचूऱ्णानि प्रकिरन्ति दिव्यानि च केशरचूर्णानि दिव्यानि च तमालचूर्णानि प्रकिरन्ति॥ दिव्यानि मुक्तकुसुमानि प्रकिरित्वा समाप्तये च नं

p. 16

अर्चनाये अर्चयित्वा परिपूर्णाये च नं अर्चनाये अर्चयित्वा बोधिसत्वमातरं त्रिष्कृत्यो प्रदक्षिणीकृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन॥ बोधिसत्वे पुनर्मातुः कुक्षिगते यावन्तो सुवर्णराजानो सुवर्णाधिपतयो एवं चतुर्महाराजकायिका देवास्त्रायस्त्रिंशा यामा तुषिता निर्माणरतिनो परनिर्मितवसवर्तिनो ब्रह्मकायिका देवा ते सर्वे निवेशनं उपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि प्रकिरित्वा दिव्यानि अगुरुचूर्णानि प्रकिरन्ति। दिव्यानि तमालपत्रचूर्णानि दिव्यानि मुक्तकुसुमानि प्रकिरित्वा समाप्तये च नं अर्चनाये अर्चयित्वा परिपूर्णाये च नं अर्चनाये अर्चयित्वा परिशुद्धाये च नं अर्चनाये अर्चयित्वा बोधिसत्वमातरं त्रिष्कृत्यो प्रदक्षिणीकृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन॥

बोधिसत्वो खलु पुनर्मातुः कुक्षिगतो न चातिनीचं तिष्ठति न चाति उच्चं तिष्ठति न चावकुब्जको न ओत्तानको न वामेन पार्श्वेन तिष्ठति न उत्कुटुको॥ अथ खलु दक्षिणे पार्श्वे पर्यंकमाभुञ्जित्वा तिष्ठति॥ बोधिसत्वो खलु पुनर्मातुः कुक्षिगतो न पित्तेन न श्लेष्मेण वा न रुधिरेण वा अन्येन वा केनचिदशुचिना उपलिप्तोऽविशुद्धो तिष्ठति॥ अथ खलु उच्छादितस्नापितविशदगात्रो बोधिसत्वो मातुः कुक्षिमिं तिष्ठति॥ बोधिसत्वो खलु पुनर्मातुः कुक्षिगतो मातरं पश्यति बोधिसत्वमातापि तं कुक्षिगतं बोधिसत्वं पश्यति विग्रहमिव जातरूपस्य दृष्ट्वा च भोति आत्तमना [कुक्षिं ओभासेन्तं विग्रहमिव जातरूपस्य]।

यथ वैडूर्यस्य मणि स्फाटिकसमुद्गे कटि उत्संगस्मिं।
निहितो स्या एवमेव बोधिसत्वं पश्यति माता।
कुक्षिं ओभासेन्तं विग्रहं इव जातरूपस्य॥

p. 17

बोधिसत्वं देवसंघाः सुखरात्रिं सुखदिवसं पृच्छका आगच्छन्ति प्रीतमनसो तां च देवसंघां तथा पृच्छमानां बोधिसत्वो प्रत्यभिनन्दति दक्षिणं करमुत्क्षिप्य मातरं च न बाधति॥ बोधिसत्वं मातुः कुक्षिगतं देवा नागा यक्षा मारुता राक्षसा पिशाचा न जहन्ति दिवा च रात्रौ च न चात्र आसंगकथा कथीयति कामोपसहिता वा अन्या वा असत्या कथा। नान्यत्र बोधिसत्ववर्णमेव भाषन्ति रूपतः सत्त्वतः तेजतः वर्णतः यशतः कुशलमूलातो॥ बोधिसत्वस्य मातुः कुक्षिगतस्य प्रतिपूजा नोपरमति। दिव्यानि तूर्याणि दिव्यानि अगुरुधूपानि दिव्यं पुष्पवर्षं दिव्यं चूर्णवर्षं॥ अप्सरसहस्राणि च उपगायन्ति उपनृत्यन्ति॥ बोधिसत्वमातां देवकन्यासहस्रेहि सार्धं अभ्याभवति हास्यं च कथा च। प्रसुप्तां च बोधिसत्वमातरं देवकन्या मन्दारवदामेन चपला परिवीजेन्ति बोधिसत्वस्यैव तेजेन॥ अयं च पुनः त्रिसाहस्रमहासाहस्रायां लोकधातूयं अनुत्तरा गर्भावक्रान्तिपारमिता॥

अन्यं च दानि पश्यथ आश्चर्यं तस्य देवपर्षाये।
ताव विपुलाये या कथा अभूत्परमहर्षसंजननी॥
न पि कामकथा तेषां न पि अप्सरसां कथा न गीतकथा।
न पि वाद्यकथा तेषां न पि भक्षकथा न पानकथा॥
नाभरणकथा तेषां न पि वस्त्रकथा प्रवर्तति काचित्।
यानोद्यानकथा वा मनसापि न जायते तेषां॥
साधू पुण्यबलवतो द्युति……सा सदेवकं लोकं।
अभिभवति नायकस्य विकसति एषा कथा तत्र॥

p. 18

साधुं गर्बोक्रमणं कर्मण अनुरूपं पारमिगतस्य।
इति विकसित बहुविधा कथा परिषामध्ये एतस्मिं॥
साधूति निरामिषेहि संज्ञापदेहि क्षपेन्ति तत्कालं।
वरबुद्धिनो अयं अपि कथा विकसति परिषामध्ये॥
एवं बहुप्रकारां कथां कथयन्ता रमन्ति देवगणाः।
रूपं वर्णं तेजं वरं च वीरचर्यं कथयन्ता॥

सर्वेषां बोधिसत्वानां माता प्रतिपूर्णे दशमे मासे प्रजायति॥ सुभूतिना शाक्येन प्रेषितं राज्ञो। आगच्छतु देवी इह प्रजायिष्यति॥ राजा प्रतिबोधयति॥ आगमिष्यति सालभंजकं च करिष्यति॥

लुम्बिनिवनं सुचपलं अपगततृणखाण्डपत्रसंखारं।
वरसुरभिकुसुमनिकरं करोथ गन्धोदकसुगन्धं॥
लुम्बिनिवने च वाता तमालपत्रगन्धवासितशरीरा।
वायन्तु अमृतगन्धां मदजनना च पलायन्तु॥
अगरुवरधूपगन्धा समोनमन्तु नभतो जलधरा तं।
लुम्बिनिवनं छादेतुं वरचूर्णरसाकुलं क्षिप्तं॥
एकैकं चंक्रमवरं दुकूलपट्टोर्णाकोशिकारेहि।
कल्पयथ कल्पवृक्षां यथ दिवि देवप्रधानस्य॥

देवा च देवकन्या च गन्धमाल्यं गृह्य लुंबिनीवनमागच्छन्ति॥

p. 19

स्फटिकमणिकुण्डलधरा विगलितवसना प्रलम्बमणिहारा।
आदाय गन्धमाल्यं गगनपथगता प्रडीयन्ति॥
मन्दारवान भरिता काचित् शंगेरियो गृहीत्वान।
हरिचन्दनस्य काचित्काचि पुनः कल्पदुष्याणां॥
स्थलजजलजं च माल्यं गृहीत्वा अप्सरा मुदितचित्ताः।
रतना आभरणानि च जम्बुद्वीपे अभिमुखीयो॥
चतुराशीतिमनूना छत्रसहस्राणि देवकन्यायो।
कनकरतनामयानि आदाय नभे प्रडीयन्ति॥
कूटागारसमेहि च स्फटिकमणिमुसागल्वेहि चित्रेहि।
भरितमपि अन्तरीक्षं दुष्यशतसमुच्छ्रितपताकं॥
गजश्वसनसन्निकाशा शारदमेघा खगपथे विरोचन्ति।
वरसुरभिकुसुमगन्धा कमलोत्पलचम्पकविमिश्राः॥
भुजगपतिनो प्रमुदिता मेघेहि सुगन्धतोयभरितेहि।
अभ्योकिरन्ति नगरं अन्यानि न अद्भुतशतानि॥
अवगाह्य तं वनवरं माया सखिसंवृता जिनजनेत्री।
विचरति चित्तरथे देवि अमरवधू यथ रतिविधिज्ञा॥
सा क्रीडार्थमुपगता पिलक्षशाखां भुजाय अवलम्ब्य।
प्रविजृम्भिता सलीला तस्य यशवतो जननकाले॥
अथ वा नवति सहस्रा मरुकन्या आशुरेव सन्निपतिता।
मायां कृतांजलिपुटा इदमवच प्रसन्नसंकल्पा॥

p. 20

अद्य जराव्याधिमथनं जनयिष्यसि अमरगर्भसुकुमारं।
देवी दिवि भुवि महितं हितं हितकरं नरमरूणां॥
मा खलु जनय विषादं परिकर्म वयं तवं करिष्यामः।
यं कर्तव्यमुदीरय दृश्यतु कृतमेव तत्सर्वं॥
अथ चतुरि लोकपाला सपरिवारा आशुरेव सन्निपतिता।
दिव्यप्रवेणिहस्ता देविमुपगता प्रदक्षिणतो॥
सर्वे पि देवसंघा मायां परिचारयित्व आकाशे।
स्थिता माल्यगन्धहस्ता स्वपरिवारेणोपशोभन्ति॥

न खलु पुनर्बोधिसत्वमाता बोधिसत्वं जनेति शयाना निषणिका वा यथान्याः स्त्रियो॥ अथ खलु बोधिसत्वमाता स्थितिका एव बोधिसत्वं संजनेति॥ बोधिसत्वो स्मृतो संप्रजानो मातरमबाधयमानो दक्षिणपार्श्वेन प्रादुर्भवति॥

दक्षिणेन हि पार्श्वेन जायन्ते पुरुषोत्तमाः।
सर्वे पुरुषशार्दूला भवन्त्यत्रविहारिणः॥
किं तन्न भिद्यते पार्श्वं वेदना च न जायते।
तस्या जिनजनेत्रीये जनेत्वा पुरुषोत्तमं॥
मनोमयेन रूपेण प्रादुर्भोन्ति तथागता।
एवं न भिद्यते पार्श्वं वेदना न च जायति॥

बोधिसत्वो गर्भावासपरिश्रान्तो सप्त पदानि क्रमति॥

जातमात्रो च विक्रमे सप्त विक्रमते भुवि।
दिशां च प्रविलोकेति महाहासं च ऊहति॥

p. 21

अत्र किं कारणं उक्तं यं सप्त क्रमते क्रमान्।
न च अष्ट न च षष्टि अत्र आगमनं शृणु॥
गर्भावासपरिश्रान्तो सर्वलोकहितो मुनिः।
पश्चिमो गर्भावासो यं अथ वेगेन प्रक्रमि॥
तं तु सप्तपदे न्यस्ते देवसंघाभिलीयत।
सहसा लोकपालेभ्यो अंकेन धारिये मुनिः॥
अथ वषो समुत्पद्ये दिव्यकुसुमशीकरो।
मन्दारवरजाकीर्णो दिव्यचन्दनसंकुलो॥
दीर्घकालमुदग्राश्च सुरमुख्याग्रधूपनं।
प्रमुंचिषु विभूषार्थं तस्य उत्तमबुद्धिनो॥
यदर्थं च विलोकेति दिशां अप्रतिपुद्गलो।
तत्रापि आगमं वक्ष्ये उपदेशं मनोरमं॥
न सो विद्यते सत्वानां देवेषु मनुजेषु वा।
यस्यैवं संभवो भवति गर्भोक्रमणमेव च॥
खद्योतकनकनिर्भासं पार्श्वं जिनजनेत्रिये।
जायते यदा सर्वज्ञः जायते चरमे भवे॥
जातमात्रस्य तच्चित्तं आसि प्रवरवादिनो।
अस्ति कश्चित्समबुद्धि मे इदं तर्कं निवर्तितुं॥
केचित्संसारचारेण अर्तीयन्ति यथा अहं।
इत्यर्थं पुरुषादित्यः दिशां सर्वां निरीक्षति॥
अथ दिशां विलोकेन्तो दृश्यति वदतां वरः।

p. 22

देवकोटिसहस्राणि तस्मिं हासं प्रमुञ्चति॥
जातमात्रस्य मे चाहुः देवता मारकायिकाः।
चातुर्द्वीपो महाकोशो चक्रवर्ती भविष्यसि॥
अथास्य हासो संभवति न मे सत्वा विजानथ।
सर्वज्ञो सर्वदर्शावी भविष्यं पुरुषोत्तमः॥
एवमेतं प्रशंसन्ति विपाकमुपदेशकाः।
तथा हि नरसिंहानां शासनं सुप्रकाशितं॥
यं तिष्ठन्ती जनये वीरं सुंकुसुमितेहि शालेहि।
शरीरमवलम्ब्यमाना तं अनतिवरं जिनं वन्दे॥
संप्रतिजातो सुगतो समेहि पादेहि धरणिमवतिष्ठे।
सप्त च पदानि अगमा सर्वां च दिशां विलोकेति॥
तं चास्य चंक्रमन्तं अन्वागमि वीजनं च च्छत्रं च।
मा वरविदुनो काये दंशा मशका च निपतेन्सुः॥
संप्रतिजाते सुगते देवा प्रथमं जिनं प्रतिगृह्णे।
पश्चाच्चैनं मनुष्या अनतिवरं अङ्के धारेन्सुः॥
प्रत्यग्रहेन्सु देवा सुगतं द्वात्रिंशलक्षणसमंगिं।

p. 23

पश्चाच्चैनं मनुष्या अनतिवरं अंके धारेन्सुः॥
निर्वायेन्सु प्रदीपा मानुषका ओभासितभूल्लोकं।
संप्रतिजाते सुगते उल्काधारे नरमरूणां॥
संप्रतिजाते सुगते ज्ञाती उदकार्थिका विधावेन्सुः।
अथ पुरतो उदुपाना पूरा मुखतो विष्यन्देन्सुः॥
दुवे वारिधारा उद्गमि एका शीतस्य एका उष्णस्य।
यत्र स्नपयेन्सु सुगतं विग्रहं इव जातरूपस्य॥

संप्रतिजाते खलु पुनः सुगते बोधिसत्वमाता अक्षता चैव अभूषि अव्रणा च बोधिसत्वस्यैव तेजेन। बोधिसत्वमातुः कुक्षि प्रतिपूर्णा एव अभूषि अनोनद्धा च॥ संप्रतिजाते खलु पुनर्बोधिसत्वे चतुर्णां द्वीपकोटिशतानां मध्ये पृथिवीमण्डप्रधाना अश्वत्थयष्टि प्रादुर्भवेत्। अन्तर्द्वीपे चन्दनवनं प्रादुर्भवेत्। बोधिसत्वस्य उपभोगपरिभोगमागच्छे बोधिसत्वस्यैव तेजेन॥ तत्र देवपुत्रसहस्राणि अप्सरसहस्राणि गन्धमान्यमादाय आगच्छन्ति बोधिसत्वस्य पूजार्थं॥ देवपुत्रो देवपुत्रं पृच्छति॥ कहिं गमिष्यसि॥ सो आह॥

एषा प्रसूष्यति नरेन्द्रवधूत्तमं तं
वत्सं विबुद्धवरपुष्करगौरगर्भं।
यो प्राप्स्यते धरणिमण्डगतोत्तमार्थं
मारं निहत्य सबलं तमुपेमि वीरं॥

p. 24

अम्रक्षिता गर्भमलेन गात्रा
जातं जले पंकजमुत्तमं वा।
वपुष्मन्तो बालरविप्रकाशो
सब्रह्मकानमरानभिभोति॥
ततो जातमात्रो कुले शाकियानां
अतिक्रम्य धीरो पदानीह सप्त।
समोलोकयित्वा दिशा ऊहसासि
अयं दानिमेको भवो पश्चिमो त्ति।
नभे तु च्छत्रमेव विभ्राजमानं
मणिमुक्तिश्रेष्ठं पराभाविभ्राजं।
विधूतदामेन मन्दारवानां
बहू देवपुत्रा नभे धारेयेन्सुः॥
सबालार्कशंखप्रतीकाशवर्णं
वरं हेमच्छत्रं नभे धारेयेन्सुः।
ततो वीजनीयो विसृष्टा भ्रमेन्सुः
करेण ग्रहेत्वा जिनं वीजयेन्सुः॥
ततः पुण्यगन्धा सुखोष्णा प्रभूता
लघुप्रेमणीया हिता मानुषाणां।
शिवा नन्दनीया तुषारानुबद्धा
दुवे वारिधारा नभे उद्गमेन्सु॥
ततो मेरुशृंगादनेकप्रकारा
प्रमुक्तोत्तरीया समन्तोर्भिजाता।

p. 25

भृशं विश्वगन्धाधिवासानुवाता
दृढां षड्विधानं महीं कंपयेन्सुः॥
सुवर्णस्य रूप्यमणीनां शुभाना
विमानेषु देवा सतूर्या विघुष्टा।
सुजातेन जातं जिनं प्रेक्षमाणा
सचन्द्रार्कतारं नभं शोभयेन्सु॥
अयं सो सदेवं सनागं सयक्षं
महोघं महर्षी जगं उत्तरित्वा।
ततः क्षेममेकां दिशां प्राप्स्यतीति
प्रहृष्टा स्य देवा नभे व्याहरेन्सुः॥

संप्रतिजाते बोधिसत्वे शाक्यानां पंच कुमारशतानि सुन्दरनन्दप्रमुखानि। पंच कन्याशतानि यशोधराप्रमुखानि। पंच दासकशतानि च्छन्दकप्रमुखानि। पंच अश्वशतानि कण्ठकप्रमुखानि। पंच हस्तिपोतशतानि चन्दनहस्तिपोतकप्रमुखानि। पंच निधिशतानि प्रादुर्भूतानि॥ पंचहि राजशतेहि जयसंवृद्धये प्रेषिता॥

राजा शुद्धोदनो आणापेति॥ इतो एव देवीं निवर्तयथ॥ केनचिद्बोधिसत्वो अभिवहिष्यतीति॥ विश्वकर्मेण देवपुत्रेण रत्नामयी शिविका निर्मिता॥ को इमां शिविकां वहिष्यतीति॥ चत्वारो महाराजा उपस्थिता। वयं सत्त्वसारं वहि-

p. 26

ष्यामः। बोधिसत्वो च मायाय मातुः सार्धं शिविकासमारूढो। शक्रो देवानामिन्द्रो महाब्रह्मा च उत्सारणं करोन्ति॥

राज्ञा शुद्धोदनेन अमात्या आणत्ता। इत एव कुमारं शाक्यवर्धनं देवकुलं नेथ अभयाये देवीये पादवन्दनं॥ तेहि अमात्येहि राज्ञो वचनेन कुमारो ततो एव शाक्यवर्धनो देवकुलं नीतो अभयाय देवीये पादवन्दे॥ ते दानि अभयाये देवीये मूर्धेन पादा वन्दापयिष्यामो ति। येन चाभया देवी तेन कुमारस्य पादा प्रादुर्भूता। अभया देवी कुमारस्य मूर्धेन पादेषु प्रणता॥

नरो चेतियेषु प्रविष्टो अकामो महालोकनाथो नरेन्द्राण शास्ता।
यदा उत्तमांगेन वन्दापयेन्सुः ततो तस्य पादानि प्रादुर्भवेन्सु॥
ततो देवता चाभया इत्यवोचत् न एषो नुरूपो ममं वन्दमामो।
प्रणामं च एषो यदन्यस्य कुर्याद्दृढं सप्तधा अस्य मूर्धं स्फटेयाति॥

जातेमात्रे कुमारे र्थसिद्धि सुखी सर्वसत्वा अभू यावदवीचिं। प्रणामं च कुर्वी देवा अभया च तस्य देवी प्रहृष्टा प्रणामं करोति॥ उत्थापनीया गाथा॥

जाते जगप्रधाने सर्वे अर्था प्रदक्षिणा राज्ञो।
तेन नरलम्बकस्य नामं सर्वार्थसिद्ध इति॥

p. 27

राजकुलं कुमारस्मिं प्रविष्टे अवचत्पुरोहितं नृपतिः।
लक्षणविधिगुणकुशलां विप्रां परियेषथ शीघ्रं॥
तं विज्ञाय च देवा महेश्वरा नाम चित्तवसवर्त्ती।
मा लक्षणा अकुशला विकल्पयिष्यन्ति द्विजसंघा॥
विगतमदमानदर्पा अष्ट सहस्रा महेश्वरवराणां।
देवनरगुरुं कृताञ्जली संप्रतिजातं उपगमेन्सुः॥
ते राजकुलद्वारे शुचिवस्त्राम्बरस्थिता स्तिमितशब्दां
प्रतिहाररक्षामब्रवीत् सुमधुरकरविंकरुतघोषाः।
शुद्धोदनं उपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञा।
तिष्ठन्ति अष्ट सहस्रा प्रविशेन्षुः यदि अनुमतन्ते॥
साधूति प्रतिश्रुत्वा प्रतिहाररज्ञो प्रविश्य राजकुलं।
अब्रवीत्कृतांजलिपुटो प्रीतमनसो पृथिवीपालं॥
अतुलवरदीप्तयशसा कारय राज्यं चिरं निहतशत्रु।
द्वारे तेऽमरसदृशा तिष्ठन्ति प्रवेष्तुमिच्छन्ति॥
प्रतिपूर्णविमलनयना मधुरस्वर मत्तवारणविचारी।
भवति मम तेषु शंका न ते मनुजा देवपुत्रास्ते॥
परिचंक्रमतां तेषां धरणीरजो क्रमवरां न स्पृशति।
न च सानं पश्यति पदं पृथिव्यां इदं अपि आश्चर्यं॥
गम्भीरस्तिमितचेष्टा आर्याकारा प्रशान्तदृष्टि यथा।
विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमाणस्य॥

p. 28

अन्यं च दानि अद्भूतं शरीरच्छाया न दृश्यते तेषां।
तेषां च सन्धिशब्दो चंक्रमतां न श्रुयते कश्चित्॥
निःसंशयं उपगता पुत्रवरं नरवराधिप द्रष्टुं।
अभिनन्दं अभिवादय पश्याहि अयोनिजां देवां॥
वरमाल्यगन्धहस्तां लीलाचेष्टां मनोरमशरीरां।
दीप्यन्तां इव शिरीये असंशयं प्रवरमरुतस्ते॥
शुद्धोदनो निशाम्य वचनमिदं हर्षकम्पितशरीरो।
अब्रवीत् भणहि सुचपलं प्रविशन्तु निवेशनमुदारं॥
किंकारणं न एदृशा प्राकृतपुरुषाण भोन्ति आकाराः।
न पि मानुषाण ईदृशी ऋद्धि भवति यादृशीं भणसि॥
अथ सो प्रतिहाररक्षो उपगम्य महेश्वरां इदमवोचत्।
प्रह्वो कृतांजलिपुटो प्रणम्य हृष्टो मुदितचित्तो॥
अभिनन्दते नरपतिः प्रविशन्तु भवन्तो दिव्यपुरकल्पं।
राजवृशभस्य वेश्मं नराधिपतिना अनुज्ञाताः॥
एतं श्रुत्वा वचनं अष्टसहस्रं महेश्वरवराणां।
प्रविशन्ति पार्थिवकुलं अनिहतकुलवंशमुख्यस्य॥
शुद्धोदनो पि राजा महेश्वरां दूरतो निशामेत्वा।
प्रत्युत्थितो सपरिवारो गौरवबलभावितशरीरो॥
तां अवच राजवृषभो स्वागतमनुरागं भवि सर्वेषां।
प्रीता स्म दर्शनेन प्रशमदमबलेन च भवतां॥

p. 29

संविद्यन्ते इमानि अस्माकं आसनप्रधानानि।
आस्तां ताव भवन्तो अस्माकमनुग्रहार्थाये॥
अथ ते तेष्वासनेषु बहुरत्नविशुद्धचित्रपादेषु।
विगतमदमानदर्पा निषीद अनवद्यकर्मान्ताः॥
ते कंचिदेव कालं आगमयित्वा नराधिपमवोचत्।
शृण्वतु भवान्प्रयोजनं यं अस्माकमिह गमनाये॥
सर्वमनवद्यगात्रो उत्पन्नो लोकसुन्दरो तुह्यं।
पुत्रो किल मनुजपते लक्षणगुणपारमीप्राप्तो॥
वयमपि लक्षणकुशलास्स्मर्था गुणदोषलक्षणं ज्ञातुं।
यदि न गुरुत्वं भवतो पश्येम महापुरुषरूपं॥
सो अवच हन्त पश्यथ सुव्यपदेशक्षेमं मम पुत्रं।
मरुमनुजहर्षजननं लक्षणगुणपारमीप्राप्तं॥
अथ स मृदुकाचलिन्दिकप्रवेणिये गुणधरं ग्रहेत्वान।
अंकेन वादिचन्द्रं उपनामयति सुरवराणां॥
आलोकयित्व दूरा महेश्वरा पराक्रमं दशबलस्य।
मूर्धनि विगलितमकुटा निपतन्ति महीतले दृष्टाः॥

ते दानि राजानमारोचेन्ति। लाभा ते महाराज सुलब्धा यस्य ते यं महापुरुषो कुले उत्पन्नो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो॥ तद्यथा॥

समा हृष्टा च दीर्घा च आयता उत्संगपंचमा।

p. 30

एणि बृहत्प्रतिष्ठितो कोश न्यग्रोध ते दश॥
मृदुजाला च प्रतिपूर्णा एका ऊर्ध्वाग्रपंचमाः।
श्लक्ष्णच्छवि हंसान्तरा च उत्सदा च ते दश॥
रसं सुवर्णसीहो च समा शुक्ला च पंचमा।
समा प्रभूता ब्रह्मा च नीलगोपक्ष ते दश।
ऊर्णा उष्णीषशिर्षं च नाथो द्वात्रिंशलक्षणो॥

दक्षिणापथे अपरो ब्राह्मणकुमारो उज्जेनीयं ब्राह्मणमहाशालस्य पुत्रो श्यामो असितो वर्णेन पण्डितो निपुणो मेधावी। तेन गुरुकुलातो वेदा च मन्त्रा च शास्त्रा च अधीता॥ सो दानि अधीतवेदाध्ययनो गृहातो निष्क्रम्य विन्ध्यपर्वतं गत्वा ऋषिप्रव्रज्यां प्रव्रजितो मूलफलपत्रभक्षो रुच्छवृत्तिः॥ तेन तर्हि विन्ध्यपर्वते आश्रमं मापयित्वा वाहितकेन मार्गेण युज्यन्तेन घटन्तेन व्यायामन्तेन चत्वारि ध्यानानि निष्पादितानि पंचाभिज्ञा च साक्षात्कृता॥ सो चतुर्ध्यानलाभी पंचाभिज्ञो बहुश्रुतो वेदपारगो असितो ऋषि समतेन अभिज्ञातो परिज्ञातो। असितो ऋषि दिवि परिघुष्टो अन्तरीक्षचरो महर्द्धिको च महानुभावो पंचमात्रेहि शिष्यशतेहि सार्धं नालकेन च तर्हि आश्रमे प्रतिवसति॥ सो तं बोधिसत्वस्य जात्रमात्रस्य पृथिवीचालं च दृष्ट्वा महान्तं च ओभासं दृष्ट्वा मनोज्ञानि च अमानुष्याणि च गीतवाद्यशब्दानि श्रुत्वा दिव्यानि पुष्पवर्षाणि पतन्तानि दृष्ट्वा देवकोटीसहस्राणि च अप्सरसहस्राणि च दिव्यमाल्यगन्धहस्तानि खगपथेन पूर्वामुखमभिपतन्तानि अन्यानि च अद्भुतशतानि दृष्ट्वा उद्धर्षितरोमसंजातो॥ किमिदं अद्य जंबुद्वीपस्य। इयं अद्य कस्यानुभावेन पृथिवी च

p. 31

कम्पति अद्भुतशतानि च प्रादुर्भूतानि॥ सो दानि ऋषिः दिव्येन चक्षुषा सर्वजंबुद्वीपं प्रत्यवेक्षति कस्य इमं तेजानुभावं एदृशं मनोज्ञानि च गीतवादितशब्दा निश्चरन्ति दिव्यानि तूर्यशतानि श्रुयन्ति देवाश्च देवकन्याश्च दृश्यन्ति दिव्यानि च पुष्पवर्षाणि प्रवर्षन्ति चन्द्रादित्यसहस्राणि च दृश्यन्ति नरकसहस्रेषु नाग्निः प्रज्वलति। एकान्तसुकसमर्पिता च सत्वा संजाता॥ सो तथा दिव्येन चक्षुषा अद्राक्षीत्। पुरस्तिमेन कपिलवस्तुस्मिं नगरे राज्ञो शुद्धोदनस्य पुत्रो जातो कृतपुण्यो महेशाख्यो महानुभावो यस्य तेजानुभावेन जम्बुद्वीपे एवंरूपाणि अद्भुतशतानि प्रादुर्भूतानि। देशकालेन कुमारं द्रक्ष्यामि। सो दानि कालं च समयं च ज्ञात्वा कुमारस्य दर्शनाय संबहुलेहि शिष्येहि संपरिवृतो वैहायसेन ऋद्धिये कपिलवस्तुमनुप्राप्तो राज्ञो शुद्धोदनस्य अन्तःपुरद्वारे॥ अमात्या च प्रतिहारो च ऋषिं दृष्ट्वा प्रत्युत्थिता। किमाज्ञापेति भगवां केनार्थं किमागमनप्रयोजनं॥ ऋषि आह॥ शुद्धोदनस्य प्रतिहारेथ असितो ऋषि दर्शनकामो॥ प्रतिहारेण राज्ञो निवेदितं॥ असितो ऋषि दर्शनकामः॥ राजा शुद्धोदनो असितस्य ऋषिस्य आगमनं श्रुत्वा अभिज्ञातस्य विश्रुतस्य महाभागस्य प्रतिहाररक्षमाह॥ प्रविशतु ऋषीति। प्रतिहाररक्षेण निर्धाविय ऋषिस्य निवेदितं। प्रविशतु भवां॥

ऋषि प्रविष्टो। राजा सान्तःपुरो ऋषिं दृष्ट्वा प्रत्युत्थितो॥ अभिवादेम भगवन्तं निषीदतु भगवां। ऋषि राज्ञो जयेन वर्धापयित्वा निषणो॥ राजा पृच्छति॥ किं भगवं आगमनप्रयोजनं॥ ऋषि आह॥ कुमारन्ते द्रष्टुकामो॥ तस्मिंश्च काले कुमारो अन्यतरं शान्तसमाधिं समापन्नो॥ तेषामेतदभवत्। प्रसुप्तो कुमारो॥ ततो राजा ऋषिं आह॥ भगवं आगमेहि मुहूर्तं कुमारो संप्रति ओसुप्तो॥ ऋषि आह॥ महाराज न कुमारो ओसोपति॥ राजा कुमारस्य

p. 32

मूलं अल्लीनो पश्यति च कुमारं जाग्रितं॥ राजा ऋषिस्य विस्मितो। महाभागो ऋषिः॥ राज्ञा आणत्तं। उपनामेथ कुमारं ऋषिस्य॥ कुमारो सूक्ष्मायां अजिनप्रवेणियं गृह्य ऋषिस्य उपनामितो॥ ऋषि कुमारस्य दूरतो एव कायेन महापुरुषलक्षणानि दृष्ट्वा अंजलिं मूर्धनि कृत्वा प्रत्युपस्थितो॥ नमस्कृत्वा कुमारो ऋषिणा प्रतिगृहीतो॥ ऋषिः कुमारस्य द्वात्रिंशत्महापुरुषलक्षणानि प्रत्यवेक्षति।।

ऋषिश्च तत्र राजकुले कुमारस्य चक्रवर्तिशब्दं शृणोति। नैमित्तकेहि कुमारो व्याकृतः राजा चक्रवर्ती भविष्यति॥ ऋषिस्य भवति। नायं चक्रवर्ती भविष्यति। बुद्धो अयं लोके भविष्यति॥ ऋषिस्तानि लक्षणानि दृष्ट्वा न एदृशानि राज्ञो चक्रवर्तिस्य लक्षणानि बुद्धानामेदृशानि लक्षणानि भवन्ति। बुद्धो अयं लोके भविष्यति। अहं च नचिरेण कालेन कालक्रियां करिष्यामि। इदं च रत्नं न द्रक्ष्यामि। इमस्य धर्मं न श्रोष्यामि गणोत्तमं च न द्रक्ष्यामि॥ ऋषि प्ररोदी अश्रूणि च प्रवर्तयति॥ राजा शुद्धोदनो असितं ऋषिं रुदन्तं दृष्ट्वा सान्तःपुरो उद्विग्नो जातो॥ किं भगवन्तं कुमारं दृष्ट्वा रोदसि। मा कुमारस्य कांचिद्विपत्तिं पश्यसि॥ कुमारस्य जातमात्रस्य पृथिवी कम्पिता षड्विकारं ओभासः लोके प्रादुर्भूतः देवसहस्रेहि पूजितो दिव्यानि कुसुमवर्षाणि दिव्यानि च तूर्यसहस्राणि संप्रवादितानि शब्दा निश्चरेन्सुः॥ कुमारे जातमात्रे कपिलवस्तुस्मिं पंच कुमारशतानि जातानि पंच कन्याशतानि पंच दासशतानि पंच दासीशतानि संजातानि पंच हस्तिपोतशतानि पंच अश्वशतानि पंच निधानशतानि प्रादुर्भूतानि पंचहि राजशतेहि जयवृद्धीये प्रेषितायो अन्यानि पि च आश्चर्याद्भुतानि। भगवां च कुमारं दृष्ट्वा रोदिति। एवं मे भगवं आख्याहि मा कुमारस्य कांचिद्विपत्तिं पश्यसि॥ ऋषिराह॥ महाराज

p. 33

कुमारस्य न कांचिद्विपत्तिं पश्यामि। एदृशानां महाराज महापुरुषाणां कदाचित्कहिंचिल्लोके प्रादुर्भावो भवति। अयं महापुरुषो प्रादुर्भूतः बुद्धो लोके भविष्यति। अहं च वृद्धो न द्रक्ष्यामि। धर्मं च देशयिष्यति औपसमिकं चार्यं च निर्वाणिकं च तं च न श्रोष्यामि। गणवरं चास्य न द्रक्ष्यामि बुद्धविकुर्वितानि न द्रक्ष्यामि। तदेतां महाराज आत्मनो महाविपत्तिं दृष्ट्वा रोदामि॥ ऋषिः बोधिसत्वं चतुर्हि कारणेहि एकांशेन व्याकरित्वा बुद्धो यं लोके भविष्यतीति प्रक्रान्तो॥

नीवरणानि विजहित्व एकाग्रेण मनसा मम शृणोथ।
यथा असितो परिदेवे उत्पन्ने शाकियकुमारे॥।
असितो नाम महर्षिः अभूषि यो वसति विंध्यविषयस्मिं।
नियतनिचयो महात्मा महाकपिल उत्तमांगरुहः॥
आरण्यशास्त्रकुशलो लाभी पंचान सो अभिज्ञान।
कैलासशिखरवासी धनपतिरिव गुह्यकाधिपति॥
सो वसति काननमूर्द्घि मूलफलमकृष्टं रुच्छां वृत्तिं।
शिष्येण नालकेन सार्धं अन्येहि च बहूहि॥
दशकुशलकर्मसेवी प्रशमदमरतो परे च ओवदति।
देवगुणपारमिगतो ऋषिः परमशीलसंपन्ने॥
ओभासो च सुविपुलो प्रीती लोकोत्तर असंमुह्यन्ती।
सत्वा चैकान्तसुखी अभुन्सु च कम्पेसि॥
सो तत्र संनिषणो पश्यति मन्दारवाणि कुसुमानि।
धरणीतले पतितानि दिव्यानि च कल्पपुष्पाणि॥

p. 34

पश्यति असितो च नभे आभरणशतानि विप्रकीर्णानि।
सहस्रा प्रधावितानां गगनतले देवकन्यानं॥
मधुरं च किंनरीणा शृणोति गीतस्वरं गिरिगुहासु।
गिरिनदियो कूलवहां शमयति कुसुमाकुलजलोघां॥
ओभासं पि च विपुलं समन्ततो पश्यति दशदिशासु।
सहसा समुत्पतन्तं रवितरुणमरीचिसंकाशं॥
एतानि च अन्यानि च बहूनि आश्चर्यकानि दृष्ट्वान।
उद्धर्षितरोमकूपो असितो चिन्तामनो आसि॥
किन्तु खु मही प्रचलिता गगनतले दुन्दुभिनो च नदन्ति।
ओभासितो च लोके प्रवर्षाति च पुष्पवर्षाणि॥
न विभान्ति चन्द्रसूर्या लवणजलो क्षुभ्यते असिततोयो।
पद्मोत्तरीयपटला दृश्यन्ति कुसुमाकुलजलौघा॥
सर्वे चिमे द्रुमवरा अकालकुसुमेहि....च्छादिता।
अद्य फलकुसुमभरिता सुरभी गन्धा प्रवायन्ति॥
न च प्रज्वलते अग्निः निरयसहस्रेषु अद्य दिवसेन।
न च वेदयन्ति दुःखं लोकान्तरिका विपद्यमाना॥
न चापि क्षुधापिपासा यथा पुरे जायते शरीरस्मिं।
हृदयं च मे प्रमुदितं किन्तु खलु भविष्यति अद्य॥
अतिबलमुदीर्णहासा किं तु खलु पुरस्तिमे दिशाभागे।
धावन्ति देवकन्या चन्दनचूर्णं ग्रहेत्वान॥

p. 35

को नु खलु महानुभावो उत्पन्नो अद्य जंबुद्वीपस्मिं।
कस्य यशेन यशवतो अयमेदृशको महाभावो॥
तहिमेदृशं निमित्तं लोकस्मिं यस्य कस्यचिद्भोति।
बुद्धानामुत्पादे एदृशका भोन्ति आकाराः॥
पृथिवीय पतन्तानां शृणोति आकाशे अमरसंघानां।
उत्पन्नो लोकनाथो बुद्धो होहिष्यति अनेयो॥
सो दानि प्रमुदितमनो गगनतले श्रुणिय देवसंघानां।
अद्य नरवीरगर्भो बुद्धो लोकस्मिं उत्पन्नो॥
सो सर्वं जम्बुद्वीपं ओलोकयि दिव्यलोचनेहि ऋषि।
अद्दस शाक्यान कुले जातो शुद्धोदनसुतो यं॥
तस्यापि एवं दृष्ट्वा जातो दिशासु बोधिय कौलीनो।
तत्रैष बुद्धशब्दो चरति द्रक्ष्यामि तं काले॥
ते चापि कुठारिहस्ता कृष्णाजिनसुकृत उत्तरासंगा।
वल्कलचीरांबरधरा आदाय फलोदकमागमि॥
आकाशे निरालम्बे वायुपथे.... प्रक्रामि ऋषिः।
ऋद्धिं संजनयित्वा क्षणेन आगमि कपिलवस्तुं॥
हिमवतमूले अदर्शि नगरं रम्यं आदित्यबन्दुगुप्तं।
दुर्धर्षं परशत्रुभिः तं च सुरमणीयं त्रिदशान इव।
देवानां प्रविशे ऋषि पुरं शाकियदर्शनार्थाये॥
सुसन्निभन्तं प्रविशे आपणपण्यक्रयप्रसक्तं पूर्णं।

p. 36

हृष्टजनेहि प्रमुदितहयगजरथपत्तिसंघेहि॥
सो मनसा उपगच्छन्तो द्वारे प्रविष्टो शुद्धान्ते....।
शुद्धोदनस्य निलयं निलयं यथा देवराजस्य॥
प्रासादहर्मियं तं गवाक्षवरशरणपंजरविबुद्धं।
गिरिकूटं इव गलितं पश्यति गगने विरोचेन्तं॥
तस्मिं विमानमुख्ये कूटागाराणि रजतश्रीमाणि।
शोभन्ति कर्णिकायो हुताशनहुतार्चिसंकाशा॥
गर्भगृहाणि शुभानि च सन्ति विशदशंखहारकसंनिभा।
विमलरविसंप्रकाशा द्योतन्ति कृता व चन्द्राणि॥
दृश्यन्ति तत्र उप्ता वेरुलियस्य सुकृतेहि फलकेहि।
गृहसूचीकावलीहि विद्युघनप्रसेकवर्णानि॥
पश्यन्ति तोरणानि कनकमया अग्निज्वालसदृशानि।
विमलरविसंप्रकाशा द्य्तन्ति कृता व चन्द्राणि॥
क्वचित्क्वचित्कालमेघसदृशसमदा पि सृजन्ति विय तोयं।
क्वचित् निश्रितार्कसदृशा सतारका निश्चरन्ति क्वचित्॥
मार्जारपितका पि च क्वचित्क्वचित्सहसावपतन्ति तहिं।
त्रस्यन्ति च वर्हिणेहि क्वचित्क्वचित्संपतन्तेहि॥
मधुरं च पंजरगता क्वचित्क्वचित्कोकिला निकूजन्ति।
शुकसारिका क्वचित्क्वचिदाभरणनिदानविभ्रान्ता॥

p. 37

शुद्धं दशसु विदिशासु चतुरस्रं निर्मितं सु‍आविद्धं।
दुर्धर्षियं अरीभिः सूत्रग्रहस्य समुपचीर्णं॥
बहुविधरत्नसंचयायं अनेकविचित्रसंघातभूमियां।
सीहो निषद्यति विष्टं त्रसति च उदेन्तमादित्यं॥
तं युग्ययानकविगतं चेटीवेलासिकाहि च उपेतं।
काषायकर्बुरवर्णं वर्षवरसमाकुलं प्रविशे॥
प्रेष्यशतयानकलिलं आर्यजनसमाकुलं शुचिसुगन्धं।
प्रविशे भवनदुवारं प्राप्तो जटिलो न्यसंरोधं॥
ओसरणे च भरिता अद्दशि प्रमदा स्थितसंभ्रान्तेन।
प्रगृहीतखड्गहस्ता अतिरिव प्रियदर्शनप्रलापा॥
असितो चासौ व्यक्तो गम्भीरो सर्वशास्त्रसुविधिज्ञो।
प्रतिहाररक्षमवोच निवेदये शाक्यराजस्य॥
कालो स्मि विख्यातो भारद्वाजो हमस्मि गोत्रेण।
जातो स्मि आर्य ति विषये सिखरे विन्ध्यस्मिं विहरामि॥
साध्वार्य त्ति श्रुतधरो प्रतिश्रुणिय प्रापये महीपतिनो।
तद्वचनं अनवशेषं श्रुत्वा च प्रवेशयित्वा च॥
प्रतिभाणितो प्रविष्टो सिंहहनुस्य स्वर्गसदृशनिलयं।
इन्द्र इव नन्दनं गतो संकीर्णं अप्सरगणेहि॥

p. 38

वर्धापये जयेन फलानि उपनामये असितनामो।
प्रत्यग्रहेसि राजा स्वागतं भगवतो ति च अवोचत्॥
अथ कनकमष्टपादं सुविचित्रकिलञ्जकं मणिविचित्रं।
प्रज्ञप्तमासनवरं तत्र निषीदे अनुज्ञातो॥
पर्यंकस्मिं निषणो पंचाभिज्ञो ऋषी महर्द्धीको।
भक्तेन निमन्त्रेति स्वामं शुद्धोदनो राजा॥
भक्तं कृतं प्रभूतं प्रतिशृणु तं अनामयन्तु ते भगवन्।
इच्छाम ते कुमारं द्रष्टुं यदि ते अनुमतं स्यात्॥
स्वागतमनुरागतं ते सुप्तो तावत्प्रियदर्शि कुमारो।
द्रक्ष्यसि त्वं प्रतिविबुद्धं विग्रहं इव जातरूपस्य॥
प्रतिबुद्धं च कुमारं प्रवेणियं अष्टमंग़लकृतायं।
उपनामयि मातुस्मा घनविवरकृतं व आदित्यं॥
दृष्ट्वान तं ऋषिवरो कुण्डलमिव पट्टकम्बलन्यस्तं।
अभ्युत्थहित्व त्वरितं अंकेन प्रतीच्छति कुमारं॥
अङ्केन गृह्य निशाम्य द्वात्रिंशल्लक्षणेषु उपागतं।
तथा अनुव्यंजनेहि प्ररोदि आखण्डलसमानो॥
तं अश्रुपूर्णनयनं राजा शुद्धोदनो इदमवोचत्।
किं दानि ते कुमारं दृष्ट्वा दौर्मनस्यमुत्पन्नं॥
यो तदहो जातमात्रो सप्त पदानुत्तरामुखो अगमि।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥

p. 39

यस्मिं तदहो जाते छत्रं च वीजनीं च ग्रहेत्वान।
अस्थान्सु अन्तरीक्षे दृष्ट्वा किं रोदिषि ब्रह्म॥
यस्मिं तदहो जाते सर्वो ओभासितो अभूल्लोको।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते उदुपाना दुवे नभे उद्गच्छेन्सुः।
तं तुव ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते देवा छत्रं नभस्मि धारेन्सुः।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते देवा मन्दारवाणि प्रकिरेन्सुः।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते अचेतना संप्रकम्पिता वसुधा।
तं तुवं ब्राहमण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते लवणजलो क्षोभितो असिततोयो।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते नभसि गता दुन्दुभियो वाद्यन्ति।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते पंच शता जाता शाक्यपुत्राणां।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते पंच शता जाता शाक्यकन्यानां।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते पंच शता जाता मह्य दासानां।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥

p. 40

यस्मिं तदहो जाते पंच शता जाता मह्य दासीनां।
तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते मह्य तुरगाणां पंच शता जाता।
तं तुवं ब्राह्मण दृष्त्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते पंच शता गजपोतानां जाता।
तं तुवं ब्राह्मण दृष्त्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते पंच निधिशता मुखानि दर्शेन्ति।
तं तुवं ब्राह्मण दृष्त्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्मिं तदहो जाते मण्डलिनो राजानो प्रणत मह्यं।
तं तुवं ब्राह्मण दृष्त्वा किं रोदिषि श्रोतुमिच्छामि॥
यस्य राजाचार्या ब्राह्मण संदर्शनाय उपयान्ति।
तं तुवं ब्राह्मण दृष्त्वा किं रोदिषि श्रोतुमिच्छामि॥
यं पश्यित्वा मनुजा भवन्ति हृष्टा सुखी उदग्रा च।
तं तुवं ब्राह्मण दृष्त्वा किं रोदिषि श्रोतुमिच्छामि॥
व्यपनय ब्राह्मण शोकं भव मुदितमनो सुखं प्रतिलभाहि।
एषो भविष्यति नृपो सप्तरतनवा पृथिविपालो॥
एवं उक्ते अवची असितो सितसाहूयं इदमवोचत्।
अश्रूणि प्रमार्जन्तो......व्याकृतो ऋषिभिः॥
आनन्दहुतासनबहुतरुणार्कनिभो न सो पुरुषसिंहो।
होहिति नरपति राजा होहिति शास्ता अनभिभूतो॥
एषो हि त्रीहि क्रमेहि त्रैधातुकं लंघिया अनवशेषं।

p. 41

शिवममरं निरन्तरायं अधिगमिष्यति उत्तमं धर्मं॥
जीर्णो अहं गतवयो दहरो च नरोत्तमो अचिरजातो।
कालगतो भविष्यं अहं यद बोधिं प्राप्स्यति कुमारो॥
बुद्धो अयं भविष्यति सर्वज्ञो सर्वधर्मवशवर्ती।
स्वाख्यातधर्मविनये अहं च जीर्णो ति रोदामि॥
नापि मह्यं मरणभयं कहिं तु जातो न म्रीयते मनुजो।
बुद्धं तु अप्रतिसमं न द्रक्ष्यन्तेन रोदामि॥
न खु मह्यं मरणभयं कहिं तु जातो न म्रीयते मनुजः।
धर्मं तु ओपसमिकं न श्रोष्यं तेन रोदामि॥
न खु मह्यं मरणभयं कहिं तु जातो न म्रीयते मर्त्यो।
संघं गुणसागरमहं न द्रक्ष्यन्तेन रोदामि॥
यो बुद्धो बोधयिष्यति प्रजामिमां भोगेहि चिरप्रसुप्तां।
सो यं प्रादुर्भूतो अहन्तु जीर्णो ति रोदामि॥
यो मुक्तो मोचयिष्यति प्रजामिमां रागबन्धनैर्बद्धां।
सो यं प्रादुर्भूतो अहं तु जीर्णो ति रोदामि॥
यो मुक्तो मोचयिष्यति प्रजामिमां मोहबन्धनैर्बद्धां।
सो यं प्रादुर्भूतो अहन्तु जीर्णो ति रोदामि॥
यो मुक्तो मोचयिष्यति प्रजामिमां रागदोषमोहेषु।
सो यं प्रादुर्भूतो अहन्तु जीर्णो ति रोदामि॥
यो आत्मना अरोगो भूत्वा अन्यां अपि काहिति अरोगां।
सो यं प्रादुर्भूतो अहन्तु जीर्णो ति रोदामि॥

p. 42

यो आत्मना अशोको भूत्वा अन्यां अपि काहिति अशोकां।
सो यं प्रादुर्भूतो अहन्तु जीर्णो ति रोदामि॥
यो आत्मना विशल्यो भूत्वा अन्यां अपि काहिति विशल्यां।
सो यं प्रादुर्भूतो अहन्तु जीर्णो ति रोदामि॥
सुखिता इमे नरमरू काशिपुरे धर्मराजं द्रक्ष्यन्ति।
चक्रं प्रवर्तयन्तं अहन्तु जीर्णो ति रोदामि॥
सुखिता इमे नरमरू द्रक्ष्यन्ते गणवरस्य मध्यगतं।
अमृतं प्रतिभजमानं अहन्तु जीर्णो ति रोदामि॥
व्याधि जरा च मरणं अंतरायकरा बहू मनुष्याणां।
आश्वास्ता उत्पन्नो अहं अनाश्वस्तो रोदामि॥
तथा ऋषि आलपित्वा बहूनि करुणायन्तो वेपित्वा।
अनुशंसे वाचाये नरवरदमकं तदा दृष्टा॥
प्राचीनदिशं अवोध इहागतो नरुत्तमं गवेषन्तो।
न हि सुलभे उत्पादो बुद्धान अदान्तदमकानां॥
सो दानि बोधिसत्वं बहुशो अभिप्रदक्षिणं चरित्वान।
आमन्त्रये नरपतिं गच्छामि स्निग्धवतीं भवान्देतु॥
बुद्धनिर्घोषं श्रुत्वा गच्छेसि विनायकोत्तमसकाशं।
चरयेसि ब्रह्मचर्यं वचनपरिकरो न तस्य स्यात्॥
साधु इति प्रतिश्रुत्वा असितस्य नारदो इदं वचनं।

p. 43

प्रव्रजिय गणज्येष्ठो अभूषि अरहा विधुतक्लेशो॥
कात्यायनस्य सगोत्रं नामेन नारदं जिनस्य सुतं।
वनेवासिनं....वन्दथ परिनिर्वृतं स्थविरं॥
तं निर्वृतं शमशान्तं निरुपधिं सर्वोपधिक्षयविमुक्तं।
सर्वप्रपञ्चातीतं वन्दथ परिनिर्वृतं स्थविरं॥

चतुर्हि कारेणेहि असितेन बोधिसत्वो एकांशेन व्य्आकृतो बुद्धो भविष्यतीति॥ कतमेहि चतुर्हि॥ लक्षणानां व्यक्ततायै सुविभक्तततायै गम्भीरतायै अखण्डश्रेष्ठतायै॥ बुद्धानां भगवतामशीत्यनुव्यंजनानि आसि॥ बुद्धानां भगवतां तुङ्गनखा ताम्रनखा स्निग्धनखा वृत्तांगुली च चित्रांगुली च अनुपूर्वचित्रांगुली च। निर्ग्रन्थिशिरा च गूढशिरा च गूढगुल्फा घनसन्धी च अविषमसमपादा च। बुद्धा भगवन्तो प्रतिपूर्णव्यंजना च समन्तप्रभा च मृदुगात्रा च विसदगात्रा च अदीनगात्रा च। अनुसन्धिगात्रा च। सुसंहतगात्रा च। सुविभक्तांगप्रत्यंगा च। निखिलादुष्टशरीरा च। व्यपगतिलकालकगात्रा च पुर्बुद्धा भगवतो तूलमृदुपाणयश्च। गम्भीरपाणिलेखा अभग्नपाणिलेखा च अच्छिन्नपाणिलेखा च। अनुपूर्वपाणिलेखा च। बिम्बोष्ठा च। नाभ्यायतनवचना च। मृदुतनुकरक्तजिह्वा च। गजगर्जितस्तनितस्वरा च। सुस्वरवरगिरा मञ्जुघोषा च बुद्धा भगवन्तो। नागविक्रान्तगामी च। ऋषभविक्रान्तगामी च। सिंहविक्रान्तगामी च। अ-

p. 44

भिदक्षिणगामी च। उत्सदसमा च समन्तप्रासादिका च। शुचिसमाचारा च। परमशुचिविशुद्धलोमा च। वितिमिरसमन्तप्रभा च। बुद्धा भगवन्तो ऋजुगात्रा च। मृदुगात्रा च अनुपूर्वगात्रा च। चापोदरा चारूक्षाभग्नोदरा च। गम्भीरनाभी च। अभग्ननाभी च। अच्छिन्ननाभी च। अभिदक्षिणावर्तनाभी च। परिणतजानुमण्डला च। बुद्धा भगवन्तो वट्टितदाठा च। तीक्ष्णदाठा च। अभग्नदाठा च। अच्छिन्नदाठा च। अविषमदाठा च। तुंगनासा च। नात्यायतननासा च। असितनयना च। असितसितकमलसदृशनयना च। बुद्धा भगवन्तो असितभ्रमू च स्निग्धलोमभ्रमू च। अपरित्तकर्णा च। अविषमकर्णा च। व्यपगतकर्णदोषा च। अनुपहता अनुपक्लिष्टा शान्तेन्द्रिया च उत्तमश्रेष्ठसंमितमुखललाटा च बुद्धा भगवन्तो॥ असितकेशा च। सहितकेशा च। चित्रकेशा च। विवृत्तकेशा च अभग्नकेशा च। अच्छिन्नकेशा च अपरुषकेशा च। स्निग्धकेशा च सुरभिकेशा च। वल्लिताग्रकेशा सुशिरसो स्वस्तिकनन्द्यावतमुक्तिकश्रेष्ठसंनिकासा च बुद्धानां भगवन्तानां केशा॥

एतानि बुद्धस्य अमेयबुद्धिनो
काये अशीतिं अनुव्यंजनानि।
येहि स्य कायो सततं अलंकृतो
देवातिदेवस्य नरोत्तमस्य॥
प्रशस्तानि यस्य दुवे त्रिंशतिं च
अशीतिं च काये अनुव्यंजनानि।
समन्ता च व्यामप्रभा निश्चरेन्सुः

p. 45

कथं नाम विज्ञू जिने न प्रसीदे॥
शतखुत्तो समादाय यं पुण्यं सर्वसत्त्वनां।
तेनास्य लक्षणवरं काये एकं निवर्तये॥

राजा शुद्धोदनो सान्तःपुरो सार्धं कुमारेण उद्यानभूमिं निर्धावितो॥ बोधिसत्वो उद्यानबूमीये अनुचंक्रमन्तो कृषिग्राममनुप्राप्तो॥ तत्र पश्यति हलानि वहन्तानि। तेहि हलेहि दीर्घको च मंडूको च उत्क्षिप्ता। मंडुको गृहीतो भोजनार्थं। सो पि दीर्घको कुमारेण क्षिप्तो॥ तं च बोधिसत्वेन दृष्टं। दृष्ट्वा च बोधिसत्वस्य महान्तं संवेगमुत्पन्नं॥

कामं शरीरं समं तप्यति जीवितं च
प्राप्स्यामि अद्य अमृतं भवविप्रमोक्षं।
वीर्यं मया हि प्रतिसंहरितुं न शक्यं
वेलाय व सलिलवेगं यथाणर्वस्य॥

जम्बुच्छायायां बोधिसत्वो निषणो पूर्वाह्णे परिवृत्ते दिवसकरे छाया बोधिसत्वं न जहाति। सवितर्कं सविचारं प्रथमं ध्यानमुपसंपद्य विहरति॥ हिमवन्तपार्स्वतो पंच ऋषयो वैहायसेन विंध्यं गच्छन्ति। ते तत्र बोधिसत्वस्य न शक्नोन्ति उपरिगन्तुं॥

वयमिह मणिवज्रकूटं गिरिं मेरुमभ्युद्गतं तिर्यगत्यर्थविस्तारिकं।

p. 46

गज इव सहकारशाखाकुलां वृक्षवृन्दां प्रदारेत्व निर्धाविता नैकशः॥
वयममरपुरे पि शक्ता गता देवगन्धर्ववेश्मानि चोर्ध्वं नभे निश्रिताः।
वयमपि वनषाण्डमासाद्य सीदाम भो कस्य लक्ष्मी निवर्तेति ऋद्धेर्बलं॥

देवा गाथां भाषन्ति॥

नृपतिपतिकुलोदितो शाक्यराजात्मजो बालसूर्यप्रकाशो विदू।
रवितरुणप्रभातिरेकेहि वर्णप्रभैः लक्षणैर्लक्षितांगो वरैः॥
अयमिह वनमाश्रितो ध्यानचिन्तापरः...........पार्थिवः।
गुणशतसमकोटिसंवर्धितस्तस्य लक्ष्मी निवर्तेति ऋद्धेर्बलं॥

सो हि तिमिरान्धकारे प्रादुर्भूतो प्रदीपकः।
अयं तं प्राप्स्यते धर्मं यज्जगं श्वासयिष्यति॥
लोके क्लेशाग्निसंतप्ते प्रादुर्भूतः महामुनिः।
अयन्तं प्राप्स्यते धर्मं यज्जगं ह्लादयिष्यति॥
शोकसागरकान्तारे यानश्रेष्ठमुपस्थितं।
अयं तं प्राप्स्यते धर्मं यज्जगं तारयिष्यति॥
महासन्सारकान्तारे विप्रनष्टं जगत्त्रयं।
अयं मार्गवरं श्रेष्ठं देशयिष्यति चक्षुमान्॥
संसारचारके बद्धा दीर्घरात्रमियं प्रजा।
अयं बन्धनमोक्षं च धर्मराजा करिष्यति॥

p. 47

आक्रुष्टे शूरमिच्छन्ति मन्त्रेषु कुशलं सदा।
सहायं अर्चयन्ते खु अन्नपानेन सुप्रियं॥

राजा भक्तवेलायां कुमारं पृच्छति। कहिं कुमारो आहारं करिष्यति॥ राज्ञो श्रुत्वा कंचुकीया च वर्षवरा च किराता च वामनका च समन्तेन प्रधाविता कुमारं मार्गन्ता॥ कुमारो जम्बुच्छायायां ध्यायन्तो कंचुकीयेन दृष्टो परिवृत्ते दिवसकरे जम्बुच्छाया कुमारं न जहाति॥ कंचुकीयो दृष्ट्वा विस्मितो महाभागो कुमारो यस्य अचेतना छाया न जहाति॥ कंचुकीयेन राज्ञो शुद्धोदनस्य निवेदितं॥

व्यावृत्ते तिमिरनुदस्य मण्डलस्मिं
ध्यामाभं शुभवरलक्षणाग्रधारिं।
ध्यायन्तं गिरिमिव निश्चलं नरेन्द्र
सिद्धार्थं न जहति जम्बुच्छाया॥

राजा कंचुकीयस्य श्रुत्वा येन कुमारस्तेनोपसंक्रमन्तो पश्यति जम्बुच्छायान्तां। राजा विस्मितो आह॥

हुतासनो वा गिरिमूर्धनस्मिं
शशीव नक्षत्रगणावकीर्णो।
ह्लादेति गात्राणि निरीक्ष्यमाणो
ध्यानस्थितो तैलप्रदीपकल्पो॥

राजा आह॥ महाभागो अयं यस्य अचेतनवन्ता पि तावा संनमन्ति॥ राज्ञा शुद्धोदनेन बोधिसत्वस्य जम्बुच्छायागतस्य पादा वन्दिता॥

p. 48

राज्ञो शुद्धदनस्य् एतदभूषि॥ यथा कुमारस्य शान्तेषु ध्यानेषु चित्तं रमति सो खल्वेव असितस्य ऋषिस्य सत्यो व्याकरणो भविष्यति॥ तेन राज्ञा कुमारस्य विस्तीर्णमन्तःपुरमुपस्थापितं यथा कुमारो गृहै अभिरमेय॥ राज्ञा कन्यानामर्थाय विविधं नानाप्रकारं अशोकभाण्डं कारापितं। कपिलवस्तुस्मिं च नगरे घोषणा कारापिता। सर्वाहि कन्याहि राजक्यं उद्यानं निर्धावितव्यं सर्वार्थसिद्धो कुमारो कन्यानामाभरणानि विश्राणेष्यति॥ तहिं उद्याने राजाणत्तीये कपिलवस्तुतो बहूनि कन्यासहस्राणि निर्धावितानि॥ महानामस्य शाक्यस्य यशोधरा नाम धीता महतीये समृद्धीये निर्धाविता ह्रियायन्ती कुमारमल्लीना॥ यदा भगवानभिनिष्क्रान्तो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रो तं भिक्षुहि श्रुतं॥ भगवतो कुमारभूतस्य उद्यानवनगतस्य कन्यानामाभरणानि विश्रान्तस्य यशोधरा ह्रियायन्ती कुमारस्य अल्लीना॥ भिक्षु भगवन्तं पृच्छति॥ कथं भगवं यशोधरा भगवतो कुमारभूतस्य ह्रियायन्ती अल्लीना। भगवानाह॥ न हि भिक्षवः इदानीमेव यशोधरा मम ह्रियायन्ती अल्लीना। अन्यदापि एषा मम ह्रियायन्ती अल्लीना॥ भिक्षू आहन्सुः॥ अन्यदापि भगवं॥ भगवानाह॥ अन्यदापि भिक्षवो॥

भूतपूर्वं भिक्षवोऽतीतमध्वानं नगरे वाराणसी काशिजनपदे ब्राह्मणो कौशिकसगोत्रो। सो कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तं ऋषिप्रव्रज्यां प्रव्रजितो॥ तेन तहिं अनुहिमवन्ते गंगाकूले आश्रमं मापेत्वा पूर्वरात्रापुररात्रं जागरिकायोगमनुयुक्तेन विहरन्तेन वाहितकेन मार्गेण चत्वारि ध्यानान्युत्पादितानि पंचाभिज्ञा सा-

p. 49

क्षात्कृता। चन्द्रमसूर्यपरिमार्जको महर्द्धिको महानुभावो ऋषि संवृत्तो न च संविभागशीलो॥ तस्य दानि ज्ञातिको कायस्य भेदाद्गन्धर्वकायिकेषु देवेषूपपन्नो पंचशिखो नाम गन्धर्वपुत्रो॥ सो देवभूतो तं कौशिकं स्मरति। कहिं कौशिक आकाशि प्रवृत्तजीवो ति मृतो ति॥ सो समन्वाहरति। पश्यति तं कौशिकं ऋषिप्रव्रज्यां प्रव्रजितं। अनुहिभवन्ते गंगाकूले स आश्रमे प्रतिवसति असंविभागशीलो॥ तेन शक्रस्य देवानामिन्द्रस्य आरोचितं॥ यो मम मनुष्यभूतस्य ज्ञाति प्रियो मनापो सो ऋषिप्रव्रज्यां प्रव्रजितो अनुहिमवन्ते गंगाकूले आश्रमपदे प्रतिवसति सो च असंविभागशीलो। तस्य अनुग्रहार्थाय उपसंक्रमेम संविभागस्मिं नियोजेम॥

शक्रो दानि कौशिकस्य ऋषिस्य अनुग्रहार्थं आहारदेशकाले चन्द्रमसूर्येहि सार्धं मातलिना च संग्राहकेन पंचशिखेन च देवपुत्रेण ब्राह्मणवेशमभिनिर्मिणित्वा......कौशिकस्य ऋषिस्य आश्रमं आहारदेशकाले एकमेको उपसंक्रान्तो। स च सुनखो नानाप्रकाराणि उच्चावचानि वर्णानि उपदर्शेति॥ कौशिक आह॥

नाहं क्रिणामि नापि विक्रिणामि
न चापि मे सन्निधि अस्ति किंचित्।
परीत्तरूपं मम भोजनं इमं
स्यामाकप्रस्थं नलमेषो दुविन्नं॥

शुनख आह॥

अल्पातो अल्पकं दद्यात् अनुमध्यातो मध्यिमं।

p. 50

बहुकातो बहुकं दद्यात् अदानं नोपपद्यति॥
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च।
आर्यमार्गसमापन्नो एकांशं विन्दते सुखं॥

चन्द्रो पि उपसंक्रान्तो॥ कौशिको आह॥

नाहं क्रिणामि नापि विक्रिणामि
न चापि मे सन्निधि अस्ति किंचित्।
परीत्तरूपं मम भोजनं इमं
स्यामाकप्रस्थं नलमेषो त्रयाणां॥

चन्द्र आह॥

वडिशं सो संगिलति दीर्घसूत्रं अयोमयं।
यो अतिथिस्मिं आसीने अदत्त्वा भुंजति भोजनं॥
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च।
आर्यमार्गसमापन्नो एकांशं विन्दते सुखं॥

सूर्यो पि उपसंक्रान्तो॥ कौशिक आह॥

नाहं क्रिणामि नापि विक्रिणामि
न चापि मे संनिधि अस्ति किंचित्।
परीत्तरूपं मम भोजनं इमं
स्यामाकप्रस्थं नलमेषो चतुर्णां॥

सूर्य आह॥

मोघं तस्य हुतं भोति मोघं चापि समाहितं।

p. 51

यो अतिथिस्मिं आसीने अदत्त्वा भुंजति भोजनं॥
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च।
आर्यमार्गसमापन्नो एकांशं विन्दते सुखं॥

मातलि पि उपसंक्रान्तो॥ कौशिक आह॥

नाहं क्रिणामि नापि विक्रिणामि
न चापि मे संनिधि अस्ति किंचि।
परीत्तरूपं मम भोजनं इमं
स्यामाकप्रस्थं नलमेषो पंचानां॥

मातलि आह॥

सत्यं तस्य हुतं भोति सत्यं चापि समाहितं।
यो अतिथिस्मिं आसीने दत्त्वा भुंजति भोजनं॥
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च।
आर्यमार्गसमापन्नो एकांशं विन्दते सुखं॥

शक्रो पि उपसंक्रान्तो॥ कौशिक आह॥

नाहं क्रिणापि नापि विक्रिणामि
न चापि मे सन्निधि अस्ति अस्ति किंचित्।
परीत्तरूपं मम भोजनं इमं
स्यामाकप्रस्थं नलमेषो षणां॥

शक्रो आह॥

सरस्वतीं सो जुहोति चाहुतां गमये अपि।

p. 52

यो अतिथिस्मिं आसीने दत्त्वा भुंजति भोजनं॥
नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च।
आर्यमार्गसमापन्नो एकांशं विन्दते सुखं॥

कौशिक आह॥

उदारवर्णा इति ब्राह्मणा इमे
अयं च वो सुनखो किस्य हेतु।
उच्चावचां वर्णनिभां निदर्शये
आख्याथ मे को नु भवे भवन्तो॥

शक्र आह॥

चन्द्रो च सूर्यो च इहागता ते
अयं च सो मातलि देवसारथिः।
अहं च शक्रो त्रिदशान ईश्वरो
अयं च सो पंचशिखो.....ति॥
यस्यैष प्रतिगृह्णाति अन्नं न पानं च कौशिक।
पाणिस्वरं कुम्भथूनं मृदंगानां स्वराणि च।
सुप्तं न प्रतिबोधेन्ति प्रतिबुद्धो न नन्दति॥
..................................................................
तुवं नो ज्ञाती पुरिमासु जातिषु
त्वं कौशिका मत्सरिपापधर्मः।
तुह्यानुकंपाय इहागता स्म
मा पापधर्मो निरयं व्रजेसि॥
ये मत्सरी रोषकपापधर्मा

p. 53

प्रद्वेषका श्रमणब्राह्मणानां।
पापानि कर्माणि समाचरित्वा
इत्यो च्युताः ते निरयं व्रजन्ति॥
ये चेह दानानि ददन्ति पण्डिता
प्रसन्नचित्ताः श्रमणब्राह्मणेषु।
पुण्यानि कृत्वा इह जीवलोके
इतो च्युतास्ते सुगतिं व्रजन्ति॥

कौशिक आह॥

एषो अद्यैवं करिष्यामि पुण्यं
दास्यामि दानं श्रमणब्राह्मणेषु।
एतेहि दद्यादहमन्नपानं
नाहं अदत्त्वा अमृतं पि पास्ये॥
एवं च मे ददतो सर्वकालं
भोगा च मे व सर्वा क्षिपिहन्ति।
ततो अहं सुगतिं प्रव्रजिष्यं
प्रहाय कामानि तथाधिकानि॥

नगोत्तमे गिरिवरगन्धमादने
मोदेन्ति देववराधिपात्मजा।
उपागता ऋषिवर सर्वि पूजितुं
सुपुष्पितां द्रुमवरशाखां गृह्णिय॥
शुचिं सुगन्धां त्रिदशेहि सत्कृतां
सुपुष्पितां अमरवरेहि सेवितां।

p. 54

शाखां ददेन्सुर्नम अस्तु मारिष
यथैव मो शक्र तथैव सो तुवं॥
तां याचमानां अनुद्रक्षि ब्राह्मण
इत्यब्रीषि कलहं उदीरये।
म मह्यं पुष्पेहि इहार्थ विद्यति
या येव वो श्रेयतरा (गृह्णातु)
तदीयं त्वं एव समीक्ष ब्राह्मण
जानाहि मो मारिष या नु श्रेया।
यस्यैव नो मारिष तां दयिष्यसि
सा एव नो श्रेयतरा भविष्यति॥
अकार्यमेतं वचनं सुगात्रिका
स ब्राह्मणो क्रोधशब्दं वियाहरे।
गत्वान भूताधिपतिं हि पृच्छथ
सो एव वो ज्ञास्यति या नु श्रेया॥
तदापि तायो परमार्थदर्शिनो
उदारिका वर्णवरेण अर्थिका।
गत्वान वोचन्त्रिदशाधिपस्य
जानाहि मो मारिष का नु श्रेया॥
तान्दृष्ट्वा अनात्तमना पुरंदरो
इत्यब्रवीत् आत्तमनो सर्वेषु।
.......युष्मे सदृशा सुगात्रिका

p. 55

को थेहपूर्वं कलहं उदीरये॥
यो सर्वलोके चरति महामुनिः
नामेन सो नारदो सत्यविक्रमो।
सो अब्रवीत्पर्वते गन्धमादने
गत्वान भूताधिपतिं हि पृच्छथ॥
इतो सो उत्तरतो दिशायां
गंगाय कूले हिमवन्तपार्श्वे।
सो कौशिको दुल्लभपानभोजनो
तस्य सुधां प्रेषयि देवसारथिः॥
अग्निं जुहन्तस्य प्रतिष्ठतो मम
प्रभंकरो लोकतमोनुदो यथा।
आदित्यलोकस्मिं तथेव ईर्यसि
का देवता किस्य इहागतो सि॥
शंखोपमं श्वेत अतुल्यसन्निभं
मनोज्ञगन्धं प्रियरूपदर्शनं।
न दुष्टपूर्वं मय चक्षुषेदृशं
का देवता किन्तु ददासिदं मम॥
अहं महेन्द्रेण महर्षि प्रेषितो
सुधाहरिं त्वां त्वरितं उपागमि।
जानाहि मां मातलिं देवसारथिं
भुंजाहिमां कांक्षिषु भोगमुत्तमं॥
भुक्त्वा हिमां द्वादश....हि पापका
क्षुधापिपासां अरतिं ज्वरं क्रमा।

p. 56

क्रोधोपनाहं च विवादपैशून्यं
शीतोष्णतन्द्रीतरसं च उत्तमं॥
न मातले कल्पति मह्य भुंजितुं
पूर्वे अदत्त्वा इति ब्रुवन् अनुत्तमं।
न चापि एकस्य न मह्य वर्णितं
असंविभागो हि सुखं न विन्दति॥
मित्रं ओपायिकं पारिपन्थिका
स्त्रीघातका ये पहरन्ति अर्थं।
सर्वे पि ते मत्सरिने समा मता
प्राप्तं अदत्त्वा अमृतं पि नासे॥
ता प्रेषिता देवराजेन आत्मजा
कन्या चतस्रो तपनीयसन्निभा।
सुधां पि आदाय प्रतिग्रहार्हां
तं आश्रमं यत्र अभूषि कौशिकः॥
दृष्ट्वा तु ताः अर्थदर्शो मतीमां
प्रभासयन्तीयो अनन्तराश्रिताः।
स्थिता चतस्रो प्रमदा चतुर्दिशं
सो दानि कौशिक अध्यभाषिथ॥
पुरिमां दिशन्तिष्ठसि देवते त्वं
अलंकृता तारवरा व औषधी।
पृच्छामि ते कांचनवेदिविग्रहे

p. 57

आख्याहि मे त्वं कतमासि देवता॥
शिरी हमस्मि मनुजेषु संमता
अक्षुद्रसत्त्वा परिसेविनी सदा।
सुखेषिणी तुह्य सकाशमागता
तं मां सुधाये वरप्रज्ञ भागय॥
शीलेनुपेतं चरणेन बुद्धिये
उपेतसत्त्वं प्रगुणेन कर्मणा।
त्वया उपेतो शिरिजातिमन्तिया
प्रेषेति दासं विय भोगवां सुखी॥
अथो पि दासो अलसो अशिल्पको
सुदुर्गतो वापि नरो अरूपवां।
त्वया उपेतो शिरिजातिमन्तिया
तदिदमसाधु यदिदं त्वया कृतं॥
प्रभासयन्ती यशसा यशस्विनी
मनोरमेशाहूयनां दिशां प्रति।
पृच्छामि त्वां कांचनवेदिविग्रहे
आचिक्ष मे त्वं कतमासि देवता॥
श्रद्धाहमस्मि मनुजेषु सम्मता
अक्षुद्रसत्त्वा प्रतिसेविनी सदा।
सुखेषिणी तुह्य सकाशमागता
तं मां सुधाये वरप्रज्ञ भागय॥।
भार्यापि मे खो सदृशा हि सत्कृता

p. 58

कल्याणधर्मा च पतिव्रता च।
प्रहाय स्वकुलं धीतरा च
करोति श्रद्धां पुन कुम्भकाशिये॥
शीलं श्रुतं चापि अथापि संयमं
श्रद्धा सती यत्र.....एकदा।
नैषा सावद्येन विघातदर्शना
तदिदमसाधु यदिदं त्वया कृतं॥
सा मे व सन्तिके अपि च वद्यसे
विजाने मूढासि धूर्तानुवर्तिनी।
न एदृशी अर्हति आसनोदकं
कुतो सुधां गच्छ न मे त्वं रोचसि॥
जहाति रात्री अरुणस्मिं उद्गते
सा तिष्ठसे तारवरा व ओषधी।
पृच्छामि ते कांचनवेदिविग्रहे
आचिक्ष मे त्वं कतमासि देवता॥
मृगीव भ्रान्ता सरभाय वर्जिता
निराकृता मन्दं ममं अवेक्षसे।
का ते सहाया मृदुगात्रि लक्षते
न भायसे एकिका तुवं देवता॥
न मे सहाया इह आगता कौशिक
.....प्रवरास्मि देवता।
आशा सुधाये इह आगतास्मि

p. 59

तन्मे सुधाये वरप्रज्ञ भागय॥
आशाय क्षेत्राणि कृषन्ति कर्षका
सपुत्रदारा संघटन्ति एकतो।
नं वर्ष हरति असनी च उत्थिता
तदिदमसाधु यदिदं त्वया कृतं॥
आशाये एके मनुजा धनार्थिका
नावां समारुह्य तरन्ति (सागरं)।
आलम्बने तत्र सीदन्ति अथापि च
दुःखं निगच्छन्ति विनष्टपुण्याः॥
सा मे व सन्तिके अपि न वद्यसे
विजाने मूढासि धूर्तानुवर्तिनी।
न एदृशी अर्हति आसनोदकं
कुतो सुधां गच्छ न मे त्वं रोचसि॥
का दृष्टासि.....पिनद्धमञ्जरी
सीहांगदा सांचिप्रमृष्टधारणी।
कुशाग्ररक्ता सुपिनद्धकुण्डला
उशीरवर्णा प्रतिभाय शोभसि॥
गते यथा प्रावृषि अत्र सारदे
अलंकृता लोहितमालिनी....।
पृच्छामि त्वां कांचनवेदिविग्रहे
आचिक्ष मे त्वं कतमासि देवता॥
हिरीयमस्मि मनुजान सम्मता
अक्षुद्रसत्त्वप्रतिसेविनी सदा।

p. 60

सुखेषिणी तुह्य सकाशमागता१६१६१न तु त्वां शक्नोमि महर्षि याचितुं॥
कावर्णधातु इह स्त्री न विद्यति
जानामि धर्मेण सुगात्रि लक्षसे।
ते तां अयाचन्तिये प्रसवाम्यहं
सुधामहं जीवितं तं ददामि ते॥
त्वामेवहं कांचनवेदिविग्रहे
आमन्त्रयित्वान प्रवेक्ष्यि आश्रमं।
त्वामेवहं सर्वगुणेन पूजये
तव अदत्त्वा अमृतं पि नो अलं॥
तं आश्रवं पुष्पविचित्रसंस्तृतं
द्विजेहि घुष्टं रुचिरस्वरेहि।
सा सुच्छवी तं च प्रविष्टा आश्रव
उदकुपेतं फलमूलशोभितं॥
वृक्षाग्रणीनां बहवो नुपुष्पिता
साला पियाला पनसा च तिन्दुका।
शोभांजना लोघ्र......पाटला
सुपुण्यगन्धा मुचिलिन्दका च॥
कुवला तमाला बहवो नुवेशनं
अश्वत्थन्यग्रोध तथैवुदुम्बरा।
तिलका कदम्बा च तथैव चम्पका
प्रसातिका श्यामक तत्र तण्डुला॥

p. 61

तत्रापिनद्धप्रावृतो कुशामयो
सुपुण्यगन्धो अजिनोपसेवितो।
आशीतकुर्वी हरते निषणो
निषीद कल्याणम्सुखेन आसने॥
तस्येतवाये कुषिचाय कौशिकः
जयेत्तमानये जटायन्तं धनेन।
नेहि पात्रेहि सुधां स्वयं ददे
सा अध्यभाषि त्वरिता महामुनिं॥
तं संप्रति गृह्याण प्र्तीतमानसा
इत्यब्रवी आत्त्मना जटाधरं।
कृता त्वया कौशिक मह्य पूजा
गच्छामि दानि त्रिदशान सेवितुं॥
सा कौशिकेनानुमता द्युतीमता
जिगीषमाणा त्रिदशां उपागमि।
गत्वान सा अवच सहस्रदर्शनं
इयं सुधा वासव यो हि मे जयो॥
सो तत्र यो प्रेषित एव मातलि
परिवृत्तो देवसभाय अग्रतो।
हिती सुधां केनभिलब्धे हेतुना
इत्यब्रवी त्वं पुनरेवमाहूय॥
तं सो वताराद्विनिवर्तयेद्रथं

p. 62

जाम्बूनदं सन्तपनीयसन्निभं।
प्रज्वाल्यमानं रविकरसंनिभं
अलंकृतं सुवर्णबिम्बविचित्रं॥
गताश्च हस्तिकपिव्याघ्रद्वीपियो
मृगा च वैडूर्यमया उपागता।
तं पुष्कला ज्योतीरसमया शुभा
मणीवैडूर्यमया च ईदृशा॥
हेष्टा मनेसी उपरिं च कुप्सरं
सुवर्णचन्द्रा च रथे उपागता।
तं यानश्रेष्ठं अभिरुह्य मातलि
दश दिशायो अभिनन्दयेत् महीं॥
नगांश्च शैलांश्च वनस्पतीं च
ससागरां कम्पमानां वसुन्धरां।
सो क्षिप्रमेव त्वरितं उपागमि
तमाश्रवं यत्र अभूषि कौशिको॥
सो मातलि........
दूतो अहं पृच्छति ते पुरंदरो।
शिरीय श्रद्धाय च आशायापि च
हिरी श्रेया केन गुणेन मन्यसि॥
...............
.....शिरी मे प्रतिभाति मातलि।
श्रद्धा अनित्या पुन देवसारथि

p. 63

आशा विसंवादिकसंयता मम॥
हिरी मनापा परिशुद्धकेवला
संग्रामशीर्षे न रता प्रवर्जिता।
विपश्यमाना सुरभी उपद्रुता
हिरिनिर्वारेति स्वचित्तमात्मनो॥
हिरीह श्रेष्ठा मनुजेषु मातलि
दहरे कांक्ष्यति महल्लिके च।
प्रियं च भ्रातृव्यं करोति चण्डं
हिरिनिर्वारेति स्वचित्तमात्मनो॥
को ते इमां कौशिक दृष्टम्....
उग्रो हि इन्द्रो अथवा सहांपति।
इन्द्रो तव इन्द्रसगोत्र काङ्क्षति
तस्यैव भावसहव्रतानुज॥
स कौशिकः तं जहियान उच्छ्रयं
शीलोपपेतो असधुर्यभूतो।
पुण्यानि कृत्वा विपुलानि आश्रमे
कायस्य भेदात्स्वर्गेषु मोदति॥

स्यात्खलुः पुनः भिक्षवे युष्माकमेवं अन्यो सो तेन कालेन तेव समयेन नारदो नाम ऋशि च्भूषि कौशिकसगोत्रो। न खल्वेतदेवं द्रष्टव्यं। तत्कस हेतोः। अहं

p. 64

सो भिक्षवस्तेन कालेन तेन समयेन नारदो नाम ऋषिरभूषि कौशिकगोत्रो॥ स्यात्खलु पुनर्भिक्षवो एवमस्या अन्या सा तेन कालेन तेन समयेन शक्रस्य देवानामिन्द्रस्य हिरी नाम धीता आसि। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोर्भिक्षवो। एषा एव यशोधरा तेन कालेन तेन समयेन शक्रस्य देवानामिन्द्रस्य हिरी नाम धीता अभूषि। तदापि एषा मम ह्रीयायन्ती अल्लीना। एतरहिं पि मम एषा ह्रीयायन्ती अल्लीना॥

समाप्तं मंजरीजातकं॥

भिक्षू भगवन्तमाहन्सुः। कथं भगवं यशोधरा न शक्यति तोषयितुं॥ भगवता कुमारभूतेन कन्यानामलंकारां पि विश्राणय्अन्तेन यशोधराये शतसहस्रमूल्यं हारं दिन्नं। सा च आह। एत्तकमात्रं अर्हामि॥ कुमारेण भूयो शतसहस्रमूल्यं अंगुलीयकं दिन्नं तथापि न सन्तुष्यति॥ कथं यशोधरा अतृप्ता न शक्यति राधयितुं॥ भगनाह॥ एषा भिक्षवो यशोधरा न इदानीमेव अतृप्ता अन्यदापि एषा अतृप्ता॥

भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे राजा सुप्रभो नाम राज्यं कारयेसि। तस्य कुमारो सुतेजो नाम कृतपुण्यो महेशाख्यो निवातो सुखसंस्पर्शो पूर्वालापी प्रियभाषी अमात्यानां भट्टबलाग्रस्य श्रेष्ठिस्य नैगमस्थानां सर्वस्य इष्टो बहुमतश्च॥ राज्ञो उत्पन्नो। इमो सर्वजनकायो कुमारस्य गुणगृहीतो कदाचिदेते मम जीविताद्व्यपरोपयित्वा कुमारं राज्ये प्रतिष्ठापयेन्सुः। तेन राज्ञा सो कुमारो विप्रवासितो॥ सो दानि कुमारो भार्याय सार्धं अनु-

p. 65

हिमवन्ते अन्यतरस्मिं वनखण्डे तृणकुटिं च पर्णकुटिं च कृत्वा प्रतिवसति मूलपत्रफलोदकेन यापेन्तो सुखोपपन्नानि च मृगवराहमान्सानि परिभुंजन्तो॥ तस्य दानि आश्रमातो [निर्गतस्य] मार्जारेण वठरां गोधां मारेत्वा तस्य भार्याये अग्रतो निक्षिपित्वा गतं॥ सा तां गोधां पाणिनापि च न स्पृशति॥ कुमारो मूलपत्रफलानि आदाय आश्रमं गतो पश्यति च आश्रमे तां गोधां रौद्रां वठरां। सो तां राजधीतां पृच्छति कुतो इमा गोधा॥ सा आह॥ एषा मार्जारेण आनीता॥ कुमारो आह॥ किं दानि एषा गोधा सिद्धा॥ सा नं आह॥ गोमयो ति कृत्वा न सिद्धा॥ कुमारो आह॥ न एषा गोधा अभक्ष्या भक्ष्या एषा मनुष्याणां॥ सा दानि गोधा तेन कुमारेण निर्छविकृत्वा पक्वा। पचित्वा द्रुमशाखायामोलंबिता॥ सा चास्य भार्या घटमादाय उदकहारिं गता। गच्छामि अहं उदकमाहरिष्यामि। ततः आहारं करिष्यामि॥

ताये तां गोधां पक्वां समानां दृष्ट्वा वर्णसंपन्नां च गन्धसंपन्नां च अलूहां च प्रत्यग्रां च अभिलाषमुत्पन्नं। कुमारस्यापि ताये भार्याये एतदभूषि। एषा राजधीता इमां गोधां असिद्धां हस्तेनापि न इच्छति स्पृशयितुं। यत्र च वेलां पक्वा ततः अभिनन्दति भोक्तुं। यदि एताय मम मूले प्रेमा भवे तदेषा गोधा मया फलहारगतेन सिद्धा भवेया। नास्या अतो गोधाये किंचित्संविभजयिष्यं गोधां परिभुंजिष्यामि॥ तेन सा गोधा ताये राजधीतरे उदकहारिं गताये खादिता राजधीता च उदकघटमादाय आगता॥ सा दानि कुमारस्याह॥ आर्यपुत्र कहिं सा गोधा॥ कुमार आह॥ पलायिता॥ सा चिन्तेति। कथं पक्वा गोधा वृक्षशा

p. 66

खायामालग्ना पलायिता ति॥ तस्या राजधीताये एतदभूषि। नाहं कुमारस्य इष्टा॥ तस्या तं दौर्मनस्यं हृदयं प्रविष्टं॥

सर्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितं।
यथाकर्म करिष्यन्ति पुण्यपापफलोपगा॥
नरकं च पापकर्माणो कृतपुण्या च स्वर्गतिं
अपरे च मार्गं भावेत्वा निर्वास्यन्ति अनाश्रवाः॥

सो दानि राजा सुप्रभो कालधर्मेण संयुक्तो। अमात्येहि सुतेजो कुमारो वनातो आनेत्वा राज्ये वाराणसीयं अभिषिक्तो॥ राज्ञो सुतेजस्य देवीय मूले न किंचिदपरित्यक्तं। न किंचितत्र राज्ये रत्नसंमतं। सर्वं देवीये उपनामेति यानि वस्त्राणि उदाराणि आभरणानि हारार्धहाराणि तानि देवीय उपनामयति न च शक्नोति आराधयितुं। ताये च नं गोधा हृदयं गता॥ तस्य राज्ञो सुतेजस्य भवति। अहं देवीये न सा किंचिद्गुणजाती यां न करोमि न सा किंचित्प्रियता यां न दर्शेमि न च शक्नोमि तोषयितुं॥ सो तामाह॥ देवि अहं तव न किंचिद्गुणजाती यां न करोमि न सा च प्रियता यां न दर्शेमि न च शक्नोमि तोषितुं न परिबुद्ध्यामि किमत्र अन्तरं। जल्पतु देवी॥ सा दानि देवी तं सुतेजं राजानं गाथया वाध्यभाषति॥

अद्यापि ते तं वनस्मिं अवबुद्ध्यामि क्षत्रिया
यस्य ते धनुहस्तस्य सानुबद्धकलापिनो।
ओलग्ना द्रुमशाखायां पक्वा गोधा पलायिता॥

राजा आह॥

नमे नमन्तस्य भजे भजन्तं

p. 67

कृतानुकार्यस्य करेय अर्थं।
असंभजन्तं च न संभजेय
नानर्थकामस्य करेय अर्थं॥
त्यजे त्यजन्तं सततं न गच्छे
अपेतभावेन न संवसेया।
द्विजो द्रुमं क्षिणफलं विंदित्वा
अन्यं परीक्षेय महां हि लोको॥

स्यात्खलु पुनर्भक्षवः युष्माकमेवमस्यादन्यो सो तेन कालेन तेन समयेन सुतेजो नाम राजा अभूषि। न खल्वेवं द्रष्टव्यं॥ तत्कस्य हेतोः॥ अहं सो तेन कालेन तेन समयेन वाराणसीयं सुतेजो नाम राजा अभूषि॥ अन्या सा राज्ञो सुतेजस्य देवी अभूषि अग्रमहिषी। न खल्वेतदेवं द्रष्टव्यं। एषा सा भिक्षवः यशोधरा राज्ञो सुतेजस्य देवी अग्रमहिषी अभूषि। तदापि एषा अतृप्ता न शक्यति तोषयितुं। एतरहिं पि एषा अतृप्ता न शक्यति तोषयितुं॥

इति श्रीगोधाजातकं समाप्तं॥

भिक्षू भगवन्तमाहन्सुः। भगवता कुमारभूतेन उद्याने कन्यानामाभरणानि विश्राणयन्तेन यशोधराये एव बहुकं दिन्नं। भगवानाह॥ न भिक्षवो इदानीमेव मया यशोधराये बहुकं दिन्नं॥ भिक्षू आहन्सुः॥ अन्यदापि भगवन्॥ भगवानाह॥ अन्यदापि भिक्षवः॥

भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे राहा राज्यं कारयति कृतपुण्यो महेशाख्यो संगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महावाहनो। तस्य तं राज्यं ऋद्धं च स्फीटं च क्षेमं च सुभिक्षं चाकी-

p. 68

र्णजनमनुष्यं च सुखिबहुजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसंपन्नं॥ तस्य दानि राज्ञो पञ्चशतमन्तःपुरं। तस्य या अग्रमहिषी सा सर्वस्यान्तःपुरस्यातीव प्रासादिका च दर्शनीया च पण्डिता च विधिज्ञा च सर्वकलासमन्वागता च॥ सो राजा अभीक्ष्णं अन्तःपुरस्य वस्त्राणि च आभरणानि च विश्राणेति। तस्यापि राज्ञो शतसहस्रमूल्यो हारो आबद्धको तस्य च हारस्य मध्ये मणिरत्नं यत्र चत्वारि महाद्वीपा दृश्यन्ति जम्बुद्वीपो पूर्वविदेहो अपरगोदानीयो उत्तरकुरुः सुमेरुश्च पर्वतराज। अनेकशतसहस्रमूल्यं तं मणिरत्नं तस्य महाहारस्य मध्ये॥ तां देवीं पृच्छति आभरणानि विश्राणेन्तो॥ देवि अतीव त्वं मे मनं हरसि। को त्र उपायो येन देवी मे मनं हरति॥ सा दानि हेवी तं राजानं हाथयाध्यभाषति।

चेष्टालीलासमाचारा निमित्तस्य च ग्राहणं।
कौतूहालेन चपनास्त्रिभिरारज्यन्ति पार्थिव॥

स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं स भिक्षवस्तेन कालेन तेन समयेन काशिराजा अभूषि। अन्या सा तेन कालेन तेन समयेन काशिराजस्याग्रमहिषी। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एषा सा भगवती यशोधरा तेन कालेन तेन समयेन काशिराजस्याग्रमहिषी अभूषि। तदापि एतस्या मया बहुं दिन्नं॥

इति श्रीयशोधराये हारप्रदानजातकं समाप्तं॥

यदा बोधिसत्वो अकामकानां मातापितृणामश्रुकण्ठानां रुदन्मुखानां हस्तोक्तं

p. 69

च चक्रवर्तिराज्यमपहाय अलूहं च गृहवासमपहाय अगारादनगारिकां प्रव्रजितो तदा यशोधरा देवदत्तेनोच्यते॥ मम भ्राता प्रव्रजितो आगच्छ मम अग्रमहिषी भविष्यसि॥ सा दानि न इच्छति बोधिसत्वमेव अभिकांक्षति। सुन्दरनन्देनापि  वुच्चति। मम भ्राता प्रव्रजितो आगच्छ मम अग्रमहिषी भविष्यसि। तस्यापि न इच्छति बोधिसत्वमेवाभिकांक्षति॥ यदा भगवां प्रवृत्तधर्मचक्रो तदाहिं एतं भिक्षुभि श्रुतं। भिक्षू भगवन्तं पृच्छन्ति। कथं भगवं यशोधरा सुन्दरनन्देन च देवदत्तेन च प्रार्थयन्ती न इच्छति भगवन्तमेव प्रार्थेति॥ भगवानाह॥ न भिक्षवो इदानीमेव यशोधराये सुन्दरनन्देन च देवदत्तेन च प्रार्थयमाना न इच्छति मम एवाभिकांक्षति। अन्यदापि एषा एतेहि प्रार्थयन्ती न इच्छति मम एवाभिकांक्षति॥

भूतपूर्वं भिक्षवो अतीतमध्वाने हिमवन्तपादमूले सर्वेषां चतुष्पदानां समागमो अभुषि॥ अस्माकं राजा नास्ति चतुष्पदानां राजा स्थपीयतु॥ तहिं तेषामुत्पन्नं थपीयतु चतुष्पदानां राजा त्ति प्रवरं॥ ते आहन्सुः। को दानि चतुष्पदानां राजा स्थपीष्यतीति॥ तेषां दानि उत्पन्नं। यो अस्माकमितो सप्तमं दिवसं सर्वप्रथमं हिमवन्तं पर्वतराजं गमिष्यति सो चतुष्पदानां राजा भविष्यति॥ ते एवं समयं कृत्वा ततो प्रदेशातो येन हिमवन्तो पर्वतराजा तेन प्रधाविता॥ तेषां सर्वेषां पृष्ठतो कृत्वा व्याघ्री हिमवन्तं पर्वतराजानं अनुप्राप्ता॥ व्याघ्री हिमवन्तं पर्वतराजानं गत्वा चतुष्पदानां प्रतिपालेति॥ चतुष्पदा च सर्वे हिमवन्तं पर्वतराजमनुप्राप्ता। तत्र च तां व्याघ्रीं पश्यन्ति प्रतिपालेन्ती॥ ते दानि चतुष्पदा तां

p. 70

व्याघ्रीं दृष्ट्वा आर्तसंजाता दुर्मना। इस्त्रिया स्म पराजिता न च कहिंचित् इस्त्रियो राजा सर्वत्र पुरुषा। यथा अस्माकं न अलिकं भवेय पुरुषो च राजा भवेय॥ तेहि सा व्याघ्री उक्ता॥ भद्रे यं तुवं पतिमिच्छसि सो चतुष्पदानां राजा भविष्यतीति॥ तां व्याघ्री ऋषभो अल्लीनो॥ भद्रे मम पतिं वरेहि॥ अहं लोके मंगलभूतो मम गोमयेन देवकुलानि उपलिप्यन्ति देवकार्याणि च क्रियन्ति॥ सा दानि व्याघ्री आह॥ नाहं तव पतिं इच्छेय त्वं फालेहि व शकटेहि च नित्यभग्नप्रलग्नो॥ हस्तिनागो पि तां व्याघ्रीं उपसंक्रान्तो आह॥ भद्रे अहं बलवांश्च संवृद्धकायो च संग्रामेहि च अपराजितो मम गृह्णाहि॥ व्याघ्री आह॥ न हि त्वं सिंहे नदमाने न उच्चारप्रस्रावं मुंचमानो पलायसि॥ सिंहो पि मृगराजो अल्लीनो॥ भद्रे मम पतिं वरेहि मम सर्वे मृगसंघा त्रसन्ति॥ व्याघ्री आह॥ मृगराज मूर्घ्ने पि पतिता प्रतीच्छामि॥

चतुष्पदानां सर्वेषां महा आसि समागमो।
आराजकमिदमस्माकं को त्र राजा भविष्यति॥
हिम्वन्तं पर्वतराजं यो मो प्रथमो गमिष्यति।
इतो सप्तमे दिवसे सो यं राजा भविष्यति॥
सिंहा व्याघ्रा मृगा चैव हस्तिनो वृषभा वृका।
न शक्नुवन्ति अन्वेतुं गता प्रथमा पर्वतं॥
प्रासादिकं दर्शनीयं हिमवन्तं नगोत्तमं।
गत्वान व्याघ्री प्रथमं प्रविचारेति चतुष्पदां॥
गत्वा चतुष्पदा सर्वे व्याघ्रीं पश्यन्ति ते तहिं।

p. 71

दृष्ट्वा च अर्द्धिता अभूषि इस्त्रिये स्म पराजिता॥
न अस्ति स्त्रियो राजानो न च मो अलिकं भवेत्।
यं व्याघ्री पतिमिच्छेय सो यं राजा भविष्यति॥
मम गोमयेन कल्पानि देवकार्याणि क्रियन्ति।
ऋषभो अवच तत्र मम भद्रे पतिं वरेत्॥

व्याघ्री आह॥

नित्युत्थितं सदा किलान्तं शकटेहि लांगलेहि च।
नो तादृशं पतिमिच्छे मनुष्ये यदि भवेल्लोके॥

हस्तिनागो आह॥

अहमनुचरोपेतो संग्रामे अपराजितो।
हस्तिनागो बली तत्र मम भद्रे पतिं वरेत्॥
व्याघ्री आह॥

सिंहस्मिं नदमानस्मिं तुवं भीतो पलायसि।
छर्दगूथमेव सृजं नेच्छेयं तादृशं पतिं॥

सिंहो आह॥

अनुपूर्वसुजातस्कन्धो
सिंहो पर्वतगोचरो हमस्मि।
मृगसंघा त्रसन्ति सर्वे
त्वं भद्रे मम र्भतारं वरेहि॥

p. 72

व्याघ्री आह॥

सर्वाकारवरोपेतं गिरिं वा स्वयमागतं।
एतादृशं पतिमिच्छे मूर्ध्नेनापि प्रतीच्छितं॥

स्यात्खलु पुनर्भिक्षवो युष्माकमेवं स्यादन्यः स तेन कालेन तेन समयेन सिंहो मृगराजा अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं सो भिक्षवो तेन कालेन तेन समयेन सिंहो मृगराजा अभूषि॥ अन्यो सो तेन कालेन तेन समयेन ऋषभो अभूषि। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एष भिक्षवः सुन्दरनन्दो तेन कालेन तेन समयेन ऋषभो अभूषि॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन हस्तिनागो अभूषि। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एष भिक्षवो देवदत्तो तेन कालेन तेन समयेन हस्तिनागो अभूषि॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्या सा तेन कालेन तेन समयेन व्याघ्री अभूषि। एषा सा यशोधरा॥ तदापि एषा एतेहि प्रार्थयन्ती न इच्छति मम एवाभिकांक्षति। एतरहिं पि एषा एतेहि प्रार्थियन्ती न इच्छति मम एवाभिकांक्षति॥

इति श्रीयशोधराये व्याघ्रीभूताये जातकं समाप्तं॥

बोधिसत्वस्य उद्याने कन्यानां रत्ना विश्राणयन्तस्य यशोधरा सर्वपश्चा आगता सर्वेहि अलंकारेहि विश्राणियन्तेहि॥ [राज्ञा शुद्धोदनेन अमात्या आणत्ता। कतमत्र कन्याये कुमारस्य चक्षु निपतन्ति॥] कुमारस्य यशोधरां दृष्ट्वा ताये चक्षु निपतितं। यो कुमारस्य हारो आबद्धको महारहो शतसहस्रमूल्यो सो हारो कुमारेण ओमुञ्चिय यशोधराये दिन्नो॥ सार्धप्रहसन्ती आह॥ इयमहं एत्तकं

p. 73

अरहामीति॥ कुमारेण प्रहसन्तेन शतसहस्रमूल्या अंगुलिका अंगुलीतो ओमुंचियान दिन्ना॥ एवं कुमारो रतनानि कन्यानां विश्राणेत्वा राजकुलं प्रविष्टो॥ राजा अमात्यान्पृच्छति॥ कतमायां कन्यायां कुमारस्य चक्षु निपतितं॥ अमात्या आहन्सुः॥ सा महाराज महानामस्य शाक्यस्य यशोधरा नाम धीता। तत्र कुमारस्य चक्षु निपतितं॥ राज्ञा महानामस्य प्रेषितं। यशोधरां धीतां मम पुत्रस्य देहि सर्वार्थसिद्धस्य कुमारस्य॥ महानामो संदिशति राज्ञो शुद्धोदनस्य॥ न शक्यामि यशोधरां कुमारस्य दातुं। यत्कारणं कुमारो अन्तःपुरे संवृद्धो न कहिंचिदागतो शिल्पे वा इष्वस्त्रे वा हस्तिस्मिं वा धनुत्सरुस्मिं वा राजशास्त्रेषु वा न कहिंचित्कुमारो गतिंगतः॥ राज्ञो शुद्धोदनस्य श्रुत्वा दौर्मनस्यं जातं। एवमेतं यथा महानामो जल्पति। न मया कुमारो कहिंचि शिल्पे शेषितो अतिप्रेम्नेन॥ सो दानिं राजा दुर्मना गृहं प्रविष्टो। कुमारेण दृष्टो पिता॥ कुमारो पितरं पृच्छति। किं तातो दुर्मना॥ राजा आह। भवतु पुत्रं किं तवैतेन॥ कुमारो आह॥ न हि तात अवश्यं आचिक्षितव्यं॥ राज्ञा कुमारं गुरुकं प्रेक्ष्य तेन भूयो भूयः पृच्छमानेन आचिक्षितं॥ एवं चैवं च महानामेन शाक्येन आचिक्षितो तव अर्थेन यशोधरां याचयमानेन। तव पुत्रो अन्तेपुरसंवृद्धो न कहिंचि शेषितो शिल्पे वा इष्वस्त्रज्ञाने वा हस्तिस्मिं वा रथस्मिं वा धनुस्मिं वा। नाहं तस्य धीता दद्येहं॥ कुमारो पि श्रुत्वा पितरमाह॥ मा तातो उत्कण्ठतु। नगरजनपदे घोषणां कारापेहि कुमारो सप्तमं दिवसं दर्शनं दास्यतीति। यो तत्र

p. 74

शिक्षितो सो आगच्छतु यदि शिल्पज्ञाने यदि इष्वस्त्रज्ञाने युद्धे वा नियुद्धे वा छेदे वा भेदे वा जवे वा बलाहुक्के वा हस्तिस्मिं वा अश्वस्मिं वा रथस्मिं वा धनुस्मिं वा थरुस्मिं वा उपवितर्केषु वा॥ राजा शुद्धोदनो श्रुत्वा प्रीतो संवृतो॥ तेन नगरे कपिलवस्तुस्मिं जनपदे घोषणा कारापिता यथा कुमारो सप्तमं दिवसं दर्शनं दास्यतीति। यो तत्र शिक्षितो सो आगच्छतु यदि शिल्पज्ञाने यदि इष्वस्त्रज्ञाने॥ अन्येहि पि अधिष्ठानेहि दूता प्रेषिता। शुद्धोदनस्य सर्वार्थसिद्धो कुमारो सप्तमं दिवसं दर्शनं दास्यति। यो तत्र शिक्षितो सो आगच्छतु॥

तहिं कपिलवस्तुनो जनकायो निर्धावति जनपदेष्वपि जनो आगच्छति। अन्येहि पि अधिष्ठानेहि कौतूहलजातः आगच्छति। शाक्यकुमाराणां विभवं पश्यिष्यामः बलपराक्रमं च कुमारस्य सर्वार्थसिद्धस्य पश्यिष्यामः॥ तहिं अनेकायो जनसहस्रियो समागतायो कुमारा कपिलवस्तुतो निर्धावन्ति च॥ अपरो पि भ्रान्तो हस्तिनागो वहिर्नगरातो कपिलवस्तुं प्रविशति षष्टिहायनो परमेन स्थामेन च समन्वागतो। देवदत्तो च कपिलवस्तुतो तं दर्शनस्थानं निर्धावति हस्तिस्कन्धवरगतो। तस्य सो हस्तिनागः भ्रान्तो अभिमुखो आपतितो। तेन रुषितेन देवदत्तेन सो हस्तिनागो षष्टिहायनो तलप्रहाराय एकाहत्यं कृत्वा तत्रैव नगरद्वारे निहतो। सो तं हस्तिनागं हत्वा निर्धावितो तं द्वारं॥ तत्र महाजनकायस्य संपिण्डा सुन्दरनन्दो च कुमारो अनुप्राप्तो॥ सो पृच्छति भो भणे किस्येदं नगरद्वारे हनसंपिण्डा॥ जनो आह॥ देवदत्तेन निर्धावन्तेन एषो हस्तिनागो एकाये त-

p. 75

लप्रहाराये हतो। तेन हस्तिनागेन एवं नगरद्वारमोरुद्धं न च तं देवदत्तो शक्नोति अतः नगरद्वारतो अपकर्षयितुं लंघयित्वा अतिक्रान्तो॥ सो दानि हस्तिनागो सुन्दरनन्देन यानातो अवतरित्वा ततो द्वारतो सप्त पदां कड्ढितो। दृष्ट्वा महाजनकायेन हक्कारो मुक्तो। अहो कुमारस्य सुन्दरनन्दस्य उत्साहो॥ सुन्दरनन्दो पि तं हस्तिनागं द्वारतो सप्त पदानि अपकर्षित्वा अतिक्रान्तो॥ बोधिसत्वो महता समृद्धीये अनुप्राप्तः॥ बोधिसत्वो पृच्छति। किस्य एष नगरद्वारे महां जनकायसमागमो॥ ते आहन्सुः॥ कुमार देवदत्तो च कपिलवस्तुतो निर्धावति भ्रान्तो च हस्तिनागो प्रविशति नगरद्वारं अभिमुखो देवदत्तस्य आपतितो। तेन रुषितेन सो हस्तिनागो एकाय तलप्रहाराये निहतो सो एषो हस्तिनागो नगरद्वारं ओरुन्धित्वा पतितो च। देवदत्तो न शक्नोति अतः नगरद्वारातो अपकर्षितुं लंघित्वा अतिक्रान्तो। सुन्दरनन्देन सप्त पदानि कड्ढितो। तदेष जनकायो संपिण्डाये कथं पि निर्धावति॥ तेन कालेन तेन समयेन कपिलवस्तु सप्तहि प्राकारेहि परिक्षिप्तो अभूषि। बोधिसत्वेन यानातो अवतरित्वा मातापितृकेन बलेन तं हस्तिनागं अतो नगरातो तेषां सप्तानां प्राकाराणां परतरेण क्षिप्तो॥ तं बोधिसत्वस्य उत्साहं दृष्ट्वा अनेकेहि देवमनुष्यसहस्रेहि हक्कारा मुक्ताः बोधिसत्वो पि निर्धावितो॥ राजापि शुद्धोदनो शाक्यमण्डलपरिवृतो महानामो पि शाक्यो निर्धावितो॥

तहिं कुमारेण सर्वार्थसिद्धेन दर्शनो दिन्नः सर्वशिल्पकर्मायतनानि कुमारेण संदर्शिता। सिद्धार्थकुमारस्य न कोचित्समसमो तथा युद्धे वा निर्युद्धे वा न कोचित्कुमारस्य समसमो॥ पश्चिमे निदर्शने बाणा विध्यन्ति॥ एते दश क्रोशा तत्र सप्त तालाः। सप्त ताला क्रोशान्तरेण निखता सप्तानां तालानां पुरतो भेरी ओ-

p. 76

च्छ्रिता॥ तत्र कोचित् एकतालस्कन्धं निस्ताडेति कोचि द्वे तालस्कन्धान्निस्ताडेति। देवदत्तस्य शरो द्वे तालस्कन्धा निस्ताडित्वा तृतीये तालस्कन्धे लग्नो। सुन्दरनन्दस्य शरो त्रयस्तालस्कन्धां निस्ताडेत्वा चतुर्थस्य तालस्कन्धस्य अन्तरभूम्यां निपतितो॥ बोधिसत्वेन देवकुलातो पितामहस्य सिंहनुष्य राज्ञो धनुस्तत्र आनापितं॥ सो धनु तत्र रंगमध्ये निक्षिप्तो। यो शक्नोति एतं धनु पूरयितुं धारेतु॥ तं धनु हस्तातो जनकायेन जिज्ञासितो न च शक्नोति कोचित्पूरयितुं। शाक्यकुमारेहि पि सर्वेहि जिज्ञासितं न कोचिश्शक्नोति पूरयितुं। कोलियकुमारेहि पि जिञासितं लिच्छविकुमारेहि पि जिज्ञासितं अन्येहि पि कुमारेहि जिज्ञासितं न कोचि शोक्नोति पूरयितुं॥ पश्चाद्बोधिसत्वेन गृहीतं। पितामहस्य गौरवेण तं धनुं बोधिसत्वेन गन्धमाल्येन पूजेत्वा पुरीतं॥ तस्य धनुष्य पूरियन्तस्य सर्वकपिलवस्तुं शब्देन विज्ञापितं देवमनुष्येहि च हक्कारं मुक्तं॥ एवं सप्ततालं बोधित्वेनैकशर्ण निस्ताडेत्वा सापि भेरी निस्ताडिता भेरीं निस्ताडेत्वा रसातलं प्रविष्टो॥ देवमनुष्येहि हक्कारं मुक्तं। देवतानां सहस्रेहि च अन्तरीक्षातो दिव्यं कुसुमवर्षं ओसृष्टं॥ कुमारस्य बलपराक्रमं बुद्धिबलं च दृष्ट्वा सर्वत्र गतिंगतो बलेन च ऋद्धीयेन च ज्ञानेन च सर्वशाक्यराष्ट्रं तथान्ये पि राजानो प्रीता संवृत्ताः। सुलब्धा लाभा शाक्यानां राज्ञो च शुद्धोदनस्य यस्य अयमेदृशो महापुरुषो उत्पन्नो॥

यदा बोधिसत्त्वो अभिनिष्क्रान्तो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो प्रवृत्तप्रव-

p. 77

रधर्मचक्रो तदा एतं प्रकरणं भिक्षुभि श्रुतं॥ भिक्षु भगवन्तमाहन्सुः। भगवता चिरप्रणष्टा शाकियमुष्टि ज्ञाता॥ भगवानाह। न भिक्षवो एतरहिं येव मये चिरप्रणष्टा शाक्यमुष्टि ज्ञाता। अन्यदापि मये चिरप्रणष्टा शाक्यमुष्टि ज्ञाता॥ भगवानाह॥

भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे ब्रह्मदत्तो नाम राजा राज्यं कारयति। निहतप्रत्यर्थिको निहतप्रत्यमित्रो सुनिगृहीतजनपदो दानसंविभागशीलो कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो। तस्य तं राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च॥ तस्य राज्ञो पुरोहितो ब्रह्मायुः नाम त्रयाणां वेदानां पारगो सनिर्घण्ठकैटभानां इतिहासपंचमानां अक्षरपदव्याकरणे अनल्पको। सो यमाचार्यः कुशलो ब्राह्मणवेदेषु पि शास्त्रेषु दानसंविभागशीलो दश कुशलकर्मपथां समादाय वर्तति॥ तस्य पुत्रो धर्मपालो नाम माणवको॥ तस्य ब्रह्मायुस्य भवति। समयो मम पुत्रस्य धर्मपालस्य वेदानि अधीयितुं न चैष युक्तो मम सकाशातो वेदानि अधीतुं। पितृविश्रम्भेणापि नाधीष्यति गुरुकुले नं दास्यामि॥ अयमपि ब्राह्मणो वेदपारगो अनुहिमवन्ते आश्रमे पंच वटुकशतानि वेदां वाचेति। तेन सो धर्मपालो तस्य ब्राह्मणस्य अनुपरीत्तो वेदानध्यापेहीति॥

तस्यापि दानि आश्रमस्य अविदूरे महानुदकह्रदो तत्र च उदकह्रदे उदकराक्षसो प्रतिवसति पुनर्पुनः जनं स्नपयन्तं मारेति॥ सो धर्मपालो माणवको तहिं उदकह्रदे पुनर्पुनः स्नापयति॥ तस्य  ब्राह्मणस्य भवति॥ अत्र उदकह्रदे उदकराक्षसो प्रतिवसति पुनःपुनर्मनुष्यां मारेति एषो च धर्मपालो पुरोहितपुत्रो तत्र उद-

p. 78

कह्रदे स्नापयति। सचे दानि तत्र स्नायन्तो उदकराक्षसेन खज्जेय पुरोहितो अस्माकं अपरितुष्टो भवेय किं तुम्हेहि उदकह्रदातो न वारितो॥ सो दानि तेन उपाध्यायेन धर्मपालको माणवको शब्दापितो उच्यति॥ मा अत्र उदकह्रदे स्नायाहि अत्र उदकह्रदे राक्षसो दारुणो प्रतिवसति। मा तेन उदकराक्षसेन खज्जिष्यसि॥ तत्र च उदकह्रदे महेशाख्यो नागो प्रतिवसति महापरिवारो तस्य च नागराज्ञो पुत्रो धर्मपालेन माणवकेन सार्धं प्रीणयति कथासमुल्लापेन रमति। तेन सो मानवको नागभवनान्तः तारितो॥ तेन माणवकेन सार्धं सो नागकुमारो कथासमुल्लापेन रमति तत्र च नागभवने धर्मपालो माणवको दश कुशलां कर्मपथां देशयति॥ अपरो च माणवको धर्मपालस्य समवयो सदृशो च ग्रामान्तरं तेन मार्गेण गच्छन्तो तहिं उदकह्रदे उदके स्नायते। सो तेन उदकराक्षसेन मारितो तहिं उदकह्रदे अर्धखादितको प्लवन्तो अपरेण माणवकेन दृष्टो॥ तेन आश्रमं गत्वा उपाध्यायस्य आरोचितं धर्मपालो उदकराक्षसेन खायितो ति॥ सो ब्राह्मणो सर्वेहि तेहि पंचहि वटुकशतेहि सार्धं तं उदकह्रदं गतो पश्यति च तं माणवकं उदकराक्षसेन अर्धखादितकं प्लवन्तं। तेहि तं दृष्ट्वा सर्वेहि रावो मुक्तो॥ तेहि ततो उदकातो उत्क्षिपित्वा काष्ठानि समावर्तयित्वा ध्यायिनो॥ तानि अस्थीनि घटके कृत्वा सपरिवारो वाराणसिं गतो ब्रह्मायुस्य मूले। अश्रुकण्ठो रुदन्मुखो ब्रह्मायुष्य उपसंक्रमित्वा आह॥ स धर्मपालो उदकराक्षसेन मारितो। इभानि अस्थीनि॥ ब्रह्मायु ब्राह्मणं आह॥ नास्ति एतन्ति धर्मपालो दहरो कुमारो नापि अस्माकं कुले दहरा मृतपूर्वा॥ सो दानि ब्रह्मायुर्ब्राह्मणो तं धर्मपालस्य उपाध्यायं गाथाय अध्यभाषसि॥

p. 79

प्राणं न हिंसेय नदिन्नमादिये
पापं च कर्मं मनसापि न चरेत्।
सर्वे अनार्जं परिवर्जेयामः
तस्मा हि अस्माद्दहरो न मृय्यति॥
न च मो कदाचिदस्ति क्रोधो
न चापि क्रुध्याम वयं कदाचित्।
क्रुद्धे पि नो चापि करोम कोपं
तस्मा हि अस्माद्दहरो न मृय्यति॥
शृणोम धर्मं असतां सतां च
नो चापि धर्मं असतां रोचयाम।
असतां हि त्वसतां रोचयामः।
तस्मा हि अस्माद्दहरो न मृय्यति॥
ददाम दाना बहुशो बहूनि
नो चापि नो अप्रियो याचमानो।
दत्त्वा च दाना ननुतप्यमाना
तस्मा हि अस्माद्दहरो न मृय्यति॥
ये ब्राह्मणा श्रवणशीलवन्तो
घोषेषिणो याचनका उपेन्ति।
प्रियं मो तेषां श्रवणदर्शनं च
तस्मा हि अस्माद्दहरो न मृय्यति॥
ये ब्राह्मणा श्रवणशीलवन्तो

p. 80
घोषेषिणो याचनका चरन्ति।
तानन्नपानैरभितर्पयामः
तस्मा हि अस्माद्दहरो न मृय्यते॥
ये चापि मो याचनका उपेन्ति
अन्धा अनाथा कृपणा अनायकाः।
तानन्नपानैरभितर्पयामः
तस्मा हि अस्माद्दहरो न मृय्यते॥
वयं च भार्यां अनतिक्रमामो
भार्या पि अस्मान्न अतिक्रमाति।
ततो वयं धर्मचर्यं चरामः
तस्मा हि अस्माद्दहरो न मृय्यति॥
यो जायते सो भवते सुशीलो
सुसंयतो सुव्रतो ऋजुभूतः।
अध्यापको भोति समाप्तपादः
तस्मा हि अस्माद्दहरो न मृय्यति॥
माता पिता भगिनी भ्रातरो च
ये चापि ज्ञातयो अनन्यपक्षिका।
चराम धर्मं परलोकहेतोः
तस्मा हि अस्माद्दहरो न मृय्यति॥
माता पिता भगिनी भ्रातरो च
ये च कुलप्रेष्यकरा भवन्ति।
चराम धर्मं परलोकदर्शी
तस्मा हि अस्माद्दहरो न मृय्यति॥
धर्मो हि वै रक्षति धर्मचारिं


p. 81
छत्रं महन्तं यथ वर्षकाले।
एषो नुशंसो धर्मे सुचीर्णे
न दुर्गति गच्छति धर्मचारी॥
अधर्मचारी हि नरो प्रमत्तो१६यां यां गतिं गच्छति अधर्मचारी।
सो नं अधर्मो चरितो हनाति
सामं गृहीतो यथ कृष्णसर्पो॥
न हि धर्मो अधर्मो च उभौ समविपाकिनौ।
अधर्मो निरयं नेति धर्मो प्रापेति स्वर्गतिं॥
धर्मो हि वै रक्षति धर्मचारिं
छत्रं महन्तं यथ वर्षकाले।
धर्मेण गुप्तो मम धर्मपालो
अन्यस्य अस्थीनि सुखी कुमारो॥

सो ब्राह्मणो सपरिवारो भोजयित्वा ब्रह्मायुना ब्राह्मणेन विसर्जितो सो च ब्राह्मणो आश्रमं गतो धर्मपालं च माणवकं तहिं आश्रमे पश्यति। ते दानि सर्वे विस्मिता सुष्टु पुरोहितेन ज्ञातं॥

भगवान॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन ब्रह्मायुर्नाम ब्राह्मणो अभूषि। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं भिक्षवः तेन कालेन तेन समयेन ब्रह्मायुर्नाम ब्राह्मंअः॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन ब्रह्मायुस्य ब्राह्मणस्य धर्मपालो नाम पुत्रो अभूषि। नैतदेवं द्रष्टव्यं। एष राहुलो तेन कालेन तेन समयेन ब्र-

p. 82

ह्मायुस्य धर्मपालो नाम पुत्रो अभूषि। तदापि एषो मया ज्ञातो एतरहिं पि मया चिरप्रनष्टा शाकियमुष्टिः ज्ञाता॥

इति श्रीधर्मपालस्य जातकं समाप्तं॥

भिक्षू भगवन्तं आहन्सुः॥ दूरं भगवतो इषु क्षिप्तं॥ भगवानाह॥ न भिक्षवः एतरहिं एव मये दूरं इषु क्षिप्तं॥ अन्यदापि भगवन्॥ भगवानाह॥ अन्यदापि हि भिक्षवो॥

भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति महाबलो महाकोशो महावाहनो कृतपुण्यो महेशाख्यो। तस्य दानि विस्तीर्णं राज्यं यावत्तक्षशिलां समाज्ञापयति॥ सो कनीयसं ब्रातरं राज्ये प्रतिष्ठापयित्वा वाराणस्या तक्षशिलायां आगतो॥ सो दानि तक्षशिलायां वसति। अन्येन च राज्ञा वाराणसेयो चतुरङ्गेन बलकायेन वेष्टितो॥ तस्य तेन भ्रातरेण वाराणसीतो तक्षशिलां दूतो प्रेषितो। आगच्छाहि इमो हं परचक्रेण उपरुद्धो॥ तेन राज्ञा तक्षशिलायां स्थितेन दूतानां सकाशातो श्रुत्वा भूर्जस्मिं तस्य राज्ञो येन वाराणसेयो वेठितो नामं लिखित्वा तं भूर्जं काण्डे परिवेठित्वा सूत्रेण सुनद्धं कृत्वा वाराणसिं क्षिप्तं॥ सो काण्डो तस्य राज्ञो पादमूले स्थित्वा पादफलकं खण्डखण्डीकृतं। सो राजा तस्य पुरुषस्य च विस्मितो। अहो उत्साहो च मुष्टिसंबन्धो च यत्र नाम वाराणस्यां स्थितेन काण्डं क्षिप्तं। इमं एवं दूरमागतो मम पादमूले फलके निपतितो इत्थं तेन अहं न हतो॥ तेन राज्ञा ततः काण्डातो मुंचित्वा तं भूर्जं वाचितं तत्र च भूर्जे एवं लिखितं॥

p. 83

एषो ते तक्षशिलायां स्थितो पादफलखण्डणो।
यदि सि न मरितुकामो ओसक्क मम राज्यतो॥

सो दानि भूयस्या मात्रया भीतो त्रस्तो। अहं जानामि वाराणसीतो अथं शरो आगतो ति। तेनाहं विस्मयं प्राप्तो। अयं च तक्षशिलायां स्थितेन क्षिप्तो॥ सो तत्रैव स्थाने देवशरस्य देवकुलं कृत्वा तं शरं देवकुले प्रतिष्ठापेत्वा पूजासत्कारं कृत्वा सो प्रक्रान्तो॥

भगवानाह॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि येन तक्षशिलायां स्थितेन वाराणसीं काण्डं क्षिप्तं। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं सो भिक्षवो तेन कालेन तेन समयेन काशिराजा अभूषि। तदापि मया दूरं शरो क्षिप्तो एतरहिं पि मया शरो दूरं क्षिप्तो॥

इति श्रीशरक्षेपणं जातकं समाप्तं॥

भिक्षू भगवन्तमाहन्सुः॥ कथं भगवता यशोधरा शिल्पेन लब्धा। भगवानाह॥ न भिक्षवो इदानिं एव मया यशोधरा शिल्पेन लब्धा अन्यदापि मया यशोधरा शिल्पेन लब्धा॥ भिक्षु आहन्सुः॥ अन्यदापि भगवन्॥ भगवानाह॥ अन्यदापि भिक्षवः॥

भूतपूर्वं भिक्षवो अतीतमध्वावं मिथिलाया अर्धयोजनं यवकच्छकं नाम ग्रामं। तस्य यवकच्छकस्य वाह्येन एकं कर्मारग्रामं॥ तहिं कर्मारग्रामिकस्य धीता अमरा नाम प्रासादिका दर्शनीया च पण्डिता प्रतिभानसंपन्ना च॥ यवकच्छकग्रामिकस्य महौषधो नाम पुत्रो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो। एतेन क्षेत्रारण्यं अण्वन्तेन अमरा कर्मारदारिका दृष्टा भक्तमादाय गच्छन्ती॥ तां

p. 84

महौषधो पृच्छति॥ भद्रे का नाम त्वं किन्ते नाम॥ अमरा आह॥ येनतथागतं नाम॥ महौषधो आह॥ भद्रे केषां त्वं॥ सा आह॥ येहि श्रोषिणो तेषामहं॥ महौषधो आह॥ भद्रे केन गच्छसि॥ सा आह॥ यच्छत्रं तेन गच्चामि। महौषधो आह॥ भद्रे कहिंगमि॥ अमरा आह॥ संश्रितायातं तहिंगमि॥ अथ खलु महौषधो अग्रपण्डितो अमरां कर्मारदारिकां गाथया अध्यभाषे॥

अमरा नूनं ते नाम कर्मारस्यासि दारिका।
चित्तेन भूतं प्रजानासि क्षेत्रं वो दक्षिणादिशि॥

तस्या दानि दारिकाये च त्रयो व शीर्षो अक्षी च अंजिता वस्त्रा च शुद्धा क्षुद्राये च थ्वागूये घटिका हस्ते॥ अथ खलु महौषधो अग्रपण्डितो अमरां कर्मारदारिकां गाथाये अध्यभाषे॥

केन ते अंजितं शीर्षं अक्षी अंजिता च ते।
वस्त्रा च केन ते शुद्धा य्वागु क्षुद्रा च केन ते॥

अथ खलु अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथाये अध्यभाषे॥

सुतैला.....शीर्षं अभ्यंजनं च लासकं।
वस्त्र अवस्त्रता शुद्धा क्षुद्रा च नोदको॥

अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया अध्यभाषति॥

यदि तं नूनं ते तैलं अंजनं चापि लोलिका।
वस्त्रा च उत्सविका ते अल्पे देवेन वर्षिता॥

p. 85

सा दानि कर्मारदारिका भक्तस्य रसकुण्डं पाण्डराये शाटिकाये ओछन्नं वर्षेण आदाय गच्छति॥ अथ खलु महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथाये अध्यभाषति॥

तुवं यमेतं हिमपाणरेण
छन्नं कुण्डं हरसि जीवनाये।
पृच्छामि ते अमरे एतमर्थं
कस्य तं भक्तं हरसि मनोज्ञे॥

अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं महाप्राप्तं गाथाये प्रत्यभाषे॥
.................................
........................ भक्तं हरामि पादपे॥

अथ खलु भक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषे॥

पिता ते वर्षत्रिंशत्को नेलायको पितामहो।
दशवर्षासि जातीये एवं धारेमि दारिके॥

महौषधो आह॥

यस्मिं प्रवुत्थे दुःखिता ते माता भवति दुर्मना।
ते तं माता च मार्गते कहिं सो अमरे गतो॥

अथ खलु भिक्षवः अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषे॥

यत्र मृताश्च श्वसन्ति दग्धो न पुन दह्यति।
ज्ञातिभिर्वध्यते ज्ञातिस्तत्र मह्यं पिता गतो॥

p. 86

अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषे॥

कर्मारभस्त्राः श्वसन्ति अंगारं पुन दह्यति।
लोह लोहेन पीडेति कर्मारशालां पिता गतो॥
मार्गं पृच्छिता आख्याहि क्षेमं अकुटिलं ऋजुं।
अकण्टकं च नो भद्रे गंसामि यवकच्छकं॥

अथ खलु भिक्षवो कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषे॥

येन सप्ताभिरंगा च द्विगुणपलाशा च पादपाः।
येन अशेशि न तेन व्रजेसि न तेन अशेसि॥

एषो मार्गो यवकच्छकस्य यदि पण्डितो सि जानाहि॥ अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथाये प्रत्यभाषे॥

यतो यवा कदाख्या च कोविदारा च फुल्लिता।
वामं मार्गं ग्रहेत्वान गच्छामि यवकच्छकं॥

अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषति॥

गच्छ ब्राह्मण मार्गेण भक्तो तं भक्षयिष्यसि।
पितॄहि पुत्रा सिध्यन्ति तेषां मासेन भोक्ष्यसि॥

अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषे॥

शुष्कं इन्धनं वेणूहि करीरं तत्र सिध्यति।
तेषां मासेन भोक्ष्यामि एष गंसामि वो गृहं॥

p. 87

अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषति॥

वस ब्राह्मण मो गृहे यज्ञो यमत्र भेष्यति।
माता मे देवराजेन महायज्ञं यजिष्यति॥

अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषति॥

मातु ते देवराजस्य यं यजितं यजिष्यति।
तं यज्ञमनुभेष्यामि एष गंसामि ते गृहं॥

अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां मातापितॄणां सकाशातो मार्यार्थं याचय्अति॥ ते अमराये मातापितरा आहंसु॥ न वयं दारिकामकर्मारस्य ददाम॥

महौषधो च भिक्षवो महाप्राज्ञो सर्वशिल्पेहि अभिज्ञो। तस्य भवति॥ किं कर्माराणां सर्वचूर्णकर्मं। सूचीयो। कर्मारो यो शक्नोति सूची पि कर्तुं सो आचरियो॥ महौषधेन कोशप्रक्षिप्ता सूची कृता एकत्र कोशके सप्त सूचीयो प्रक्षिप्यन्ति। ते सर्वे अष्ट सूचीयो एका सूची भवन्ति। सापि एका अष्ट सूचीयो भवति॥ महौषधो तां सूचीमादाय तं कर्मारग्रामं गतो विक्रिणितुं॥ कर्मारग्रामिकस्य पथा गत्वा घोषेति॥ सूची विक्रेया यस्य कार्यं स क्रिणातु॥

निक्कट्टकच्छा सुकृता तीक्ष्णाग्रा वट्टयासिका।
सूची कर्मारग्रामस्मिं विक्रीणामि विक्रीथ मे॥

p. 88

सा दारिका महौषधस्य शब्दं श्रुत्वा निर्धाविता। सा महौषधं गाथया अध्यभाषे॥

अत्र शक्तीयो क्रियन्ति नाराचा अथ तोमरा।
इहैव तानि क्रियन्ति सूचीयो वडिशानि च॥
उन्मत्तको सि पुरुष अथवासि विचित्तको।
यो त्वं कर्मारग्रामस्मिं सूची क्रिणितुमिच्छसि॥

अथ खलु महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषि॥

सूची कर्मारग्रामस्मिं विक्रेतव्या प्रजानता।
आचार्या एव जानन्ति कर्मं सुकरदुष्करं॥
सचेत्ते भद्रे जानेया पिता सूची मया कृता।
स्वयं व मे प्रवारेया प्रत्तं ते च पितु वरं॥

अथ खलु भिक्षवो अमरा कर्मारदारिका पितरं गाथया अध्यभाषति॥

इमं तात निशामेहि शिल्पको यथ भाषति।
कर्मारपत्रो निपुणो कुशलो सूचिकारको॥

अथ खलु भिक्षवो अमराये कर्मारधीताये पिता तां सूचिं दृष्ट्वा विस्मयमापन्नो॥ सो तां धीतरमादाय महौषधं महाप्राज्ञं गाथाये अध्यभाषति॥

न मे श्रुता वा दृष्टा वा सूची एतादृशा मया।
तुष्टो स्मि एतेन कर्मेण इमां कन्यां ददामि ते॥

p. 89

भगवानाह॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवं अस्यादन्यः स तेन कालेन तेन समयेन महौषधो महाप्राज्ञो। न खल्वेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं सो भिक्षवः तेन कालेन तेन समयेन महाषौधो नाम अभूषि॥ स्यात्खलु पुनः भिक्षवो युष्माकमेवमस्यादन्यस्स तेन कालेन तेन समयेन कर्मारग्रामिको अभूषि। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एष भिक्षवः महानामशाक्यो तेन कालेन तेन समयेन सो कर्मारग्रामिको अभूषि॥ स्यात्खलु पुनर्भिक्षवर्युष्माकमेवमस्यादन्या सा तेन कालेन तेन समयेन अमरा नाम कर्मारग्रामिकधिता अभूषि। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एषा सा भिक्षवो यशोधरा तेन कालेन तेन समयेन कर्मारधीता अभूषि। तदापि एषा मया शिल्पेन लब्धा एतरहिं पि मया शिल्पेन लब्धा॥

समाप्तं अमराये कर्मारधीताये जातकं॥

भिक्षू भगवन्तमाहन्सुः॥ वीर्येण भगवता यशोधरा लब्धा। भगवानाह॥ न भिक्षवो एतरहिं एव मया यशोधरा वीर्येण लब्धा अन्यदापि मया एषा वीर्येण लब्धा॥ भिक्षू भगवन्तमाहन्सुः॥ अन्यदापि भगवन्॥ भगवनाह॥ अन्यदापि भिक्षवः॥

भूतपूर्वं भिक्षवः अतीतमध्वाने वारवालिनगरे ब्राह्मणः त्रयाणां वेदानां पारगो सनिर्घण्ठकैठमानां इतिहासपंचमानां अक्षरपदव्याकरणे कुशलो सो यं आचार्यो ब्राह्मणवेदेषु पंच माणवकशतानि वेदां मन्त्रां वाचयति॥ तस्य दानि ब्राह्मणस्य शिरिर्नाम धीता प्रासादिका दर्शनीया परमाये शुभाये वर्णपुष्करताये समन्वा-

p. 90

गता॥ तस्यदानि ब्राह्मणस्य समुद्रपट्टने यज्ञं कारयन्तेन याज्येन तस्य उषाध्यायस्य प्रेषितं। स्वयं वागच्छे कंचिद्वा प्रेषेहि अर्थमात्रं ते दास्यामि॥ सो तेषां पंचानां वटुकशतानामाह॥ को वो त्र उत्सहति समुद्रपट्टनं गन्तुं अमुकस्य सार्थवाहस्य मूलं। यो गमिष्यति तस्य शिरिकां माणविकां दास्यामि॥ तत्र माणवको पण्डितो च उत्थानवन्तो च वीरियवन्तो च। तस्य तहिं शिरिये अधिमात्रं प्रेमं। सो उत्सहितो उपाध्याय अहं गमिष्यामि॥ सो तेन उपाध्यायेन लेखं दत्त्वा यानपात्रमरुहिय विसर्जितो॥

सो अनुपूर्वेण समुद्रपट्टनं गतः। तेन तं लेखं तस्य सार्थवाहस्य उपनामितं॥ तेन सार्थवाहेन तमुपाध्यायस्य लेखं वाचेत्वा रत्नानि च हिरणसुवर्णं दत्त्वा विसर्जितो॥ सो ततो पि समुद्रपट्टनातो यत्र काले यानपात्रे वारवालिं प्रस्थितो सो तेन यानपात्रेण अनुपूर्वेण वारवालिं आगतो। सो दानि ततः यानपात्रातो प्रतिनावं आरुहिष्यतीति। संमर्दे च समाने सा पोटलिका समुद्रे पतिता॥ तस्य माणवस्य भवति। इयं मया ईदृशेन यत्नेन समुद्रपट्टनातो आनेत्वा इह प्रतिनावं आरुहन्तेन समुद्रे पतिता ति। को अत्र उपायो भवेय येन एतं धनं लभेयं। नास्ति अन्यो उपायो नान्यत्र एतं समुद्रं उत्सिञ्चामि॥ सो लोहवद्धकं तत्तकं आदाय समुद्रकूलमागतः। सो समुद्रकूले वद्धकं निक्षिपित्वा कच्छां बन्धति। समुद्रदेवता च ब्राह्मणवेषेण उपसंक्रमित्वा आहन्सुः॥ किमिदं॥ माणव आह॥ उ-

p. 91

त्सिचामि महोदधिं॥ ब्राह्मण आह॥ महोदको न शक्ष्यति उत्सिंचितुं॥ माणवो आह॥

दीर्घा ब्रह्मा अहोरात्रा लोहवर्धं च तत्तकं।
दक्षस्य अप्रमत्तस्य न शिरी भवति दुर्लभा॥

शृणोथ वीर्यं पुरुषोत्तमस्य
बलं च स्थामं च पराक्रमं च।
यं माणवो पि पुरिमासु जातिषु
एतस्य अर्थे अवतीर्णो सागरं॥
तदा मणि तस्य प्रणष्टमासीत्
सो व भवाषे क्षपयिष्व सागरं।
करोथ यत्नं यं मणिं लभेयं
मा अनपेक्षी दुःखिता भविष्यथ॥
सुवर्णनागासुरयक्षराक्षसा
त्रस्ता अभू यानि समुद्रमध्ये।
यथा च मेधानि समाकुलानि
निनादनिर्घोषं विनिस्चरन्ति॥
अथ देवता उग्गमि सागरातो
संत्रस्ता व्यवलोकयति चतुर्दिशं।
सा अद्दसासि माणवमुत्सहन्तं
उत्सिञ्चितुं क्षपयितुं च सागरं॥
सा उत्तरित्वा पुरतो तमब्रवीत्
किं माणव मार्गसि सागरातो।

p. 92

आख्याहि अस्माकं वयं अपि अनु-
दास्याम मापद्य विहन्यमानः॥
मणी मम देवते अत्र नष्टो
सो हं गवेषामि महासमुद्रे।
आपं क्षपित्वान मणिं लभेयं
तस्यार्थमुत्सिंचि महासमुद्रं॥
बहूनि बालानि चरन्ति लोके
अर्थे च धर्मेषु च विप्रमूढा।
तुवं पि भो परमबुद्धि माणव
यं दुर्लभं लोकि तुवं गवेषसि॥
अशीति पूगा चतुरो च वारिणो
निर्याति यस्यापि न तेन ज्ञायति।
हेष्टा च तोयस्य अनन्तपाणी
कथं तुवं उत्सहसे क्षपेतुं॥
उपेन्ति यत्र बहवे स्रवन्तियो
वृष्टि अनन्ता प्रपतन्ति सागरो।
आवासभूतो च महर्द्धिकानां
कथं तु उत्सर्यति धर्मशास्त्रं॥
यस्त्वं अकर्मं कुरुषे दुर्बुद्धिः
सखिन्नगात्रो नचिरेण भेष्यसि।
तडागमात्रं न प्रभोसि शिषितुं
न एव तुह्यं प्रतिरूपं माणवा॥

p. 93

यं चोदयित्वा परिभाषि देवते
तत्रार्थं पश्यामि ते चिन्नसागरं।
श्रोतं न खनेय न मूलमुद्धरेत्
न त्वन्तरं यस्य न पारमुत्तरेत्॥
नाहं कुशीदो स्वमणि त्यजेयं
धनं हरित्वाहं शमेयं वीर्यं।
करोन्तु भूता वचनं ममेह
तथा भणेयं न तथा भणेयं।
हुताशनं प्रज्वलितं न संनमे
सचन्द्रतारां परिवर्तये महीं॥
[सा देवता तत्र विचिन्तयन्ति]
दातव्यं मे तं मणि माणवस्य
यथा न एषो क्षपये समुद्रं।
एषो च गृह्यान मणिं प्रणीतं
गच्छे माणव सिद्धयानपात्रो॥
सर्वत्र वीर्यवान्साधु कुशीदो दुःखं जीवति।
सो यं वीर्यप्रभावेन धनमादाय गच्छति॥
पूर्वेनिवासं भगवान्पूर्वेजातिमनुस्मरन्।
जातकमिदमाख्यासि शास्ता भिक्षुणमन्तिके॥
ते स्कन्धा तानि धातूनि तानि आयतनानि च।
आत्मानं च अधिकृत्य भगवान्तमर्थं व्याकरे॥

p. 94

अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा।
माणवको तदा आसि शिरि आसी यशोधरा।
एतमर्थं विजानेत्वा एवं धारेथ जातकं॥

एवेमिमं अपरिमितं बहुदुःखं उच्चनीचचरितं पुराणं विगतज्वरो विगतभयो अशोको स्वजातकं भगवां भाषति भिक्षिसंघमध्ये॥ भगवानाह॥ स्यात्खलु पुन भिक्षवो युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन माणवको भवति यस्य तं महासमुद्रे धनं पतितं। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं सो भिक्षवो तेन कालेन तेन समयेन माणवको अभूषि॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवमस्यादन्या सा तेन कालेन तेन समयेन वारवालीनगरे ब्राह्मणस्य शिरि नाम सा माणवकधीता अभूषि। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एषा सा भिक्षवः यशोधरा तेन कालेन तेन समयेन वारवालिये नगरे ब्राह्मणस्य शिरि नाम धीता अभूषि। तदापि मया एषा वीर्येण लब्धा एतरहिं पि एषा मया वीर्येण लब्धा॥

इति श्रीश्रिजातकं समाप्तं॥

भिक्षू भगवतमाहन्सुः॥ भगवता यशोधरा खेदेन लब्धा॥ भगवानाह॥ न भिक्षावो इदानीमेव यशोधरा खेदेन लब्धा अन्यदापि एषा मया महता खेदेन महता श्रमेण महता वीर्येण लब्धा॥ भिक्षू आहन्सुः॥ अन्यदापि भगवन्॥ भगवानाह। अन्यदापि भिक्षवो॥

भूतपूर्वं भिक्षवो अतीतमध्वानं हस्तिनापुरे राजा सुबाहुर्नाम राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो षष्टिनगरसहस्राणामी-

p. 95

श्वरो॥ तस्य सुधनुर्नाम कुमारो एकपुत्रो प्रासादिको दर्शनीयो रूपवान्कृतपुण्यो महेशाख्यो गुणवान्मातृज्ञो पितृज्ञो पित्रा सुबाहुना युवराज्ये प्रतिष्ठापितो॥ सो अमात्येहि सार्धं तानि पैतृकानि नगरसहस्राणि परिपालेति॥ राजा सुबाहुः राजकृत्यतो ओधृतभारो राजकुले उपरिप्रासादवरगतो निर्वृतो आसति। तस्य दानि राज्ञो सुबाहुस्य आसन्नराजा सुचन्द्रिमो नाम वयस्यो सन्निकृष्टो सिंहपुरे नगरे राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो॥ तस्य दानि राज्ञो सुचन्द्रिमस्य मयायज्ञो प्रत्युपस्थितो। सर्वभूतेहि यजं यजिष्यामि। तेन यत्तका विजितवासिनो लुब्धकाः तेषामाणत्ती दिन्ना। सर्वभूतेहि यज्ञं यजिष्यामि। ये ते स्थलचराः प्राणा अपदा वा द्विपदा वा चतुर्पदा वा बहुपदा वा तानि सर्वाणि प्रणकजातीनि समानेथ॥ निषादा पि उद्दिष्टाः। ये केचिज्जलचरा प्राणाः तेन उपस्थपेथ सर्वभूतेहि यज्ञं यजिष्यामि।

मनसा देवानां वचसा पार्थिवानां।
नचिरेणाढ्यानां कर्मणा दरिद्राणामिति॥

राज्ञो वचमात्रेण लुब्धकेहि च निषादेहि च जलचरा च स्थलचरा च प्राणकजातीयो समानीता महं च वाटं मापेत्वा तत्र तानि स्थलचराणि प्राणकजातीनि उपरुद्धानि। यानि पि जलचराणि तानि समानेत्वा पुष्करिणीयं ओरुद्धानि। किन्नरीवर्जितं सर्वप्राणकजातीयो समानीताः॥

अथ खलु राज्ञो सुचन्द्रिमस्य यं कालं यज्ञवाटो सर्वोपरणेहि सज्जीकृतो ततो शीर्षस्नातो आहतवस्त्रनिवस्त्रो उपरिप्रासादवरगतो गन्धपुष्पधूपैरर्चनं कृत्वा चतुर्दिशमञ्जलिं प्रणामेत्वा येन भगवन्तः पुरस्तिदक्षिणपश्चिमोत्तराये दिशाये

p. 96

ऋषयो चतुर्ध्यानलाभिनो पंचाभिज्ञा मर्द्धिका महानुभावा अन्तरिख़्षचरास्तानहं यज्ञवाटे निमन्त्रयामि॥ तत्र दानि ये ऋषयो चतुर्ध्यानलाभिनः पंचाभिज्ञा महर्द्धिका महानुभावा ते समन्वाहरित्वा वैहायसेन ऋद्ध्या यज्ञवाटं गताः॥ सो दानिं राजा सुचन्द्रिमो तानृषीं यज्ञवाटे आगतां दृष्ट्वा प्रमुदितो प्रीतिसौमनस्यजातो पादाभिवन्दनं कृत्वा एतदुवाच॥ प्रत्यवेक्षन्तु भगवन्तो यज्ञवाटं किं परिपूर्णं न वेति॥ ते दानि ऋषयः प्रत्यवेक्षित्वा राजानं सुचन्द्रिममेतदुवाच॥ महाराज सर्वो परिपूर्णो यज्ञवाटो एकेन अङ्गेन ऊनो॥ राजा आह॥ कतमेन अङ्गेन ऊनो॥ ऋषयो आहु॥ देव किन्नरीये ऊनो॥ अथ खलु राजा सुचन्द्रिमो लुब्धकानाह॥ तेषामृषीणां भगवतां यज्ञवाटे किन्नरीये अर्थो तं गच्छथ यत्न करोथ यथा मम किन्नरीं आनेथ॥ तहिं दानि यो तेषां लुब्धकसहस्राणां सर्वप्रधानो लुब्धको वीर्येण च बलेन च पौरुषेण च सो तेहि लुब्धकेहि सर्वगणेन उत्साहितो। त्वं प्रतिबलो किन्नरीं समर्थो आनयितुं॥ स लुब्धको गणेन उत्साहितो समानो राज्ञा च सुचन्द्रिमेन धनुकलापमादाय अनुहिमवन्तं प्रविष्टः॥

तहिं अन्यतरं हिमवन्ते पश्यति ऋषिस्य आश्रमं रमणीयं मूलपत्रफलोपेतं॥ सो तं ऋषिमुपसंक्रान्तो ऋषिस्य पादवन्दनं कृत्वा स्थितः ऋषिणा एहि स्वागतवानिति आचष्टो स्वागतन्ते एतां शिविकां निषीदाहि॥ ऋषिणा तस्य लुब्धकस्य सारायणीयं कृतं। यथा ऋषिधर्मो फलोदकमुपनामितं॥ सो दानि फलानि परिभुंजिय पानीअं पिबित्वा तत्र आसति। तत्र च ऋषिस्य मूले अश्रुतपूर्वं च मधुरं गीतशब्दं शृणोति॥ सो तं ऋषिं पृच्छति॥ भगवं कस्य एतं वं मनोज्ञं गीतशब्दं

p. 97

देवकन्यानां नागकन्यानां॥ ऋषि आह॥ न एतं देवकन्यानां गीतशब्दं न नागकन्यानां किन्नरीणां एतं गीतशब्दं॥ सो दानि तमृषिं पृच्छति॥ भगवन् इमं गीतशब्दं श्रूयते न च दृश्यन्ति। कहिं वा गायन्ति॥ ऋषि आह॥ इमस्य आश्रमस्य उत्तरे पार्श्वे महापद्मिनी तहिं सर्वार्तुकानि सर्वकालिकानि उत्पलकुमुदपदुमपुण्डरीकसौगन्धिकानि। तत्र कैलासातो पर्वतातो द्रुमस्य किन्नरराज्ञो मनोहरा नाम धीता बहूहि किन्नरेहि किन्नरीहि च परिवृता एतां पद्मिनीं क्रीडार्थमागच्छति॥ सो पण्डितो लुब्धको तमृषिं उपायेन पृच्छति॥ आह॥ भगवं श्रुणीयति अस्ति केचित् मनुष्या किन्नरीहि सार्धं क्रीडन्ति परिचारेन्ति। कथन्ते मनुष्याणां किन्नरीयो वशगता भवन्ति॥ ऋषि आह॥ सत्यवाक्येन एता बध्यन्ति न शक्नोन्ति अन्तरहायितुं॥ माधुर्येण च ऋषिणा असमन्वाहरित्वा ऋजुभावेन आचक्षितं न जानाति किन्नरीये एतस्य अर्थो ति॥

सो दानि लुब्धको तस्य ऋषिस्य अभिवादनं कृत्वा तं पद्मसरं गतो यत्र सा द्रुमस्य किन्नरराज्ञो धीता क्रीडति॥ ता दानि किन्नरीयो गीतकृत्ये प्रमत्ता जलदर्दरके च तं लुब्धकं न पश्यन्ति। सा च तत्र मनोहरा सर्वप्रधाना रूपेण च स्वरेण च। तेन लुब्धकेन श्रवणपथे स्थितेन सा मनोहरा सत्यवाक्येन बद्धा॥

धीता त्वं किन्नरराजस्य द्रुमराज्ञो यशस्विनी।
एतेन सत्यवाक्येन तिष्ठ बद्धासि किन्नरी॥
यथा त्वं द्रुमराजस्य धीता द्रुमेण राज्ञा संवृद्धा।
सत्यवचनेन भद्रे मनोहरे मा पदं गच्छ॥

सा दानि मनोहरा तेन लुब्धकेन सत्यवाक्येन बद्धा न शक्नोति अन्तरहायितुं। ते अन्ये हि किन्नरा च किन्नरी च सर्वे समन्तरहिता॥

p. 98

सा दानि मनोहरा तेन लुब्धकेन सिंहपुरमानीता। तहिं यज्ञवाटं प्रवेशिता॥ किन्नरीं दृष्ट्वा राजा सुचन्द्रिमो महां च जनकायो तस्य लुब्धकस्य प्रीतो संवृत्तो॥ लुब्धकेन विपुलो आच्छादो लब्धो॥ सा बद्धा पाशेहि आनीता सुचन्द्रिमस्य सिंहपुरं ब्राह्मणपुरं संवृत्तं यज्ञवाटं समभिनीता॥ राज्ञा सुचन्द्रिमेण यज्ञस्य समुपकरणं सज्जेत्वा राज्ञो सुबाहुस्य हस्तिनापुरं दूतो प्रेषितो॥ सर्वभूतेहि महायज्ञं यजिष्यामि आगच्छ। इह अनुमोदाहि॥ राज्ञा सुबाहुना पुत्रो सुधनुकुमारो विसर्जितो। गच्छ सिंहपुरं सुचन्द्रिमो राजा यज्ञं यजिष्यति तं अनुमोदानि॥

सुधनुकुमारो सिंहपुरमागतो अन्यानपि बहूनि राजान शतानि। सर्वेषां च सुधनुकुमारो सर्वप्रधानो रूपेणापि तेजेनापि परिवारेणापि गन्धेनापि॥ सुधनुकुमारो तं यज्ञवाटं प्रविष्टः बहूहि राजान शतेहि परिवृतो॥ तेन यत्र यज्ञवाटे तानि बहूनि प्राणिसहस्राणि दृष्टानि स्थलचरजलचराणि। सापि किन्नरी दृष्टा॥ पश्यन्तस्य एव सुधनुस्य कुमारस्य किन्नरीये उदारं प्रेमं निपतितं किन्नरीये पि सुधनुस्य प्रेमं निपतितं॥ यथोक्तं भगवता सूत्रपदे॥

पूर्वे वा संनिवासेन प्रत्युत्पन्ने हितेन वा।
सर्वातं जायते प्रेमं उत्पलं वा यथोदके॥

एवन्तेषां परस्परं दर्शनमात्रेण प्रेमं संजातं॥ सुधनुकुमारो राज्ञो सुचन्द्रिमस्य पृच्छति॥ किस्य इमे एत्तका प्राणसहस्रियो यज्ञवाते उपरुद्धायो॥ सो राजा आह॥ एतेहि यज्ञं यजिष्यामि एतेन च प्रभूतेन खादनीयभोजनीयेन॥ कुमारो

p. 99

पृच्छति॥ एतस्य यज्ञस्य किं फलं किं गुणनिर्वृत्ति। केदृशमेतेन यज्ञगुणं निर्वर्तयिष्यति इमं एत्तकं प्राणवधं कृत्वा। राजा आह॥ एते यत्तका प्राणजाती अत्र यज्ञे हनिष्यन्ति सर्वे स्वर्गं गमिष्यन्ति। अहं च यत्तका एते प्राणा एत्थ यज्ञे हनिष्यन्ति तत्तकां वारां स्वर्गे उपपद्यामि॥ कुमारो आह॥ महाराज न एवं एतं मिथ्यादृष्टि एषा अहिंसा परमं धर्मं॥ प्राणातिपातो अधर्मो प्राणातिपातवैरमणो धर्मो। अदिन्नादानो अधर्मो अदत्तादानवैरमणो धर्मो। कामेषु मिथ्याचारो अधर्मो कामेषु मिथ्याचारवैरमणो धर्मो। सुरामैरेयमद्यपानं अधर्मो सुरामैरेयमद्यपानातो वैरमणो धर्मो। मृषावादो अधर्मो मृषावादातो वैरमणो धर्मो। पिशुनवाचा अधर्मो पिशुनवाचातो वैरमणो धर्मो। संभिन्नप्रलापो अधर्मो संभिन्नप्रलापो वैरमणो धर्मो। अविद्या अधर्मो अविद्यातो वैरमणो धर्मो। व्यापादो अधर्मो व्यापादातो वैरमणो धर्मो। मिथ्यादृष्टि अधर्मो सम्यग्दृष्टि धर्मो। दश कुशला कर्मपथा धर्मो। दशहि महाराज अकुशलेहि कर्मपथेहि समन्वागताः सत्वा नरकेषुपपद्यन्ति। दशहि कुशलेहि कर्मपथेहि समन्वागताः सत्वा स्वर्गेषूपपद्यन्ति॥ तदेवं महाराजेन न एष स्वर्गाणां पथो गृहीतो नरकेषु गमनाय एष पथो गृहीतो॥ एवं सुधनुस्य कुमारस्य धर्मदेशनां श्रुत्वा राजा सुचन्द्रिमो ते च सर्वे राजानो सर्वो महाजनकायो प्रीतो। तेन राज्ञा सुचम्द्रिमेण सुधनुस्य कुमारस्य धर्मदेशनां श्रुत्वा ते सर्वे प्राणकजातीयो जलचरा च स्थलचरा च ओसृष्टा॥

p. 100

मनोहरा किन्नरी सुधनुस्य कुमारस्य अल्लिना। सर्वं च किन्नरभवनं मनसि न वर्तति सुधनुस्य प्रेमेन॥ सुधनुस्यापि अन्या क्रीडारतीयो मनसि न वर्तन्ति मनोहराये प्रेमेन॥ राज्ञापि सुचन्द्रिमेण यथा सुधनुना कुमारेण संदिष्टं तथा निर्गडं यज्ञं अनवद्यं॥ अनेकानि श्रमणब्राह्मणकृपणवणीकसहस्राणि अन्नपानेन सन्तर्पिताः आच्छादनेहि आच्छादिताः॥ वृत्ते यज्ञे सुधनुकुमारो मनोहराये सार्धं हस्तिस्कन्धवरगतो महता परिवारेण महता समृद्धीये महता समुदयेन महता विभूषाये सिंहपुरातो हस्तिनापुरं गतो॥

कुमारस्य हस्तिनापुरं प्रविशन्तस्य नगरं हस्तिनापुरं अलंकृतं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं सिक्तसंमृष्टं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु नटनर्तकऋल्लमल्लपाणिस्वर्याकुम्भथूनिका॥ एवं सुधनुकुमारो महता समृद्धीये महता समुदयेन मनोहराये सार्धं हस्तिस्कन्धवरगतो हस्तिनापुरं प्रविष्टो॥ तेन कुमारेण सर्वा राजकन्या ओसृष्टा मनोहराये सार्धं क्रीडते व॥ राज्ञो सुबाहुस्य षष्टीहि नगरसहस्रेहि कार्यसहस्राणि परिहायन्ति अनेकसहस्राणि निवर्तन्ति॥ नैगमजानपदेहि राजा सुबाहु विज्ञप्तो। महाराज सुधनुकुमारो मनोहराये किन्नरीये प्रमत्तो अर्थार्थानि न समनुशासति राजकार्याणि परिहायन्ति षष्टीहि नगरसहस्रेहि अनेकसहस्राणि निवर्तन्ति॥ राज्ञा सुबाहुना सुधनुकुमारो शब्दापितो॥ पुत्र जानपदा ओरवन्ति। अर्थार्थानि न समनुशाससि यथापूर्वं मनोहराये किन्नरीये प्रमत्तो विहरसि विसर्जेहि पुत्र एतां किन्नरीं अनु-

p. 101

जानाहि तां गमनाये॥ सो कुमारो मनोहराये तृष्णाजालेन बद्धको न तामनुजानाति। पितरे पुनःपुनरुच्चति। पुत्र विसर्जेहि एतां किन्नरीं अन्यानि ते राजकन्यानि यत्तकानि जल्पसि तत्तकानि आनयिष्यामि॥ सो कुमारो पुनर्पुनः तेन पितुना उच्यन्तो न विसर्जयति॥ अमात्या च पुनः पुनः राज्ञो सुबाहुस्य निवेदेन्ति॥ महाराज सुधनुकुमारो मनोहराये किन्नरीये प्रमत्तो राजकार्याणि न करोति बहूनि राजकार्याणि परिहायन्ति॥ राज्ञा च अमात्या आणत्ता उपरुन्धथ कुमारं॥ सो अमात्येहि राजाणत्तीये उपरुद्धो॥ उपरुद्धेन कुमारेण गृहं निःश्रेयं संवृत्तं सर्वा लक्ष्मी अन्तरहिता। मनोहरा स्वयं सुबाहुना अनुज्ञाता निरतिं किन्नरन्नगरं गमनाय। मनोहरे गच्छ अनुज्ञातासि येन सुखानि शीतलानि वनानि मातापितॄणां सकाशं॥

सा दानि सर्वालंकारविभूषिता ततः प्रासादतो ओतरिता। ताये ओतरन्तीये बहूनि स्त्रीसहस्राणि सुधनुस्य रोदन्ति मनोहराये शोकेन। हस्तिनापुरे जनपदस्य अन्तरं नास्ति वामदक्षिणेन हस्तेन मनोहराये हस्तिनापुरातो निष्क्रमन्तिये। वामदक्षिणातो अंजलिसहस्राणि प्रतीच्छमाना गन्धमाल्येन पूजियमाना स्त्रीसहस्रेहि बहुना च जनकायेन अनुगच्छियमाना सा दानि हस्तिनापुरातो निर्यात्वा जनकायस्य विसर्जनं कृत्वा उत्तरामुखं येन हिमवां पर्वतराजा तेन प्रणता उपगच्छति च उत्तरामुखं येन च हस्तिनापुरं तेन सुधनुं अवलोकेति॥ तहिं च अनुहिमवन्ते शतद्रुनदीकूले दुवे लुब्धकपुत्रा मृगव्यां अण्वन्ति। एको लुब्धकपुत्रो

p. 102

उत्पलको नाम द्वितीयो लुब्धकपुत्रो मालको नाम॥ तेहि दृष्टा मनोहरा किन्नरी दूरतो आगच्छन्ती सर्वालंकारविभूषिता अक्षुद्रानुलेपना अभिलानगन्धमाल्या पुनर्पुनः पृष्ठतोमुखी अवलोकयन्ती आगच्छन्ती॥ तेहि सा किन्नरी प्रत्यभिज्ञाता॥ ते कृतांजलिपुटा प्रनिपतिता पृच्छन्ति।

गच्छन्ति अवलोकेसि अवलोकेन्ति गच्छसि।
किं भद्रे अवलोकेसि कहिं वा त्वं गमिष्यसि॥

मनोहरा आह॥

उभयं अभिप्रार्थेमि....किंपुरुषनगरं।
सुधनुं चावलोकेमि निरतिं चाभिप्रार्थये॥

ते दानि लुब्धकपुत्रा आहंसुः॥

सुधनुस्य कुमारस्य कुरुपंचालेषु नारियो।
ताहि सार्धं रममाणो न सो तुभ्यं स्मरिष्यति॥

मनोहरा आह॥

आनयिष्यम्यहं सुधनु प्रेक्षितेन स्मितेन च।
कोचिद्वृद्धो व मातंगो वशे एषो भविष्यति॥

ताये तेषां लुब्धकपुत्राणां हस्ते शतसहस्रमूल्या च अंगुलिका दिन्ना तालीसमाला च। यदि मम पृष्ठतो सुधनुकुमारो आगच्छेय मम मार्गमाणो इमं अभिज्ञानं दास्यथ मम वचना अभिवादनं पृच्छेयाथ। वक्तव्यो। इतो एवं निर्वताहि दुर्गमो

p. 103

परतरेण मनुष्याणां। नियतो मे मनुष्याणां विनाभावः॥ एवं लुब्धकपुत्राणां संदिशित्वा मनोहरा अस्पृशन्ती पादतलेहि उदकं शतद्रुनदीं तीर्णा॥

राज्ञा सुबाहुना यं कालं जानाति गता मनोहरा इति ततो सुधनुकुमारो आनापितो उत्संगे उपविसापितो पितरे पि मातरे पि॥ मा पुत्र किन्नरीमनुस्मराहि विस्तीर्णो ते अन्तःपुरो बहूनि कन्यासहस्राणि अपराणि ते आनापेष्यं। ताहि सार्धं क्रीडाहि रमाहि परिचारेहि किन्ते किन्नरीये त्वं मानुषो॥ राजा कुमारं चाश्वासयति अमात्या च आणत्ता। कुमारस्य गृहं अलंकारापेथ॥ अन्तःपुरस्य संदिष्टं। सुष्टु कुमारं अभिरमापेथ यथा कुमारो मनोहरां न समनुस्मरेय॥ राज्ञो वचनमात्रेण कुमारस्य गृहं यथा दिव्यं विमानं तथा अलंकृतं सर्वसंज्ञितं॥ सप्तसु द्वारशालासु सुचूर्णघटानि स्थापितानि अक्षतानि स्थापितानि यानि अन्यान्यपि लोकस्य मंगलसंमतानि सर्वाणि स्थापितानि॥ ब्राह्मणसहस्रियो कुमारस्य द्वारे उपस्थापितानि तथान्यो पि जनकायो कुमारं प्रतिपालयन्तो॥ कुमारो पि पितरा समाश्वासित्वा विसर्जितो। गच्छ गृहं उपसेवेहि स्नाहि विलिम्पाहि आसक्तमाल्यभरणो क्रीडाहि रमाहि प्रविचारेहि राजकार्याणि च समनुशासेहि॥ एवं संदिशित्वा पितरे कुमारो सुधनु विसर्जितः॥

सो दानि राजकुलातो निर्यात्वा सार्धं वसन्तकेन एकिना परिचारकेन भावानुरक्तेन हस्तिनापुरातो नगरातो निर्यात्वा येन हिमवन्तपर्वतराजा तेन प्रणतो मनोहराये अर्थाये॥ कुमारस्य तानि पैतृकानि षष्टिनगरसहस्राणि स्फीतानि

p. 104

सनिगमजनपदानि विस्तीर्णं च अन्तःपुरं मनसि न वर्तति। मनोहरामेव किन्नरीं शोचति समनुस्मरति॥

राज्यं राजपरिदेववीक्षणकालेन तन्तदा सर्वं।
अपविज्कियान प्रक्रमि अधौतमलिनं पटं गृह्य॥
अनुरक्तभक्तिभावं चैकं परिचारकं ग्रहेत्वान।
पर्वतराजाभिमुखो सो हिमवन्तमभिप्रसरेसि॥
अचिरेण गतो सुधनू हिमवन्तं रम्यपर्वतनितम्बं।
तत्राद्दशासि लुब्धकौ उप्पलकं मालकं चैव॥
पश्यति च शतद्रुनदीं शुचिविमलस्फटिकविकाशां सततं।
.......................................
शुभा शुशीतलतोया प्रस्यन्दमाना मृदुतरुणसुजाता।
सा शाद्वला प्रलुलिता वहन्ति अक्षौहिन्यो शतद्रू॥
सिधनू उवाच कांचिल्लुब्धका श्यामां अक्षुद्रानुलेपनां।
नारीं अमिलानगन्धमाल्यां विक्रमन्तिं अपश्यथ॥
अवोच लुब्धकपुत्रा यादृशीं त्वं पृच्चसि सा इतो चिरं।
उत्तीर्य नदीं गता सा इमेन कालेन हिमवन्तं॥
प्रव्याहृतं हि ताये सुधनुर्नामेन पृष्ठतो मह्यं।

p. 105

यदि एष्यति लुब्धकपुत्रा दास्याथ इमं अभिज्ञानं॥
इममङ्गुलीयकं मम इमां च तालीसगन्धिकां मालां।
दास्याथ लुब्धकपुत्रा भर्ता मम स्वामिकस्वामि॥।
अभिवादनं च लुब्धका मम वचना स्वामिकं भणेयाथ।
प्रतिगच्छ हस्तिनापुरं नियतो नियमो विनाभावो॥
प्रत्यग्रहेसि मालां आलम्बेसि मुद्रिकां प्रमोदन्तो।
अपि मरणं अभ्युपेमि मनोहराये व समागमं॥
ते तं भणन्ति लुब्धका सुधनुं इतो एव त्वं निवर्तेहि।
हस्तिनापुरस्मिं नगरे का तुह्यमभुक्त वर्तेया॥
तं तस्य नैव हृदये नापि च तेषां शृणोति सो वचनं।
गन्तुं येवाध्यवसितो शतद्रुं च महानदीं तीर्णो॥
लुब्धका पि ते व्यवस्थिता राजामर्षो भवेया अस्माकं।
यदि सुधनुमेवंरूपे अत्ययस्मिं परित्यजेयामः॥
अवतीर्णा ते पि नदिं व्याघ्रगणसिंहवारणसंघोषां।
मृगविहंगमानुयातां मनोरमां च चक्रवाकरुतां॥
तान्तत्क्षणेन तीर्णा महानदीं हन्ससारसाभिरुतां।
व्याडेहि किन्नरेहि च प्रपातजालां सुरमणीयां॥

तत्र दानि कुमारो च वसन्तको च परिचारको उत्पलको च लुब्धकपुत्रो मालको च लुब्धकपुत्रो एवंकृताध्यवसाया मनोहराये पदेहि हिमवन्तं पर्वतराजं प्रविशन्ति॥

p. 106

मनोहरापि नानावर्णानि वरकुसुमानि ओलम्बमानानि आबन्धमाना गच्छति॥ ते दानि कुसुमानि पच्छा दृष्ट्वा अनुगच्छन्ति। इह विश्रमित्वा श्यामा इतो गता॥ इह मुहूर्तमासि अयमस्या पुष्पनिकरं इह कृतानि शुभमालानि निर्माल्यकानि चास्या वरकुसुमकर्णपूरधारिणीये देशेदेशे पश्यन्ति जानन्ति इतो गता श्यामा एवन्ते गच्छन्ति। आभरणानि नानाप्रकाराणि पन्थे पतितानि पश्यन्ति वनशाखेषु लग्नानि पश्यन्ति अन्यानि च चिह्नानि पश्यन्ति॥ यथायथा च हिमवन्तं अनुप्रविशन्ति तथातथा बहूनि रत्नरत्नानि पश्यन्ति॥ सुवर्णशृंगानि पर्वतानि पश्यन्ति रूप्यशृंगानि पश्यन्ति लोहकाराणि पश्यन्ति ताम्रकाराणि पश्यन्ति आरकूटकाराणि पश्यन्ति यशदशृंगानि पश्यन्ति अंजनपर्वतानि पश्यन्ति मनशिलपर्वतानि पश्यन्ति। किन्नरमिथुनानि क्रीडन्तानि पश्यन्ति। अन्यानि बहूनि आश्चर्याद्भुतशतानि पश्यन्ति। देशेदेशे किन्नरीगीतशब्दानि शृण्वन्ति सिंहनादशब्दानि च शृण्वन्ति शार्दूलनादशब्दानि च शृण्वन्ति। अच्छभल्लनादानि च शृण्वन्ति। मृगरुतानि च नानावर्णानि शृण्वन्ति। यक्षराक्षसरुतानि च शृण्वन्ति। पिशाचकुम्भाण्डरुतानि शृण्वन्ति॥ नानाप्रकाराणि च औषधीसहस्राणिपश्यन्ति विद्याधराणि च पश्यन्ति॥

तेहि गच्छन्तेहि काश्यपस्य ऋषिपस्य आश्रमं दृष्टं बहुमूलपत्रपुष्पफलोपेतं वृक्षसहस्रसंछन्नं पानीयसंपन्नं च॥ ते दानि तहिं आश्रमे प्रविष्टाः पश्यन्ति च तत्र आश्रमे काश्यपं ऋषिं वृद्धं महाभागं सपरिवारं आसन्नं॥ ते दानि ऋषिस्य अभि-

p. 107

वादनं कृत्वा सपरिवारस्य अग्रतो स्थिता॥ ऋषिस्य भवति॥ महात्मना इमेन कुमारेण भवितव्यं कृतपुण्येन पुण्यवन्तेन यो एषो इमं आश्रमं प्रविष्टः। प्रदेशो न क्षेमेणानुप्राप्तो॥ तेन कुमारो अभिनन्दितो॥ स्वागतं कुमारस्य निषीदाहि। एतानि शिविकानि॥ कुमारो निषणो सपरिवारो। ऋषिणा क्षुद्रमधुसदृशानि फलानि अल्लीपितानि पानीयं च॥ यत्र वेलां कुमारेण फला परिभुक्तानि पानीयं च पीतं ततो नं सो ऋषि पृच्छति॥ किं कुमारस्य सुखसंवृद्धस्य इमहिं आगमनप्रयोजनं॥ कुमारो आह॥ काचित्ते भगवं एवरूपा नारी अतिक्रमन्ती दृष्टेति॥ ऋषि आह॥ आम दृष्टा अल्लीना सा इमं आश्रमं मम पादौ वन्दित्वा गिरिवरस्य अनुतटेहि गता। तत्कुमारो इतो एवं आश्रमातो निवर्ततु। दुष्करं कुमारेण कृतं इमं तावत्प्रदेशं गच्छन्तेन किं पुन अतो परतरेण गतेन अगमनं मनुष्याणां इतो एवं निर्वर्ताहि॥ कुमारो आह॥ न शक्यामि भगवन्निवर्तितुं। या तस्या मनोहराये गति सा मम येनैव मार्गेण गता तेनैवाहं गमिष्यामि॥ ऋषि आह॥ अन्या किन्नरीणां गतिः अन्या मनुष्याणां। पक्षी पि किन्नराणां गतिं न संभुणन्ति कुतो मनुष्या॥ पक्षी पि तं प्रदेशं कथं चिद्गच्छन्ति। किन्नरा यत्र गच्छन्ति मोदमाना रतिविहारं समनुभोन्तो अगम्यन्तं कुमार मनुष्याणां पथेहि। इतो एवमाश्रमातो निर्वताहि॥ पिता ते षष्टीनां नगरसहस्राणां ईश्वरो ननु उदारेहि परिभोगेहि कुमारेण क्रीडतव्यं रमितव्यं अनुभवितव्यं एतं अगम्यं देशं न शक्यसि गन्तुं॥ कुमारो आह॥ भगवं मरणं वा सा वा पश्यितव्या॥

p. 108

ऋषि महाभागो महामैत्रीविहारी कारुणिको। तस्य भवति। से कुमारस्य अगम्यं देशं गच्छन्तस्य शरीरविनाशो भवेया॥ सो ऋषि आह॥ कुमार इमां रात्रिं इह आश्रमे वीतिनामेहि याव इह उद्देशे वानरा प्रतिवसन्ति। यो तेषां यूथपति सो मम अभिप्रसन्नो नित्यकालं मम पादवन्दो आगच्छति क्षुद्रमधुसदृशानि फलानि आदाय। तमहं वानरराजं अध्येषिष्यं। सो तव द्रुमस्य किन्नरराज्ञो निरतिं नाम किन्नरनगरं नेष्यति॥ कुमारो ऋषिस्य वचनेन तहिं आश्रमे तां रात्रिं स्थितो रात्रिये च प्रभाताये कुमारो सिंहस्य व ओसरन्तस्य शब्दं शृण्वति। कुमारो ऋषिकुमाराणां पृच्छति। कस्य एष ओषरणशब्दो॥ ऋषिकुमारो आह॥ एवं वानराधिपतिस्य ओसरन्तस्य शब्दो नित्यं एषो इह वेलाये क्षुद्रमधुसदृशानि फलानि आदाय तं ओसरन्तो द्रुमात् द्रुमं संक्रमन्तो अस्माकमुपाध्यायस्य पादवन्दो आगच्छति॥ तदानि कौतूहलेव उत्थाय यतो तं वानरस्य ओसरन्तस्य शब्दं ततः निध्यायति। तेन सो वानराजा दृष्टो द्रुमातो द्रुमं संक्रमन्तो आगच्छन्तो॥ सो वानरराजा तं आश्रममागत्वा क्षुद्रमधुसदृशानि फलानि ऋषिस्य पुरतो निक्षिपित्वा निषणो॥ ऋषि आह॥ वानरराज करोहि मे व्यापारं॥ वानरराजा आह॥ भगवं करिष्यामि। आणपेहि॥ ऋषि आह॥ इमं कुमारं आत्मना चतुर्थं द्रुमस्य किन्नरराज्ञो निरतिं नाम किन्नरनगरं तहिं नेहि॥ वानरो आह॥ भगवन्नेमि॥

सो दानि वानराधिपति ततो एव आश्रमातो आत्मना चतुर्थं कुमारं पृष्ठं आरोहयित्वा पर्वतानां शृङ्गतो शृङ्गं संक्रमन्तो द्रुमातो द्रुमं नचिरस्यैव द्रुमस्य किन्न-

p. 109

रराज्ञो नगरं कैलासस्य पर्वतस्य मूर्ध्ने अनुप्राप्तो। पश्यति च कौलासस्य पर्वतस्य मूर्ध्ने द्रुमस्य किन्नरराज्ञो निरतिं नाम नगरं सर्वसौवर्णशुभकर्मनिर्मितं उद्यानसहस्रमण्डितं सर्वरत्नामयेहि पुष्करिणीतडगेहि मण्डितं सर्वरत्नामयेहि वैडूर्यफलकसोपानेहि सप्तरत्नवेदिकापरिक्षिप्तेहि उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकसंछन्नेहि रतनामयेहि तटकेहि आयुक्तेहि नानारत्नविचित्राहि नावाहिप्लवन्तीहि वसन्तचित्राहि अन्यमन्येहि च नानाप्रकारेहि प्लवेहि प्लवन्तेहि। नानाप्रकारेहि पुष्पपत्रफलोपेतेहि द्रुमसहस्रेहि संछन्नं च अतिमुक्तकचम्पकवार्षिकमल्लिकासुमननवमालिकायूथिकोपशोभितं॥ ते तहिंतहिं पश्यन्ति किन्नरमिथुनसहस्राणि क्रीडन्तानि। काचिज्जलदर्दरकानि वादेन्ति काचित् नानाप्रकाराणि वाद्यानि वादेन्ति मधुरेण च स्वरेण मनोहरां परिगायन्ति॥ अभ्यन्तरनगरे च तूर्यशतशब्दानि शृण्वन्ति मध्रुआणि च गीतशब्दानि शृण्वन्ति॥

अथ नु दानि तहिं किन्नरनगरस्य वाह्यतो उपवने स्थिता पश्यन्ति संबहुला किन्नरीयो प्रासादिका दर्शनीया अलंकृता आभूषिताः सौवर्णघटकहस्ता आगच्छन्ति तां पुष्करिणीं यत्र सुधनुः स्थितो उदकहारिं॥ सुधनुरेता पृच्छति॥ किं अत्र नगरे पर्वो यं। सो ईदृशो आमोदो॥ ता दानि आहन्सुः॥ न अद्य किंचित्पर्वो न उत्सवो। अपि द्रुमस्य किन्नरराज्ञो मनोहरा नाम धीता मानुषेहि नीता आसी सा बहूहि वर्षेहि आगता ताये आगताये द्रुमो च किन्नराजो सर्वं

p. 110

च नगरं प्रीतं तत्रैष एदृशो आमोदः॥ सुधनु पृच्छति॥ कहिं उदकं इमं नीष्यति॥ आहन्सु॥ सा मनोहरा स्नायिष्यति। तस्या मनुष्यगन्धमपनयिष्यति॥ तेन कुमारेण अंगुलीयका पश्चिमे उदकघटे प्रक्षिप्ता यथा ताहि किन्नरीहि न दृष्टा॥ मनोहरा स्नायति च अंगुलीयका स्नायन्तीये ततो घटकातो उत्संगे पतिता॥ मनोहराये सा अंगुलीयका दृष्ट्वा परिज्ञाता। ताये एतदभूषि। सुधनुकुमारः आगतो मम अर्थाय। सुकारो राजपुत्रो कथं सो इमामगम्यां दिशमागतो॥ सा दानि त्वरितत्वरिता वस्त्राणि प्रावरित्वा अह्रुकण्ठा रुदन्मुखा मातापितॄणां प्रणिपतित्वा आह॥ यो मम जन्बुद्वीपे भर्ता सो आगतो सुधनु नाम राजपुत्रो सुबाहुस्य राज्ञो एकपुत्रो॥ द्रुमे किन्नरराजा न पत्तीयति। पुत्रि न शक्यं मानुषेहि इमां दिशामागन्तुं॥ मनोहरा आह॥ न हि तात व्यक्तमागतो॥ द्रुमो किन्नरराजा पृच्छति॥ किं त्वया स्वयं दृष्टो उताहो परतो श्रुतो ति॥ सा आह॥ न मे स्वयं दृष्टो नापि परतो श्रुतो अपि मे स्नापयन्तीये सुधनुस्य अंगुलीयका उत्संगे पतिता॥

द्रुमेण किन्नरराज्ञा उदकहारीयो शब्दापितायो। ता दानि शब्दापिय पृच्छीयन्ति॥ क्वचिद्वो उदकहारिं गताहि पुरुषो दृष्टो॥ ता आहन्सुः॥ महाराज दृष्टो किन्नरकुमारः प्रासादिको दर्शनीयो आत्मना चतुर्थो पुष्करिणीये कूले॥ तस्य भवति॥ सो एवमेषो कुमारो मनोहराये ति। कथं सो शक्यति इमां दिशामागन्तुं॥ सो दानि तां धीतरं पृच्छति॥ मनोहरे प्रविशतु सुधनु राजकुमारो इमं राजकुलं॥ सा आह॥ तात प्रविशतु॥ सो इह मम प्रेमेन आगतो

p. 111

बहु च तेन मम निदानं पितृसकाशातो अप्रियो असत्कारो। तेन बन्धनवधदुःखो अनुभूतो न च तेन अहं कदाचित्परित्यक्ता। ततो सुधनु कुमारो पितरेण सुबाहुना बन्धनागारे बन्धित्वा अहं विसर्जिता। सो एष मुक्तो समानो मम पृष्ठतो आगतो॥ द्रुमेण किन्नरराज्ञा अमात्या आणत्ता॥ शीघ्रं नगरं अलंकारापेथ यावच्च राजकुलं यावच्च असुरका पुष्करिणी विततवितानं कारापेथ चित्रपुष्पपरिक्षिप्तं अवसक्तपट्टदामकलापं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं सर्वगन्धोदकसिक्तं। ये मम नगरे प्रधानपुरुषाः चतुरंगबलकायो सर्वे ते मम जामातुः प्रत्युद्गच्छन्तु छत्रध्वजपताकानि च आदाय॥ अमात्येहि वचनमात्रेण सर्वं प्रतिजागृतं महता समृद्धीये प्रत्युद्गमनं कृतं॥ मनोहरापि महारहेन अंशुकेन प्रावृता सर्वालंकारविभूषिता बहूहि किन्नरसहस्रेहि परिवृता तूर्यसहस्रेहि वाद्यमानेहि प्रत्युद्गता॥ सा दानि सुधनुं दृष्ट्वा मूर्ध्नेन पादेहि पतिता मुखेन च केशेन च पादानि संपरिमार्जति॥ एवं सुधनु महता विभूषाये महता समृद्धीये द्रुमस्य किन्नरराज्ञो नगरं प्रवेशितो यावद्राजकुलं द्रुमेण च किन्नरराज्ञा अभिनन्दितो उत्सङ्गे संवेशितो आश्वासितो च॥ एषो ते नगरो सर्वसौवर्ण उद्यानसहस्रमण्डितो अनन्तकल्याणो इह मम धीतराये मनोहराये इह क्रीडाहि रमाहि प्रविचारेहि॥

सुधनु दानि किन्नरनगरे बहूनि वर्षाणि प्रतिवसित्वा क्रीडित्वा रमित्वा प्रविचारेत्वा सर्वोद्यानेषु संवर्तनीयं अनुभवित्वा मनोहरामामन्त्रेसि॥ मनोहरे जानसि त्वं यथा अहं मातापितॄणां एकपुत्रको प्रियो मनापो। अहं तव प्रेमेन अना-

p. 112

पृच्छित्वा मातापितॄणां सर्वकानि उज्कित्वा आत्मना परित्यागं कृत्वा इह आगतो इह मे अद्य बहूनि वर्षाणि प्रतिवसन्तस्य। ततो आमन्त्रेहि मातापितरं गमिष्यामि हस्तिनापुरं॥ ताये मनोहराये मातापितॄणां आरोचितं॥ द्रुमेण किन्नरराज्ञा सुधनु पृच्छीयति॥ कुमार गमिष्यसि मातापितॄणां सकाशं॥ कुमारो आह॥ यदि तात अभिप्रेतं ततो गमिष्यामि। द्रुमो आह॥ विसर्जयिष्यामि इति॥ यम्भका नाम यक्षा किन्नराणामाणत्तिकराः॥ राज्ञा यम्भका यक्षा आणत्ता॥ मम जामातारं सपरिवारं मनोहरासहितं येन हस्तिनापुरं नेथ प्रभूतं च रत्नरतनं॥ तेहि सुधनु कुमारो सपरिवारो मनोहरा च किन्नरनगरातो शयनगता एवमुत्क्षिपित्वा प्रभूतं च रत्नरतनं हस्तिनापुरमानेत्वा राजक्ये उद्याने स्थपिता॥ प्रभाताये रात्रीये कुमारो सुधनु विबुद्धो हस्तिनापुरे व भेरीघोषं शृणोति जनशब्दं च॥ तस्य भवति॥ कहिं अहं हस्तिनापुरं आनीतो॥ इमं राजक्यं उद्यानं पश्यति। तानि रत्नमयानि पर्यंकानि यथा प्रज्ञप्ताति मनोहरां च तं त्रिवर्गं परिवारं प्रभूतं च रत्नं। कुमारो प्रीतो संवृत्तो यथाभिप्रेतं स्वकं नगरमागतो॥

कुमारस्य हस्तिनापुरा गतस्य राज्ञा सुबाहुना मार्गणा कारिता महता उद्योगेन। यं कालं राजा कुमारस्य प्रवृत्तिं न उपलभति तस्य भवति। मृतो भविष्यति कुमारो मनोहरां मार्गन्तो॥ तेन राज्ञा कुमारस्य सुधनुस्य मृतस्य कार्याणि कारितानि॥ सर्वस्य अधिष्ठानस्य भवति। मृतो सुधनु॥ तहिं दानि राजक्ये उद्याने अग्रद्वारेण उद्यानपाला निर्धाविता उद्याने पताकानुच्छ्राप-

p. 113

यन्ति आगता च उद्यानं पश्यन्ति तं च सुधनुं मनोहरां च तं च त्रिवर्गं परिवारं रत्नमयानि च पर्यंकानि महान्तं च रत्नराशिं दृष्ट्वा च पुनः धावन्तो हस्तिनापुरं प्रविष्टा॥ महाजनकायो पृच्छति क्षेमं। ते आहन्सुः। क्षेमं सुधनु कुमारो आगतो हि। सो एव प्रीतो भवति॥ तेहि राजकुलं गत्वा उद्यानपालेहि राज्ञो सुबाहुस्य आरोचितं॥ महाराज दिव्या वृद्धि सुधनु कुमारो आगतो॥ राजा श्रवमात्रेण प्रीतो संवृत्तो सर्वञ्ज्च राजकुलं। तेषां उद्यानपालानं विपुलो दायो दिन्नो॥ राजा सुबाहु सामात्यपरिजनो देवी च सुधनस्य माता सर्वं च अन्तःपुरं उद्यानं निर्धावितं कुमारं द्रष्टुं सर्वञ्च नगरं कुमारस्य सुधनुस्य आगमनशब्दं श्रुत्वा मनोहराये च। अन्तरो जनस्य नास्ति हस्तिनापुरातो राजकृत्यं उद्यानं निर्धावन्तस्य कुमारं द्रष्टुं मनोहरां च॥ सुधनु मातापितरं दृष्ट्वा मूर्ध्नेन निपतितो मनोहरा च श्वश्रूश्वशुरं च दृष्ट्वा मूर्ध्नेन निपतिता॥ कुमारो पितरेण सुबाहुना सार्धं सुवर्णालंकृतं हस्तिनागमारुहित्वा हेमजालसंछन्नं महता राजानुभावेन महता राजऋद्धीये महतीये वियूहाये महतीये विभूषाये हस्तिनापुरं प्रवेशितो॥

एवं समेन्तु सत्वा सर्वेहि प्रियेहि अबोधिप्रहीणा।
यथ तस्मिं समयस्मिं समागतः किन्नरिये सुधनुः॥

भगवानाह॥ स्यत्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन सुधनु नाम कुमारो अभूषि। न एतदेवं द्रष्टव्यं॥ तत्कस्य हेतोः॥ अहं सो भिक्षवः तेन कालेन तेन समयेन सुधर्नुनाम कुमारो अभूषि। अन्यः स तेन कालेन तेन समयेन सुबाहुर्नाम राजा अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एषो भिक्षवो राजा शुद्धोदनो तेन कालेन तेन समयेन सुबाहुर्नाम राजा अभूषि॥

p. 114

अन्या सा तेन कालेन तेन समयेन सुधनुस्य माता अभूषि। न एतदेव द्रष्टव्यं। तत्कस्य हेतोः। एषा भिक्षवो माया देवी तेन कालेन तेन समयेन सुधनुस्य माता अभूषि॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवं अस्यादन्यः स तेन कालेन तेन समयेन सुधनुस्य परिचारको वसन्तको नाम अभूषि। न एतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एष भिक्षवः छन्दको तेन कालेन तेन समयेन सुधनुस्य परिचारको॥ अन्यो सो तेन कालेन तेन समयेन उप्पलको नाम लुब्धकपुत्रो अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एष भिक्षवो राहुलो उप्पलको नाम लुब्धकपुत्रो अभूषि॥ अन्यो सो तेन कालेन तेन समयेन मालको नाम लुब्धकपुत्रो अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एष भिक्षवो आनन्दस्थविरो तेन कालेन तेन समयेन मालको नाम लुब्धकपुत्रो अभूषि॥ अन्यो सो तेन कालेन तेन समयेन काश्यपो नाम ऋषि अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एष भिक्षवः महाकाश्यपः स्थविरः तेन कालेन तेन समयेन अनुहिमवन्ते काश्यपगोत्रो ऋषि अभूषि॥ अन्यो स तेन कालेन तेन समयेन अनुहिमवन्ते वानरराजा अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एष भिक्षवो कण्ठको अश्वराजा तेन कालेन तेन समयेन अनुहिमवन्ते वानरराज अभूषि॥ अन्यो स तेन कालेन तेन समयेन कैलासमूर्ध्नि द्रुमो नाम किन्नरराज अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एष भिक्षवो महानामो शाक्यो तेन कालेन तेन समयेन द्रुमो किन्नरराजा अभूषि॥ अन्या सा तेन कालेन तेन समयेन मनोहराये माता अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एषा भिक्षवः यशोधराये माता तेन कालेन तेन समयेन मनोहराये माता अभूषि॥ अन्या सा तेन कालेन तेन समयेन मनोहरा किन्नरी अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एषा भिक्षवो यशोधरा तेन कालेन तेन समयेन मनोहरा किन्नरी अभूषि। तदापि एषा मया खेदेन लब्धा॥

p. 115

विचित्रगम्भीरकथो बहुश्रुतो
किलेशघाती परवादिमर्दनो।
स भिक्षु शोभेत स्वयंभुशासने
नभे व चन्द्रो परिपूर्णमण्डलो॥

इति श्रीकिन्नरीजातकं समाप्तं॥

भगवान्सम्यक्संबुद्धो यदर्थं समुदागतो तदर्थं अभिसंभावयित्वा श्रावस्त्यां विहरति शास्ता देवानां मनुष्याणां च विस्तरेण निदानं कृत्वा भिक्षूनामन्त्रयति॥ सुकुमारो हं भिक्षवो परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य पिता शाक्यो त्रयो प्रासादा कारयत् हेमन्तिकं ग्रीष्मिकं वार्षिकं मम येव क्रीडार्थं रत्यर्थं परिचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य भिक्षवः पिता शाक्यो तेहि प्रासादेहि कूटागाराणि कारयेत् उल्लिप्तावलिप्तानि वातास्पर्शार्गडानि पिहितवातायनानि धूपनधूपितानि ओसक्तपट्टदामकलापानि मुक्तपुष्पावकीर्णानि मम एव क्रीडार्थं रत्यर्थं प्रविचारार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि कूटागारेहि पर्यंका कारयेत् सुवर्णमयानि रूप्यमयानि रतनमयानि षोडशगोणिकास्तृतां पत्तिकास्तरणां चित्रास्तरणां फलिकास्तरणां उभयतो बिम्बोपधानां लोहितकोपधानां अवदातप्रत्यास्तरणां मम एव क्रीडार्थं रत्यर्थं प्रविचारार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य

p. 116

परमसुकुमारस्य पिता शाक्यो तेहि पर्यंकेहि वितानानि कारापयेत् रजोशुक्रं उपनियमे मम क्रिडार्थं रत्यर्थं परिचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधमनुलेपनमुपस्थापये सय्यथीडं अगुरुचन्दनं कालानुसारिं तमालपत्रं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं॥ सुकुमारो हं भिक्षवो परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधानि वस्त्राणि उपस्थापये। सय्यथीदं काशिकसूक्ष्माणि कम्बलसूक्ष्माणि मम क्रीडार्थं रत्यर्थं परिचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवो सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधां मालां उपस्थापये। सय्यथीदं अतिमुक्तकचम्पकवार्षिकां वातुष्कारी इन्दीवरं दमनकं देवोपसंहितं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः पिता शाक्यो विविधं भोजनं उपस्थापये। शालिं विचित्रकालकं अनेकसूपरसव्यंजनं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो ममानन्तरेण भुक्ताविस्य चक्रवर्त्तियोग्यां मालामुपनामयेत् मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो पंच कामगुणां उपस्थापयेत्। सय्यथीदं नाट्यं गीतं वादितं तूर्यं स्त्रियो च मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधानि यानानि उपस्थापयेत्। सय्यथीदं हस्तियानानि अश्वयानानि नावायानानि शिविकायानानि मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकु-

p. 117

मारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विचित्रा कुथां उपस्थापयेत् सिंहचर्मपरिवाराणां व्याघ्रचर्मपरिवाराणां द्वीपिचर्मपरिवाराणां पाण्डुकम्बलप्रतिच्छन्नानां सनन्दिघोषाणां वैजयन्तिकानां मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो निर्यान्तस्य छत्रं धारापयेत् मा कुमारस्य कायं आतपो रजो शुक्रो वा परिदहे मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य चतुर्दिशमुद्यानानि कारापयेत् मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि उद्यानेहि चतुर्दिशं पुष्करिणीं कारापयेत् उत्पलपदुमनलिनीसौगन्धिकप्रच्छन्नां मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं॥ सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि उद्यानेहि चतुर्दिशं प्रासादां कारापये उच्चां महन्तां प्रगृहीतां मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं॥

सुकुमारो हं भिक्षवः परमसुकुमारो। तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य एतदभूषि॥ संबाधो पुनरयं गृहवासो अभ्यवकाशं प्रव्रज्या तु। न शक्य अगारमध्यावसता एकान्तसंलिखितं एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं यं नूनाहं अगारस्यानगारियं प्रव्रजेयं॥ स खल्वहं भिक्षवः अकामकानां मातापितॄणां अश्रुकण्ठानां रुदन्मुखानां अलूहं गृहवासं हस्तोक्तं चक्रवर्तिराज्यमपहाय अगारस्यानगारियं प्रव्रजितो पुनस्समानो येन वैशाली नगरी तदवसारि तदनुप्रा-

p. 118

प्तो॥ तेन खलु पुनः समयेन वैशाल्यां महानगर्यां आराडो कालामो प्रतिवसति त्रयाणां श्रावकशतानां सत्कृतो गुरुकृतो मानितो पूजितो अर्चितो। सो जिनश्रावकाणां आशंकितव्यसहव्रतायै धर्मं देशयति। सो जिनश्रावकाणामेवमाह। पश्यथ पश्यथ प्रजहथ प्रजहथ॥ ते पि तं श्रावका एवमाहन्सुः॥ पश्यामः पश्यामः प्रजहामः प्रजहामः वयं चान्ये च॥ तस्य मे भिक्षवो एतदभूषि॥ यं नूनाहं आराडे ब्रह्मचर्यं चरेयं॥ स खल्वहं भिक्षवः येन आराडो कालामो तेनोपसंक्रमित्वा आराडं कालाममेतदवोचत्॥ इच्छेयमहं भगवतो आराडस्य ब्रह्मचर्यं चरितुं॥ एवमुक्ते भिक्षवः आराडो कालामो एतदवोचत्॥ चर भो गौतम तथारूपो अयं धर्मविनयो यत्र श्राद्धो कुलपुत्रो ब्रह्मचर्यं चरे चरं च पुनः आराधयेत्कुशलां धर्मां॥ तस्य मे भिक्षवः एतदभूषि॥ मह्यं पि खलु अस्ति च्छन्दो अस्ति बलं अस्ति वीर्यं यं नूनाहं एतस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै। एको प्रमत्तो आतापी प्रहितात्मो व्यपकृष्टो विहरन्तो नचिरस्यैवं धर्मं अधिगमि साक्षाकारि॥ स खल्वहं भिक्षवः येन आराडो कालामो तेनोपसंक्रमित्वा आराडं कालाममेतदवोचत्॥ एत्तको यं भगवता आराडेन धर्मो अधिगतो साक्षात्कृतः देशितो प्रज्ञप्तो॥ एवमुक्ते भिक्षवः आराडो कालामो एतदवोचत्॥ एवमेतं गौतम एत्तको यं मया धर्मो अधिगतो साक्षात्कृतः देशितो प्रज्ञप्तः॥ एवमुक्तो हं भिक्षवः आराडं कालाममेतदवोचत्॥ तेन हि भो आराड मयाप्ययं धर्मो अधिगतो साक्षात्कृतो॥ एवमुक्ते मे भिक्षवः आराडो कालामो एतदवोचत्॥ तेन भो गौतम

p. 119

यं धर्मं जानामि तं भवां गौतमः धर्मं जानाति यं भवां गौतमो धर्मं जानाति तमहं जानामि। तेन हि उभये एवं श्रावकसंघं परिहरावः॥ इति तस्य मे भिक्षवः सो आराडो कालामो परमया पूजया पूजयेत्परमया च प्रशंसया प्रशंसे। एवं दर्शनं न समानं समानार्थताये स्थापयेत्॥ तस्य मे भिक्षवः एतदभूषि। नायं आराडस्य धर्मो निर्याति तत्करस्य सम्यग्दुःखक्षयाये। यन्नूनाहं उत्तरि पर्येषयेयं॥ स खल्वहं भिक्षवो तथादर्शनायैव समानो येन राजगृहं नगरं तदवसारिं तदनुप्राप्तः तत्रैव विहरामि राजगृहे नगरे॥

तेन खलु पुनस्समयेन उद्रको रामपुत्रो राजगृहे प्रतिवसति। सप्तानां श्रावकशतानां सत्कृतो गुरुकृतो मानितो पूजितो॥ सो जिनश्रावकाणां नैवसंज्ञासंज्ञायतनसहव्रतायै धर्मं देशयति॥ सो जिनश्रावकाणामेवमाह॥ पश्यथ पश्यथ प्रजहथ प्रजहथ॥ ते पि च श्रावका एवमाहन्सुः॥ पश्याम पश्यामः प्रजहाम प्रजहामः वयं चान्ये च॥ तस्य मे भिक्षवः एतदभूषि। यं नूनाहं उद्रके रामपुत्रे ब्रह्मचर्यं चरे॥ स खल्वहं भिक्षवो येन उद्रको रामपुत्रः तेनोपसंक्रमित्वा उद्रकं रामपुत्रमेतदवोचत्॥ इच्छेयमहं भो उद्रक भवतो ब्रह्मचर्यं चरेयं। स च मे भवां उद्रको अनुमानेया॥ एवमुक्ते भिक्षवः उद्रको रामपुत्रो एतदवोचत्॥ तेन हि चर भो गौतम वस भो गौतम तथारूपो अयं धर्मविनयो यत्र श्राद्धो कुलपुत्रो

p. 120

ब्रह्मचर्यं चरे चरं च पुनः आराधये कुशलां धर्मान्॥ तस्य मे भिक्षवः एतदभूषि॥ मह्यं पि खलु अस्ति च्छन्दो अस्ति बलं अस्ति वीर्यं। यं नूनाहं एतस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै एको अप्रमत्तो आतापी प्रहितात्मा व्यपकृष्टो विहरेयं॥ स खल्वहं भिक्षवः तस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै एको प्रमत्तो आतापी प्रहितात्मा व्यपकृष्टो विहरन्तो नचिरस्यैव तं धर्मं अधिगमि साक्षीकरि॥ स खल्वहं भिक्षवः येन उद्रको रामपुत्र एतदवोचत्॥ एत्तको यं भो उद्रकेन भवता रामेण धर्मो अधिगतो साक्षात्कृतो देशितो प्रज्ञप्तो यमिदं नैवसंज्ञानासंज्ञायतनं॥ एवमुक्ते भिक्षवः उद्रको रामपुत्रो एतदवोचत्॥ एत्तकमिदं भो गौतम भवता रामेण अधिगतो साक्षीकृतो प्रज्ञप्तो यमिहैव संज्ञानासंज्ञायतनं॥ स खल्वहं भिक्षवः उद्रकं रामपुत्रमेतदवोचत्॥ तेह हि उदक मयापि अयं धर्मो धिगतो साक्षात्कृतो॥ एवमुक्ते भिक्षवः उद्दको रामपुत्रो एतदवोचत्॥ तेन हि गौतम यं सो भवां रामो धर्मं जानाति तं भवां गौतमो धर्मं जानाति। तेन हि भवां एव दानि गौतमो श्रावकसंघं परिहरतु॥ इति स खलु मे भिक्षवो उद्रको रामपुत्रो परमया पूजया पूजयति परमया प्रशंसया प्रशंसे तथादर्शनं च समानमाचार्यस्थाने स्थापये॥ तस्य मे भिक्षव एतदभूषि। न चायं तस्य रामस्य धर्मो निर्याति तत्करस्य सम्यग्दुःखक्षयाय। यन्नूनाहं उत्तरि पर्येष्टिमापद्येहं। स चाहं भिक्षवो तथादर्शनतो एवं न समानो येन गयानगरं तदवसारि। तदनुप्राप्तः तत्रैव विहरामि॥


p. 121
गयाशीर्षे पर्वते विहरन्तस्य तिस्रो उपमा प्रतिभायेन्सुः पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैवाविज्ञातपूर्वा च। कतमा तिस्रो॥ ये हि केचिद्भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि अव्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता ये पि चेमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किंचापिमे भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकान्ते वेदनां वेदयन्ति॥ अथ खलु अभव्या एव ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये॥ सय्यथापि नाम इह पुरुषो आगच्छे ज्योति अर्थिको ज्योतिगवेषी ज्योतिं पर्येषमाणो सो आर्द्रे काष्ठे सस्नेहे आर्द्राये उत्तरारणीये अन्तोदको अभिमन्थन्तो अभव्या तेजस्य अभिनिर्वर्तनाये ज्योतिस्य प्रादुर्कर्माय एवमेव भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति॥ अथ खलु अभव्या एव ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये॥ अयं खलु मे भिक्षवः गयाशीर्षे पर्वते विहरन्तस्य प्रथमा उपमा प्रतिभाति पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैव अविज्ञातपूर्वा च॥

तस्य मे भिक्षवः एतदभूषि॥ ये हि केचिद्भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता एवमिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किं चापि ते

p. 122

भवन्तो श्रमणा वा ब्रामणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति॥ अथ खलु अभव्या एवन्ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये। सय्यथापि नाम इह पुरुषो आगच्छेया ज्योत्यर्थो ज्योतिगवेषी ज्योति पर्येषमाणो सो आर्द्रे काष्ठे सस्नेहे आर्द्राये उत्तरारणीये स्थले पि अभिमथ्नन्तो अभव्या तेजस्य अभिनिर्वर्तनाये ज्योतिप्रादुःकर्माये एवमेव ये हि केचि श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किंचापि ते भवन्तो श्रमणा ना ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति॥ अथ खलु अभव्या एवं उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये॥ अयं खलु भिक्षवो गयाशीर्षे पर्वते विहरन्तस्य द्वितीया उपमा प्रतिभाये पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता च अविज्ञातपूर्वा च॥

तस्य मे भिक्षवः एतदभूषि॥ ये केचिद्भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति व्यपकृष्टचित्ता ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति प्रतिविनीता किं चापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरिरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति॥ अथ खलु भव्या एवन्ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये॥ सय्यथापि नाम इह पुरुषो आगच्छे ज्योत्यर्थिको ज्यो-

p. 123

तिगवेषी ज्योति पर्येषमाणो सो शुष्ककाष्ठे विगतस्नेहे शुष्काये उत्तरारणीये स्थले अभिमन्थन्तो भव्या तेजस्य अभिनिर्वर्तनाये ज्योतिष्य प्रादुःकर्माये एवमेव ये केचिद्भवन्तो श्रमणा वा ब्राह्मणा वा कामेषु व्यपकृष्टकाया विहरन्ति व्यपकृष्टचित्ता ये पि ते कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति प्रतिविनीता किंचापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखा तीव्रां खरां कटुकां वेदना वेदयन्ति॥ अथ खलु भव्या च ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये॥ अयं खलु भिक्षवो गयाशीर्षे पर्वते विहरन्तस्य तृतीया उपमा प्रतिभाये पूर्वे अश्रुता चैव अश्रुतपूर्वा च॥ इमा खलु भिक्षवः गयाशीर्षे पर्वते विहरंतस्य तिस्रो उपमा प्रतिभायेन्सुः पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैव अविज्ञातपूर्वा च॥

तस्य मे भिक्षवः एतदभूषि॥ अहं खलु कामेहि व्यपकृष्टकायो विहरेयं व्यपकृष्टचित्तो ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि मह्यं प्रतिविनीता किंचाप्यहं आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयामि। अथ खलु भव्या एवमहं उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये॥

स खल्वहं भिक्षवः तथादर्शनसमानो येन उरुविल्वा सेनापतिग्रामस्तदवसारिं तदनुप्राप्तः॥ तत्राद्राक्षीत् वृक्षमूलानि प्रासादिकानिदर्शनीयानि प्रान्तानि विविक्तानि विगतव्यसनानि विगतजनपदानि मनोज्ञह्रदसय्यकानि प्रतिसंलयने आरुप्याणि। समन्तेन च गोचरग्रामाणि नातिदूराणि नात्यासन्नानि आगमनगमनसंपन्नानि समं च भूमिभागं नदीं च नैरंजनां समां सेतकां सम्पन्नार्थां शुचिसम्पन्नतोय्आं स्यन्दमानां दृष्ट्वा च पुनः मे अतीव मनः प्रसादे॥ अलं पुनः मे श्रद्धाय प्रव्रजितस्य

p. 124

कुलपुत्रस्य प्रहाणाये यं नूनाहं इहैव प्रहाणं प्रहरेयं॥ स खल्वहं भिक्षव इदमेव कायं चेतसा एवं चेत अभिनिगृह्णे अभिनिपीडे॥ तस्य मे भिक्षवः इदमेव कायं चेतसा एवं चेत अभिनिगृह्णतो अभिनिपीडतो कच्छेहि स्वेदा मुक्ता भूम्यां निपतिता ऊष्मायेन्सु वाष्पायेन्सु मुखतो ललाटातो स्वेदा मुक्ता भूम्यां निपतिता ऊष्मायेन्सु वाष्पायेन्सुः॥ संय्यथापि नाम भिक्षवो बलवां पुरुषो दुर्बलं पुरुषं ग्रीवायां गृहीत्वा अभिनिगृह्णे अभिनिपीडे एवमेव भिक्षव इदमेव कायं चेतसा एवं चेत अभिनिगृह्णतो अभिनिपीडयतो कच्छेहि स्वेदा भूम्यां निपतिता ऊष्मायेन्सुः मुखललाटातो स्वेदा मुक्ता भूम्यां निपतिता ऊष्मायेन्सुः वाष्पायेन्सुः॥

तस्य मे भिक्षव एतदभूषि। यं नूनाहं आस्फानकं ध्यायेयं॥ स खल्वहं भिक्षवो मुखतो नासिकाश्रोत्रेहि च आश्वासप्रश्वासा उपरुन्धि॥ तस्य मे भिक्षवः मुखतो च नासिकाश्रोत्रेहि च आश्वासप्रश्वासा उपरुध्वा उभयतो कर्णश्रोत्रविवरान्तरेहि उच्चशब्दो महाशब्दो वीतिसंचरेन्सुः। सय्यथापि कर्मारगर्गरी धम्यमाना उच्चशब्दमहाशब्दा भवति एवमेव भिक्षवः मुखतो च नासिकाश्रोत्रेहि च आश्वासप्रश्वासेहि उपरुद्धेहि उभयतो कर्णश्रोत्रविवरान्तरेहि उच्चशब्दमहाशब्दा वीतिसंचरेन्सु॥ तस्य मे भिक्षवः एतदभूषि। यं नूनाहं भूयस्या मात्रया आस्फानकं ध्यायेयं॥ स खल्वहं भिक्षवः मुखतो न नासिकाश्रोत्रेहि च उभयतो च कर्णश्रो-

p. 125

त्रविवरान्तरेहि आश्वासप्रश्वासानुपरुन्धे। तस्य मे भिक्षवः मुखतो च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि आश्वासप्रश्वासा ओरुध्वा ऊर्ध्वं शीर्षकपालं वाता प्रहरेन्सुः समुत्तरेन्सुः। सय्यथापि नाम भिक्षवः गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन गोविकर्तनेन गावीये शीर्षकपालं दालेय संप्रदालेय च्छिन्देय परिकर्तये संपरिकर्तये एवमेव मुखतो च नासिकाश्रोत्रेहि च उभयतो कर्णश्रोत्रविवरेहि आश्वासप्रश्वासा उपरुध्वा ऊर्ध्वं शीर्षकपालं प्रहरेन्सु समूहेन्सुः॥ तस्य मे भिक्षवः एतदभूषि॥ सन्ति इहैव केचि शुद्धिं प्रज्ञपयन्ति ते कोलं पि आहारमाहरंति कोलच्छल्लं पि आहारं आहरन्ति कोलोदकं पि पिबन्ति विविधाहि पि कोलविकृतीहि यापेन्ति। यं नूनाहं एकं कोलकमद्वितीयं आहारमाहरेयं॥ स खल्वहं भिक्षवः एकंकोलमद्वितीयमाहारं आहरे। तस्य मे अयं कायो अधिमात्रकृशतामनुप्राप्तो अभूषि अधिमात्रकृशतामनुप्राप्तो अभूषि॥ सय्यथापि नाम कालपर्वाणि वा एवमेव मे अंगानि अभून्सुः सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवमेव मे पर्शुका अभून्सुः। सय्यथापि नाम उभयतो पार्श्वे विवृतायां वाहनागारशालायां गोपानसीये अन्तराणि विवटानि वीतिलोकेन्सुः वीतिकासेन्सु एवमेव पार्शुलिकानि पर्शुलिकान्तराणि विबद्धानि वीतिलोकेन्सुः वीतिकासेन्सुः। सय्यथापि नाम वट्टनवेणी उन्नतावनता एवमेव पृष्ठकण्ठकानि

p. 126

अभूषि उन्नतावनतानि। सय्यथापि नाम ग्रीष्ंआणां पश्चिमे मासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाय प्रकाशेन्ति एवमेव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाय प्रकासेन्सुः। सय्यथापि नाम सारदिकन्तिक्तालाबु हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटजातं एवमेव शीर्षकपालं अभूषि आमिलातं संमिलातं संपुटजातं॥ स खल्वहं भिक्षवः पुरिमं कायं परिगृःनीष्यामीति पृष्ठिमकं अभिनिगृण्हे उच्छ्रेष्यन्ति तत्रैव अपकुब्जको प्रपतामि॥ स खल्वहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छ्रेत्वा पांशुकृतानि गात्राणि पाणिना परिजार्जेहं॥ तस्य मे भिकवः पांशुकृतानि गात्राणि पाणिना प्रमार्जतो पूतिमूलनि रोमाणि काये शीर्येन्सुः॥ अपि हि जितं जनपदग्रामेहि स्त्रीयो पुरुषा च एवमाहन्सुः॥ कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो॥ यापि चेषा शुभतनुवर्णनिभा सापि मे अन्तर्हिता एतिना एवं लूहप्रहाणेन॥

तस्य मे भिक्षवः एतदभूषि॥ सन्ति एके भवन्तो श्रमणब्राह्मणाः तण्डुलाहारताये शुद्धिं प्रज्ञपेन्ति ते तण्डुलं पि आहारं तण्डुलचूर्णं पि तण्डुलोदकं पिबन्ति विविधाहि पि तण्डुलविकृतीहि यापेन्ति। यं नूनाहं एकं तण्डुलमद्वितीयमाहारमाहरेयं॥ स खल्वहं भिक्षवः एकं तण्डुलमद्वितीयं आहारं आहरन्तो अयं मे कायो अधिमात्रं कृशतामनुप्राप्तः अभूषि॥ सय्यथापि नाम कालपर्वाणि वा अशीतकपर्वाणि एवंरूपाणि मे अंगप्रत्यंगानि अभून्सुः। सय्यथापि

p. 127

नाम उभयतो पार्श्वे विवटायां वाहनागारशालायां गोपानसी अन्तराणि विवटानि वीतिलोकेन्ति वीतिकाशेन्ति एवमेव च पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः वीतिकाशेन्सुः। सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवमेव कक्षवक्षा अभून्सुः सर्वासामनुत्तरं कार्कश्यं। सय्यथापि नाम वट्टनवेणी उत्ततावनता एवमेव मे पृष्ठिकण्ठकास्थिकानि अभून्सुः। सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवमेव अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः। सय्यथापि नाम तिक्तालाबु शारदिकं हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटकजातं एवमेव शीर्षकपालं अभूषि आमिलातं संमिलातं संपुटाकजातं॥ स खल्ह्वहं भिक्षवः पुरिमं कायं निगृह्णीयामीति पृष्ठिकण्ठकमेव परिगृह्णामि उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि॥ स खल्वहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयं। तस्य मे भिक्षवः पांशुकृतानि गात्राणि परिमार्जतो पूतिमूलानि काये रोमाणि शीर्येन्सुः॥ अपि हि जितं सामन्तेहि गोचरग्रामेहि स्त्रियो च पुरुषा च एवमाहन्सुः। कालको दानि श्रमणो गौतमो श्यमको दानि श्रमणो  गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो। यापि मे सा शुभवर्णनिभा सापि अन्तर्हिता एतिना एवं लूहप्रहाणेन॥

तस्य मे भिक्षव एतदभूषि॥ सन्ति हि इहैके भवन्तः श्रमणब्राह्मणा तिलाहार-

p. 128

ताये शुद्धिं प्रज्ञपयन्ति। ते तिलं पि आहारं आहरन्ति तिलचूर्णं पि तिलोदकं पि पिबन्ति विविधाहि पि तिलविकृतीहि यापेन्ति। यं नूनाहं एकं तिलवद्वितीयमाहारमाहरेयं॥ स खल्वहं भिक्षवः एकं तिलमद्वितीयमाहारमाहरेयं॥ तस्य मे भिक्षवः एकं तिलमद्वितीयमाहारमाहरतो अयं कायो अधिमात्रं कृशताप्राप्तो अभूषि। सय्यथापि नाम कालपर्वाणि अशीतकपर्वाणि एवंरूपाणि मे अङ्गप्रत्यंगानि अभून्सुः। सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवमेव मे हनुका अभूषि। सय्यथापि नाम उभयतो पार्श्वे विवटाये वा वाहनागारशालाया गोपानसी अन्तराणि विवटानि वीतिलोकेन्ति वीतिकाशेन्ति एवमेव मे पार्शुलिकानि पार्शुलिकान्ताराणि विवटानि वीतिलोकेन्सुः। सय्यथापि नाम वट्टनवेणी उन्नतावनता एवमेव मे पष्ठिकण्हकानि अभून्सुः। सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारा दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवमेव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः। सय्यथापि सारदिकं तिक्तालाबु हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटजातं एवमेव मे शीर्षकपालं अभूषि आमिलातं संमिलातं संपुटजातं॥ स खल्वहं भिक्षवः पुरिमं कायं परिगृह्नीष्यामीति पृष्ठिकण्ठकमेव परिऱ्ह्णामि उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि। स खल्वहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयं। तस्य मे भिक्षवः पांशुकृतानि गात्राणि पाणिना परिमार्जतो पूतिमूलानि काये रोमाणि शीर्येन्सुः। अपि हि

p. 129

जितं सामन्तेहि गोचरग्रामेहि स्त्रियो च पुरुषा च एवमाहन्सुः। कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो। यापि मे सा शुभवर्णनिभा सापि अन्तर्हिता एतिना एवंलूहप्रहाणेन॥

तस्य मे भिक्षवः एतदभूषि॥ सन्ति खलु इहैके भवन्तः श्रमणब्राह्मणाः सर्वशो अनाहारतायै शुद्धिं प्रज्ञपयन्ति। यं नूनाहं सर्वशो अनाहारताये प्रतिपद्ययं तस्य मे भिक्षवः सर्वशो अनाहारतायै प्रतिपन्नस्य अयं काय अधिमात्रं कृशताप्राप्तः अभूषि। सय्यथापि नाम कालपर्वाणि वा अशीतपर्वाणि वा एवरूपाणि मे अंगप्रत्यंगानि अभून्सुः। सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवमेव मे हनुका अभून्सुः। सय्यथापि नाम उभयतो पार्श्वे विवटाये वाहनागारशालाये गोपानसीये अन्तराणि विवटानि वीतिलोकेन्ति वीतिकासेन्ति एवमेव मे पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः वीतिकासेन्सुः। सय्यथापि नाम वट्टनवेणी उन्नतावनता एवमेव मे पृष्ठकण्ठका अभून्सुः। सय्यथापि नाम ग्रीष्ंआणां पश्चिमे मासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवमेव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः। सय्यथापि नाम शारदिकं तिक्तालाबु हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटजातं एवमेव मे शीर्षकपालमभूषि आमिलातं संमिलातं संपुटाकजातं॥ स खल्वहं भिक्षवः पुरिमं कायं परिगृह्णीष्यामीति पृष्ठिकण्ठकमेव परि-

p. 130

गृह्णामि उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि॥ स खल्वहं भिक्षवः साधु च सुष्ठु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयं। तस्य मे भिक्षवः पांशुकृतानि गात्राणि परिमार्जतो पूतिमूलानि रोमाणि शीर्येन्सुः। अपि हि जितं सामन्तेहि गोचरग्रामेहि स्त्रीयो च पुरुषा च एवमाहन्सुः। कालको दानि श्रमणो गौतमो श्यमको दानि श्रमणो गौतमो मद्गुरच्छविको दानि श्रमणो गौतमो। यापि मे सा शुभवर्णनिभा सापि मे अन्तर्हिता एतिना एवंलूहप्रहाणेन॥

तस्य मे भिक्षवः एतदभूषि॥ ये केचिद्भवन्तः श्रमणा वा ब्राह्मणा वा आत्मनोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति एत्तावत्पारमिते इमं पि न केनापि संभुणन्ति॥ अतीतं भिक्षवः अध्वानं एतरहिं पि भिक्षवः प्रतुत्पन्ने ये केचिद्भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति एत्तावत्पारमिते इमं पि न केनापि संभुणन्ति॥ न खो पुनरः अभिजानामि इमाये दुष्करचारिकाये कंचिदुत्तरिमनुष्यधर्मं अलमार्यं ज्ञानदर्शनं विशेषाधिगमं साक्षात्कर्तुं नायं मार्गं बोधाय॥ अभिजानामि खलु पुनरहं पूर्वे प्रव्रज्यायै अप्रव्रजितो पितुः शाक्यस्य उद्यानभूमीये शीतलायां जम्बुच्छायायां पर्यंकेन निषणो विविक्तं कामैः विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कः सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यामुपसंपद्य विहरामि॥ स्यात्खलु पुनः सो मार्गो बोधाय॥ तस्य मे भिक्षवो वसतो तदनुसारि विज्ञानमुदपासि। स एव मार्गो बोधाये। न खलु पुन सो मार्गो लभ्यो कृशेण वा दुर्बलेन वाक्रान्तकायेन वा सर्वशो वा अनाहारताये प्रतिपन्नेन। यं नूनानं

p. 131

औदारिकमाहारमाहरेयं...............................मम प्रतिचारे (?) तेन लूहप्रहाणेन.................सचेतनो यापयिष्यसि। वयन्ते रोमकूपविवरान्तरेषु दिव्यामोजामध्योहरिष्यामः॥ तस्य मे भिक्षव एतदभूषि॥ अहं खलु सर्वशो अनाहारं प्रतिजानामि सामन्तकेहि पि मे गोचरग्रामेहि स्त्रियो च पुरुषा च एवं संजानन्ति अनाहारो श्रमणो गौतमो इमा च देवता लूहाधिमुक्ता लूहाभिप्रसन्ना रोमकूपविवरेहि दिव्यामोजामध्योकिरेन्सुः सो मम स्यात्संप्रजानमृषवादो॥ स खल्वहं भिक्षवः संप्रजानमृषावादभयभीतो संप्रजानमृषावादं परिवर्जये जुगुप्समानो अलं मेति तां देवतां प्रतिक्षिपित्वा अनुसुखमौदरिकमाहारमाहरेयं॥ स खल्वहं भिक्षवो मुद्गयूषविकृतं भुंजेह कुलच्छयूषं पि हरेणूकायूषं पि॥

स खल्वहं भिक्षवः अनुपूर्वेण कायबलस्थामं जानयित्वा सुजाताये ग्रामिकाये मध्पायसं गृहीत्वा नागनन्दीकालसमये येन नदी नैरंजना तेनुसंक्रमित्वा नद्यां नैरंजनायां गात्राणि शीतलीकृत्वा येन स्वस्तिको यावसिकः तेनोपसंक्रमित्वा स्वस्तिकं यावसिकं तृणमुष्टिं याचित्वा येन बोधियष्टि तेनुपसंक्रमित्वा बोधियष्टिये पुरतो अन्यतराग्रतृणसंस्तरं प्रज्ञपयित्वा बोधियष्टिं त्रिष्कृत्यो प्रदक्षिणीकृत्वा निषीदि पर्यंकमाभुंजित्वा ऋजु प्राचीनाभिमुखो पुरिमं कायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थापयित्वा स खल्वहं भिक्षवः विविक्तमेव कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानमुपसंपद्य विहरामि॥ सवितर्कविचारणं व्युपसमादध्यात्मसंप्रसादाच्चेतसो एकोतिभावा अवितर्कं अवि-

p. 132

चारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरामि॥ स प्रीतेर्विरागादुपेक्षकश्च विहरामि स्मृतश्च संप्रजानं सुखं च कायेन प्रतिसंवेदयामि यत्र आर्या आचिक्षन्ति उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरामि॥ स सुखस्य च प्रहाणा दुःखस्य च प्रहाणात्पूर्वे च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरामि॥ स खल्वहं भिक्षवः तथा समाहितेन चित्तेन......अभिनिर्नामयामि। स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यामि च्यवन्तां उपपद्यन्तां सुवर्णां दुवर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां॥ सत्वां प्रजानामि इमे भवन्तः सत्वाः कायदुश्चरितेन समन्वागता आर्याणामपवादकाः मिथ्यादृष्टिकाः ते मिथ्यादृष्टिकर्मसमादानहेतोः तद्धेतोः तत्प्रत्ययात्कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकेषूपपन्ना॥ इमे पुनर्भवन्तः सत्वा कायसुचरितेन समन्वागताः मनःसुचरितेन समन्वागता आर्याणमनपवादकाः सम्यग्दृष्टिका ते सम्यग्दृष्टिकर्मसमादानहेतोः तद्धेतोः तत्प्रत्ययात्कायस्य भेदात्परं मरणात्सुगतिं स्वर्गं कायं देवेषूपपन्नाः॥ स खल्वहं भिक्षवः तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्र्या मध्यमे यामे पूर्वनिवासानुस्मृतिज्ञानदर्शनप्रतिलाभाये चित्तमभिनिर्हरामि अभिनिर्नामयामि अनेकविधं पूर्वनिवासं समनुस्मरामि। सय्यथीदं एकां पि जातिं दुवे पि जाती त्रयो पि जाती चत्वारो पि जातीं पंचापि जातीं दशापि जातीं विंशति जाती त्रिंशति जाती

p. 133

चत्वारिंशद्वा जातीः पंचाशं वा जातीः जातीशतं वा जातीसहस्रं वा अनेका पि संवर्तकल्पा वा अनेका पि संवर्ता अनेका पि विवर्ता अनेका पि संवर्तविवर्तकल्पा अमुत्राहमासी एवंनामा एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी। सो ततो च्युतो अमुत्र उपपद्ये ततो च्युतः इच्छत्वमागच्छसि इति साकारं सोद्देशं अनेकविधं पूर्वेनिवासमनुस्मरामि॥ स खल्वहं भिक्षवं भिक्षवः तथ समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्र्याः पश्चिमे यामे अरुणोद्घाटकालसमये नन्दीमुखयां रजन्यां यत्किंचित्पुरुषनागेन पुरुषसिंहेन पुरुषर्षभेण पुरुषधौरेण पुरुषजानेयेन पुरुषपदेमेन पुरुषपुण्डरीकेन सत्पुरुषेण महापुरुषेण अनुत्तरेण पुरुषदम्यसारथिना गतिमेन स्मृतिमेन मतिमेन धृतिमेन द्युतिमेन सर्वसो सर्वत्रताये ज्ञातव्यं प्राप्तव्यं अभिसंबोद्धव्यं सर्वं तं एकचित्तक्षनसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो॥ इदमवोचद्भगवानात्तमना ते भिक्षवो भगवतो भाषितमभ्यनन्देन्सुः॥

अथ शुद्धोदनः स्वप्नं पश्यति॥

पश्यामि पुत्र सुपिने रतनावगाढं
अभ्युत्थितं गजवरं मणिजालच्छन्नं।
मध्ये पुरस्य अध्वनावस्थितो च रात्रौ
निर्धावते पुरवरा अभिकम्पमानः॥
तं दृष्ट्व मह्य सुपिने विपुलं च हास्यं
अभ्युत्थितं रुदितमेव च अप्रमेयं।
कम्पे च मे संपरितप्तं शरीरमन्त-

p. 134

र्दाह समुद्धनति किं तु भविष्यते द्य॥
अथ लोकपाल अवचू मनुजप्रधानं
मा भाय भूमिपति संजनयाहि हर्षं।
हन्त शृणोहि फलं यं सुपिनस्य तत्वं
समुत्थितं बहुजनस्य विबोधनार्थं॥
एषो महागुणधरो विजहित्व राज्यं
दुतियास्तथैव चतुरा स्वजनं न स्फीतं।
निःसंशयं वरबलं अनपेक्षमाणो
निर्यास्यते पुरवरा विदितं स भोतु॥
एतस्मिं निर्गते अनेकविधं ति दुःखं
जायिष्यते सुपिनि यं हसितं ति तत्वं।
यं रोदसि सुपिनि दानि सुखं अनन्तं
श्रुत्वा भविष्यति जिनं जितशत्रुसंघं॥

मातुःस्वसापि सुपिनं पश्यति॥

मातुःस्वसा अवच कांचनराशिवर्ण
पश्यामि पुत्र सुपिने ऋषभं सुजातं।
श्वेतं सुचारुकुकुमं अतिरिक्तशृंगं
शृङ्गारसंस्थितगतिं प्रतिपूर्णदेहं॥
सो गर्जति सुमधुरं कपिलाहूयातो
निर्धावते हृदयदृष्टिपथं हरन्तः।
न च कश्चि तं प्रसहते अभिगर्जमानं
प्रतिगर्जितुं कुमुदराशिनिभं सुजातं॥

p. 135

ते देवराज अवचू करुणं रुदन्तं
मा रोद शाक्यकुलनन्दनजातराग।
वक्ष्यामि ते अवितथावचनं विजालं
आनन्दजानि उपजानय त्वं सुखानि॥
अत्यन्तशुद्धचरणं कुशलोपपेतं
एषो नरर्षभ गतीमतिनां विधिज्ञः।
हित्वा जनं पुरुषसिंहवरो पुरो च
न्र्गम्य ते अभिलषे पुरुषर्षभत्वं॥
सो पि अमृतं अचलमच्युतमप्रकम्प्यं
निर्वानमप्रतिसमं प्रतिशुद्धचक्षुः।
निर्दिश्य तं पुरुसिंहरुतं महर्षिः
यं श्रुत्व तीर्थिकगणा दिशतां व्रजन्ति॥

यशोधरपि सुपिनं पश्यति॥

अथ रहुलस्य जननी इदमब्रवीत्पि
मैत्रोत्तरेण मदनेन निबद्धचित्ता।
देव शृणोहि यथ अद्य मयापि दृष्टं
सुपिनं मनोरमं फलं च मे तद्भवेयात्॥
शुद्धोदनस्य किल राजकुलं नरेन्द्र
मेघो समन्तं क्षणेन समाददन्तो।
लोकत्रयं प्रबलतोयधरो सुघोषो
विद्युत्प्रदीप विप्रद्योतयंतो बहूनि॥

p. 136

सो शीतलं विमलमप्रतिमं प्रसन्नं
वारि प्रवृष्य मधुरं अभिगर्जमानो।
वर्षेति सागरधरो शयने निदाघं
एषो पि अन्तःसुखितो स सहांपतीको॥
ब्रह्मा अथ उपगमित्व इदं अवोच
तां राहुलस्य जननीं शृणु मा विषीदं।
इष्टं फलं तव अयं सुपिनो महार्थो
संपूर्यते चपलमेव जनेहि प्रीतिं॥
शुद्धोदनस्य अयमात्मजो चारुनेत्रो
लोकत्रयं जलधरो इव वर्षमाणो।
प्रह्लादयिष्यति महापरितापतप्तान्
धर्मं ध्रुवं करुणमप्रतिमं जनेत्वा॥

बोधिसत्वो पि पंच महासुपिनां पश्यति। परमसंबोधिप्राप्तो श्रावस्त्यां भिक्षूणां व्याकरोति॥ तथागतो भिक्षवो पूर्वे संबोधिमनभिसंबुद्धो पंच महासुपिनानि अद्राक्षीत्॥ तथागतस्य कतमानि पंच॥

तथागतस्य भिक्षवः पूर्वे सम्बोधिमनभिसंबुद्धस्य इयं महापृथिवी उच्चशयनमहाशयनमभूषि। सुमेरु पर्वतराजा बिम्बोपधानमभूषि। पुरस्तिमे महासमुद्रे वामा बाहा ओहिता अभूषि पश्चिमे च महासमुद्रे दक्षिणा बाहा ओहिता अभूषि। दक्षिणे पि महासमुद्रे उभौ पादतलानि ओहितानि अभून्सुः। तथागतो भिक्षवः पूर्वे संबोधिमनभिसंबुद्धो इमं प्रथमं महासुपिनमद्राक्षीत्॥

p. 137

तथागतस्य भिक्षवः पूर्वे संबोधिमनभिसंबुद्धस्य क्षीरिका नाम तृणजाति नाभिमण्डलादभ्युद्गम्य यावन्नभमासद्य अस्थासि॥ तथागतो भिक्षवः पूर्वे संबोधिमनभिसंबुद्धो इमं द्वितीयं महासुपिनमद्राक्षित्॥

तथागतस्य भिक्षवो पूर्वे संबोधिमनभिसंबुद्धस्य लोहितका प्राणका कालशीर्षका पादतलेहि यावज्जानुमण्डलानि च्छादयित्वा अस्थान्सुः। तथागतो भिक्षवः पूर्वे सम्बोधिमनभिसंबुद्धो इमं तृतीयं महास्वप्नमद्राक्षीत्॥

तथागतस्य भिक्षवः पूर्वे संबोधिमनभिसंबुद्धस्य चत्वारि शकुन्ता नानावर्णा अनेकवर्णा च चतुर्हि दिशाहि वैहायसं गत्वा तथागतस्य पादतलानि उपजिघ्रित्वा सर्वश्वेता अपविध्यिन्सुः। तथागतो भिक्षवः पूर्वे संबोधिमनभिसंबुद्धो इमं चतुर्थं महासुपिनमद्राक्षीत्॥

तथागतो भिक्षवः पूर्वे संबोधिमनभिसंबुद्धो महतो मीढपर्वतस्य उपरिमनुपलिप्यमानो चंक्रमं चंक्रमे। तथागतो भिक्षवः पूर्वे संबोधिमनभिसंबुद्धो इमं पंचमं महासुपिनमद्राक्षीत्॥

तथागतस्य भिक्षवो पूर्वे संबोधिमनभिसंबुद्धस्य इयं महापृथिवी उच्चशयनमहाशयनमभूषि। सुमेरु पर्वतरजा बिम्बोपधानमभूषि। पुरस्तिमे महासमुद्रे वामा बाहा ओहिता अभूषि पश्चिमे महासमुद्रे दक्षिणा बाहा ओहिता अभूषि दक्षिणे महासमुद्रे उभौ पादतलानि ओहितानि अभूषि। यं पि भिक्षवः तथागतो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो अयं तस्य महास्वप्नस्य विपाको॥ यं भिक्षवः तथागतस्य पूर्वे संबोधिमनभिसंबुद्धस्य क्षीरिका नाम तृणजाति नाभिमण्डलादभ्युद्गम्य यावन्नभमासद्य अस्थासि। यं भिक्षवः तथागतेन इमं च लोकमभिज्ञाय

p. 138

परं च लोकमभिज्ञाय सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यां वाराणस्यां ऋषिपतने मृगदावे अनुत्तरं धर्मचक्रं प्रवर्तितं त्रिष्परिवर्तं द्वादशारमप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवन वा मारेण वा केनचिद्वा पुनः लोके सह धर्मेण यमिदं चत्वार्यायसत्यानि। सय्यथीदं दुःखं आर्यसत्यं दुःखसमुदयमार्यसत्यं दुःखनिरोध आर्यसत्यं दुःखनिरोधगामिनी प्रतिपदार्यसत्यं। इमां च पुनर्भिक्षवः तथागतस्य एवंरूपां धर्मदेशनां श्रुत्वा भूम्या देवा घोषमुदीरयेन्सुः एष मारिष भगवता वाराणस्यां ऋषिपतने मृगदावे अनुत्तरं धर्मचक्रं प्रवर्तितं त्रिष्परिवर्ति द्वादशारं अप्रवर्तितं केनचि श्रमणेन वा ब्राह्मणेन वा देवेन वा ब्रह्मेण वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण इदं दुःखमिति अयं दुःखसमुदयो अयं दुःखनिरोधो अयं दुःखनिरोधगामिनी प्रतिपदिति तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्यानां च। भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा चातुर्महाराजिका त्रायस्त्रिंशा यामा तुषिता निर्माणरतिपरनिर्मितवशवर्तिन इतो तत्क्षनं तत्मुर्हूतं यावब्रह्मलोकं घोषमभ्युद्गम्य एष मारिष भगवता वाराणस्यां ऋषिपतने मृगदावे त्रिपरिवर्तं द्वादशारं अनुत्तरं धर्मचक्रं प्रवर्तितं अप्रवर्तितं केनचित् श्रमणेन वा ब्राह्मणेण वा देवेन वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण इदं दुःख इति अयं दुःखसमुदयो अयं दुःखनिरोधः अयं दुःखनिरोधगामिनी प्रतिपदिति। अयं तस्य महासुपिनस्य विपाको॥ यं भिक्षवः तथागतस्य पूर्वे संबोधिमनभिसंबुद्धस्य लोहितकप्रानका कालशीर्षा पादतलेहि यावज्जानुमण्डलानि च्छादयित्वा

p. 139

अस्थान्सुः बहु एतर्हि भिक्षवः जनता या तथागते अधिकारकर्माणि कृत्वा कायस्य भेदात्परं मरणात्सुगती स्वर्गकाये देवेषूपपद्यन्ति। अयं तस्य स्वप्नस्य विपाको॥ यं भिक्षवः तथागतस्य पूर्वे संबोधिमनभिसंबुद्धस्य चत्वारि शकुन्ता नानावर्णा चतुर्हि दिशाहि वैहायसं समागत्वा तथागतस्य पादतलानि उपजिघ्रित्वा सर्वश्वेताः अपविकिन्सुः चत्वारिमे भिक्षवः वर्णाः कतमे चत्वारः क्षत्रिया ब्राह्मणा वैश्या शूद्राः ते तथागते ब्रह्मचर्यं चरित्वा अकोप्या चेतोविमुक्तिं प्रज्ञाविमुक्तिं साक्षात्कुर्वन्ति। अयं तस्य महास्वप्नस्य विपाको॥ यं भिक्षवः तथागतो पूर्वे संबोधिमनभिसंबुद्धो महतो मीढपर्वतस्य उपरिमनुपलिप्यमानो चंक्रमं चंक्रमे पुरस्तिमायां पि च भिक्षवः दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचायितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्यभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितो अनुपलिप्तचित्तो। दक्षिणायां पि च भिक्षवो दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचायितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तः। पश्चिमायां पि च भिक्षवो दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तः। उत्तरस्यां पि भिक्षवः दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तो। अयं तस्य महास्वप्नस्य विपाको यं तथागतो भिक्षावः पूर्वे संबोधिमनभिसंबुद्धो इमां पंच महास्वप्नां अद्राक्षीत्॥ इदमवोचद्भगवानात्तमनास्ते च भगवतो भाषितमभ्यनन्दे॥

p. 140

इति श्रीमहावस्तु अवदाने शुद्धोदनस्य पंच महास्वप्ना समाप्ता॥

बोधिसत्वस्य दानि एतदभूषि। दुष्करमिदं अगारमध्ये वसन्तेन एकान्तसंलिखितं एकान्तमनवद्यं एकान्तपरिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं। यं नूनाहं अगारस्यानगारियं प्रव्रजेयं॥ बोधिसत्वो राजानमामन्त्रयति प्रव्रजिष्यामि॥ राजा आह॥

मा दानि मा कमललोचन चारुरूप
शोकं लभे सुविपुलं त्वय विप्रहीणो।
माता चहं असुलभं मरणं निगच्छेत्
ततः कीदृक्षं सुखमेतं तथा विशिष्टं।
यस्य कृतेन मम च स्वजनं स्वराष्ट्रं
स्रजिष्यसि बहुदुःखी हि स विप्रयोगो॥
पर्याकुला मि दिशता प्रतिभान्ति सर्वे
शीतोष्णदंशमशकाक्षतभूमिभागा।
त्रसो वनेषु मृगवारणघातिकेषु
भेरण्डभैरवरुतेषु महद्भयेषु॥
नित्यान्तरेण मनसा कृतमोक्षबुद्धिः
मार्गं व ताव मम पुत्र चर प्रसीद
जीवामि यावदहं याव च सा इहैव।
किंकारणं तव विनिर्गमनं निशाम्य
तत्वं विनाशमुपयास्यति मे शरीरं॥

p. 141

राज्ञा दानि पंचानां राजान शतानां प्रेषितं। आगच्छथ कुमारो अभिनिष्क्रमितुकामो॥ ते दानि आगता कुमारं बहुप्रकारं याचन्ति। मा अभिनिष्क्रमाहि त्ति॥ बोधिसत्वो दानि राजानं च ते च राजानो एतदवोचत्॥ सचेत् मम महाराजा चतुर्हि पदेहि प्रतिभुको भवति प्रतिजनामि ते राज न निष्क्रमिष्यं पुरवरातो॥ राजा आह॥ भवामि ते प्रतिभुको पदेषु चतुरुषु शीघ्रं पुत्र उदीरेहि पुरा प्राणा जहन्ति॥ कुमारो आह॥

यौवने वर्तमानस्मिं जरा मे मा खु आगमे।
आरोग्ये वर्तमानस्मिं व्याधि मे मा खु आगमे॥
जीविते वर्तमानस्मिं मरणं मा खु आगमे।
संपत्तीषु रमियासु विपत्ति मा खु आगमे॥
तदा हिक्कारहक्कारा देवसंघा प्रमुंचिषु।
साधु साधु महासत्व साधु अप्रतिपुद्गल॥
सुभाषितान्ते एतस्मिं सब्रह्मा परिषा इयं।
हृष्टा आत्तमना सर्वे प्रीतिसुखसमर्पिता॥
ततो शुद्धोदनो राजा दुःखशल्यसमर्पितः।
अश्रुपूर्णेहि नेत्रेहि बोधिसत्वमिदमब्रवीत्॥
स्वयं हि पुत्र जानाहि कस्य एतं न विद्यति।
जरा व्याधि मरणं च विपत्तीर्वा न मे गतिः॥

कुमारो आह॥

हन्त त्रिषु महाराज पदेषु प्रतिभूर्भव।
ततो मया विनाभावो न ते जातु भविष्यति॥

p. 142

राजा आह॥

ददामेषु पुत्र पदेषु प्रतिभुतामहं तव।
ततो निवर्तये चित्तं मूले उदाहरतो भव॥

कुमारो आह॥

दिव्या मे भोन्तु कामगुणा ते च भोन्तु सर्वदा सुखा।
ते च नित्या शुभा भोन्तु अत्र मे प्रतिभुर्भव॥
अप्सरा मधुरं गगने परिगायेन्सुः वरबुद्धिवरं प्रवरं।
मधुरं सलिलं सुखिनं सहितं वरनूपुरमण्डन आभरणा॥
न खु रज्यति सत्पुरुषस्य मनो मदनेषु यादृशमुदाहरति।
विजहिष्यति काञ्चनबिम्बनिभां वसुधामनेकलब्धार्थचितां।
एवं च दुःखितो राजा कुमारमेतदब्रवीत्।
प्रसीद पुत्र कस्य सुखा कामगुणा तथा शुभाः॥

कुमारो आह॥

हन्त अन्यानि वक्ष्या द्वे पदानि महीपते।
यदिच्छसि एवं समानं तेषु मे प्रतिभूर्भव॥

राजा आह॥

दृढमभ्युपगच्छामि प्रतिभूष्यं अहं तव।
द्वेहि पदेहि आख्याहि मा च विप्रजहाहि मे॥
अहंकारं ममकारं मा संजाये कदाचि नो।
महन्तो ल्पो वा महीपाल अत्र मे प्रतिभूर्भव॥

p. 143

ततो महेश्वरा वाचा व्याहरेन्सु नभे स्थिताः।
त्वं खु भेष्यसि संबुद्धो सर्वबन्धनसूदनो॥
किंकारणं न तेषां हि वचनानां सदेवके।
लोके अस्ति उदाहर्ता यानि भाषसि चक्षुमां॥
ततो शुद्धोदनो राजा दुःखशल्यसमर्पितः।
अश्रुपूर्णेहि नेत्रेहि बोधिसत्वमिदमब्रवीत्॥
नामाप्यहं न जानामि एतेषां पुरुषोत्तम।
पदानि यानि कीर्तेसि नात्र प्रतिभुको अहं॥

कुमारो आह॥

अलं चिरेण एकस्मिं पदे प्रतिभुको भव।
ततो इहैव निवसिष्यं रम्ये कपिलसाहूये॥
भवे दानि अहं पुत्र एकस्मिं पदे तव भवे।
प्रतिभुको शीघ्रं ब्रूहि उपगतं मया सह॥

कुमारो आह॥

इहैव वसतो मह्यां प्रासादवरलोकके।
सर्वनीवारणापगतं चित्तं मे वर्ततां वशात्॥
ततो देवा च यक्षा च गन्धर्वा च सदानवा।
नागराक्षससंघाश्च अहो धर्म उदीरयन्॥
अहो परमवादिस्य परमार्थाभिकांक्षिणो।
व्यक्तं परमवाक्यानि प्रभवन्ति मुहुर्मुहुः॥
ततो दीनमनो राजा कुमारमेतदब्रवीत्।
नात्रावासो मह्यं पुत्र अश्रुवेगं प्रमुञ्चति॥
ततो देवमनुष्याणां प्रामोद्यजननीं गिरां।

p. 144

बोधिसत्वो उदीरेन्तो पितरं समध्यभाषति॥
अहमजरमारोग्यममृतं पार्थिवोत्तम।
विपत्तिभयनिर्मुक्तं अभिगंस्ये असंस्कृतं॥
राज यन्नित्यं यत्सुखं यच्छुभं तत् मया स्वयं।
प्राप्तव्यमिति न सन्देहः परित्यज्य धृतिं लभ॥

अथ खलु राजा शुद्धोदनो यं कुमारो जम्बुच्छायायां ध्यायति तं दृष्ट्वा चिन्तासागरं प्रविष्टो॥ यदि कुमारस्य शान्तेहि ध्यानेहि चित्तमभिरमति मा हैव तावदसितस्य ऋषितस्य सत्यं व्याकरणं भविष्यति। यन्नूनाहं कुमारस्य विस्तीर्णमन्तःपुरमुपस्थापयेयं विविधानि उद्यानानि कुर्यात् यत्र कुमारो क्रीडेय्या रमेय्या प्रविचारेय्या न च अभिनिष्क्रमणे चित्तं करेय्या॥

अथ खलु शुद्धोदनेन कुमारस्य विस्तीर्णो अन्तःपुरो उपस्थापितो बहूनि स्त्रीसहस्राणि विविधानि न नानाप्रकाराणि अशोकमण्डपकानि कारापितानि अवसक्तपट्टदामकलापानि मुक्तपुष्पावकीर्णानि यत्र कुमारो क्रीडष्यति प्रविचारयिष्यति न च नं अभिनिष्क्रमणे चित्तं करिष्यति॥ राजा दानि शुद्धोदनो अन्तःपुरे सन्दिशति॥ सुष्टु कुमारमभिरमापेथ नाट्यगीतवाद्येन यथा कुमारो अभिनिष्क्रमणे चित्तं न करेय्या॥ कुमारो पि दानि कामेषु आदीनवदर्शी अनर्थको सर्वकामभोगेहि। एदृशेषु च उद्यानेषु देवभवनसदृशेषु अन्तःपुरेषु अप्सरसदृशेषु रतिं न विन्दति। अभिनिष्क्रमते चित्तं अभिरमति न च बोधिसत्वो केनचिच्चोदयितव्यो दुःखो यं संसार इति। सर्वधर्मेषु वशवर्ती स्वयमेव सामतो विरक्तो भवति उद्विग्नमानसो स्वयं चित्तमुद्वेजयति। अहो संसारो प्रकृतिदुःखमपरिमितमुपद्रवशतानि दर्शयति॥

p. 145

अथ खलु कुमारो उपरिप्रासादसिखरगतो उपविष्टो तमेव ध्यानं मनसा करोन्तो आसति यं से जम्बुच्छायायं लब्धं। न गीतशब्दा न नृत्यरवशब्दा न प्रमदागणां रूपवन्तां स्वादीयति। तमेव चिन्तयन्तो आसति॥ अथ खलु राजा शुद्धदनो अन्यतरं पुरुषं पृच्छति॥ किमिदं भो पुरुष कुमारस्य अन्तर्पुरे न गीतरवशब्दो नृत्यभेरीमृदंगवीणावंशपणवरवशब्दः श्रूयते कुमारस्य किं चित्तस्य दौर्मनस्यं॥ अथ खलु या लुम्बिनीवने देवता निवासिका सान्तरिक्षे स्थित्वा राजानं शुद्धोदनमब्रवीत्॥ महाराज कुमारं वितर्कयाहि। विरक्तो तव पुत्रो सर्वकामगुणरतीहि नचिरेण छिन्दिष्यति सर्वतृष्णाबन्धनां निरवशेषां यास्यति तपोवनं सुपरीत्तं भावयिष्यति। इदानिं खलु नृपति सिद्धार्थो राजवंशो प्रासादवरगतो प्रमदागणपरिवृत्तो अनित्यं दुःखं नैरात्य्मं परिभाषति शरीरे॥ अथ खलु राजा शुद्धोदनो तं देवतासकाशातो श्रुत्वा परिदीनमुखवर्णो शोकार्दितो कुमारस्य सकाशमुपसंक्रान्तः इदमब्रवीत्। किमिदं पुत्र परिदीनवदनो शोकार्दितो उपविष्टो सि मा किंचित् शरीरस्य प्रतिपीडां पश्यसि मा धनक्षयं उपलक्षसि मा परचक्रभयं उपस्थितं आख्याहि मे पुत्र शीघ्रं किमर्थं॥

कुमारो आह॥ अस्ति तात शरीरे प्रतिपीडां पश्यामि व्याधिरारोग्यमाक्रमति मरनं जीवितमाक्रमति तं तात जीर्णं मृतान्तरं प्रत्यवेक्षामि॥ क्षीयन्ति सर्वसंस्कारा गिरिनदीजलचंचला परमायासधर्मा ऋतुसंवत्सरं आयुः क्षीयति मरणासन्नं भवति इमां तात शरीरे प्रतिपीडां पश्यामि॥ अस्ति तात धनक्षयं पश्यामि सर्वधर्मं रिक्तकं तुच्छकं असारकं मायोपमं वंचनीयं विसंवादकं नास्ति धनस्य स्थिति तं

p. 146

संबाध्यति वा संक्रामति वा परस्परं। इमन्तात धनक्षयं पश्यामि॥ अस्ति परचक्रभयं दृश्यति धर्मसंस्कारदोषभयं हस्तच्छेदा शीर्षच्छेदा विविधा नानाप्रकारा अनेकपर्यायेण अस्मिं काये दुःखानि संक्रमन्ति। इमं तात परचक्रभयं पश्यामि॥ राजा शुद्धोदनो आह॥ अलं पुत्र मा मैतं चिन्तयाहि। सम्प्रति तरुणो प्रथमयौवनगतो सि राजकृत्यमनुभवाहि विस्तीर्णस्ते अन्तःपुरो यौवनसम्पन्नो ताहि सार्धं क्रीडाहि रमाहि प्रविचारेहि मा प्रव्रज्याये चित्तं करोहि॥ कुमारो आह॥ यदि मे तात अष्ट वरां अनुप्रयच्छसि ततो अहं न भूयो एतमर्थं चिन्तयिष्ये॥ राजा आह॥ आख्याहि मे पुत्र शीघ्रं कीदृशामे अष्ट वराणि यानीच्छसि यदि शक्तिर्वा बलं वा अस्ति ततो ते प्रदास्यामि। किं पुत्र मम राज्यं परिहायिष्यति यदहं तव पुत्र वरं न प्रदास्यामि॥

कुमार आह॥ इमानि मे तात अष्ट वराणि अनुप्रयच्छाहि। यदि मे यौवनं जरा नाक्रमेया। यदि आरोग्यं व्याधिर्नाक्रमेया। यदि मे जीवितं मरणं न हरेया। यदि मे त्वया सार्धं विप्रयोगो न भवे। एदृशमन्तःपुरमप्सरसादृशं विस्तीर्णो च ज्ञातिवर्गो न विप्रवेशेया राज्यातो च ऐश्वर्यातो च न विपरिणामान्यार्तीभावो भवेया। ये पि सत्वा मम जातमात्रेण अमृतसुखेन अभिनिमन्त्रिता तेषां पि सर्वेषां क्लेशप्रशमो भवेया। ममापि जातिजरामरणस्य अन्तो भवेया॥ राज शुद्धोदनो आह॥ पुत्र कुतो मम एदृशं व शक्तिर्वा बलं वा अस्ति यदहं इमां एदृशां अष्ट वरा प्रयच्छेयं। ये पि ते पुत्र पूर्वा राजानो दीर्घायुष्का यथा महासम्मतो राजा महातेजो दृढधनुः शतधनु निशान्तायु युगन्धरप्रभृतयः

p. 147

कुलराजवंशा ते पि च पुत्र सर्वे अनित्यताबलेन पर्यन्तोपनीता नाममात्रा च शेषाः स्थापिताः। कुतो पुत्र मे बलं शक्तिर्वा अस्ति तव इमे ईदृशानष्ट वराननुप्रयच्छितुं॥ कुमारो आह॥ यदि तात न उत्सहसि त्वं मम इमानष्ट वराननुप्रयच्छितं अहं च ते निमन्त्रेमि जरामरणस्य अन्तो भवेया॥ राजा आह॥ जीर्णो वृद्धो गतयौवनश्च ततो मम मृतस्य पश्चात्प्रव्रज्याहि॥ कुमार आह॥ उदग्रं अनुभवाहि तात जीवन्तो पुनर्द्रक्ष्यसि मम इह सर्वगतिविमुक्तं सर्वतृष्णाछिन्नं सर्वदुःखविगतं सर्वज्वलाक्लेशापरीतस्य सर्वबोध्यङ्गरत्ना भावयन्तस्य॥

अथ नृपति तस्य प्रमदागणानुपदर्शयति। इमन्ते पुत्र उदारं वरविमलकमलनयनमणिरुचिरपीनपयोधरा शुक्रनिर्भासगात्रा विचित्राभरण् कठिनशुभवासि तकरशणा सुकुमारप्रवरभ्रमरांजनकेशा रक्तांशुकप्रावरणवलयमणिमुक्तिकहारावनद्धा तुलाकोटिवलयनूपुरपंचाङ्गिकतूर्यनिनादां कुर्वन्ति। एताहि पुत्र अभिरमाहि मा प्रव्रज्यामभिकांक्षाहि॥ कुमार आह॥ पश्य तात स्त्रीसंज्ञो भवेय यो अत्र रज्येया कल्पेया प्रमद्येया॥ राजा आह॥ तव कीदृशी संज्ञा भवति। कुमारो आह॥ ममात्र विपरीतसंज्ञा भवति। रजा आह॥ कीदृशी ते पुत्र विपरीतसंज्ञा भवति॥ कुमारो आह। एदृशी मे तात विपरीतसंज्ञा भवति। यथायं कायो यत्र युक्तो आगच्छति गच्छति यत्र स्थाति निषीदति यत्र भावयति तूष्णीं भवति यत्र बाहिरं शून्यं निरीहकं बलं दुर्बलं माया च विसंवादकं सर्वमेव धर्मकायं प्रवदन्ति॥ राजा शुद्धोदनो आह॥ यदि पुत्र रूपेण न रज्यसि किमिदं निष्पुरुषेण रज्यसि कं त्वं दर्शनमुपलक्षयसि॥ कुमारो आह॥ यदिदं

p. 148

तात संसारनाटकमुपलक्षयामि यन्त्रविज्ञाननटवेदनविकारां जनयति। त्रैधातुकं रंगं स्थानं सत्वानां कृतविकृतिषड्गतिषु रंगं प्रविशति तृष्णास्नेहवरं च क्लेशशतानां गाभीरता। एवं पुरिमा कोटि न प्रज्ञायति परस्परं नाटकं सत्वानां वंचनग्रहणविपाटकं॥ नास्ति सो सत्वो वा सत्वकायो वा यो संस्कारेषु न खलीकृतो न वंचितो अथापरं गुरुजनेषु। ततो उदग्रमनुभवाहि तात संसारनाटकं विनिवर्तयित्वा समथनिर्वानपुरमनुप्रवेक्षायामि यत्र जरामरणं नाक्रामन्ति पूर्वमेव पदं परिमार्गयिष्ये यन्तं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि परिमार्गितं॥

राजा आह॥ इमं ते पुत्र विमानं देवभवनसदृशं समृद्धं तव चान्तपुरं त्वं पि पुत्र अभिरूपवां वरलक्षणपुणसहस्रचितो किमिदं पुत्र रतिं न विन्दसि अपि तु निष्क्रमणमेव भिकांक्षसि विहाय नगरपुरं। कुमारो आह॥

गतिषु सन्त्रस्तमानसो शृणोहि
मम तात मे येन न अस्ति रति।
जराव्याधि रिपुर्मरणं तृतीयं
अभिमर्दति तेन मे नास्ति रतिः॥
यदि नित्यसुखं आतुमनो भवे
यदि वात्मनो दुःखबलं न भवे।
यदि संस्कृतप्रत्ययमिदं न भवे
अथ किस्य ममातु रतिर्न भवे॥
उपलभ्यति कायो करण्डसमो
उपलभ्यति काये च सर्पसमा।

p. 149

उपलभ्यति स्कन्ध अमित्रसमा
अथ किस्य ममातु रतिर्व भवे॥
यदि कायो करण्डसमो न भवेत्
यदि वा तत्र सर्पसमा न भवे।
यदि स्कन्ध अमित्रसमा न भवे
अथ किस्य ममातु रतिर्न भवेत्॥
यदि . . . . . . . . . . . .
. . . . . .दुःखक्रिया न भवेत्।
यदि जातिजरामरनं न भवेत्
अथ किस्य संसाररतिर्न भवेत्॥
यदि शून्यग्राममनिलयो न भवे
यदि तं विरागवधको न भवेत्।
संस्कारधातु सभयो न भवेत्
अथ किस्य ममातु रतिर्न भवेत्॥
यदि शिष्यप्रतोदमिदं न भवेत्
यदि राजकुलस्य भयं न भवेत्।
यदि सर्वभयं त्रिभवे न भवेत्
अभिनिष्क्रमणे ममतो न रतिः॥

अथ राजा शुद्धोदनो यदा सर्वोपायेन न शक्नोति कुमारस्य चित्तं विनिवर्तयितुं तदा राज्ञो एवं भवति॥ यदि न केनचिदुपायेन शक्नोमि कुमारस्य चित्तं विनिवर्तयितुं यं नूनाहं यत्तिका कपिलवस्तुनगरे कन्या तां सर्वां कुमारस्य उपदर्शयामि न क्वचिज्जनतायाः कन्यायाः कुमारस्य चित्तं अभिरमेत्॥

p. 150

बोधिसत्वो पितरमभिमन्त्रयति उद्यानभूमिं निर्यास्यामीति॥ राज्ञा शुद्धोदनेन अमात्या आणत्ता॥ यावद्राजकुलं यावच्च उद्यानभूमिं अत्रान्तरे प्रतिजाग्रथ सितसंसृष्टं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं दशेदेशेषु धूपयन्त्राणि माल्ययन्त्राणि नटनर्तकऋल्लमल्लपाणिस्वर्याकुम्भतूणी मानापिकानि रूपशब्दगन्धानि उपस्थापेथ अमानापिकानि उद्वर्तापेथ। यथा कुमारो उद्यानभूमीमभिनिष्क्रान्तो न किञ्चिदमनापं पश्येय॥ एवं राज्ञो वचनमात्रेण अमात्येहि यावच्च राजकुलं यावच्च तां कुमारस्य उद्यानभूमिं यथाणत्तं मार्गं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिता यथा कुमारस्य पुरतो न किंचिज्जीर्णो वृद्धो व्याधितो वा काणो वा खाडो वा दर्दुरो वा कण्डूलो वा कच्छुलो वा विचर्चिको वा अन्यो वा किंचिदमनापं कुमारस्य उद्यानमभिनिष्क्रमन्तस्य पुरतो तिष्ठेया॥ एवं कुमारो महार्हेण सप्तरत्नचित्रेण यानेन महता राजानुभावेन महता राजऋद्धीये महतीये विभूषाये उद्यानभूमिं निर्यान्तस्य राजपुरुषा वामदक्षिणेन उत्सारणां करोन्ता गच्छन्ति यथा कुमारो न किंचिदमनापं पश्येया॥ एवं कुमारो मानापिकानि रूपाणि पश्यन्तो मानापिकानि शब्दानि शृण्वन्तो मानापिकानि गन्धानि घ्रायन्तो उभयतो वामदक्षिणेन अंजलीशतसहस्राणि प्रतीछन्तो विविधानि च चूर्णवर्षाणि प्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्धावन्तस्य घटिकारेण कुम्भकारेण शुद्धावासदेवपुत्रभूतेन तथान्येहि च शुद्धावसकायिकेहि देवपुत्रेहि जीर्णो पुरुषो पुरतो अभिनिर्मितो जीर्णो वृद्धो महल्लको अध्वंगतं वयमनुप्राप्तो श्वेतशिरो तिलकाहतगात्रो भग्नो गोपानसीवक्रो पुरतोप्राग्भारो दण्डमव-

p. 151

ष्टभ्यमानैर्गात्रैर्गच्छन्तो॥ बोधिसत्वो तं दृष्ट्वा सारथिं पृच्छति। किमिमो पुरुषो एवं प्रतिकूलो जीर्णो वृद्धो महल्लको अध्वगतवयमनुप्राप्तः श्वेतशिरो तिलकाहतगात्रो भग्नो गोपानसीवक्रो पुरतःप्राग्भारो दण्डमवष्टभ्य प्रखलमानैर्गात्रैः गच्छति। सारथि आह॥ कुमारो किंच ते एतेन पृच्छितेन एष पुरुषो जीर्णो नाम वयपरिगतशरीरो। गच्छाम उद्यानभूमिं तहिं देवकुमार पंचहि कामगुणेहि क्रीडाहि रमाहि प्रविचारेहि॥ कुमारो आह॥ भो भणे सारथि वयमपि जराधर्मा जराधर्मतायामनतीताः। यत्र नाम जातस्य जरा प्रज्ञापति अत्र पण्डितस्य का रति॥ कुमारो आह॥ सारथि निवर्तेहि रथं अलं उद्यानगमनाये॥

कुमारो पुनर्निवर्तित्वा गृहं प्रविष्टो॥ राजा शुद्धोदनो अमात्यां पृच्छति॥ भो भणे किं कुमारो पुनर्निवृत्तो उद्यानभूमिं न निर्गतो॥ अमात्या आहन्सुः॥ महाराज कुमारो जीर्णं पुरुषं दृष्ट्वा निर्यातो न भूयो उद्यानभूमिं निर्गतो॥ राज्ञो भवति। मा हैव यथा असितेन ऋषिणा कुमारो व्याकृतो तथा भविष्यति॥ राज्ञा कुमारस्य अन्तःपुरं संदिष्टं। सुष्टु कुमारं क्रीडापेथ रमापेथ प्रविचारापेथ नाट्येहि गीतेहि वादेतेहि यथा कुमारो गृहे अभिरमेया॥ यथा देवलोके एवं कुमारस्य एवंरूपा अन्तःपुरे संगीति वर्तन्ति। न च कुमारस्य संगीतिषु मनं गच्छति। तमेव जीर्णं पुरुषं स्मरति॥

अपरकालेन कुमारो आह॥ उद्यानभूमिं निर्धाविष्यामीति॥ रजा आह॥ मानापिकानि रूपशब्दानि उपस्थापेथ यथा कुमारो उद्यानभूमिं अभिनिष्क्रमन्तो न किंचिदमनापं पश्येय॥ एवं राज्ञो वचनमात्रेण अमात्येहि याव च राजकुलं

p. 152

यावच्च तां कुमारस्य उद्यानभूमिं यथाणत्तं मार्गं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिता यथा उद्यानभूमिं निर्यान्तस्य पुरतो न क्वज्जीर्णो वा वृद्धो वा व्याधितो वा काणो वा खाडो वा द्रदुरो वा क्ंडूलो वा कच्छुलो वा विचर्चिको वा अन्यो वा किंचिदमनापं कुमारस्य उद्यानभूमिमभिनिष्क्रमन्तस्य पुरतो न तिष्ठेया॥ एवं कुमारो महारहेण सप्तरत्नचित्रेण यानेन महता राजानुभावेन महता राजऋद्धीये महतीये विभूषाये उद्यानभूमिं निर्यान्तस्य राजपुरुषा वामदक्षिणेन उत्सारणां कारयन्ता गच्छन्ति यथा कुमारो न केनचिदमनापं पश्येया॥ एवं कुमारो मानापिकानि रूपाणि पश्यन्तो मानापिकानि शब्दानि शृण्वन्तो मानापिकानि गन्धानि घ्रायन्तो उभयतो वामदक्षिणेन अंजलिशतसहस्राणि प्रतीछन्तो विविधानि च पुष्पवर्षाणि संप्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्धावन्तस्य घटिकारेण च कुम्भकारेण शुद्धावासदेवपुत्रभूतेन तथा अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि व्याधितो पुरुषो पुरतो अभिनिर्मितो शूनहस्तपादो शूनेन मुखेन पीतपाण्डुवर्णो दकोदरिको नाभीये दकधाराये प्रवहन्तीये मक्षिकासहस्रेहि खाद्यमाना अद्राक्षणीयो संवेगकारको॥ बोधिसत्वो तं दृष्ट्वा सारथिं पृच्छति। भो भणे सारथि किमिमो पुरुषो एवं प्रतिकूलो पीतपाण्डुकवर्णो शूनहस्तपादो भिन्नमुखवर्णो नाभीये दकधाराये श्रवन्तीये मक्षिकासहस्रेहि खाद्यति॥ सारथि आह॥ कुमार किन्ते एतेन पृच्छितेन एषो पुरुषो व्याधिना परिगतशरीरो गच्छाम उद्यानभूमिन्तहिं देव क्रीडाहि रमाहि प्रविचारेहि॥ कुमारो आह॥ भो भणे सारथि वयमपि व्याधिधर्मा व्याधिधर्मतायामनतीता। यत्र नाम जातस्य जरा प्रज्ञायति व्याधि च प्रज्ञायति अत्र पण्डितस्य का रतिः। रूपस्य

p. 153

व्यसनं बलस्य मथनं सर्वेन्द्रियाणां वधः शोकानां प्रभवो रतिव्युपसमो चित्ताश्रयाणां निधि धर्मस्योपशमः गात्राश्रितानां गृहं यो लोकं पिबते वपुश्च ग्रसति व्याधिस्य को नोद्विजेत्॥ कुमारो आह॥ सारथि निवर्तेहि रथं अलं मे उद्यानगमानाये॥ कुमारो पुनः निवर्तित्वा गृहं प्रविष्टः॥ राजा शुद्धोदनो अमात्यां पृच्छति॥ भो भणे किं कुमारो निवृत्तो उद्यानभूमिं न निर्गतो॥ अमात्या आहन्सुः॥ महाराज कुमारो व्याधितं पुरुषं दृष्त्वा निवृत्तो न भूयो उद्यानभूमिं निर्गतो॥ राज्ञो भवति। मा हेवं यथा असितेन ऋषिणा कुमारो व्याकृतो तथा भविष्यति॥ राज्ञा कुमारस्य अन्तःपुरं संदिष्टं॥ सुष्टु कुमारं क्रीडापेथ रमापेथ नाट्येहि गीतेहि वादितेहि यथा कुमारो गृहे अभिरमेया॥ एवं कुमारस्य यथा देवलोके एवंरूपा अन्तःपुरे संगीति वर्तन्ति। न च कुमारस्य संगीतिषु मनं गच्छति तमेव जीर्णं च व्याधितं च पुरुषं समनुस्मरति।

अपरकालेन कुमारो भूयो पितरमापृच्छति। तात उद्यानभूमिं निर्यास्यामि दर्शनाये॥ राज्ञा अमात्यानामाणत्ति दिन्ना। कुमारो उद्यानभूमिं निर्यास्यति उद्यानभूमिमलंकारापेथ मार्गं प्रतिजागरेथ नगरं च अलंकारापेथ यावच्च राजकुलं यावच्च राजकुमारस्य उद्यानभूमिं सिक्तसंसृष्टं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु च पुष्पयन्त्राणि नटनर्थकऋल्लमल्लपाणिस्वर्याकुम्भतूणिका मानापिकानि च रूपानि शब्दानि गन्धानि उपस्थापेथ यथा कुमारो उद्यानभूमिं निर्यान्तो न किंचिदमनापं पश्येया जीर्णं व्याधितं वा काणं वा खोडं वा दद्रुरं वा कण्डूलं वा कच्छुलं वा अन्धं वा गिलानं वा। यथा कुमारो न किंचिदमनापं पश्येया तथा करोथ॥ वचनमात्रेन च राज्ञो

p. 154

अमात्येहि यथाणत्तं प्रतिजाग्रितं वामदक्षिणतो च पुरुषाः स्थापिता ये जनस्य उत्सारणां करोन्ति यथा कुमारो उद्यानभूमिं निर्यान्तो न किंचिदमनापं पश्येया॥ एवं कुमारो सप्तरत्नचित्रेण यानेन विततवितानेन ओसक्तपट्टदामकलापेन हेमजालसंछन्नेन सवैजयन्तेन सनन्दीघोषेण सखुरप्रवालेन उच्छ्रितध्वजपताकेन सामात्यपरिजनो महता राजानुभावेन महता राजऋद्धीये महतीये विभूषाये महता समुदयेन उभयतो वामदक्षिणेन अंजलिशतसहस्राणि संप्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्याति। घटिकारेण च कुम्भकारेन शुद्धावासदेवपुत्रभूतेन अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि मृतको पुरुषो कुमारस्य पुरतो निर्मितो मञ्चके समारोपितो पुरुषेहि नीयते ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि परिकीर्णकेशेहि उरं पीडेन्तेहि करुणं प्रलपन्तेहि॥ कुमारो तं दृष्ट्वा सारथिं पृच्छति॥ भो भणे सारथि किमिदं पुरुषो मञ्चकमारोपितो विनीयते ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि॥ सारथि आह॥ कुमारो एषो पुरुषो मृतो ज्ञातीहि मञ्चकमारोप्य अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि श्मशानं नीयति॥ कुमारो आह॥ भो भणे एष सारथि भूयो पुरुषो पितरं वा मातरं वा भ्रातरं वा भगिनीं वा ज्ञातिमित्रसालोहितं वा चित्रं वा जंबुद्वीपं पश्यति॥ सारथि आह॥ आम कुमार न एष भूयो पुरोषो मातरं वा द्रक्ष्यति पितरं वा भ्रातरं वा भगिनीं वा मित्रज्ञातिसालोहितं वा चित्रं वा जम्बुद्वीपं॥ कुमारो आह॥

मरणं तव मम च तुल्यं नैव शत्रुः न बन्दु
ऋतु यथ परिवर्तते दुर्जयं दुर्विनीतं।

p. 155

न गणयति कुलीनं न नीचं न नाथवन्तं
दिनकर इव निर्भीतो अत्र मार्गेण याति॥

सारथि आह॥

कामां संपत्तिं राजलक्ष्मीं रतिं श्रीं
एतां पृच्छाहि सर्वलोकप्रधानां।
किं तुह्यं रौद्रं रोगसंतापमूलं
मृत्युं तं दृष्ट्वा यो विनाशो नराणां॥

बोधिसत्वो आह॥

जीर्णातुरं मृतं दृष्ट्वा यो नोद्विजति संसारे।
शोचेतव्यः स दुर्मेधा अन्धो ध्वनि यथा नष्टः॥

कुमारो आह॥ भो भणे सारथि वयमपि मरणधर्मा मरनधर्मतायै अनतीता। यत्र नाम जातस्य व्याधि प्रज्ञायति जरा प्रज्ञायति मरणः प्रज्ञायति अत्र पण्डितस्य का रतिः। निवर्तेहि रथं अलं मे उद्यानभूमिगमनाये॥ कुमारो ततो एवं प्रतिनिवर्तित्वा पुनः गृहं गतो॥ राजा शुद्धोदनो अमात्यानां पृच्छति। किं कुमारो भूयो प्रतिनिवर्तितः न उद्यानभूमिं निर्गतो॥ अमात्या आहन्सुः॥ देव कुमारेण मृतको पुरुषो मंचके समारोपितो ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि आर्तस्वरं रवन्तेहि श्मशानं नीयन्तो दृष्टो। तस्य तं दृष्ट्वा संवेगो जातं। ततः एव प्रतिनिवृत्तो॥ राज्ञो शुद्धोदनस्य एतदभूषि॥ मा हैवं निमित्तकानां ब्राह्मणानां सत्यवचनं भविष्यति ये ते एवमाहन्सुः। प्रव्रजिष्यति कुमारो॥ राज्ञा दानि कुमारस्य अन्तःपुरं दूतो प्रेषितो। वर्षवरा कंचुकीया च सुष्टु कुमारं

p. 156

क्रीडापेथ नृत्यगीतवादितेन यथा कुमारो अभिरमेया॥ ते दानि अन्तःपुरिका कुमारं सुष्टु अभिरमेन्ति नृत्येहि गीतेहि वादितेहि न च कुमारस्य अत्र चित्तं वा मनो वा नान्यत्र तां एव जीर्णानातुरान्मृतां स्मरति॥

कुमारो भूयः अपरकालेन पितरमापृच्छति। तात उद्यानभूम्यां निर्यास्यामि दर्शनाये॥ राजा आह॥ यस्य कुमार कालं मन्यसे॥ राज्ञा अमात्यानामाणत्तं उद्यानस्य भूमिमलंकारापेथ नंदनवनममिव देवराजस्य नगरं च अलंकारापेथ यावच्च राजकुलं यावच्च राजकुमारस्य उद्यानभूमिं सिक्तसन्सृष्टं कारापेथ विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु च पुष्पयन्त्राणि धूपयन्त्राणि नटनर्तकऋल्लमल्लपाणिस्वर्याकुम्भतूणिकं प्रतिजागरापेथ मानापिका पि च रूपशब्दगन्धां यथा कुमारो कपिलवस्तुतो उद्यानभूमिं निर्यान्तो न किंचिदमनापं पश्येया जीर्णं वा व्याधितं वा मृतं वा अन्धं वा काणं वा खोडं वा दद्रुरं वा कण्डूलं वा कच्छुलं वा विचर्चिकं वा तथा करोथ॥ अमात्येहि आणत्तमात्रेहि यथा राज्ञो संदेशो तथा सर्वं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिताः यथा कुमारो कपिलवस्तुतो उद्यानभूमिं निर्यान्तो न किञ्चिदमनापं पश्येया॥ कुमारो पि दानि सप्तरत्नचित्रेण यानेन हेमजालप्रतिच्छन्नेन स्वलंकृतेन सुविभूषितेन सवैजयन्तीकेन सनन्दिघोषेण सखुरप्रवालेन उच्छ्रिध्वजपताकेन सामात्यो सपरिजनो महता राजानुभावेन महता राजऋद्धीये महता वियूहाये महता संवृद्धिये महता विभूषाये कपिलवस्तुतो उद्यानभूमिं निर्यातो॥ निर्यान्तस्य घटिकारेण कुम्भकारेण शुद्धावासकायदेवपुत्रभूतेन अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि कुमारस्य

p. 157

पुरतो प्रव्रजितो निर्मितो काषायाम्बरधरो प्रशान्तेन्द्रियो इरियापथसंपन्नो युगमात्रप्रेक्षमाणो जनसहस्रे कपिलराजमार्गे॥ सो दानि प्रव्रजितो कुमारेण दृष्टो दृष्ट्वा च पुनरस्य मनो प्रसीदे। अहो प्रव्रजितस्य प्रज्ञानं॥ कुमारो तं प्रव्रजितं दृष्ट्वा पृच्छति॥ आर्य किमर्थं सो प्रव्रजितो॥ प्रव्रजितो आह॥ कुमार आत्मदमशमथपरिनिर्वाणार्थं प्रव्रजितो॥ कुमारो तं प्रव्रजितस्य वचनं श्रुत्वा प्रीतो संवृत्तो॥ कुमारो आह॥ प्रव्रजितो खलु नाम

कषायपटावलम्बितप्रकर्षी वितीर्णो जनविकीर्णे ऐन्द्रमार्गे।
भूरिकमलरजावकीर्णगात्रो शरवने यथ एकचक्रवाकः॥

मृगी शाक्यकन्या आनन्दस्य माता। सा कुमारं तादृशीये लक्ष्मीये तादृशाये विभूषाये कपिलवस्तुतो निर्यान्तं दृष्ट्वा गाथाहि कुमारं अभिस्तवति॥

निवृता खलु ते माता पिता पुनः ते निर्वृतो।
निवृता पुनः सा नारी यस्य भर्ता भविष्यसि॥

बोधिसत्वस्य निर्वाणशब्दं श्रुत्वा निर्वाणस्मिं एव मनं प्रसीदे तिष्ठि संप्रस्कन्दे।

निर्वाणघोषं श्रुत्वान निर्वाणे श्रोत्रमाददे।
निर्वाणमनुत्तरं दृष्ट्वा ध्यायते अकुतोभयं॥

कुमारेण तं निर्वाणं ध्यायन्तेन मृगी शाक्यकन्या नावलोकिता नाभाष्टा॥ तस्या दानि मृगीशाक्यकन्याये दौर्मनस्यं संजातं। एत्तकस्य जनकायस्य मध्यतो मया कुमारो अभिस्तुतो न चानेन अहमवलोकितापि॥

शुद्धोदनेन राजकुमारस्य षड्वालको नाम द्वारो कारापितो पंचपुरुषशतेहि

p. 158

अपावुरीयति॥ तस्य अपाववुरीयन्तस्य समन्तायोजनं शब्दो गच्छति॥ पंच राजान शतानि नगरं परिवारेत्वा स्थिता॥ राजा अभिषेके भाण्डा कारापेति। पुष्यनक्षत्रे कुमारमभिषिंचिष्यं॥ बोधिसत्वस्यापि एवं भवति। पुष्यनक्षत्रे अभिनिष्क्रमिष्यन्ति॥ शुद्धावासा देवा बोधिसत्वमाहन्सुः॥ काले सि महापुरुष तुषितकायाच्च्युतो काले सि मातुः कुक्षिं ओक्रान्तो काले सि जातो कालो च ते अभिनिष्क्रमितुं कालनिर्नामसम्पन्नो चासि महापुरुष। बहु त्वां जनता अभिकांक्षन्ति कर्षका विय उदकपरीक्षया महामेघां॥ ईश्वरो देवपुत्रो गाथां भाषति॥

सम्यग्वितर्कय बोधिसत्व एवं वितर्कयंति विद्वांसः।
उत्पन्न ते कुशलस्य मूला यथा वितर्कयसि सप्रज्ञ॥

महेश्वरो गाथां भाषति॥

अभिनिष्क्रम महावीर अभिनिष्क्रम महामुने।
सर्वलोकस्य अर्थाये बुध्याहि अमृतं पदं॥

महाब्रह्मा आह॥ सचे द्य महापुरुष नाभिनिष्क्रमिष्यसि सप्तमे दिवसे सप्तरत्नानि प्रादुर्भविष्यन्ति राजा त्वं भविष्यसि चक्रवर्ती चातुर्द्वीपो विजितावी धार्मिको धर्मराजा सप्तरत्नसमन्वागतो। नभतो इमानि सप्त रत्नमयानि प्रादुर्भवन्ति सय्यथीदं चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नं एवं सप्तमं। पूरं च ते भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां वराणां॥ सो इमां चत्वारि महाद्वीपां सय्यथीदं जम्बुद्वीपं पूर्वविदेहं अप

p. 159

रगोदानिकं उत्तरकुरुं सागरगिरिपर्यन्तां अखिलां अकण्टकां अदण्डेन अशस्त्रेण अनुत्पीडेन धर्मेण अभिविजिनित्वा अध्यावसिष्यसि॥

राहुलो तुषितभवनाच्च्यवित्वा मातुः कुक्षिमोक्रमे अर्धरात्रे समये॥ बोधिसत्वो प्रतिबुद्धो पश्यति अन्तःपुरमोसुप्तं काचिद्वीणामुपगुह्य काचिद्वेणु काचिन्नकुलं काचित्सुघोषं काचित्तूणकं काचिच्चन्दीसकं (?) काचित्सम्भारिकां काचित् महतीं काचिद्विपञ्चिकां काचिद् ढक्कपटहं काचिद्वल्लकिं काचित् मृदंगं काचित् मुकुन्दं काचित्पणवं काचिद् कर्करकं काचिदालिंगं काचित्परिवादिनीं काचिद्गले हस्तं कृत्वा काचित् मृदंगं शीर्षे कृत्वा काचित्परस्परस्य उत्संगे शीर्षं कृत्वा काचित्परस्परस्य अंशे बाहां कृत्वा काचित्परस्परस्य उपगृह्य काचिद्वामदक्षिणातो विक्षिप्तगात्रा कासंचित् मुखातो लाला श्रवति॥ बोधिसत्वस्य एवं धरणीगतमन्तःपुरं प्रतिकण्ठं दृष्ट्वा अन्तेपुरे श्मशानसंज्ञा उत्पन्ना॥ बोधिसत्वेन पर्यङ्कातो उत्थिहित्वा काशिक्सूक्ष्माणि प्रावृतानि करण्डकातो गृह्य छन्दको च नं उपस्थापको उपस्थापितो उपनामेहि मे छन्दक अश्वं कण्ठकं॥ छन्दक आह॥ कुमार अर्धरात्रे समयो किं इमस्मिं देशकाले अश्वकार्यं॥ वैश्रवणभवनसदृशो वेश्मो अभिरम किं ते अश्वकार्यं इमं देशकालं। अप्सरगणसन्निभं अन्तःपुरं अभिरम किन्ते अश्वकार्यं॥ एवमिदानीं बहुप्रकारं छन्दको आलपति। कुमार नायमश्वकालो

p. 160

राजारहेहि कुमार शयनेहि इमं शयनकालं किं इदानीमश्वकार्यं॥ कुमारो आह॥ छन्दक इदानीं मे अश्वकार्यं उपनामेहि मे कण्ठकं॥ छन्दकस्य भवति। यथा कुमारो इमस्मिं देशकाले कण्ठकं याचति सुखप्रसुप्तस्य जनस्य नूनं कुमारो अभिनिष्क्रमितुकामो॥ तेन दानि कण्ठकं पल्लानयन्तेन उच्चेन स्वरेण आरावं मुक्तं यथा राजा बुध्येय जनो च सर्वो कपिलवस्तुस्मिं। छन्दकस्वरेण न दानि ततः कोचिद्विबुध्यति। देवेहि सर्वस्य आभ्यन्तरस्य बाहिरस्य ओसोपनं कृतं। कण्ठकेनापि बोधिसत्वस्य उपनामयन्तेन उच्चेन स्वरेण हीषितं मम हीषणशब्देन राजा शुद्धोदनो विबुद्धिष्यति जनकायो न तेन समन्तायोजनं स्वरेण अभिविज्ञापितं न कोचिद्विबुध्यति॥ देवकोटिसहस्रियो कपिलवस्तुं समागताः गन्धमाल्यमादाय बोधिसत्वस्य अभिनिष्क्रमन्तस्य पूजार्थं॥

बोधिसत्वो कण्ठकं हयराजं आरूढो देवसहस्रेहि च नभगतेहि पुष्पवर्षं ओसृष्टं मण्डरवाणि महामण्डरवाणि कर्कारवाणि महाकर्कारवाणि रोचमानानि महारोचमानानि मंजूषकाणि महामंजूषकाणि भीष्माणि महाभीष्माणि समन्तगन्धानि महासमन्गन्धानि पारिजातकानि दिव्यानि सुवर्णपुष्पाणि दिव्यानि रूप्यपुष्पाणि दिव्यानि रत्नपुष्पाणि दिव्यानि चन्दनचूर्णानि दिव्यानि अगुरुचूर्णानि दिव्यानि केशरचूर्णानि दिव्यानि तमालपत्रचूर्णानि दिव्यानि च गन्धोदकशीतलानि कपिलवस्तुनः समन्तेन षष्टि योजनानि जानुमात्रं दिव्यं कुसुमौघं संवृत्तं समन्ताच्च षष्टि योजनानि दिव्यगन्धोदकेन कर्दमं संवृत्तं अभवत् रुतानि च दिव्यानि कोटिसहस्रनियुता संप्रवाद्येन्सुः दिव्यानि च संगीति निर्वर्तेन्सुः अप्सरसहस्राणि च प्रणद्येन्सुः


p. 161
च गायेन्सु च। चतुर्हि महाराजेहि कण्ठकस्य पादा गृहीता॥ कण्ठकजातानुगामी अनुश्रोत्रं पेलवको च निष्क्रान्तो यदि न समजवो तेन भवामि॥ छन्दकसहजो सुप्रतिष्ठितो नाम यक्षो पंचशतपरिवारो। तेन षड्वालकद्वारमपावृतं घोषं च निगृहीतं॥

अथ बोधिसत्वो महान्तं हस्तिकायं अवहाय अगारादनगारियमभिनिष्क्रामति महान्तं पत्तिकायमवहाय महान्तं भोगस्कन्धमवहाय महान्तमैश्वर्यमवहाय महान्तं ज्ञातिवर्गमवहाय अगारादनगारियमभिनिष्क्रमति॥ बोधिसत्वो जातीये अर्त्तीयन्तो जातिसमतिक्रमणं मार्गमधिगमनार्थं अगारादनगारियमभिनिष्क्रमति। [महान्तमश्वपत्तिकायमवहाय महान्तं रथकायमवहाय महान्तं पत्तिकायमवहाय महान्तं भोगस्कन्धमवहाय महान्तमैश्वर्यमवहाय महान्तं ज्ञातिवर्गमवहाय अगारादनगारियं अभिनिष्क्रमति॥] बोधिसत्वो [जातीये अर्त्तीयन्तो] मरणेन अर्त्तीयन्तो मरणसमतिक्रमणं मार्गमधिगमनार्थाय अगारादनगारियमभिनिष्क्रमति॥ शोकेहि अर्त्तीयन्तो उपायासेहि अर्त्तीयन्तो उपायाससमतिक्रमणं मार्गमधिगमनार्थं अगारादनगारियमभिनिष्क्रामति॥ न खलु पुनर्भिक्षवः बोधिसत्वो परिजुञ्ञेन परिजूर्णो अगारादनगारियमभिनिष्क्रमति। अथ खलु भिक्षवः बोधिसत्वो अग्रेण परमेण यौवनेन समन्वागतः अगारादनगारियमभिनिष्क्रमति॥ न खलु भिक्षवः बोधिसत्वो व्याधिपरिहुञ्ञेन परिजूर्णो अगारादनगारियं अभिनिष्क्रमति। अथ खलु भिक्षवः बोधिसत्वो अग्रेण परमेण आरोग्येन समन्वागतो अगारादनगारियं अभिनिष्क्रमति॥ न खलु पुनर्भिक्षवः भोगपरिजुञ्ञेन परिजूर्णो

p. 162

अगारादनगारियं अभिनिष्क्रमति। अथ खलु भिक्षवः बोधिसत्वो महान्तं भोगस्कन्धमवहाय अगारादनगारियं अभिनिष्क्रमति॥ न खलु पुनर्भिक्षवः बोधिसत्वो ज्ञातिपरिजुञ्ञेन परिजूर्णो अगारादनगारियं अभिनिष्क्रमति। अथ खलु भिक्षवः बोधिसत्वो महान्तं ज्ञातिवर्गमवहाय अगारादनगारियं अभिनिष्क्रामति॥ शैलाः संधूयेन्सुः सलिला ललेन्सुः सागरो च निरामितो क्षुभ्ये देवा च दिव्यं चन्दनचूर्णमोकिरेन्सुः। दिव्यानि अगुरुचूर्णानि दिव्यानि केशरचूर्णानि दिव्यानि तमालपत्रचूर्णानि दिव्यानि मुक्तवर्षाणि ओकिरेन्सुः॥ इयं महापृथिवी अतीव षाड्विकारं कंपे प्रकम्पे संप्रकम्पे बोधिसत्वस्यैव तेजेन अप्रमेयस्य च उदारस्य च महतो ओभासस्य लोके प्रादुर्भावो अभूषि। या पि ता लोकान्तरिकाः अन्धकारा अन्धकारार्पिता तमिस्रा तमिस्रर्पिता अघा असंविदितपूर्वा यत्र इमे चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभ्हां नाभिसंभुणन्ति आलोकेन वा आलोकं न स्फरन्ति ता पि च तेन ओभासेन स्फुटा अभून्सुः। ये पि तत्र सत्वा उपपन्नाः ते पि अन्योन्यं संजानेन्सुः। अन्ये पि किल भो इह सत्वा उपपन्ना। एकान्तसुखसमर्पिता च पुनस्तत्क्षणं तन्मुहूर्तं सर्वसत्वा अभून्सुः॥ ये पि तत्र अवीचिस्मिं महानरके उपपन्नाः अतिक्रम्यैवं देवानां देवानुभावं नागानां नानानुभावं यक्षाणां यक्षानुभावं। ध्यामानि च अभून्सुः मारभवनानि निष्प्रभानि निस्तेजानि निरभिरम्यानि॥ क्रोशिकान्यप्यत्र खण्डानि प्रपतेन्सुः द्विक्रोशिकान्यत्र खण्डानि प्रपतेन्सुः त्रिकोशिकान्यप्यत्र खण्डानि प्रपतेन्सुः योजनकान्यप्यत्र खण्डानि प्रप-

p. 163

वेन्सुः। ध्वजाग्राण्यपि चात्र प्रपतेन्सुः। मारो च पापीमां दुःखी दुर्मना विप्रतिसारी अन्तशल्यपरिदाघजातो अभूषि॥

बोधिसत्वो खलु पुनः भिक्षवो अभिनिष्क्रमन्ते अतीव पुरिमा दिशा परिशुद्धा पर्यवदाता अभूषि। अतीव दक्षिणा दिशा परिशुद्धा पर्यवदाता अभूषि। अतीव पश्चिमा दिशा परिशुद्धा पर्यवदाता अभूषि। अतीव उत्तरा दिशा परिशुद्धा पर्यवदाता अभूषि। अतीव हेष्टिमा दिशा अतीवोपरिमा दिशा परिशुद्धा पर्यवदाता अभूषि॥ अतीव चन्द्रमसूर्याणामुद्गमनानि परिशुद्धानि पर्यवदातानि अभून्सुः अतीव पथगमनानि अतीव ओगमनानि परिशुद्धानि पर्यवदातानि अभूषि॥ अतीव नक्षत्राणि परिशुद्धानि पर्यवदातानि अभूषि। अतीव तारकरूपाणि परिशुद्धानि पर्यवदातानि अभूषि॥ अतीव चातुर्महाराजिकानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभूषि। अतीव त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीणां परनिर्मितवसवर्तिनां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभूषि॥ अतीव मारभवनानि ध्यामानि अभून्सुः। दुर्वणा निष्प्रभाणि ध्वजाग्राणि मारकायिकानां देवानां मारो च पापीमां दुःखी दुर्मनो विप्रतिसारी ध्यामन्तवर्णो अन्तोशल्यपरिदाघजातो॥ ब्रह्मकायिकानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभून्सुः। शुद्धावासानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभून्सुः। एवं च तेषु शुद्धावासेषु देवेषु परीत्ताभानां सम्यक्संबुद्धानां अधिष्ठितानि चंक्रमा निष्यद्यानि शय्यानि तानि पि अतीव परिशुद्धानि अभून्सुः पर्यवदाता॥ शुद्धावासा देवा अत्ळ्व हृष्टा अभूषि उदग्रा प्रमुदिता प्रीतिसौमनस्यजाता॥ बोधिसत्वे खलु पुनर्भिक्षवः अभिनिष्क्रमन्ते यावता नागानामधिपतयो नागराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औ-

p. 164

पादुका वा ते महतीं चतुरंगिनीं सेनामभिनिर्मिणित्वा महान्तं हस्तिकायं अश्वकायं रथकायं पत्तिकायमभिनिर्मिणित्वा बोधिसत्वमेव पुरस्करेन्सुः अगारादनगारियं प्रव्रजितुं॥ बोधिसत्वे खलु पुनर्भिक्षवः अभिनिष्क्रमन्ते यावता सुवर्णाधिपतयो सुवर्णराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते महतीं चतुरंगिनीं सेनां अभिनिर्मिणित्वा महान्तं हस्तिकायं अश्वकायं रथकायं पत्तिकायं अभिनिर्मिणित्वा बोधिसत्वमेव पुरस्करेन्सुः॥ नगरदेवता बोधिसत्वस्य गच्छतः पुरतः स्थित्वा दीनमना आह॥

नाग नाग अवलोकयाहि मे
सिंह सिंह अवलोकयाहि मे।
सत्वसार अवलोकयाहि मे
सार्थवाह अवलोकयाहि मे॥

कपिलाहूयातो निर्गम्य अवलोकिय पुरवरं पुरुषसिंहो शाक्यकुलानन्दजननो इमां गिरामभ्युदीरयति॥

अपि नरकं प्रपतेयं विषं च खादेतुं भोजनं भुंजे।
न तु पुनरिह प्रविश्य अप्राप्य जरामरणपारं॥

अयं भिक्षवः बोधिसत्वस्य अभिनिष्क्रमणसम्पदा॥

बोधिसत्वो देवसहस्रेहि चतुर्हि च महाराजेहि संप्रतिगृहीतो कपिलवस्तुतो दक्षिणेन द्वादश योजनानि नीतो मल्लविषयं अनोमियं नाम अधिष्ठानं वशिष्ठस्य ऋषिस्य आश्रमपदस्य नातिदूरे॥ तहिं बोधिसत्वो प्रतिष्ठितो छन्दको च॥ बो-

p. 165

धिसत्वो छन्दकस्य हस्ते आभरणानि च देति कण्ठकं च अश्वं छत्ररत्नं च पितुश्च शुद्धोदनस्य संदिशति महाप्रजापतीये गौतमीये सर्वस्य च ज्ञातिवर्गस्य कौशल्यं जल्पेसि कृतकृत्यो आगमिष्यामि प्रवृत्तवरधर्मचक्रः॥ छन्दको आह॥ मातुः पितुः न उत्कण्ठितं स्या ते॥ बोधिसत्वो आह॥ छन्दक

इत्यर्थमेवमहं तव दोषदर्शी
मोक्षार्थं मोक्षमति स्वजनं त्यजामि।
जातस्य जन्मनि कथं पुनर्भवेया
इष्टेन बान्धवजनेन विप्रयोगः॥
यदि न मरनं नो जातं स्यान्न रोगजरादयः
यदि च न भवेदिष्टत्यागो न चाप्रियसंश्रयो।
यदि च विफला नो स्यादासा सुखं च न चंचलं
विविधविषया मानुष्यस्मिं इमापिं रतिर्भवेत्॥

छन्दको आह॥ त्वं नाम आर्यपुत्र निर्दिष्टो सर्वशास्त्रकुशलेहि चातुर्द्वीपगतिर्भविष्यसीति। न तं सत्यं॥ बोधिसत्वो आह॥ भो भणे छन्दका किमन्यं च भणितं तेहि नैमित्तिकेहि कुशलेहि॥ वर्तति खु सत्यकालो यदि ते मम गौरवं अस्ति॥ छन्दको आह॥ एषो भणामि। अथ वा विजहित्वा मेदिनीं प्रव्रजति भवति भवरागन्ता अशेषदर्शी इदं द्वितीयं॥

बोधिसत्वस्य एतदभूषि। कथं प्रव्रज्या च चूडा च॥ बोधिसत्वेन असिपट्टेन चूडा छिन्ना सा च चूडा शक्रेण देवानामिन्द्रेण प्रतिच्छिता त्रायस्त्रिंशद्भवने पूज्यति

p. 166

चूडामहं च वर्तति॥ समसमं कण्ठको बोधिसत्वस्य पादां लिहति। बोधिसत्वो अनपेक्षो प्रक्रमति॥

प्रव्रज्यां कीर्तयिष्यामि यथा प्रव्रजि चक्षुमां।
जीर्णं कालगतं दृष्ट्वा संवेगमलभे मुनिः॥
योनिशो लब्धसंवेगो महाप्रज्ञो विपश्यको।
दृष्ट्वा आदीनवं लोके प्रव्रजि अनगारियं॥
अवहाय मातापितरं ज्ञातिसंगमनं तथा।
निर्यासि कपिलवस्तुतो अश्वमभिरुह्य कण्ठकं॥
अवहायाश्वच्छन्दके छित्त्वान गृहबान्धनां।
सर्वमेतमवसृज्य अनपेक्षो एव प्रक्रमेत्॥

यं दानि बोधिसत्वेन अभिनिष्क्रमित्वा अनोमियातो अधिष्ठानातो वशिष्ठस्य ऋषिस्य आश्रमस्य नातिदूरतो छन्दको निवर्तितः सकण्ठको आभरणानि च विसर्जितानि राज्ञो शुद्धोदनस्य कौशल्यं संदिष्टं महाप्रजापतीये गौतमीये तथान्येषामपि ज्ञातीनां। यशोधराये न संदिशति॥ यदा भगवां प्रवृत्तवरधर्मचक्रः तं भिक्षूहि श्रुतं। भिक्षू भगवन्तमाहन्सुः॥ कथं यशोधराये अनपेक्षो प्रक्रान्तो॥ भगवानाह॥ नाहं भिक्षवः एतरहिं एवानपेक्षो प्रक्रान्तो। अन्यदापि अहं यशोधराये अनपेक्षो प्रकान्तः॥ भिक्षू आहन्सुः॥ अन्यदापि भगवन्॥ भगवानाह॥ अन्यदापि भिक्षवः॥

भूतपूर्वं भिक्षवोऽतीतमध्वाने उत्तरापथे तक्षशिला नाम नगरं तत्र वज्रसेनो

p. 167

नाम श्रेष्ठिपुत्रो अश्ववाणिज्येन तक्षशिलातो वाराणसिं गच्छति अश्वपण्यमादाय॥ सो दानि गच्छन्तो अन्यश्च वाराणसीये सार्थो चोरेहि विप्रहतो। वणिजा हतविहता कृता सर्वे अश्वा हृता॥ सो दनि सार्थवाहो मृतकेन पुरुषकुणपेन आत्मानं प्रतिच्छादेत्वा शयितो एवं न हतो॥ यदा ते चोरा तं सार्थवाहं हतविप्रहतं कृत्वा ग्रहणमादाय गता तदा सो वज्रसेनो अश्ववाणिजो उदकभ्रमेन वारानसिं नगरं प्रविशित्वा शून्यागारे शयितो॥ तां एव दानिं रात्रीं वाराणसीये नगरे चोरेहि राजकुलातो सन्धिं छित्त्वा प्रभूतं द्रव्यं हृतं। प्रभाताये रात्रीये राजकुले सन्धिः छिन्ना अमात्येहि दृष्टा॥ तेहि राज्ञे निवेदितं॥ महाराज राजकुले सन्धिः छिन्ना। राज्ञा आणत्ता। प्रत्यवेक्षथ राजकुलं॥ अमात्येहि प्रत्यवेक्षन्तेहि दृष्टं प्रभूतं द्रव्यं हृतं॥ तेहि राज्ञ आरोचितं॥ महाराज प्रभूतो राजकुलातो द्रव्यं हृतं॥ राज्ञा अमात्या आणत्ता॥ मार्गथ तां चोरां॥ ते राज आणत्तीये तन्मुहर्तं वाराणसीये चौरा मार्गीयन्ति सर्वगृहाणि लोलीयन्ति देवागाराणि शून्यागाराणि॥

ते राजभट्टा मार्गन्ता तहिं शून्यागारं प्रविष्टा यत्र वज्रसेनो अश्ववाणिजको चौरेहि विप्रहतो शयितो॥ सो दानि मार्गश्रमेण च रात्रीजागरेण च चिन्ताये च श्रान्तोक्रान्तो प्रसुप्तो सूर्ये पि उदिते न विबुध्यति॥ सो तेहि राजभट्टेहि चौरा मार्गन्तेहि दृष्टो रुधिरेण सिक्तावसिक्तगात्रवस्त्रो सद्रव्यो शयितो तेषां राजभट्टानां च दृष्ट्वा एतदभूषि॥ अयं चौरो राजकुलमोषको॥ सो दानि राजभट्टेन पादेन

p. 168

प्रहारं दत्त्वा उत्थापितो। उत्तिष्ठ पाप चौर अस्ति नाम त्वं राजकुलं धर्षयसि॥ सो दानि अश्ववाणिजको भीतो त्रस्तो उत्थितो किमेतं ति॥ ते दानि राजभट्टा आहन्सुः॥ अस्ति नाम त्वं पाप चौर राजकुलं पि धर्षयसि॥ सो दानि आह॥ आर्या प्रसीदथ नाहं चौरो अश्ववाणिजको अहं ति॥ ते दानि राजभट्टा आहन्सुः॥ एदृशको अश्ववाणिजको भवति यादृशो त्वं पापचौरो त्वं॥ तेहि स उदीरयन्तो पश्चाद्बाहुं बन्धयित्वा राज्ञो उपनामयितो॥ एवं देव शून्यागारे शयितो लब्धो॥ राजा पि चण्डो च उग्रशासनो च। तेन आणत्तं॥ गच्छथ नं अतिमुक्तकश्मशाने नेत्वा जीवशूलकं करोथ॥

सो दानि पश्चाद्बाहुं बन्धनबद्धो मद्यपानेन पायी वध्यकण्ठगुणेन स्वरस्वरेण पटहेन वाद्यमानेन असिशक्तितोमरधरेहि पुरुषेहि वध्यघाटकेहि परिवृतो जनसस्रेहि अतिमुक्तकश्मशानं निर्नीयति गणिकावीथिं च संप्राप्तः। तहिं च श्यामा नाम अग्रगणिका आढ्या महाधना महाकोशा प्रभूतजातरूपरजतोपकरणा प्रभूतदासीदासकर्मकरपौरुषेया॥ सो दानि सार्थवाहः वधं नीयन्तो ताये श्यामाये अग्रगणिकाये दृष्टो। सह दर्शनमात्रेण गणिकाये तस्मिं सार्थवाहे प्रेम्नं निपतितं॥ यथोक्तं भगवता॥

पूर्वं वासनिवासेन प्रत्युत्पन्ने हितेन वा।
एवं संजायते प्रेम्नं उत्पलं वा यथोदके॥
संवासेन निवासेन प्रेक्षितेन स्मितेन च।
एवं संजायते प्रेम्नं मानुषाणां मृगाण च॥

p. 169

यत्र मनं प्रविशति चित्तं वापि प्रसीदति।
सर्वत्र पण्डितो गच्छे संस्तवो वै पुरे भवेत्॥

सा दानि गणिका तहिं अश्ववाणिजके जातीसहस्राणि प्रेम्नानुबद्धा। तस्या तहिं अत्यर्थं प्रेम्नं उत्पन्नं॥ तस्या दानि एतदभूषि। यदि एतं पुरुषं न लभामि मरिष्यामि॥ सा दानि तन्मुहूर्तं चेटिकामाह॥ अमुके गच्छ मम वचनेन एतां वध्यधातां वदेहि अहं वो एत्तकं हिरणसुवर्णं दास्यामि मा एतं पुरुषं घातेथ। अन्यो पुरुषो आगमिष्यति एतद्वर्णो एतद्रूपो च तं गृह्य तं मारेथ॥ तथा च जल्पसि द्वितीयो न जानीते॥ ततः सा चेटी गत्वा तेषां च घातकानां यथासन्दिष्टं आरोचयेसि॥ तस्या ते वध्यघातका आहन्सुः॥ वाढं एवं भवतु॥ ते दानि कृतान्तसूनिकां गच्छन्ति॥ तहिं दानि गणिकाकुले श्रेष्ठिस्य एकपुत्रको द्वादशवर्षिकेन क्रयेण प्रविष्टको दश वर्षा अतिक्रान्ता द्वे वर्षा अवशिष्टा॥ तद्यथाह॥

शतं माया क्षत्रियाणां ब्राह्मणानां दुवे शता।
सहस्रं माया राजानां स्त्रीमाया हि अनन्तिका॥

सा दानि गणिका श्यामा तस्य श्रेष्ठिपुत्रस्य अग्रतो भोजनं व्यपनेति व्यंजनं च। श्रेष्ठिपुत्रो पृच्छति॥ स्यामे किमिमं भविष्यति॥ सा आह॥ आर्यपुत्र तं मे वध्यं दृष्ट्वा कृपा उत्पन्ना। तस्या मे एतदभूषि। स्वयं इमं भोजनं हरिष्यामि॥ श्रेष्ठिपुत्रो आह॥ मा त्वं स्वयं गच्छे चेटिं प्रेषेहि॥ सा आह॥ को जानाति दास्यति वा चेटी न वा दास्यतीति॥ स्वयं आहरित्वा दास्यामि॥ ततो सो श्रेष्ठि-

p. 170

पुत्रो आह॥ आनेहि अहं गमिष्यामि मा त्वं स्वयं गच्छासि॥ सा दानि भूयस्या मात्रया मायां दर्शयति। आह॥ न होति मा आर्यपुत्रो गच्छतु अहं गमिष्यामि॥ श्रेष्ठिपुत्रो पि आह॥ न हि मा त्वं गच्छ अहं गमिष्यामि॥ गणिका आह॥ यथा आर्यपुत्रस्य अभिप्रायो भवतु अहं वा गच्छेय आर्यपुत्रो वा॥ सो दानि श्रेष्ठिपुत्रो तं भोजनमादाय प्रस्थितो॥ ताये दानि गणिकाये चेटी उक्ता॥ गच्छ यदा एषो श्रेष्ठिपुत्रो घातितो भवति ततः तं पुरुषं प्रतिच्छन्नं आनयाहि यथा न कोचित्पश्येया याव दानि सूर्यो अस्तमेति॥ सर्वो जनकायो निवृत्तः ते च वध्यघाताः श्मशानमनुप्राप्ताः सो च श्रेष्ठिपुत्रो तं भोजनमादाय उपगतो। तेन सो भोजनो तस्य वध्यस्य उपनामितो। तेहि दानि वध्यघातेहि तं श्रेष्ठिपुत्रं घातेत्वा सो अश्ववाणिजको ओसृष्टः॥

सो दानि ताये चेटिकाये प्रच्छन्नं तं गणिकाकुलं प्रवेशितो॥ सो दानि अश्ववाणिजको तत्मुहूर्तके उच्छापितो स्नापितो महारहं वस्त्रं परिहापितो महारहे पर्यंके उपविशापितो गन्धमाल्यं च उपनामितं भोजनमुपनामितं। पंचहि कामगुणेहि समर्पितः समग्रीभूतो॥ उभौ क्रीडन्ति रमन्ति प्रविचारयन्ति॥ सो दानि प्रथमको श्रेष्ठिपुत्रो दशवर्षप्रविष्टो आसि। यदा घातापितो तदापि द्वे वर्षाणि सर्वोपकरणं मातापितृणां सकाशातो आनीयति॥ सो दानि अश्ववाणिजको तं वर्तनं तादृशं पश्यिय शोकसमर्पितो पाण्डुवर्णो भवे। न भुक्तं पि यं भोजनं तं छड्डेति मा हैवं अहं पि तथा एव हनिष्यामि यथा सो पुरिमको श्रेष्ठिपुत्रो॥ सा दानि गणिका तं अशवाणिजकं पृच्छति॥ आर्यपुत्र एत्तको कालो

p. 171

यतः आर्यपुत्रो इह प्रविष्टो न च ते पश्यामि अभिरतं न उदग्रं। केन ते वैकल्यं किं प्रार्थयसि कस्य वा ते अभिलाषो तं लभिष्यसि॥ सो दानि अश्ववाणिजको आह॥ सा अस्माकं नगरी तक्षशिला उद्यानोपशोभिता पुष्करिणीहि च तत्र च अभीक्ष्णं जनो उद्यानयात्रां निर्धावति क्रीडार्थं तानि चोद्यानानि तां च उद्यानक्रीडां दकक्रीडानि च समनुस्मरामि॥ गणिका आह॥ आर्यपुत्र इहापि वाराणस्यां उद्यानानि पुष्करिण्यश्च आरामानि च पुष्पफलोपेतानि रमणीयानि यदि आर्यपुत्रस्य उद्यानगमने अभिप्रायो निर्धावामि उद्यानभूमिं क्रीडार्थं॥ सो आह॥ वाढं विर्धावामो ति॥

ताये दानि गणिकाये अन्यतरा उद्यानभूमी सिक्तसंसृष्टा कारापिता। तं अश्ववाणिजकं ओनद्धहयने प्रक्षिपित्वा खाद्यभोज्यं च पानं च गन्धमाल्यं च आदाय चेतीहि पुरस्कृता निष्क्रान्ता॥ तेन दानि वज्रसेनेन श्रेष्ठिपुत्रेण सा गणिका उक्ता॥ एतां पुष्करिणीं प्रतिसीराहि प्रतिवेठापेहि विश्वस्ता दकक्रीडां क्रीडिष्यमः न कोचित्पश्यति॥ तस्या गणिकाये भवति। सुष्टु आर्यपुत्रो जल्पति तत्र विश्वस्तं क्रीडिष्यामः न च नं कोचित्प्रत्यभिजानिष्यति॥ ताये दानि गणिकाये पुष्करिणी प्रतिसीराहि वेठापिता। ते दानि उदकक्रीडाये क्रीडन्ति रमन्ति प्रविचारयन्ति उभये अतृतीया॥ तस्य दानि अश्ववाणिजकस्य भवति। यदि अहं अद्य न पलायामि न भूयः शक्यं पलायितुं॥ सो दानि पानं अग्रे स्थापयित्वा तां गणिकां पायेति यदा च एषा प्रमत्ता भवेदहं तदा शक्येयं पलायितुं॥ गणिका पि पश्यति प्रेम्नेन पश्यति मां आर्यपुत्रो पायेतीति। सा दानि पिबन्ती मत्ता

p. 172

संवृत्ता॥ सो दानि अश्ववाणिजको तेषां चेटीनामाह॥ गच्छथ यूयं भाण्डमूले आसथ वयं विश्वस्ता उदकक्रीडां क्रीडिष्यामः॥ ता दानि चेटी एकान्ते भाण्डमूले आसन्ति॥ ते दानि उभयो पुष्करिणीमोतीर्णा उदकक्रीड्यकेहि क्रीडितुं॥ सो दानि अश्ववाणिजको तां श्यामां कण्ठे समालिंगं कृत्वा निवर्तेति मुहूर्तं वारेत्वा उच्यच्छति। श्यामा जानाति आर्यपुत्र उदकक्रीडां करोति। एवं तेन अश्ववाणिजेन वज्रसेनेन भूयोभूयो चिरतरं निवुट्टिय वार्यति श्यामा च पीडियति वज्रसेनो च तहिं उदके निवुट्टापिय करोति अल्पप्राणां संजातां। वज्रसेनस्य भवति। मृता एषा श्यामा अयं वेला मम पलायनाये॥ सो दानि श्यामां मृतामभिज्ञात्वा पुष्करिणीये सोपानस्मिं स्थपेत्वा इतो इतः प्रत्यवेक्षित्वा पलायते यथा न केनचिद्दृष्टो॥

तेषां चेटीनामेतदभूषि। विलोडेन्ति अत्र पुष्करिणीयं आर्यपुत्रो आर्यधीता च क्रीडार्थं न च सानं किंचित्क्रीडन्तानां शब्दं ऱ्णोम गच्छाम जानाम॥ ते दानि पुष्करिणीं अल्लीना पश्यन्ति च तां श्यामां तत्र पुष्करिण्यां सोपाने मृतिकां शयमानां। कथंचिदाश्वासयन्ति॥ सा दानि श्यामा तेहि चेटीहि तन्मुहूर्तं ओमूर्धिकमालम्बापिता सर्वं च से उदकं मुखेन आगतं॥ सा दानि श्याम यं वेलं प्रत्याश्वस्ता ततः चेटीनि पृच्छति कहिं आर्यपुत्रो ति॥ चेटी आहन्सुः॥ आर्यधीते न खलु आर्यपुत्रो कहिंचिद्दृश्यति भवितव्यं पलानो॥ सा आह॥ मा चिरं करोथ नगरं प्रवेक्ष्यामः॥ ता दानि नगरं प्रविष्टा॥

p. 173

सा दानि श्यमा गणिका तन्मुहूर्तं चण्डाला शब्दापियान आह॥ अयं युष्माकं एकत्तकं च एत्तकं च हिरण्यं उपजीवनं दास्यामि इच्छामि प्रत्यग्रमृतकं पुरुषं अनादष्टं आनीयन्तं॥ आहन्सु॥ वाढं आनीयति॥ तेहि श्मशानं गत्वा प्रत्यग्रमृतको पुरुषो अनादष्टो आनीयते यथा न केनचिद्दृष्टो॥ ते दानि चण्डाला उपजीवनं दत्त्वा विसर्जिता॥ ताये दानि श्यामाये सो मृतको पुरुषो गन्धोदकेन स्नापयित्वा गन्धेहि अनुलिपित्वा अर्हन्तेहि वस्त्रेहि वेठित्वा चमुस्मिं प्रक्षिपित्वा सुबद्धं कृत्वा तेषां चेटीनामाह॥ सर्व एककण्ठा रोदनं करोथ एवं च वदथ आर्यपुत्रो कालगतो आर्यपुत्रो कालगतो ति॥ तेहि चेटीहि यथायथा ताये श्यामाये सन्दिष्टं रोदनं कृतं॥ महता जनकायेन गणिकाये श्यामाये गृहे रोदनशब्दं श्रुत्वा श्रेष्ठिपुत्रो कालगतो ति। तस्य श्रेष्ठिपुत्रस्य मातापितृभिः श्रुतं सो अस्माकं एकपुत्रको कालगतो ति॥ ते दानि रोदनं करोन्ता तं गणिकाकुलं गताः सर्वो च ज्ञातिवर्गो। गणिकावीथिजनेन समास्यति॥ ते आहन्सु। अपहरथ एतां चमुं पश्चिमदर्शनं पुत्रं पश्याम॥ तस्या दानि गणिकाये एतदभूषि। यदि चमुं हरिष्यन्ति ततो बुद्धिष्यन्ति तदहं खण्डखण्डं छिन्दिष्यं॥ सा तेषां आह॥ मा तुम्हे चमुं अपहरिष्यथ॥ ते आहन्सुः॥ किंकारणं॥ सा आह॥ यं काल आर्यपुत्रो ग्लानो तं कालं मया उक्त आर्यपुत्र गच्छाहि मातापितॄणां कुलं। सो दानाह। एत्तकेहि वर्षेहि न गतो न इदानीं गमिष्यं यावद्वार्त्तीभवामि ततः गमिष्यं मातापितॄणि द्रष्तुं। सो दानि यं वेलं न वार्त्तीभवति व्याधिना न ग्रस्तो ततो नं अहं संदिष्टा मा मे

p. 174

मृतस्य मातापितॄणां ज्ञातीनां वा दर्शयिष्यसि एत्तकं मे प्रियं करोहि। मया च आर्यपुत्रस्य प्रतिज्ञातं न आर्यपुत्र मृतकं कस्यचित् मातापितृणां वा ज्ञातीनां वा उपदर्शयिष्यामि। कामं आत्मानमुपसंक्रमेयं न पुनरार्यपुत्रस्य शरीरसंदर्शनं करेयं। ततो यदि तुम्हे एवं चमुं अपहरथ आत्मानं अहमुपसंक्रमेयं। एवं मया आर्यपुत्रस्य चरिमकाले प्रतिज्ञातं॥ श्रेष्ठिस्य भवति॥ एवमेतं यथा एषा जल्पति यत्कारनंएषा मम पुत्रस्य अत्यर्थं प्रिया मनापा च आसि या मरणकाले पि मम पुत्रेण एषा न परित्यक्ता एषापि च मम पुत्रस्य भावानुरक्ता हितकामा च आसि अस्माकंच पुत्रको मृतो अलभनीयो एषो र्थो यदि वयं एतत्पुत्रं मृतं न लभामः तस्मादपनेतुं चमुं॥ श्रेष्ठिना आणत्तं॥ मा अपहरथ चमुं यथा मम पुत्रस्य मरनकाले अभिप्रायो तथा भवतु॥ सो दानि महता सत्कारेण नगरातो निष्कासिय एकान्ते ध्यायितो॥ सा दानि गणिका अतिकरुणानि रोदति शोचति परिदेवनि बहूनि मायानि दर्शयति। निवारीयन्ती येन चिता ततः अभिमुखा धावति इच्छति चितायां पतितुं सर्वजनेन निवारिता चितायां पतन्ती॥ तस्य दानि श्रेष्ठिपुत्रस्य मातापितॄणामेतदभूषि॥ इमा श्यामा गणिका अस्माकं पुत्रस्य इष्टा च दयिता च आसि एताये पि च अस्माकं पुत्रो इष्टो च दयितो आसि यं नूनं वयेमेतां श्यामां गृहं प्रवश्यामः या अस्माकं पुत्रस्य दर्शनं भविष्यति॥ तेन दानि श्रेष्ठिना सा श्यामा राजकुलातो अनुजानापेत्वा गृहं प्रविशिता॥ सा दानि ओमुक्तमणिसुवर्णा ओदातवस्त्राम्बरधरा एकवेणीधरा वज्रसेनमश्ववाणिजकं शोचन्ती आसति। श्रेष्ठिपुत्रस्य च मातापितॄणामेतदभूषि। अस्माकमेषा एक-

p. 175

पुत्रस्य शोचति॥ सो दानि श्रेष्ठि सभार्यको यथा व पुत्रकं तथा तां श्यामां चेस्टति॥

कदाचिद्दानि तक्षशिलका नटा वाराणसीमागताः। ते दानि नटदारका भिक्षार्थका तं श्रेष्ठिकुलं प्रविष्टा॥ ताये दानि श्यामाये तेषां नटदारकानामुत्तरापथकं भाष्यं प्रगृहीतं। सा तां नटदारकां पृच्छति। कुतो यूयं ति॥ ते आहन्सुः॥ उत्तरापथका वयं॥ सा आह॥ कतमातो अधिस्थानातो॥ ते आहन्सुः॥ तक्षशिलातो॥ सा आह॥ योनं(?) प्रत्यभिजानथ यूयं तक्षशिलायां श्रेष्ठिपुत्रो वज्रसेनो नाम अश्ववाणिजो॥ नटदारका आहन्सुः॥ आम प्रत्यभिजानाम॥ सा आह॥ शक्यथ मम व्यापारं कर्तुं॥ ते आहन्सुः॥ वाढं शक्यामो ति किं कर्तव्यं॥ सा आह॥ इमं श्लोकं श्रेष्ठिपुत्रस्य वज्रसेनस्य सन्तिके भणथ॥

यान्त्वं सालेहि फुल्लेहि श्यामां कौशेयवासिनीं।
गाढं अंकेन पीडेसि सा ते कौशल्यं पृच्छति॥

ते दानि नटदारका अनुपूर्वेण तक्षशिलामागता अश्ववाणिजकं वज्रसेनमुपसंक्रमित्वा आहन्सुः॥

यान्त्वं सालेहि फुल्लेहि श्यामां कौशेयवासिनीं।
गाढं अंकेन पीडेसि सा ते कौशल्यं पृच्छति॥

सो दानि वज्रसेनो श्रेष्ठिपुत्रो तं श्लोकं श्रुत्वा तां नटदारकां गाथया प्रत्यभाषे॥

p. 176

रागाभिभूता न सुखं शयन्ति
कृतानुकारं प्रतिकर्तुकामा।
नराः कृतज्ञा न सुखं शयन्ति
वैरप्रसंगी न सुखं शयन्ति॥
तं वो न श्रद्धधाम्यहं वातो वा गिरिमावहे।
कथं सा मृतिका नारी मम कौशल्यकं भणे॥

ते दानि नटदारका आहंसुः॥

नापि सा मृयते नारी नाप्यन्यमभिकांक्षति।
एकवेणीधरा बाला त्वामेव अभिकांक्षति॥

श्रेष्टिपुत्रो वज्रसेनो आह॥

असंस्तुतं मे चिरसम्स्तुतेन
न निर्मिणेया ध्रुवमध्रुवेण।
इतो प्यहं दूरतरं गमिष्यं
ममापि सा अन्यं न निर्मिणेय॥

स्यात्खलु भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन वज्रसेनो नाम अश्ववाणिजको अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं स भिक्षवः तेन कालेन तेन समयेन वज्रसेनो नाम अश्ववाणिजको अभूषि॥ अन्या सा तेन कालेन तेन समयेन नगरे वाराणसीये गणिका श्यामा नाम अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एषा सा भिक्षवः यशोधरा तेन कालेन तेन समयेन वाराणस्यां

p. 177

नगरे श्यामा नाम अग्रगणिका अभूषि। तदापि अहं एताये अनपेक्षो एतरहिं पि एताये अनपेक्षो॥

समाप्तं श्यामाये जातकं॥

अथ भिक्षू आहन्सुः॥ भगवां यशोधराये वधे निर्नीयन्तो त्रायितो। बहुकरा भगवतो बोधिसत्वभूतस्य संसारे संसरन्तस्य यशोधरा आसि॥ भगवानाह॥ वाढं भिक्षवः बहुकरा यशोधरा आसि तथागतस्य संसारे संसरन्तस्य। अन्यदापि अहं एताये यशोधराये अमित्रहस्तगतो रक्षितो॥ भिक्षू आहन्सुः॥ अन्यदापि भगवन्॥ भगवानाह॥ अन्यदापि भिक्षवः॥

भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे उग्रसेनो नाम राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाकोशो महावाहनो। तस्य तं राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करव्यवहारसंपन्नं च॥ तस्य दानि तहिं जनपदे चम्पको नाम नागराजो प्रतिवसति कृतपुण्यो उत्सदकुशलसंचयो अनेकनागशतसहस्रपरिवारः॥ तस्य दानि चंपकस्य नागराज्ञो भवनं देवभवनसंनिभं सप्तरत्नमयानि विमानानि सर्वत्रकानि सर्वकालिकानि पुष्पफलानि रत्नमयायो पुष्करिणीयो उत्पलपदुमनलिनिकुमुदपुण्डरीकसंछन्ना॥ ताये पुष्करिणीये अविदूरे वैडूर्यस्तम्भप्रासादो रत्नामयो मुसारगल्वतलास्तृतो॥ तस्य च राज्ञो षोडशनागकन्यासहस्राणि अन्तःपुरं॥ सो दानि तहिं नागभवने यथा देवराजा तथा मोदति॥ सो दानि अष्टमीं चतुर्दशिं पंचदशीं त्रिष्कृत्वो पक्षस्य चतुर्महापथे उपोषधं उपोषति। अष्टाङ्गसमन्वागतो ओसृष्टकायो विह-

p. 178

रति॥ सो दानि नागरजा तहिं चतुर्महापथे उपवासं समादत्तो अहितुण्डकेन दृष्टो। तेन सो अहितुण्डिकेन चम्पको नागराजो ततः चतुर्महापथातो गृह्य सर्पकरण्डके प्रक्षिप्तो आसतिं। नापि तस्य अहितुण्डिकस्य कुप्यति न अन्तरहीयन्तो महाबलो महातेजो नागराजा इच्छति सजनपदां वाराणसीं भस्मीकरेया॥ तत्र सर्पकरण्डे तं व्रतमनुपालेन्तो आसति॥ तेनापि नागराज्ञा परिवारस्य निमित्तानि आचिक्षितानि यदि मम एत्थ चतुर्महापथे उपवासं समादत्तस्य कोचिद्विहेठेय तहिं नागभवने निमित्तानि भविष्यन्ति। यदि इह नागभवने एतानि वनस्पतीनि संमिलायेन्सुः एतानि च उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकानि ततो जानेथ बद्धो सो नागराजा। यदि एतानि वनस्पतीनि सर्वाणि सर्वशुष्कपत्रा भवेन्सुः एतानि च पुष्करिणीनि निरोदकानि भवेन्सुः ततः जानेथ हतो नागराजा ति॥ तेन दानि चम्पकेन नागर्ज्ञा अहितुण्डकेन सर्पकरण्डके बद्धेन तहिं नागभवने एतानि निमित्तानि प्रादुर्भवन्ति॥ ते दानि नागा च नागकन्या च तहिं नागभवने तानि निमित्तानि दृष्ट्वा सर्वे उत्कण्ठिता बद्धो नागराजा। किं ततो एकमेको समर्थो तं नागराजंत् अतः अहितुण्डिकस्य हस्तातो मोक्षयितुं न च तं नागराजं मोक्षयन्ति॥ यत्कारणं पूर्वे व नागराजेन परिवारस्य संदिष्टं। यदि मम उपवाससमंगिस्य कोचिद् हरेय वा बंधेय वा न युष्माभिस्तस्य केनचिदप्रियो वा विप्रियो वा कर्तव्यो। यत्कारणं एष मम व्रतोत्तमं॥

तस्य दानि नागराज्ञो अग्रमहिषी षोडशानां स्त्रीसहस्राणां......। ताये च वाराणसीं गत्वा राज्ञो उग्रसेनस्य उपरिप्रासादवरगतस्य नागराज्ञो ग्रहणं सनिदानमारोचितं॥ राजा उग्रसेनो तस्या नागिनीये सकाशातो चम्पकस्य ना-

p. 179

गराज्ञो तं गुणपरिकीर्तनं श्रुत्वा प्रीतो संवृत्तो। राजा तां नागकन्यामाह॥ निषीदाहि वा स्वकं वा भवनं गच्छाहि यावत्सुदूता तं नागराजमन्वेषिय आगच्छन्ति इति॥ नागिनी आह॥ महाराज अहितुण्डिकं संतोषयित्वा ग्रामवरेण वा हिरणसुवेर्णेन वा तं नागराजानं मोक्षेहि मा राजाज्ञया॥ राजा आह॥ नागिनि एवमस्तु अहितुण्डिकं परितोषेत्वा ग्रामवरेण वा हिरण्यसुवर्णेन वा चंपकं नाम नागराजानं मोक्षयिष्यामि॥ सा दानि नागकन्या उग्रसेनस्य काशिराज्ञो आह॥ शरणगतो ते महाराज चंपको नाम राजा सार्धं षोडशहि स्त्रीसहस्रेहि॥ एवमुक्त्वा सा नागकन्या अन्तरहिता॥ राज्ञा उग्रसेनेन समन्ता दूता प्रेषिता। चम्पको नागराजा उपवाससमंगी अहितुण्डिकेन गृहीतको तं आनेथ॥

मनसा देवानां वचसा पार्थिवानां
अचिरेणाद्यानां कर्मणा दरिद्राणां॥

राज्ञो उग्रसेनस्य वचनमात्रेण राजदूतेहि अहितुण्डको सनागराजो आनीतो॥ राज्ञा तं अहितुण्डिकं परितोषेत्वा ग्रामवरेण हिरण्यसुवर्णेन न चंपको नागराजो मोक्षितः॥ मुक्तमात्रो च चम्पको नागराजा देवराजविषयो संवृत्तो नागभवनो च यथापौराणं संवृत्तं देवभवनसन्निभं तस्य च नागराज्ञो परिवारो यथापौराणं नं भवनं दृष्ट्वा प्रीता तुष्टा संवृत्ता। मुक्तो नागराजा॥

सो दानि नागराजा उग्रसेनेन काशिराज्ञा सार्धं एकपर्यंकेन निषणो॥ सो तं काशिराजं निमन्त्रेति इच्छामि महाराज यं सपरिवारो मम भवनं पश्येसि॥ राजा आह॥ यूहं नागा तीक्ष्णविषा च क्रोधना च। न शक्यामि नागभवनं गन्तुं॥ नागराजा तमाह॥ महाराज सशरीरो सो महानरके प्रपतेया यो

p. 180

अस्माकमेदृशं तव पूर्वोपकारिमपकृत्वान जीवं नरके पतेया। सचन्द्रतारा पृथिवी पतेया नद्यो च प्रतिश्रोतं वहेन्सुः। न खल्वेवं अहं मृषावादं भाषेया तव च कृतं न जानेया॥ राजा आह॥ यथा नागराजस्य इष्टं तथा भवतु। पश्यामि ते भवनं॥ राज्ञा उग्रसेनेन अभा आणत्ता। युज्यन्तु रथा हस्ति अश्वा विविधानि च यानानि नागराज्ञो भवनं द्रक्ष्यामः॥ वचनमात्रेण राज्ञो अमात्येहि प्रतिजागृतं॥ राजा सामात्यपरिजनो सयुग्यबलवाहनो चम्पकेन नागाराज्ञा सार्धं एकयानमभिरुहित्वा महता राजानुभावेन महता राजऋद्धीये महतो जनकायस्य हक्कारहिक्कारमरुपटशंखसन्निनादेन वाराणसीये नगरातो निर्यात्वा येन चम्पकस्य नागराज्ञो भवनं तेन प्रयासि। यावत्तां यानानां भूमिं ताव यानेहि यात्वा पदचारेण चंपकस्य नागराज्ञो भवनं प्रविष्टो सपरिवारो॥ सो दानि तं चम्पकस्य नागरज्ञो भवनं पश्यति देवभवनसंनिभं पुष्पफलोपेतेहि वृक्षसहस्रेहि उपशोभितं नानाप्रकारेहि च माल्येहि उपवासितं पुष्करिणीहि च रत्नामयीहि उपशोभितं उत्पलपदुमनलिनिकुमुदपुण्डरीकसौगन्धिकसंछन्नाहि नानाविचित्रेहि च रत्नमयेहि कूतागारेहि प्रासादेहि च वैडूर्यस्तम्भेहि मुसारगल्वास्तृततलेहि॥ तत्र काशिराजा चम्पकेन नागराजेन रत्नामये पर्यङ्के उपविशापितः॥ तानि षोडश नागकन्यासहस्राणि चंपकं नागराजं उपक्रम्य पृच्छन्ति। कथन्ते अमित्रमध्ये वासो आसि कथं ते क्षुधापिपासा विनोदिता कथं वा ततः मोक्षो आसि॥ नागराजा आह॥ लब्धो मे यथोचितमन्नपानं इमेन च काशिराज्ञा मोक्षितो॥ ता दानि षोडश नागराजकन्यासहस्राणि राज्ञो उग्रसेनस्य प्रीता तुष्टा संवृत्ता मुक्तानां पंच वैडूर्यमिश्राणि वाहशतानि दिन्नानि॥ चम्पकेन नागराजेन सर्वा-

p. 181

कारं उग्रसेनस्य राज्ञो भवनं पश्यति देवभवनसन्निभं॥ राजकुलं परिरक्षितं अस्ति दाधो च उत्पन्नो चम्पकेन नागराजेन निर्वापितः॥

इति श्रीचम्पकस्य नागराजस्य परिकल्पपदं समाप्तं॥

अथ

का नु विद्युदिवाभासि सरसि विय तारकाः।
ताम्रपादपयष्टिर्वा पुष्पिता वनमन्तरे॥
असि त्वं नन्दने जाता जाता चित्ररथे वने।
देवी असि वा गन्धर्वी न त्वं असि हि मानुषी॥

नागकन्या आह॥

नाहं देवी न गन्धर्वी न महाराज मानुषी।
नागकन्याहं भद्रन्ते अवीची इह आगता॥

राजा आह॥

चित्रान्तचित्ता विलुतेन्द्रियासि
नेत्रेहि ते वारि श्रवन्ति किन्ते।
नष्टं हि किंची अभिप्रार्थयन्ती
इहागता तानि न दीर्घं ब्रूहि॥

नागकन्या आह॥

यमुग्रतेजं उरगो त्ति आहु
नागो ति नं आहु जना जनेन्द्र।
तमग्रहे पुरुषो जीवितान्वितं
तं बन्धना मुंच पतिं मे देव॥

p. 182

नगरं पि नागो भस्मीकरेया
तथा हि यावच्च बलोपपेतो।
धर्मं तु नागो अयं याचमानो
हस्तत्वमागच्छे वणिपकस्य

राजा आह॥

कथं विजानेय गृहीतनागो
स उग्रतेजो बलस्थामवन्तो।
दुरासदो दुःप्रसहो भुजंगो
हस्तत्वमागच्छे वणीपकस्य॥

नागकन्या आह॥

चतुर्दशों पंचदशीं च अष्टमीं
चतुष्पथे गच्छति नागराजो।
ओसृष्टकायो विचरन्तो नागो
हस्तत्वमागच्छे वणीपकस्य॥

एवं विजानेसि गृहीतनागो
सो उग्रतेजो बलस्थामप्राप्तो।
दुरासदो दुःप्रसहो भुजंगो
हस्तत्वमागच्छे वणीपकस्य॥

राजा आह॥

निषीद वा तिष्ठहि त्वं व नागि
गच्छाहि वा ताव स्वकं निवेशनं
यावद्मि दूता गतो नीयतां ति
अन्वेषिसुः नागनृपं यशस्विनं॥

p. 183

नागकन्या आह॥

धर्मेण मोचेहि असाहसेन
ग्रामेण निष्केन च गोशतेन।
ओसृष्टकायो निगृहीतनागो
पुण्यार्थिको मुच्यतु नागराजो॥

राजा आह॥

धर्मेण मोचेष्यमसाहसेन
ग्रामेण निष्केण गवां शतेन।
ओसृष्टकायो च भुजंगो गच्छतु
प्रीतो च संपद्यतु नागराजा॥

नागिनी आह॥

षोडश स्त्रीसहस्राणि आमुक्तमणिकुण्डला।
वारिवासगृहाश्रिता आर्य त्वां शरागता॥

राजदूतेहि अहितुण्डिको च नागराजा च आनीतो॥ राजा उग्रसेन आह॥

देमि निष्कशतं लब्धं स्थूला च मणिकुण्डला।
चतुःशतं च पर्यंकं दामकपुष्पसन्निभं।
भार्यां च सदृशीदेवीं मुच्यतु उरगाधिपः॥

अहितुण्डिको आह॥

विना तु दाना वचनान्नरेन्द्र
मुञ्चामिमं धार्मिको नागराजा।
महानुभावो परलोकदर्शी
महाबलो सो च न संविहेठ्यो॥

p. 184

मुक्तो चम्पको नागो काशिराजानं भाषति॥

नमो ते काशिनां राज नमो ते काशिवर्धन।
अंजलिन्ते प्रगृह्णामि पश्य राज मो निवेशनं॥

राजा उग्रसेन आह॥

सुदुष्करं नाग मया कृतं ते
दुःखासि त्वं बन्धनादसि मुक्तः।
जातो च लोके न कृतानि जानति
मा खुस्स मे नाग कृतं न जाने॥

नागराजा आह॥

नरकस्मिं जीवेय चिरं स कामं
मा कायिकं किंचि लभेय साधु।
यो बाधते पूर्वकरिस्य राज्ञो
अस्मादृशो तुह्य कृतं न जाने॥

राजा आह॥

तुम्हे हि मे तीक्ष्णविषा उदारा
महाबला क्षिप्रकोपा च नाना।
नागाहमेतं अभिश्रद्दधामि
नो त्वं अमनुषो मनुषस्य ऱ्उद्धो॥

नागराजा आह॥

नरकस्मिं सो शक्तितले पतेया
....... ऊर्ध्वपादो अधोशिरो।

p. 185

यो बाधते पूर्वकरिस्य राज्ञो
अस्मादृशो तुह्य कृतं न जाने॥
अप्येव वातो गिरिमावहेय
चन्द्रो च सूर्यो च क्षितिं पतेय
सर्वा च नद्यो प्रतिश्रोता वहेन्सुः
न त्वेवहं राज मृषा भणेयं॥

राजा आह॥

यथेष्टं नागराजस्य तथा भोतूरगाधिप।
यथा तुवं च याचेसि पश्यामि ते निवेशनं॥

राजा उग्रसेनो अमात्यानाह॥

युज्यन्तु ते राजरथा सुचित्रा
कम्बोजका अश्ववरा सुदान्ता।
हस्ती च युज्यन्तु सुवर्णच्छत्रा
द्रक्ष्याम्यहं नागनिवेशनानि॥

अमात्या आहन्सुः॥

युक्ता इमे अश्वरथा सुचित्रा
कम्बोजका अश्ववरा सुदान्ता।
हस्ती च युक्तास्ते सुवर्णच्छत्रा
निर्यातु (राजेन्द्रो) महाबलेन॥
ततो च राजा निर्यासि सेना च चतुरंगिनी।
मित्रामात्यपरिवृतो ज्ञातीसहपुरस्कृतो॥

p. 186

भेरी मृदंगा पटहाश्च संखा
वाद्येन्सु वेणू उग्रसेनराज्ञो।
निर्याति राजा महता बलेन
पुरस्कृतो नारिगनस्य मध्ये॥

गत्वान काशीनां राजा नागराजनिवेशनं।
अद्राक्षीण्नागराजस्य देवानां भवनं यथा॥
आम्रजम्बूहि संछन्नं कोकिलगनसेवितं।
अद्दर्शा नागराजस्य काशिरजा निवेशनं॥
समन्ततो वनगुल्मा पुष्पिता सर्वकालिका।
मनोज्ञगन्धं प्रवायन्ति नागराजनिवेशने॥
सुवर्णरूप्यसोपाना पुष्करिण्यो अभिनिर्मिता।
पदुमोत्पलसंछन्ना नानाद्विजनिषेविता॥
वैडूर्यस्तम्भप्रासादा मुसारगल्वतलास्तृता।
अद्दर्शा नागराजस्य काशिराजा निवेशने॥
प्रविश्य काशीनां राजा नागराजनिवेशनं।
पर्यंकस्मिं उपविशे जातरूपमये शुभे॥
दृष्ट्वान तं आगतं च नागराजं च चम्पकं।
काशिराजेन सार्धं च कृत्वान अंजलिं नता॥
पृच्छति नागकन्या यदासि अमित्रमध्यमे।
ततो पिपासां क्षुधां च कथं तत्र विनोदये॥

p. 187

नागराजा आह॥

यथोचितं लभ्यति अन्नपानं
क्षुधापिपासाय विनोदनार्थं।
अयं च मे......काशिराजा
क्षिप्रं नाम मोचये बन्धनातो॥

ता दानि षोडश नागकन्यासहस्राणि उग्रसेनं काशिराजमभिस्तवेन्सुः॥

एवं नन्दाहि भद्रन्ते काशिराज सबान्धवो।
यथा वयमद्य नन्दाम दृष्ट्वानमुरगाधिपं॥
एवं नदाहि त्वं राज सह सर्वेहि ज्ञातिहि।
यथा वयमद्य नन्दाम समग्रा पतिना सह॥
मुक्तान ते वाहशतानि पंच
वैडूर्यमिश्रान ददासि राज्ञे।
अन्तःपुरे भूमि समास्तरा हि
निष्कर्दमा त्विषिमति नीरराज॥
तं तादृशं अथ स राजा दृष्ट्वा
अन्तःपुरं देवविमानकल्पं।
नारीगणेन परिचर्यमाणो
अनुशासते काशिपुरं समृद्धं॥

राजा उग्रसेन आह॥

त्वं कंचुकाम्बरधरो सुवस्त्रो
तत्र यापेन्तो अनुपमवर्णो।
दिव्येहि कामेहि समङ्गिभूतः
किमर्थं नाग भुवि त्वं चरेसि॥

p. 188

नागराज आह।

नान्यत्र भवे मानुषको जनो तु
संचिन्त्यति सो दिवसंगमो वा।
योनिमहं मानुषीं प्रार्थयन्तो
तस्य कारणाय तपं चरामि॥

राजा उग्रसेनो चिन्तयति॥

दृष्टा नागा च नागी च प्रार्थयन्ता मानुषं भवं
किं करिष्यामि शुभं कर्म अपायसमतिक्रमं॥
पूर्वेनिवासं भगवां पूर्वेजातिमनुस्मरन्।
जातकमिदमाख्यासि शास्ता भिक्षूण सन्तिके॥
ते स्कन्धा तानि धातूनि तानि आयतनानि च।
आत्मानं च अधिकृत्य भगवान्तमर्थं व्याकरे॥
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा।
चम्पको हं तदा आसि नागराजा महर्द्धिको।
यशोधरा नागकन्यासि एवं धारेथ जातकं॥
एवमिदमपरिमितं बहुदुःखं
उच्चनीचं चरितं पुराणं।
विगतज्वरो विगतभयो अशोको
स्वजातकं भाषति भिक्षुसंघमध्ये॥

भगवानाह॥ तदाप्यहं भिक्षवः नागभूतो अहितुण्डिकेन बद्धो मान्सार्थं यशोधराये मोक्षितो। अश्ववाणिजको पि सन्तो वाराणसीये संजातो मोचितो॥

इति श्रीचम्पकनागराजस्य जातकं समाप्तं॥

p. 189

छन्दको बोधिसत्वेन अभिनिष्क्रमन्तेन अनोमियातो अधिस्थानातो निवर्तितो। छन्दकश्च कण्ठको च कपिलवस्तु आगता॥ राजा शुद्धोदनो श्रुत्वा छन्दको आगतो कण्ठकमादाय छत्रं च आभरणानि च राजकुलातो बाहिरद्वारशालां निर्धावितो सान्तःपुरो यशोधरापि कण्ठकं ग्रीवायामुपगृह्य प्ररोदन्ती आह॥ कहिन्ते कण्ठक कुमारो नीतो किं मया तव अपराद्धं छन्दकस्य च यं यूयं मम सुखप्रसुप्ताये कुमारमादाय गता अहं च षष्तिसहस्रं च अन्तःपुरं भवति विधवाकृतं॥ छन्दको आह॥ किमस्माकं अपराधं कृतं अहं पि उच्चेन स्वरेण आरवामि। कुमारेण अभिनिष्क्रमन्तेन कण्ठकेन उच्चेन स्वरेण हीषणशब्दं कृतं न च युष्माकं को पि विबुध्यति॥ देवसहस्रकोटीयो अन्तरीक्षे समागता॥ इमां मल्लभूमिं अनोमियं नाम अधिष्ठानं नीतो वशिष्टस्य ऋषिस्य आश्रमपदस्य नातिदूरे॥ कुमारेण लुब्धकस्य काशिकानि दत्त्वा काषायाणि गृहीतानि स्वयं चूडा असिपत्रेण च्छिन्ना सा च चूडा शक्रेण देवराजेन प्रतिच्छिता॥ ततः मो कुमारेण आभरणानि दत्त्वा निवर्तिता। एवं च अहं सन्दिष्टो। पितरं मे कौशल्यं पृच्छेसि मातुस्वसाये पि सर्वस्य ज्ञातिवर्गस्य। कृतकार्यो पि परिपूर्णसंकल्पो आगमिष्यमि॥ यशोधरा च षष्टिसहस्रं च अन्तःपुरं सर्वं च शाक्यराष्ट्रं रोदित्वा परिदेवित्वा स्वकस्वकानि निवेशनानि गता॥

छन्दकस्य राजकुलं प्रवेशित्वा राजार्हं प्रणीतं अन्नपानखाद्यभोज्यं उपनामितं। कण्ठकस्यापि मधुम्रक्षितानि मोदकानि उपनामितानि तथा अन्यमपि राजार्हं खाद्यभोज्यंमोदकप्रकाराणि च कण्ठकस्य पुरतो राशीकृता न च कण्ठको परिभुंजति।

p. 190

बोधिसत्वं समनुस्मरन्तो सर्वकालमश्रूणि प्रवर्तेति। अन्तःपुरिका च अंशुकेहि दुकूलेहि पट्टोर्णेहि च महारहेहि राजार्हेहि वस्त्रेहि कण्ठस्य अन्ये अश्रूणि प्रमार्जेन्ति अन्ये शीर्षं प्रमार्जेन्ति अन्ये ग्रीवं प्रमार्जेन्ति अन्ये पृष्ठं प्र्मार्जेन्ति अन्ये स्कन्धं प्रमार्जेन्ति अन्ये बाहुं प्रमार्जेन्ति अन्ये सन्धिं प्रमार्जेन्ति अन्ये बालधिं प्रमार्जेन्ति अन्ये पादानि परिमर्दयन्ति अन्ये मधुम्रक्षितानि आलोपानि मुखे अल्लीयन्ति अन्ये नानाप्रकाराणि खज्जकानि अल्लीयन्ति अन्ये उक्कारिकानि अल्लीयन्ति अन्ये मोदकानि अल्लीयन्ति सुवर्णरूप्यमयेहि भाजनेहि रत्नविचित्रेहि राजारहाणि पानानि अल्लीयन्ति न च कण्ठक आहारं करोति। बोधिसत्वस्य शोकेन अनाहारो च कण्ठको कालगतो बोधिसत्वमपश्यन्तो॥ तस्य कालगतस्य राज्ञा शुद्धोदनेन महता रजानुभावेन शरीरपूजा कृता॥ समन्तरकालगतो च त्रायस्त्रिंशेहि उपपन्नो शिखण्डिस्य देवपुत्रस्य पुत्रत्वमभ्युद्गतो कण्ठको नाम देवपुत्रो महर्द्धिको महानुभावो अन्येषां पूर्वोपपन्नानां देवसहस्राणां देवपुत्राणां दिव्येहि दशहि स्थानेहि अभिभवति। तद्यथा दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येन ऐश्वर्येण दिव्येन परिवारेण दिव्येहि च रूपेहि शब्देहि गन्धेहि रसेहि दिव्येहि च स्पर्शेहि॥

यदा भगवां प्रवृत्तप्रवरधर्मचक्रो वैस्तारिकशासनसंजातो तदायुष्मता महामौद्गल्यायनेन देवेषु चारिकां चरमाणेन कण्ठको देवपुत्रो दृष्टो दृष्ट्वा न पुनः गाथया अध्यभाषे॥

p. 191

चन्द्रो यथा पंचदशीं नक्षत्रपरिवारितो।
ओभासेति दिशां सर्वां तारका विगता नभा॥
तथोपममिदं वेश्म दिव्यं देवपुरे तव।
प्रज्वाल्यमानो वर्णेन आदित्यो व विरोचसि॥
मुसारगल्वमुक्ताहि मणिलोहितकाहि च।
चित्रा सुसंस्कृता भूमि न चात्रोद्वायते रजः॥
वैडूर्यस्य सुवर्णस्य स्फाटिकरूपियस्य च।
कूटागारशुभास्थाना प्रासादा ते मनोरमा॥
प्रासादानां च अविदूरे पुष्करिण्यो सुनिर्मिता।
वैडूर्यफलकसोपाना सुवर्णवालिकसंस्तृता॥
तासां च तीरेषु द्रुमा सुजाता
मह महान्तं विटपं समुद्गता।
अभ्युद्गता ब्रह्मपुरं च अम्बराद्
वातेरिता सर्वदिशा प्रवान्ति॥
तेषां च तीरेषु द्रुमा सुजाता
मह महन्तं विटपं समुद्गता।
संपुष्पिता भान्ति दिशा चतस्रो
द्विजेहि घुष्टा रुचिरस्वरेहि॥
संछन्ना पुण्डरीकेहि पदुमेहि उत्पलेहि च।
नानावर्णेहि पुष्पेहि वान्ति सर्वदिशो दिशो॥
एकमेकस्मिं तूर्यस्मिं षष्टि नृत्यन्ति अप्सरा।

p. 192

तासां च नृत्यमानानां दिव्यकन्यान कानने।
दिव्यो निश्चरते शब्दो द्विजकन्यागणें यथा॥
सुवर्णपादे पर्यंके निर्मिते रतनामये।
संस्कृते सुविसृष्टे च स्वर्गकायस्मि मोदसि॥
सुवर्णपादे पर्यंके निर्मिते रतनामये।
प्रेक्षमाणो दिशा सर्वां ब्रह्मा व उपशोभसि॥
तस्मिं निषणं. . . . पर्यंके तूलिकास्तृते।
अलंकृता देवकन्या वीजन्ति चामरेहि ते॥
तवमेते अप्सरसंघा हेमजाला अलंकृता।
बाहां विकीर्य नृत्यन्ति गायन्ति च सुवादितं॥
काचित्तत्र उपगायन्ति उपवादेन्ति अप्सरा।
काचिच्च उपनृत्यन्ति संगीतस्मिं सुवादिते॥
काचित्ते रुचिरं शब्दं मुंचन्त्यङ्गेहि सर्वशो।
कासांचित्सर्वरोमेहि वान्ति गन्धा अमानुषा॥
तं देवकन्याहि उपेतरूपं
निवेशनं ते पदुमुत्तराहि।
सुवर्णकंचुककृतभूतिमेतं
भवनमहो लंकृतमप्सरोहि॥
किं त्वं कर्म करित्वान पूर्व अन्यासु जातिषु।
केन त्वं कर्म करित्वान पूर्व अन्यासु जातिषु।
केन कुशलमूलेन त्रायस्त्रिंशोपपद्यथ॥
किं त्वंकर्म करित्वान पूर्वे मानुष्यके भवे।

p. 193

केन कुशलमूलेन विपाकमनुभोसिमं॥
केन त्वया अयं लब्धो आयुर्वशो यशो बलं।
ऋद्धिं च परिवारं च अनुभोसि अमानुषं॥
किं त्वया कल्याणं कर्म करित्वा अन्यासु जातिषु।
केन कुशलकर्मेण विपाकमनुभोसिमं॥
केन ते ब्रह्मचर्येण संयमेन दमेन च।
केन कुशलकर्मेण स्वर्गकायस्मि मोदसि॥
केनापि एवं ज्वलितो अनुभावो वर्णो च ते।
केन कुशलकर्मेण सर्वां दिशां प्रभाससि।
पृच्छितो देवपुत्र ब्रूहि कस्य कर्मस्यिदं फलं॥
सो देवपुत्रो आत्मना मौद्गल्यायनेन पृच्छितो।
प्रश्नं पृष्टो वियाकर्षि स्थविरस्येति मे श्रुतं॥
अहं कपिलवस्तुस्मिं शाक्यानां नगरोत्तमे।
अट्टालकोट्टरचिते दृढप्राकारतोरणे॥
गोधामुखनिर्यूहदृढार्गलकपाटतोरणे।
हयगजरथाचीर्णे आवासे शाक्यश्रेष्ठिनो॥
आकीर्णजनमनुष्ये नगरे साधुनिर्मिते।
शुद्धोदनस्य पुत्रस्य सहजो आसि कण्ठको॥
यदा चाभिनिष्क्रमेसि प्रव्रज्याये नरोत्तमो।
तदा स वचनमाह बहुसम्यग्गिरां ब्रवीत्॥

p. 194

तां सह गिरां श्रुणित्वा हर्षजातेन चेतसा
वेगजातो नमस्यन्तो वहेदहं पुरुषोत्तमं॥
परेषां विषयं गत्वा उद्गतस्मिं दिवाकरे।
मम छन्दकं च विहाय अनवेक्षो स प्रक्रमे॥
तस्य ताम्रनखा चरणां जिह्वाया परिलेहिय।
रोदमानो उद्वीक्षेयं गच्छन्तं पुरुषोत्तमं॥
तस्यैव अदर्शनेन शाक्यपुत्रस्य श्रीमतो।
खुर आबाध उत्पद्येत् ततो कालं करोम्यहं॥
तस्यैवमनुभावेन विमानमावसाम्यहं।
नारीवरगणाकीर्णं कूटागारं वरुत्तमं॥
सचेद् भदन्ते गच्छासि शाक्यसिंहस्य सन्तिके।
कण्ठको वचनं आह वदेसि पुरुषोत्तमं॥
एषो चाहमपि आमंस्ये वन्दितुं पुरुषोत्तमं।
साधु खु दर्शनं भोति तादृशानां महर्षिणां॥
तेन मया इदं लब्धं आयुवर्नयशोबलं।
ऋद्धिं च परिवारं च अनुभोमि अमानुषं॥
तेन मे ब्रह्मचर्येण संयमेन दमेन च।
अयं मे तादृशी ऋद्धी अप्रतिक्रान्ता अमानुषी॥
तं कर्मं कुशलं कृत्वा यत्तं उपचितं पुरा।
तेन कुशलकर्मेण विपाकमनुभवाम्यहं॥
भोगा च मे उत्पद्येन्सु ये केचित् मनसि प्रिया।
देवा च मे नमस्यन्ति तेसां च उपचितो अहं॥

p. 195

तस्मिं चित्तं प्रसादेथ दक्षिणीयेषु तादृशं।
पश्यति रक्षभूतेन कर्मं उपचितं शुभं॥

इति श्रीमहावस्तु अवदानकथायां कण्ठकस्य व्याकरणं समाप्तं॥

शुद्धावासेहि देवेहि तहिं अरण्यायतने काषायप्रावृतो लुब्धको निर्मितो। सो दानि बोधिसत्वेन दृष्टो॥

तत्राद्राक्षीदरण्यस्मिं लुब्धकं काषायप्रावृतं।
सो तत्र उपसंक्रम्य इदं वचनमब्रवीत्॥
इमौ काशिकौ गृह्णित्वा देहि काषायं त्वं मम।
सो तौ काशिकौ गृहीत्वा देति काषायं लुब्धको॥
ततः काषायौ गृह्णित्वा तुष्टो आत्तमनो अभूत्।
सो पथो मे वरो धीरो उत्तमार्थस्य प्राप्तये ति॥

बोधिसत्वो धर्मारण्यं वशिष्ठस्य ऋषिस्य आश्रमपदं प्रविष्टः॥ वशिष्ठो पि ऋषि बोधिसत्वं दृष्ट्वा विस्मितो को यं भविष्यति मानुषो वा देवो वा शक्रो वा ब्रह्मा वा यस्य कायस्य प्रभाये सर्वमिमं तपोवनमोभासितं॥ सर्वे ते वटुका बोधिसत्वं दृष्ट्वा त्वरितत्वरिता स्वकस्वकानि पर्णकूटीनि प्रधाविता नानाप्रकाराणि फलानि गृह्य पानीयं च बोधिसत्वमुपसंक्रान्ता॥

तत्र वृद्धं महाप्राज्ञं तापसन्तपतां वरं।
वशिष्ठं नाम गोत्रेण ददर्श च जहाम च॥
ताम्रधूमारुणजटं ज्वालमिव अदर्शि तं।

p. 196

आसीनं मुनिमव्यग्रं निर्वातमिव सागरं॥
अभिगम्य च धर्मात्मा नं मुनिं शाक्यपुंगवो।
अनुज्ञातो प्रविस्टाय भूमियां उपविश्य स॥
समुद्र इव गम्भीरो वीर्यवा हिमवानिव।
शाक्यराजसुतं दृष्ट्वा महर्षि विस्मितो अभूत्॥
को न्वयं वपुषा श्रीमान् ज्वलत्यनुपमद्युति।
सुवर्णो धूमापगतः जोतमानो यथानलः॥
व्यूढोरस्क्यो महाबाहुः सुप्रशस्तकरांगुलि॥
समन्तकुक्षिश्च श्लक्ष्णो एणवृत्ति कटीमहान्॥
कांचनस्तम्भसदृशो गोवृषाक्षो महाद्युतिः।
शार्दूलवृषभस्कन्धः पद्मपादकरो नघः (?)॥
शरीरलक्षणैरस्य जातिशतगुणाचितैः।
शोभते शरीरं तस्य नक्षत्रैरिव चन्द्रमाः॥
विभूषणा नैव गात्रेषु रचिता अनुरूपिका।
शरीरं भूषयन्त्यस्य लक्षणानि महात्मनः॥
मेरुमण्डलसारेण गच्छता गमगामिना।
आक्रान्ता सहसा पद्र्यां रणतीव वसुन्धरा॥
स्निग्धगम्भीरशब्देन स्वरेण अनुनादिना।
त्रिलोकमर्हते कृत्स्नमाज्ञापयितुमोजसा॥
व्यंजनानि हि या यस्य लक्षणानि च लक्षये।

p. 197

युक्तो यं सर्वभूतानां त्रिलोकपतिरीश्वरः॥
प्रभया पूरयत्येष स्वशरीरसमुच्छ्रया।
तपोवनमिदं सर्वं उदयन्निव भास्करो॥
अशीतिव्यंजनोपेतो द्वात्रिंशद्वरलक्षणः।
सनत्कुमारप्रतिमो कुमारो द्युतिमानयं॥
सर्वलक्षणसंपन्नं सर्वभूतमनोहरं।
कुमारं परिपृच्छेयं महर्षि उपगम्य तं॥
गन्धर्वशशिसंकाश देवगर्भोपम युवा।
कस्य त्वं किन्निमित्तं वा तपोवनमुपागतो॥
सत्यानुपरिवर्तिन्या सर्वभूतात्मया गिरा।
श्लक्ष्णया प्रिवादिन्या बभाषे स नृपात्मजः॥
इक्ष्वाकुवंशप्रभवः शुद्धोदननृपात्मजः।
विहाय पृथिवीं राज्यं उज्झित्वा मोक्षमास्थितः॥
लोकन्तु बहुभिर्दुःखैर्दृष्ट्ववं समभिद्रुतं।
मोक्षार्थमभिनिष्क्रान्तो जातिव्याधिजरादिभिः॥
यत्र सर्वं न भवते यत्र सर्वं निरुध्यते।
यत्रोपशाम्यते सर्वं तत्पदं प्रार्थयाम्यहं॥
एवमुक्ते महाप्राज्ञो महात्मा सत्यवागृषिः।
उवाच वदतां श्रेष्ठं शाक्यराजकुलोदितं॥
ईदृशेन हि वृत्तेन वृत्त्या लक्षणसंपदा।
प्रज्ञया च महाभाग न किञ्चिद्यं न प्रापये॥

p. 198

बोधिसत्वो दानि वैशालिं गतो आराडं कालामं अल्लीनो। निर्वेदित्वा नायं मार्गो नैर्याणिको ततो राजगृहं गतो॥

गत्वा च सो राजगृहं मागधानां गिरिगहूरे।
पीण्डाये अभिसरेसि आकीर्णवरलक्षणः॥
तमदृशासि प्रासादात् श्रेणियो मगधाधिपः।
प्रसन्नचित्तो दृष्ट्वा च अमात्यां इदमब्रवीत्॥
इमं भवन्तो पश्यन्तु आकीर्णवरलक्षणं।
आरोहेण च सम्पन्नं युगमात्रं च प्रेक्षति॥
उत्क्षिप्तचक्षुर्मेधावी नायमूनकुलोदितो।
राजदूतानुबन्धन्तु कहिं वासमुपेष्यति॥
ततो तं संदिशिता दूता पृष्ठतो अनुबन्धिषु।
गमिष्यति कहिं भिक्षुः कहिं वासमुपेष्यति॥
पिण्डाये चारं चरित्वान निष्क्रम्ये नगरान्मुनिः।
पाण्डवं अभिसरेसि अत्र वासो भविष्यति॥
ज्ञात्वा च वासोपगतं एको दूतो उपाविशत्।
अपरो क्षिप्रमागम्य राज्ञो आरोचये तदा॥
एष भिक्षुः महाराज पाण्डवस्मिं पुरस्ततः।
निषणो वृक्षमूलस्मिं एकाग्रो सुसमाहितः॥
द्वीपीव सुतनुं चित्तं व्याघ्रं वा गिरिसानुगं।
सिंहं वा गिरिदुर्गस्मिं महासिंहो मृगाधिपः॥
ततो च राजा त्वरमानो अमात्यां अध्यभाषति।

p. 199

क्षिप्रं पन्थं विशोधेय द्रक्ष्याम पुरुषोत्तमं॥
ततो च ते राजदूता महामात्रा यशस्विनो।
क्षिप्रं पन्थं विशोधेन्सुः स्वयं राजा इहेष्यति॥
ततो च ते राजदूता महामात्रा यशस्विनो।
गत्वा राज्ञो निवेदेन्सुः शुद्धो ते देव पाण्डवो॥
ततो च निर्याति राजा सेना च चतुरंगिनी।
मित्रामात्यपरिवृतो ज्ञातिसंघपुरस्कृतो॥
यानातो ओतरित्वान पदसा उपसंक्रमे।
सारायणीं कथां कृत्वा एकमन्ते उपाविशि॥
निषद्य प्रमुखो राजा बोधिसत्वमध्यभाषति।
उदग्रो त्वमसि राज्ञः अश्वारोहो व सेलको॥
ददामि भोगां भूंजाहि जातीं चाख्याहि पृच्छितो॥

बोधिसत्व आह॥

निजजनपदो राज हिमवन्तस्य पार्श्वतः।
धनवीर्येण सम्पन्नो कोशलेषु निवासितो।
आदित्यो नाम गोत्रेण शाकियो नाम जातिये॥
ततो कुला प्रव्रजितो हं न कामां अभिप्रार्थये।
प्रहाणाय गमिष्यामि वेश्मं मुक्त्वा रतनामयं॥
तं खो तथा भोतु स्पृशाहि निर्वृतिं
बोधिं च प्राप्तो पुनरागमेसि।

p. 200

मह्यं पि धर्मं कथयेसि गौतम
यमहं श्रुत्वान व्रजेय स्वर्गतिं॥

बोधिसत्व आह॥

तं खो महाराज तथा भविष्यति
बोधिं स्पृशिष्यामि न मे त्र संशयो।
प्राप्तो च बोधिं पुनरागमिष्यं
धर्मं च ते देशयिष्यं प्रतिशृणोमीति॥

बोधिसत्व उद्रकं रामपुत्रं अल्लीनो नायं मार्गो निर्याणिको ति। ततो पसंक्रम्य गयां गतो॥ गयाशीर्षे पर्वते तिस्रो उपमा प्रतिभायेन्सुः॥ ततो उरुविल्वां गतो पिण्डाय प्रविष्टो॥ काश्यपो पूरणो उरुविल्वां पिण्डाये प्रविष्टो॥

नीवरणं विजहित्वा शृणोथ एकाग्रमानसा सर्वे।
यथा पुरिमजिनसंगमो यशस्विनो बोधिसत्वस्य॥
प्रव्रज्यायभ्युपेत्वा अराड उद्रकं वने अपरितुष्टो।
प्रक्रमि दिशं प्रदक्षिणां पुरिमजिननिसेवितं देशं॥
पिण्डाये प्रतिचरन्तो उरुविल्वां प्राप्तो कनकनिष्कनिभो।
ग्रामिकघरं आगमि नरनारिसमाकुलं काले॥
अथ ग्रामिकस्य धीता नामेन सुजाता पण्डिता कुलीना।
तं दृष्ट्वा राजपुत्रं प्रकम्पिता प्रीतिवेगेन॥
अश्रूणि प्रवर्तयन्ति पुरतो स्थिता हि सपतिस्सगौरवा।


p. 201


आलपति राजपुत्रं मा त्वं निवर्तयद्य नरवर॥

चन्द्रप्रतिपूर्णवदन मा गा नित्यौ सर्वतो निगमा।

अतृप्ता हि मम नयना तव वीर निरीक्षमाणाये॥

किं तु खु सुचारुविक्रम सुरूपलक्षण वराभरणधारि।

प्रक्रमसि अतृप्ताया सर्वान्धकृतो यं मे हृदयं॥

सा श्रुणति देवतानां गिरां नभगतानां च भाषन्तां।

एष खलु कपिलवस्तुतो शुद्धोदनराजवरपुत्रो॥

सा तस्य दर्शनतृषा निर्धाविता गुणशता कीर्तयति।

वरपुरुष विप्रहीनो स्वबन्धुजनस्य कथं आसी॥

प्रमदागणसंपरिवृता रुदन्ति अनुगच्छन्ति कनकवर्णं।

परिदेवते च करुणं अटविवनमुखे प्रपद्यन्तं॥

सुखिता वनेषु सकुला मृगा च वनदेवा वनराजा च।

ये राजहंसगतिकं वीक्षन्ति वनेचरं वीरं॥

सुकुमारफुल्लगात्रं कमलदलनिभेहि पादरतनेहि।

कथमाक्रमसि वसुधां तृणकुशशरसंस्तृतविदुर्गां॥

मृष्टान्नरससमुदितो नानारसप्रवरवृंहितशरीरो।

मूलफलपत्रभक्षो भेष्यसि कथं निर्झरवनान्ते॥

कनकगजदन्तपादे वरास्तरे कुसुमसंकुले शयने।

सुपियान कथं शयिष्यसि तृणकुशशरसंस्तृततलेषु॥

श्रुणियान वरेन्द्र भवने पटहत्रिपुष्करनिनादसंगीतिं।


p. 202


श्रोष्यसि खरां भयकरां संरुषितगजगर्जितनिनादां॥

मूलफलपत्रसफला ते भवतु दिशा अनुग्रमृगसंघा।

मा तृषितभुक्षितस्य ते शिला तपे वनेचर शरिरं॥

ग्रीष्मपरितापितस्य ते भवतु सलिलगर्भमण्डपोपवनं।

शिशिरे च विगतजलदे दिवाकरो भातु गिरिदरीषु॥

राक्षसयक्षभुजंगपरिवारं तव देवगर्भसुकुमारं।

नक्षत्रचन्द्रप्रवरं हृदयनयननन्दनशरीरं॥

सो विन्ध्यपादपार्श्वे गजवर इव पद्मिनीमभिलषन्तो।

प्रविशति तपोवनन्तं शृणोथ विविधं वनवरस्य॥

क्वचि रक्तपल्लवलता तरुणतरुकुसुममंजलिके रण्ये।

क्वचि वनदेवोपतप्ता क्वचित्क्रमत्कुञ्जुरविभग्ना॥

क्वचिद्विपुलघनपलाशप्रलम्बफलैः तरु अलंकृत अगम्यैः।

क्वचि जीर्णो कोटारतरु वनपादपगुल्मवृतमूलो॥

क्वचि पद्मसरो सुरूपो क्वचि गिरिसरितालाभो वनः वीराः।

तापसकुलाश्रमा क्वचि कोकिलशुकमोरपरिगीता॥

क्वचिद्विवरतृणजांगला क्वचित्. . . . . . .शरपल्लवरक्ता।

क्वचित् रुरुचमरमहिषा क्वचित्क्वचिद् व्याघ्रसिंहगणाः॥

क्वचि रक्तपल्लवलता तरुणतरुप्रलम्बिता नाना।


p. 203


उद्यानगमनश्रान्ता प्रमदायो विय निद्रायन्तो॥

क्वचि कुरवकतरुशिखरो प्रकुसुमितो व्यक्तपुस्पसुविबुद्धो।

निद्रागलितनयनानां नारीणामिव विबुद्धानां॥

मधुरपवनेरिता क्वचि नानाद्रुमकुसुमचित्रवनशाखा।

आलम्बन्ति परस्परं प्रमदा सलीला वियान्योन्यं॥

क्वचि कुप्यकवनशाखा प्रकुसुमिता भारमप्रहसमाना।

अनुवेल्लिता. . . .सहोदरमिव वत्सला प्रमदा॥

क्वचि किंशुका कुसुमिता वनराजिवनान्तरे गुरुकुले वा।

रक्ताम्बरोत्तरीया प्रमदा विपुलाक्षियो वनिता॥

क्वचित् वसुमतिप्रदेशो नवसंपुष्पितपुष्पैः संछन्नो।

आभरणभरितवसना सललितशयना नववभू व॥

क्वचि कठिनकण्टकलता मृगमहिषवराहाण पदनिकेता।

शबरशर आहतानां मृगान रुधिरेण सिक्तानि॥

क्वचि गजकरंकनिकरो क्षितिं गले पटपाण्डरास्तरणकल्पो।

क्वचि व्याघ्रकेशरिहता विषादि नरवारणवराहा॥

क्वचि राक्षसप्रलापा पिशाचकुम्भाण्डभेरवरुतानि।

क्वचि गुह्यकभणितानि निशासु पवनेषु प्रचरन्ति॥

क्वचित् निशासु जलधरा गर्जन्ति प्रतिनन्दति व्यालगणा।


p. 204


. . . . भैरवकरा करोन्ति रूपाणि च बहूनि॥

पादपवनस्मिं तस्मिं विहरति सो सर्वलोकहितकामो।

चण्डमृगराक्षानां हृतबहुमानेन यो रम्यो॥

अथ आत्मनो मृगपतिः सर्वजगहितं ततो विशेषेण।

प्रार्थयति सत्वसारो सत्वान तदपिदमाश्चर्यं॥

एकेकसत्वमोक्षणे य्दि कल्पमसंख्यं सर्वसत्वानां।

दुःखमनुभोमि तारेष्यं सर्वसत्वानां व्यवसितमिदं॥

सत्वसारस्य षड्वर्षा दुष्करं वने चरित्वा कर्मक्षये।

स्मृति लब्धा यत्र पथास्मि ग्तो नायं मार्गो मोक्षाये॥

अस्ति तस्मिं मति पूर्वे जंबुद्रुमे शाक्यराजमुद्याने।

प्रथमं ध्यानं समादयि स भविष्यति बोधिये मार्गो॥

न च शाक्यं दुर्बलेन कृशेन परिशुष्करुधिरमान्सेन।

बोधिमभिगन्तुं यदहं पुनराहारमभ्यवहरेयं॥

देवता अवोच मा त्वं आहरयहि मा ते यशो परिहाये।

वयमोजं गात्रेषु तुह्यं उपसंहरिष्यामथ॥

तस्यासि अहं सर्वशो सततमनाहार इत्यभिज्ञातो।

ओजश्चे मह्य तेहि उपसंहारितं मृषा अस्या॥

सो अनृतवचनभीतो अलमिति तं देवतां प्रतिक्षिपिय।

मुद्गकुलच्छहरेण्डा फाणिकृतं यूषमुपभुंजे॥


p. 205


अनूपूर्वं च शरीरे स्थामं च बलं च संजनेत्वान।

आहारं समगवेषि उरुविल्वमुपागमि स साधु॥

अथ सा पूर्वजनेत्री सुजाता नामेन पण्डितकुलीना।

न्यग्रोधपादमूले तिष्ठति मधुपायसं गृह्य।

किं ब्रह्मचारि अवचा कर्शितमायासितं तव शरीरं।

सा पायसं ददत्वा परिकीर्तय राजपुत्रस्य॥

राजऋषिस्य च तस्य आसि मधुपायसं तत्र सुजातं।

तां अवचि पार्थिवसुतो किमर्थमेतं ददसि दानं॥

जातिशतानि जनेत्री अभूषि या तस्य शुद्धसत्वस्य।

सा प्रतिभणेसि मधुरं प्रार्थेमि समृध्यतु मह्यं॥

हिमवन्तपादपार्श्वे नगरं कपिलाहूयन्ति विख्यातं।

दिशविधिशविश्रुतयशं प्रमुदितनरनारिसंकीर्णं॥

तस्मिं नगरे कुमारो पुत्रो शुद्धोदनस्य शाक्यस्य।

अवहाय बान्धवजनं वनं गतो राज्यमुत्सृज्य॥

षड्वर्ष तस्य व्रजतो तपोवने उग्रे भरवे वने।

दानेन मे तस्य भवति प्रणिधी परिपूरिया॥

तेन तपेन वरो यं मार्गेति मे समृध्यतु अर्थो।

अहमपि तेन पथेन गच्छेय महानरवरेण॥

ततो प्रादुरासि वाचा अन्तरीक्षादमानुषी।

सुजाते एषो सो धीरो शाक्यराजकुलोदितो॥


p. 206 


एतेन तपा आचीर्णा दुष्करा रोमहर्षणा।

शुष्कशोणितमान्सेन नानारूपा तपोवने॥

ते निरर्थानि उत्सृज्य प्रक्रमे वरपादपं।

अत्र अतीता संबुद्धा प्राप्ता संबोधिमुत्तमं॥

ततो अश्रूणि वर्तेन्ति सौमनस्यसमर्पिता।

कंपमाना नरव्याघ्रं कृतांजलि उवाच सा॥

दृष्टो सि भैरववने उग्रतपाभ्युत्थितो कमलनेत्र।

दृष्ट्वा मे शोकमथितं हृदयं प्रीतिं समनुभोति॥

षड्वर्षाण ममाग्रे न सुप्तपूर्वा सुखाय शय्यानि।

शोकशरातापेन तव तपमनुचिन्तयन्तीये॥

तं खो राज्यं जनो च पिता च अभिवत्सला च मातुस्वसा।

तव श्रुत्वा तपसो न्तं प्रीतिसुमनसो भविष्यन्ति॥

होहिन्ति कपिलनगरे तूर्यशतनिनादितानि भवनानि।

आनन्दप्रमुदितानि प्रहसितनरनारिसंघानि॥

मधुपायसमुपभुक्त्वा पुरिमभवनेत्रिये भव निर्घाती।

द्रुमराजपृथिवीषण्डे अमृतमधिगतो पदमशोकं॥

व्याकरि नरप्रदीपो जातिशता पंच जननी मह्यासि।

भेष्यसि अनागते ध्वनि प्रत्येकजिनो जिनव्रतो ति॥

इति श्रीमहावस्तुने सुजाताव्याकरणं समाप्तं॥ 


p. 207


अथ बोधिसत्वो उरुविल्वाये सेनापतिग्रामकातो पिण्डाय चरित्वा नानाप्रकाराणां पूपानां भरितेन पात्रेण निर्धावति काश्यपो च पूरणो तिरिक्तकेन पात्रेण निर्धावति॥ सो बोधिसत्वेन पृच्छयति॥ आयुष्मं काश्यप लभ्यति भिक्षा ति॥ सो दानि काश्यपो बोधिसत्वं गाथायमध्यभाषति॥


प्रस्कन्दको बलाकल्पो उज्जंगलो च जंगलो।

एतेहि पापग्रामेहि एकापि भिक्षा न लभ्यति॥


अथ बोधिसत्वो काश्यपं पूरणं गाथाय प्रत्यभाषति॥


प्रस्कन्दको बलाकल्पो उज्जंगलो च जंगलो।

एतेहि भद्रग्रामेहि पश्य पात्रं भरितं अभू॥


यं बोधिसत्व अकामकानां मातापितॄणां अश्रुकण्ठानां रुदन्मुखानां अभिनिष्क्रान्तो राज्ञा शुद्धोदनेन पुरुषा विसर्जिता। कुमारस्य दिवसवार्तां नित्यमानेथ॥ ततो यं कुमारो अनोमियं गतो वशिष्ठस्य ऋषिस्य आश्रमपदं ततो प्रवृत्ति आगता॥ यं विशिष्ठस्य ऋषिस्य आश्रमपदातो वैशालिं गतो ततो च राज्ञो शुद्धोदनस्य प्रवृत्ति आगता॥ यं वैशालियं अराडं कालाममुपसंक्रान्तो ततो पि प्रवृत्ति आगता॥ यं वैशालितो राजगृहं गतो ततो पि प्रवृत्ति आगता॥ यं राजगृहे उदकं रामपुत्रमुपसंक्रान्तो ततो पि प्रवृत्ति आगता॥ यं राज्ञा श्रेणियेन बिम्बिसारेण विस्तीर्णेहि भोगेहि प्रवारितो ततो पि प्रवृत्ति आगता॥ यं राजगृहातो गयाशीर्षं पर्वतं गतो ततो पि प्रवृत्ति आगता॥ यं गयाशीर्षातो पर्वतातो उरुविल्वां गतो नदीय नैरंजनाय तीरे उरुविल्वके वणषण्डे ततो राज्ञो शुद्धोदनस्य प्रवृत्ति आगता॥ 


p. 208


यं उरुविल्वके वनखण्डे उग्रं च तपं तप्यति प्रहाणं च प्रतिदधाति ततः प्रवृत्तिर्गच्छति॥ यं बोधिसत्वो आस्फानकं ध्यानं ध्यायति लूखताय च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि बोधिसत्वेन आश्वासप्रशावासा उपरुद्धा तेषां पुरुषाणां भवति कालगतो कुमारो ति नो पि उश्वसति न प्रश्वसति तेहि गत्वा कपिलवस्तुं राज्ञो शुद्धोदनस्य निवेदितं। महाराज कालगतो कुमारो ति॥ राजा न पत्तीयति। तेषां पुरुषाणां पृच्छति। कथं यूयं जानथ कुमारो कालगतो ति॥ ते आहन्सुः॥ महाराज उग्रेण तपेन लूहाहारताये च कालगतो नापि उश्वसति न प्रश्वसति काष्ठभूतो आसति। ततः अस्माकं भवति यथा कुमारो न उश्वसति न प्रश्वसति कृशो च दुर्बलशरीरो कालगतः कुमारो ति॥ राज्ञो दानि शुद्धोदनस्य एतदभूषि॥ यादृशा कुमारस्य गर्भावक्रान्ति आसि यादृशा च देवसहस्रेहि पूजा कृता गर्भचंक्रमस्य यादृशाये च विधीये लुम्बिनीवने उद्याने कुमारो जातो जातमात्रो च पृथीयं सप्त पदानि प्रकान्तो दिशा च अभिलोकितो महाहसितं च ऊहसितो वचनं प्रव्याहृतो अहं लोके अग्रो ज्येष्ठो श्रेष्ठो पूज्यो देवानां च मनुष्याणां च यादृशानि च कुमारे जातमात्रे आश्चर्याद्भुतानि अचेतना पृथिवी कंपिता देवसहस्रेहि च पूजा कृता यादृशा च अभिनिष्क्रमणसम्पदा आसि तत्र न एदृशा महापुरुषा अल्पायुष्का भवन्ति॥ भवितव्यं कुमारो यथा पूर्वे प्रव्रज्यामप्रव्रजितो सीतलाये जम्बुच्छायाये पर्यंकेन निषणः शान्तं समाधिं समापन्नो भविष्यति। तदेते जानन्ति कालगतो कुमारो ति॥ सो दानि तेषां पुरुषाणां आह॥ गच्छथ कुमारस्य सकाशं न कुमारो कालगतो शान्तं समाधिं समापन्नो। कुमारस्य


p. 209


दिवसप्रवृत्तिं मम आनेथ॥ ते दानि पुरुषा भूयो उरुविल्वां गताः तपोवनं च प्रविष्टाः कुमारं च अरोगं स्वस्तिवन्तं समाधितो व्युत्थितं पश्यन्ति॥ ते दानि पुरुषा विस्मिता पण्डितो राजा शुद्धोदनो॥ यदा भगवां प्रवृत्तप्रवरधर्मचक्रो एतं प्रकरणं भिक्षूहि श्रुतं॥ भिक्षू भगवन्तं पृच्छन्ति॥ कथं भगवं राजा शुद्धोदनो तेसां आपृष्टपुरुषाणां श्रुत्वा कुमारो कालगतो ति नाभिश्रद्दधाति॥ भगवानाह॥ न हि भिक्षवो न एतरहिं एव एषा राजा शुद्धोदनो ममान्तरेण कालगतो ति श्रुत्वा नाभिश्रद्दधाति। अन्यदापि ममान्तरेण एष कालगतो ति श्रुत्वा नाभिश्रद्दधाति॥ भिक्षू आहन्सुः॥ अन्यदापि भगवन्॥ भगवनाह॥ अन्यदापि भिक्षवो॥ 


भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे अपरो ब्राह्मणो॥ तेन अष्टचत्वारिंशद्वर्षात्कौमारं ब्रह्मचर्यं चीर्णं वेदा च अधीता॥ तेन दानि अष्टचत्वारिंशद्वर्षात् कौमारं ब्रह्मचर्यं चरित्वा वेदा च अधीत्य नास्ति अनपत्यस्य लोके पि धर्मो दारं कृतं अपत्यो च उत्पादितो॥ तस्य भवति ब्राह्मणस्य। परिभुक्ता मानुष्यका कामा समयो मे प्रव्रजितुं॥ सो दानि ब्राह्मणो तां ब्राह्मणीमामन्त्रयति। भवति आमन्त्रेमि प्रव्रजिष्यामीति॥ सा नं आह॥ ब्राह्मणस्य वा पुत्रस्य को विवेष्यति मम वा को विवेष्यति। यदि तव अभिप्रेतं प्रव्रजितुं अहं पि प्रव्ज्रजिष्यामि अहं पि तपश्चरणं करिष्यामि अहं पि ब्रह्मचर्यं चरिष्यामि। यथापि त्वं तपश्चरणं करिष्यसि तथाहं पि तपश्चरणं करिष्यामि॥ ब्राह्मणो आह॥ एव-


p. 210


मस्तु त्वं पि प्रव्रजाहि॥ ते दानि वाराणसीतो निर्गता॥ अनुहिमवन्ते साहंजनी नाम आश्रमपदो। तहिं गौतमो नाम महर्षि प्रतिवसति पंचशतपरिवारो चतुर्ध्यानलाभी पंचाभिज्ञो॥ सो दानि ब्राह्मणो ताये ब्राह्मणीये सार्धं तहिं साहंजनीं आश्रमपदं गत्वा गौतमस्य ऋषिस्य मूले प्रव्रजितो। सापि ब्राह्मणी प्रव्रजिता॥ तेन दानि तस्य आश्रमपदस्य अविदूरे आश्रमो मापितो तृणकुटी पर्णकुटी च कृता। तस्या पारगाये तापसीये एकान्ते तृणकुटी कृता॥ तेहि दानि तहिं आश्रमपदे प्रतिवसन्तेहि वाहिरकेन मार्गेण युज्यंतेहि घटन्तेहि व्यायमन्तेहि ध्यानानि च अभिज्ञा च साक्षात्कृता चतुर्ध्यानलाभी पंचाभिज्ञा महाभागा संवृत्ता उग्रतपाश्रिता ब्रह्मचारी॥ यं ऋषि आनेति मूलविकृतिं वा फलविकृतिं वा कोद्रवकं वा श्यामाकं वा प्रियंगु वा भंगं वा प्रासादिकं वा शाकं वा मूलकं वा ततः तस्या पि पारगाय सगर्भरूपाये संविभागं करोति॥ तेषां भवति। किं इमस्य माणवकस्य नामं भवतूति॥ तेषामेतदभूषि। अयं माणवको श्यामवर्णको भवति इमस्य माणवकस्य श्यामको ति नाम॥ तस्य दानि माणवकस्य तेहि मातापितृहि शामको ति नाम कृतं॥


तहिं आश्रमपदे सो मानवको उन्नीयति। एवमनुपूर्वेण सो मानवकः यं कालं संवर्धितो पादेहि अण्वितः ततो यं एवं मृगपोतकेहि सार्धं रमति। मैत्रीविहारी रृषयो महाभागा। तेषां मृगपक्ष्किणः न सन्त्रसन्ति॥ मृगपक्षिसहस्रेहि तमाश्रमपदं उपशोभितं। यं वेलन्ते मृगपोतका मातरो स्तनं पिबन्ति ततः श्यामको पि तेहि एवं मृगपोतकेहि सार्धं तं मृगीये स्तनं पिबति। यस्या यस्या मृगीये अल्लीयति सा एव स्तनं पायेति यथा स्वकपोतकं पायेति तथा श्यामकं पि 


p. 211


पायेति॥ एवं सो श्यामको ऋषिकुमारो तहिं आश्रमपदे तेहि मृगपोतकेहि पक्षीहि च सार्धं संवर्धति॥ यतो यतः मृगपोतका च पक्षी च अण्वन्ति तत्र तत्र श्यामको ऋषिकुमारो तेहि मृगपक्षीहि परिवारितो अण्वति। ते पि मृगपक्षी ऋषिकुमारेण सार्धं अभिरमन्ति॥ यं वेलं ऋषिकुमारो उटजे शयितो भवति ततः अनेकमृगपोतका च पक्षी च नानाप्रकारा उटजस्य द्वारमूलमन्वासन्ति यावत् श्यामको ऋषिकुमारो ततो उटजातो निर्धावितो भवति। ततः आश्रमपदस्य परिसामन्त अण्वन्ति॥ श्यामको तेहि मृगपक्षीहि सार्धं आश्रमपदे अभिरमति मृगपक्षी पि तेन श्यामकेन सार्धं तहिं आश्रमपदे अभिरमन्ति॥ शयितस्यापि ऋषिकुमारस्य आश्रमपदे मृगपोतका च मृगा च पक्षी च अनुपरिवारित्वा आसन्ति। यदा अण्वितुकामा भवन्ति मृगपोतका च पक्षी च ततो तं श्यामकं ऋषिकुमारं मुखतुण्डकेन प्रतिबोधयन्ति॥ एवं सो ऋषिकुमारो तेहि मृगपक्षीहि सार्धं आश्रमपदे संवर्धति॥ यं वेलं ऋषिकुमारो विवृद्धो संवृत्तो ततः मृगाणामजिनेन निवस्तो च प्रावृतो च॥ या तत्र आश्रमपदे भवति मूलविकृतिर्वा फलविकृतिर्वा कोद्रवो वा श्यामको वा चिन्नको वा प्रियंगुर्वा भङ्गं वा प्रासादिको वा शाकं वा मूलका वा तमानयित्वा मातापितॄणां उपनामेति। उदकमानेति काष्ठानि आनेति  तृणकुटिपर्णकुटीनि संस्थापेति। तमाश्रमपदं सिंचति संमार्जति॥ परमगौरवेण तेषां मातापितृणामुपस्थिहति। प्रथमं मातापितरं प्रतिचरति पश्चात् स्वयं आहारं करोति। यत उपादाय ऋषिकुमारो विज्ञप्राप्तो ततः उपादाय न कदाचिद-


p. 212


दत्त्वा मातापितॄणामाहारं स्वयं आहारं कृतपूर्वो। एवं शायमको ऋषिकुमारो तहिं आश्रमपदे मातापितरमुपस्थिहति॥ इष्टेन कान्तेन प्रियेन मनापेन कालो गच्छति ऋषिकुमारस्य मातापितरं उपस्थिहन्तस्य॥ मातापितरो पि तहिं आश्रमपदे प्रतिसन्ता जीर्णा संवृत्ता दुर्बलशरीरा चक्षुपरिहीणा परप्राणेया अशक्या आत्मना आहारविधानं कर्तुं उदकहाराय वा गन्तुं तृणकुतीय वा पर्णकुटीय वा वेषितुं॥ श्यामको ऋषिकुमारो तेषां मातापितृणा वृद्धानां जीर्णानां दुर्बलशरीराणां चक्षुहीनानां सर्वहितोपस्थानेन उपस्थिहति दश कुशलां कर्मपथां समादाय वर्तति प्रासादिको ऋषिकुमारो अभिरूपो दर्शनाये शुभेन कर्मणा अभिनिर्वृत्तः मातापित्ऱ्रिवर्तको कौमारब्रह्मचारी उग्रतपसाश्रितो प्रान्तशय्यासनविहारी महाभागो प्रियो देवानां नागानां यक्षाणां राक्षसानां पिशाचानां कुम्भाण्डानां किन्नराणां किन्नरीणां मृगानां पक्षीणां प्रियो सर्वभूतानां॥ यतो यतो ऋषिकुमारो गच्छति मूलहारी वा पत्रहारी वा पुष्पहारी वा फलहारी वा ततो ततो मृगपक्षीहि च देवनागेहि च किन्नरेहि किन्नरीहि च संपरिवृतो गच्छति॥


सो दानि घटमादाय मृगपक्षीहि संपरिवृतः देवनागेहि च किन्नरेहि च किन्नरीहि च उदकहारी गिरिनदीं ओकस्तो ततः उदकघटं परिपूरयति॥ पेलियक्षो नाम काशिराजा महाबलो महाकोशो महावाहनो मृगव्ये अण्वन्तो वातवजसमेन तुरगेण मृगमनुजवति। उज्झित्वा बलवाहना न कश्चन तं प्रदेशमनुप्राप्तो॥ यथोक्तं भगवता धर्मपदे।


गति मृगानां पवनं आकाशं पक्षिणां गतिः।

धर्मो गतिर्विभागीयानां निर्वाणमर्हतां गतिरिति॥


p. 213


सो मृगो तहिं एव वनखण्डे नष्टो॥ राजा तहिं वनखण्डे श्यामऋषिस्य ततो गिरिनदीतो उदकघटं भरन्तस्य शब्दं शृणोति। तस्यैतदभूषि मृगस्य एतं शब्दं ति न मनुष्यचरितो अयं वनो॥ तेन दानि यतो तं शब्दं श्यामऋषिस्य उदकघटं भरन्तस्य ततो क्षुरप्रं क्षिप्तं॥ सो दानि क्षुरप्रो ऋषिकुमारस्य हृदये निपतितो विषकृतो॥ ते मृगपक्षिणो तेन विषकृतस्य क्षुरप्रस्य शब्देन शब्दवेधिगन्धेन दिशो दश प्रपलाना॥ श्यामकऋषि उदकघटं नदीतीरे स्थापेत्वा करुणानि परिदेवति॥ मान्सस्यार्थं मृगवराहा हन्यन्ति। चर्मणार्थाय सिंहव्याघ्रा द्वीपयो हन्यन्ति। बालार्थं चमरीयो हन्यन्ति। दन्तार्थं हस्तिनागा हन्यन्ति। भैषज्यार्थं तित्तिरकपिंलजलानि हन्यन्ति। अस्माकं पुनर्नैव शक्या मान्सेन कार्यं कर्तुं न चर्मेण न केशे हि दन्तेहि कस्यार्थाय वयं अहेठका अदूषका अनपराधिनो एकेन इषुणा त्रयो जना हता। अहो यथा संप्रज्वलितो अधर्मो॥ सो च श्यामऋषिकुमारो तथा परिदेवति काशिराजो च नं प्रदेशमनुप्राप्तो पश्यति तमृषिकुमारं परिदेवन्तं अजिनजटावल्कलधरं महाभागं अश्रु प्रपातेन्तं॥ सो राजा तमृषिकुमारं क्षुरप्रेण आहतं दृष्ट्वा भीतो त्रस्तो संजातो। मा हैव मे सनगरजनपदं शापेन भस्मीकरिष्यति॥ सो ततो अश्वातो अवतरित्वा श्यामऋषिस्य कुमारस्य मूर्ध्ना निपतितो॥ भगवं मृगसंज्ञेन मया एतं इषु क्षिप्तं अजानमानेन अनुक्षमापयिष्यं भगवन्तं ये चैते अश्रुविन्दू भूमिं पतन्ति केवलकल्पं जम्बुद्वीपं एते अश्रुविन्दू दहेन्सुः 


p. 214


किमंग पुनः अस्मद्विधानां बालानां॥ येन भगवानाह एकेन इषुणा त्रिवर्गं हतन्ति एतं न विजानामि। भगवानेको न त्रिवर्गो। कथं एकेन इषुणा त्रयो जना हताः॥ ऋषिकुमार आह॥ महाराज मम मातापितरौ जीर्णा वृद्धा दुर्बलशरीरा चक्षुहीना ब्रह्मचारी महाभागा सदेवकस्य लोकस्य दक्षिणीया परप्राणेया अहं च तेषामुपस्थायको। प्रथमं तेषामाहारविधानं करोमि पश्चादात्मनो यं कंचित्तेषां उपस्थानपर्यन्तं अहं सर्वं करोमि नास्ति तेषां अन्यो कोचिद्यो सानं उपस्थिहेय ततः मया हतेन ते पि हता। नास्ति मया मृतेन तेषां जीवितं। तदेतेन कारणेन जल्पामि एकेषुणा त्रयो जना हता ति॥ काशिराजा श्यामशिरिमृषिकुमारं आह॥ तीक्ष्णविषकृतेन इषुणा हृदयस्मिं आहतो सि मया अजानमानेन जानामहं यथा तव जीवितं नास्ति। तं चरे एक सत्यं प्रतिश्रुणामि। राज्यं ऋद्धं स्फीतमवहाय तव गुरुमातापितरं अहं परिचरिष्यं॥ यथा त्वया परिचीर्णं तथा अहं परिचरिष्यं॥ ऋषिकुमारो आह॥ महाराज तेन मे शोकशल्यो हृदयातो अपगतः॥ एतं वचनं प्रतिश्रुत्वा यथा सत्यप्रतिज्ञो भवेसि मे गुरुषु तथा करोहि महीपाल महान्तं ते कुशलं भविष्यति। तेषां महाभागानां उपस्थानपरिचर्यं कृत्वा एतं महाराज उदकघटमादाय एताये एकपदिकाये मम मातापितॄणामाश्रमपदं गच्छेसि। मम वचनेन अभिवादनं पृच्छेसि। श्यामशिरि अभिवादनं पृच्छति एवं चाह। मृतो वो एकपुत्रको तन्न शोचितव्यं न रोदितव्यं जातेन जीवलोके अवश्यं मर्तव्यं अलभनीयं स्थानं तन्न शक्यं रोदितेन वा शोचितेन वालब्धुं न शक्यं स्वयं-


p. 215


कृतानां कर्मणां पलायितुं। नापि मम एकस्य मरणं सर्वसत्वा मरणधर्मा। तन्मा शोचिष्यथ मा उत्कण्ठिष्यथ। सर्वेहि प्रियेहि मनापेहि नानाभावो विनाभावो॥ यथा महाराज सत्यप्रतिज्ञो मे गुरुषु भवसि तथा करोहि॥ एवं संविदित्वा ऋषिकुमारो विपरिगतशरीरो कालगतो॥


राजा ऋषिकुमारं कालगतं विदित्वा रोदित्वा परिदेवित्वा अश्रूणि संमार्जित्वा तमुदकघटमादाय ताये एकपदिकाये यथोपदिष्टाये श्यामकशिरिणा तमाश्रमपदं गच्छति॥ समनन्तरप्रक्रान्तो च काशिराजा श्यामकशिरिस्य मूलातो श्यामकशिरि च मृगपक्षिशतेहि मृगपक्षिसहस्रेहि परिवारितो देवेहि नागेहि यक्षेहि किन्नरेहि किन्नरीहि तथान्येहि भूतेहि। ऋषिकुमारं परिवारेत्वा महान्तं आरोदनं करेन्सुः महान्तं निनादं अकरेन्सुः। नूनं सो पापकर्मो तमातो तमं गमिष्यति अपायेषु अपायं गमिष्यति येन ताव अहेठकस्य अदूषकस्य अनपराद्धस्य अपराद्धं॥ सर्वं वनखण्डं ता च पर्वदरी तं च आश्रमपदं भूतनिनादेहि निनादितं मृगपक्षिरवेहि च आरावितं॥ श्यामकशिरिस्य मातापितरौ तानि भूतानि श्रुत्वा मृगपक्षिरवाणि श्रुत्वा चिन्तामापन्ना। किमिदं अद्य नास्मभिः कदाचिदेदृशाणि भूतानां निर्नादशब्दानि श्रुतपूर्वाणि न एदृशानि मृगपक्षिरवशब्दानि श्रुतपूर्वाणि मा हैव श्यामकशिरि सिंहेन व्याघ्रेण वा अन्येन वा व्याडमृगेण विहेठितो भूदिति॥ यादृशानि एतानि निमित्तानि यादृशो च अस्माकं हृदयो अनिर्वृत्तो यथा च मे अक्षीणि परिस्फुरन्ति॥ ते च तथा अनिर्वृत्ता कायेन च चित्तेन च श्यामकशिरिं विचिन्तेन्ति काशिराजा च तमाश्रमपदमनुप्राप्तः मृतपक्षिशतानि च ततः आश्रमपदातो भैर-


p. 216


वाणि रवाणि रवन्ता प्रपलाना। ऋषयो अस्याधिकं सन्त्रस्ता॥ काशिराजा एकमन्ते वृक्षदण्डे अश्वं बंधित्वा तं उदकघटमादाय श्यामकशिरिस्य मातापितॄणां सकाशमुपसंक्रान्तो॥ अभिवादयामि भगवन्॥ ते पृच्छन्ति नन्दन्ता॥ को तुवन्ति॥ राजा आह॥ भगवन् अहं पेलियक्षो नाम काशिराजा कच्चिद्भगवानिह तपोवने सुखं भवति व्याडमृगानुचरिते निर्मनुष्ये उत्पद्यन्ति मूलफलानि कोद्रवं श्यामाकं शाकमूलं अल्पकिसरेण लभ्यति अल्पा वा व्याधि शरीरे अल्पा दंशमसकसरीसृपसंस्पर्शा काये उपनिपतन्ति॥ ते दानि आहन्सुः॥ तं खु महाराज सुखं वसामः इह अरण्ये व्याडमृगानुचरिते निर्मनुष्ये आश्रमपदे मूलपत्रफलानि च कोद्रवश्यामकमूलकानि अल्पकिसरेण लभ्यन्ति अल्पो च व्याधि शरीरस्मिं अल्पानि च दंशमसकसरीसृपसंस्पर्शा काये उपनिपतन्ति। कच्चित् महाराज तवापि अन्तःपुरे कुमारामात्येषु बलवाहनकोशकोष्ठागारेषु क्षेमं निरीतिकं निरुपद्रवं पौरजानपदा अनुवर्तन्ति प्रतिराजानो च कच्चिदपराध्यन्ति देवो च कालेन वर्षति शस्यानि संपद्यन्ति क्षेमं च ते राज्यं सुभिक्षं निरुपद्रवं॥ सो दानि आह॥ तं खु भगवन्तःपुरे कुमारामातेषु बलवाहनकोशकोष्ठागारेषु क्षेमं निरीतिकं निरुपद्रवं पौरजानपदा अनुवर्तन्ति प्रतिराजानो न कच्चिद अपराध्यन्ति देवो च कालेन वर्षाति शस्यानि संपद्यन्ति क्षेमं च राज्यं सुभिक्षं च निरुपद्रवं च॥ ते दानि आहन्सुः॥ महाराज एताहि शिविकाहि निषीदाहि यावत्श्यामकशिरि आगच्छति उदकहारी गतको गतो ते फलोदकमुपनामेष्यति॥ एवं च तेहि ऋषीहि उक्तो राजा प्ररुण्डो॥ ते पृच्छति॥ महाराज किं रोदसि॥ राजा आह॥ भगवं यस्य यूयं कीर्तयथ श्यामकशिरि आगमिष्यति फलोदकं उपनामेष्यतीति सो


p. 217


कालगतो अयं च उदकघटो मम हस्ते विसर्जितः अभिवादनं च वः पृच्छति एवं च संदिशति। न शोचितव्यं न रोदितव्यं। न शोचितेन वा रोदितेन वा कोचिदर्थो। सर्वेण जात्न अवश्यं मर्तव्यं। नैव मरणं मम एकस्य सर्वसत्वा मरणधर्माः च्यवनधर्मा न स्वयंकृतानां कर्मणां पलायितुं शक्यं॥ ते पृच्छसि॥ महाराज कथं श्यामशिरि कालगतो॥ राजा आह॥ अहं मृगव्ये अण्वन्तो वातजवसमेन तुरङ्गेण मृगमनुजवन्तो तमुद्देशमनुप्राप्तो उदकसमीपं यत्र श्यामशिरिः घटं पूरेति। तत्र च वनगहने सो मृगो नष्टो॥ तस्य श्यामशिरिस्य तं उदकघटं भरन्तं शब्दं शृणोमि। तस्य च मे तदभूषि। स एव मृगो उदकेन गच्छतीति॥ तस्येदं गच्छन्तस्य शब्दं शृण्वतो मम येन तं शब्दं तेन विषकृतो क्षुरप्रो क्षिप्तः। सो श्यामकशिरिस्य हृदये निपतितो। एष ऋषिकुमारो कालगतो॥ ते दानि तस्य राज्ञो श्रुत्वा प्ररुण्डा अश्रुकण्ठा रुदन्मुखा परिदेवेन्सुः॥ महाराज मान्सार्थं मृगवराहा हन्यन्ति चर्मार्थं सिंहव्याघ्रद्वीपयो हन्यन्ति दन्तार्थं हस्तिनागा हन्यन्ति भैषज्यार्थं तित्तिरलोपाका हन्यन्ति अस्माकं पुनर्महाराज न मान्सकार्यकं न चर्म न केशा न दन्ता। तत्कस्य हेतोः वयमहेठका अदूषका अनपराधिनो एकिना इषुणा त्रयो जना हता॥ काशिराजा ऋषयो प्रणिपतित्वा क्षमापयति॥ भगवं यदेते युष्माकं अश्रू भूमिं निपतन्ति ते केवलकल्पं जम्बुद्वीपमपि दहेन्सुः किं पुनरस्मद्विधानां बालानां। अहं राज्यमवहाय सस्वजनं सबा-


p. 218


न्धवं इह युष्माकं उपस्थानं करिष्यामि यथा श्यामकशिरिस्य उपस्थितं तथा व च उपस्थिहिष्यामि॥ ते दानि आहन्सुः॥ महाराज वयं अन्धा चक्षुर्हीना न प्रतिबला तं प्रदेशं गन्तुं विना प्रणेतरेण। तन्नेतु महाराजा अस्माकं तं प्रदेशं यत्र शामकशिरिः॥ वयतं ऋषिकुमारं सत्यवाक्येन उपस्थापेष्यामः सत्यवाक्येन च तं मृगविषं हनिष्याम॥ तस्य राज्ञो भवति। यादृशा इमे ऋषयो महाभागा प्रतिबला एते तमुपस्थापयितुं॥ सो आह॥ नेमि वः भगवन्तं प्रदेशं यत्र श्यामकशिरी॥


ते दानि तस्य राज्ञो स्कन्धे हस्तं दत्त्वा तं प्रदेशं गता॥ श्यामकऋषिस्य शीर्षं उत्संगे कृत्वा पारगा श्यामकशिरिस्य माता मुखमण्डलं पाणिना संपरिमार्जन्ती बहुप्रकारं रोदति परिदेवति॥ शून्यो आश्रमपदः श्यामकशिरिणा विहीनो भविष्यति। वनदेवता करुणं परिदेवित्वा गमिष्यति। मृगपक्षिणो पि श्यामकशिरिं अपश्यन्तः आश्रमपदातो करुणं परिदेवन्ता गमिष्यन्ति॥


ऋषि आह॥ पारगे मा रोदाहि मा शोचाहि किं रुण्डेन शोचितेन वा किंचिदर्थो भवति॥ वयम्पि उग्रतपचीर्णचरिताविनो ब्रह्मचारी समर्था वयं एतं सत्यवचनेन उत्थापयितुं। तं करोम सत्यवचनं येनास्य मृगविषं हनिष्यामः जीवितं च उपस्थपेष्यामः॥ तेहि दानि तस्य सत्यवचनेन तं मृगविषं हतं॥ यथा त्वया पुत्र न जातु कस्यचिद्विषमं चिन्तितं मैत्रचित्तो सर्वसत्वेषु तथा तव हतो मृगविषो भवतु॥ यथा त्वया न जातु अदत्त्वा मातापितॄणां आत्मनो आहारं कृतं तथा तव हतं मृगविषं भवतु॥ यथा तव पुत्र मातापितरौ नित्यकालं शीलं परिशुद्धं


p. 219 


रक्षतः तथा तव हतं मृविषं भवतु॥ सो दानि ऋषिकुमारो तेषां मातापितॄणां तेजानुभावेन सत्यवचनेन स्वकेन च सुचरिततेजेन यथा शयितको पुरुषो बुद्ध्येया तथा विजृम्भन्तो उत्थितो॥


भगवानाह॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन श्यामको ऋषिकुमारो॥ नैतदेवं द्रष्टव्यं॥ तत्कस्य हेतोः॥ अहं सो भिक्षवः तेन कालेन तेन समयेन श्यामको नाम ऋषिकुमारो अभूषि॥ अन्यो सो भवति ऋषि श्यामकस्य पिता। एषो शुद्धोदनो राजा तं कालं श्यामकस्य पिता अभूषि॥ अन्या सा तेन कालेन तेन समयेन श्यामकस्य ऋषिकुमारस्य पारगा नाम माता अभूषि। एषा सा मायादेवी अभूषि॥ अन्यो सो पेलियक्षो नाम काशिराजा अभूषि॥ नैतदेवं द्रष्टव्यं॥ तत्कस्य हेतोः॥ एष भिक्षवः आनन्दस्थविरस्तेन कालेन तेन समयेन पेलियक्षो नाम काशिराजा अभूषि॥ तदापि भिक्षवः एष शुद्धोदनो राजा मम कारणेन कालगतो ति श्रुत्वा न श्रद्धधाति। न सो महाराज कालगतो श्यामकशिरि मृगविषेण सो मोहितो। नेहि त्वं अस्माकं तं प्रदेशं वयं तं मृगविषं सत्यवचनेन हनिष्यामः तं च श्यामकशिरिं उत्थापेष्यामः॥ एतरहिं पि एष शुद्धोदनो राजा मम अर्थाय कालगतो ति श्रुत्वा नाभिश्रद्दधाति॥


समाप्तं श्यामकजातकस्य परिकल्पं॥


लोकोत्तरस्य लोके अपरिमितयशस्य लोकनाथस्य।

पूर्वचरितं भगवतो. . .गुणवतो प्रवक्ष्यामि॥

न हि बोधिसत्वचरितं सदेवगन्धर्वमानुषे लोके।


p. 220


शक्यमभिभवितुं केनचि तेन दशबलो अनभिभूतो॥

यं यं तथागतानां स्मृतिये बलं तासु तासु जातीषु।

मैत्राय च करुणाय च लोकं अनुकम्पमानानां।

तं सुचरितं भगवतो कल्पशतसहस्रसंचितशुभस्य।

अहमभ्युदाहरिष्यं अवधानं देथ सत्कृत्य॥

तेन समयेन भगवां वानप्रस्थान तापसकुलस्मिं।

अत्यन्तशुद्धे सत्वं उपपद्यिथ बुद्धिसम्पन्नो॥

तस्य मातापितरौ जीर्णा च अभून्सुः चक्षुविहीना।

एतेषामुत्पद्ये हिताय लोकोत्तरो. . . . ॥

सर्वमनवद्यगात्रो ऋद्धीमां सौम्यको विशालाक्षो।

तदेव तस्य नामं अभूषि श्यामो ति तं कालं॥

आश्चर्यं ऋषिकुमारं यो पश्यति मानुषो वा देवो वा।

रूपगुणपारमिगतं निध्यायन्तो स न तृप्यति॥

स्वयमेव बोधिसत्वो किं कुशलं गवेषयं समादियति।

शुक्लं कुशलं धर्मं तं च समादाय वर्तेति॥

अखण्डकमकल्माषं परिशुद्धं दुष्कृतं कुशीदेहि।

स्वयं चरति ब्रह्मचर्यं परं च तत्र नियोजयति

मातापितॄषु वीरो उपस्थपेत्वा तीव्रं परिचरति।

ब्रह्मचर्यं ब्रह्मचारि स्वयं ब्रह्मचारिव्रतं चरति॥


p. 221


तस्यासि समादानं प्रियेषु मातापितॄषु दयितेषु।

न खु मे प्रपञ्चयितव्यं अन्धेषु परप्रणेय्येषु॥

मूलफलमाहरन्तो गिलानका जीर्णका वयोवृद्धान्।

प्रेम्नेन गौरवेण च सत्कृत्य गुरूनुपस्थास्यं॥

अन्नेन च पानेन च गिलानभैषज्यानुप्रदानेन।

वस्त्रैः शय्यासनेन मातापितरं उपशास्यं॥

अपि चात्र बोधिसत्वो मातापितरं भणासि मा खु भवे।

न खु ताव शोचितव्यं अहं व परिचारको अस्मि॥

तं अवच श्यामसुन्दरि चीरंभाजी च मा च तव पापं 

उत्पथपन्थगतस्य च तुह्य मा त्रासेन्तु भूतानि॥

मान्सरुधिरार्थिनो पि मृगराजा अतिबला च मातंगा।

मार्गादपक्रमन्तु ते मा च ते त्रासेन्तु भूतानि॥

मृगपोतकेहि सार्धं प्रतिवसति आश्रमेषु रमणियेषु॥

मृग इव मृगेहि सार्धं वसति अरण्ये ऋषिकुमारो॥

तस्य तहिमाश्रमपदे प्रतिवसतो क्षमदमप्रहाणास्य।

मैत्राय च करुणाय च लोकं अनुकंपमानस्य॥

प्रादुरहु काशिराजा नृपति महावाहनो महेशाख्यो।

सो तस्मिं आश्रमपदे त्रासयति मृगा च पक्षी च॥

राजा वनान्तरेण अदर्शि एणीमृगाण यूथानि।

दृष्ट्वान त्वरितत्वरितो वितने धनु सन्दहे क्षुरप्रा॥


p. 222


एषो अश्वावाही अनिलजवं ओसरे मृगाभिमुखं।

सकलतुरंगश्रेष्ठं प्रकीर्णशिरजं त्वरितगामिं॥

संप्रति च ऋषिकुमारो कलशं आदाय प्रस्थितो उदकं

अवगाहि ताव गिरिनन्दिं त्रस्ता च मृगा च पक्षी च॥

अथ परमकोपकुपितो सो राजा आभतेन चापेन।

अनुधावन्तो मृगान् न अद्दशि कुपितो ऋषिकुमारं॥

तेन मृगस्य खुरप्रो संदहितो येन आहतो श्यामः।

विषलिप्तेन अविषमो शल्येन समर्पितो पतितो॥

सो अवच हन्यमानो केनास्मि अदूषको पिता माता।

एकेषुणा त्रयो हता संप्रज्वलितो पुन अधर्मो॥

दन्तान नाम कारणा हनन्ति नागा मृगा च मान्सार्थं।

चमरी च बालहेतोर्द्वीपयो चार्थाय चर्मस्य॥

मह्यं पुनर्न दन्ता न पि चर्म न शिरजा नापि च मान्सं।

किस्य खु नाम कृतेन अहेठका हता भविष्यामः॥

सो तां गिरा श्रुणित्वा राजा अधिगम्य तं ऋषिकुमारं।

अनुनेति क्षमापेति च अजानता आहतो भगवान्॥

नैषो क्षुरप्रो संधितो त्वमाहतो सि मय अजानन्तेन।

यमजानन्तेन क्षतं एतं मया क्षम्यतामेव॥

यं च परिदेवन्तो भणेसि एकेषुणा हता त्रीणि।


p. 223


वियाहर ब्रह्मचारी एतं मे अर्थमाख्याहि॥

तं अवच बोधिसत्वो प्रियेसु मातापितॄषु दयितेषु।

कारणमुपसंजनेत्व इमां गिरामभ्युदीरेमि॥

ते मे चिरब्रह्मचारी माता च पिता च जीर्णका वृद्धा।

तेषामचक्षषुषाणामहमेव गतिश्च नाथश्च॥

तेषामनाथमरणं उपस्थितन्तेन राज शोचामि।

ते मह्यमपरिचीर्णा अनाथमरणं मरिष्यन्ति॥

एतेन हेतुना अहं भणामि एकेषुणा हता त्रीणि।

किंचि त्वयि पोषियन्तो न हतो. . . भविष्यामि॥

काशिपतिः तीक्ष्णबुद्धि तेनापि अस्य संभावितो अर्थो।

तं अवच ऋषिकुमारं प्रणम्य शिरसा हि पादेषु॥ 

निरयं अहं पतिष्यं अदूषकं ऋषिपुत्रं हनित्वान।

एतादृशा हि हत्वा नरकेषु न मुच्यितुं शक्या॥

ये पि तव अश्रुविन्दू पतन्ति अत्यन्तशुद्धसत्वस्य।

लोकमपि ते दहेन्सुः किं पुन अस्मादृशां बाला॥

सत्यं भणामि यदि मे मरनेन जीवितं तव भवेय।

प्राणमपि अहं त्यजेयं न वैष संविद्यते स्थानं॥

तीक्ष्णेन विषकृतेन हृदयस्मिं आहतो सि ऋषिपुत्र।

जानामि जीवितं तव नास्ति न च मे प्रियं भवति॥

एवं च ते महायश प्रतिश्रुणिष्यामि तं मे पत्तीय।


p. 224


सत्यं हि जीवलोके प्रतिष्ठितं एष परमार्थं॥

राज्यमपहाय स्फीतं स्त्रीयो च कामांश्च परित्यज्य।

मूलफलमाहरन्तो गुरू तवाहं परिचरिष्यं॥

तं अवच बोधिसत्वो खरं मम शोकशल्यपरिदाघं।

व्यपनयसि राजकुंजर इमां गिरामभ्युदीरेन्तो॥

इदमेव उदककुम्भं आदाय इमाहि एकपदिकाहि।

अस्माकमाश्रमपदं गत्वा वचनेन मे भणेसि॥

अभिवादनं पुनःपुनः भणेसि त्वं मातरं च पितरं च।

कालगतो वो पुत्रो सो च वो अभिवादनं आह॥

न कथंचित् शोचितव्यं नापि च रुण्डेन शोचितेनर्थो।

जातेन जीवलोके सर्वेण अवश्यं मर्तव्यं॥

एषा किलानुपूर्वा न सुचिरं जीवितं मनुष्याणां।

मरणं पर्यवसानं आढ्यानां दुरगतानां च॥

नापि च स्वयंकृतानां कर्माणां फलं पलायितुं शक्या।

चक्रपरिवर्तकस्य हि उपरिपतति सुखं च दुःखं च॥

नापि च मनोन्वितानां मया श्रुतं नापि चाहं जानामि।

क्षणिकस्य दुर्बलस्य च संस्कारगतस्य अध्रुवतां॥

नापि. . . . . . . मरणं नापि च मम एव एदृशं दुःखं।

अनुभूतो एष अर्थो न किंचि लोके अनागम्यं॥

एषो मे शोकशल्यो यं जीर्णा चक्षुषा च परिहीना।

होहन्ति शोकबहुला तव श्रुणित्वान वृत्तान्तं॥


p. 225


स्यामे थ पश्य दानिं काशिवर्धन सत्यप्रतिज्ञो भवेसि।

तं मे गुरूसु पारिचर्याये जनाधिप भविष्यति॥

तं महार्थं जीर्णेषु दुर्बलेषु च पण्डिता प्रशंसन्ति।

परिचर्यं हि जनाधिप त्रीणि पि तस्यास्ति अंगानि॥

पुण्यं च नाम होहति यशो च कीर्ती च कुशलमूलं च।

पृच्छाहि काशिराज वचनमभिगमनं समुपस्थाहि॥

साधूति श्रुत्वान स विमनो अश्रूणि संप्रमार्जन्तो।

प्रक्रमति काशिराजा मृतो स्ति श्यामो ति विदित्वान॥

सम्प्रति च काशिराजा प्रक्रान्तो मृगशतानि च बहूनि।

परिवारेन्सुः श्यामं पक्षिगणा देवता अपि च॥

तं पश्यियान पतितं शयमानं मूर्च्छितं तदीतीरे।

रोदेन्सुः देवता पि मृगपक्षिशतानि च बहूनि॥

सो नूनं पापकर्मा तमा तमं दुर्गतीषु दुर्गतियं।

गच्छति यो तव पापं चिन्तयति अपापधर्मस्य॥

भूताना च निनादो आकाशे पृथिवीये च निर्घोषो।

वाता च विप्रवान्ति चिन्तयति ऋषि अहो कष्टं॥

मा हैव ऋषिकुमारो विहेठितो यादृशानि दृश्यन्ति।

रौद्राणि कारुणानि च रुतरुतशब्दानि सुबहूनि॥

वाता प्रवान्ति कष्टं शकुना प्रव्याहरन्ति च खराणि।

हृदयं च व्युत्थस्थानो सर्वो अ अनिर्वृतो कायो॥


p. 226


एते मनोवितर्का वर्तन्ति सो च पेलियशो नाम।

प्रक्रमति आश्रमपदं मृगपक्षिगणा च सन्त्रस्ता॥

भीता दिशो व्रजन्ति भयार्दिता देवता पि संज्ञात्वा।

दुर्मनतरा अभून्सुः निष्प्रत्याशा पश्यन्तीयो॥

न इमां दिशां मनुष्यो अमनुष्यो वापि क्वचिदागम्य।

न पि दृष्ट्वा ऋषिकुमारं मृगपक्षिगणा बहयं एन्ति॥

निःसंशयं भविष्यति महद्भयो रोमहर्षणो सत्वो।

यं पश्यिया मृगगणा सन्त्रस्यन्ति पक्षिसंघा च॥

विदितविदितं उपगम्य मातापितरं अनागमनेन स्य।

प्राणहरो पि त्रस्यन्तं मधुराहि गिराहि अभिनन्दि॥

ते अवच स्वागतं तव कुतो तुवं कस्य वासित् त्वं दूतो।

अन्धा स्म अचक्षुष्का श्यामो च गतो उदकहारी॥

राजाह अहं मृगव्यं काशिपुरा निर्गतो सह बलेन।

नामेन पेलियक्षो अण्वामि मृगा गवेषन्तो॥

कच्चि तव राजकुंजर वर्षति देवो रोहति च वीजं।

अन्तःपुरं अरोगं मह्य कुमारा बलाग्रं च॥

नगरेषु जनपदेषु च क्षेमं मे प्रकृतयो च अनुरक्ता।

न च वर्धन्ति अमित्रा सर्वो च विवर्धति कोशो॥

श्रमणेषु ब्राह्मणेषु च आरक्षो धार्मिको जनपदेषु। 


p. 227


वर्धति न चैव हायति दानानि न देमि सत्कृत्य॥

युष्माकं पि अरण्ये तस्करव्याघ्रबहुव्यालचरितस्मिं।

न करोन्ति केचिद् हिंसां भूतानि यथोत्पथगतानि॥

पुष्पफलं प्रभूतं श्यामाकं शाकमूलकं प्रचुरं।

अल्पकिसरेण लभ्यति अल्पा व्याधी शरीरस्मिं॥

नचिरेण गतो कुमारो निषीद एताहि पर्णशिविकाहि।

भव्यस्य धार्मिकस्य अतिरिव च मनोमनापस्य॥

अथ विषकृतामनिष्टां प्राणहरां तस्य तापसकुलस्य।

वाचां प्रव्याहरति राजा श्रूणि वर्तेन्तो॥

यं भणथ ब्रह्मचारी ऋषिपुत्रः धर्मचारि समचारि।

सो संप्रति कालगतो सो वो अभिवादनं आह॥

न कथं चि शोचितव्यं न पि रुण्डशोचितेन कोचार्थो।

जातेन जीवलोके सर्वेण अवश्यं मर्तव्यं॥

ते तां गिरां अनिष्टां अमनोज्ञां अप्रियां श्रुणित्वान।

अविचिंसु जीवितं खु मे उपरुन्धसि एवं जल्पन्तो॥

सो अवच एषो अर्थो नयेन जातो यदा मया पापं।

अविजानन्तेन कृतं एवं क्षम्यन्तु मे देवा॥

अहमपि च एतमर्थं इहागतो धुरामृषिकुमारो।


p. 228


वहेति च तां वहिष्यं अहं च देवा उपस्थास्यं॥

परिदेवते स्य माता इन्दीवरसुप्रसूतवर्णस्य।

हसितभणितानि पूर्वं प्रियस्य पुत्रस्य विगणेन्ती॥

हा दयित स्याम सुन्दर त्वया विनाभावसम्भवो पूर्वं।

मह्यं हृदयं दहिष्यति शुष्कं तृणकाष्ठमिव अग्नि॥

शून्यमिममाश्रमपदं ख्यायति भयभैरवं अनभिरम्यं।

भव्येन धार्मिकेन विहीनं ऋषिणा उदारेण॥

यं नूनं सो सर्वा नो शक्ति काममहु तेन च शमं।

तं मम अस्य वरतरं न जातु एतादृशं दुःख॥

अस्मेहि न्यूना मन्ये कृता विचित्रा विविधा तपश्चर्या।

तस्यैष फलविपाको यं स्म विहीना प्रियपुत्रेण॥

रुण्डेन शोचितेन महत्तरं पीडिता परिकिलन्ता।

भव्यस्य धार्मिकस्य अनुस्मरण्ती गुणशतानि॥

ते अवच काशिराजं एवं सो याचितो तहिं नेहि।

अन्धा स्म अचक्षुका स्म न समर्था तहिं गन्तुं॥

सो अवच तहिं खु नेष्यं तं देशं यत्र सो ऋषिकुमारो।

अप्येव नाम जीवे युवा स निहतो मृगविषेहि॥

स काशिराजा. . . . मार्गेण यथागतेन गच्छन्तो।


p. 229


नचिरस्य तं प्रदेशं अगमि यहिं सो ऋषिकुमारो॥

तं पश्यियान पतितं शयमानं मूर्च्छितं नदीतीरे।

मुखरतनमस्य माता करेण परिमार्जति रुदन्ती॥ 

हा दयित एकपुत्र अकिंचनानां तुवं दरिद्राणां।

बन्धु अबन्धुनां त्वं कथं असि विहेठितो वत्स॥

वनदेवता पि सत्ये न किंचिदर्थो यममनुष्यभूतेषु।

पश्यन्ति किंचित् श्यामो स्तोकं पि न वारितो वत्सो॥

दुःसोढं यात्रान्नं विद्यते. . . . . बहुदलशतानि।

भव्येन धार्मिकेन यहिं विहीना प्रियपुत्रेण॥

ते नूनं करुणकरुणं मृगा च पक्षी च आश्रमपदस्मिं।

श्यामकशिरिमपश्यता गर्जन्ति रतिं अलभमाना॥

मा शोच पारगे त्वं न पि रुण्डशोचितेन कोचार्थो।

जातेन जीवलोके सर्वेण अवश्यं मर्तव्यं॥

वयमपि च ब्रह्मचारी चिरविरता मैथुनेहि योगेहि।

काहाम सत्यवाक्यं तेनास्य विषं हनिष्यामः॥

यथ तुह्य श्याम सुन्दर पापे चित्तं न सज्जति कदाचित्।

तथ तव हतं मृगविषं उत्थेहि च सत्यवचनेन॥

यथ तव मातापितरौ शीलं रक्षन्ति नित्यपरिशुद्धं।

तव तव हतं मृगविषं उत्थेहि च सतुवचनेन॥

यथा तव भवनेत्ती मानो च मदो च नास्ति म्रक्षो वा।

तथ तव हरं मृगविषं उत्थेहि च सत्यवचनेन॥ 


p. 230


अथ सो विजृम्भमाणो समुत्थितो अपगते मृगविषस्मिं।

मातापितृतेजेन च सुचरिततेजेन च स्वकेन॥

तं पश्यियान राजा समुत्थितं तेन सत्यवचनेन।

संहृष्टरोमकूपो निपति चरणेषु क्षमापयसि॥

तं अवच बोधिसत्वो सयुग्यबलवाहनो सदेवीको।

सनगरनिगमजनपदौ सुखी भवाहि महाराज॥

पश्याहि काशिवर्धन मातापितुगारवस्य निष्यन्दं।

यथा समूहतं मृगविषं सुचरिततेजेन सुवकेन॥

येषां मातापितरौ सुश्रूषा अंजलिः प्रणामः च।

कर्तव्यं काशिवर्धन यदि इच्छन्ति स्वगं गन्तुं॥

अस्मिं हम्बुद्वीपे रत्नानि आहरित्वा सर्वाणि।

पूजय मातापितरं मातापितॄषु न प्रतिकुर्यात्॥

एवं न सुप्रतिकरं भणामि मातापितुं महाराज।

अनुकम्पाहि एते पूर्वाचार्या च लोकस्य॥

देवानामिव तेषां सन्नमितव्यं मनुष्यदेवानां।

येषां मातापितरौ लमन्ति पूजां न ते शोच्या॥

या सा अभूषि माता तं कालं सा अभूत्तदा माया।

शुद्धोदनो स राजा पिता भगवतो तदा आसि॥

यो सो महानुभावो समुत्थितो तेन सत्यवाक्येन।


p. 231


सो आसि बोधिसत्वो भगवां श्यामो हि तं कालं॥

यो सो अभूषि राजा तं कालं सो अभूषि आनन्दो।

भगवतो ज्ञाति प्रेष्यो बहूनि जातीसहस्राणि॥

नायं क्व पि संबुद्धो नापि च स्वयंप्रतिभञ्जितग्रन्थो।

भूतं हि तद् भगवतो पूर्वचरितधर्मनिष्पत्तिः॥


समाप्तं श्यामकजातकं॥


बोधिसत्वो उरुविल्वाये तपोवने दुष्करं चरति। एकेन कोलेन दिवसं यापेन्तो अष्टादश मासां कोलाहरताये प्रतिपन्नः। एकेन तिलेन दिवसं यापेन्तो अष्टादश मासां तिलाहरताये प्रतिपन्नो। एकेन तण्डुलेन दिवसं यापेन्तो अष्टादश मासां तण्डुलमाहरताये प्रतिपन्नो। अष्टादश मासा सर्वशो अनाहरताये प्रतिपन्नः॥


एकं कोलं तस्य भक्षं एकं तिलकतण्डुलं।

क्वचि स्य सम्बुद्धज्ञानं न वीर्यवन्ते संश्रये॥

कालशीतको सर्वो व एवं अंगानि से अभूत्।

विष्कम्भे यथोष्ट्रपदं हनुका से तदा अभू॥

जीर्णगोपानस्यान्तरिका ओशीर्णा पार्श्वके यथा।

एवं कायं महर्षिस्य तपेन परिशोषितं॥

वेष्टनवेणीव दीर्घ उन्नतावनता यथा।

एवमस्य पृष्ठि कण्ठश्च उन्नतावनता अभूत्॥


p. 232


तस्य नेत्रा प्रकाशन्ति उदुपाने व तारका।

गम्भीरं स्य तदाश्वासं कर्माराणां व गर्गरी॥

सारदं वा यथालंबु हरितच्छिन्नमिलायितं।

एवं शीर्षं महर्षिस्य तपेन प्रमिलायितं॥

शान्तकायो महावीरो अश्रुतं आत्मचेतसं।

उग्र तपं निषेवते सर्वसत्वान कारणा॥

न शक्यं च परिकीर्तयितुं सर्ववाचाय भाषतः।

यं दुष्करं चरे वीरो सत्वां दृष्ट्वान दुःखितान्॥

पक्षिर्वा च यथाकाशे पर्यन्तं नाधिगच्छति।

यथापि सागरे वारि अप्रमेयो महोदधिः॥

एवं लोकप्रदीपानां बुद्धानादित्यबंधुनां।

न शक्यं गुणपर्यन्तं सर्ववाचाय भाषितुं॥

अनालिप्ता छवी तस्य पृष्ठीमुपलेपिता।

गात्रा च पतिता सर्वे न च वीर्यतो संसति॥

गृह्णीय पुरिमं कायं पृष्ठिमं परिगृह्णति।

यदा उत्थासि वेगेन मुखेन प्रपते मुनि॥

चत्वारि देवता दृष्ट्वा कायं वीरस्य दुर्बलं।

आहन्सु मुनि कालगतो न च वीर्यतो सन्सति॥

एवंरूपं तपमुग्रं चरन्ते पुरुषोत्तमे।

विस्मयं लोक आपन्नो सदेवासुरमानुषो॥


p. 233


एतमेवंरूपं उग्रतपं कुमारस्य श्रुत्वा राजा शुद्धोदनो आपृष्टपुरुषाणां सकाशातो महाप्रजापती च गौतमी यशोधरा च सर्वं शाक्यराष्ट्रं उत्कण्ठिता। अपि च नाम कुमारो क्षेमेण तावदुग्रातो तपातो वुत्थितो येय॥ यशोधराये पि एतदभूषि। न एतं मम साधु भवेय न प्रतिरूपं यमहं आर्यपुत्रेण दुःखितेन दुष्करं चरन्तेन तृणसंस्तरकेन लूहाहारेण अहमिह राजकुले राजार्हाणि भोजनानि भुंजेयं राजारहाणि पानानि पिबेयं राजार्हाणि वस्त्राणि धारयेयं राजार्हाणि शय्यासनानि कल्पयेयं॥  यं नूनाहं पि लूखं च आहारं आहरेयं प्राकृतान् चा वस्त्राणि धारयेयं तृणसंस्तरे पि शय्यां कल्पयेयं॥ सा दानि लूखं च आहारं आहरेसि प्राकृतानि पि वस्त्राणि धारयेसि तृणसंस्तरके पि शय्यां कल्पयेसि॥


यदा च भगवां प्रवृत्तप्रवरधर्मचक्रो राजगृहे विहरति अर्धत्रयोदशभिक्षुशतपरिवारितो तदा राज्ञा शुद्धोदनेन च्छन्दको च कालोदायी च राजगृहं प्रेषिता भगवतो दूता। अनुकम्पिता भगवता देवा मनुष्या च ज्ञातीं पि भगवाननुकंपतु। यं च भगवां वदेय्य तं करेथ॥ ते पि कपिलवस्तुनो राजगृहमनुप्राप्ता भगवन्तं च उपसंक्रान्ता यं च राज्ञो शुद्धोदनस्य संदेशं सर्वस्य ज्ञातिवर्गस्य तं सर्वं भगवतो आरोचितं॥ भगवां च कालज्ञो वेलज्ञो समयज्ञो कालं च वेलं च समयं च आगमयति जातिभूमिं गमनाये॥ भगवां छन्दककालोदायीनामन्त्रयति॥ प्रव्रजिष्यथ च्छन्दककालोदायी॥ ते अवचंसु॥ राज्ञा शुद्धोदननेन आणत्ता यं वो भगवां वदेय्य तं कुर्याथ॥ यं च पश्यन्ति नाप्यत्र नापितो नापि काषायाणि 


p. 234


येहि प्रावृता प्रव्रजेयामः ते भगवन्तमनुवर्तन्ता आहन्सुः॥ प्रव्रजिष्यामः भगवन्॥ ते दानि भगवता एहिभिक्षुकाय आभाष्टा॥ एहथ भिक्षवः छन्दककालोदायी चरथ तथागते ब्रह्मचर्यं॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यं किंचिद् गृहिलिंगं गृहिध्वजं गृहिगुप्ति गृहिकल्पं सर्वं समन्तरहितं त्रिचीवरा च प्रादुर्भूता सम्भृतं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो च सानं संस्थिहे तद्यथापि नाम वर्षशतोपसम्पन्नानां भिक्षूणां एषा आयुष्मन्तानां छन्दककालोदायिनां प्रव्रज्या उपसम्पदा भिक्षुभावो॥


आयुष्मां उदायी भगवन्तमाह॥ भगवं यशोधरा भगवतो अनुव्रता भगवतो तपोवने दुष्करं चरन्तस्य यशोधरापि लूखं आहारमाहरेसि प्राकृतानि च वस्त्राणि धारेसि राजारहाणि शय्यासनानि उत्सृज्य तृणसंस्तरके सेय्यां कल्पेसि॥ भिक्षू भगवन्तं पृच्छन्ति॥ कथं भगवं यशोधरा भगवतो अनुव्रता॥ भगवानाह॥ न भिक्षवो एतरहिं एव यशोधरा मम अनुव्रता॥ अन्यदापि यशोधरा मम अनुव्रता॥ भिक्षू आनन्सुः॥ अन्यदापि भगवं॥ भगानाह॥ अन्यदापि हि भिक्षवो॥


भूतपूर्वं भिक्षवो अतीतमध्वाने अन्यतरस्मिं अरण्यायतने शिरिप्रभो नाम मृगो प्रतिवसति प्रासादिको दर्शनीयो सुसंस्थितशरीरो रक्तेहि खुरेहि रक्तेहि पादेहि अंजितेहि अक्षीहि पंचशतमृगयूथं परिहरति॥ तस्य दानि मृगराज्ञो अग्रमहिषी। सा तस्य प्रभावानुरक्ता अनुव्रता च॥ तेन मृगेण मुहूर्तमपि विनाभावो न भवति॥ अपरो न नीलको नाम लुब्धको। तेन तहिं अरण्यायतने मृगाणां 


p. 235


पाशा ओड्डिता॥ सो शिरिप्रभो तेन महन्तेन मृगयूथेन संपरिवारितो तहिं अरण्यायतने चरमाणो बद्धो॥ सर्वे च मृगा च मृगी च मृगराजं बद्धं दृष्ट्वा पलाना एका मृगी या तस्य मृगराज्ञो भक्तिमन्ता च अनुव्रता सा स्थिता न पलायति। सा च मृगी शिरिप्रभं गाथयाध्यभाषे॥


विक्रमाहि शिरिप्रभा विक्रमाहि मृगाधिप।

पुरा सो लुब्धको एति येन सो पाशो ओड्डितो।

छिन्दे वारचक्रं पाशं न रमिष्यं त्वया विना॥

अथ भिक्षवो शिरिप्रभो मृगराजा तां मृगीं गाथाय प्रत्यभाषे॥

विक्रमामि न शक्नोमि भूमौ पतामि वेगितो।

दृढो वारत्रको पाशो पादं मे परिकर्तति॥

रमणीयान्यरण्यानि पर्वतानि वनानि च।

रमिष्यसि तुवं भद्रे अन्येन पतिना सह॥


अथ खलु भिक्षवः सा मृगी तं मृगराजं गाथाय प्रत्यभाषति॥


रमणीयान्यरण्यानि पर्वतानि वनानि च।

रमिष्याम्यहं त्वया सार्धं अपि अन्यासु जातिषु॥

तेषां च विलपन्तानां श्रुत्वान च विक्रन्दतां।

लुब्धको तत्र सो गच्छि पापकर्मा सुदारुणो।


सो दानि मृगराजा तं पश्यति लुब्धकं तदा दूरतो एव आगच्छन्तं कृष्णं पाण्डुरेहि 


p. 236


दन्तेहि रक्ताक्षं पुरुषादसमं नीलाम्बरधरं दृष्ट्वा च पुन तां मृगीं गाथाय प्रत्यभाषे॥ 


अयं सो लुब्धको एति कृष्णो नीलाम्बरप्रावृतो।

यो मे चर्मं च मान्सं च च्छिन्दित्वा मह्यं हनिष्यति॥


तस्याविदूरे सा मृगी येन सो लुब्धको तेन प्रत्युद्गम्य तं लुब्धकं गाथाये अध्यभाषे॥


संस्तराहि पलाशानि असिं आवृह लुब्धक।

मम पूर्वं बधित्वान पश्चा हिंसि महामृगं॥


अथ खलु भिक्षवो तस्य लुब्धकस्य एतदभूषि॥ मम दूरतो एव मृगा दृष्ट्वा पलायन्ति अदर्शनं गच्छन्ति इयं पुनर्मृगी अतीव अनुत्त्रस्ता आत्मत्यागं कृत्वा अभिमुखी आगच्छति नैषा मायति नापि पलायति॥ सो दानि लुब्धको तस्या मृगीये विनयं दृष्ट्वा विस्मित आश्चर्यं प्राप्तो। यादृशी इयं मृगी। अस्माकं न ते गुणाः ये एतेषां। न ते तिरिच्छा येषां इमं एदृशं गुणमाहात्म्यं एदृशा दृढचित्तता एदृशा कृतज्ञता एदृशा च अनुव्रतता मुखतुण्डकेन आहारं पर्येषन्तो वयं तिरिच्छा ये वयं एदृशं महात्मानं मृगं उपयाता नाम हेठां उत्पादेम। मा वहेष्यं एतं मृगं पाशतो॥ सो दानि लुब्धको तां मृगीं गाथाये प्रत्यभाषति॥


न मे श्रुतं वा दृष्टं वा यं मृगी भाषति मानुषं।

त्वं च भद्रे सुखी भोहि मुंचामि ते महामृगं॥


तेन दानि लुब्धकेन सो शिरिप्रभो मृगराजा पाशबद्धो मुक्तो॥ सा दानि मृगी तं


p. 237


मृगराजं मुक्तं दृष्ट्वा आत्तमना प्रमुदिता प्रीरिसौमनस्यजाता लुब्धकं गाथाये प्रत्यभाषे॥


एवं लुब्धक नन्दाहि सह सर्वेहि ज्ञातिहि।

यथाहं अद्य नन्दामि दृष्ट्वा मुक्तं महामृगं॥

पूर्वेनिवासं भगवां पूर्वेजातिमनुस्मरन्।

जातकमिदमाख्यासि शास्ता भिक्षूणमन्तिके॥

ते स्कन्धा ते च धातवः तानि आयतनानि च।

आत्मानमधिकृत्य भगवानेतमर्थं वियाकरे॥

अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा।

शिरिप्रभो अहं आसि मृगी आसि यशोधरा॥

आनन्दो लुब्धको आसि एवं धारयथ जातकं॥

एवमिमं अनुपरीतं बहुदुःखं 

उच्चनीचचरितं इदं पुराणं।

विगतज्वरो विगतभयो अशोको 

स्वजातकं भाषति भिक्षुसंघमध्ये॥


समाप्तं शिरिप्रभस्य मृगराजस्य जातकं॥


अथ बोधिसत्वं दानि उरुविल्वायां तपोवने नद्या नैरंजनायास्तीरे दुष्करचारिकां चरन्तं मारो पापीयां उपसंक्रम्य वदयति॥ किं प्रहाणेन करिष्यसि अगारमध्ये वस। राजा भविष्यसि चक्रवर्ति। महायज्ञानि च यजाहि अश्वमेधं पुरुषमेधं सोमप्रासं निरर्गडं पदुमं पुण्डरीकं च। एतानि यज्ञानि यजित्वा प्रेत्य स्वर्गेषु मोदिष्यसि बहु च पुण्यं प्रसविष्यसि। प्रहाणं च दुष्करं दुरभिसंभणं अन-


p. 238 


व्द्यपुण्यपारिहाणि ब्रह्मचर्यवासं॥ बोधिसत्वो आह॥ नाहं पापीमं पुण्येहि अर्थिको।


रमणीयान्यरण्यानि वनगुल्मां च पश्यिय।

उरुविल्वाय सामन्ते प्रहाणं प्रहितं मया॥

परिक्राम्य व्यायमन्तं उत्तमार्थस्य प्राप्तये।

नमुचि करुणां वाचं भाषमाण इहागमत्॥

कृशो त्वमसि दुर्वर्णो सन्तिके मरणं तव।

संहर महाप्रहाणं च आशा तुल्य जीविते॥

जिवीतं ते हितं श्रेष्ठं जीवन्पुण्यानि काहिसि।

करोहि पुण्यानि तानि येन प्रेत्य न शोचसि॥

चरन्तेन ब्रह्मचर्यं अग्निहोत्रं च जुहूता।

अनन्तं जायते पुण्यं किं प्रहाणेन काहिसि॥

दूरं आशा प्रहाणस्य दुष्करं दूरभिसंभुणं।

इमां वाचां भणे मारो बोधिसत्वस्य सन्तिके॥

तं तथा इदानि मारं बोधिसत्वो ध्यभाषत।

कृष्णबन्दुः पापिमं नाहं पुण्यार्थिको इहागतः॥

अणुमात्रैः पुण्यैः अर्थो मह्यं मार न विद्यति।

येषां तु अर्थो पुण्येहि कथं तां मार न वद्यसि॥

नाहं अमरो ति मन्यामि मरणान्तं हि जीवितं।

अनिवर्तं गमिष्यामि ब्रह्मचर्यपरायणः॥ 


p. 239


नदीनामपि श्रोतांसि अयं वातो व शोषयेत्।

किं मम प्रहितात्मस्य शोणितं नोपशोषये॥

शरीरं उपशुष्यति पित्तं श्लेष्मं च वातजं।

मान्सानि लोहितं चैव अवजीर्यतु सांप्रतं॥

मान्सेहि क्षीयमाणेहि भूयो चित्तं प्रसीदति।

भूयो स्मृति च वीर्यं च समाधि चावतिष्ठति॥

तस्य चैवं विहरतो प्राप्तस्य उत्तमं पदं।

नायमत्र क्षतं कायं पश्य सत्वस्य शुद्धतां॥

अस्ति च्छन्दो च वीर्यं च प्रज्ञा च मम विद्यति।

नाहं तं पश्यामि लोके यो प्रहाणातो वारये।

. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .।

एषो सज्जो प्राणहरो धिग्ग्राम्यं नो च जीवितं॥

तस्मा स्मृतिमन्तो सन्तो संप्रजानो निरोपधिः।

. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .॥

एषो हं च परं चित्तं भावयित्वान योधने।

बलेन वनं भिन्दित्वा अनुष्ठेयमनुष्ठितो॥

अहं बोधितरोरधस्तात् अप्राप्ते अमृते पदे।

दृष्टा नमुचिनो सेनां सन्नद्दामुत्सृतध्वजां॥


p. 240


युद्धाय प्रतियास्यामि नाहं स्थानार्थमुपाविशे।

तामहं निवर्तिष्यामि सेनां ते अनुपूर्वसः॥

कामा ते प्रथमा सेना द्वितीया आरति वुच्चति।

तृतीया क्षुत्पिपासा च चतुर्थी तृष्णा वुच्चसि॥

पंचमा स्त्यानमिद्धं ते षष्ठी भीरु प्रवुच्चति।

सप्तमा विचिकित्सा ते मानार्थो भोति अष्टमा।

लोभो ति श्लोको सत्कारो मिथ्यालब्धो च यो यशो॥

एषा नमुचिनो सेना सन्नद्धा उच्छ्रितध्वजा।

प्रगाढा अत्र दृश्यन्ते एके श्रमणब्राह्मणाः॥

न तामशूरो जयति जित्वा वा अनुशोचति।

तां प्रज्ञाय ते भेत्स्यामि आमपात्रं व अम्बुना॥

वशीकरित्वान ते शल्यं कृत्वा सूपस्थितां स्मृतिं।

आलब्धवीर्यो विहरन्तो विनेष्यं श्रावकां पि तु॥

प्रमादमनुयुजन्ति बाला दुर्मेधिनो जना।

गंसामि ते अकामस्य यत्र दुःखं निरुध्यति॥

तस्य शोकपरीतस्य विनाशं गच्छि उच्छ्रिति।

ततश्च दुर्मनो यक्षो तत्रैवांतरहायिथा॥


यथा बोधिसत्वो संप्रजानं मृषावादं भयभीतो संप्राजानमृषावादमेव विजुगुप्स-


p. 241


न्तो अलमिति च तां देवतां प्रतिक्षिपित्वा अनुसुखं औदरिकमाहारं अभ्यवहृतो ततो पंचका भद्रवर्गीया निर्विद्य प्रत्यवक्रान्ताः॥ समाधितो विभ्रष्टो श्रमणो गौतमो शैथिलिको बाहुलिकं पुन औदरिकमाहारमभ्यवहृतं॥


मारो पि पापीयां षड्वर्षाणि बोधिसत्वस्य दुष्करचर्यां चरन्तस्य पृष्ठतो पृष्ठतो समनुबद्धो अवतारार्थी अवतारं गवेषी॥ सो पि बोधिसत्वस्य षड्वर्षाणि अनुबद्धन्तो अलभन्तो वतारं अलभन्तो आलम्बणं अलभन्तो अभिनिवेशनं निर्विद्य प्रत्यवक्रान्तो॥


यन्तत्र तत्र मारो न प्रसहे मारुतो न हिमवन्तं।

तं मृत्युराजप्रणुदं पूजयति सदेवको लोको॥


भिक्षू भगवन्तमाहंसुः॥ मोक्षाभिप्रायेण भगवता दुष्करं चीर्णं॥ भगवानाह॥ न भिक्षवो एतर्हि एव मये मोक्षाभिप्रायेण दुष्करं चीर्णं॥ भिक्षू आहन्सुः॥ अन्यदापि भगवं॥ भगवानाह॥ अन्यदापि भिक्षवो॥


भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे शाकुन्तिको शकुना निगृह्णीय अरण्यायतनेषु जालेहि च पाशेहि च पंजरेहि च उपरुध्य निवापेन पानीयेन च पोषिय पोषिय वड्डवड्डानि कृत्वा इष्टेन अर्घेन विक्रीणति॥ तहिं अपरो शकुन्तको गृह्णीयान पंजरे उपरुद्धो॥ सो दानि शकुन्तको पण्डितजातिको पश्यति ये ते शकुन्तका पूर्वे प्रक्षिप्ता पंजरे निवापपुष्टा वड्डवड्डा ते जनेन क्रिणिय ततः पंजरेहि कड्डियन्ति॥ सो पश्यति सकुन्तको पण्डितजातिको। न एष अस्माकं शाकुन्तिको हितकामताये निवापं वा पानीयं वा देति अर्थहेतोः एष अस्माकं निवापं वा उदकं वा देति। यदा वड्डावड्डा भवेन्सुः ततो इष्टेन अर्घेन विक्रीये-


p. 242


न्सुः। तदहं तथा करिष्यामि यथा मे न कोचित्क्रीणिष्यति अधिकारं पि मे अलभमानो न कोचि गृह्णीष्यति॥ तत्तकं आहारं करिष्यामि यथा नैवं वड्डीभविष्यामि न वा मरिष्यामि॥ सो दानि तत्तकं आहारं परिभुंजति उदकं तत्तकं पिबति यथा नैव वड्डीभवति नापि मरति चापि॥ पुरुषो शकुन्तकानां क्रयिको आगच्छति॥ ततो सो शकुन्तको तस्य पंजरस्य द्वारस्य अग्रतो एवन्तिष्ठति॥ सो शकुन्तक्रयिको पुरुषो हस्तं पंजरे प्रक्षिपित्वा तं शकुन्तकं परामृशति न च तंमान्सं हस्तेन गच्छति उत्तोलेति न च गुरुको॥ ततः पंजरातो एकान्तेन कृत्वा अन्ये वड्डवड्डा शकुन्तका गुरुका ततो निलयं गृह्णति। तं शुष्कशकुन्तको ति ग्लानको ति कृत्वा न कोचि तं ऱ्ह्णाति॥ सो पि शाकुंतिको पश्यति। भवितव्यं स एष शकुन्तको ग्लानो ति यदा एषो ग्लानभूतो मुक्तो भविष्यति ततो निवापं च बहुतरक भूंजिष्यति उदकं च बहुतरकं पिबिष्यति। ततः वट्टीभूतो समानो विक्रास्यति॥ मा एषो अन्यानपि शकुन्तकां ग्लानां करिष्यति संसर्गेन पंजरातो निष्कुट्टिय वाह्यतो पंजरस्य अत्तीयति पाटियेकं निवापं लभति पाटियेकं पानीयं लभति यं वेलं वट्टो भविष्यति ततो विक्रयिष्यतीति॥


सो पि पण्डितो शकुन्तको तस्य शाकुन्तिकस्य विस्रग्भेसि। यं वेलं सो शाकुन्तिको तं पंजरद्वारं मुंचति शकुन्तकानामर्थाये निवापस्य वा अर्थाये उदकस्य वा ततः सो शकुन्तको अप्यज्ञातो व तं पंजरं प्रविशति। यं वेलं सो परोक्षो भवति


p. 243


ततो स्वयं तं पंजरं प्रविशति। यदापि पंजरकातो निष्क्रमितुकामः भवति ततो स्वयमेव निर्धावति। तं न कोचि ग्लानको ति कृत्वा निवारेति॥ सो दानि शकुन्तको तथा दुरबलशरीरो यथा ततो पंजरातो उद्वारेणापि प्रविशति विनिष्क्रमति पि ते पि तं शकुन्तको ग्लानको ति कृत्वा उपेक्षन्ति॥ सो दानि यं वेलं जानति स्म विश्वस्ता मम एते शाकुन्तिका ति बहुतरकं च निवापं चरति बहुतरकं च पानीयं पिबति याव शक्यं पलायितुं दूरं उड्डीयितुं॥ सो दानि यं वेलं समुत्साहीभूतो अयं मे कालो पलायितुं ति सो तस्य पंजरस्य उत्तरिं स्थित्वा ताये वेलाये तेषां शकुन्तकानां पुरतो इमां गाथां अध्यभाषे॥


नाचिन्तयन्तो पुरुषो विशेषमधिगच्छति।

पश्य चिन्ताविशेषेण मुक्तो स्मि च स्वबन्धनात्॥


सो शकुन्तको एतां गाथां भाषित्वा ततो शाकुन्तिकस्य गृहातो उत्पत्तित्वा पुनः अरण्यं गतो॥


भगवानाह॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन पण्डितजातिको शकुन्तको अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं सो भिक्षवस्तेन कालेन तेन समयेन पण्डितजातिको शकुन्तको अभूषि॥ अन्यो सो तेन कालेन तेन समयेन शाकुन्तिको अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एष भिक्षवो मारो पापीयां तेन कालेन तेन समयेन सो शाकुन्तिको अभूषि॥ तदापि मया एतस्य मारस्य शाकुन्तिकस्य पंजरातो मोक्षाभिप्रायेण दुष्करं चीर्णं 


समाप्तं शकुन्तकजातकं॥


p. 244


भिक्षू भगवन्तमाहन्सुः॥ बुद्धिविशेषेण भगवान् शकुन्तभूतो मारस्य हस्तगतो वशगतो पंजरगतो मुक्तो॥ भगवानाह॥ अन्यदापि बुद्धिविशेषेण एतस्य मारस्य हस्तगतो वशगतो करण्डकगतो मुक्तो॥ भिक्षू आहन्सुः॥ अन्यदापि भगवं॥ भगवानाह॥ अन्यदापि भिक्षवः॥


भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे परिपात्रिका नाम नदी॥ तस्या कूले अपरमालाकारस्य वनमालं। असौ दानि मालाकारो मालस्यैव तं वेलं वनमालमागत्वा पुष्पाणि उद्विचिय पुष्पकरण्डकमादाय मालाकारणातो निर्धावति ग्रामाभिमुखो च प्रस्थितो॥ ततो च नदीतो कच्छपो उद्धरित्वा गोमयं भक्षयति तस्य मालाकारस्य अविदूरे॥ सो तंमालाकारेण दृष्टो। तस्य एतदभूषि। शोभनो मम अयं अद्य कच्छपो ओलंको भविष्यति॥ तेन दानि तं पुष्पकरण्डं एकान्ते स्थपिय सो कच्छपो गृहीतो॥ सो तं तहिं पुष्पकरण्डे प्रक्षिपति। तं च सो कच्छपो मानुषिकाये वाचाये आह॥ इमाहं कर्दमम्रक्षितो ततो मयेत पुष्पं कर्दमेन विनाशिष्यति। अत्र मे उदके धोवित्वा करण्डे प्रक्षिप। तदेते पुष्पा न विनास्यन्ति॥ सो दानि मालाकारो पश्यति॥ शोभनो खल्वयं कच्छपो गच्छामि तं अत्र उदके धोवामि। ततो एषा पुष्पाणि न विनाखल्वयं कच्छपो गच्छामि तं अत्र उदके धोवामि। ततो एषा पुष्पाणि न विनाश्यन्ति कर्दमेन॥ सो पैतृकविषये शुण्डिकापंचमानि अंगानि प्रसारेत्वा तस्य मालाकारहस्तातो भ्रष्टो॥ तहिं उदको गाढो ताये नदीये अविदूरे तटमुदेत्वा तं मालाकारं गाथाये ध्यभाषति॥


p. 245


निरामया पारिपात्रि कृषिकारणा च कूलेन शक्तितो।

कर्दमकृतो स्मि मालिक धोविय पेलाय मां प्रक्षिप॥


अथ खलु भिक्षवः स मालाकारो कच्छपं गाथाये प्रत्यभाषति॥


बहुका मये संचितासु राज्ञा त्रिगणो बहुको समागतो।

तत्र तुवं भद्र कच्छप करण्डे मालकृते रमिष्यसि॥


अथ खलु भिक्षवः स कच्छपस्तं मालाकारं गाथाये अध्यभाषे॥


बहुका तव संचितासु राज्ञा त्रिगणो बहुको समागतो।

मत्तो प्रलपसि मालिक तैले भुंजथ भद्रकच्छपं॥


भगवानाह॥ स्यात्खकु भिक्षवः पुनर्युष्माकं एवमस्यादन्यः स तेन कालेन तेन समयेन भद्रकल्पो अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं सो भिक्षवः तेन कालेन तेन समयेन कच्छपो अभूषि॥ अन्यः स तेन कालेन तेन समयेन मालाकारो अभूषि। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। एषो सो भिक्षवो मारो पापीयां तेन कालेन तेन समयेन सो मालाकारो अभूषि॥ तदापि अहं एतस्य मालाकारस्य हस्तातो बुद्धिविशेषेण मुक्तो। एतरहिं पि अहं एतरस्य मारस्य विषयातो बुद्धिविशेषेण मुक्तो॥


समाप्तं कच्छपजातकं॥


अपि च न भिक्षवः एतरहिं एव एतस्य विषयातो मुक्तो अन्यदाप्यहं एतस्य हस्त-


p. 246


गतो विषयातो प्रमुक्तो॥ भिक्षू आहन्सुः॥ अन्यदापि भगवन्॥ भगवानाह॥ अन्यदापि भिक्षवः॥


भूतपूर्वं भिक्षवो अतीतमध्वाने समुद्रकूले महावनखण्डं नानावनषण्डेहि नानावर्णेहि वृक्षेहि पुष्पफलोपेतेहि उदुम्बरबहुलेहि उपशोभितं॥ तहिं वानरो महान्तस्य वानरयूथस्य यूथपतिः॥ सो तत्र वनषण्डे तेन वानरयूथेन सार्धं प्रतिवसति शान्ते प्रविविक्ते बहुमृगपक्षिशतेहि निषेविते निर्मनुष्यचरिते॥ सो च वाराधिपो तहिं समुद्रकूले महान्ते उदुम्बरवनवृक्षे शाखापलाशबहुले उदुम्बराणि भक्षयति॥ ततो च समुद्रातो महान्तो शुशुमारो तं प्रदेशमागतो॥ स तत्र समुद्रतीरे आसति। तेन वानराधिपेन दृष्टो॥ तस्य शुशुमारं दृष्ट्वा कारुण्यं संजातं। कुत्र व तेषां जलचराणां समुद्रमध्ये पुष्पो वा फलो वा। यं नूनमस्य इतो हं उदुम्बरफलानि  ददेहं॥ सो दानि तस्य ततो उदुम्बरवृक्षातो वड्डवड्डानि उदुम्बराणि पक्वानि वर्णसंपन्नानि रससंपन्नानि अग्रतो पातेति निपतितनिपतितानि च उदुम्बराणि भक्षयति॥ एवं शुशुमारो पुनःपुनो तं प्रदेशं तस्य वानरस्य समीपं आगच्छति॥ सो तस्य वानराधिपो आगतागतस्य वृक्षातो उदुम्बराणि पातेति॥ ते दानि उभये वानरो च शुशुमारो च परस्परस्य प्रियमाणा संजाता॥ तस्यापि दानि शुशुमारस्य भार्या तं स्वामिं अपश्यन्ती उत्कण्ठयति॥ भवितव्यं मम स्वामिकेन अन्या शुशुमारी प्रगृहीता॥ ततः सो मम मूलातो गत्वा ताये सार्धं आसति॥ सा दानि तं स्वामिकं पृच्छति॥ कहिं त्वं मम मूलातो गत्वा आससि॥ सो तामाह॥ समुद्रतीरे अमुकस्मिं उद्देशे महावनखण्डे तत्र मम वानरो मित्रो


p. 247


तेन सह आलापसंलापेन आसामि॥ तस्या दानि शुशुमारीये एतदभूषि॥ याव सो वानरो जीविष्यति तावदेषो मम स्वामि तहिं गत्वा वानरेण सार्धं आलापेन आसिष्यति। ततो तं वानरं मारापेमि तेन च मारितेन एषो मे स्वामिको न भूयो तं प्रदेशं गमिष्यति॥ सा दानि शुशुमारी ग्लानकं कृत्वा आसति॥ सो तां शुशुमारो पृच्छति॥ भद्रे किं ते कृत्यं किन्ते दुःखं किन्ते अभिप्रेतं आख्याहि किन्ति देमि आणपेहि॥ सा नं आह॥ आर्यपुत्र मर्कटहृदयस्य मे दोहलो। यदि मर्कटस्य हृदयं लभामि एवं जीवेय अथ न लभामि नास्ति मे जीवितं॥ सो नां आह॥ प्रसादं करोहि कुतो इह समुद्रे मर्कटस्य प्रचारो यदि अन्यस्मिं अभिप्रायो जलचरे तव उपस्थपेमि॥ सा दानि आह॥ न मे अन्यत्र अभिप्रायो मर्कटहृदये अभिप्रायो तन्मे उपस्थपेसि यदि इच्छसि मे जीवन्तीं॥ सो नां पुनः पुनो संज्ञपयति॥ प्रसीदाहि भद्रे कुतो इह उदकमध्ये मर्कटो॥ सा दानि॥ यो सो तव समुद्रकूले मर्कटो वयस्यो स्य वयस्यस्य हृदयं आनेहि॥ सो आह॥ प्रसादं करोहि सो मर्कटो मम वयस्यो च मित्रो च कथं अहं शक्यामि तस्य हृदयमुत्पाटयितुं॥ सा दानि आह॥ यदि न शक्नोसि मम मर्कटहृदयमुपस्थपयितुं नास्ति मे जीवितं॥ सो दानि शुशुमारो ताये शुशुमारीये सुष्टु उपग्रहीतो समानो आह॥ अहं जलचरो सो च मर्कटो स्थलचरो च वनचरो च यत्र चरति तत्र मम अगति। तत्कथं अहं शक्यामि तस्य मर्कटस्य हृदयमानयितुं॥ यथोक्तं पण्डितेहि॥


शतं माया क्षत्रियाणां ब्राह्मणानां दुवे शते।

सहस्रं माया राजानां स्त्रीणां माया अनन्तिका इति॥


p. 248  


सा दानि तस्य शुशुमारस्य आह॥ एते वानरा फलभक्षा फललोला तस्य वानरस्य जल्पाहि। वयस्य एत्थ समुद्रपारे नानावर्णानि वृक्षाणि नानाप्रकाराणि पुष्पफलपिण्डभारभरितानि आम्राणि जम्बूनि च पनसानि भव्यानि च पालेवतानि च क्षीरकानि च तिन्दुकानि पिप्पलानि च। आगच्छ तत्र त्वां नेष्यं  नानाप्रकाराणि फलानि परिभुंजिष्यसि। ततो यदा तव हस्तगतो भवेय ततो तं मारित्वा हृदयं आनेसि॥ तेन दानि शुशुमारेण अभ्युपगतं॥ आनेष्यन्तस्य मर्कटस्य हृदयं प्रीता भवाहि न भूयो उत्कण्ठं करोहि मा परितप्यासि॥ 

सो दानि शुशुमारो तां भार्यां च आश्वासेत्वा तं प्रदेशं गतो यहिं सो वनषण्डे वानराधिपो प्रतिवसति॥ सो दानि वानराधिपेन शुशुमारो दृष्टो। सो दानि वानरो तं दृष्ट्वा शुशुमारं प्रतिमोदित्वा पृच्छति॥ वयस्य किं दानि सुचिरेण आगतो अस्मा कमवलोकयितुं किं क्षेमं मा वा किंचित् शरीरपीडा आसि॥ सो दानि आह॥ वयस्य क्षेमं च न च किंचि शरीरपीडा आसि अपि मे समुद्रपारं गत्वा आगत्वा॥ सो तं पृच्छति कीदृशं समुद्रपारं भवति। शुशुमार आह॥ वयस्य रमणीयं समुद्रपारं नानाप्रकारेहि वृक्षसहस्रेहि पुण्यफलोपेतेहि उपशोभितं आम्रेहि च जंबूहि च पनसेहि च भव्येहि च पालेवतेहि उपशोभितं मातुलुंगेहि तिन्दुकेहि च पियालेहि च मधुकेहि च क्षीरिकेहि च अन्येहि च फलजातीहि येषामिह प्रचारो नास्ति। यदि तव अभिप्रायो आगच्छ नानाप्रकाराणि फलानि परिभोक्तुं तहिं गम्यते॥ तस्य दानि वानरस्य फलभुक्तस्य फललोलस्य नानाप्रकाराणि फलानि श्रुत्वा तहिं समुद्रपारे गमनबुद्धी उत्पन्ना॥ सो दानि तं शुशुमारमाह॥


p. 249


स्थलचरो कथं शक्येया समुद्रपारं गन्तुं। शुशुमारो आह॥ अहं ते नेष्यामि मम इह ग्रीवायामारुह्य उपशेहि उभयेहि च हस्तेहि कर्करीय लग्नेहि॥ सो दानि वानरो आह॥ एवं भवतु गच्छामि यदि मनेसि॥ सो दानि शुशुमारो आह॥ ओतराहि अहं ते नेमि॥ सो दानि वानरो उदुम्बरातो ओतरित्वा तस्य शुशुमारस्य ग्रीवायामारुह्य उभयेहि हस्तेहि कर्करीय लग्नो॥सो दानि शुशुमारो तं वानरं गृहीत्वा समुद्रं प्रतीर्णो नातिदूरे समुद्रस्य तं वानरं उदके चालेति॥ सो तं वानरो आह॥ वयस्य किं दानि मे उदके चालेसि॥ सो नं आह॥ वयस्य न जानासि कस्यर्थाय मया त्वमानीतो। तस्य मे वयस्यीये मर्कटहृदयस्य दोहलो। ततो मर्कटस्य् हृदयस्यार्थाय त्वं मया आनीतो। सा मे वयस्य भार्या तव हृदयं खादिष्यति। एवं त्वं मया आनीतो। सो दानि वानरो आह॥ वयस्य मम हृदयो उदुम्बरे उत्कण्ठितो स्थपितो यथा लहुकतरो समुद्रं तरेयं न च अतिभारो भवेयाति। तद्यदि ते अवश्यं मर्कटहृदयेन कार्यं ततो निवर्ताम ततो उदुम्बरातो तं 

मर्कटहृदयं ओतारियान दास्यामि॥ तस्य दा नि मर्कटस्य यथाजल्पन्तस्य तेन शुशुमारेण पत्तीयितं॥ सो दानि शुशुमारो तं गृह्लीय तहिं प्रतिनिवृत्तो क्षणान्तरेण तं वनखण्डप्रत्युद्देशमनुप्राप्तो॥ ततो वानरो तस्य शुशुमारस्य ओतराहि एतं अतो उदुम्बरातो हृदयं गृह्लीय॥ अथ खलु भिक्षवः सो वानरो तं शुशुमारं गाथाभिरध्यभाषे॥

वट्टो च वृद्धो च होसि प्रज्ञा च ते न विद्यते।

न तुवं बाल जानासि नास्ति अहृदयो क्वाचि॥


p. 250


प्रत्युत्पन्नेषु कार्येषु गुह्यमर्थं न प्रकाशयेत्।

लभन्ति पण्डिता बुद्धिं जलमध्ये व वानरः॥

अलमेतेहि आम्रेहि जंबूहि पनसेहि च।

यानि पारे समुद्रस्य अयं पक्वो उदुम्बरो॥

भगवानाह॥ स्यात्खलु भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेनसमयेन समुद्रतीरे वनषण्डनिवासी वानरो अभूषि। न खल्वेतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं सो भक्षवः तेन कालेन तेन समयेन समुद्रतीरे वनषण्डनिवासि तपरो अभूषि। अन्यः  स तेन कालेन तेन समयेन महासमुद्रे शुशुमारो अपापीमां पृष्ठतो नुपृष्ठतो समनुबद्धो ओतारार्थी ओतारगवेषी अलभन्तो च ओतारं निर्विद्य प्रत्यवक्रान्तो॥ भिक्षू भगवन्तमाहन्सुः॥ अन्यदापि हि भगवं॥ भगवानाह॥ अन्यदापि भिक्षवो॥

भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनप[८३]

 दे शाकु-

भिक्षू भगवन्तमाहन्सुः॥ पश्यं भगवन् कथमयं मारो पापीमां भगवतो तपोवने दुष्करचारिकां चरन्तस्य पृष्ठतो अनुबुद्धो ओतारार्थी ओतारगवेषी अलभन्तो च पापीमां पृष्ठतो नुपृष्ठतो समनुबुद्धो ओतारार्थीं ओतारगवेषी अलभन्तो च ओतारं निर्विद्य प्रत्यवक्रान्तो॥ भिक्षू भगवन्तमाहन्सुः॥ अन्यदापि हि भगवं॥ भगवानाह॥ अन्यदापि भिक्षवो॥

भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशीजनप[८३]दे शाकु-   


p. 251


न्तिकेन अरण्यायतने शकुन्तकानामर्थाये कालपाशा ओड्डिता निवापो प्रकीर्णो। ततः एकान्तं गत्वा तेषां पाशानां दर्शनपथे आसति॥ तहिं च अपरो शकुन्तको पण्डितजातिको अरण्यायतने महान्तं शकुन्तकयूथं परिहरति॥ तस्य शकुन्तस्य यूथपतिस्य बुद्धिविशेषेण तं शकुन्तकयूथं वर्धति न परिहीयति। स तेषां शकुन्तकानां परिरक्षति साकुन्तिकानामपि मूलातो चाण्डालकानामपि मूलातो मृगलुब्धकानामपि मूलातो विडालक्रोष्टुकानामपि मूलातो नकुलानामपि भंगकुलानामपि॥ सो दानि साकुन्तिकेन विगतेन शकुन्तकयूथेन सार्धं तहिं अरण्यायतने बिहरन्तो तहिं उद्देशे अनुप्राप्तो यत्र तेन शकुन्तिकेन तानि कालपाशानि ओड्डितानि तं च निवापं प्रकीर्णं॥ तेहि शकुन्तेहि तहिं उद्देशे चरमाणेहि तिलतण्डुलकोद्रवश्यामानां गन्धं घ्रायितं॥ ते दानि तस्य निवापस्य तं गन्धं घ्रायित्वा इतः इतो निरीक्षन्तेहि दृष्टं तं विवापं तहिं पि उद्देशे सानं परिसमन्ते दृष्टं॥ ते तं युथपतिं शकुन्ता आमन्त्रयन्ति॥ यूथपति अत्र उद्देशे तिलतण्डुलानि च क्रोद्रवश्यामाकानि गच्छाम परिभुंजाम॥ सो शकुन्तो तेषां शकुन्तकानामाह॥ मा गच्छिष्यथ अयं अरण्यायतनं न इहि निवापं तण्डुलानां कोद्रवश्यामाकानां वा प्रवृद्धि अथ क्षेत्रेषु एतानि चान्यजातानि भवन्ति तेषां केषांचित् न अरण्यायतने। नुनं अत्र देशे शाकुन्तिकेहि शकुन्तानामर्थाय कालपाशो ओड्डितो निवापो च प्रकीर्णं मा अत्र अल्लीयिष्यथ। येन अहं चरामि उद्देशेन तेन तेनापि चरथ॥ तेन साकुन्तिकेन तं महान्तं शकुन्तयूथं तहिं अरण्यायतने उपलक्षितो। ततो सो शाकुन्तिको दिवसे दिवसे अन्यमन्येहि प्रत्युद्देशेहि॥ येहि प्रत्युद्देशेहि तेषां शकुन्तकानां गमनो प्रविचारो तेहि उद्देशेहि देवसे दिवसे तानि कापाशानि ओड्डि-


p. 252


तानि निवापानि च प्रकिरेति। समन्तेन च यूथपति शकुन्तो तेषां शकुन्तानां तेहि तेहि प्रत्युद्देशेहि ततो कालपाशेहि निवापा च वारेति॥ एवं कापाशो[८३]कासा गच्छन्ति॥

तस्य शाकुन्तिकस्य तत्र अरण्यायतने तस्य शकुन्तयूथस्य गोचरे शकुन्तानां निवापार्थाय खिद्यन्तस्य बुभुक्षाये पिपासाये पि सन्तप्तस्य एवं भवति। इदानि बन्धिष्यति मुहूर्ते बन्धिष्यन्ति एते शकुन्ता एतेहि पाशेहि अल्लीयन्तीति। ते नं शकुन्ता यूथपतिस्य पृष्ठतो तेषां कालपाशानां परिसामन्तेन चरन्ति तच्च निवापं पश्यन्ति न च निवापपाशाभूमिं आक्रमन्ति सर्वकालं चरन्तो कालपाशेहि निवापातो च आत्मानं रक्षन्ति॥ शाकुन्तिको पि एको ततो पश्यति तां शकुन्तकां तेषां कालपाशानां परिसामन्तेन चरन्ता एवं च तस्य भवति। एते अल्लीयन्ति विकालं एते बन्धिष्यन्ति इदानि बन्धिष्यन्ति मुहूर्ते बन्धिष्यन्ति॥ एवं शाकुन्तिको तहिं अरण्यायतने तस्य शकुन्तयूथस्य गोचरातो दिवसे दिवसे बुभुक्षाये च पिपासाय च सन्तप्तो शुष्केन मुखेन स्फुटितेहि ओष्ठेहि शीतकालेन शीतेन दह्यन्तो उष्णकालेन उष्णेन पच्यन्तो वातातपेन दह्यन्तो खिज्जित्वा नित्यं विकालं क्षणितेन हस्तेन गृहं गच्छति हतो भवति।

स तु शकुन्तयूथ्ं दृष्ट्वा अखिज्जन्तं नित्यं तस्य शकुन्तयूथस्य गोचरे आगत्वा कालपाशानि च ओड्डेति निवापानि च प्रकिरेति॥ सो दानि ग्रीष्माणां पश्चिमे मासे तहिं अरण्यायतनं गत्वा तस्य शकुन्तयूथस्य गोचरे पुनः कालपाशे ओड्डित्वा  


p. 253


निवापानि च प्रकिरित्वा एकान्तं गत्वा कालपाशदर्शनपथे आसति॥ सो च शकुन्तो यूथपति शकुन्तयूथं परिहरन्तो तेन महन्तेन शकुन्तयूथेन सार्धं तेषां कालपाशानां निवापस्य च परिसमन्ते चरति॥ शकुन्तका भूयो तानि तिलतण्डुलानि पुनो पुनः पश्यन्ति दृष्ट्वा दृष्ट्वा तं यूथपतिं आपृच्छन्ति॥ इमानि तिलतण्डुलानि चरेम॥ यूथपति जल्पति॥ मा अत्र अल्लीष्यथ कुतो इह अरण्यायतने तिलानां वा [८४] तण्डुलानां वा प्रवृद्धि क्षेत्रेहि व तिलानि भवन्ति केदारेहि न शालिव्रीहितण्डुलानि भवन्ति अन्यानि च धान्यजातानि। मा अल्लीष्यथ अपक्रमथ इमातो उद्देशातो॥ सो पि दानि शाकुन्तिको पश्यति॥ एवं चिरं कालं मम इह अरण्यायतने एतेषां शकुन्तानामर्थाये खिज्जन्तस्य कालपाशानि च ओड्डेन्तस्य निवापानि प्रकिरेन्तस्य अल्पस्मिं एतस्मिं अरण्यायतनोद्देशे एवं चिरकालं विस्तीर्णो यत्र मया कालपाशानि च ओड्डितानि निवापानि च प्रकीर्णा न च कदाचिदेते शकुन्तका अत्र कालपाशेषु अल्लीयन्ति निवापानि वा चरन्ति॥ बहूनि वर्षाणि खिज्जन्तस्य शीतकाले शीतेन दह्यन्तस्य उष्णकाले उष्णेन पच्यन्तस्य वातातपेहि च हन्यन्तस्य बुभुक्षाये पिपासाये शुष्यन्तस्य मम न कदाचि एत्तकेहि वर्षेहि परिभ्रममाणस्य एवं महन्ततो शकुन्तयूथातो एको पि शकुन्तको हि हस्तमागतो॥ को उपायो भयेया येनाहमेतां शकुन्तकान्तेहि कालपाशेहि बन्धेयं॥ तस्य एतदभूषि॥ यन्नूनाहं पत्रशाखेहि परिवेठित्वा एतं शकुन्तकयूथं येन एते कालपाशा तेन आकालेयं॥

अथ खलु भिक्षवः सो शाकुन्तिको ग्रीष्माणां पश्चिमे मासे ग्रीष्मिकेहि वातात - 


p. 254


पेहि सन्तप्यन्तो क्षुत्पिपासापरिगतो पत्रशाखेहि आत्मानं परिवेष्टयित्वा तं महान्तं यूथं येन ते कलपाशा तेन संपरिकालेति॥ अथ खलु भिक्षवो ते शकुन्तका तं शाखान्तिकं वृक्षशाखेहि संपरिवेठितं अतिदूरेण परिसक्कन्तं दृष्ट्वा यूथपतिं आमन्त्रयेन्सुः॥ यूथपति एष वृक्षो इमस्य शकुन्तयूथस्य वाहिरवाहिरेण गच्छति॥ एवं स भिक्षवः यूथपति शकुन्तको तां शकुन्तां गाथाये अध्यभाषे॥

दृष्टा मया वने वृक्षा अश्वकर्णा विभीतका ।

एवं च कर्णिकारा पि मुचिलिन्दा च केतका॥

तिष्ठन्ते ते वने जाता अथायं गच्छते द्रुमो।

नायं केवलको वृक्षो अस्ति तत्रैव किंचन।

अथ खलु भिक्षवः सो शाकुन्तिको ग्रीष्माणां पश्चिमे मासे ग्रीष्मिकेहि वातातपेहि संतप्तो खिन्नो भग्नो मथितो ताये वेलाये गाथामध्यभाषि।

पुराणतित्तिरिको यं भित्वा पंजरमागतो। [८४]

कुशलो कालपाशानां क्रमापक्रमन्ति भाषति।

भगवानाह॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन तेषां शकुन्तकानां यूथपतिः परिकड्ढको पण्डीतजातिको शकुन्तको अभूषि। नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं भिक्षवस्तेन कालेन तेन समयेन शकुन्तयूथपति परिकड्ढको पण्डितजातिको शकुन्तको अभूषि॥ अन्यो सो शाकुन्तिको अभूषि। नैतदेवं द्रष्टव्यं। एष भिक्षवो मारो पापीमां तेन कालेन तेन समयेन 


p. 255


शाकुन्तिको अभूषि॥ तदापि एषो मम कालपाशानि च जालानि च निवापानि च ओड्डित्वा चिरं कालं पृष्ठिमेन समनुबद्धो अवतारार्थी अवतारं गवेषी अलभन्तो च अवतारं निर्विद्य प्रत्यवक्रान्तो। एतरहिं पि एष मम षडूर्षाणि तपोवने दुष्करं चरन्तस्य पृष्ठमेन पृष्ठिमं समनुबुद्धो अवतारार्थी अवतारगवेषी अलभन्तो अवतारं निर्विद्य प्रत्यवक्रान्ति॥

समाप्तं शकुन्तकजातकं॥

भिक्षू भगवन्तमाहन्सुः॥ भगवता सुभाषितस्य अर्थाये मान्सशोणितं परित्यक्तं॥ भगवानाह॥ न भिक्षवो एतरहिं एव सुभाषितस्य अर्थाये मान्सशोणितं परित्यक्तं। अन्यदापि मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तं ॥ भिक्षू आहन्सुः॥ अन्यदापि भगवन्॥ भगवानाह॥ अन्यदापि भिक्षवः॥

भूतपूर्वं भिक्षवो अतीतमध्वानं अनुहिमवन्ते सुरूपो नाम हरिणो प्रतिवसति प्रासादिको रमणीयो मनोरमशरीरो रक्तेहि शृगेहि अंजितेहि अक्षीहि चित्रोपचित्रेण कायेन महान्तं मृगयूथं परिहरति पण्डितो बुद्धिमन्तो सुकुशलमूलपुण्य उपस्तब्धो॥ तस्य् मृगस्य पुण्योपचयेन तं सर्वं मृगयूथं सुखितं नानाप्रकाराणि भोजनानि चरमाणा शीतलानि च पानीयानि पिबमाना तहिं अनुहिमवन्ते प्रतिवसति अभीता अनुत्त्रस्ता न केनचित् शक्यं विहेठयितुं मनुष्येण वा व्याडमृगेन वा परिणायकसंपन्ना॥ शीतकाले उष्णप्रदेशेहि तं मृगयूथं परिकड्ढति उष्णकाले शीतेहि वनषण्डेहि तं मृगयूथं परिकड्ढति प्रियो देवानां नागानां यक्षाणां 


p. 256


किन्नराणां वनदेवानां मृगानां तथान्येषां पि भूतानां॥ अथ खलु भिक्षवः शक्रो देवानामिन्द्रो तं मृगं जिज्ञासनार्थं  लुब्धकवासमात्मानमभिनिर्मिणित्वा येन सो सुरूपो मृगराजा तेनोपसंक्रमित्वा तं मृगराजमाह॥ ममसुभाषिता गाथा अस्ति यदि आत्ममान्सं प्रित्यजासि ततो गाथां श्रावयिष्यामि॥ सो मृगराजा तस्य लुब्धकस्य वचनं श्रुत्वा प्रीतो संवृत्तो यदि चाहं इमेन विनाशधर्मेण सुभाषितं शृणोमि महतानुग्रहेण अनुग्रहीतो भवामि॥ सो दान् मृगराजा तं मृगलुब्धकं आह॥

परित्यजामि आत्ममान्सं सुभाषितस्य अर्थाये श्रावेहि मे सुभाषितं शीघ्रं अविघ्नेन॥ शक्रो देवानामिन्द्रो मृगराजस्य ताये धर्मगौरवताये प्रीतो संवृत्तो। सो तं आह॥ वरं एवंरूपाणां एव सत्पुरुषाणां पादपान्सुरजो न सौवर्णो पर्वतो। सत्पुरुषाणां पादपान्सुरजो शोकहानायं संवर्तति सुवर्णपर्वतो पि शोकवृद्धिये संवर्तति। शक्रो देवानामिन्द्रो मृगराजस्य जिज्ञासनं कृत्वा तत्रैवान्तरहायि॥

सुरूपं नाम हरिणं लुब्ध्को एतदब्रिवीत्।

अस्ति सुभाषितगाता मान्सं देहि शृणोहि मे।

यदि विनाशधर्मेण मान्सेनाहं सिभाषितं।

शृणोमि मान्सं ते देमि शीघ्रं ब्रूहि सुभाषितं॥

लुब्धको आह॥

सतां पादरजः श्रेयो न गिरि काञ्चनामयं।

सो रजो शकहानाय स गिरि शोकबर्धनः॥

भगवानाह॥ स्यात्खलु पुनः भिक्षवः युषाकमेवमस्यादन्यः स तेन कालेन तेन समयेन अनुहिमवन्ते सुरूपो नाम मृगयूथपति पर्कड्ढको धार्मिको मृग अभूषि।


p. 257


नैतदेवं द्रष्टव्यं। तत्कस्य हेतोः। अहं सो भिक्षवः तेन कालेन तेन समयेन अनहिमवन्ते मृगयुथपति परिकड्ढ  सुरूपो नाम धार्मिको मृगराजा अभूषि॥तदा मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तं एतरहिं पि मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तं एतरहिं पि मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तं॥

सुरुपस्य मृगराज्ञो जातकं समाप्तं॥

एवं मया श्रुतं एकस्मिं समये भगवानाजगृहे विहरति गृद्धकूटे पर्वतेमहता भिक्षुसंघेन सार्ध्ं पंचहि भिक्षुशतेहि॥ अथ खलु नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो एते चान्ये च संबहुला शुद्धावासकायिका देवपुत्रा अभिक्रान्तवर्णा अतिक्रान्ताये रात्रीये केवलकल्पं गृद्धकूटं पर्वतं वर्णेनावभासयित्वा येन भगवान्स्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकमन्ते अस्थासि सगौरवा सप्रतीसा एकांशीकृता प्रांजलिकृता भगवन्तमेव नमस्यमाना। एकान्तसस्थितस्य नन्दस्य देवपुत्रस्य अयमेवरूपो चेतसो परिवितर्को उदपादि॥ इमं अवलोकितं  नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भाषितपूर्वं च साधु भगवां पि एतरहिं भिक्षूणां भाषे॥ भगवतो संमुखं प्रतिश्रुत्वा संमुखं प्रतिगृहीतं तथत्वाय धारयिष्यन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ अधिवासेति भगवान्नन्दस्य देवपुत्रस्य तूष्णीभावेन अनुकम्पामुपादाय॥ अथ खलु नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च 


p. 258


देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो भगवतो तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वदित्वा भगवन्तं त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः॥

अथ खलु भगवान्तस्यैव रात्र्या अत्ययेन येन संबहुला भिक्षवः तेनोपसंक्रमित्वा प्रज्ञप्त एवासने निषीदि॥ निषद्य खलु भगवान् तां भिक्षूनामन्त्रयति॥ दोषा भिक्षवः नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनश्च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो अभिक्रान्तवर्णा अतिक्रान्तायां रात्र्यायां केवलकल्पं गृध्रकूटं पर्वतं वर्णेनावभासयित्वा येन तथागतस्तेनोपसं क्रमित्वा तथागतस्य पादौ शिरसा वन्दित्वा एकमन्ते अस्थासि सगौरवा सप्रतीशा एकांशीकृता तथागतमेव नमस्यमाना॥ एकान्तस्थितस्य भिक्षवो नन्दस्य देवपुत्रस्य अयमेवरूपो चेतसो परिवितर्को उदपासि॥ अयं अवलोकितं नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भाषितपूर्वं च॥ अथ खलु भिक्षवः नन्दो च देवपुत्रो तथागतमेतदवोचत्॥ अयं भगवन् अवलोकितं नाम व्याकरणं पुरिम केहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भाषितपूर्वं च॥ साधु भगवां पि एतरहिं भिक्षुणां भाषेया। भिक्षू भगवतः संमुखं श्रुत्वा तथत्वाय धारयिष्यन्ति। तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च॥ अधिवासेति भिक्षवः तथागतो नन्दस्य देवपुत्रस्य तूष्णीभावेनानुकम्पामुपादाय॥ अथ खलु भिक्षवो नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो तथागतस्य तूष्णीभावेनाधिवासनां विदित्वा हृष्टतुष्टा आत्तमना प्रमुदिता प्रीता सौम -


p. 259


नस्यजाता तथागतस्य पादौ शिरसा वन्हित्वा तथागतमेव च त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः॥ तत्र ते भिक्षू भगवन्तमेतदवोचत्॥ साधु भगवान् भिक्षूणामेतमर्थं भाषे भिक्षू भगवतः संमुखं श्रुत्वा प्रतिगृहीत्वा तथत्वाय धारयिष्यन्ति॥ एवमुक्ते भगवान्तां भिक्षूनेतदबोचत्॥ अवलोकितं भो भिक्षवो व्याकरणन्तं शृणोथ साधु भो शृणोथ मनसिकरोथ भाषिष्यामि च॥ साधु भगवन् इति ते भिक्षू भगवतः प्रत्यश्रोषीत्॥ भगवां सो तां एतदुवाच॥

यदा भिक्षवो बोधिसत्वो अपारिमातो ती रातो पारिमं तीरं अभिविलोकेति अभिविलोकनापूर्वंगमेहि धर्मेहि समुदागच्छमानेहि ये पि ते महेशाख्या देवा ते पि तथागतमग्राये परमाये पूजाये पूजयन्ति अग्राय परमाय अपचिताय अपचायन्ति सुद्धावासा च देवा अष्टादश आमोदनीयां धर्मान्प्रतिलभन्ति॥ कतमे अष्टादश॥ पूर्वयोगसंपन्नो महाश्रमणो ति शुद्धावासा देवा आमोदनीयं धर्मं प्रतिलभन्ति। पूर्वोत्पादसंपन्नो ज्येष्ठतामनुप्राप्नुवन्तो च  अनुत्तरं च लोके युगोत्पादसंपन्नो कल्याणोत्पादसंपन्नो अग्रोत्पादसंपन्नो ज्येष्ठोत्पादसंपन्नो श्रेष्ठोत्पादसंपन्नो प्रणिधिपूर्वोत्पादसंपन्नो निश्रयसंपन्नो उपधानसंपन्नो उपस्तम्भसंपन्नो संभारसंपन्नो अविपरीतधर्मं श्रमणो देशयिष्यति नैर्यणिकं लोकोत्तरं असाधारणं अव्यावध्ययशं गम्भीराभासं महाश्रमणो धर्मं देशयिष्यति सर्वाकारप्रतिपूरं सर्वाकारपरिशुधं इति शुद्धावासा देवा आमोदनीयं धर्मं प्रतिलभन्ति॥ यद्भिक्षवो बोधिसत्वो अपारि -


p. 260


मातो पारिमं तीरं अभिविलोकेति अभिविलोकनापूर्वंगमेहि धर्मेहि समुदागच्छमानेहि ये पि ते महेशाख्या देवपुत्रा ते पि तथागतं अग्राये पूजाये पूजयन्ति अग्राये परमाये अपचिताये अपचायन्ति शुद्धावासा देवा इमानि अष्टादश आमोदनीयां धर्मा प्रतिलभन्ति॥ अपि हि चेदं भिक्षवः सेन्द्रका देवा सब्रह्मका सप्रजापतिका महान्तं आमोदनीयं धर्मं प्रतिलभन्ति। यावज्जीवं च भिक्षवः बोधिसत्वा न च तावत्सर्वेण सर्वं कायिकेन स्थामेन समन्वागता भवन्ति न तावत्सर्वेण सर्वं वाचिकेन स्थामेन समन्वागता भवन्ति न तावत्सर्वेण सर्वं चेतसिकेन स्थामेन समन्वागता भवन्ति न तावद्भिक्षवो बोधिसत्वा सर्वगुणसमन्वागता भवन्ति नापि ताव भिक्षवः बोधिसत्वा पृथिवीप्रदेशं निश्राय गच्छन्ति वा तिष्ठन्ति निषीदन्ति वा यस्मिं भिक्षवः पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति महन्तीं च चमुं पराजिनन्ति महं च ओघं निस्तरन्ति अनुत्तरां च पुरुषदम्यसारथितामनुप्राप्नुवन्ति अनुत्तरां च लोकश्रेष्ठतामनुप्राप्नुवन्ति अनुत्तरां च स्वस्त्ययनतामनुप्राप्नुवन्ति अनुत्तरां च दक्षिणेयतामनुप्राप्नुवन्ति अनुत्तरां च सम्यक्संबोधिमनुप्राप्नुवन्ति यथाकारिततथावादितमनुप्राप्नुवन्ति अप्रतिसमतां च अनुप्राप्नुवन्ति असममधुरतां च अनुप्राप्नुवन्ति अप्रतिसमभागतां च अनुप्राप्नुवन्ति महन्तानां वर्णानामारम्बणमनुप्राप्नुवन्ति भूतानां च वर्णानामारम्बनमनुप्राप्नुवन्ति महन्तानामुत्पादानां निदानमनुप्राप्नुवन्ति भूतानामुत्पादानां निदानमनुप्राप्नुवन्ति ओहितभारतां च अनुप्राप्नुवन्ति कृतकार्यतां च अनुप्राप्नुवन्ति पृथिवीसमचित्ततां च अनुप्राप्नुवन्ति आपस-


p. 261


मचित्तता च अनुप्राप्नुवन्ति तेजोसमचित्ततानुप्राप्नुवन्ति वायुसमचित्ततां च अनुप्राप्नुवन्ति विडालत्रस्तसमचित्ततां च अनुप्राप्नुवन्ति काचिलिन्दिकमृदूपमचित्ततां च अनुप्राप्नुवन्ति इन्द्रकीलोपमचित्ततां च अनुप्राप्नुवन्ति इन्द्रियसंपदं च अनुप्राप्नुवन्ति बलसंपदं च अनुप्राप्नुवन्ति स्थामसंपदं चानुप्राप्नुवन्ति धनसंपदं च अनुप्राप्नुवन्ति शय्यासंपदं च अनुप्राप्नुवन्ति आत्मवृषभितां च कायवैशारद्यं च अनुप्राप्नुवन्ति वाचावैशारद्यं चित्तवैशारद्यं चानुप्राप्नुवन्ति पृथुवैशारद्यं चानुप्राप्नुवन्ति प्रज्ञासंपदं चानुप्राप्नुवन्ति सर्वकुशलधर्मवशिभावपारमिता चानुप्राप्नुवन्ति॥ यतो च भिक्षवो बोधिसत्वा सर्वेण सर्वं कायिकेन स्थामेन समन्वागता भवन्ति वाचिकेन स्थामेन समन्वागता  भवन्ति चेतसिकेन स्थामेन समन्वागता भवन्ति अथ खलु भिक्षवो बोधिसत्वा तं पृथिवीप्रदेशं निश्राय गच्छन्त्यपि यस्मिं पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति महतीं च चमुं पराजिनन्ति महान्तं च ओघं उत्तरन्ति अनुत्तरां च पुरुषदम्यसारथितां अनुप्राप्नुवन्ति अनुत्तरां लोकश्रेष्ठतां अनुप्राप्नुवन्ति अनुत्तरां च लोकज्येष्ठतामनुप्राप्नुवन्ति अनुत्तरां च लोकस्वस्त्ययनतामनुप्राप्नुवन्ति अनुत्तरां च दक्षिणेयतामनुप्राप्नुवन्ति अनुत्तरां च सम्यक्संबोधिमनुप्राप्नुवन्ति यथावादिततथाकारितमनुप्राप्नुवन्ति यथाकारिततथावादितमनुप्राप्नुवन्ति अप्रतिसमतां चानुप्राप्नुवन्ति असममधुरतां चानुप्राप्नुवन्ति अप्रतिसमभागतां चानुप्राप्नुवन्ति महन्तानां वर्णानां आरम्बणमनुप्राप्नुवन्ति भूतानां वर्णानां आरम्बणमनुप्राप्नुवन्ति महन्तानामुत्पादानां निदानमनुप्राप्नुवन्ति पृथिवी - 


p. 262


समचित्ततां चानुप्राप्नुवन्ति आपसमचित्ततां चानुप्राप्नुवन्ति तेजोसमचित्ततां चानुप्राप्नुवन्ति वायुसमचित्ततां चानुप्राप्नुवन्ति चित्तारम्बणभूतानामुत्पादानां निदानमनुप्राप्नुवन्ति ओहितभारतां चानुप्राप्नुवन्ति कृतकार्यतां चानुप्राप्नुवन्ति विडालत्रस्तस्तम्भोपमचित्ततां चानुप्राप्नुवन्ति काचिलिन्दिकमृढुसमचित्ततां चानुप्राप्नुवन्ति इन्द्रकीलोपमचित्ततां चानुप्राप्नुवन्ति इन्द्रियसंपदं चानुप्राप्नुवन्ति बलसंपदं च स्थामसंपदं च धनसंपदं च निषद्यसंपदं च शय्यासंपदं च आत्मवृषभितां च कायवैशारद्यं च वाचावैशारद्यं च चित्तवैशारद्यं च पृथुवैशारद्यं च प्रज्ञासंपदं च सर्वकुशलधर्मवशितापारमितां चानुप्राप्नुवन्ति॥

षोडशांगसमन्वागतो भिक्षवः सो पृथिवीप्रदेशो भवति यस्मिं पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति॥॥॥ सर्वकुशलधर्मवशितापारमितां चानुप्राप्नुवन्ति॥ कतमेहि षोडशेहि॥ संवर्तमाने खलु लोके सर्वप्रथमं पृथिवीप्रदेशो उद्दह्यति विवर्तमाने च पुनर्भिक्षवो लोके सर्वप्रथमं पृथिवीप्रदेशो संस्थिहति प्रणीतं चात्र मध्ये संस्थिहति। न खलु पुनर्भिक्षवः स पृथिवीप्रदेशो प्रत्यन्तिकेहि जनपदेहि संस्थिहति अथ खलु भिक्षवः स पृथिवीप्रदेशो अनुमज्झिमेहि जनपदेहि संस्थिहति। न खलु भिक्षवः स पृथिवीप्रदेशो म्लेच्छेहि जनपदेहि संस्थिहति अथ खलु भिक्षवः स पृथिवीप्रदेशो आर्यावर्तेहि जनपदेहि संस्थिहति।


p. 263


समश्च भिक्षवः स पृथिवीप्रदेशो भवति सुसंस्कृताविकृतो पाणितलजातो। अनोदके चित्र उत्पलपदुमकुमुदनलिनिसौगन्धिकानि जातानि भवन्ति। अभिज्ञातो च भिक्षवः सो पृथिवीप्रदेशो भवति। अभिलक्षितो च भिक्षवः सो पृथिवीप्रदेशो भवति। महेशाख्यसत्वसंसेवितो च भिक्षवः स पृथिवीप्रदेशो भवति। दुष्प्रधर्षो च भिक्षवः स पृथिवीप्रदेशो भवति। अपराजितो च भिक्षवः स पृथिवीप्रदेशो भवति। अ खलु पुनर्भिक्षवः तस्मिं पृथिवीप्रदेशे कोचिदेव सत्वो अवतारं गच्छति यदिदं मारो वा मारकायिको वा। देवानामगृहीतो च भिक्षवः स पृथिवीप्रदेशो भवति। यदिदं सिंहासनन्ति पृथिवीमण्डले संख्यातो भवति भिक्षवः स पृथिवीप्रदेशो। वज्रोपमो च भिक्षवः स पृथिवीप्रदेशो भवति। चतुरंगुलमात्रा च भिक्षवः तत्र पृथिवीप्रदेशो तृणानि जातानि भवन्ति नीला मृदू मयूरग्रीवासन्निकाशा अभिलक्षणा कुण्डलावर्ताः। ये पि ते भिक्षवो राजानो चक्रवर्तिनो त पृथिवीप्रदेशं अधिस्थिहन्ति नान्यत्र चेतियार्थं॥ एवं खलु भिक्षवः स पृथिवीप्रदेशो षोडशांगसमन्वागतो भवति यस्मिं पृथिवीप्रदेशो बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति॥॥ सर्वकुशलधर्मवशिपारमितां चानुप्राप्नुवन्ति॥

अथ खलु भिक्षवो बोधिसत्वो उरुविल्वाये दुष्करचारिकां चरित्वा सुजाताये ग्रामिकधीताये मधुपायसमादाय येन नदी नैरंजना तेनोपसंक्रमित्वा नदीये नैरंजनाये तीरे गात्राणि शीतलीकृत्वा सुजाताये ग्रामिकदुहितुः मधुपायसं भुंजित्वा 


p. 264


नद्यां नैरंजनायां कान्सपात्रं प्रवाहित्वा तहिं दिवाविहारं कल्पयित्वा स्मृतिं प्रतिलभते नेतिये॥

अथ खलु भिक्षवो बोधिसत्वो नागनन्दीकालसमये येन नदी नैरंजना तेनोपसंक्रमित्वा नदीये नैरंजनाये गात्राणि शीतलीकृत्वा येन बोधियष्टिस्तेनोपसंक्रमे॥ अद्राक्षीद्भिक्षवो बोधिसत्वो महासत्वो न्तरा च बोधियष्टीये अन्तरा च नदीये स्वस्तिकं यावसिकं तृणराशिलंचकं॥ अथ खलु भिक्षवः बोधिसत्वो येन स्वस्तिको यावसिकस्तेनोपसंक्रमित्वा स्वस्तिकं तृणानि अयाचि॥ अदासि भिक्षवः स्वस्तिको बोधिसत्वस्य तृणानि॥ अथ खलु भिक्षवो बोधिसत्वस्तृणमुष्टिमादाय येन बोधियष्टिस्तेनोपसंक्रमे न चाद्राक्षीत् मारो पापीयां गच्छन्तं। तदनन्तरं च भिक्षवो मारस्य पापीमतो स्मृति अभूषि।सो स्मृतिमनुस्मरन्तो अद्राक्षीद्बोधिसत्वं अभीतविक्रान्तं विक्रमन्तं। अदीनविक्रान्तं विक्रमन्तं। दुष्प्रधर्षविक्रान्तं विक्रमन्तं। नागविक्रान्तं विक्रमन्तं। सिंहविक्रान्तं विक्रमन्तं। ऋषभविक्रान्तं विक्रमन्तं। हंसविक्रान्तं विक्रमन्तं च अग्रोत्पादं ज्येष्ठोत्पादं श्रेष्ठोत्पादं युगोत्पादं प्रणिधिपूर्वोत्पादं शत्रुमथनविक्रान्तं विक्रमन्तं। अपराजितविक्रान्तं विक्रमन्तं। आजानेयविक्रान्तं विक्रमन्तं। महापुरुषविक्रान्तं विक्रमन्तं। हितैषीनन्तकारीकरणतायै महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये॥ अथ खलु भिक्षवः बोधिसत्वं तं महाविक्रान्तं विक्रमन्तं पंच मोरशतानि बोधिसत्वं गच्छन्तं अभिप्रदक्षिणीकृत्वा अनुपरिवर्तेन्सुः। पंच शतपत्रशतानि बोधिसत्वं गच्छन्तं अभिप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः पंच क्रोंचशतानि बोधिसत्वं गच्छन्तं अभिप्रदक्षि


p. 265


णीकरोन्ता अनुवर्तेन्सुः। पंच जीवंजीवकशतानि बोधिसत्वं गच्छन्तमभिप्रदक्षिणीकरोन्ता

अनुवर्तेन्सुः। पंच वकशतानि बोधिसत्वं गच्छन्तमभिप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः। पंच पूर्णकुम्भशतानि बोधिसत्वं गच्छन्तमभिप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः।पंच कुमारीशतानि बोधिसत्वं गच्छन्तमभिप्रदक्षणीकरोन्ता अनुपरिवर्तेन्सुः॥ अथ खलु भिक्षवो बोधिसत्वस्य एतदभूषि॥ यथा च इमे पूर्वोत्पादा यथा च पूर्वनिमित्ता अव्याहतामनुत्तरां सम्यक्संबोधिमभिसंबुधिष्यं॥

आद्राक्षीद्भिक्षवः कालो नाम नागराजा बोधिसत्वं अभीतविक्रान्तं विक्रमन्तं दृष्ट्वा च पुनरेतदवोचत्॥ एहि महाश्रमण येन महाश्रमण मार्गेण गच्छसि भगवां पि महाश्रमणो क्रकुच्छन्दो एतेन मार्गेण गतो सो अनुत्तरा सम्यक्संबोधिमभिसंबुद्धो। त्वं पि महाश्रमण एतेन मार्गेण गच्छ त्वं पि अद्य महाश्रमण अनुत्तरां सम्यक्संबोधिमभिसंबुध्यसि॥ भगवां पि महाश्रमणो कोनाकमुनि एतेन मार्गेण गतो सो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो। महाश्रमण एतेन मार्गेण गच्छ त्वं पि अद्य महाश्रमण अनुत्तरां सम्यक्संबोधिमभिसंबुध्यिष्यसि॥ भगवानपि महाश्रमणो काश्यपो एतेन मार्गेण गतो सो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो। त्वं पि महाश्रमण एतेन मार्गेण गच्छ अद्य त्वं पि मआश्रमण अनुत्तरां सम्यक्संबोधिमभिसंबोधिष्यसि॥ एवमुक्ते भिक्षवः बोधिसत्वो कालं नागराजमेतदवोचत्॥ एवमेतं काल एवमेतं नाग अद्य अहं अनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यामि। 


p. 266


अथ खलु भिक्षवो कालो नागराजा बोधिसत्वं गच्छन्तं संमुखाभिः सारूप्याभिर्गाथाभिः अभिस्तवे॥

यथा गच्छति क्रकुच्छन्दो कोनाकमुनि च काश्यपो।

तथा गच्छसि महावीर अद्य बुद्धो भविष्यसि॥

यथा उद्धरसे पादं दक्षिणं पुरुषोत्तम।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथायं रणति पृथी कान्सपात्रीव ताडिता।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा च भवनं मह्यं अन्धकरात्रिमासिकं।

ओभासेन स्फुटं सर्वं अद्य बुद्धो भविष्यसि॥

यथा निधानं तेजेन स्फुटं तिष्ठति पण्डित्।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा वाता प्रवायन्ति यथा वृक्षा विलग्निता।

यथा द्विजा निकूजेन्ति अद्य बुद्धो भविष्यसि॥

बुद्धानामेवमुत्पादो एवं बोधि अलंकृता।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा च मण्डं (?) पुष्पेहि स्फुटं तिष्ठति पण्डित।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा मौरशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा शतपत्रशता पंच करोन्ति त्वा प्रदक्षणं। 


p. 267


निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा जीवंजीवशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा क्रोञ्चशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा हंसशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा वकशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा पूर्णकुम्भशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा कन्याशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यस्मा द्वात्रिंशति काये महापुरुषलक्षणा।

निःसंशयं महावीर यक्षं जित्वा विरोचसि॥

अथ खलु भिक्षवो बोधिसत्वो अभीतविक्रान्तं विक्रमन्तो अदीनविक्रान्तं विक्रमन्तो अलीनविक्रान्तं विक्रमन्तो दुष्प्रधर्षविक्रान्तं विक्रमन्तो सिंहविक्रान्तं विक्रमन्तो नागविक्रान्तं विक्रमन्तो ऋषभविक्रान्तं विक्रमन्तो हंसविक्रान्तं विक्रमन्तः अग्रोत्पादाये विक्रमन्तो ज्येष्ठोत्पादाय विक्रामन्तो श्रेष्ठोत्पादाय विक्रमन्तः पूर्वोत्पादाय विक्रमन्तो युगोत्पादाय विक्रमतो शत्रुदमनार्थाय विक्रमन्तो अपराजितत्वाय विक्रमन्तो आजानेयविक्रान्तं विक्रमन्तो महापुरुषविक्रान्तं विक्रमन्तो हितैषि अनन्त


p. 268


कारीकरणतायै महायग्रामविजसंये अनुत्तरस्य अमृतस्य हरणताये महाविक्रान्तं विक्रमन्तो येन बोधियष्टिस्तेनोपसंक्रमित्वा बोधियष्टिये अभ्यन्तराग्रे समन्तभद्रं तृणसंस्तरं प्रज्ञपयित्वा बोधियष्टिं पुरिमजिनचित्तीकारेण त्रिष्कृत्यो प्रदक्षिणीकृत्वा निषीदि पर्यंकमाभुजित्वा ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थापयित्वा ऋजु प्राचीनाभिमुखो॥

समनन्तरनिषस्मो च पुनर्भिक्षवो बोधिसत्वो पंच संज्ञा प्रतिलभति॥ कतमा पंच॥क्षेमसंज्ञा सुखसंज्ञा हितसंज्ञा अद्य चाहं अनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यन्ति॥ समनन्तरनिषद्य च पुनर्भिक्षवो बोधिसत्वो इमां पंच संज्ञा प्रतिलभते॥ अथ खलु भिक्षवः मारो पापीमां दुःखी दुर्मनो अन्तोशल्यपरिदाघजातो येन बोधियष्टिस्तेनोपसंक्रमित्वा बोधिसत्वस्य पुरतो स्थित्वा महागीतं विय गाये महाचैलाक्षेपं विय प्रयच्छे न च तं बोधिसत्वं चित्तीकारेसि॥ अथ खलु भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो दशविधं महा ऊहसितं ऊहसे॥ कथं भिक्षवो मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो दशविधं महा ऊहसितं ऊहसे॥ महर्द्धिको स्मि महाश्रमण महानुभावो न मे श्रमण मोक्ष्यसीति मारो पापीमां दिःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा ऊहसितं ऊहसे॥ म -


p. 269


हेशाख्यो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा ऊहसितं ऊहसे॥ महाप्रतापो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तः शल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा ऊहसितं ऊहसे॥ महावृषभो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापी दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वो संक्षूयमानो महा ऊहसितं ऊहसे॥ महाविजयो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा ऊहसितं ऊहसे॥महासैन्यो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं  संक्षूयमानो महा ऊहसितं उहसे॥ महाबलो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा ऊहसितं ऊहसे॥ मनुष्यभुतो सि श्रमण अहं पुनर्देवपुत्रो न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा ऊहसितं ऊहसे॥ मातापितृसंभवो श्रमणकायो ओदनकुल्माषोपचयो उच्छादनपरिमर्दनस्वप्नभेदनविकिरणविध्वंसनधर्मो मम पुनर्मनोमयः कायो न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्याजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षुयमानो महा ऊहसितं ऊहसे॥ एवं भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा ऊहसितं ऊहसे॥

अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतरोमहर्षो चतुर्दशभिरा - 


p. 270


कारैर्मारं पापीमं अभिगर्जे। एवं च भिक्षवः बोधिसत्वो अभीतो अच्छंभी विगतरोमहर्षो चतुर्दशभिराकारैर्मारं पापीमं संमुखं अभिगर्जे॥ तेन हि ते पापीमं निहनिष्यामि। सय्यथापि नाम बलवां मल्लो दुर्बलं मल्लं तेन हि ते पापीमं निहनिष्यामि॥ सय्यथा नाम बलवां वृषभो दुर्बलं वृषभं तेन हि ते पापीमं मर्दिष्या॥  सय्यथापि नाम हस्तिनागो कदलिं असारिकां तेन हि ते पापीमं निहनिष्यामि॥ सय्यथापि नाम बलवां मारुतो दुर्बलं द्रुमं तेन हि ते निहनिष्यामि ॥ सय्यथापि सुर्यो अभ्युदयमानो सर्वखद्योतकं तेन हि ते पापीमं अभिभिविष्यामि॥ सद्यथापि नाम चन्द्रो अभ्युदयमानो सर्वता रकरूपां तेन हि ते पापीमं अभिभविष्यामि॥ सद्यथापि नाम हिमवां पर्वतराजा सर्वकालपर्वतान्तेन हि ते पापीमं अभिभविष्यामि॥ सय्यथापि नाम राजा चक्रवर्ती पृथु प्रत्येकराजानो तेन हि ते पापीमं संनिर्जिनिष्यामि॥ सय्यथापि नाम भद्रो अश्वो आजानेयो सर्वाश्वषण्डकां तेन हि ते पापीमं सन्त्रासयिष्यामि॥ सय्यथापि नाम सिंहो मृगराजा सर्वक्षुद्रमृगां तेन हि ते पापीमं संमोहजालं दहिष्यामि॥ सय्यथापि नाम अनलो उपादानन्तेन हि ते पापीमं भस्मीकरिष्यामि॥ यथापीदं निष्यन्दसंयुक्तो तेन हि ते पापीमं अभिभविष्यामि॥ यथापीदं अभिप्रज्ञायुक्तो तेन हि ते पापीमं उत्तरित्वा अभिग्रन्थित्वा त्रासयित्वा निर्जिनित्वा अभिक्रमिष्यामि। अत्र च पापीमं न गतिर्भविष्यति॥ एवं खलु भिक्षवः बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो मारं पापीमं चतुर्दशभिराकारैः संमुखं अभिगर्जे॥


p. 271


भिक्षू भगवतो पृच्छेन्सु॥ पश्य भगवं जोतिष्कस्य गृहपतिस्य एदृशीये संपत्तीये समन्वागतं गृहं अभूषि असाधारणा च भोगा भगवां च आराधितो प्रव्रज्या उपसंपदा च लब्धा निष्क्लेशता च प्राप्ता। कस्यैतद्भगवं ज्योतिष्कस्य गृहपतिस्य कर्मफलविपाकः॥ भगवानाह॥

भूतपूर्वं भिक्षवः अतीतमध्वानं इतः एकनवतिमे कल्पे राजा अभूषि बंधुमो नाम॥ राज्ञो खलु पुनः भिक्षवो बन्धुमस्य बन्धुमती नाम राजधानी अभूषि। चक्रवर्तिपुरी विस्तरेण॥ राज्ञो खलु पुन्ः भिक्षवो बन्धुमस्य विपश्यी नाम पुत्रो अभूषि॥ अथ खलु भिक्षवः विपश्यी बोधिसत्वो अपरस्मिं देशे गत्वा अगारस्यानगारियं प्रव्रजित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो॥ कदाचि दानि राजा बन्धुमो भगवतो विपश्यिस्य दूतं प्रेषेति॥ आगच्छाहि भगवं स्वकां जन्मभूमिं अस्माकं अनुकम्पार्थं॥ अथ खलु भिक्षवो भगवां विपश्यी राजदूतवचनं श्रुत्वा येन स्वका जन्मभूमिस्तेनोपसंक्रमि सार्धं अष्टषष्टीहि अर्हन्तसहस्रेहि॥ तेन् च कालेन तेन समयेन बंधुमतीय राजधानीयं अनङ्गणो श्रेष्ठि आढ्यो महाधनो प्रभूतचित्रोपकरणो॥ अश्रोषीत्खलु अनङ्गणो गृहपति एवं चैवं च भगवां विपश्यी आगच्छति सार्धं अष्टषष्टीहि अर्हन्तसहस्रेहि॥ तस्य दानि एतदभूषि। यं नूनाहं सर्वप्रथममेव भगवतो पादवन्द उपसंक्रमेयं॥ अथ खलु अनङ्गणो गृहपति शीघ्रशीघ्रं त्वरमाणरूपो भगवतो पादवन्दको उपसंक्रान्तो॥ अद्राक्षीत् अनङ्गणो गृहपतिः भगवन्तं विपश्यिं दूरतो एवागच्छन्तं प्रासादिकं (यावत्) भिक्षुसंघप -


p. 272


रिवृतं॥ अथ खलु अनङ्गणो गृहपतिः येन भगवां (याव) भगवन्तमेतदवोचत्। अधिवासेहि मे भगवन्त्त्रैमासभक्तेन सार्धं भिक्षुसंघेन (याव) तूष्णीभावेन॥

अश्रोषी राजा बंधुमो एवं चेवं च भगवां विपश्यी आगच्छति महता भिक्षुसंघेन सार्धं अष्टषष्टीहि अर्हन्तसहस्रेहि    तेनान्तनगरं अलंकरोथ॥ (यावत्) महता राजानुभावेन (यावत्) अद्राक्षी प्रासादिकं (यावत्) निमन्त्रेति (यावद्) अधिवासितं मे महाराज अनंगणस्य गृहपतिस्य त्रैमासभक्तेन सार्धं भिक्षुसंघेन॥ राजा श्रुत्वा उत्कण्ठितो एवं जातो॥ अनंगणो गृहपति ममतो अपृच्छित्वा अनवलोकित्वा अबहुमानं कृत्वा भगवतो सकाशमुपसंक्रान्तो भगवां च निमन्त्रितो। असाधुमेतं॥ भगवां राज्ञा उक्तो॥ एकं दिवसभक्तं मम भवतु द्वितीयं तस्य॥ भगवानाह यदि अनंगणो अनुजानाति एवं लभ्यं॥ राजा दानि अनङ्गणस्य दूतं प्रेषेति (यावद्) आगतं॥ राजा आह॥ प्राप्तं आगतं कलं तव गृहपति यं राज्ञो विलोमं वर्तसि॥ मम अनापृच्छियान निमन्त्रेसि। न त्वं जानसि मह्यं सो पुत्रो विपश्यी आगतो। ओसिराहि भगवतो त्रैमासं भक्तं सार्धं भिक्षुसंघेन॥ गृहपतिः आह॥ न वयं देवस्य अबहुमानो अपि तु किं देवो पुण्याधिको वयं नाधिको अपि तु यथा देवस्य इष्टं भवति तथा करिष्यामीति निमन्त्रितो मे भगवां॥ अथ खलु बंधुमस्य एतदभूषि। सचेद्वक्ष्याम्यहं मा ताव गृहपते करोहि न च मे अनुजानिष्यति न च मे भगवां विपश्यी आत्तमनो भविष्यति न च मे अधिवासयिष्यति॥ तस्य एवं चिन्तयमानस्य गृहपतिं आमन्त्रयति॥ तेन हि गृहपते भक्तवारं करिष्यामि। एकदिवसं मम भवतु द्वितीयदिवसं तुभ्यं भवतु॥ आह॥ वाढं 


p. 273


तत्किं न शक्यं कर्तुं॥ प्रस्थापितं एकं दिवसं राज्ञो भक्तं द्वितीयं अनंगणस्य॥ अनंगणो दानि गृहपति यत्तकं एकदिवसं राज्ञो भक्तं ततो अनंगणो अपरस्य अवश्यं विशेषं करोति॥ अथ खलु राजा बंधुमो महामात्रं आमन्त्रयति॥ तस्य दानि ग्रामणि अनङ्गणस्य गृहपतिस्य स्वापतेयं बहुतरकं न मम त्ति यदिदं गृहपतिस्य भक्तं संपद्यति न मम तं संपद्यति अथ देवस्य पश्चिमकं दिवसं पश्यित्वा विशेषं करोति। तेन हि ग्रामणि तथा कर्तव्यं यथा अनंगणस्य गृहपतिस्य उत्क्षेपं भवे यं वारयिष्यति॥ न शन्कोति किंचित्कर्तं यावत्त्रैमासिकं समाप्तं द्विदिवसा अवशेषा चतुर्दशी च राज्ञो भक्तवारं पंचदशी च गृहपतिस्य॥ राज्ञो दानि बंधुमस्य मुनिहतो नाम नन्दनारामो महान्तो च विस्तीर्णो च शीतलो च सुगन्धो च प्रासादिको च दर्शनीयो च॥ राज्ञा दानि पश्चिमके दिवसे चतुर्दशीयं सर्वं चन्दनवाटं सिक्तसंसृष्टं कृत्वा ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं एकमेकस्य चन्दनवृक्षस्य एकमेकस्य भिक्षुस्य शतसाहस्रिका आसनप्रज्ञप्ती क्रियति। चत्वारो दारका सर्वालंकारविभूषिता सुवर्णरूप्यमयदण्डेन सर्वश्वेतेन चामरेण वीजयन्ति॥ एकेनान्तेन कुमारिका सर्वालंकारविभूषिता पुरतो शतसाहस्रिकानि गन्धयोगानि अनुलेपनां पीषयन्ति पृष्ठतो हस्तिनागा सर्वालंकारविभूषिता हेमजालप्रतिच्छन्ना अवदातानि च्छत्राणि धारयन्ति॥ राज्ञो आणत्तीया यावत्तां बन्धुमतीं द्वादश योजनानि समन्ते न केनचित् शलाका विक्रीणितव्या यो क्रीणाति


p. 274


यो विक्रीणाति तस्य वधदण्डं दातव्यं पश्यथ। एवं वारियन्तो सो गृहपति किं करिष्यति केनाप्यभक्तं पच्यति अवारितो। (?) न केनचित्क्रीणितव्यं (यावद्) वधदण्डं दातव्यं (यावद्) अवारितो (??) शतं (?) व्यंजनं न भविष्य॥ कुतो गृहपतिस्य प्रदर्शका उद्यानकृता आसना प्रज्ञपीयन्ति (यावत्) कुतो हस्ति॥ ततो अनङ्गणेन दानि गृहपतिना एदृशां संपत्तिं श्रुत्वान शोकपरिशरविद्धहृदयो चिन्तासागरमनुप्रविष्टो आसति॥ सो दानि करुणां प्रध्यायति॥ सो दानि चिन्तेति॥ यदि तावदहं काष्ठं न लभिष्यं शलाकान्येव शक्यं परिप्रापयितुं अथ च न लभिष्यं व्यंजनस्यार्थाये इदं पि शक्यं परिप्रापयितुं अन्यानि व्यंजनानि सज्जिष्यं शोभनानि प्रणीतानि। अपि तु मे एदृशो चन्दनवाटो नास्ति आसनप्रज्ञप्ती च मे न तादृशी भविष्यति। चत्वारो दारका दारिका च मे न भविष्यन्ति हस्तिनागा च मे न भविष्यन्ति।  तथा सो उत्कण्ठितो॥ तस्य पुण्यतेजेन शक्रो देवानामिन्द्रो उपसंक्रमित्वाग्रतः आह॥ गृहपति मा उत्कण्ठाहि भक्तं उपस्थाहि भक्तं प्रतिजाग्राहि सर्वं भविष्यति। अहं आसनप्रज्ञप्ती करिष्यं मण्डलमालं तं मापयिष्यं शोभनं चालंकृतं च कारयिष्यं॥ गृहपति आह॥ को त्वं मारिष॥ आह॥ गृहपति शक्रो हं देवानामिन्द्रो॥ गृहपति मुदितो चन्दनकाष्ठेन व्यजनं पाचयति। घृततैलकुण्डं मरित्वा ततो यथा भद्रमुष्टिकानि ओवाहियति तेन भक्तं सज्जियति॥ शक्रो देवानामिन्द्रो विश्वकर्मं देवपुत्रमामन्त्रयति॥ भगवतो च भिक्षुसंघस्य च महन्तं मण्डलमालं समन्वाहर प्रणीतं च शय्यासनं॥ साधु मारिषेति (यावत्) प्रतिश्रुत्वा 


p. 275


ततो विश्वकर्मेण देवपुत्रेण महन्तो मण्डलमालो अभिनिर्मिणित्वा अष्टषष्टीसहस्राणि  तालवनमभिनिर्मिणित्वा सुवर्णमयस्य तालस्कन्धस्य रूप्यमयं पत्रं च पुष्पं च फलं चापि (यावत्) लोहितिकामयस्य स्कन्धस्य वैडूर्यमयं पत्रं च फलं च (यावद्) आसनप्रज्ञप्ती कृता एकमेकस्य स्तम्भस्य एकमेकस्य भिक्षुस्य अर्थाये चत्वारश्च देवपुत्रा सर्वालंकारविभूषिता वामदक्षिणे स्थिता मोरहस्तेहि वीजमाना चत्वारो देवकन्या सर्वालंकारभूषिताः अनुवातमेव दिव्यानि अनुलेपनानि पीषेन्सुः॥ एमकस्य भिक्षुस्य एकमेकं हस्तिनागं एरवणेन सादृशानि पृष्ठतो सप्तरत्नां अग्रां छत्रां  वैडूर्यमयेहि दण्डेहि धारेन्ति एरवणो च हस्तिनागो भगवतो उपरि च्छत्रं धारेति॥ तं महामण्डलमालं यावज्जानुमात्रं दिव्यपुष्पावकीर्णं मृदुका च वाता ओवायन्ति। तस्मिंश्च तालवने वातसंघट्टिते दिव्यो घोषो निश्चरति॥ (याव) भगवतो कालमारो चेन्ति। (यावत्) प्रविशति॥ निषीदि भगवान्ततो गृहपति राज्ञो दूतं प्रेषेति॥ आगच्छ देव अद्यैव पश्चिमकं दिवसं संघं परिविषिष्यामः सहितका॥

राजा दानि भद्रं यानमभिरुहित्वा संप्रस्थितः॥ अद्राक्षीद्राजा बन्धुम्मो दूरतो एवागच्छन्तं सर्वपाण्डुरं हस्तिनागं दृष्ट्वा च पुनरेतदभूषी। निःसंशयं गृहपतिना सर्वपिण्डमयं हस्तिनागं कारापितं॥ सो दानि आगतः प्रविशित्वा तं एदृशं नानावियूहं पश्यित्वा आश्चर्यजात उपजातं आश्चर्यमिदं गृहपतिस्य पुण्यतेजेन॥ ग्रामालुकेनापि दानि पुरुषेण दधिघटं आनीतं प्राभृतार्थं॥ सो पंचहि पुराणशतेहि क्रीयकेन याचितो॥ सो दानि ग्रामालुको पुरुषो संविग्नो पश्यति। मा तावदि- 


p. 276


मे (यावद) अर्थमाकर्षके निश्चये (??) [यावत्] सर्वसंघे (यावद्) अर्थं याचित्वा तत्तकं एव॥ ततो राजा बन्धुमो अनंगणेन मान्यपरिनायकं अयं च पुनः पंच पुराणशतानि किमेतं भविष्यति॥ सो दानि पृच्छति॥ किमेतं भविष्यति॥ आहन्सुः॥ भगवां विपश्यी सार्धमष्टषष्टीहि अरहन्तसहस्रेहि परिविषीयति॥

सो दानि चिन्तेति। दुल्लभं तथागतानां (यावत्) संबुद्धानां लोके प्रादुर्भावः। यं नूनाहं इमेन दधिघटकेन बुद्धप्रमुखं भिक्षुसंघं स्वयमेव परिविषेयं॥ सो दानि स्वयमेव सर्वसंघे (यावद्) अर्थं याचित्वा तत्तकं एव॥ 

ततो राजा बन्धुमो अनङ्गणेन गृहपतिना सार्धं तादृशकेन व्यूहेन भगवन्तं सश्रावकसंघं परिविषति॥ यदा भगवां भुक्तावी धौतहस्तो अपनीतपात्रः ततो गृहपति प्रणिधिं करोति॥ यो यं मम देयधर्मपरित्यागात्पुण्याभिस्यन्दः कुशलाभिस्यन्दः सुखस्याधारणं मे दिव्यं उपभोगं भवेया तं च असाधारणं एतादृशं च शास्तारं आरागयेयं। सो धर्मं देशेय तञ्चाहं आजानेयं प्रव्रजित्वा निष्क्लेशो भवेयं॥

भगवानाह॥ स्याद्वो भिक्षवः एवमस्यादन्यः स तेन कालेन तेन समयेन अनङ्गणो नाम श्रेष्ठि अभूषि। नैतदेवं द्रष्टव्यं। ज्योतिष्को गृहपतिः स तस्मिं काले तस्मिं समये अनंगणो नाम गृहपतिरासि [यावत्] तस्य प्रणिधि सर्वार्थसिद्धः॥

अथ खलु मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघ जातो षोडशाकारसमन्वागतं महापरिदेवितं परिदेवे॥ महर्द्धिकं वताहं समानं मा हेव श्रमणो अभिभविष्यतीति मारो 


p. 277


पापीमां द्ःखि दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। महाप्रभावं वत मे समानं मा हेव मे श्रमणो गौतमो  अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। महेशाख्यं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। महाप्रतापं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यति इति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। महावृषभितं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। महाविक्रमं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे॥ महास्थामं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। महाबलं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। मनुष्य भूतो श्रमणो गौतमो अहं पुनर्देविपुत्रो मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। मातापितृसंभवो श्रमणगौतमस्य कायो औदरिको ओदनकु - 


p. 278


ल्माषोपचयो आच्छादनपरिमर्दनसुपनभेदनविकिरणविध्वंसनधर्मो मम पुनर्मनोमयो कायो मा हैव मे श्रमणो गौतमो अभिभविष्यतीति पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। ये पि ते शूरावीरा परमपुरुषास्ते पिमे इमस्य मानुष्यस्य परिनिक्षेपं पि न जानन्ति मा हेव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। यथा यथा खलु पुनर्मे एवं भवति अद्य अहं श्रमणं गौतमं अभिभविष्यामीति तथा तथा मे तेन मनसिकारो मे क्षिप्रमेव निरुध्यति मा हैव मे श्रमणो गौतमो अभिभविष्यतिति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। विपद्यति च मे सेना मा हैव मे श्रमणो गौतमो अभिभविष्यति इति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। स्रस्तानि वत मे भवन्ति गात्राणि मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे  मोघं वत मे उत्थानं आकुलो वत मे व्यायामो मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे। ये पि ते मे स्वविषयकायिकदेवपुत्रा ते श्रमणस्य गौतमस्य अभ्यन्तरो परिवारोमा हव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे॥ एवं खलु भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो षोडशाकारसमन्वागतं महापरिदेवितं परिदेवे॥

अथ खलु भिक्षवः बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो द्वात्रिंशता - 


p. 279


कारसमन्वागतं आर्यमानं प्रगृह्ले॥ कथं च भिक्षवः बोधिसत्वो अभीतो अच्छभी विगतभयरोमहर्षो द्वात्रिंशताकारसमन्वागतमार्यमानं प्रगृह्ले॥ महान्तमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। प्रतिपूरं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। प्रणीतं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। परिशुद्धं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। अविपरीतं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। अपूर्वं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। नैर्याणिकमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। लोकोत्तरं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। असाधारणं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। अव्यावध्यं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। अनागतं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्ले। नास्ति तं सुखं यं मे न परित्यक्तं तस्य अर्थस्य आहरणतायै बोधिसत्वो आर्यमानं प्रगृह्ले। नास्ति लोकोत्तरलोके सुखं यं मे नं परित्यक्तं तस्य अर्थस्य आहरणतायै बोधिसत्वो आर्यमानं प्रगृह्ले। नास्ति लोके तं दुःखं यं मे न उपादिन्नं तस्य अर्थस्य आहरणतायै बोधिसत्वो आर्यमानं प्रगृह्ले। नास्ति सा लोके रमणीया या मे न परित्यक्ता तस्य अर्थस्य आहरणताये बोधिसत्वो आर्यमानं प्रगृह्ले। नास्ति लोके चित्रिकं यं मे न परित्यक्तं तस्य अर्थस्य आहरणताये बोधिसत्वो आर्यमानं प्रगृह्ले। नास्ति तं लोके ऐश्वर्यं यं मे न परित्यक्तं तस्य अर्थस्य आहरणताये बोधिसत्वो आर्यमानं प्रगृह्ले। न खलु पुनः कामरतिहेतोः बोधिसत्वो आर्यमानं प्रगृह्ले। अथ खलु विरक्तः सर्वसंस्कारेषु सर्वसंस्कारवीति प्रापयिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्ले। पूर्वोत्पादसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्ले। अग्रोत्पादसंपन्नो बोधिसत्वो आर्यमानं प्र -


p. 280


गृह्ले। प्रणिधिसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्ले। निःश्रयसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्ले। उपचारसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्ले। उपस्तम्भसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्ले। सम्भारसम्पन्नो बोधिसत्वो आर्यमानं प्रगृह्ले। दृढसमादानो हमस्मीति कुशलेहि धर्मेहि तं मया समादानं भग्नपूर्वं नापि भंजिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्ले। दृढचित्तो हमस्मि स्थितचित्तो या खलु पुनर्दृढचित्तेन स्थितचित्तेन भूमी अधिगन्तव्या तां भूमिमधिगमिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्ले। महाद्रुमो हमस्मि अपरिमितचेतसो या खलु पुनः महाद्रुमेन अपरिमितचेतसेन भूमी अधिगन्तव्या तां भूमिं अधिगमिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्ले। अग्रेण पुनः वीर्येण अग्रां भूभिं अधिगमिष्यं अग्रं मे वीर्यन्ति बोधिसत्वो आर्यमानं प्रगृह्ले। तां भूमिमधिगमिष्यामि यां भूमिमधिगम्य महतो जनकायस्य अर्थं करिष्यामि बोधिसत्वो आर्यमानं प्रगृह्ले। एवं खलु भिक्षवो बोधिसत्वो अभीती अच्छम्भी विगतभयरोमहर्षो द्वात्रिंशताकारसमन्वागतं आर्यमानं प्रगृह्ले॥

अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो पंचविधं आर्यस्म्तं प्रादुर्करे॥ कथं च भिक्षवः बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो पंचविधं आर्यस्मितं प्रादुरकरे। सय्यथीदं छन्दोपस्तब्धं वीर्योपस्तब्धं स्मृत्युपस्तब्धं समाध्युपस्तब्धं प्रज्ञोपस्तब्धं॥ एवं खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो पंचविधं। एवं खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो पंचविधं आर्यस्मितं प्रादुरकरे॥

अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो चतुर्विधं 


p. 281


आर्यमहासिंहविलोकितं विलोकेति॥ कथं च भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो चतुर्विधं आर्यमहासिंहविलोकितं विलोकेति॥ सय्यथीदं असंविग्नं विलोकेति। असंत्रस्तं च विलोकेति। असंप्रभीतं च विलोकेति। विगतभयरो महर्षं च विलोकेति॥ एवं खलु भिक्षवः बोधिसत्वो चतुर्विधं आर्यमहासिंहविलोकितं विलोकेति॥

अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो चतुर्विधं आर्यमहासिंहविजृम्भितं विजृम्भेति॥ कथं च भिक्षवः बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो चतुर्विधं आर्यमहासिंहविजृम्भितं विजृम्भेति॥ सय्यथीदं अभीतं च विजृम्भेति अविग्नं च विजृम्भेति असन्त्रस्तं च विजृम्भेति त्रासेन्तो च पुन मारं च मारपर्षदं च महासिंहविजृम्भितं विजृम्भेति॥ एवं च खलु भिक्षवो बोधिसत्वो चतुर्विधं आर्यमहासिंहविजृम्भितं विजृम्भेति॥

अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो महासिंह उक्कासितं उक्कासि॥ कथं च भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो आर्यमहासिंह उक्कासितं उक्कसे। सय्यथीदं अभीतं उक्कासे असंविग्नं च उक्कासे असंत्रस्तं च उक्कासे अच्छम्भितं च उक्कासे॥ इदं च पुनर्भिक्षवो बोधिसत्वस्य आर्यमहासिंह उक्कासितं त्रिसाहस्रमहासाहस्राय लोकधातौ ये जना सर्वे शब्दं अश्रोषीत्॥ एवं खलु भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो चतुर्विधं आर्यमहासिंह उक्कासितं उक्कासि॥

अथ खलु भिक्षवो मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो 


p. 282


महतीं चतुरंगिनीं सेनां सन्नाहयित्वा येन बोधियष्टिस्तेतोपसंक्रमित्वा बोधिसत्वस्य पुरतो स्थित्वा महान्तं शन्दनिनादमकार्षीत्॥ सय्यथीदं इमं हरथ इमं निहरथ इमं वधथ मारगणा भद्रमस्तु वो॥ अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो सुवर्णवर्णबाहां चीवरातो निर्नामयित्वा जालिना हस्तरत्नेन ताम्रनखेन सुचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृदुना तूलस्पर्शोपमेन अनेककल्पकोटीकुशलमूलसमन्वागतेन दक्षिणेन पाणिना त्रिकृत्वो शिरमनुपरिमार्जे दक्षिणेन पाणिना पर्यंकं परिमार्जयित्वा दक्षिणेन पाणिना पृथिवीं पराहनति॥ अथ खलु भिक्षवो बोधिसत्वेन पाणिना शीर्षे परामृष्टे दक्षिणेन पाणिना पर्यंके परामृष्टे दक्षिणेन पाणिना पृथिवीयं पराहतायां इयं महापृथिवी गम्भीरभीमरूपं अनुनदे अनुरणे। सय्यथापि नाम भिक्षवो महतीये मागधिकाये कंसपात्रीये गिरिकन्दरगताये शिलापट्टे संपराहताये गम्भीरो भीष्मरूपो घोषो अनुनदे अनुरणे एवमेव भिक्षवो बोधिसत्वेन दक्षिणेन पाणिना शिरे परामृष्टे दक्षिनदे पाणिना पर्यके परामृष्टे दक्षिणेन पाणिना पृथिवीयं पराहतायं (इयं महापृथिवी गम्भीरभीमरूपं अनुनदे अनुरणे)॥सा मारसेना तावत्सुसमृद्धा तावत्सुसंनद्धा भीता त्रस्ता व्यथिता संविग्ना संहृष्टरोमजाता तेन विचरेन्सु तेन विलयेन्सु हस्तिनो पि सानं संसीदेन्सुः अश्वा पि सानं संसीदेन्सुः रथा पि सानं संसीदेन्सुः पदाता पि सानं संसीदेन्सुः प्रहरणा पि सानं संसीदेन्सुः। अपरे हस्तेषु प्रपतेन्सुः 


p. 283


अपरे ओमुद्धका प्रपतेन्सुः अपरे अपकुब्जका प्रपतेन्सुः अपरे उत्तानका प्रपतेन्सुः अपरे वामने पार्श्वेन प्रपतेन्सुः अपरे दक्षिणेन पार्श्वेन प्रपतेन्सुः। मारो च पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो एकमन्ते प्रध्याये काण्डेन भूमिं विलिखन्तो॥ श्रमणो मे गौतमो विषयं अतिक्रमिष्यतीति॥

अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो विविक्तमेव कामैर्विविक्तं पापकैरकुशलैर्धर्मैः  सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरे। सवितर्कानां सविचाराणां व्युपशमादध्यात्मसंप्रसादा चेतसो एकोतिभावादवितर्कविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानं उपसंपद्य विहरे। सप्रीतिविरागादुपेक्षकश्च विहरे स्मृतः संप्रजानं सुखं काये। यत्तदार्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानं उपसंपद्य विहरे। सो सुखस्य च प्रहाणात्सर्वसौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्ष्य स्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरे॥

अथ् खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगत भयरोमहर्षो रात्र्या पुरिमे यामे दिव्यचक्षुज्ञानदर्शनप्रतिसंखाय चित्तमभिनिर्हरे अभिनिर्नामये। स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यति च्यवन्तां उपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां सर्वां प्रजानति। इमे भवन्तः सत्वा कायदुश्चरितेन समन्वागता वाचादुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टिका तेन मिथ्यादृष्टिकर्मसमादानहेतोः तद्धेतोस्तत्प्रत्ययात्कायस्त भेदात्परं मरणादपायदुर्गतिविनिपाते नरकेषूपपन्नाः। इमे 


p. 284


पुनर्भवन्तः सत्वाः कायसुचरितेन समन्वागता वाचासुचरितेन समन्वागता मनोसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टिकास्ते सम्यग्दृष्टिकर्मसमादानहेतोस्तद्धेतोस्तत्प्रत्ययात्कायस्य भेदात्परं मरणात्स्वर्गकाये देवेषूपपन्नाः। इति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यति च्यवन्तामुपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां सत्वां जानाति॥

अथ खलु भिक्षवः बोधिसत्वो अभितो अच्छम्भी विगतभयरोमहर्षो रात्र्या मध्यमे यामे पूर्वनिवासानुस्मृतिज्ञानाये चित्तमभिनिर्हरे अभिनिर्नामयेसि। सो नेकविधं पूर्वनिवासानुस्मृतिज्ञानाये चित्तमभिनिर्हरे अभिनिर्नामयेसि। सो ने कविधं पुर्वनिवासं समनुस्मरे। सय्यथीदं एकां वा जातिं द्वे वा जातीं त्रिणि जातीं चत्वारि वा जातीं पंच वा जातीं दश वा जातीं विंशं वा जातीं त्रिंशं वा जातीं पंचाशं वा जातीं शतं वा जातीं सहस्रं वा जातीं शतसहस्रं वा जातीं संवर्तकल्पं वा विवर्तकल्पं वा संवर्तविवर्तकल्पं वा अनेकान्यपि संवर्तकल्पां अनेकान्यपि विवर्तकल्पां अनेकान्यपि संवर्तविवर्तकल्पां अमुत्राहमासिं एवंनामो एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी इति साकारं सोद्देशं अनेकविधं पुर्वनिवासमनुस्मरति॥

अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो रात्र्या पश्चिमे यामे अरुणोद्घाटसमये नन्दीमुखायां रजन्यं यत्किंचित्पुरुषेण सत्पुरुषेण महापुरुषेण पुरुषर्षभेण पुरुषद्रव्येण पुरुषशूरेण पुरुषवीरेण पुरुषनागेन पुरुषसिंहेन पुरुषपदुमेन पुरुषकुमुदेन पुरुषपुण्डरीकेन् पुरुषाजानेयेन पुरुषधौरेयेण अनुत्तरेण पुरुषदम्यसारथिना निक्रान्तेन पराक्रान्तेन अर्थिकेन अप्र - 


p. 285


मत्तेन आतापिना प्रहितात्मेन व्यपकृष्टेन विहरन्तेन गतिमतानुस्मृतिधृतिमता बुद्धिमता प्रज्ञामता सर्वशो सर्वत्रताये ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं सर्वन्तं एकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुद्धे। सय्यथीदं इदं दुःखं अयं दुःखसमुदयो अयं दुःखनिरोधो अयं दुःखनिरोधगामिनी प्रतिपत्। इमे आश्रवा इमो आश्रवसमुदयो अयं आश्रवनिरोधो अयम् आश्रवनिरोधगामिनी प्रतिपत्। इह आश्रवा अशेषा निरवशेषा निरुध्यन्ति व्युपशाम्यन्ति प्रहाणमस्तं गच्छन्ति। यदिदं इमस्य सतो इदं भवति इमस्य असतो इदं न भवति। इमस्योत्पादादिदमुत्पद्यते। इमस्य निरोधादिदं निरुध्यति इति पि। अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययं स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययमुपादानं उपादानप्रत्ययो भवो भवप्रत्यया जाति जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा भवन्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। इत्यपि अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद्विज्ञाननिरोधः विज्ञाननिरोधात् नामरूपनिरोधः नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात्स्पर्शनिरोधः स्पर्शनिरोधाद्वेदनानिरोधः वेदनानिरोधात्तृष्णानिरोधः तृष्णानिरोधादुपादाननिरोधः उपादाननिरोधाद्भवनिरोधः भवनिरोधाज्जातिनिरोधः जातिनिरोधाज्जरामरणशोकप रिदेवदुःखदौर्मनस्योपायसा निरुध्यन्ते। एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति॥ सर्वसंस्कारा अनित्याः सर्वसंस्कारा दुःखा सर्वधर्मा अनात्मानः॥ एतं शान्तं एतं प्रणीतं एतं यथावदेतं अविपरीतं यमिदं सर्वोपधिप्रतिनिःसर्गो सर्वसंस्कारसमथा धर्मोपच्छेदो तृष्णाक्षयो विरागो निरोधो निर्वाणं॥


p. 286


अथ खलु भिक्षवो तथागतस्तस्मिं समये इदमुदानमुदानेसि॥

सुखो पुण्यस्य विपाको अभिप्रायश्च ऋध्यति।

क्षिप्रं स परमां शान्तिं निर्वृतिं चाधिगच्छति॥

पुरतो ये उपसर्गा देवता आरकायिका।

अन्तरायं न शन्कोन्ति कृतपुण्यस्य कर्तु वै॥

ये भवन्ति अल्पपुण्यस्य विघ्ना ते न भवन्ति पुण्यवतो। बलवां भवति समाधि सम्भारतो पुण्यानां। यद्यदेव देवलोके अथ वा वसवर्तिमनुष्येषु कृतपुण्यः प्रार्थयते तथा ऋध्यते तस्य। अथ वा पुनर् प्रार्थयति निर्वाणं अच्युतपदमशोकं मार्ग दुःखप्रशमनं प्रतिलभते। अल्पकिशरेण बोधि उत्तमा स्पर्शिता इह मया प्रज्ञाये वीर्येण च दुःखं मोचितं भारमोहितं गुरुं प्राप्ता च सर्वज्ञता मारो च निहतो सबलवाहनो भस्मीकृतो अन्तको तस्मिं बोधिद्रुमोत्त स्थितो हं॥

सप्ताहं एकासने देवकोटीसहस्राणि पूजयेन्सुः॥ तस्मिं आसने दिव्यं चन्दनचूर्णं ओकिरेन्सुः पुष्पेहि च मान्दारवेहि ओकिरेन्सुः दिव्यानि तूर्याणि उपरि अघट्टितानि प्रवाद्येन्सुः तदा देवा च दिव्यानि चन्दनचूर्णानि उपरितो प्रकिरेन्सुः दिव्यानि च अगुरुचूर्णानि दिव्यानि केशलचुर्णानि दिव्यानि तमालपत्रर्णानि दिव्यानि मान्दारवाणि पुष्पाणि प्रवर्षेन्सुः महामान्दारवाणि पुष्पाणि कर्कारवाणि महाकर्कारवाणि रोचमानानि महारोचमानानि भीष्माणि महाभीष्माणि समन्तगन्धानि महासमन्तगन्धानि मंजूषकानि महामंजूषकानि पारिजातकपुष्पाणि दिव्यानि सुव -


p. 287


णपुष्पाणि रुप्यपुष्पाणि सर्वरतनामयानि पुष्पाणि प्रवर्षेन्सुः दिव्यानि त्रिंशच्छतसहस्राणि दिव्यानि रत्नमयानि अन्तरीक्षस्मिं प्रादुर्भूतानि च्छादयेन्सुः जिनकायं शैलं रत्नामयं स्तूपं वा सुवर्णमयं नैककल्पकोटिकुशलमूलसमन्वागतं॥

अथ खलु भिक्षवः संबहुलाश्च शुद्धावासकायिका देवा येन तथागतस्तेनोपसंक्रमित्वा तथागतस्य पादौ शिरसा वन्दित्वा एकान्ते स्थितासुः सगौरवा सप्रतीसा एकांशीकृता प्रांजलीकृतास्तथागतमेव नमस्यमाना॥ एकान्ते स्थिता भिक्षवः ते संबहुलाः शुद्धावासकायिका देवपुत्रा अशीतिहि आकारेहि मारं पापीमं संमुखं अभिगर्जेन्सुः कतमेहि अशीतीहि॥ न नाम ते पापीमं एतदभूषि। न खलु पुनरहं पश्यामि श्रमणस्य गौतमस्य कंचिद्देवमनुष्येषु निक्षेपणं यन्नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। ये पि चेमे स्वविषयकायिका देवपुत्राः श्रमणस्य गौतमस्य अभ्यन्तरो परिवारो यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः पूर्वयोगसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः निर्वाणसन्तिका भवन्ति यं नूनाहं  श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः द्युतिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः अनूनाचारसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः गर्भावक्रान्तिसम्पन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम


p. 288


ते पापीमं एतदभूषि। एवंरूपाः सत्वा गर्भस्थितिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः जातिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः कुलसंपन्ना भवन्ति य नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा लक्षणसम्पन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा अनुव्यंजनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः कृताधिकारा धर्मसम्पन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः कल्याणसंपन्ना भवन्ति यं नुनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः वर्णसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः कारवर्णसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा अध्याशयसंपन्ना भवन्ति यं नूनाहं  श्रमणे गौतमे निर्विद्य अपक्रमेयं॥। न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा सत्त्वसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः सर्वविभूतिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः कायकर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा वाचाकर्मसंपन्ना  


p. 289


भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा चित्तकर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवरूपाः सत्वाः सत्त्वसारसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एवदभूषि। एवंरूपाः सत्वाः सारप्रवरसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः अपरिहाणिधर्मसपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमन्नेतदभूषि। एवंरूपाः सत्वा अभिरूहसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपास्सत्वाः यापनकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः चारित्रसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवरूपाः सत्वाः महाकरुणासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीम एतदभूषि। एवंरूपाः सत्वा महेशाख्यत्वसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा धर्मैश्वर्यसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा महाधर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा लोकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अ -


p. 290


पक्रमेयं॥ न नाम ते पापीमन्नेतदभूषि। एवम्रूपाः सत्वा लोकविचयसंपन्ना भवन्ति यन्नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं। न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा लोकप्रविचयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमन्नेतदभूषि। एवंरूपाः सत्वा ऋद्धिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमां एतदभूषि। एवंरूपाः सत्वा बोधिपक्षिकधर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपास्सत्वाः उत्थानसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा वीर्यसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमन्नेतदभूषि। एवंरूपाः सत्वा स्मृतिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वास्समाधिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा प्रज्ञासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमां एतदभूषि। एवंरूपाः सत्वा विमुक्तिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा विमुक्तिज्ञानदर्शनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा प्रतिभानसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमन्नेतदभूषि। एवंरूपा सत्वा व्याकरणसंपन्ना भवन्ति यं नूनाहं श्रमणे


p. 291


गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपास्सत्वा धर्मदेशनासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा अनवद्यधर्मदेशनासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपास्सत्वा धर्मदेशनासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम पापीमं एतदभूषि। एवंरूपाः सत्वा अनवद्यधर्मदेशनासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमन्नेतदभूषि। एवंरूपाः सत्वा ज्ञानसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमन्नेतदभूषि। एवंरूपाः सत्वा दर्शनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमन्नेतदभुषि। एवंरूपाः सत्वा ज्ञानदर्शनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा आनिंज्यसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपा सत्वाः परित्राणसंपन्ना भवन्ति यं नुनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा पूर्वोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा युगोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वाः कल्याणोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा अग्रोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा ज्येष्ठोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा श्रेष्ठोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे 


p. 292


गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमन्नेतदभूषि। एवंरूपाः सत्वाः प्रणिधिपूर्वोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा निःश्रेयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपः सत्वा उपचयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरुपाः सत्वा उपस्तम्भनकुशला भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा संभारसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीम एतदभूषि। एवंरूपाः सत्वा आर्यपंचांगिकसमाधिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं। न नाम ते पापीमं एतदभूषि एवंरुपाः सत्वा आर्यमहापंचागिकसमाधिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नामते पापीमं एतदभूषि। एवंरूपाः सत्वा आर्यमहापंचांगिकसमाधिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा आर्यपंचज्ञातिकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं। न नाम ते पापीमं एतदभूषि। एवंरुपाः सत्वा आर्यमहापंचज्ञातिकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा एकाग्रमनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा अरणासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा अरिसैन्यप्रमर्दनसंपन्ना भवन्ति यं नूनाहं श्र - 


p. 293


मणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा स्वयम्भूसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा स्वयम्भूधर्मतासंपन्ना  भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा अग्राये परमाये धर्मताये सपन्ना  भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा कृतपुण्यतासंपन्ना  भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि।  एवंरूपाः सत्वा अग्राये परमाये वर्णसंपदाये संपन्ना  भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं॥ न नाम ते पापीमं एतदभूषि। एवंरूपाः सत्वा वर्णसंपन्ना ते पुनःपापीमं सत्वा दुष्प्रधर्षा भवन्ति। पश्य पापीमं यावत् महदयं अपराधं॥ एकमन्ते स्थिता भिक्षवः शुद्धावासकायिका देवा मारं पापीमं इमेहि अशीतिहि आकारेहि संमुखं अभिगर्जेन्सुः॥ इदमवोचद्भगवान् राजगृहे विहरन्तो गृद्धकूटे पर्वते इमस्मिंश्च पुनर्व्याकरणे भाष्यमाणे पंचानां भिक्षुशतानां अनुपादाश्रवेभ्यश्चित्तानि विमुक्तानि आत्तमनसस्ते भिक्षू भगवतो भाषितमभिनन्देन्सुः॥

अवलोकितं नाम सूत्रं समाप्तं॥

एवं मया श्रुतं एकस्मिं समये भगवां वैशाल्यां विहरति आम्रपालीवने महता भिक्षुसंघेन सार्धं महता च बोधिसत्वगणेन॥ अथ खलु विशुद्धमति भिक्षुरुत्थायासनादेकांशं चीवरं प्रापयित्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिस्थापयित्वा येन 


p. 294


भगवांस्तेनांजलिं प्रणामयित्वा भगवन्तमेतदुवाच॥ यद्भगवता बोधिसत्वभूतेन बोधिमण्डं उपसंक्रमित्वा बोधिमण्डे स्थिहित्वानावलोकितं सर्वलोकहिताय सर्व लोकसुखाय तं भगवां निर्देशतु तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च बोधिसत्वानां च महासत्वानां महन्तो धर्मालोको कृतो भविष्यति आश्वासो च दत्तो भवति॥ अथ खलु विशुद्धमतिर्भिक्षुः ताये वेलाये इमां गाथामभाषि॥

कथं त्वं लोकप्रद्यो अप्रमेय निरुपधि।

नैरंजनां तरितो सि हिताय सर्वप्राणिनां॥

ये निमित्ता अभूत्तत्र तरमाणे नरोत्तमे।

व्याकरोहि महावीर तथागत महामुनि॥

यथा ते लोकप्रद्योत बोधिमण्डो अलंकृतो।

तथा हि मे पृच्छोतो ब्रूहि अर्थकामहितंकरं॥

यथा उत्तमा बोधि प्राप्ता त्वया लोकस्य चेतिय।

यथा पापीमं प्रहनेसि कृष्णबन्धुं ससैन्यकं॥

दश ते बला स्वयंभू सत्वसार निरुत्तरा।

ऋद्धिप्रभावो थ प्रतपसि दिशा सर्वा सार्थवाह नरमरुपूजित शतकृत्वो महर्षे। क्रमसि यथैव हन्सराजा हिमवरपाण्डरो शुद्धो धार्तराष्ट्रो वरसुरवर अकिलंतकायो। व्रजसि दिशतो विदिशा तावदेव देवासुरनागयक्षसंघा मरुभवना कृत्वा 


p. 295


सर्वजिह्मवर्णस्थूणां। यथैव दग्धां स्थूणां सुवर्णबिम्बं अभिभवति तथा शास्ता सवलोकमभिभवति। कुसुमितो रत्नकायो लक्षणेहि यथा गगणं प्रतिपूरं तारकेहि। पुण्यशतसहस्रेहि कोटि परा न विद्यति सुगतस्य एकनामे॥न ते स्ति कोचित्समसमो सर्वलोके कुतो विशिष्टो तावदेव सर्वा संप्रभासि दश दिशता समन्ता सहस्ररश्मि यथा अन्तरीक्षे॥ अलंकृतस्ते दशबल आत्मभावः द्वात्रिंशकवचितलक्षणेहि घनातो मुक्तो यथा कार्तिकस्मिं चन्द्रो व शोभते॥ यथा तारकेहि सहस्रशीतिं चतुरो अशीति अन्यश्चरं शास्तु येहि घोषो अंगसहस्रेहि अविकल्या पंचपुरा परिगृहीता भगवतो येहि भगवतो वाचा (??)॥ मुखतो गन्धो भगवतो चन्दनस्य् प्रवायते। 

अतुलियमप्रमेयं बुद्धक्षेत्रं अपरिमितं भरित्वा समेति खिल दोषमोहं। त्रिसाहस्रा सर्वा यदि पि लोकधातु पूरा भवे शिखाशिरि सर्षपेहि शक्यं गणेतुं स्यात्सर्षपा। एकमुहूर्ते विचक्षणेन न त्वेव शक्यं गणयितुं सर्वसत्वधातू दशसु दिशासु अपरिमिता अनन्ता या हि भगवतो चन्दनस्य घ्रायित्वा गन्धं प्रतिभे। क्षान्तिभूमि धीर अतुल्य महाकरुणावीर महाप्रतापबलवा भिषज सत्वानां। नाथ अनुपैप्त दक्षिणेय शरणव्रजतां जिनप्रवर स्वयंभो॥ कस्तृप्तिं हि जनये त्वां स्तुवन्तो॥ तथा हि बलो भगवतः अप्रमेयो॥ अनन्तवर्णं हतरागं शान्तचित्तं शरणं व्रजेम त्वा अभिभुं अनभिभूतं॥ भवेय अन्तं गगणं व्रजतो शक्यं समुद्रं पि ततः क्षपेतुं न शक्यं 


p. 296


जिने बलप्रमाणं क्षपेतं। तथा हि संबुद्धो संभूतबलो॥ सिंहं नरेन्द्रं दशबलं अप्रमेयं पृच्छामि॥ वीर हतराग शान्तं चित्तं ज्ञानेन शुद्धा दशदिशता असंगतिता (?) स मे प्रश्नं हितकर व्याकरोहि॥

कल्पकोटिसहस्राणि अप्रमेयमचिन्तिया।

चरितो भोति अर्थाय सर्वज्ञो द्विपदोत्तमो॥

दानं शीलं च क्षान्ति च ध्यानानि चनिषेविता।

प्रज्ञा च चरिता पूर्वं कल्पकोटिशतां बहूं॥

अग्नेयमणीनां य आभा गगन् विद्युतान वा।

नक्षत्राणां चापि या आभा जिह्मवर्णा भवन्ति ता॥

नास्ति देवो वा नागो वा यक्षो कुम्भाण्डराक्षसो।

यस्य एतादृशकायो यथा ते नरनायक॥

सुरासुरवरपूजनीयो गुरुकृतवन्दितो संक्तृतो महर्षे प्रभंकर द्विपदेन्द्र सत्वसारवर पुरुषर्षभ चेतियं नराणां। भ्रूविवरललाटे ऊर्णाभागो यथा गगने सुविशुद्धरश्मि राजते भगवतो यथा कार्तिके मासे विमलो विरोचते चन्द्रो पुर्णमास्यां॥ नील विमलनेत्रा नायकस्य सुरुचिरोत्पलवर्णसंनिकाशा विमला शुभा प्रभा॥ संरोचते च सुखजनना नरनारीणां नरेन्द्रदन्ता विमलपाण्डरा सुजातसमहिता हिमवर -


p. 297


सन्निका मुखं दलवरसंप्रकाशं दशबल तथा विशदं। ते शास्तुनः तरुणसुखुमरश्मीभिरास्तृता वररसवती शोभति जिह्वा नायकस्य प्रबालकसमतुल्यवर्णा च दिव्या बहुजनसंज्ञापनी। सुखंददं च आभाजालेन बद्धं ललाटं सभ्रूमुखं च शोभे यथैव चन्द्रमसो। सुखंसमाहितनीला दशबल भगवतो शीर्षे केशा। शाक्यसिंह ग्रीवा ते शोभे यथा सुवर्णकम्बु यथा ओवाहा च जिन समा। अभेद्यो सिंहार्धपूर्वो भगवतो आत्मभावो। प्रभासि लोके दिशता समन्ता । विशिष्टवाक्य अतुलसमुद्र कर्मविपाकं करोहि इमां गिरां भाषआणः सर्वस्ते लोको अभिनमते आवर्जितो करितो पृष्ट्वा दशनख अंजलीहि॥

एवमुक्ते भगवां विशुद्धमतिं भिक्षुं एतदवोचत्॥ साधु साधु भिक्षु साधु खलु पुनस्ते भिक्षु यस्त्वं तथागतमेतमर्थं परिपृच्छितव्यं मन्यसि। शोभनं ते भिक्षु प्रतिभानं भद्रिका परिमीमान्सा यदेवं हि भिक्षु प्रतिभायसि। एवं पि तेषां कुलपुत्राणां कर्मविपाका प्रतिभायन्ति येषामयं धर्मपर्यायो हस्तगतो भविष्यति। न ते मारस्य पापीमतो वसगता भविष्यन्ति। नापि तेषां मनुष्या वा अमनुष्या वा अवतारं लभिष्यन्ति॥ तत्कस्य हेतोः॥ उदारकुशलमूलचरिता ते हि भिक्षू ते हि सत्वा येषां अर्थाय त्वं एतमर्थं परिपृच्छ सि बोधिसत्वानां महासत्वानां। त्वं भिक्षु सत्वानामर्थाय तथागतमेतमर्थं परिपृच्छितव्यं मन्यसि यमिदं बोधिसत्वानां लोकपरिणायकानां सर्वसत्वचारिकविशेषसंप्रस्थितानां। त्वं भिक्षु सत्वानामर्थाय त -


p. 298


थागतं परिपृच्छसि यमिदं बोधिसत्वानां महासत्वानां लोकपरिणायकानां सर्वसंशयच्छेदप्रभेदकौशल्यसमन्वागमसंप्रस्थितानां। भिक्षु सत्वानामर्थाय तथागतमेतमर्थं परिपृच्छेसि यमिदं बोधिसत्वानां महासत्वानां लोकपरिणायकानां दानविशेषाभियुक्तानां क्षान्तिविशेषाभियुक्तानां ध्यानविशेषाभियुक्तानां प्रज्ञाविशेषाभियुक्तानां॥ अथ खलु भगवां ताये वेलाये इमां गाथामभाषि॥

तुषिते भवने दिव्य ओतरित्वा हिमसमो नागो भवित्व षडिषाणो।

राज्ञो अग्रमहिषीं प्रविष्टो कुक्षिं ततो त्रिसाहस्र प्रकम्पे लोकधातु॥

तद सुविपुल आभा सुवर्णवर्णा इमं सर्वं साहस्रलोकधातुं।

उपरि यावभवग्रं प्रज्वलन्ते यद जिनः कुक्षिं प्रविष्टो संप्रजानो॥

शक्रशतसहस्रं सब्रह्मकोटयो जिनं वरकुक्षिगतं नमस्य नित्यं।

उपागमि दिवसे पि अर्धरात्रे न च व्रजि इमे अविसर्जिता कदाचित्॥

तूर्यं च शतसहस्रसंप्रघुष्टं उपरि नभं स्फुटं सर्वदेवताहि।

दिव्यं प्रहाय चन्दनस्य चूर्णं अथ पुनरन्ये पताकच्छत्रहस्ता।

।  ॥॥ दिव्या प्रवर्षि वरकुसुमा चौत्पलस्य।

मधुकरकरविंका सुवर्णमाल्या याव जिनो कुक्षिं प्रविष्टो संप्रजानो॥

यद आयेथा बुद्धो सुत्वसारो देवानं इन्द्रो धारयो संहृष्टंः।

वस्त्रं विशिष्टं सुरुचिरं कौशिकेयं जाबुनदस्य समनिभं कांचनस्य।

यदा च भूमिस्थितो बोधिसत्वो सप्त पदां चक्रमे हृष्टचित्तो।


p. 299


अहं खु लोके असदृशं करिष्यं अन्तं जराय मरणक्रियाय॥

तद प्रकम्पे वसुमति षडिकारं आभा चमुक्ता दिशता समन्ता।

दिव्या शब्दा प्रवादिता अन्तरीक्षे अशीति सहस्रा अभु देवतानां॥

दिव्या च चूर्णा नभतो प्रवर्षे चन्दनस्य सुवर्णशुभा देवपुत्रा।

मन्दारवेहि ओकिरे बोधिसत्वं प्रामोद्यजाता मरु हृष्टचिता॥

एकूनत्रिंशो वयसा नुप्राप्तो परिपाचयित्वा जगद्बोधिसत्वो।

त्यजित्व राज्यं रतन्वरां च सप्त काषायवस्त्रो अभु बोधिसत्वो॥

सो प्रव्रजित्व विदु बोधिसत्वो षडर्षयुगं चरे दुष्कराणि।

सो मागधस्य विजित्ं प्रविष्टो ग्रामिकधीता दृशि बोधिसत्व।

सुवर्णपात्रीं च उदग्रचित्तो भृंगारं गृह्य रतनविचित्रं।

अष्टाङ्गुपेतं शुभपारिपूर्णं तद आचमेसि ऋषि बोधिसत्वो॥

बलेनुपेतं सुरसंप्रणीतं गन्धेन च उपनये भोजनं च।

एवं च च्छन्दं जने वेगजाता बुद्धो भवे कवचितो लक्षणेहि॥

इमं च हीनं विजहिय इष्टिभावं चरेय शुद्धं अशबलब्रह्मचर्यं।

वर्जे कामं दुःखकरं रोगमूलं सेवेय बुद्धां हतरजनिष्किलेशां॥

भाषित्वा गाथामिमां एवरूपां सेनापतेर्दुहिता हृष्टचित्ता।

नमस्यमानांजलिय बोधिसत्वं मुंचित्वा अश्रु इमं वाच भाषे॥

सुलब्धलाभो महिपति बिम्बिसारो अशोकप्राप्तो परिवृंहिताज्ञो।


p. 300


यस्यायं विजिते स्थितो बोधिसत्वो अद्य अतुल्यां प्राप्स्यति बोधिमग्रां॥ 

भुंजित्वा भक्तं मम क्रकुच्छन्दो व्रजेत्स्वयंभू द्रुम पादपेन्द्रं।

प्रभासयन्तो दश दिशा समन्ता जाम्बुनदस्य यथा सुवर्णयूपो॥

कोनाकनामो महदक्षिणीयः भुंजित्व भक्तं व्रजि बोधिमण्डं।

अदीनचित्तो अचलो असंप्रवेधि यस्यासि कायो स्फुटो लक्षणेहि॥

यस्यासि नामं तद काश्यपो पि जाम्बूनदसमनिभविग्रहस्य।

भुंजित्व भक्तं मम विदु सत्वसारः व्रजेत्स्वयंभू द्रुमवरं पादपेन्द्रं॥

ये भद्रकल्पे अतुलिय दक्षिणेया भेष्यन्ति धीरा हतरजनिष्किलेशा।

पूजिष्य सर्वा अतुलियबोधिहेतोः न मह्य कांक्षा अन्या हि अस्ति किंचित्।

ये अन्तरीक्षे इह देवपुत्राः ते चन्दनेनोकिरे बोधिसत्वं। 

वाचां भाषे मुदितवेगजाता सेनापतेर्दुहिता लब्धलाभा॥

पूर्वेनिवासं स्मरेसि सुजाता प्रेम्नं जनेत्व शुभं बोधिसत्वे।

बुद्धान कोटिनयुता सहस्रा भुक्ता भक्तं मम गता बोहिमूलं॥

अथ खलु बोधिसत्वो येन नैरंजना तेनोपसंक्रमित्वा मुहूर्तं अस्थासि। समेहि पादतलेहि धरणीं प्रकम्पेसि॥ अथ खलु तस्मिं समये महान्तः पृथिवीचालो अभूषि भीषणो सरोमहर्षणो येन पृथिवीचालेन इयं त्रिसाहस्रमहासाहस्रा लोकधातु समा अभूषि पाणितलजाता सुमेरुश्च पर्वतराजा चक्रवाडमहाचक्रवाडा च पर्वता निमिन्धरो युगन्धरो इषांधरो च पर्वता खदिरकाश्वकर्णो विनतको सुदर्शनो च सप्त पर्वता द्वीपान्तरिका तथान्ये कालपर्वता पृथिव्यां ओसन्ना अभूषि


p. 301


बोधिसत्वस्यानुभावेन। महासमुद्राश्च संक्षुब्धा अभूषि बोधिसत्वस्यानुभावेन प्रज्ञायेन्सुः॥ तेन खलु पुनः समयेन अयं त्रिसाहस्रमहासाहस्रो लोकधातुः शकटचक्रप्रमाणमात्रेहि जाम्बूनदस्य सुवर्णस्य पदुमेहि शतसहस्रपदुमेहि शतसहस्रपत्रेहि नीलवैडूर्यजातेहि मुसारगल्वकेहि शिरिगर्भपिंजलेहि स्फुटा अभूषि अष्टापदविनिबद्धा महान्तश्च ओभासो प्रादुर्भूतः येन ओभासेन महानिरया भीष्मा उपशान्ता अभूषि। सर्वे नैरयिका सत्वा सुखिता अभूषि। सर्वे तिर्यग्योनिगताः सुखिता अभूषि। सर्वे यामलौकिका सत्वाः सुखिता अभूषि परस्परं मैत्रचित्ता बोधिसत्वानुभावेन। महान्तेन चोभासेन सर्वा त्रिसाहस्रमहासाहस्राये लोकधातु ओभासिता अभूषि॥ तेन खलु पुनः समयेन त्रिसाहस्राहासाहस्राये लोकधातुये यावतका देवेन्द्रभवना नागेन्द्रभवना यक्षेन्द्रभवना गरुडेन्द्रभवना ते सर्वे एकोभासआभासा अभूषि॥ सर्वत्र बोधिसत्वस्य आत्मभावतामनुप्राप्तां संजानन्ति॥ तेन खलु पुनः समयेन यावतका त्रिसाहस्रमहासाहस्राये लोकधातूये देवा नागा यक्षा गन्धर्वा असुरा गरुडा किन्न

रा महोरगा ते सर्वे स्वकस्वकेषु आसनेषु न रमेन्सुः बोधिसत्वस्यानुभावेन। बोधिसत्वस्य शिरिं असहन्ता ते सर्वे येन बोधिमण्डस्तेनोपसंक्रमेन्सुः पुष्पमाल्यगन्धच्छत्रपताकावाद्यधूपनविलेपनपरिगृहिता॥ तेन खलु पुनः समयेन असंख्येयेहि अप्रमेयेहि बुद्धक्षेत्रेहि अभिक्रान्तकान्ता बोधिसत्वाः देवतावेषमभिनिर्मिणित्वा उपरि अन्तरीक्षे प्रतिष्ठेन्सुः दिव्य उत्पलपदुमपुण्डरीकपरिगृहीता॥ तेन खलु पुनः समयेन अयं त्रिसाहस्राहासाहस्रो लोकधातुः शक- 


p. 302


टचक्रप्रमाणेहि जाबूनदसुवर्णपदुमेहि शतसहस्रेहि नीलवैडूर्यनाडीहि अयुतशो केशरेहि [ शिरीषगर्भपंजरेहि भूमितलमुपादाय यावद्भवाग्रं स्फुटमभूषि आगन्तुकेहि केशरकेहि] शिरीषगर्भपंजरेहि भूमितलमुपादाय यावद्भवाग्रं स्फुटं अभुषि आगन्तुकेहि बोधिसत्वेहि देवनागयक्षेहि च असुरगरुडकिन्नरमहोरगेहि च॥

अथ खलु बोधिसत्वो महतो देवगणस्य पुरतो नैरंजनां नदीं उत्तीर्णो॥ तेन खलु पुनः समयेन नैरंजनाये नदीये अशीति च्छत्रकोटीयो जाम्बूनदसुवर्णानां चत्राणां प्रादुर्भूता बोधिसत्वस्य उपरि स्थिहेन्सुः अशीति च्छत्रकोटीयो रूप्यमयानां अशीति च्छत्रकोटीयो अस्मगर्भमयानां अशीति च्छत्रकोटीयो हस्तिगर्भायानां अशीति च्छत्रकोटीयो लोहितकामयानां अशीति च्छत्रकोटीयो मणिमयानां प्रादुर्भूता बोधिसत्वस्य उपरि स्थिहेन्सुः। अशीति च नागकोटोयो एकमेकश्च नागो अशीतिनागकोटिपरिवारो लोहितमुक्तापुष्पपरिगृहीता येन बोधिसत्वस्तेनोपसंक्रमित्वा बोधिसत्वं पूजयेन्सुः परिमकेन पुण्योपचयेन॥

अथ खलु कालों नागराजा स्वजनपरिवारः स्वकातो भवनातो अभ्युद्गमित्वा येन बोधिसत्वस्तेनोपसंक्रमित्वा बोधिसत्वस्य पादां शिरसा वन्दित्वा बोधिसत्वं प्रांजलीकृतो प्रेक्षमाणो गाथाभिरध्यभाषे॥

बोधि पर्येषमाणो यं बोधिसत्वो विसारदो।

नैरंजनां चरित्वान बोधिमूलमुपागमे॥

नानाद्विजसंघरुतं वरपादपमण्डितं॥

वरपुष्पफलोपेतं त्रिसाहस्राय यावता॥

यत्र ते लोकप्रद्योता आगता बोधि प्रापुणे।

क्रकुच्छन्दो कोनाकमुनि काश्यपो च महामुनि॥


p. 303


तं देशे लोकप्रद्योतो उपागमे लोकनायको।

यो सो वादित्यबन्धूनां शाक्यानां परमो मुनिः॥

ते देवसंघा मुदिता सर्वे हर्षितमानसाः।

पुष्पमेघसमानोघां तामकासि वसुन्धरां॥

स्वभवनेषु आगत्वा पूजेन्ति लोकनायकं।

प्रदक्षिणं बोधिसत्वं शुद्धावासा समागता॥

मन्दारवेहि पुष्पेहि दिव्येहि मनुजेहि च।

महारहेहि श्रेष्ठेहि बोधिमण्डं अलंकरे॥

वृक्षा ततोमुखा सर्वे बोधिमण्डे वने नमे।

येन स प्रवरो देशः पूर्वबुद्धनिषेवितः॥

यापि च बोधिमण्डस्मिं देवता वृक्षमाश्रिता।

सा बोधिसत्वं दृष्ट्वान घोषेसि च अमानुषं॥

चैलं च भ्रामये दिव्यं चन्दनं च प्रमंचसि। 

सा दिव्यै रत्नचूर्णैश्व ओकिरेसि नरर्षभमं॥

नानाविधानां गन्धानां दिव्यानां मानुषाण च।

चतुर्दिशाश्रिता वाता बोधिमण्डे प्रवायेन्सु च॥

दिव्या च तूर्या वाद्येन्सु अन्तरीक्षस्मिं शोभना।

संगीतिं विविधां कुर्वन् मञ्जुघोषां मनोरमां॥

ओभासः सुमहा आसि बोधिमण्डस्य रश्मिभिः।

येन सर्वो देवलोको स्फुटो आसि तदनन्तरं॥


p. 304


जिह्मवर्णा अभूद्दिव्या विमाना रतनामया।

जाम्बूनदसुवर्णेहि बोधिसत्वस्य रश्मिभिः॥

मन्दारवेहि पुष्पेहि ओकिरेन्ति नभे स्थिताः।

देवपुत्रसहस्राणि बोधिसत्वं महर्द्धिकाः॥

श्रुणित्वा अतुलं घोषं कालो नागो महर्षिणः।

हर्षितप्रीतसंतुष्टो नागकन्यापुरस्कृतो॥

क्रीडारतिसुखं दिव्यमुज्कित्वा सर्वमागतो।

चतुर्दिश विलोकेत्वा पश्यते पुरुषर्षभं॥

वैरोचनं वा गगणस्मिं सर्वरश्मिसमागतं।

अर्चित्वा मुदिततुष्टो बोधिसत्वं समालपे॥

यादृशा लक्षणा पूर्वबुद्धान पुरुषोत्तम।

क्रकुच्छन्दे कोनाकमुनि अभूच्चापि नरोत्तमे।

काश्यपे जिने च लक्षणा तथागते पुरुषोत्तमे॥

समा जालावनद्धा तेषां चरणा सुप्रतिष्ठिता।

लाक्षारसप्रसेकवर्णा सहचक्रा महर्षिणां।

हेष्टा पादतला जाता स्वस्तिकैरुपशोभिताः॥

पादांगुलीषु सर्वत्र नन्दियावर्त उद्धता।

भासन्ति लोकनाथानां व्रजतां चित्रमेदिनीं॥

उच्छृंखलपादा ते नाथ ईदृशा यादृशो तुवं।

न उज्जोतना गुल्फायो अंगुलीयो सुघट्टिता॥


p. 305


दीर्घागुली ताम्रनखा जालेहि उत्सदेहि च।

चरणा लोकनाथानां व्रजतां चित्रमेदिनीं॥

एणीजंघा च ते आसि शिरिगर्भोपसन्निभा।

जानुका गुप्तगुल्फा च तथा लोकहिता भवे॥

गजहस्तसदृशा बाहु आसि तेषां महर्षिणां।

सिंहपूर्वार्धकाया च न्यग्रोधपरिमण्डला॥

हातकं यथा उत्तप्तं कांचनच्छविशोभना।

अनोनतेन कायेन पाणीहि जानुकां स्पृशे॥

मृगराज्ञो हि यथा तेषां कटी वट्टा सुसञ्चिता।

कोशवस्तिगुह्य मेढं हयराजस्य यदृशं॥

ओदातमाचारं तेषां जानूनि च सुनिष्ठिता।

गम्भीरनाभा ते आसि पूर्वबुद्धा महर्षिणो॥

रजोकणेन (?) अस्पृष्टो कायो तेषां महर्षिणां॥

श्लक्ष्णच्छवी च ते नाथा ईदृशा यादृशो भवां॥

एकैकरोमा ते आसि ऊर्ध्वाग्ररोमराजितो।

नीलप्रदक्षिणावर्ता तथा लोकहितो भवां॥

संवृत्तस्कन्धा भ्रूश्चैषां यथा ऋषभस्य तादृशी।

प्रहूर्जुगात्रा ते नाथा आसीसु इमे उत्सदा॥

फणिकोपमांसबाहा अनुपूर्वमनुद्धता।

नारायणसंघटना ईदृशा यादृशो भवां॥


p. 306


तुंगनखा ताम्रनखाः कैलासशिखरोपमाः।

लक्षणैरुत्सदैश्चैषां कायमतीव शोभितं॥

ग्रीवा कम्बुसमा तेषां अनुपूर्वसमुद्गता।

सिंहहनू च ते नाथा तथा रसरसाग्रिणः॥

चत्वारिंशत्सुवट्टा दन्ता तेषां महर्षिणामभूत्।

अभून्सु शुक्रदंष्ट्रा ते ईदृशा यादृशो भवां॥

प्रभूततनुजिव्हाय सर्वं छादेन्सु स्वं मुखं।

दुवे च कर्णाग्राणि ते नासां च परिमार्जिषुः॥

अष्टांगसंप्रपूर्णा च वाचा तेषां महर्षिणां।

सर्वदर्शिणां सत्या च आज्ञेया सर्वप्राणिनां॥

ब्रह्मस्वरा च ते आसि करविंकरुतस्वरा।

दुन्दुभिस्वरघोषा च प्रेमणीयस्वरा पि च॥

जलेरुहो व कनको दशशतरश्मि भासति।

तथा भासेन्सु नाथानां मुखा आदित्यबन्धुनां॥

आयता अभिनीला च नेत्रा तेषां महर्षिणां।

नासा च उद्गता शोभे सुवर्णयूपोपमा यथा॥

भ्रुवन्तरेणाभूत्तेषां वरजातिमहर्षिणां।

ऊर्णा हि प्रकाशवन्ती मृदुका तूलसादृशा॥

महानलं चाभू मुखं चन्द्रो वा पूर्णमासिये।


p. 307


रतनाग्रीव च दिशा सर्वा ताय प्रभासिषु॥

नीला च मृदुका केशा काचिलिन्दिकसादृशा।

सर्वे प्रदक्षिणावर्ता तथा लोकहितो भवां॥

उष्णीषशीर्षा ते नाथा ईदृशा यादृशो भवां।

अनुल्लोकितमूर्ध्नानि सुरेहि असुरेहि च॥

महाप्रभा हि ते बुद्धा अतिगृह्लन्ति रश्मिभिः।

केतुराजेन चन्द्रो व प्रभाय अतिगृह्यते॥

एतां च अन्या च पश्यित्वा निमित्ता लक्षणानि च।

सर्वाणि बोधिसत्वस्य इदं वचनमब्रिवीत्॥

यथा ते देवपुत्रा ते पूजनार्थाय उत्सृताः।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

अजितां जालिनीं तृष्णां भवनेत्रीं समाहितः।

प्रज्ञाशस्त्रं गृहीत्वान च्छेत्स्यसे मारबन्धनं॥

अद्य त्वं सर्वतो शेषं किलेशपरिवेष्टितं।

विधुनिष्यसि रागाग्निं बोधिं प्राप्तो नरोत्तम॥

संघाटीपटं पात्रं च चीवरस्य वर्णता तथा।

यथा मे दृष्टा नाथानां तथा च लोकहिता तव॥

सर्वे प्रदक्षिणावर्ता एदृशा भोन्ति पुद्गला।

यथा व्रजसि सिंहो व अद्य बुद्धो भविष्यसि॥

शैलोपमं अप्रकम्प्यं समाधिं च जिनोपमं।


p. 308


बोधिमण्डे स्थिहित्वान दृढवीर्यः समारभे॥

स तस्य वचनं श्रुत्वा कालनागस्य भाषितं।

तुष्टो उदग्रसुमनो बोधिमूलमुपागमे॥

श्रुत्वान अतुलं घोषं कालनागो महाबलो।

बोधिसत्वस्य वेगेन भवनाती समुद्गतो॥

अंजलीं प्रगृहीत्वान दशपूर्णांगुलीन्तथा।

अभिस्तवे बुद्धिवीरं बोधिमण्डं व्रजन्तकं॥

यथा मृदु इमे वाता वायिष्यन्ति सुखं सदा।

सुरभिमनोज्ञगन्धा नात्युष्णा नातिशीतलाः॥

यथा च कुसुमवृष्टिं प्रवर्षेन्सु इमं देवता।

सुगत तव रहत्वं भेष्यति द्विपदोत्तम॥

प्रदक्षिणावर्तो मार्ष तुष्टो प्रमोदितो।

प्रीतिमना उदग्रो च सुखंमुञ्चो पि निष्क्रम॥

यथापि तूर्यसहस्रं संप्रघुष्टं उपरि नभस्मि स्फुटं देवताहि।

हृष्टप्रमुदितचित्तवेगजातो भविष्यसि बुद्धो विशिष्टो सर्वलोके॥

यथा च प्रभा न भायि अन्य काचिदुपरिविमाना कृता च जिह्मवर्णाः।

यथा प्रचलते भूमि षडिकारं भविष्यसि अद्य अतुख्यो दक्षिणेयो॥

यथ च भ्रामयन्त्यंबराणि भीष्मं मारगणं भंजित्व हृष्टचित्ता।

छत्रध्वजपताका च धारयन्ति भविष्यसि बुद्धो न मह्य अस्ति कांक्षा॥


p. 309


यथा च मधुरं दुन्दुभी नदन्ति गगनतलं स्फुटं सर्वमम्बरेहि।

यथा च कुसुमा वर्षे देवसंघो भविष्यसि लोके सदेवके स्वयंभूः॥

यथा च करिय अंजलिं नभस्मिं अभिस्तवे देवसहस्र हृष्टचित्ता।

कनकप्रभो विशिष्टो दक्षिणेयो भविष्यसि बुद्धो नराण अग्रवादी॥

अथ खलु बोधिसत्वो येन वृक्षमूलं तेनोपसंक्रमित्वा तेन खलु पुनः समयेन सर्वावन्तो बोधिमण्डो ओसक्तपट्टदामकलापो अभूषि। उच्छ्रितध्वजपताको छत्रकोष्टिसमलंकृतो रत्नसूत्रविचित्रितो धूपितधूपनो रतनवृक्ष परिवृतो चीवरसंस्तृतसंस्तृतो चन्दनचूर्ण अध्योकीर्णो रत्नोघविचित्रो॥ तेन खलु पुनः समयेन अनेकानि देवशतसहस्राणि उपरि अन्तरीक्षे प्रतिस्थिहित्वा धुपनपरिगृहीता बोधिसत्वं नमस्यन्ति। छत्रध्वजपताकपरिगृहीता बोधिसत्वं नमस्यन्ति। दिव्य उत्पलपदुमकुमुदपुण्डरीकपरिगृहीता नमस्यन्ति बोधिसत्वं। दिव्यचन्दनचूर्णपरिगृहीता बोधिसत्वं नमस्यन्ति। दिव्यरत्नचूर्णपरिगृहीता दिव्यरत्नपुष्पपरिगृहीता अनिमिषं प्रेक्षमाणा बोधिसत्वं नमस्यन्ति॥ तस्य अन्या देवता सुवर्णमयं बोधिवृक्षं संजानन्ति। यथा स्वकाये अधिमुक्तीये अन्ये देवा रूप्यमयं बोधिवृक्षं संजानन्ति। अन्ये देवा वैडूर्यमयं बोधिवृक्षं संजानन्ति। अन्ये देवा स्फटिकमयं बोधिवृक्षं संजानन्ति। अन्ये देवा अस्प्रगर्भमयं बोधिवृक्षं संजानन्ति। अन्ये देवा सप्तरत्नमयं बोधिवृक्षं संजानन्ति। अन्ये देवा शतसहस्ररत्नमयं बोधिवृक्षं संजानन्ति। यथापीदं स्वकस्वकाये अधिमुक्तीये अन्ये देवा लोहितचन्दनस्य बोधिवृक्षं संजानन्ति। अन्ये देवा अगुरुचन्दनस्य बोधिवृक्षं संजानन्ति। अन्ये देवा 


p. 310


परस्परस्य वाञ्छितरत्नमयं बोधिवृक्षं संजानन्ति। अन्ये देवा पीतचन्दनस्य बोधिवृक्षं संजानन्ति। अन्ये देवा सिंहचन्दनस्य बोधिवृक्षं संजानन्ति। अन्ये देवा रसचन्दनस्य बोधिवृक्षं संजानन्ति॥ यथापीदं स्वकस्वकाये अधिमुक्तीये अन्ये देवा गिरिसारचन्दनस्य बोधिवृक्षं संजानन्ति। अन्ये देवा दिव्य अगुरुचन्दनस्य बोधिवृक्षं संजानन्ति। अन्ये देवा मणिरत्नामयं बोधिवृक्षं संजानन्ति। अन्ये देवा सर्वरत्नालंकृतं बोधिवृक्षं संजानन्ति। अन्ये देवा मणिरत्नविचित्रितं बोधिवृक्षं संजानन्ति। अन्य देवा दिव्यनीलवैडूर्यालंकृतं बोधिवृक्षं संजानन्ति। अन्य देवा मुसारगल्वमणिविचित्रितं बोधिवृक्षं सजानन्ति। अन्ये देवा अस्मगर्भमणिरतनविचित्रितं बोधिवृक्षं संजानन्ति। अन्ये देवा हस्तिगर्भमणिरतनविचित्रितं बोधिवृक्षं सजानन्ति। अन्ये देवा मणिरतनविचित्रि बोध्वृक्षं संजानन्ति। अन्ये देवाः सुप्रभासमणिरतनविचित्रितं बोधिवृक्षं सजानन्ति। अन्ये देवा अमृताश्मगर्भेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति। अन्ये देवा समन्तचन्द्रेहि समलंकृतं बोधिवृक्षं संजानन्ति। अन्ये देवास्सुचन्द्रेहि समलंकृतं बोधिवृक्षं संजानन्ति। अन्ये देवास्सूर्योभासेहि समलंकृतं बोधिवृक्षं संजानन्ति। अन्ये देवाः स्फटिकविचित्रितं अन्ये देवाः सुर्यविक्रान्तेहि समलंकृतं। अन्ये देवाः चन्द्रोभासेहि समलंकृतं। अन्ये देवाः ज्योतिप्रभासेहि समलंकृतं। अन्ये देवा विद्युप्रभासेहि समलंकृतं। अन्ये देवाः समन्तालोकेहि मणिरत्नेहि समलंकृतं। अन्ये देवा मुक्ताप्रभेहि मणिरत्नेहि समलंकृतं। अन्ये देवा मुक्ताप्रभेहि मणिरत्नेहि समलंकृतं। अन्ये देवा  अप्रतिहतप्रभेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति। अन्ये देवा रतनसमुच्छ्रयसमलंकृतं। अन्ये देवाः सर्वलोकाग्रभूतेहि मणिरतनेहि समलंकृतं। अन्ये देवाः शक्राभिलग्नेहि मणिरतनेहि समलंकृतं। अन्ये देवा रत्नपत्रेहि सम -


p. 311


लंकृतं अन्ये देवा उरगगर्भमणिरतनेहि समलंकृतं। अन्ये चन्दनप्रभेहि समलंकृतं। अन्ये लोहिताक्षेहि समलंकृतं। अन्ये गजपतीहि मणिरतनेहि समलंकृतं। अन्ये महेश्वरदत्तेहि मणिरतनेहि समलंकृतं। अन्ये रसकेहि समलंकृतं। अन्ये महेश्वरदत्तेहि मणिरतनेहि समलंकृतं। अन्ये रसकेहि समलंकृतं। अन्ये गोमेदकेहि मणिरतनेहि समलंकृतं अन्ये देवा शशेहि मणिरतनेहि समलंकृतं बोधिवृक्षं सजानन्ति। अन्ये लालाटिकेहि मणिरतनेहि समलंकृतं। अन्ये शिरिगर्भेहि मनिरतनेहि अन्ये तालिकेहि मणीहि एतेहि च अन्येहि च दिव्येहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति॥

येषां देवानां ततोनिदानं कुशलमूलो परिपच्चिष्यति अनुत्तराये सम्यक्संबुद्धाये ते यथाकुशलमूलेहि बोधिवृक्षं संजानेन्सुः। नीलमुक्ताहारेहि लोहितमुक्ताहारेहि श्वेतमुक्ताहारेहि कण्ठनिष्केहि सुवर्णसूत्रेहि कुण्डलेहि मुद्रिकाहि परिहारकेहि वलयकेहि नूपुरेहि वेष्टनकेहि मुद्राहस्तकेहि आवापकेहि रतनदामकेहि पट्टदामकेहि पुष्पदामकेहि सुवर्णकेयूरेहि रत्नहारेहि रुचकहारेहि मन्दारवदामेहि हंसदामेहि सिंहलताहि वजिराकारेहि स्वस्तिकेहि एतेहि चान्येहि च देव्येहि आभरणेहि समलंकृतं बोधिवृक्षं संजानेन्सुः॥ येषां बोधिवृक्षं पश्यित्वा कुशलमूलानि जायन्ति ते देवाः स्वलंकृतं बोधिवृक्षं संजानन्ति। अन्ये एतेहि चान्येहि च यथापरिकीर्तितेहि अलंकारेहि बोधिवृक्षं समलंकृतं संजाननि॥ तत्र केचिद्देवा योजनं उच्चत्वेन् बोधिवृक्षं संजानन्ति। अन्ये देवाः पंचयोजनमुच्चत्वेन। अन्ये दश्योजनमुच्चत्वेन।


p. 312


अन्ये विंशयोजनमुच्चत्वेन। अन्ये त्रिंशयोजनमुच्चत्वेन। अन्ये चत्वारिंशयोजनमुच्चत्वेन। अन्ये देवा पंचाशद्योजनमुच्चत्वेन बोधिवृक्षं संजानन्ति। अन्ये योजनशतमुच्चत्वेन बोधिवृक्षं संजानन्ति। यथास्वकस्वकेन ज्ञानेन बोधिवृक्षमुच्चत्वेन संजानन्ति॥ सन्ति देवा योजनसहस्रमुच्चत्वेन बोधिवृक्षं संजानन्ति। सन्ति देवा दीर्घायुष्का पुरिमजिनकृताधिकारा योजनशतसहस्रमुच्चत्वेन बोधिवृक्षं संजानन्ति। सन्ति देवपुत्रा अभिसंजातकुशलमूललनिर्याता यावद्भवाग्रमुच्चत्वेन बोधिवृक्षं संजानन्ति॥ तत्र केचिद्देवा सर्वरतननिर्युहं सिंहासनं बोधिवृक्षमूले अद्दशेन्सुः। दिव्यं बहुयोजनमुच्चत्वेन दिव्यदुष्यसंस्तृतं रतनजालसंछन्नं किङ्किनीजालसमलंकृतं। अन्ये देवा योजनशतसहस्रमुच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा योजनसहस्रमुच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा अड्ढतिययोजनशतानि उच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा योजनशतमुच्चत्वेन सिंहासनमद्दशेन्सु। अन्ये देवा पंचाशद्योजनानि उच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा त्रिंशद्योजनानि उच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा विंशद्योजनानि उच्चत्वेन सिंहासनमद्देशेन्सुः। अन्ये देवा दशयोजनानि उच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा चतुर्योजनानि उच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा त्रियोजनमुच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा द्वियोज -


p. 313 


नानि उच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा योजनमुच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा त्रिक्रोशमुच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा द्विक्रोशमुच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा क्रोशमुच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा सप्ततालमुच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा षट्टालमुच्चत्वेन अन्ये देवा पंचतालं अन्ये देवा चतुतालं अन्ये देवा त्रितालं अन्ये देवा द्वितालं अन्ये देवा तालमात्रं बोधिवृक्षस्य मूले सिंहासनमद्दशेन्सुः। अन्ये देवा सप्तपौरुषेयमुच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये देवा षट्पौरुषेयमुच्चत्वेन सिंहासनमद्दशेन्सुः। अन्ये पंचपौरुषेयं अन्ये चतुपौरुषेयं अन्य त्रिपौरुषेयं अन्य द्विपौरुषेयं। अन्ये देवा पुरुषमात्रमुच्चत्वेन बोधिवृक्षस्य मूले सिंहासनमद्दशेन्सुः॥ तत्र ये लूखाधिमुक्तिका सत्वा ते तृणसंस्तरे निषणं बोधिसत्वमद्दशेन्सुः। तृणसंस्तरे निषीदित्वा बोधिसत्वो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धष्यतीति॥

अथ खलु पुन बोधिसत्वः सदेवमानुषासुरस्य लोकस्य पुरतो येन बोधिवृक्षमूलं तेनोपसंक्रमित्वा बोधिवृक्षं त्रिष्कृत्यो प्रदक्षिणीकृत्वा पुरिमका तथागता समनुस्मरन्तो निषीदि पर्यंकमाभुंजित्वा ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिं प्रतिस्थापयित्वा॥ तत्र चेवं बोधिवृक्षमूले निषणस्य बोधिसत्वस्य मुखमण्डलं भासति तपति विरोचते। सय्यथापि नाम महासाहस्रलोकधातुविस्तृतं सूर्यमण्डलं वा। यस्य तेजेन सर्वावन्ता त्रिसाहस्रमहासाहस्रा लोकधातु जिह्मवर्णा अस्यात्॥ सय्यथापि 


p. 314


नाम जाम्बूनदस्य बिम्बस्य पुरतो विदग्धस्थूणा काला मसिनिभा न तपति न विरोचति न च भवति प्रभास्वरा एवमेव बोधिसत्वेन त्रिसाहस्रमहासाहस्रा लोकधातुः तेजेन अभिब्भूता अभूषि॥ तत्र ये देवपुत्रा याव अकनिष्ठातो उपरि बोधिसत्वं निषस्मं अद्दशेन्सुः तत्र भूम्या देवा समानं बोधिसत्वं अद्दशेन्सुः॥ तथा अन्तरीक्षे यावच्चातुर्माहाराजिका देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरति परिनिर्मितवशवर्ति मारभवनातः सिंहासनगतं बोधिसत्वं संजानन्ति॥ एवं ब्रह्मा देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा महाब्रह्मा देवा आभा देवा आभास्वरा देवा शुभा देवा परीत्तशुभा देवा अप्रमाणशुभा देवा शुभकृत्स्ना देवा बृहत्फला देवा अवृहा देवा अतपा देवा सुदर्शना देवा अकनिष्ठा देवा सिंहासनगतं बोधिसत्वं संजानेन्सुः॥ ये च त्रिसाहस्रमहासाहस्राये लोकधातूये कुशलमूलसमन्वागता सत्वा पर्यन्तस्थायिनः ते सर्वे सिंहासनगतं बोधिसत्वं संजानेन्सुः॥ ये अवरुप्तकुशलमूला सत्वा पुरिमजिनकृताधिकारा कामधातुपर्यापन्नाः ते मारं न पश्यन्ति न संजानन्ति बोधिसत्वस्य पूजां करोन्ता बोधिसत्वं नमस्यमानाः बोधिसत्वानुभावेन॥

अथ खलु मारः पापीयां स्वकं बलं ध्यामबलं संजानति सर्वावतीं च त्रिसाहस्रमहासाहस्रां लोकधातुं अभिनतां येन बोधिसत्वो। महासत्वश्च इमं प्रतिसंशिक्षति। न तावदहं अनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यामि यावन्न मारं पापीमं सार्धं बलकायेन सन्नद्धमागतं पराजिष्यामि मा सत्वानामेवं भवेया अनाश्चर्यमेतं यं बोधिप्राप्तेन मारो निगृहीतः स्वकं च स्थामं ऋद्धिप्रातिहार्येण बोधिसत्वः सदे -


p. 315


वकस्य लोकस्य पुरतो उपदर्शितुकामः एवं दृढस्थामवेगऋद्धिप्राप्तो बोधिसत्व इति च मम च अनुशिक्षित्वा अनुत्तराये सम्यक्संबोधिये चित्तमुत्पादयिष्यन्ति॥ अथ खलु मारो पापीमां दुःखी दुर्मनो शोकशल्यविद्धः प्रतिराजसंज्ञां बोधिसत्वे उपस्थापेत्वा चतुरंगिनीं मारसेनां उद्योजयित्वा बहुयोजनशतां हरित्वा येन बोधिवृक्षमूलं तेनोपसंक्रमि बोधिसत्वं पश्यिष्यामो ति॥ सो न प्रभवति बोधिसत्वं द्रष्टुं चक्षुविभ्रममनुप्राप्तः सचेद्बोधिसत्वो मुखवाटमोसिरेया येन स्थामेन बोधिसत्वो समन्वागतो अभूषि। सचेदयं त्रिसाहस्रमहासाहस्रो लोकधातुर्वज्रमयो महापर्वतः अभविष्यत्तां लोकधातुं बोधिसत्वः परमाणुरज सदृशीं विधूनित्वा असंख्येया लोकधातुयो अभ्युत्क्षिपेया न च एको पि परमाणुरजो द्वितीयेन परमाणुरजेन सार्धं समये॥ बोधिसत्वो च ततो मारपरिषाये बहूं सत्वां कुशलमूलानद्राक्षीत् ये इमं बोधिसत्वस्य एवंरूपं ऋद्धिप्रातिहार्यं दृष्ट्वा अनुतराये सम्यक्संबोधाय चित्तमुत्पादयिष्यन्तीति।  एतमर्थपदं बोधिसत्वो संपश्यमानो आगमेति न ताव अजिनित्वा मारं सबलवाहनं अनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यामीती॥ अथ खलु भगवां ताये वेलाये इमां गाथामध्यभाषे॥

यथा स्वयंभू स्थितो बोधिमूले

शाक्यान राजा सुविशुद्धसत्वो।

सुवर्णबिम्बं यथ दर्शनीयो 

जाम्बूनदं अपगतसर्वक्लेशो॥

ओभासजाता दिशता अभूषि 

मारश्च त्रस्तो अभु कृच्छ्रप्राप्तो।


p. 316


किं तं हि नाम मह्यं भेष्यतीति 

रतिं न विन्दामि विमान अस्मिं॥

विमान सर्वा अभु व्योमवर्णा

प्रासादश्रेष्ठा वरचदनस्य।

सुवर्णसूत्रा स्फटिकप्रवाडा

मा खु च्यविष्यं इतो अद्य स्थानात्॥

स्फुटा गवाक्षा रुचिरार्धचन्द्रा 

मुसारगल्वकवचिता च गर्भा।

वैरोचनस्य जगतो विशिष्टा

आभा अभू भविष्यति किं तु अद्य॥

शीर्षातो मह्यं मकुटो प्रलुप्तो

शुभा च आभा विगता ममाद्य।

संगीति मह्यं स्थिता अप्सराणां

मा खु च्यविष्यं इतो अद्य स्थानात्॥

जाम्बूनदेन यथ कांचनेन

व्योमे विमाना कृतजिह्मवर्णा।

इमे ये दिव्या इमे ये विमाना 

जिम्हा अबू उपगते बोधिसत्वे॥

सो चादृशासि भगवन्तं स्वयंभुं

निसस्मं सिंहं यथ दुष्प्रधर्षं।


p. 317


विशुद्धसारं जगसत्त्वसारं

जाम्बूनदस्य यथ यूपो भासे॥

देवा दिवि प्रतिष्ठिता मुक्तिहारा

सुवर्णकम्बूरुचिरा मनोज्ञा।

सुवर्णसूत्रां ग्रहिय प्रहृष्टा 

अलंकरोन्ति भगवतो बोधिवृक्षं॥

सुवस्तिकाश्च शुभा अर्धचन्द्रा 

सिंहीलताहि स्फुटा बोधिवृक्षे।

विद्युप्रभां च रतनां ग्रहेत्वा 

अलंकरोन्ति मुदितदेवपुत्रा॥

चन्द्रप्रभां च रतनां ग्रहेत्वा 

सूर्यकान्ता च रतनां गृहेत्वा।

वैरोचनां मणिरत्नां ग्रहेत्वा 

अलंकरोन्ति भगवतो बोधिवृक्षं॥

मुक्ताप्रभा च रतनां ग्रहेत्वा

ओभासयन्तां शुभदर्शनीयां।

प्रामोद्यजाता मुदितहृष्टचित्ताः

अलंकरोन्ति भगवतो बोधिवृक्षं॥

समन्तचन्द्रा मणिरतनां ग्रहेत्वा

रतनावलिं सुरुचिरदर्शनीयां


p. 318


गोमेदकां मणिरतनां ग्रहेत्वा

अलंकरोन्ति भगवतो बोधिवृक्षं॥

अन्ये ग्रहेत्वा शुभलोहिताक्षां

शिरिगर्भशुद्धां रतनां ग्रहेत्वा।

।  ।।।

अलंकरोन्ति भगवतो बोधिवृक्षं॥

रक्ताङ्गियो च रुचकां ग्रहेत्वा

महेश्वरां सुरुचिरवर्णवन्ता।

कर्केतनां च रतनां ग्रहेत्वा

अलंकरोन्ति भगवतो बोधिवृक्षं॥

नीलां च मुक्तां तथ श्वेतमुक्ता

रक्तां च मुक्तां शुभवर्णनीयां।

हर्षं जनेत्वान च वेगजाता 

अलंकरोन्ति भगवतो बोधिवृक्षं॥

ज्योतिकां च मणिरतनां ग्रहेत्वा 

ये चन्द्रसूर्यां अभिभवन्ति तेजसा।

विशेषप्राप्ता मणिरतआं ग्रहेत्वा 

अलंकरोन्ति भगवतो बोधिवृक्षं॥

नागामणीं च शुभवर्णनीयां

गुह्या विशुद्धाक्षियो मोदमाना।

नभे स्थिहित्वा तद ऋद्धिमन्तो

अलंकरोन्ति भगवतो बोधिवृक्षं॥ 

ब्रह्मा सहस्रा उपगता बोधिमण्डं 


p. 319


शक्रश्च देवो अधिपति गुह्यकानां।

येहि दृष्टा पुरिमकलोकनाथा

ते देवता च प्रणता स्वयंभुं॥

आभास्वरा उपगता देवपुत्रा

शुभा च देवपुत्र शुभकृत्स्ना।

।।। रूपा च बृहत्फला च 

अतपा सुदर्शना च अकनिष्ठा

अलंकरोन्ति भगवतो बोधिवृक्षं॥

संछन्नो सर्वो अभु बोधिवृक्षो

रस्मीं सहस्रा किरे अप्रमेयां।

दिव्यैर्मणीभिः प्रतपति बुद्धक्षेत्रं

सर्वां सहां अभिभवे लोकधातुं॥

तस्यैवं चित्तमहु प्रमत्तबंधुनो

मा हेव मे च्यावये आसनातो।

एषैव राजा भवे देवतानां

न चास्य अस्ति समो सर्वलोके॥

अथापि बुद्धो भवे धर्मस्वामी

सून्या विमाना भवे देवतानां।

देशेत मार्गं शिवशान्तिक्षेमं 

न भूय मह्यं भवे ईश्वरत्वं॥

उत्सदप्राप्तं भवे बुद्धक्षेत्रं

माराण कोटी संयोजयन्तो।


p. 320


सन्नद्धवर्मा कवचितवर्मा

संग्रामकाले भवथाप्रमत्ता।

उद्योजयित्वान स मारसेनां 

उपसंक्रमित्वा वरपादपेन्द्रं।

अद्राक्षीत्कृष्णो तथ बोधिसत्वं

सूर्या सहस्रं यथ अन्तरीक्षे॥

तस्यैव चित्तं अभु वेपमानं

एषो न शक्यो मये धर्षणाये।

लोके भिप्रेतं रतनं ग्रहेत्वा

राज्यानपेक्षं जनयित्व छन्दं॥

दिव्यं च चूर्णं  वरचन्दनस्य  

जाम्बूनदस्य रतनामयं च।

दिव्यां च गृह्य वरसारगन्धां

सो बोधिसत्वमोकिरे वेगजातो॥

एकांशं कृत्वा वसनं कृतांजलि 

प्रदक्षिणं निदह्य जानु भूम्यां।

संहर्षितोऽनिमेषं प्रेक्षमाणः 

सो बोधिसत्वं स्तवे तस्मिं काले॥

रूपेन त्वं असदृशो पुण्यवन्तो 

वर्णेन तुह्यं सदृशो न प्राप्तो॥ 


p. 321


सुसंप्रजानो मरुपूजनीयो

लोकैकवीरो स्थितो वृक्षमूले॥

न तुभ्य अस्ति सदृशो कुतोत्तरो

देवो न नागो मनुजो व लोके।

सर्वां अभिभोसि दिशतां शिरीये

घनाभ्रमुक्तो गगणे व चन्द्रो॥

तवा हि ते पूजनिया भुंजाहि

सप्त रत्नानि प्रवरोत्तमानि।

चक्रं प्रवर्तेहि महिं आवसाहि

चातुर्द्वीपो रत्ना परिभवाहि॥

तुवं च प्राप्ता दिश प्रेक्षमाणो

अदीनचित्तो च अनन्ततेजो।

देवसहस्रानभिभोहि आभा 

विदग्धस्थूणां यथ सुवर्णबिम्बं।

द्वात्रिंशतीहि स्फुटो लक्षणेहि 

विरोचे कायं तव सत्वसार।

सोभासि राज्ये स्थितो अप्रमत्तो

प्रशासि सत्वा पितरो व पुत्रां॥

चत्वारि द्वीपां वसि ईश्वरत्वे

न च करेसि इह अनुशास्तिं।

त्वं ऋद्धिप्राप्तो विचरेसि लोके

शिष्यो ते भेष्यं यथ एकपुत्रो॥

इस्त्रीसहस्रैः सह क्रीडमानो


p. 322

मरूण राजा व शिरिद्धिप्राप्तो।

दास्यामि तुभ्यं रतनानि सप्त

भवाहि राजा विदु चक्रवर्ती॥

भविष्यते पुत्रसहस्रं तुभ्यं

शूराण वीराण महाबलानां।

वरांग[रूपान] परसैन्यप्रमर्दकानां

ससागरान्तं जये लोकमेतं॥

इमा च पश्य बहु मारकन्या

पुष्पा ग्रहेत्वा वरचन्दनस्य।

प्रागन्तरीक्षे शुचिवसननिवस्ता

गीते कलासु परमार्थप्राप्ता॥

वीणां गृहेत्वा पणवां मृदंगां

शंखा च वेणुं च सुघोषकां च।

संभारिकां नकुलककिंफलां च।

उपगीयमाना तद वृक्षमूले॥

अन्ये स्थिहित्वा गगणे डियन्ता

चूर्णां क्षिपन्ति वरचन्दनस्य।

जम्बूनदस्य रतनामयं च 

क्षिपन्ति चूर्णं तव भोन्ति सर्वे॥

हाहाभेरीशंखपणवनिनादे

प्रासादश्रेष्ठे रम त्वं कुमार।

पुष्पं च गन्धं च विलेपनं च 


p. 323


भुंजाहि तत्र परिचारको हं॥

चक्रं च नागो हयवरो मंजुकेशो

वैडूर्यमणिरतनं विशिष्टं।

स्त्री च श्रेष्ठा धनधरो खड्गहस्तो

परिणायको रत्ना भवन्ति सप्त॥

तवाधिपत्ये निवसं कुमार

श्रुश्रूषन्तो मृदु भाषमाणं।

श्रुत्वान ते वाक्य सुखी भविष्यं

मृषा च भाषे न व एवरूपः॥

सत्ये स्थिहित्वा लभये सुरूपं

कायं विशिष्टं स्फुटं लक्षणेहि।

व्यंजनेहि तथ अनुव्यंजनेहि 

प्रभासमानो स्फुट लक्षणेहि॥

सो मंजुघोषो रुतवल्गुभाषी

उल्लोकयित्वा दिशता समन्ता।

अष्टांगुपेतां (निनादये) वाचां

श्रुणोहि यक्ष गिरां भाषतो मे॥

राजा भविष्यं अहं सर्वलोके

बुद्धित्व बोधिं वशिशान्तिक्षेमां।

पुत्रा च भूता मम अप्रमत्ता

काहिन्ति श्रुत्वा मम आनुशास्तिं॥

ममापि सप्त रतना विशिष्टा 


p. 324


भेष्यन्ति बुद्धित्व मे अग्रबोधिं।

बोध्यङ्ग सप्त पुरिमजिनप्रशस्तान्

तां व लभित्व भवति अप्रमत्तो॥

चत्वारो अन्यामहं ऋद्धिपादां

ध्यानप्रमाणं तथ मार्गश्रेष्ठं।

बुद्धित्व सत्यानि समन्तज्ञानि

अभिप्राप्तो दिशतां विजेष्यं॥

जुगुप्सनीयाः सुखहीनाः हि कामा

न अत्र विज्ञो लभे आनिसंसं।

एषो हि मार्गो नरके तिरिच्छे

यमस्य लोके बहुप्रेतलोके॥

अधर्मकामा रत मैथुनस्मिं

तमान्धकारे प्रणता समन्ता।

विहीननेत्रा च्युतशुक्लधर्मा

ते कामसेवी नर एवरूपाः॥

दुर्गन्धपूतिं अशुचिं अनार्यं

न तत्र जातु रता शुद्धसत्वाः।

बालो नये तत्र विशेषसंज्ञां

न पण्डितो जानयि तत्र च्छन्दं॥

समृद्धे पक्वे यथ शालिक्षेत्रे

विद्युत्पतेया अशनिवरचक्रं।


p. 325


तथैव शुक्ला परमार्थधर्मा

कामनिदानं अफला भवन्ति॥

पृथग्जना तु रता हीनसेवी 

जात्यन्धभूता अबुधा रज्यन्ति।

रज्यन्ति ते अबुधचेतसेन

न कामतृष्णां जने बोधिसत्वो॥

संवर्तनीये यथ बुद्धक्षेत्रे

हुतासने प्रज्वलिते नभस्मिं।

रमणीय आभा मषिं छारिकां वा 

तथैव कामां विचिकित्सु [शुक्ल] धर्मा॥

विसृष्ट वध्यो यथ पार्थिवेन

लभेय मोक्षं श्रियं स्वस्तिभावं।

न हीनकामां प्रतिसेवमानो

लभेय अर्थं तु जिनानुज्ञातं॥

उच्चारो शुष्को यथ दह्यमानो 

जुगुप्सनीयो परमदुर्गन्धो।

न राजपुत्रो तहिं भवति उदग्रो

तथैव कामा गर्हित पण्डितेहि॥

ग्रीष्माण मासे यथ पश्चिमस्मिं

लवणोदकं जनये तृषां नराणां।

तथैव कामां दुःख [प्रति] सेवमानो 


p. 326


अज्ञानप्राप्तो जनयति जालतृष्णां॥

यं तेहि पूयं यकृद्वृक्कफुष्फसेहि

गूथं च अन्यं अनुगतमात्मभावे।

प्रस्यन्दमानं वहिमुखेहि काये

न अत्र विज्ञो जन सौमनस्यं॥

सिंहाणलाला यथ श्लेष्मपूरं

कफो थ पित्तं अनुगतं मस्तरोगं।

सदा श्रवन्ते अशुचि जिगुप्सितं च

न अत्र विज्ञो जने सौमनस्यं॥

कामनिदानं प्रपतिषु दुर्गतीषु 

उच्चावचं दुःखं नरा वेदयन्ति।

मुद्गा च माषा यथ कुम्भप्राप्ता

तथैव खिन्ना नरकेषु सत्वा॥

असीहि च्छिन्ना बहुविधमात्मभावा

शक्तिशरेहि पुन पि संप्रभिन्ना।

बाला करोन्ति त्रिविधं अनिष्टं

न अत्र जातु अभिरतु बोधिसत्वो॥

रूपेहि वूल्हो भवति सम्मोहजातः 

यो कामतृष्णां जने अल्पबुद्धिः।

स्वयं व सेवि दुःखकररोगमूलं

यथा स्मसाने कृणपं शृगालः॥


p. 327


मा कृष्णबधु मम मोहनार्थं

कामां प्रशंस गर्हिता पण्डितेहि।

अंगारकर्षूं यथा संप्रपूरां

तथैव कामां त्यजे बोधिसत्वो॥

न कमसेवी हि इमं प्रदेशं

द्विजाभिकीर्णं स्फुट पादपेहि।

न चापि एवं स्फुट लक्षणेहि 

सेवित्व कामां लभे आत्मभावं॥

रक्षित्व शीलं अशवलब्रह्मचर्यं

सेवित्व बुद्धा हतरजा निष्किलेशा।

भवेत्व क्षान्तिं बहुकल्पकोटी 

विशिष्टो भोति (स्फुट) आत्मभावो॥

अच्छिद्रशीलो पुरिमभवे अभूषि

क्षान्ती उपेतो सद अप्रमत्तो।

शोधेत्व मार्गं विविधं अनन्तं

सो अद्य लप्स्यं वर अग्रबोधिं॥

भगवतो सार्थवाहो हितकरो अप्रमत्तो

पुरतो स्थित्वा अवच च कृष्णबन्धु।

शृणोहि तात मम गिरां भाष्यमाणां

मा अत्र दोषं प्रजने अप्रसादं॥

यदेष जातो असदृश पुण्यवन्तो

कम्पे सशैला वसुमति षडिकारं


p. 328


ओभासिता दश दिशता अभूषि

दिव्या च वाद्या अघट्टिता संप्रवाधि॥

दिव्यां छत्रां धारये देवपुत्राः

ध्वजपताकैः स्फुटो बुद्धक्षेत्रो।

चैला भ्रमेन्सु मरुगणा देवसंघा

अप्रमादं जनयि अदीनसत्वा॥

एषो चक्षुर्भविष्यति सर्वलोके

आलोकभूतस्तिमिरं निहत्वा।

एषो न्धकारं विधमे दुःखितानां

मा अप्रसादं जनेहि बालबुद्धे॥

एषो हि लेनं भविष्यति सर्वलोके

त्राणं च द्वीपं शरणं परायणं।

अकरित्वा नरमरु च प्रसादं

घोरं व्रजन्ति निरयं अवीचिं॥

एषो हि लोके असदृशो दक्षिणेयो

एषो हि लोके सततं हितानुकम्पी।

एतं सक्तृत्वा नरनारिसंघा

च्युता सुखी भवे इह सर्वलोके॥

यो अत्र मानं जने न प्रसादं

पुण्योपपेते धुतरजे शाक्यसिंहे।

न तस्य जातु भवे स्वस्तिभावो

च्युतश्च क्षिप्रं व्रजे दुर्गतीषु॥


p. 329


एषो हिमां अचलचमूं प्रभेत्ति

अभ्युत्स्मिपित्वान ते सागरातो।

क्षेत्राण कोटीनयुता क्षिपेय

स्थामेन लोके समो नास्ति सैन्यं॥

एषो समुद्रं जलधरं वारिपूर्णं

असुरनिकेतं उदधिं समन्ततेजं।

शोषेय सर्वं दृढव्रतो अप्रमत्तो

एषो हि सर्वमभिभवे मारसैन्यं॥

ब्रह्मं च शक्रं अभिभवे गुह्यकां च

नागासुरा च मनुजा महोरगा।

विदग्धस्थूणां यथ सुवर्णबिम्बं

पीडे नारायणं जिन घनशरीरो॥

एषो ग्रहेत्वा गिरिवरं चक्रवाडं

पाणितलेन समरजं करेय।

न एष शक्यो उपगतो बोधिमूले

चालेतुं वीरो दृढव्रतो अप्रमत्तो॥

चन्द्रं पतेया नभतो मेदिनीये

इयं च भूमी स्थिहि नभे आत्मनेन।

प्रतिस्रोतं सर्वा नदीयो वहेन्सुः 

न चैव शक्यो दृढव्रतो चालनाय॥


p. 330


यथा गजेन्द्रः सुबलवां षष्टिहायनः

षड्डन्तनागो समुच्छ्रितकायो।

पादेन भिन्दे अविमनो आमभाण्डं

तथैव सर्वां करिष्यति मारसैन्यां॥

मारा ह्यवाच स दुःखितो सार्थवाहं

त्रसेसि किं मा यथ बालबुद्धि।

सन्नद्ध सेना कवचितवर्भिता च 

करिष्यिमस्य दृढव्रतस्यान्तरायं॥

वर्षा सहस्रा मया यो पोषितो हि

उच्चजतीह अयं मम ज्येष्ठपुत्रो।

सौ गौतमस्य अभूरिह अनुयात्रो

अवसादयिष्यन्तो समारसैन्यं॥

उदुम्बरस्य यथ पुष्प जातं

वर्णोपपेतं सुरुचिरं मंजुगन्धं।

तथैते बुद्धा हतरजा निःकिलेशा

कल्पान कोटीनयुतेहि भोन्ति॥

अश्रद्दधन्तं पितरं विपन्नशीलं 

ग्राहेय शुद्धां करुणां जनेत्वा।

पुत्राण एवं प्रकृति तस्य भोति 

अनुकम्पको स्मि न अहं अमित्रो॥

सुमेरुमूर्ध्ना यदि नरो आरुहित्वा


p. 331


आत्मानं मुंचेय महीतलस्मिं।

लभेय सौख्यं शरीरे पतित्वा

न बोधिसत्वे अहितानि कृत्वा॥

अंगारकर्षू परमा प्रपूरा

तत्र पतित्वा नरो बालबुद्धिः।

लभेय सौख्यं शरीरे पतित्वा

न बोधिसत्वे अहितानि कृत्वा॥

असिं गृहीत्वा सुलिखितं तैलधौतं

मुखे करित्वा स्वके ओहरेय।

लभेय सौख्यं सिय ततो स्वस्तिभा वो 

न बोधिसत्वे परुषाणि कृत्वा॥

क्षुरेहि मार्गं यथ आक्रमन्तो

वर्षसहस्रं अथ वर्षकोटि।

लभेय सौख्यं सिय ततो स्वस्तिभावो

न बोधिसत्वे परुषाणि कृत्वा॥

विलीनलोहं पिबंतो अल्पबुद्धिः 

लभेय सौख्य उदरे सुदीप्ते।

संछिन्न अन्त्रे यकृद्वृक्कफुष्फसे च

न बोधिसत्वे परुषाणि कृत्वा॥

अयोगुडां पि गिलन्तो ज्वलन्तां

लभेय सौख्यं उदरे प्रदीप्ते।

संछिन्ने यकृवृक्कफुष्फसे च  


p. 332


न बोधिसत्वे परुषाणि कृत्वा॥

शैलो महन्तो यथा चक्रवाडो

क्षिप्तो नभातो पतितो नरस्य मूर्ध्ने।

जनेय सौख्यं सिय ततो स्वस्तिभावो

न बोधिसत्वे परुषाणि फृत्वा॥

अंगारकर्षू इषु असितोमरा च

क्षिप्ता नभातो पतिता आत्मभावे

जनेय सौख्यं सिय ततो स्वस्तिभावो

न बोधिसत्वे परुषाणि कृत्वा॥

शक्यं सहस्रा अयं लोकधातुः 

कल्पान कोटी धरितुं करेण।

चित्तां च ज्ञातुं विविधा नराणां

न संस्तरातो मुनिचालनाये॥

शक्यं समुद्रे जलधरे वारिपूर्णे 

मध्योदके जालितुमग्निस्कन्धं।

सुमेरुमात्रो प्रभंकरो धूमकेतुः 

न संस्तरातो मुनिचालनाये॥

शीलेनुपेतो असदृशो क्षान्तिये च 

तपे व्रते च पुरा पारप्राप्तः।

स केशरिर्वा मृगपति जातवेगो 

नादं नदन्तो जिनो मारसैन्ये॥


p. 333


यथा महन्ते प्रपतितो पीह कूपे

जात्यन्धसत्वो यथ स्पन्दमानो।

अक्षी संप्राप्तो दिशमप्रजानो 

तथा तव भेष्यति मार सैन्यं॥

पश्याहि त्वं तात ते देवपुत्रां

रूपेणुपेता कृतपुण्यकर्मां।

चूर्णां गृहेत्वा वरचन्दनस्य

उदग्रचित्ता अभिकिरे बोधिसत्वं॥

सर्वा सहस्रा स्फुट देवताहि 

विमान सर्वां विजहिय आगताहि।

नभे स्थिहित्वा अवकिरि पुष्पचूर्णैः 

बोधिसत्वं प्रमुदिता ओकिरन्ति॥

मा पापचित्तं जनय विशालबुद्धे

दुरासदा हि महासार्थवाहा।

दुर्गतिषु प्रपतिषु पांसुकूले

अपेय तातो दुःखी कृच्छ्रप्राप्तः॥

ये अत्र प्रेम्नं जनयिषु गौरवं च

ये सत्व एतं शरणं उपेन्ति।

अपायभूमी विजहिय नचिरेण

सर्वे स्पृशन्ति अजरं अशोकं॥

जनीसुतो पितं अवच विशालबुद्धि

विचित्रां पुष्पां गृहिय मनोज्ञां।

अभ्योकिरित्व जगसत्वसारं


p. 334


सर्वान्ते सेनां करेय भस्म॥

निधानं लब्ध्वा यथा अन्धसत्वा 

अपश्यमाने न भवेय दोषो।

तथा व लब्ध्वा महादक्षिणेयं

प्रमादबन्धु जनयसि अप्रसादं॥

हिरण्यधारं यथ अक्षमात्रं

प्रवर्षमाणो गृहे बालबुद्धिः।

उत्क्रोशमानो व्रजेय च्यविष्यं

तथैव तातो न सहं महर्षिं॥

विमानं लब्ध्वा यथ चन्दनस्य

मनोज्ञगन्धं शुभदर्शनीयं।

ततो निष्क्रमित्वा प्रपते इह कूपे

तथैव तातो असहं महर्षिं॥

मणिविमाने रुचिरे प्रभास्वरे

सिंहासनातो यथा उत्थिहित्वा।

अंगारकर्षूं प्रपते निष्क्रमित्वा

तथैव तातो असहं महर्षिं॥

प्रासादं लब्ध्वा यथ कांचनस्य

जाम्बूनदस्य शुभदर्शनीयं।

ततो व्रजित्वा प्रपते अर्णवस्मिं

तथैव तातो असहं महर्षिं॥

सुवर्णनिष्कां यथ ओशिरित्वा 


p. 335


ग्रीवाय ताम्रं धरयेय लोके।

तथैव लब्ध्वा मुनिं दक्षिणेयं

प्रमादबन्धु जनयसि अप्रसादं॥

अमृतस्य पात्रं यथ ओशिरित्वा

विषस्य पात्रं पिबेद्बालबुद्धिः।

तथैव लब्ध्वा महदक्षिणेयं

प्रमादप्राप्तो जनयसि अप्रसादं॥

यथा लभित्वा शुभनीलनेत्रा

उत्पाटयेय(स्वयं) बालबुद्धिः।

तथैव लब्ध्वा मुनिं दक्षिणेयं

प्रमादबन्धु जनयसि अप्रसादं॥

अहो स्मृतिं हि अपचिनोहि मार

दिव्यं ग्रहेत्वा वरमुक्तिहारं।

ओभासयन्तं दिशता प्रभाय

मा अप्रसादं जनयाहि तात॥

यथा च एषो इह लोकधातुं

ओभासि सर्वां शुभरूपधारी।

भिन्दित्व मेरुं महचक्रवाडं

समुद्रमध्ये यथ शैलराजा॥

यथा च एषो स्थितो वृक्षमूले

सुमेरुमूर्ध्ने अभिभवि देवपुत्रा।

नात्र प्रदेशे स्थितो कामसेवी

मा अप्रसादं जने कृष्णबन्धु॥

न अस्ति सत्वो त्रिभवस्मि तात 


p. 336


यो एवरूपो भवे पुण्यवन्तो।

अदृश्यमानो यथ रस्मिराजो

तथा निषस्मो मुनि बोधिमूले॥

यथा निषस्मो जिनो क्रकुच्छन्दो

प्रभासमानो दिश वृक्षमूले।

तथास्य कायो स्फुटो लक्षणेहि 

मा अत्र तात जने अप्रसादं॥

कोनाकनामो यथ लोकनाथो

विशुद्धचक्षुस्तिमिरस्य घाती।

प्रभासमानो दिशतां शिरीये

सो पि निषस्मो इह वृक्षमूले॥

यस्यैव नामं अभु काश्यपो ति 

समन्तचक्षुर्वरदक्षिणीयो।

सो पि निषस्मो इह वृक्षमूले

बुध्यसि वीरो वर अग्रबोधिं॥

ये भद्रकल्पे अभु लोकनाथाः 

संबोधिप्राप्ता मुनि देवदेवा।

पूर्वे निषस्मा इह वृक्षमूले

बुध्यन्सु वीरा शिव अग्रबोधिं॥

[बुद्ध] सहस्रचत्वारि जिना हि पूर्वं

इह निषस्म द्रुमवरपादपेन्द्रे।

अनागता हितकर लोकनाथा

प्राप्स्यन्ति ते पि वर अग्रबोधिं॥


p. 337


भाषित्व गाथामिममेवरूपां

महास्मृतीति वरनामधेयो।

मुक्तिहारं क्षिपे गौतमस्य

उदग्रचित्तो वरवेगजातो॥

विद्युप्रतिष्ठो परो मारपुत्रो

दिव्यं ग्रहेत्वा शुभकल्पदुष्यं।

सो बोधिसत्वं मुनि प्रेक्षमाणो

उदग्रचित्तो स्तवे बोधिमण्डे॥

मनोज्ञघोषं रुतं सत्वसारो

।। ।।।                                    ।

न कश्चिदस्ति समो सर्वलोके

तथासि पूर्वचरितो महर्षि॥

त्याग्यासि पूर्वे चरं कल्पनन्तां

त्यक्ता विशिष्टा तव राजधानी।

हस्तिगणा अश्व बहु पुण्ययानं

तेन प्रभासि दिश सत्वसार॥

त्यजित्व भार्या तथ चात्ममांसं

पुत्रा च धीता नयनात्ममांसं।

त्यजित्व पूर्वं प्रिय उत्तमांगं

तेन प्रभासि दिशतां समन्ता॥

त्यजित्व दिव्या रतनानि शुद्धा

नाना विमाना स्फुटरत्नचित्रा।

नक्षत्र आभा नभे विद्युताभा 


p. 338


सर्वो विभासि पुरतो जनस्य॥

भाषित्व गाथामिम एवरूपां

विद्युप्रतिष्ठो परो मारपुत्रो।

वस्त्राण कोटीनयुतां सहस्रां

क्षिपे नरेन्द्रे वरवेगजातो॥

कल्याणमित्रा पि तं धारयेन्सुः 

मा अप्रसादं जनये बहुबुद्धेः।

न शक्य एषो विमलप्रभो महात्मा

चालेतुं भूयो मुनिमासनातो॥

असद्दधानो वचनं दुर्बुद्धिः

ईर्ष्यां च क्रोधं जने कृष्णबन्धु।

सो दुष्टचित्तो अबुधो च जातो 

भूयस्य मात्रं जने अप्रसादं॥

माराण कोटीशत सन्नहित्वा

सन्नह्य मारो बहुमारसैन्यं।

बोधाय विघ्नं तद कर्तुकामो

स पापचित्तं जने हीनबुद्धिः॥

यक्षाण कोटीनयुता सहस्रा

नागासुरा मनुजमहोरगा च।

गन्धर्वपुत्रा बलस्थामप्राप्ता

उपसंक्रमेन्सुः यतो पादपेन्द्रं॥

शिलां ग्रहेत्वा महघोररूपां


p. 339


संन्नद्धवर्मी अतिघोरप्रेक्षी।

विद्यून्क्षिपेसि असनिं प्रवर्षे

उपसंक्रमन्तो वरपादपेन्द्रं॥

शक्तिं ग्रहेत्वा इषुतोमरां च 

असिं ग्रहेत्वा क्षुरतीक्ष्णधारां।

मालाविलम्बी किलिकिलायमाना

उपक्रमेन्सुः सिंहपादपेन्द्रं॥

सिंहाश्च व्याघ्रा तुरगा गजाश्च 

उष्ट्रा गवा गर्दभाश्चा न्यरूपा।

आशीविषप्रगृहीतशिरांसि

उपसंक्रमेन्सुः यतो बोधिसत्वो॥

अन्य ग्रहेत्वा महदग्निस्कन्धां

प्रदीप्तशीर्षा विकृतस्वभावा।

क्षुरप्रचारी च विभग्ननासा

मारस्य सैन्या स्थित बोधिमूले॥

रथसहस्राणि च बोधिमण्डे

ध्वजपताका च सनन्दिघोषा।

जालाविचित्रा शुभवादिता हि 

ध्वजाग्रमूर्धे च सनन्दिघोषा॥

समन्त त्रिंश स्फुट योजनानि

[यक्षसहस्रेहि महभैरवेहि। ]

चतुर्दिशं चोपरि च नभातो 


p. 340


ते यक्षसंघा परमसुघोररूपा॥

असिं ग्रहेत्वा निशितां सुतीक्ष्णां

युगप्रमाणोपगतो कृष्णबंधु।

सो बोधिसत्वं अवच प्रदुष्टचित्तो

उत्थाहि शीघ्रं अतो आसनातो॥

सनन्तात्रिंश स्फुट योजनानि

यक्षसहस्रेहि महभैरवेहि।

न शक्यं भिक्षु प्रव्रजितुं कहिंचित् 

तवाद्य च्छेत्स्यं यथ वेणुखण्डं॥

ततो प्रमुंचे गिरां बोधिसत्वो 

अष्टांगुपेतां मधुरां सुघोषां।

सर्वे ते सत्वा सियु मारभूता

न च समर्था मम रोममिंजितुं॥

एको सि भिक्षु स्थितो वृक्षमूले

सेना च नास्ति तव एवरूपा।

कस्य बलेन न सिया समर्थं

तं मारसैन्यं तव रोममिंजितुं॥

दाने च शीले च क्षान्तिये च 

वीर्ये ध्याने बहुकल्पकोटयो।

प्रज्ञाये श्रेष्ठाय भवे अप्रमेये 

न मह्यमस्ति समो सर्वलोके॥

मैत्र्याबिहारी करुणाविहारी 


p. 341


सत्वान अर्थे चरितो बोधिचर्यां।

बुद्धित्व बोधिं लभे बुद्धज्ञानं

सत्वां प्रमोक्ष्याम्यहं कृष्णबन्धु॥

अच्छिद्रशीलो पुरिमे भवेसु 

कल्पान कोटीनयुता अनन्ता।

समाहितो वज्रसमो अभेद्यो

सो अद्य प्राप्स्यं वर अग्रबोधिं॥

यावन्ति सेना तव कृष्णबन्धु

सर्वे भवेन्सु वसि ईश्वरत्वे।

ते चक्रवाडसम आयुधेहि 

न च समर्था मम रोममिंजितुं॥

शून्या निमित्ता प्रणिधी विभावित

न सत्वसंज्ञा॥।।।      ।

न मारसंज्ञा न विहिंससंज्ञा

एवं स्थितस्य अबलो सि पाप॥

न रूपसंज्ञा न पि शब्दसंज्ञा

नापि रससंज्ञा न च गन्धसंज्ञा।

न प्रष्टव्यसंज्ञा।।।।        

एवं स्थितस्य असमर्थो सि मार॥

न स्कन्धसंज्ञा न मे धातुसंज्ञा

अध्यात्मसंज्ञा च विभाविता मे।

यथान्तरीक्षं हि अभावभूतं

एवंस्वभावा हि च सर्वधर्माः॥


p. 342


जालेहि चित्रेण हि दक्षिणेन

पराहने वसुमतिं बोधिसत्वो।

सा षडिकारं चलिता लोकधातु 

शब्दं च आसी तद भीष्मरूपं॥

कंसस्य पात्रीं यथ मंजुघोषां॥

पराहनेय पुरुषो ग्रहेत्वा।

एवं तथैव रणे लोकधातु 

यदा हने वसुमतिं बोधिसत्वो॥

त्रस्ता अभूषि तद मारसेना

भीता पलाये च बहुयोजनानि।

चतुर्दिशं नैव च प्रेक्षमाणा

पश्यन्ति बुद्धं यथ रस्मिराजं॥

अन्ये रथेहि पते मेदिनीयं

गर्जन्त मेघा यथ अन्तरीक्षे।

यथ हस्तिनागा च महार्णवस्मिं

तथैव सर्वा हत मारसैन्याः॥

दिव्यां च पुष्पां प्रकिरेन्सु देवा

चूर्णं प्रवर्षेन्सु च चन्दनस्य।

मन्दारवा ओकिरे बोधिसत्वं

समन्ता त्रिंश स्फुट योजनानि॥

देवसहस्रा नभे अम्बराणि

भ्रामेन्सु अन्ये क्षिपि मुक्तिहारं। 


p. 343


गाथाभि गीतेहि अपरे स्तवेन्सुः 

प्रध्याये तूष्णीं दुःखि कृष्णबन्धुः॥

सप्ताहपूरं दुःखि मारसैन्यं

द्रुमस्य मूले अभु कृच्छ्रप्राप्तं।

जात्यन्धभूतं दिशमप्रजानं

बुद्धश्च शोभे यथ रस्मिराजो॥

परस्परं रथशत भज्यमाना

पश्यितु हतां महिं प्रकम्पमानां।

ते निर्मिणित्वा विकृतात्मभावां

उपसंक्रमेन्सुः वरपादपेन्द्रं।

न ते पुराणां प्रतिलभेन्सु रूपां

सर्वे अभून्सुः भयभीतरूपा॥

यथैव तले यो विहगो निबद्धो

तथा कृष्णबन्धुः धरणीतलस्मिं।

सप्ताहपूरं सबलो ससैन्यो

समोहजातो न प्रभोति गन्तुं॥

रूपधातो उपगता देवपुत्राः

सर्वे समग्रा प्रमुदितवेगजाता।

अक्षप्रमाणां अवकिरे चूर्णधारां

दिव्यां विशिष्टां वरचन्दनस्य॥

ध्वजान कोटीनयुता सहस्रा

उच्छ्रापयेन्सुः नभे देवपुत्राः।


p. 344


पताकपट्टैः स्फुट बुद्धक्षेत्रं

यदा हने वसुमतिं बोधिसत्वो॥

दिव्या च वाद्या प्रपद्यि अन्तरीक्षे

संगीति दिव्या अभु देवतानां।

पुष्पां प्रवर्षे नभि देवपुत्रा

यदा हने वसुमतिं बोधिसत्वो॥

यावन्ति वृक्षा अभु मेदिनीये

सर्वे अभू कुसुमानन्तगन्धाः।

शून्या निमित्ता प्रणिधि विभाविता

एवंस्वभावं वदते स शब्दं॥

दिव्ये विमाने स्थिते मेघमूर्ध्वे

नागे विमाने तथ सागरस्मिं।

मनोज्ञघोषा असुरपुरेषु शब्दाः 

यदा हने वसुमतिं बोधिसत्वो॥

यं कालं रस्मिं अवसृजति बोधिसत्वः

पाणितलातो कुशलचित्रातो।

तदा स्थपेत्व नरकान्तिरिच्छां

यमस्य लोका प्रपति सर्वलोके॥

विहूलजातां वसुमतिं अद्दशेन्सुः

माराण कोटि प्रपतति मेदिनीये।

संबोधिप्राप्तं मुनिमद्दशेन्सुः 

चन्द्रसहस्रं यथ अन्तरीक्षे॥


p. 345


परस्परस्य तद उत्थहित्वा

भूयस्या मात्रया तत मेदिनीयं।

नभातो क्षिप्ता यथ चित्रपट्टा

तथैव सा तद अभु मारसे ना॥

असन्त्रसन्तो वरबोधिसत्वो

विगतभयो अतुलियो पुण्यक्षेत्रो।

पूर्वञ्चरित्वा वरधर्मश्रेष्ठं

प्रभासि लोके यथ रस्मिराजः॥

इदं च दुःखं अयं च समुदयः 

तथा निरोधो अथ मार्गश्रेष्ठो।

इमस्मिं सन्ते इमो प्रादुर्भोति 

इमस्मिं नष्टे इदमस्तमेति॥

अविद्या हेतु भवसंस्कृतस्य

तं प्रत्ययं भवति जाननाय।

विज्ञानहेतु भवे नामरूपं

प्रत्ययं च तं भवति षडिन्द्रियस्य॥

षडिन्द्रियं भवति तथ स्पर्शजातं

स्पर्शो च हेतु भवे वेदनानां।

संवेदयन्तो जायति तृष्णालु

तृष्णाप्रत्ययं भवति उपादानं॥

उपादानहेतुं भवं संस्मरन्ति

जातीजरामरणं तथैव व्याधिः।


p. 346


शोका च भोन्ति परिदेवितानि

आयासा (?) भोन्ति दुःखदौर्मनस्यं॥

प्रतीत्यधर्मं प्रविचितो बोधिसत्वः 

निरोधस्तेषामविकलि सर्वज्ञाने।

एषां च एवं प्रकृतिं पश्यमानो

अतुल्यं प्राप्तो वरमग्रबोधिं॥

यदा च प्राप्तो वरमग्रबोधिं 

विशुद्धचक्षुं जिनो अप्रमेयं।

प्रवृत्तज्ञानो दिशता अप्रसंगो

त्रैलोक्ये शब्दो व्रजि परंपराय॥

पराहता दुंदुभि अप्रमेया

शब्दो अभूषि तद अप्रमेयो।

अशोकप्राप्ता नरनारिसंघा

देवा च नागा मनुजा महोरगाः॥

आवासशुद्धा उपगता देवपुत्राः 

कोटीसहस्रा नयुता अनन्ता।

ते अंजलिं दशनखं प्रग्रहेत्वा

अभिस्तवे दशबलं पारप्राप्तं॥

समुद्रमध्ये यथ शैलराजा

सुमेरुमूर्ध्ने यथ वैजयन्तो।

सूर्यसहस्रं यथ अन्तरीक्षे

एवं प्रभासि जिनो बोधिमूले॥

यस्यार्थं दानं पुरिमभवेषु दिन्नं


p. 347


यस्यापि शीलमशवलं रक्षितं पूर्वे।

यस्यार्थं प्रज्ञा परमा निषेविता

सा ते नरेन्द्रवर प्राप्त बोधिः॥

चक्षुष्मन्तो तिमिरस्य हन्ता

विनाशधर्मनिधनं सत्वसारः।

स्वयंभूप्राप्तः नरवरसार्थवाहः

न कश्चित्ते समसमो सर्वलोके॥

ओभासिता ते सर्वलोकधातु

घना विमुक्तेन यथ चन्द्रमेण।

तथ दिव्य आभा प्रतपति देवतानां

नागासुराणां च महोरगाणां॥

सुमेरु शक्यो तुलयितुं शैलराजा

परागकृत्वा शत एत्तकानि।

भागा च कृत्वा समा सर्षपेण 

न बुद्धवर्णं क्षपितुं जिनानां॥

महासमुद्रो यथ वारिपूर्णो

करेण गृह्य गणयितुं शक्यो विन्दू।

कोटीसहस्रा नयुता शतानि 

न शक्यं वर्णं भाषितुं जिनानां॥

शक्यं भवाग्रां ज्ञातुं त्रिसहस्रां

इह सर्वभूमिवृक्षवाततेजः।


p. 348


तृणलता औषधिवीर्यसंख्यां

न बुद्धवर्णो क्षपयितुं शक्य सर्वं॥

भिंदित्व वारां शतं वा सहस्रं

शक्यंतरीक्षं गणयितुं नभग्रं।

चतुर्दिशानां शत एत्तकानि

न बुद्धवर्णो क्षपयितुं शक्य सर्वं॥

या सत्वधातु गणयितुं शक्यं सर्वा 

रोमां च तेषां पि च केशा मूर्ध्नि।

तेषां पि काया पुरिमा अतीता

न शक्यं वर्णं क्षपयितुं जिनानां॥

ये सत्व श्रुत्वा गुणमेवरूपं

प्रसन्नचित्ता स्मरे लोकनाथं।

तेषां सुलाभा विजहिय दुर्गतीयो

बोधी च तेषां मता नचिरेण॥

पुनरपरं भिक्षू तथागतो अनुत्तरां सम्यक्संबोधिमभिसंबोधित्वा सप्ताहपूरं एकपर्यंकेनातिनामेसि॥ अथ खलु भूम्यवचरा देवा अन्तरीक्षेचरा देवा चतुर्महाराजिका च देवा त्रायस्त्रिंशा च देवा यामा च देवा तुषिता च देवा निर्माणरती च देवा परिनिर्मितवशवर्ती च देवा महाब्रह्मा च ब्रह्मकायिका च ब्रह्मपुरोहिता च ब्रह्मपारिषद्या च आभा च परीत्ताभा च अप्रमाणाभा च आभास्वरा च शुभा


p. 349


च अप्रमाणशुभा च शुभकृत्स्ना च वृहत्फला च अवृहा च अतपा च सुदृशा च या व अकनिष्ठा च देवा सप्ताहपूरं तथागतं बोधिमण्डवरगतं सत्करोन्ति गुरुकरोन्ति मानयन्ति पूजयन्ति सर्वावती च त्रिसाहस्रमहासाहस्रा लोकधातुः सप्ताहपूरं एकालंकारा अभूषि॥ अथ खलु भगवां ताये वेलाये इमां गाथामभाषि॥

सप्ताहपूरं संबुद्धो बोधिं बुद्धित्व उत्तमां।

आसनातो न उत्थेसि सर्वलोकस्य चेतियो॥

देवकोटीसहस्राणि गगणस्मिं समागता।

पुष्पवर्षं प्रवर्षेन्सु सप्तरात्रमनूनकं॥

उत्पलां पदुमां चम्पां पुण्डरीकां मनोरमां।

सहस्रपत्रां रुचिरां तत्र देवा प्रवर्षिषु॥

मारश्च दुर्मनो आसि काण्डेन लिखते महीं।

जितो स्मि देवदेवेन शाक्यसिंहेन तापिना॥

त्रायस्त्रिंशा च यामा च तुषिता ये च निर्मिता।

परनिर्मिता ये देवा कामधातुप्रतिष्ठिताः॥

लोहितं चन्दनं दिव्यं अगुरुं अथ चम्पकं।

दिव्या च पुष्पवर्षाणि अन्तरीक्षेण ओकिरि।

अक्षमात्राहि धाराहि बुद्धक्षेत्रं फली इमं॥

ब्रह्मकोटिसहस्राणि गगणस्मिं समागताः।

वर्षन्ति सुखुमं चूर्णं दिव्यं लोहितचन्दनं॥

भूम्या देवा उपादाय शुद्धावासाः स्वयंप्रभाः।

एवं परं परा आसि देवताहि परिस्फुटा॥

छत्रध्वजपताकाहि अन्तरीक्षं परिस्फुटं।


p. 350


करोन्ति पूजनां श्रेष्ठां संबुद्धस्य शिरीमतो॥

आभा च विपुला मुक्ता बुद्धक्षेत्रं परिस्फुटं।

भवाग्रा लोकधातूयो ग्निसवर्णा भवेसि च॥

प्रशान्ता निरया आसि बुद्धक्षेत्रस्मि सर्वशो।

शीतीभूता च अंगारा सत्वा च सुखिता अभू॥

येषां नैरयिक दुःखं परिक्षीणं तदन्तरं।

निरयेषु च सत्वा ते देवेषु उपपद्यिषु॥

संजीवकालसूत्रेषु तपने च प्रतापने।

प्रशान्तो रौरवे अग्निः लोकनाथस्य रश्मिभिः॥

अवीच्यां अथ संघाते प्रत्येकनिरयेषु च।

प्रशान्तो सर्वशो अग्निः लोकनाथस्य रस्मिभिः॥

यावन्ता लोकधातूषु प्रत्येकनिरया अभू।

प्रशान्तो सर्वशो अग्निः लोकनाथस्य रस्मिभिः॥

ये च तिरिच्छानयोनीयं मान्सरुधिरभोजना।

मैत्राय स्फुटा बुद्धेन न हिंसन्ति परस्परं॥

छत्रध्वजपताकेहि बोधिवृक्षो अलंकृतः।

कूटागारेहि संछन्नो देवपुत्रेहि निर्मिता॥

खाणु च कण्टकथला च शर्करा सिकता पि च।

समन्ता बोधिमण्डातो हेष्टा भूमौ प्रतिष्ठिताः॥

रत्नामयीये भूमीये बोधिमण्डं परिस्फुटं।

या इह बुद्धक्षेत्रस्य देवपुत्रेहि निर्मिता॥


p. 351


देवपुत्रसहस्राणि धरणियं प्रतिष्ठिता।

धूपनेत्रां गृहेत्वान पूजेन्ति लोकनायकं॥

हेठा च धारणी सर्वा पदुमेहि परिस्फुटा।

जाम्बूनदसुवर्णस्य बुद्धतेजेन उद्गताः॥

ये चापि व्याधिता सत्वा दुःखिता अपरायणाः।

अरोगा सुखिता भूता बुद्धरस्मिपरिस्फुटाः॥

जात्यन्धा रूपां पश्येन्सुः लब्ध्वा चक्षुं विशारदं।

परस्परं चालपेन्सु बोधिप्राप्तस्य तायिनो॥

रागाश्चाप्यसि च दोषा मोहाश्च तनुनो कृताः।

यं कालं शाक्यसिंहेन प्राप्ता बोधि महर्षिणा॥

प्रासादा सविमाना च कूटागारमनोरमाः।

सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनः॥

यावन्ति बुद्धक्षेत्रस्मिं नरनारी च किंनराः।

सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनः॥

देवता देवपुत्रा च देवकन्या च शोभनाः।

सर्वे ततोमुखा आसि येन बोधि महर्षिणो॥

नागा चाप्यथ गन्धर्वा यक्षा कुम्भाण्डराक्षसाः।

सर्वे ततोमुखा आसि येन बोधि महर्षिणः॥

दारिका दारका चैव शय्यासनावशायिताः।

ततोमुखा संस्थिहेन्सु येन बोधि महर्षिणो॥

ये चाप्याभरणा दिव्या विशिष्टा रतनामयाः।


p. 352


आबद्धा आसि देवानं सर्वे ततोमुखा अभू॥

नागानां अथ यक्षाणां पिशाचराक्षसान च।

तेषां चाभरणा सर्वे येन बोधि ततो गताः॥

देवानामथ नागानां यक्षाणां राक्षसान च।

ततोमुखा विमानाभू येन बोधि महर्षिणो॥

नुपूरा वलया चैव अथ वा परिहारकाः।

बोधिप्राप्तस्य बुद्धस्य येन विलम्बिताम्बरं॥

जनान हारा च कण्ठे निष्कानि शोभनानि च।

आबद्धका मनुष्याणां येन बोधि निरिंगिता॥

मुक्तिहाराश्च आबद्धा विचित्रा मणिकुण्डला।

कटका च मुद्रिका च येन बोधि निरिंगिता॥

यावन्ति बुद्धक्षेत्रस्मिं सत्वधाती अचिन्तिया।

जानन्ता वा अजानन्ता येन बोधि निरिंगिता॥

वाता च शीतला वाये मनोज्ञगन्धा मनोरमाः।

समन्तबुद्धक्षेत्रस्मिं बोधिप्राप्तस्य तायिनो॥

यावन्ति बुद्धक्षेत्रस्मिं देवा नागा च मानुषा।

असुरा च किन्नरा यक्षा सर्वे पश्यन्ति नायकं॥

धूपनेत्रां ग्रहेत्वान सर्वे तेन सुखस्थिता।

पूजयन्ति लोकप्रद्योतं बोधिमण्डे प्रतिष्ठितं॥

अंजलीहि नमस्यन्ति गाथाभिरस्तवेन्सु ते।


p. 353


पूजां करोन्ति बुद्धस्य बोधिमण्डे प्रतिष्ठिता॥

सर्वे आसन्नं पश्यन्ति लोकनाथं प्रभंकरं।

न कश्चिद्दूरे संजाने व्याममात्रे यथा स्थितम्॥

न कश्चित् पृष्ठतो बुद्धं लोकधातूय पश्यति।

सर्वा दिशा हि बुद्धस्य संमुखां पश्यति दृशां॥

वामदक्षिणपार्श्वेहि न कश्चिल्लोकनायकं।

संजानति महावीरं सर्वे पश्यन्ति नायकं।

धूपितं बुद्धक्षेत्रस्मिं धूपनं च तदनन्तरं।

समन्ता बुद्धक्षेत्राणां गंधेन कोटियो स्फुटा॥

न शक्यं गणनां कर्तुं एत्तिया सत्वकोटियो।

पश्यत्वा शिरिं बुद्धस्य संबोधिमभिप्रस्थिताः॥

तृणा च अथ काष्ठा च औषधीयो वनस्पती।

सर्वे ततोमुखा आसि येन बोधि महर्षिणो॥

को अयं ईदृशान्धर्मा लोकनाथेन दर्शितां।

श्रुणित्वा न सिया तुष्टो अन्यत्र मारपक्षिकात्॥

न शक्यं सर्वं ख्यापेतुं वाचया ऋद्धि भाषतः।

या शिरि आसि बुद्धस्य बोधिप्राप्तस्य तायिनः॥

येहि च दृष्टो संबुद्धो बोधिमण्डे प्रतिष्ठितः।

पूजितश्च महावीरो ते श्रुत्वा तुष्ट पण्डिताः॥

शीलस्कन्धे च अच्छिद्रे ये भिक्षू सुप्रतिष्ठिताः।

ते श्रुणित्वा इदं सूत्रं हर्षं काहिन्ति भद्रकं॥


p. 354


क्षान्तिसौरभ्यसंपन्ना अलीनकायमानसाः।

अर्थिका बुद्धज्ञानेन तेषां तुष्टिर्भविष्यति॥

येहि आश्वासिता सत्वा मिचिष्यि उपपद्यतां।

बुद्धित्व उत्तमां बोधिं तेषां तुष्टिर्भविष्यति॥

येहि पुरिमका बुद्धा सत्कृता द्विजसत्तमा।

इदं च सूत्रं श्रुत्वान तुष्टा भेष्यन्ति महर्षिणः॥

यदि ते कृपणा सत्वा अन्नपानेन तर्पिताः।

ते इदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवं॥

यहि ते अधना सत्वाः धनेहि प्रतिच्छादिताः।

ते इदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवं॥

येहि च पूर्वं बुद्धानां चेतिया मापिता शुभाः।

बुद्धित्वा वरप्रसादा ते खु भेष्यन्ति प्रीणिताः॥

येहि पुलुवं सद्धर्मो लोकनाथस्य धारितो।

त्यजित्वा लाभासत्कारं ते खु भेष्यन्ति प्रीणिता॥

ये ते असंस्कृतायुश्च दण्डकर्मेहि वर्जिताः।

ओरसा लोकनाथस्य ते हि करिष्यन्ति पूजनां॥

ये ते मैत्रेयं संबुद्धं पश्यित्वा द्विपदोत्तमं।

काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति॥

ये ते सिंहं महानागं पश्यित्वा लोकचेतियं।

काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति॥

केतुस्य लोकनाथस्य ये हि करिष्यन्ति पूजनां।


p. 355


अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति॥

प्रद्योतस्य च बुद्धस्य ये करिष्यन्ति पूजनां।

अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति॥

ज्योतिंधरं च ये बुद्धं पश्यित्वा अपराजितं।

पूजां महतीं काहिन्ति तेषां हर्षो भविष्यति॥

सुनेत्रं लोकप्रद्योतं ये दृष्ट्वा सत्करिष्यन्ति।

अप्रमाणाय पुजाय तेषां हर्षो भविष्यति॥

द्वौ बुद्धौ कुसुमनामानौ लोकनाथौ तथागतौ।

ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति॥

मरुं च द्विपदश्रेष्ठं संबुद्धं वदतां वरं।

ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति॥

पुष्पं च अग्रसंबुद्धं पश्यित्वा द्विपदोत्तमं।

ये काहिन्ति परमां पूजां तेषां हर्षो भविष्यति॥

ये गृद्धा लाभासत्कारे जिह्मविज्ञाननिश्रिता।

अल्पेछं तं श्रुणित्वान तेषां त्रासो भविष्यति॥

ये च संगणिकारामा गणवासे प्रतिष्ठिता।

विवेकं श्रुत्वा बुद्धस्य न तेषां दौर्मनस्यता॥

 एवं दुःशीला श्रुत्वान एवं बुद्धेन भाषितं।

नता लोकप्रदीपस्मिं तीव्रं काहिन्ति गौरवं॥

ये ते व्याकृता बुद्धेन बोधिसत्वा अनागता।

सुरता सुखसंवासा तेषां तुष्टिर्भविष्यति॥


p. 356


येषां विवर्तना नास्ति बुद्धज्ञानातो सर्वशः।

ते इमं सूत्रं श्रुत्वान भेष्यन्ति सुखिता नराः॥

येहि पुरिमा बुद्धा सत्वसारा

गुरुकृता सत्कृता पूजिता नरेन्द्रा।

प्रणतमनाः शिष्ट बुद्धज्ञाने

नरवरवर्ण श्रुणित्व तुष्टा भोन्ति॥

ये च अविकलाः समन्तशुद्धा

वरगुणकोटीशतोपपन्ना।

ये च धरसि धर्म लुज्यमानं

मुदितमना सुगतस्य शासनस्मिं॥

ये च अचपला    नुबद्धा

अमुखरा नो च अभू विकीर्णवाचा।

।  ।।    । । ।         न मानुपेता

जिनवरवर्ण श्रुणित्व तुष्टा भोन्ति॥

येषां अपरित्यक्त बुद्धज्ञानं

एवं विरजा च अतुल्यनन्तबोधि।

ये च चरन्ति व्रतमप्रमत्ता

जिनवरवर्ण श्रुणित्व तुष्टा भोन्ति॥

चतुर्हि भिक्षू धर्मेहि समन्वागतः तथागतो पूर्वे बोधिसत्वचारिकां चरन्तो सर्वलोक अभ्युद्गततामनुप्राप्तः॥ कतमेहि चतुर्हि॥ अच्छिद्रेण शीलस्कन्धेन॥।।।।।


p. 357


सर्वसत्वहितचित्तताय सर्वसत्व ओहितचित्तताय॥ इमेहि भिक्षूः चतुर्हि धर्मेहृ समन्वागतः तथागतो पूर्वे बोधिसत्वचारिकां चरमाण इमं एवरूपं सर्वज्ञानमनुप्राप्तः॥

अथ खलु भगवान्ताये वेलाये इमां गाथामभाषि॥

शीलस्कन्धो धनं श्रेष्ठं लोकनाथस्य शासने।

न सुवर्णं न च रूप्यं धनं भिक्षुस्य वर्णितं॥

शीलं व पूजेतु शास्तु शासने सुप्रतिष्ठितो।

दुःशीलो छम्भितो दूरं न सो बुद्धस्य श्रावको॥

शीलं रक्षित्वा अच्छिद्रं पश्यन्ति द्विपदोत्तमा।

लोकनाथा महावीरा द्वात्रिंशवरलक्षणाः॥

मैत्राया शीलस्कन्धेन अरण्यवासे च उत्सुकः।

सूरतः सुखसंवासो एतं श्रामण्यकं धनं॥

अल्पेछो अल्पसन्तुष्टो सूरतो सुसमाहितः।

हिरी ओत्तप्पसंपन्नो एतं श्रामण्यकं धनं॥

साधुशीला भिक्षू हि सर्वे तृष्णां छित्त्वान जालिनीं।

सप्त बोध्यंगान्भावेन्ति एतं श्रामण्यकं धनं॥

शून्यतां शान्तां भावेति भवा च विरतो मुनिः।

बहुदुःखा असारा च एतं श्रामण्यकं धनं॥ 

सो सो महाधनो भवति यो एवं प्रतिपद्यति।

प्रतिपत्तीय संपन्नो स खु भिक्षु महाधनो॥


p. 358


शीलसंपन्नो यो भिक्षुः स आढ्यो ति प्रवुच्चति।

न हि मुक्ताप्रवाडेहि भिक्षु भोति महाधनो॥

शीलवां सुखसंवासो भिक्षु भोतु अहिंसको।

न हि चीवरलाभेन व्रजते भिक्षु स्वर्गतिं॥

शीलं शुचि निषेवित्वा वर्जति सर्व अक्षणां।

न ज्ञातिलाभं एषन्तं शास्ता भिक्षुं प्रशंसति॥

शीले आभोगं कृत्वान स्वर्गो भोति न दुल्लभो।

प्रियो मनापः सर्वेषां यत्र यत्रोपपद्यति॥

शीलं रक्षेथ मेधावी प्रार्थयन्तो त्रयो सुखां।

प्रशंसा चित्तलाभं च प्रेत्य स्वर्गे च मोदनं॥

शीलं प्रावरणं श्रेष्ठं अलंकारं प्रभास्वरं।

शीलेन शोभितो भिक्षुः ददन्तो न विहन्यति॥

शीलेन परिशुद्धेन कायो भोति प्रभास्वरो।

न चास्य जायते दाघो मरणे प्रत्युपस्थिते॥

शीलेन परिशुद्धेन फलप्राप्तिर्न दुल्लभा।

किमंग पुनः स्वर्गति लोकनाथं च पश्यति॥

शीलेन शोभितो भिक्षुः परिशुद्धेन मार्दवो।

न हि उच्चेन भाषेण भिक्षु भोति प्रशंसितो॥

शीलवां च असन्त्रस्तो न सो भायति कदा च न।

न कदाचिद्युतागसं गच्छति भूतदुर्गतिं॥


p. 359


शीलवां भोति अल्पार्थो अल्पकृत्यो गुणे रतो।

समाधिं लभते क्षिप्रं स चापि प्रसादं गच्छति॥

शीलस्कन्धेन गुप्तेन भिक्षु भोति विशारदो।

न तस्य हन्यते चक्षुं पश्यित्वा जिनश्रावकां॥

शीलं च भिक्षु शोधित्वा निवासं पुरिमं स्मरे।

कल्पकोटीसहस्राणि संप्रजानप्रतिस्मृतो॥

शीलस्य च स निष्यन्दो यं निरीक्षीय गच्छति।

ब्रह्मलोकं महावीरो सर्वलोकस्य चेतियो॥

शीलेन परिशुद्धेन दिव्यं चक्षु विशुध्यति।

न तस्यागमनं भोति बुद्धक्षेत्रेषु सर्वशो॥

शीलेन सुसमाप्तेन अप्रमेयतथागतः।

च्युतोपपादं जानाति सर्वसत्वान नायको॥

शीलवां विचरे लोके अप्रमत्तो प्रधानवां।

न तस्य दुल्लभो भोति बुद्धघोषो मनोरमो॥

शीलवां प्रियो सत्वानां भवति सर्वत्र पूजितो।

सत्कृतो मानितश्चापि शुद्धचित्तो अनंगणो॥

शीलेन परिशुद्धेन च्यवन्तं पश्यते नरः॥

विमानं रुचिरं श्रेष्ठं अप्सरोगणसेवितं॥

शीलेन परिशुद्धेन च्यवन्तं पश्यते नरः।

सुमेरुमूर्ध्ने रुचिरे त्रायस्त्रिशानमालये॥

शीलेन परिशुद्धेन यामां पश्यति देवतां।

तं चैव नगरं दिव्यं अप्सराहि परिस्फुटं॥


p. 360


शीलेन परिशुद्धेन तुषितां पश्यति देवतां।

विमानां पश्यति तेषां विचित्रां रतनामयां॥

शीलेन परिशुद्धेन निर्माणरतीं पश्यति।

सुनिर्मितां देवपुत्रां पश्यति च स्वलंकृतां॥

शीलेन परिशुद्धेन देवां पश्यति शोभनां।

परनिर्मितवशवर्ती विमानेषु प्रतिष्ठिता॥

शीलेन परिशुद्धेन पश्यते मारमालयं।

मणिवितानसंछन्नं अप्स रोगणसेवितं॥

शीले आभोगं कृत्वान ब्रह्मां पश्यति देवतां।

जांबूनदविमानं च मणीहि प्रतिमण्डितं॥

शीलवां पश्यते भिक्षु देवां च ब्रह्मकायिकां।

ब्रह्मपुरोहितां देवां विमानेहि प्रतिष्ठितां॥

शीलवां पश्यते भिक्षुर्विमानेषु प्रतिष्ठितां।

ब्रह्मपार्षद्यां च देवां महाब्रह्मां च देवतां॥

शीलस्कन्धेन सम्पन्नो आभां पश्यति देवतां।

विशिष्टां पश्यते तेषां विमानां रतनामयां॥

शीलवां पश्यते भिक्षुः शुभां देवा महर्द्धिकां।

पश्यते शुभकृत्स्ना पि अप्रमाणाभां पश्यति॥

शीलं विशुद्धं रक्षित्वा परीत्तशुभां पश्यति।

देवपुत्रसहस्राणि रूपधातुप्रतिष्ठितां॥

शीलेन परिशुद्धेन पश्यति च बृहत्फलां।

तथा अवृहां अतपां पश्ये सुदृशां च सुदर्शना। 


p. 361


शीलेन परिशुद्धेन शुद्धावासां पि पश्यति॥

ये तत्र परिनिर्वायि वारिसिक्तो यथानलो।

ते पि तां भिक्षू पश्यन्ति शीलं रक्षित्व शोभनं॥

शीले अशवलः सदा अभूषि

पुरिमभवेषु विशिष्टलक्षमाणः।

तेन दशबलं उपेति शास्तुं

तस्य विरोचति कायो लक्षणेहि॥

शीले सदा समाधौ अप्रमत्तश्च 

चरति जिनः पुरिमा अनन्तकल्पां।

तेन भवति लोकधर्मस्वामी

गगणगतो यथा सूर्यो रस्मिराजो॥

एवं शीलं परिशुद्धमाचरित्वा 

अपरिमितं तथा अनन्तकल्पं।

सुगतो लंकृतः शोभते लक्षणेहि 

मुखातो वाति गन्धं चन्दनस्य॥

इमां गुणां सततं विपश्यमाना 

जिनवरवर्णितं शीलं रक्षमाणाः।

विहरथ पवने उदग्रचित्ता 

मुनिवर पूजित येहि ते प्रणीता॥

दृष्ट पुरिम बुद्ध सार्थवाहा 

हतरजा सत्कृत पूजिता स्वयंभू।


p. 362


छन्दो जनितो बोधिये वराये

इमे गुणाः श्रुत्वा उदग्रा बोधिसत्वाः॥

पुनरपरं भिक्षवो शीलपरिशुद्धः तथागतः समाधिपरिशुद्धः प्रज्ञापरिशुद्धः विमुक्तिपरिशुद्धः विमुक्तिज्ञानपरिशुद्धः क्षान्तिपरिशुद्धो भिक्षवः तथागतो सौरभ्यपरिशुद्धो पि भिक्षवः तथागतो मैत्रापरिशुद्धो भिक्षवः तथागतो करुणामुदितापरिशुद्धो पि भिक्षवो तथागतो॥ एवं परिशुद्धस्य भिक्षो तथागतस्य यः सत्कारं कुर्यात् पुष्पमाल्यगन्धध्वजपताकाहि वाद्य अनुलेपनेहि न तस्य पुण्यस्य शक्यं पर्यन्तमधिगन्तुं। नापि सो पुण्यस्कन्धं अन्तरेण शक्यं क्षपणाय अन्यत्र त्रीहि यानेहि अन्यतरान्यतरेण यानेन यावन्न परिनिर्वाणं तस्य पर्यन्तः॥ तत्कस्य हेतोः॥ यथा एवं हि भिक्षो तथागतो अप्रमाणः सर्वेहि गुणेहि तथा एवं भिक्षो तथागते प्रतिष्ठापिता दक्षिणा अप्रमाणा अपर्यन्ता अचिन्तिया अतुलिया अमापिया अपरिमाणा अनभिलाप्या॥ यश्च खलु पुनः भिक्षो तथागतमेतरहि तिष्ठन्तं यापयन्तं सत्करेया गुरुकरेया मानेय पूजेया पुष्पेहि गन्धेहि माल्येहि छत्रेहि ध्वजेहि पताकाहि वाद्येहि धूपेहि विलेपनेहि अन्नपानयानवस्त्रेहि यश्च परिनिर्वृतस्य सर्षपफलमालमपिधातुं सत्करेया इत्येतं समसमं॥

अथ खलु भगवां ताये वेलाये इमां गाथामभाषीत्॥

बोधाय चित्तं नामेत्वा हिताय सर्वप्राणिनां।

यस्स्तुपं लोकनाथस्य करोति अभिप्रदक्षिणं॥

स्मृतीमन्तो मतीमन्तो पुण्यवन्तो विशारदो।

भोति सर्वत्र जातिषु चरन्तो बोधिचारिकां॥


p. 363


देवनागान यक्षाणां राक्षसानां च पूजितो।

भोति सर्वत्र जातीषु स्तूपं कृत्वा प्रदक्षिणं॥

वर्जेति अक्षणां अष्टौ ये केचिद्देशिता मया।

आरागेति क्षणं एकं बुद्धोत्पादं सुशोभनं॥

वर्णरूपेण संपन्नो लक्षणेहि अलंकृतो।

उपेतो वरवर्णेन अदीनमनमानसो॥

आढ्यो महाधनो भोति पुण्यवन्तो अनीर्षुको।

पश्यित्वा लोकप्रद्योतं सत्करोति पुनर्पुनः॥

न सो मुह्यति धर्मेषु नैरात्म्यं दृष्ट्वा शून्यतां।

प्रसादं लभते क्षिप्रं धर्मेण सो च कोविदो॥

श्रेष्ठिकुलेषु आढ्येषु स्फीतेतु चोपपद्यति।

अतिदानपतिः शूरो मुक्तात्यागो अमत्सरी॥

ये केचिज्जंबूद्वीपस्मिं विशिष्टा कुलशोभनाः।

तत्र सो जायते वीरो हीनां च परिवर्जयेत्॥

गृहपतिमहाशालो शिरितेजेन तेजितो।

पूजितो भवति सर्वत्र स्तूपं कृत्वा प्रदक्षिणं॥

ब्राह्मणमहाशालश्च प्रज्ञावन्तो बहुश्रुतो।

क्षत्रियमहाशालश्च आढ्यो भोति महाधनो॥

राजा पि धार्मिको भोति जंबूद्वीपस्मिं ईश्वरो।

प्रशासति इमां च सर्वां मेदिनीं गिरिकुण्डलां॥

चक्रवर्ती महर्द्धिकः सप्तरत्नान ईश्वरः।


p. 364


राज्ये प्रतिष्ठितो बुद्धं सत्करोति पुनर्पुनः॥

च्युतश्च गच्छते स्वर्गं प्रसन्नो बुद्धशासने।

शक्रो पि भोति देवेन्द्रो मेरुमूर्धनि ईश्वरो॥

सुयामो भोति देवेन्द्रो भोति संतुषितो पि च।

निर्मितो पि च देवेन्द्रो वशवर्ती च ईश्वरः॥

ब्रह्मा पि ब्रह्मलोकस्मिं ईश्वरो भोति पण्डितो।

सत्कृतो देवकोटीहि स्तूपं कृत्वा प्रदक्षिणं॥

म शक्यं भाषणक्षपणं कल्पकोटिशतेहि पि।

ये स्तूपं लोकनाथस्य करोन्ति अभिप्रदक्षिणं॥

न जातु अन्धो काणो वा भोति कल्पान कोटिभिः।

बोधाय चित्तं नामेत्वा यो वन्दे शास्तु चेतियं॥

विशुद्धां लभते नेत्रां विशालां नीलशोभनां।

चेतियं लोकनाथस्य कृत्वा अभिप्रदक्षिणं॥

उपेतो बलवीर्येण न कौसीद्यं स गच्छति।

अप्रमत्तो सदा भोति स्तूपं कृत्वा प्रदक्षिणं॥

दृढवीर्यो दृढस्थामो धौरेयो दृढविक्रमो।

कौशल्यं गच्छते क्षिप्रं स्तूपं कृत्वा प्रदक्षिणं॥

अग्निविषेण शस्त्रेण न जातु कालं करोति च।

कालं करोति पूर्णेन आयुःक्षीणेन पण्डितो॥

विघुष्टो राजधानीषु राष्ट्रेषु निगमेषु च।

रूपेण अर्थभोगेहि स्तूपं कृत्वा प्रदक्षिणं॥

शुचिगात्रो शुचिवस्त्रः शुक्लधर्मप्रतिष्ठितो।

ततो न सेवते कामां चरन्तो बोधिचारिकां॥


p. 365


पुष्पस्य मालां कृत्वान यः स्तूपे उपनिक्षिपे।

चित्तं बोधाय नामेत्वा न सो जातु विहन्यति॥

इतश्च्यवित्वा मृतो हि त्रायस्त्रिंशां स गच्छति।

विमानं लभते क्षिपं विचित्रं रतनामयं॥

कूटागारांश्च प्रासादां अप्सरोगणसेवितां।

मालां स्तूपे दहित्वान त्रायस्त्रिंशेषु भुंजति॥

अष्टांगवरसंपूर्णां सुवर्णवालुकसंस्तृतां।

वैडूर्यस्फाटिकास्तीर्णां दिव्यां पुष्करिणीं लभे॥

भुजित्वा विभवां दिव्यां परिपूरेत्व पण्डितो।

च्यवित्वा देवलोकातो मनुष्यो भोति भोगवां॥

तेन च कुशलमूलेन आरागति तथागतं।

पूजेति द्विपदश्रेष्ठां अप्रमत्तो विचक्षणो॥

न सो जय्यति रागेन नापि दोषेण ह्रीयति।

न जातु भोति संमूढः पूजेत्वा द्विपदोत्तमं॥

अरक्तश्च अदुष्टश्च अमूढः संवृतेन्द्रियः।

भोति सर्वत्र जातीषु पूजेत्वा लोकनायकं॥

जातीकोटीसहस्राणि शतानि नयुतानि च।

सत्कृतो भोति सर्वत्र मालां दत्त्वान चेतिये॥

चक्रवर्ती अपि राजा शक्रो पि भोति ईश्वरः।

ब्रह्मा पि ब्रह्मलोकस्मिं मालां दत्त्वान चेतिये॥

पट्टदामं ददित्वान लोकनाथस्य चेतिये।


p. 366


सर्वे स्य अर्था वर्तन्ति ये दिव्या ये च मानुषाः॥

हीनां च कुलां वर्जेति न स तत्रोपपद्यति।

आढ्यश्च धनवां भोति जम्बूद्वीपस्मि ईश्वरो॥

रूपेणाथ भोगेहि च वर्णेन अथ ऋद्धिया।

विशिष्टो भोति सर्वत्र पूजां कृत्वा तथागते॥

जातिस्मरश्च सो भोति न सो रागेन ह्रीयेति।

जानते दोषं कामानां ब्रह्मचर्यं समादिये॥

रूपेहि अथ शब्देहि रसेहि अपराजितो।

न करोति पापकं कर्म पूजेत्वा द्विपदोत्तमं॥

गन्धेहि अथ स्पर्शेहि न जातु स च ह्रीयति।

स्मृतिमां संप्रजानश्च भोति पूजेत्व नायकं॥

न तस्य चौरा राजानो धनस्कन्धं परामृषे।

अग्निर्वा अपस्करोति पूजां कृत्वा तथागते॥

शोकं च शोकवैराग्यां न सो जातु निगच्छति।

पट्टदामं ददित्वान पुष्पं च लोकनायके॥

सर्वत्र भोति जातीषु अशोक अनुपद्रुतो।

पूजेत्वा लोकप्रद्योतं चक्रवर्ती महर्द्धिको॥

सुघट्टितहस्तपादो अंगशोभां निगच्छति।

वर्णरूपेण संपन्नः पूजेत्वा लोकनायकं॥

वर्जेति पापकं कर्म चरन्तो बोधिचारिकां।

पश्यते द्विपदश्रेष्ठां ये लोकस्मिं सुदुर्लभा॥


p. 367


कल्पकोटीसहस्राणि शतानि नयुतानि च।

भुंजित्वा सौख्यं सप्रज्ञो बुध्यते बोधिमुत्तमां॥

मालाविहारं कृत्वान लोकनाथस्य धातुषु।

अभिद्यपरिवारेण राजा भोति महर्द्धिको॥

वर्जेति पापकां धर्मा ये आर्येहि विवर्जिता।

चरति कुशलां धर्मां ये बुद्धेहि प्रशंसिता॥

प्रियश्च दयितो भोति सत्कृतश्च प्रसंसितो।

देवानामथ नागानां ये च लोकस्मि पण्डिता॥

महता परिवारेण शोभनेन महाबलो।

पूजयति द्विपदश्रेष्ठं संबुद्धमपराजितं॥

यत्र सो जायते गेहे पूण्यतेजेन तेजितो।

तं कुलं सत्कृतो भोति राष्ट्रेण निगमेन च॥

मालाविहारं कृत्वान चित्तं बोधाय नामये।

तस्यैषा भोति संपत्ति या बुद्धेहि प्रशंसिता॥

न सो कुब्जो च खंजो वा खलितो वा विचंक्रमो।

अलंकृतो लक्षणेहि यत्र यत्रोपपद्यति॥

दरिद्र सत्व पश्यित्वा धनेन अभिच्छादये।

असंहरणीयश्च सो चरन्तो बोधिचारिकां॥

इमां च वसुधां सर्वां ओशिरित्वा महामतिः।

अदीनचित्तो सो भोति न सो जातु विषीदति॥

पुत्रांश्च धीतरांश्चैव भार्या कल्याणभद्रिकां।

ओशिरित्वान सो याति यो बोधिमभिप्रस्थितो॥

पूर्वालापी च सो भोति सुमुखश्च सुदर्शनः।


p. 368


न सो हन्यति ईर्ष्याये न च मानेन कदा चन॥

सो अनीर्षु सूरतश्चैव क्षान्तिये पारमिंगतो।

हितैषी गुणसंपन्नो यो बोधिमभिप्रस्थितो॥

रतनं सर्वलोकस्मिं उत्पादस्तस्य दुर्लभो।

अनिंदितो दक्षिणीयो यो बोधिमभिप्रस्थितो॥

गगणे निमिषे शक्यं बालेन गणेतु तारकां।

न तस्य गुणपर्यन्तं शक्यं वाचाय भाषितुं॥

शक्यं सर्वेषां सत्वानां त्रियध्वचित्तं जानितुं।

न तस्य गुणपर्यन्तं शक्यं वाचाय भाषितुं॥

महासमुद्राश्चत्वारो बालेन सिकतां तथा।

नागकोटीसहस्राणि न तस्य गुण भाषितुं॥

ये रोमा सर्वसत्वानां गतिषु षट्सु ये जगे।

गणेतु निमिषे शक्यं न तस्य गुण भाषितुं॥

यत्रेयं वसुधा सर्वा आपस्कन्धे प्रतिष्ठिता।

निर्मितुं शक्यते बालेन न तस्य गुण भाषितुं॥

देवागारमुपादाय ये कल्पस्थायिजीविनो।

ये अत्रान्तरेण वृक्षा ये च भूमि अनागता॥

पुष्पा फलानि च शक्यं गणयितुं विजानता।

न तस्य बुद्धपुत्रस्य गुणपर्यन्त भाषितुं॥

भाषेयुस्तस्य शूरस्य वर्णमालां मनोरमां।


p. 369


न शक्यं बुद्धपुत्रस्य गुणपर्यन्त भाषितुं॥

जातीशतसहस्राणि यः से करेय अप्रियं।

देवा मनुष्यां वर्जेत्वा निरयस्तस्य गोचरः॥

अन्धो अचक्षुको भोति दुःखितो अपरायणो।

उत्पीडां बोधिसत्वानां यः करोति अविद्दसु॥

च्युतो अवीचिं गच्छेया दारुणं भयभैरवं।

महता आत्मभावेन दुःखां वेदेति वेदनां॥

योजन आत्मभावेन भोति तत्रोपपद्यते।

समन्तमण्डलाकीर्णो समन्तपरितापितो॥

पंच शीर्षसहस्राणि आत्मभावे प्रतिष्ठिता।

एकशीर्षे च जिव्हानां शता पंच अनूनका॥

हलानां शत एकस्मिं जिव्हाग्रे प्रतिपादिता।

तं पाचेति महाघोरं पाल्पकर्मस्य तत्फलं॥

अवीचितश्च्यवित्वान तपनं च प्रतापनं।

वेदेति तत्र दुर्मेधो पौराणं दुष्कृतं नरो॥

उत्पीडां बुद्धपुत्राणां यः करोति अविद्दसु।

न तस्य सुलभो जातु भेष्यते मानुषो भवः॥

जातीशतसहस्राणि शतानि नयुतानि च।

दुःखा वेदनां वेदयति ततोनिदानं पच्यति॥

मज्जाघासो विषो भोति अभिमर्दो भयानको।


p. 370


उत्पीडनं करित्वान बुद्धपुत्राण तायिनां॥

क्षुधापिपासामधिगतो पापकर्मस्य तत्फलं।

न सो भोजनं लब्धान जातु तृप्तीय भुंजति॥

ततो च्यवित्वा यमलोके महाद्रोणिषु खज्जति।

न त्राणं लभते जातु कृत्वा उत्पीड भिक्षुणां 

ततो च्युतः कालगतो मानुषं लोकमागतो।

जात्यन्धो भोति दुर्मेधो दुष्टचित्तो असंवृतो॥

वाचा दुर्भाषिता भवति असत्या घोषपापिका।

मनुष्येहि च्यवित्वान क्षिप्रं गच्छति दुर्गतिं॥

कल्पकोटीसहस्रेहि न जातु बुद्धं पश्यति।

उत्पीडां बुद्धपुत्राणां यः करोति असंवृतो॥

वस्तुषु बुद्धपुत्राणां करोन्तो रक्ष धार्मिकां।

वर्जेति दुर्गती सर्वां क्षिप्रं गच्छति स्वर्गतिं॥

आढ्यो महाधनो भवति बलवन्तो विशारदो।

स्मृतिप्रज्ञाय संपन्नो सुखितो भोत्यनुपद्रुतो॥

यदा च लोकप्रद्योता भवन्ति परिनिर्वृता।

पश्यित्वा बुद्धस्तूपानां सत्करोन्ति पुनर्पुनः॥

को इमानेदृशा धर्मां श्रुत्वा बुद्धस्य भाषितां।

प्रसादं बुद्धपुत्राणां न करेया पुनः पुनः॥

यश्च बुद्धसहस्राणि शतानि नयुतानि च।

यथा वालिका गंगाये एत्तकां कल्प सत्करे॥

यश्च प्रलुज्जन्तं सद्धर्मं लोकनाथेन दर्शितं।


p. 371


एकरात्रिंदिवं चापि धारये पुण्यं विशिष्यति॥

अहं च पूजितो भोति बुद्धज्ञाने प्रतिष्ठितः।

ते पि च पूजिता बुद्धा धर्मे लुज्जन्ते धारिते॥

प्रलुज्जमाने सद्धर्मे यो रक्षे शास्तु शासनं।

कल्पकोटीसहस्रेहि न सो जातु विहन्यति॥

कायेन सुखितो भोति न स रोगं च गच्छति।

अमनापसहस्रेहि न जातु संहरीयति॥

क्षान्तिये भोति संपन्नो सुरतः सखिलो मृदुः।

मैत्रचित्तश्च सत्वेभ्यो रक्षित्वा शास्तु शासनं॥

सुखितो प्रमुदितः प्रतिक्रोशं

प्रतिलभति पुरिमनिरोधदृष्टं।

सर्वां जहति अक्षणां अशेषा

जिनवरधर्म धारेत्वा लुज्जमानं॥

कवचितो सदा भोति लक्षणेहि 

यथा गगणं प्रतिपूरं तारकेहि।

स मधुरवचनो मनोज्ञघोषो 

जिनवरधर्म धारेत्व लुज्जमानं॥

हीनकुलविवर्जितो स भोति 

सुखितं येषु न अस्ति सौमनस्यं।

आढ्य सुखित भोति भोगवां च


p. 372


जिनवरधर्म धारेत्व लुज्जमानं॥

स्थामवर उपेति वीर्यवन्तो 

विचरति सर्वां वसुन्धरां अदीनो।

बुद्धशतसहस्र सत्करोति

जिनवरधर्म धारेत्व लुज्जमानं॥

स्मृतिमतिगतिवन्तो पुण्यवन्तो 

परमसुसत्कृतो भोति नरामरेषु।

विदु परमप्रशस्त जंबुद्वीपे 

जिनवरधर्म धारेत्व लुज्जमानं॥

परमसु अभिरूपदर्शनीयो

प्रिय भवति नरनारीणां मरूणां।

सुरुचिरु प्रशस्तु पुण्यवन्तो

जिनवरधर्म धारेत्व लुज्जमानं॥

कल्पशतसहस्रकोटी पूरां

गुणस्थाविर्यसंगतो अनन्तज्ञानी।

नो च क्षपेय सर्व आनुशंसं

जिनवरशासनं लुज्जितं धरेत्वा॥

येषामिमं पुरिमसूत्रं शास्ता

दशबलधारि प्रकाशि देवदेवो।

तेषामिदं नराणां हर्षमप्रकम्प्यं 

भविष्यति पश्चिमे काले वर्तमाने॥

भाषेच्च जिनवरधर्म निर्वृतानां


p. 373


श्रद्धाय तेषां धरयति गारवेण।

दानं च देति अपरिमितचेतियेषु 

पूजेति संघ भगवतो च गारवेण॥

प्रलज्जमाने जिनवरशासनस्मिं

धारेति शास्तु वरधर्मनेत्री।

सो तं अकरित्वा शुभकर्मश्रेष्ठं

नोपचक्रमे शुभं कालकर्मं॥

सर्वे च सत्वा सियु लोकनाथा 

समन्तचक्षू हतरजनिष्किलेशा।

ते कल्पकोटीनयुतां सहस्रां

भाषेयु वर्णं जिनवरे पुष्पदिन्ने॥

पापं च कर्मं विजहति सर्वकालं

श्रेष्ठं च धर्म प्रकरि उदग्रचित्तो।

चरित्वार्थं सुचिरं चारिकासु 

सो बुद्धो लोके भवति अतुल्यो॥

यः सार्षपेण सुक्ष्मतरं ग्रहेत्वा

धूपेय गन्धं भगवतो चेतियेषु।

तस्यानुशंसां शृणोथ मे भाषमाणं 

प्रसन्नचित्ता जहिय किलेशां॥

सो पुण्यवन्तो चरति दिशासु

अरोगप्राप्तो दृढव्रत अप्रमत्तो।

विनेति लोकां चरयन्तो चारिकां 

प्रियो मनापो भवति जनस्य॥


p. 374


राज्यं च प्राप्तो जिन सत्करोति

महानुभावो विदु चक्रवर्ती।

सुवर्णवर्णो स्फुटो लक्षणेहि 

मनोज्ञगन्धां लभते सर्वकालं॥

तस्य दुःखं नास्ति दौर्मनस्यं

स भोगां हीनां वितरि चारिकासु।

आढ्यश्च भोति धनवां प्रभूतभोगो

अशेषप्राप्तो विचरति सर्वलोके॥

उपसंक्रमि बहुजनं पृच्छमानो

धर्मं विशिष्टं जिनशासनस्मिं।

विनेति कांक्षां गिरां भाषमाणः 

श्रुत्वा च धर्मं लभे सौमनस्यं॥

न पापकर्मं करि हीनबुद्धिः 

ज्ञानं तु ज्ञात्वा परमं विशिष्टो।

करोति दिव्यं शुभप्रेमणीयं

शोधेति चक्षुं विधमति अन्धकारं॥

न तीव्ररागो भवति न तीव्रदोषो

न तीव्रमोहो भवति मनुष्यलोके।

चरन्त शुद्धं अशबलब्रह्मचर्यं

करोति अर्थं अपरिमित अनन्तं॥

न कस्यचिद्भवति प्रदुष्टचित्तो

न भोगहानिर्भवते कदाचित्।

न तस्य नीघो भवति जनस्य

धूपत्व गन्धं जिनचेतियेषु॥


p. 375


विशुद्धचित्तो विमलो विधूतपापः

शान्तः प्रशान्तः परशमेनुपेतः।

कल्पान कोटी नयुता शतां चरित्वा

बोधिं अतुल्यां स्पृशति अदीनचित्तो॥

सत्वान कोटीनयुतां सहस्रां

मार्गे अशोके परमे स्थपेत्वा।

वर्तेत्व चक्रं असदृशं सर्वलोके

निर्वायि पश्चा हतरजो निष्किलेशो॥

पताकं दत्त्वा भगवतो चेतियेषु

जनयेत् छन्दं कथमस्मि बुद्ध लोके।

सो पूजनीयो भवति जनस्य

चरन्तु श्रेष्ठो जिनचारिकाये॥

विघुष्टशब्दो भवति विदु प्रशंस्यः 

शुद्धं विशुद्धं लभे आत्मभावं।

उद्वीक्षणीयो भवति जनस्य

देवान नागान गुरु पूजितश्च॥

सुवर्णवर्णो सद आत्मभावो 

लाभी च भोति शुभचीवराणां।

कर्पासिकानामथ कम्बलानां

क्षोमदुकूलान च कौशिकानां॥

ये जंबुद्वीपे कुलश्रेष्ठ भोन्ति 

आढ्या महात्मा बहुधनस्वापतेया।

तत्रैव तस्य भवतोपपत्ति


p. 376


वर्जेति हीना कुला ये दरिद्रा॥

येन तस्य क्वचिज्जनियति ईश्वरत्वं

प्रदुष्टचित्तो न भवति कश्चि सत्वो।

पापं च कर्मं गरहति सो परेषां

विशुद्धशीलो भवति सदाप्रमत्तो

अमत्सरी भवति अनाग्रहीतः

सो मुक्तत्यागो भवति अशोकप्राप्तो।

न जीविकार्थं जनयति सो परेषां

विघुष्टशब्दो भवति सदा प्रशस्तो॥

पश्यित्व बुद्धं महासार्थवाहं

करोति पूजां सद हृष्टचित्तो।

छत्रैः पताकैः ध्वजगन्धमाल्यैः 

सदा चरन्तो अशबलब्रह्मचर्यं॥

मनुष्यलोके गुरुकृत सत्कृतो च 

देवेषु दिव्यं लभति विमानश्रेष्ठं।

मनोज्ञवर्णं सुरुचिरदर्शनीयं

रजताभिच्छन्नं मणिस्फाटिकेहि॥

[चित्रं] सुमेरुमूर्ध्ने लभति ईश्वरत्वं

सर्वे स्य देवा अभिनत शिष्यभूता।

धर्मेण तेषां जनयति सौमनस्यं

न जातु भोति परमप्रमत्तो॥

ततो च्यवित्वा भविष्यति मनुष्यलोके

राजान श्रेष्ठो वरचक्रवर्ती।

न तस्य पापं जनयति कश्चि सत्वः 


p. 377


प्रियो मनापो भवति जनस्य॥

कल्पान कोटीनयुता सहस्रां

लभित्व सौख्यं सुचिरं मर्त्यलोके।

गत्वान देशं पुरि मजिनान वुट्टं

सो बोधिं बुद्धे अजरमरामशोकां॥

ध्वजं दहित्वा हतरजसत्वसारे

तं च प्रसूतं लभे नो चिरेण।

प्रभूतकोशो भवति अनोपमप्रज्ञो

परिवार तस्य होति अदीनचित्तो॥

लभित्व भोगां विभजति भुंजते च

न तस्य त्रासो भवति न दौर्मनस्यं।

राजा सो तुष्टो वितरति ग्रामराष्ट्रं

न पापचित्तं जनयति तस्मिं जातु॥

श्रेष्ठी विशिष्टो भवति प्रभूतकोशो

गृहपतिश्च रतनविचित्रितांगो।

पुत्रो च राज्ञो अथ वा अमात्यो

राजा च भवति बलचक्रवर्ती॥

वर्जेति सो हीनकुलानि सर्वान्

विशिष्टभोगं कुलरत्नं लभित्वा।

सदाप्रमत्तो भवति अलीनचित्तो

वर्जेति कामां यथ मीढकुम्भं॥


p. 378


विशिष्टरूपं लभते क्षणांश्च

कुले च श्रेष्ठे भवतीश्वरश्च।

परिवारस्तस्य भवति अभेद्यो

पुरस्कृतश्च भवति जनेन॥

न चित्तशूलं जनयति सो परेषु 

प्रसन्नचित्तो सदा अप्रमत्तो।

न तस्य अग्नि क्रमते न शस्त्रं

उल्लोकनीयो सद पुण्यवन्तो॥

प्रमादं सो न चरति पूण्यवन्तो

सुसंप्रजानो सद सो मनुष्यो।

सुनिगृहीतो भवति मुक्तचित्तो

न तस्य    धर्मस्य अन्तो॥

सुतीक्ष्णगात्रो भवति विशिष्टो

सुविशुद्धचित्तो भगवां सत्यवादी।

भयार्दितानां जने सौमनस्यं

त्राणं चरेय च परायणं च॥

स वै करित्वा बहुकामनुष्यं

प्रतिस्थिहित्वा महाज्ञानस्कन्धे।

गच्छित्व मण्डं वरपादपेन्द्रं

बुद्धे अतुल्यो वर अग्रबोधिं॥

हेष्टा उपादाय भवाग्रपूरं


p. 379


जाम्बूनदस्य इमं बुद्धक्षेत्रं।

शक्यं क्षपेतु शिरिमेवरूपां

न बुद्धस्तूपे धरयतो एकदीपं॥

न तस्य कायो भवति विवर्णो

दृढे स पीठे   अच्छति।

आलोकप्राप्तो चरे सर्वलोके 

दहित्व दीपं भगवतो चेतियेषु॥

यदा च भोति जिनप्रादुभावो

आसन्नप्राप्तो भवति तथागतस्य।

पुत्रो च भ्राता अथ पिता वा ज्ञातिको

सो ज्ञानस्कन्धं लभे नचिरेण॥

बुद्धान क्षेत्रा नयुतामिता सहस्रा

पूरा भवेन्सुः यदि सर्षपाणां।

शक्यं गणेतुं तुलय्य जानितुं वा 

न बुद्धस्तूपे धरयतो एकदीपं॥

अग्रार्हं बुद्धो वरदक्षिणीयो

अग्रां चरित्वा चारिकां विशिष्टां।

करित्व पूजं गुणसागरस्य

विपाको अग्रो भवति अनोपमो॥

वैडूर्यरत्नेहि मणीहि पूरा 

सर्वा सियायं सहालोकधातु।

शक्यं क्षपेतुं शिरिमेवरूपां

न बुद्धस्तूपे धरयतो एकदीपं॥


p. 380


कार्षापणेहि सहलोकधातुं

हेष्टा उपादाय भवाग्रपूरां।

शक्यं क्षपेतुं शिरिमेवरूपां

न बुद्धस्तूपे धरयतो एकदीपं॥

क्षेत्रसहस्रा वरचंदनेन

हेष्टा उपादाय भवाग्रपूरां।

शक्यं क्षपेतुं शिरिमेवरूपां

न बुद्धस्तूपे धरयतो एकदीपं॥

क्षेत्रा सहस्रा बहुवस्त्रपूरा

यं देवलोके शुभकस्मि दुष्यं।

शक्यं क्षपेतुं शिरिमेवरूपां

न बुद्धस्तूपे धरयतो एकदीपं॥

देवेषु दिव्या च रत्ना विचित्रा

नागासुरमनुजमहोरगानां।

शक्यं क्षपयितुं शिरिमेवरूपां

न बुद्धस्तूपे धरयतो एकदीपं॥

ये दिव्यगन्धा नरदेवलोके

तेहि भवेया सहा संप्रपूरा।

शक्यं क्षपेतुं शिरमेवरूपां

न बुद्धस्तूपे धरयतो एकदीपं॥

प्रमाणं शक्य दिशि विदिशासु ज्ञातुं

आकाशधातु अयमेत्तिको ति।


p. 381


न बुद्धस्तूपे धरयतो एकदीपं

प्रमाण शक्यं गणयितुं पुण्यस्कन्धे॥

छत्रं से दिन्नं भगवतो मारुतानां

बुद्धोत्तमस्य व्रजतो नरर्षभस्य।

चित्तं प्रसादेत्व नरोत्तमस्मिं

मा बुद्धकायं तपे रस्मिराजा॥

सो तं करित्वा अहं धर्मश्रेष्ठं

शतं सहस्रं मरुशक्र आहु।

ब्रह्मापि आसि अहं ब्रह्मलोके

शतसहस्रं ददिय जिनस्य च्छत्रं॥

राजा अभूषि अहं चक्रवर्ती

शतसहस्रं दशदिशाचरो भूयः।

श्रेष्ठी अभूत् धनवां प्रभूतकोशो

गृहपति बहुधनो पुण्यवन्तो॥

विंशच्च कोटि सुगतोत्तमानां

आगमित मे गुरूकृत सत्कृता च।

शय्यासनेहि  ॥।।

विहारास्तेषां कृतगन्धलिप्ताः।

दौर्गन्धियं अपगतं सर्व मह्यं 

उष्णं च शीतं विवर्जितं मे॥

तुष्टो च भोसि परमोदग्रचित्तो

पूजां च तेषां परमोत्तमानां।

करोषि अलंकृत्वा शुभदर्शनीयं


p. 382


ददित्व च्छत्रं जिनचेतियेहि॥

तस्यापि भोति शुभ आत्मभावो 

द्वात्रिंशतीहि स्फुट लक्षणेहि।

येहि स्य नित्यं प्रतपति आत्मभावः 

युपो विशिष्टो यथ कांचनस्य।

जाम्बुनदस्य यथ दर्शनीयो

असंप्रकीर्णो स्फुटो व्यंजनेहि॥

अभिज्ञप्राप्तो भवति भिषच्छ्रेष्ठो

चरन्तो नित्यं जिनचारिकासु।

न भोगहीनो भवति कदाचिद् 

देवान भोति गुरु पूजितो च॥

न कामभोगै रमते कदाचिद्

विशुद्धशीलो सद ब्रह्मचारी।

समादियित्वा पवनं व्रजित्वा

अरिक्तध्यानो सुविशेषप्राप्तो॥

न ध्यानहानिर्भवते कदाचित् 

न बोधिचित्तं जहते कदाचित्।

मैत्राविहारी सद हृष्टचित्तो 

ददित्व च्छत्रं जिनचेतियेषु॥

वाद्येषु पूजित्व नरर्षभस्य

न शोकशल्या प्रसहन्ति तस्य।

मनोज्ञघोषो च मनुष्यलोके

स्वरं च तस्य विशुद्ध भोति॥

विशुद्धश्रोतो च उदग्रचित्तो


p. 383


विशुद्धचक्षू च सुसंप्रजानो।

श्रोतेन्द्रियेण सु उपेतो भोति

वादेत्व वाद्यं जिनचेतियेषु॥

जिव्हास्य भोति तनुदर्शनीया

पद्मप्रकाशा यथ पुण्डरीकं।

रक्त प्रवाडा यथ देवतानां

यं यं स्वरं ओसिरे दर्शनीयं॥

न जडो भोति अजिव्हो [कुब्जो] न खंजो

न पि विच्छिन्नागो विशिष्टो भोति।

प्रवरात्मा भोति प्रवरात्मभावो

वादेत्व वाद्यं जिनचेतियेषु॥

न तस्य कश्चिज्जनो दुर्मनो स्यात् 

देवा च नागा मनुजा महोरगा।

आश्वासप्राप्तो चरे सर्वलोके 

वादेत्व वाद्यं जिनचेतियेषु॥

न तस्य कश्चिज्जनो दुर्मनो स्यात् 

देवा च नागा मनुजा महोरगा।

आश्वासप्राप्तो चरे सर्वलोके 

वादेत्व वाद्यं जिनचेतियेषु॥

न जातु गिलानो भवे पाण्डुरागो

न चापि कुष्ठी नापि च किलासी।

प्रशंसनीयं लभे आत्मभावं

वादेत्व वाद्यं जिनचेतियेषु॥

प्रभूतचित्तो च अकुब्जगात्रो

उत्तप्तवर्णो यथ सुवर्णबिंबं।

दृढसमाधि च असंप्रवेधी


p. 384


वादेत्व वाद्यं जिनचेतियेषु॥

देवेषु खो    ईश्वरत्वं

मनुष्यलोकं पि गतु पूजनीयो।

उत्तप्तवीर्यो भवति अमर्दनीयो

वादेत्व वाद्यं जिनचेतियेषु॥

न सो कहिंचिज्जने अप्रसादं

न चापि कंचित्परुषं भणाति।

पैशुन्य सर्वं विजहति सत्यवादी

वादेत्व वाद्यं जिनचेतियेषु॥

अलंकारा कृत्व जिनचेतियेषु

स्नापित्व स्तूपानि तथागतानां।

विशुद्धवाक्यो स्नपयित्व स्तूपं 

रजो धोवमानो विरजस्य स्मृत्या॥

धर्मं करित्वा करिकारधर्मं

आरोग्यप्राप्तो चरे सर्वलोके।

प्रशंसनीयो भवते जनस्य

कारीषि दत्त्वा जिनचेतियेषु॥

अखण्डशीलो च अरिक्तध्यानो 

प्राप्तान सेवां धनमप्रसह्यं।

आज्ञां करोति बहुकां जनस्य

कारीषि दत्त्वा जिनचेतियेषु॥

श्मसानसंज्ञां जनयते इष्टिकासु 


p. 385


न कामलोलो च न रक्तचित्तो।

लाभाय च्छन्दं जहति अशेषं

कारीषि दत्त्वा जिनचेतियेषु॥

न चित्तपीडां जनये परेषु

न खाद्यभोज्येन जने सौमनस्यं।

न च दरिद्रो स न चापि रोगी

कारीषि दत्त्वा जिनचेतियेषु॥

अमित्रपक्षो न च तस्य भोति

पूजेति बुद्धां सततं अभेद्यो।

बुद्धं च धर्मं जिनश्रावकां च 

कारीषि दत्त्वा जिनचेतियेषु॥

क्षेत्रा सहस्रा बहवो अनन्ता

जाम्बूनदेन सिया सर्वपूरा।

शक्यं क्षेपेतुं शिरिमेवरूपां

न तैलविन्दुं जिनसूपे दत्त्वा॥

सदा च भोति वशि आत्मचित्ते

न चेष्टमानो व्रजति कदाचित्।

अभिन्नहस्तो च अभिन्नपादो

कारीषि दत्त्वा जिनचेतियेषु॥

उन्मार्ग सर्वं पि जहाति तेन 

येन व्रजन्ते बहुदुर्गतीयो।

विशोधितो स्य भवे स्वर्गमार्गो

कारीषि दत्त्वा जिनचेतियेषु॥

नामेत्व चित्तं सहलोकनाथे


p. 386


तैलस्य विन्दुं जिनचेतियेषु।

ददेय एकं शतधा करित्वा 

तं पुण्यस्कन्धं क्षपयितुं न शक्यं॥

इष्टिका गृह्य भगवतो चेतियेषु

पुण्यस्यार्थाय नरो चेद्धरेय।

न तस्य जातु अमनोज्ञगन्धं

कायो स्य गन्धं लभे चन्दनस्य॥

कल्पान कोटीनयुता सहस्रां

विशिष्टकायो भवते शुभांगो।

विघुष्टशब्दो वरलक्षितांगो

शोधेत्व स्तूपं पुरुषोत्तमस्य॥

विमानश्रेष्ठं लभते सुगन्धं

दिव्यं मनोज्ञं वरचन्दनस्य।

न तत्र तृष्णां जनये कदाचित् 

शोधेत्व स्तूपं पुरुषोत्तमस्य॥

कोटीसहस्रं लभते अप्सराणां

मनोज्ञगन्धा च सुदर्शनीया।

तासां न तृष्णां जनये कदाचित्

शोधेत्व स्तूपं पुरुषोत्तमस्य॥

अष्टांगुपेतां जलशोभमानां

उद्यानश्रेष्ठां लभते पुष्किरिण्यो।

दिव्योत्पलेहि च शोभमाना

शोधेत्व स्तूपं पुरुषोत्तमस्य॥


p. 387


परिवारस्तस्य भवते अनुरूपं 

दिव्यं च घोषं शृणोति विशुद्धं।

संगीतिशब्दानि सुरासुराणां

शोधेत्व स्तूपं पुरुषोत्तमस्य॥

कथां च धार्मां श्रुणे देवतानां

संस्कारा सर्वे च दुःखा अनित्या।

ग्राह्यं च भोति वरदान दानं

शोधेत्व स्तूपं पुरुषोत्तमस्य॥

जराभिभूतो उपगतो स्वर्गलोकं

न तस्य भूयो इतो दुर्गतीयो।

स बुद्धं च पश्यति मर्त्यलोके

शोधेत्व स्तूपं द्विपदोत्तमस्य॥

कथां च कृत्वा शुभ देवतानां

स्थपेत्व देवा बहुबुद्धस्तूपं।

कालं करित्व उपगमि मर्त्यलोके

शोधेत्व स्तुपं पुरुषोत्तमस्य॥

सो जातमात्रो स्मरे कल्पाननन्तां

ये पूर्वं बुद्धा पूजित सत्कृता च।

नामं च तेषां स्मरति गणं च धर्मं

शोधेत्व स्तूपं द्विपदोत्तमस्य॥

अनुलेपेन भगवतो यो करोति

पूजां विशिष्टां सुमनोज्ञघोषां।

सो लब्धलाभो विचरति सर्वलोके 

आदिन्नसारो वरगन्ध दत्त्वा॥


p. 388


प्रलुज्जकाले जिनशासनस्य

न सो इहागच्छति जम्बुद्वीपे।

स्वर्गेषु संघावति तस्मि काले 

गन्धानुलेपं करियान स्तूपे॥

दुर्गन्धकामां सुजुगुप्सनीयां

वर्जेति नित्यं स्थितो शीलस्कन्धे।

सदा चरन्तो इह ब्रह्मचर्यं

गन्धानुलेपं ददियान स्तूपे॥

इतो च्यवित्वा मरुस्वर्गलोके

अथ सहस्रा तुलयति अप्रमेयां।

करोति अर्थं बहुदेवतानां

गन्धानुलेपं ददियान स्तूपे॥

यस्मिं च काले नरा भोन्ति आढ्या 

अदुष्टचित्ता मृदुमार्दवा च।

तस्मिन्तु काले स्थितो जम्बुद्वीपे

गन्धानुलेपं ददियान स्तूपे॥

अपायभूमिं विजहिय सर्वां

आसन्नप्राप्तो स जिनस्य भोति।

प्रतीतो भवति सुखप्रेमणीयो

गन्धानुलेपं ददियान स्तूपे॥

विशिष्टवाक्यो भवति सुघोषो

प्रिथो मनापो जनसत्कृतो च।


p. 389


सुखं च तस्य सद सुप्रसन्नं

गन्धानुलेपं ददियान स्तूपे॥

राजापि भोति वरचक्रवर्ती

श्रेष्ठी अमात्यो गृहपति पुण्यवन्तो।

बुद्धो पि [भोति] प्रभंकरो धर्मस्वामी

गन्धानुलेपं ददियान स्तूपे॥

मणिहारं दत्त्वा जिनचेतियेषु

उदग्रचित्तो प्रमुदितो वेगजातो।

सो भोति राजा सह लक्षणेहि 

महानुभावो गुरुकृतो चक्रवर्ती॥

मणिविमानं रुचिर प्रेमणीयं

विचित्रवर्णं लभे दर्शनीयं।

प्रासादमग्रं रतनामयं च 

महारहाहि स्फुट वेदिकाहि॥

सो राजधानीं लभते विशिष्टां

नारीगणेहि नरसंप्रपूरां।

समां सुजातां सुविभक्तरूपां

प्रभूतभोगां बहुशो समन्ता॥

सुभिक्षक्षेमां अपगतशर्करां 

पुष्पावकीर्णां स्फुटावसक्तदामां।

सुमनोज्ञघोषां प्रियदर्शनीयां


p. 390


अन्तिष्ठगुप्तां बहुशालिमध्ये॥

उद्यानरम्यां शुभरुतसन्निनादां

जालविचित्रां सुखसंप्रवेशां।

ध्वजपताकाहि स्फुटां सुरम्यां

छत्रेहि च्छन्नां शुभदर्शनीयां॥

न तत्र चोरा न शठा न धूर्ता

राज्ये भवन्ति परवित्तहानी।

ईर्यापथेन उपपेत सत्वा

विजिते सन्ति सदा मैत्रचित्ता॥

अतश्च देवां व्रजते सुपुण्यो

स्वर्गेषु भोति परिपृच्छनीयो।

किं कार्यं शुक्लं कथमाचरेम

यदा व्रजेम इतो मर्त्यलोके॥

बुद्धांश्च क्षिप्रं लभे दक्षिणीयां

पश्यित्व सो पूजति लोकनाथां।

बोधाय च्छन्दं जनयति पूजं कृत्वा

तेनैव बुद्धा हतरज व्याकरोन्ति॥

बहुज्ञानी भवति महानुभावो

विशेषभूमिस्थितो अग्रसत्वो।

चित्तप्रसादं भगवतो एकं कृत्वा

कल्पसहस्रं जहे दुर्गतीयो॥

आरोचयामि इमु भाषमाणो

मा कोचि कांक्षां जने भाषतो मे। 


p. 391


मा बुद्धज्ञानं क्षिपिया अबीचिं

भवेय पश्चा सुदुःखितो कृच्छ्रप्राप्तः॥

यो जालकानि उपनये चेतियेषुं

लोकप्रदीपे महपुण्यक्षेत्रे।

सो मारजालं विधापिय अप्रमत्तो

भोति नरेन्द्रो दशबलो निष्किलेशो॥

अपायभूमिं विजहति अप्रमत्तो

सदा च बुद्धं हतरज सत्करोति।

सदा च भोति बलचक्रवर्ती

समन्तलोकं उपगत पुण्यवन्तो॥

देवेषु भोति मरुपति पूजनीयो

दिव्यं च आयुं लभे तत्र क्षिप्रं।

यशं च दिव्यं तथापि च दिव्यवर्णं

दिव्यं च सौख्यं असदृशमीश्वरीयं॥

रूपां च शब्दान्तथ पुनर्गन्धश्रेष्ठां

स्पृष्टव्यां तथा लभे देवभूतो।

उल्लोकनीयो भवति महानुभावो

न कामतृष्णां जनयति अप्सरासु॥

ततो च्यवित्व व्रजति मनुष्यलोकं

सुगन्धिताङ्गो भवति विशिष्टवर्णो।

न पारिहाणिं लभते कदाचित् 

छोरेत्व जालं जिनचेतियेषु॥


p. 392


शूरि च भवति दृढव्रत अप्रमत्तो

न कामभोगे सुरतिं जनेति।

नैष्क्रम्यतो भवति अदीनचित्तो

छोरेत्व जालं जिनचेतियेषु॥

सो अक्षणानि परिवर्जयित्वा

क्षणा च तस्य भवन्ति विशिष्टा।

बुद्धान पूजां अतुलियां सो करोति

छोरेत्व जालं जिनचेतियेषु॥

न बोधिचित्तं विजहति सो कदाचित्

न खण्डशीलो भवति असंवृतो वा।

धर्मं विरागं लभे सो विशुद्धं

छोरेत्व जालं जिनचेतियेषु॥

दौर्वर्णियं च जहे सर्वकालं

दौष्प्रज्ञियं च विजहति सो अशेषं।

विशेषप्राप्तो विचरति सर्वलोके

छोरेत्व जालं जिनचेतियेषु॥

लाभी च भोति शुचिभोजनानां

वस्त्रां विशिष्टां लभे सुवर्णचित्रां।

रङ्गोपपेतां सुरुचिरदर्शनीयां

छोरेत्व जालं जिनचेतियेषु॥

अभ्युद्धरित्वान जिनचेतियेषु

निर्माल्यं तुष्टो प्रमुदितो वेगजातो।

दुःखां खरां वाचं (?) जुगुप्समानो


p. 393


आरागये सो दशबलसार्थवाहं॥

प्रासादिको भवति विशुद्धकायो 

उल्लोकनीयो बहुजनपूजितो च।

न तस्य राजा भवे दुष्टचित्तो

यो चेतिये अपनयि जीर्णपुष्पं॥

कुमार्ग तस्यापिहिता भवन्ति

यो शीलस्कन्धे स्थितो बोधिसत्वो।

अभ्युद्धरेया जिनचेतियेषु

ओसिरे पुष्प पुरिमं मिलानं॥

शोकं च दोषं च जहे सर्वकालं

रागां च काये जहे सर्व अशेषां।

आश्वासप्राप्तो सो अनन्तकल्पां

यो चेतिये अपनये जीर्णपुष्पं॥

बुद्धो च भोति सहसार्थवाहो

अनन्ततेजेन मरुपूजनीयो।

अलंकृतो भवति विशुद्धकायो

यो चेतिये अपनये जीर्णपुष्पं॥

पंच ददेया शुभदिव्यपुष्पां

मान्दारवां अथ पाटलां वा [निर्माल्यां]।

यो जीर्णं पुष्पं अपनये चेतियेषु

विपाकु तस्य भवति स शोभमानो॥

न तस्य काये क्रमति विषं न शस्त्रं

हुतासनं ज्वलितो अग्निस्कन्धो।


p. 394


चौरा पि तं न प्रसहन्ति पापा

यो जीर्णं पुष्पं अपनये चेतियेषु॥

न तस्य पुण्यं सुकरं प्रकीर्तितुं

यन्तेन पुण्यं सुमहत् गृहीतं।

ओसन्नपुष्पं जिनचेतियेषु

छोरेत्व तुष्टो प्रमुदितवेगजातो॥

उद्विद्धकायो भवति उदारो

सदा चरन्तो शुभकर्मश्रेष्ठं।

न तस्य दूरे वर अग्रबोधि

छोरेत्व निर्माल्यं जिनस्य स्तूपे॥

यो चन्दनं किरेय नायकस्य

छन्दं जनेत्वा परमार्थबोधे।

सो भोति लोके सद पूजनीयो

प्रासादिको सुमनो तेजवन्तो॥

तस्यैव राज्ञो प्रणमति सर्वलोको

देवा नागा च मनुजा महोरगा [च]।

सर्वां सहस्रां कुसुमितलोकधातुं

प्रासासि वीरो ततो ईश्वरत्वे॥

ये तस्य राज्ये निवसन्ति लोके 

प्रतिष्ठन्ति ते वरबुद्धिज्ञाने।

ते सर्वपापेषु अतिक्रमित्वा

देवमनुष्येषु चरन्ति धर्मं॥

परिवारस्तस्य भवति अभेद्यो


p. 395


पुण्यवन्तो स्मृतिवन्त प्रज्ञवन्तो।

आश्वासप्राप्तो विचरति सर्वलोके

यथाभिप्रायं जनयति तेषु प्रीतिं॥

प्रपूरवाक्यं स्वराङ्गं भवति शुद्धं

ज्ञापेति सत्वान् सुसखिलश्लक्ष्णवाक्यो।

न तस्य कोपि जने ईश्वरीयं 

उल्लोकनीयो भवति बहुजनस्य॥

प्रियवद्य दानं तथ अर्थचर्या

समानार्थता च बहुजनस्य।

अक्रुष्टवन्तो न जनेति रोषं

यो अंगुलीहि नमे बुद्धसूपं॥

न सो अपायं प्रपतेय भूयः 

वर्जेति हीनां कुल मर्त्यलोके।

आढ्यश्व सो भोति प्रभूतकोशो

यो अंजलीये वन्दति बुद्धस्तूपं॥

देवेन्द्र भोति गत देवलोकं

मनुष्यभूतो पि च भोति राजा।

न पारिहानि च कदाचि तस्य 

यो अंजलीये वन्दति बुद्धस्तूपं॥

अयुक्तवाचं न कदाचि भाषे 

सुभाषितं भाषति नित्यकालं।

अतृप्त सत्वा वचनेन तस्य

यं सो प्रमुंचेद्वरमेकवाचं॥


p. 396


कालं करोन्तो जिनमदृशासि

मनोज्ञघोषां वसे राजधानीं।

सो इन्द्रकीले स्थित लोकनाथं

पुष्पां ग्रहेत्वा अभिकिरे वेगजातो॥

स्वकस्मिं गृहे जिनमद्दशासि

भुंजित्व भक्तं वदन्त धर्मं।

प्रसादजातो जिन सत्करोति 

गृहीत्व पात्रं व्रजे नायकस्य॥

प्रतिगृह्लते तस्य जिनोऽन्तिकातो

ज्ञात्वान चित्तं चरितं उदारं।

तस्य यशो भेष्यति देवलोके

विशिष्ट लोके असदृशो दक्षिणीयो॥

गृहीत ज्ञात्वा सुगतेन पात्रं

सो वेगजातो परितुष्टचित्तो।

उल्लोकयित्वा तद देवलोकं

जनेय च्छन्दं इममेवरूपं॥

मोचेय सत्वां बहुदुःखप्राप्तां

अन्धान चक्षु सिय सर्वलोके।

आलोकप्राप्तो तमस्तिमिरस्य घाती

अतीर्णसत्वानहमपि तारयेयं॥

अमुक्त मोचेयमसंस्कृतातो 

स्पृशित्व शान्तां वरमग्रबोधिं।

चरे अहं दशदिशा असंप्रकंपो

बुद्धित्व ज्ञानं दुःखितां प्रमोचे॥


p. 397


ज्ञात्वन तस्य प्रणिधिमेवरूपां

यथा तं चित्तो बुद्धज्ञाने।

स्मितं करित्वा जिनो व्याकरोति 

बुद्धो तुवं भेष्यसि लोकनाथो॥

इदमवोचद्भगवानात्तमना विशुद्धमति भिक्षुः सदेवमानुषासुरलोको भगवतो भाषितमभ्यनन्दे॥

अवलोकितं नाम सूत्रं महावस्तुस्य परिवारं समाप्तं॥

नैरंजनायां तीरे अद्रुतगामि अनिघो पुरुषसिंहो।

घृतहुतनिभाननस्तं नागो काल भवन्तं वन्दे॥

ततो उदग्रो समानो प्रीतिसुखसमर्पितो।

बोधिसत्वं नमस्यन्तो इमां गाथामभाषत॥

यादृशा मे पुरा दृष्टा लोकनाथा महायशाः।

तेषां तुवं पि सदृशो अत्र मे नास्ति संशयः॥

भवनाता उत्तारत्वान समन्त स विलाकय॥

विलोकयन्तो महानागो असदृशं पुरुषोत्तमं।

अग्निस्कन्धं ज्वलमानं विद्युं वापि घनान्तरे॥

नैरंजनायां तीरे अद्रुतगामि अनिघो पुरुषसिंहो।

घृतहुतनिभाननस्तं नागो काल भवन्तं वन्दे॥

ततो उदग्रो समानो प्रीतिसुखसमर्पितो॥

बोधिसत्वं नमस्यन्तो इमां गाथामभाषत॥

यादृशा मे पुरा दृष्टा लोकनाथा महायशाः।

तेषां तुवं पि सदृशो अत्र मे नास्ति संशयः॥


p. 398


यथा उद्धरसे पादं द्रक्षिणं पुरुषोत्तम।

दिशामभिविलोकेन्तो अद्य बुद्धो भविष्यसि॥

यथेयं रणते पृथ्वी कंसपात्रीव ताडिता।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा च भवनं मह्यं अन्धकारतमिस्रकं।

ओभासेन स्फुटं सर्वं अद्य बुद्धो भविष्यसि॥

यथा विमानो तेजेन स्फुटो तिष्ठति सर्वशो।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा च विमला नेत्रा विशुद्धा मम नायक।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा चीरवनिक्षेपा यथा च अवगाहसि।

नैरंजनां शीतकालां अद्य बुद्धो भविष्यसि॥

यथा नैरञ्जना रम्या कुसुमेहि समाकुला।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा च पुष्पा वर्षन्ति देवा क्षिपन्ति अम्बरा।

वृक्षा च प्रणता सर्वे अद्य बुद्धो भविष्यसि॥

शुचिजलं च वहते प्रतिपूर्णं

पार्थिवोत्तमसुतो अवगाह्य।

अभ्युदयन्तो अभिषेचयित्वा 

उपागमे पुरिमबुद्धनिषद्यां॥

सर्वमहीं सचतुर्द्वीपसशैलां

खेडपिण्डं व अनपेक्षो जहित्वा।


p. 399


याचे स्वस्तिकं तृणां नरसिंहो

यत्र निषस्मो स पृशे वरबोधिं॥

तस्य तृणां मृदुकतूलनिकाशां

स्वस्तिको कनकबिम्बनिभस्य।

वेगजातु अददे तृणमुष्टिं

तं गृह्य च मृदुतूलांगुलपाणिः॥

अथ खलु बोधिसत्वो सिंहविक्रान्तं विक्रमे अनुत्तरस्य अमृतस्य आहरणताये। नागविक्रान्तं विक्रमे। ऋषभविक्रान्तं विक्रमे। हंसविक्रान्तं विक्रमे कोञ्चविक्रान्तं विक्रमे। दुष्प्रधर्षविक्रान्तं विक्रमे। अग्रोत्पादविक्रान्तं विक्रमे। श्रेष्ठोत्पादविक्रान्तं विक्रमे। पूर्वोत्पादविक्रान्तं विक्रमे। युगोत्पादविक्रान्तं विक्रमे। प्रणिधिपूर्वोत्पादविक्रान्तं विक्रमे। शत्रुमथनविक्रान्तं विक्रमे। अपराजितविक्रान्तं विक्रमे। महापुरुषविक्रान्तं विक्रमे। अलीनविक्रान्तं विक्रमे। अदीनविक्रान्तं विक्रमे। अहीनविक्रान्तं विक्रमे। अभीतविक्रान्तं विक्रमे। हितैषी अनन्धकारीकरणताये महाविक्रान्तं विक्रमे। महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये विक्रान्तं विक्रमे॥

अथ खलु बोधिसत्वं सिंहविक्रान्तं विक्रमन्तं। नागविक्रान्तं विक्रमन्तं। ऋषभविक्रान्तं विक्रमन्तं। हंसविक्रान्तं विक्रमन्तं। क्रोञ्चविक्रान्तं विक्रमन्तं। दुष्प्रधर्षविक्रान्तं विक्रमन्तं। अग्रोत्पादविक्रान्तं विक्रमन्तं। श्रेष्ठोत्पादविक्रान्तं विक्रमन्तं।पूर्वोत्पादविक्रान्तं विक्रमन्तं। युगोत्पादविक्रान्तं विक्रमन्तं। प्रणिधिपूर्वोत्पादविक्रान्तं विक्रमन्तं। शत्रुमथनविक्रान्तं विक्रमन्तं। अपराजितविक्रान्तं विक्रमन्तं । महा -


p. 400


पुरुषविक्रान्तं विक्रमन्तं। अलीनविक्रान्तं विक्रमन्तं। अदीनविक्रान्तं विक्रमन्तं। अभीतविक्रान्तं विक्रमन्तं। हितैषी अनन्धकारीकरणताये महाविक्रान्तं विक्रमन्तं। महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये महाविक्रान्तं विक्रमन्तं पंच वाणशतानि बोधिसत्वं अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः। पंच हंसशतानि बोधिसत्वं अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः। पञ्च क्रोञ्चशतानि बोधिसत्वमनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः। पंच मयूर शतानि बोधिसत्वमनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः। पंच जीवंजीवकशतानि बोधिसत्वमनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः। पंच कन्याशतानि बोधिसत्वमनुप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः॥

कालो नाम नागराजा अद्दर्शि दृष्ट्वा च पुनर्बोधिसत्वमेतदुवाच॥ एहि महाश्रमण एहि महाश्रमण येन त्वं महाश्रमण मार्गेण आगच्छसि स भगवां पि महाश्रमण क्रकुच्छन्दो एतेन मार्गेण आगतो सो च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो त्वं पि अद्य महाश्रमण एतेन मार्गेण आगच्छसि अद्य तुवं पि अनुत्तरां सम्यक्संबोधिमभिसम्बुद्धिष्यसि। येन महाश्रमण मार्गेणागच्छसि भगवानपि कोनाकमुनि एतेन मार्गेण आगतो सो च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो त्वं पि महाश्रमण एतेन मार्गेण आगच्छसि अद्य त्वं पि अनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यसि। येन त्वं महाश्रमण मार्गेणागच्छसि भगवां महाश्रमण काश्यपो एतेन मार्गेणागतो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो त्वं पि महाश्रमण एतेन मार्गेणागच्छसि अद्य त्वं पि सम्यक्संबोधिमभिसंबुध्यिष्यसि॥

अथ खलु कालो नागराजा बोधिमण्डं गच्छन्तं गाथाभिरभिस्तवे॥


p. 401


अथ कल्पसहस्राणि वशिभूतसहस्रकोटीननुचीर्णं।

दृष्ट्वा तदा व्रजन्तं कालो शाक्योत्तममवोचत्॥

मार्गेण येन गच्छसि द्विपदोत्तम अद्रुतं असंभीत।

अद्य जिनपारमिताये सर्वसत्वान चरितं बुध्यसि॥

येन ते पुरिमा बुद्धा मृदुमार्गेण प्रस्थिता।

तेन त्वं प्रणतो वीर अद्य बुद्धो भविष्यसि॥

क्रकुच्छन्दो भगवां बुद्धो मुनि कोनाकसाव्हयो।

काश्यपो भगवां बुद्धो भवां प्येतेन प्रस्थितः॥

येन गतो क्रकुच्छन्दो कोनाकमुनि च काश्यपो।

एतेन त्वं गच्छ वीर अद्य बुद्धो भविष्यसि॥

यथा तृणानि गृह्लासि यथा याचसि स्वस्तिकं।

यथोपेसि महीमण्डं अद्य बुद्धो भविष्यसि॥

यथा इमे शुद्धावासा वशीभूता करपुटाः।

नमस्यन्ति तर्हि एषां सत्कारो शाक्यसुता समः॥

पुरिमेहि यथा विमानं तेजेन स्फुटं सर्वशः।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा च भवनं मह्यं अन्धकारतमिस्रकं।

ओभासेन स्फुटं सर्वं अद्य बुद्धो भविष्यसि॥

यथा च विमला नेत्राः विशुद्धा मम नायक।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा च रणते पृथी कंसपात्रीव ताडिता।


p. 402


निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा च वाता वायन्ति यथा वृक्षा निरिंगिता।

यथा द्विजा निकूजन्ति अद्य बुद्धो भविष्यसि॥

यथा मेदिनी पुष्पेहि समंगिभूतमण्डिता।

बुद्धानामेव उत्पादे एवं भोति अलंकृता॥

यथा वाणशता पंच करोन्ति त्वां प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा पत्त्रिशता पंच करोन्ति त्वां प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा हंसशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा क्रोञ्चशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा मोरशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि

यथा जीवकशता पंच करोन्ति त्वा प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा पूर्णकुम्भशता पंच करोन्ति त्वां प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

यथा कन्याशता पंच करोन्ति त्वां प्रदक्षिणं।

निःसंशयं महावीर अद्य बुद्धो भविष्यसि॥

संमुखं पि च जिनपारमिताये


p. 403


उपगमे पुरिमबुद्धनिषद्यां।

स्वस्तिककाले स लोकप्रदीपः 

उपाविशे महिरुहाग्रसमीपे॥

अथ खलु कालो नागराजो बोधिसत्वं सिंहासनगतमभिस्तवे॥

यथा मृदूहि जालेहि संस्तरित्वान संस्तरं।

यथा पर्यंकमाभुंजसि अद्य बुद्धो भविष्यसि॥

यथा वाणशता पंच करोन्ति त्वां प्रदक्षिणं।

समीपे द्रुमराजस्य अद्य बुद्धो भविष्यसि॥

त्वं पि नरवीर चरियां अद्य निषेवसि पूर्वं अनुचीर्णां।

धक्ष्यसि त्वं शठसैन्य सहय सनागरथ सपदातं॥

यथा द्वात्रिंशती काये महापुरुषलक्षणा।

निःसंशयं मारसैन्यं प्रभंजित्वा विरोचसि॥

अद्य त्वं साश्रवं चित्तं किलेसमदसूदन।

ज्ञानेनोत्पाटयित्वानं बोधिं प्राप्य विभोत्स्यसि॥

अद्य ते सह धर्मेण प्रतिवक्ता न भेष्यति।

इति कालो महानागः उरगाणां वरोत्तमः।

हृष्टो प्रांजलिको आह अद्य बुद्धो भविष्यसि॥

बोधिसत्वो कालं नागराजानं संरागेति॥ एतमेवं महाकाल एवमेतं महानाग अद्याहं अनुत्तरां सम्यक्संबोधिमभिसंबुध्यिष्यं॥

तं च कालमवचि द्विपदेन्द्रो

प्रीतिहर्षपरिवृंहितकायो।


p. 404


अद्य काल वचनं तव सत्यं

अद्य स्पृशिष्य अनुत्तरबोधिं॥

अपि महिधरा गिरिवरा न भवेया

चन्द्रमात्र गगणा प्रपतेया।

नैवाहन्तत्र गतो न भवेयं

भोहि प्रीतिमनसो भुजगेन्द्र॥

मेरुशृंग अनिलो विधमेया

मेदिनी च गगणं च समेया।

मादृशा न हि सिंहासनश्रेष्ठं

उपगम्य अमृतं न स्पृशेन्सुः॥

सो गिरां प्रमुंच तत्र निषस्मो

तिर्यं व द्रुमवरस्य समीपे।

अद्य सर्वभवमूलमशेषं

ऊहनामि रजनीक्षयकाले॥

स्तवित्व कालो संबुद्धं द्वात्रिंशवरलक्षणं।

प्रढक्षिणं करित्वान तत्रैवान्तरहायिथ॥

निषस्मो बोधिसत्वो पंच संज्ञा प्रतिलभे॥ तद्यथा अतीतसंज्ञा क्षेमसंज्ञा सुखसंज्ञा अशक्यसंज्ञा॥ इमां च पुनः परसंज्ञां प्रतिलभते॥ अद्यमहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धेष्यं [ चत्वारि नीतयो तद्यथा साम दण्डो भेदो प्रदानो]॥

अथ खलु मारो पापीमां येन बोधियष्टिस्तेनोपसंक्रमित्वा वैहायसे अन्तरीक्षे स्थितः प्रांजलीकृतः बोधिसत्वं नमस्यन्तो॥ अथ खलु बोधिसत्वो मारं पापीमं इमाये गाथाये अभ्यभाषे॥


p. 405


वैहायसे तिष्ठसि अन्तरीक्षे

वेगप्रमत्तो मृगमण्डलीव।

नमस्यन्तो प्रांजलि वन्दमानो

तं वन्दनीयं इह त्वं नमस्यसि॥

अहं वो ईश्वरो राजा विचेता सर्वप्राणिनां।

सुखदुःखस्य विद्वांसो लोके पर्यायकोविदु॥

याव ते यौवनं वीर आरोग्यं च महायश।

भुंज मानुष्यका कामां पितुर्निवेशने वस॥

महीं रम्यां आवसेहि स्फीतां उदधिमण्डलां।

महायज्ञानि यजमानो राज्यं कारेहि गौतम॥

अश्वमेधं पुरुषमेधं पुण्डरीकं निरर्गडं।

एतां यज्ञां यजित्वान होहिसि अमरो मरु॥

एतां यज्ञा यजित्वान त्रायस्त्रिंशा स इन्द्रिका।

मिदन्ति कामकानां ।।।    ॥

एवं त्वं हि मार्ष क्रुहि करोहि वचनं मम।

मा आगामिके विहन्याहि हित्वा सांदृष्टिकं फलं॥

इमां गाथां भणे मारो बोधिसत्वस्य सन्तिके।

तथावादिनं च मारं बोधिसत्वो ध्यभाषति॥

प्रमत्तबुद्धि पापीमं कस्य अर्थं इहागतः।

नैव त्वं ईश्वरो राजा न ब्रह्मा न प्रजापतिः॥


p. 406


सच त्वमीश्वरो अस्या न मे याचेसि प्रांजलि।

सुसमृद्धापि या जातिः हीनोत्कृष्टा च मध्यमा।

तां नाहं अभिनन्दामि अनपेक्षो स्मि ते पि हि॥

सुसमृद्धा पि ये कामा हीन उत्कृष्टमध्यमा।

ते प्यहं नाभिनन्दामि अनपेक्षो स्मि ते पि हि॥

ये पिमे पंच कामगुणा लोकस्य सुखसम्मता।

ते प्यहं नाभिनन्दामि अनपेक्षो स्मि ते पि हि॥

नागो यथा पाशं भित्त्वा दारयित्वा च बन्धना।

गच्छति येनकामो व  ।।।।     ।

छित्त्वा गृहबन्धनानि गंसामि अहं पुरं वरं।

अहो धर्ममुदीरयेन्सुः हृष्टप्रमुदिता नभे॥

पुनर्मारो येन बोधियष्टिस्तेनोपसंक्रमित्वा उपरिवैहायसं अन्तरीक्षे अस्थासि बोधिसत्वो तं आह॥ कस्तं॥ मारो आह॥

अहमीश्वरो मदकरो मरुमानुषाणां 

मह्यं सुरासुरवरो विषयानुवासी।

संसारपंजरगता मदनाभिभूता

कामातुरा मुच्यन्ति मृत्युपाशा॥

तं वाचया मधुरया परमार्थदर्शी

मारं ब्रवीत महिमण्डगतो महर्षि।

आकल्पकोटि कुशलोघसमन्वितस्य 


p. 407


वचनं नरर्षभरुतं नरपुंगवस्य॥

चित्तशूरो सि यदि तवेश्वरत्वं

कामेश्वरो सि यदि व्यक्तमनीश्वरो सि।

कामातुरा हि स्त्रीणां मनुजेन्द्रगर्भ 

पंके पतन्ति मणिरत्नविलम्बिचूडा॥

तेषान्तथा निपतितान महीश्वराणां 

पृष्ठे पतन्ति पुरुषाण स्त्रियो ललन्त्यः।

ते कामरागमदवेगयुता हसन्ति

तस्मिं क्षणस्मिं प्रमदा यमदासभूता॥

सो दासतामुपगतो प्रमदाजनस्य

ऐश्वर्यतां वदसि पश्य यथासि मूढो।

कामातुरस्य हि न विद्यति ईश्वरत्वं

नाभू न चापि भविता इति निश्चितं मे॥

सो हं तवाद्य सबलं युधि निर्जिनित्वा

अरुणोदये प्रतिभाते भवितास्मि बुद्धो।

सिंहासनमनुगतो हि न कश्चि कृष्ण

उत्तिष्ठते चरमदे हगतो अबुद्धो॥

मारो आह॥

किं गर्जसे द्रुमवरस्मि सुखं निषस्मो 

न हि ताव पश्यसिह योध्यसहस्रमालिं।

सेनां पिशाचबहुराक्षसयक्षसंघां 


p. 408


चतुरंगिनीं मुदितां बहुमन्त्रयन्त्रां॥

बोधिसत्व आह॥

यदि मारकोटिनयुतानि समागमेन्सुः 

कुशलौघसंचयसंचितनरर्षभस्य।

रोमं न इंजेय कुतो तुवं कृष्णबन्धु

प्रतिगच्छ किं विलपेसि निरर्थकेन॥

मारो बोधिसत्वेन क्षिप्तो स्वकं भवनं गत्वा परिवारस्य आचिक्षति॥ एषो मारिष बोधिसत्वो बोधिमण्डे निषस्मो अनुत्तरां सम्यक्संबोधिमभिसंबोधितुकासो। सो स्थानातो च्यावयितव्यः मा मम विषयातो बहुजनकायमतिक्रामयिष्यति॥ तस्य दानि जनीसुतो नाम पुत्रो आह॥ तात मा नं अन्तरायं करोहि अनुत्तराये सम्यक्संबोधये अभिसंबुध्यतु। यादृशं मे अधिगतं गर्भोक्रमणं च जाति च अभिनिष्क्रमणं च यथा च बोधिमण्डे उपसंक्रम्य निषस्मो अद्यैष अनुत्तरां सम्यक्संबोधिं अभिसंबुद्धिष्यति। नास्ति सो सत्वो वा सत्वकायो वा बोधिसत्वस्य समर्थो अनुत्तराये सम्यक्संबोधये अन्तरायं कर्तुं॥

निषस्मो सिंहो यथ दुष्प्रधर्षो

ओभासयित्व दिशां वृक्षमूले।

न चैतदस्माकं कदाचि रोचति 

यं एवरूपं ऋषिमाक्रमेसि॥

शीलेन क्षान्तीये तपेन चैव 

उपेतो सर्वपरमां गतिं गतो।


p. 409


सो एवरूपो समुच्छ्रितध्वजो

गजो यथा भेत्स्यति आत्मबन्धं॥

पश्य तुवं सर्वद्विपाद उत्तमं तं

चन्द्रो यथा विभाति पूर्णमास्ये।

कथं हि चित्तं क्रमते अबुद्धि

यो एवरूपां लभते विहेठां॥

अंगारकर्षू प्रपतेय न कोचि

आशीविषं पि स्पृशे नो करेण।

जात्यन्धो त्रस्तो शुनखेहि पृष्ठे

सो अन्धकूपे प्रपते अचक्षुः॥

एवं इमे भोन्ति परीत्तचेतसो

मन्त्रो च नो अस्ति तथाविधानां।

ये एवरूपं परिशुद्धगोचरं तं

अश्रद्दधाना प्रपतन्ति अचक्षुषो॥

सचेवं एतं वचनं न गृह्लथ

मार्गस्थ उन्मार्गगता स्मरिष्यथ।

पलायमाना दिशता चतुर्दिशं

यथापि।।। भ्रष्ट क्रोष्टुको॥

कालो अमात्यो गाथां भाषति॥

सर्वो सूकार्थस्मि समुच्छ्रितस्मिं

सम्मोहमासन्नो विसंज्ञबुद्धिः।


p. 410


यथा अयं देव असंप्रतीतो

मतिं अयुक्तां कुरुते जनीसुतः॥

ततो मारो महासन्नाहं सन्नहित्वा आगतो बोधिसत्वसमीपं॥ बोधिसत्वेन च उक्कासितशब्देन भग्नो॥ पुनः मारो महासन्नाहं सन्नाहित्वा बोधिमण्डे बोधिसत्वसमीपमा गतः महतीये चतुरंगिनीये सेनाये कुम्भाण्डयक्षराक्षसवतीये॥ समन्ता त्रिंशद्योजनां स्फुरित्वा हयसहस्रयुक्तवाहनं अभिरुहि चित्रचापधरो सन्नद्धकवचितो उच्छ्रितध्वजपताकः अनेकभेरीमृदंगमरुपटहपणवशंखसंनिनादेन किलिकिलप्रक्ष्वेडितशब्दानि प्रमुंचमानाये भैरवाये विकृताये भूतगणसेनाये संपरिवृतो॥ तद्यथा॥ अन्ये अश्वमुखा अन्ये उष्ट्रमुखा अन्ये गर्दभमुखा अन्ये अजमुखा अन्ये मेण्डमुखा अन्ये मृगमुखा अन्ये सिंहमुखा अन्ये व्याघ्रमुखा अन्ये द्वीपिमुखा अन्ये ऋक्षमुखा अन्ये श्वानमुखा अन्ये सूकरमुखा अन्ये विडालमुखा अन्ये काकमुखा अन्ये कुक्कुटमुखा अन्ये गृध्रमुखा अन्ये कुररमुखा अन्ये अशीर्षका कबन्धा अन्ये एकशिरा अन्ये बहुशिरा अन्ये द्विशिरा अन्ये अचक्षुषो अन्ये चैकचक्षुषो अन्ये अहस्तका अन्ये अपादका अन्ये अबाहुका अन्ये दशबाहुका अन्ये असिधरा अन्ये शक्तिधरा अन्ये तोमरधरा अन्ये भिण्डिपालधरा अन्ये शूलधरा अन्ये त्रिशूलधरा अन्ये हलधरा अन्ये चक्रधरा अन्ये मुशलधरा अन्ये मुद्गरधरा अन्ये परशुधरा अन्ये खड्गधरा अन्ये करंकधरा। अन्ये मुखतो ऽ ग्निं वमन्ति अन्ये सर्पां वमन्ति अन्ये क्षुरपर्यन्ता चक्रानुपरि अन्तरीक्षे भ्रामयन्ति॥ अन्ये पादेन हस्तिनागं गृह्य बोधिसत्वं अभि-


p. 411


द्रवन्ति। अन्ये उष्ट्रं गृह्य अन्ये अश्वं गृह्य अन्ये गर्दभं गृह्य अन्ये कबन्धं गृह्य अन्ये करंकां गृह्य अन्ये आशीविषं गृह्य अन्ये सिंहां गृह्य अन्ये व्याघ्रां गृह्य अन्य द्वीपीं गृह्य अन्ये ऋक्षां गृह्य अन्ये गवयां गृह्य अन्ये महिषां गृह्य अन्ये शीर्षकरोटीं गृह्य अन्ये पर्वतकूटानि गृह्य अन्ये समूलानि वृक्षाणि गृह्य। अन्ये अन्तरीक्षा च अंगारवर्षं पातयन्ति अन्ये आशीविषवर्षाणि पातेन्ति अन्ये उपलवर्षाणि पातेन्ति। अन्ये हस्तिषु अभिरूढा अन्ये अश्वेषु अन्ये उष्ट्रेषु अन्ये महिषेषु अन्ये गर्दभेषु अन्ये गवयेषु अन्ये मृगेषु अन्ये क्

सूकरेषु अभिरूढा बोधिसत्वमभिद्रवन्ति॥ नापि बोधिसत्वस्य रोमस्यापि इञ्जितवं चित्तस्य वा अन्यथात्वं॥

अथ स सगवयाश्वरथो खे बहुहयवारणयुक्तां सेनां।

अभिनिर्मिणीयभियासि येन बोधिसत्वासनं श्रेष्ठं॥

सो हयसहस्रयुक्तं वाहनमभिरुह्य चित्रचापधरो।

वाचामुग्रामुदीरये हनथ हनथ गृह्लथ नं शीघ्रं॥

कुंजरखराश्ववदना उष्ट्रमुखा मुषलपाणिनो रौद्रा।

राक्षसगणा प्रतिभयं भ्रमन्ति यतो सौ अरिनिघाती॥

अपराणि कबन्धानि आशीविषकानि रुहन्ति मेदिन्यां।

इमं हनथ इमं गृह्लथ रवन्ति आर्त्तस्वरं घोरं॥

अपरे मुखतो सर्पानग्निं विषं च वमन्ति।।।।

पादेन गृह्य गजेन्द्रमभिद्रवन्ति पिशाचगणाः॥


p. 412


पर्वतशृंगानपर उग्गिरमाना अभिद्रवन्ति मुनिं।

अंगारवर्षमपरे वर्षन्ति नभे पिशाचगणाः॥

क्षुरपर्यन्ता अपरे भ्रमेन्ति चक्राणि अन्तरीक्षगता।

गगणे च चटचटायति असनिर्घोरां करोति शब्दां॥

अथ खलु बोधिसत्वेन त्रिष्कृत्यो शिरं परामृष्य त्रिष्कृत्यो पर्यंकं परामृष्य दक्षिणेन हस्तरतनेन सुविचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृद्दुनां तूलसंस्पर्शोपमेन ताम्रनखेन अनेककल्पकोटीकुशलमूलसमन्वागतेन पृथिवी संपराहता प्रनदे गम्भीरं सूक्ष्मरूपं अनुनदे अनुरणे। सय्यथापि नाम मागधिका कंसपात्री पर्वतशृंगे संपराहता गम्भीररूपं अनुनदे अनुरणे एवमेव बोधिसत्वेन दक्षिणेन हस्तरतनेन ताम्रनखेन सुविचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृदुना तूलसंस्पर्शोपमेन अनेककल्पकोटीकुशलमूलसमन्वागतेन पृथिवी पराहता तेन च पृथिवीशब्देन भिज्जे लुज्जे प्रलुज्जे परिणमे॥ हस्तिनो पि सानं सीदेन्सुः अश्वा पि सानं सीदेन्सुः रथा पि सानं सीदेन्सुः पादा पि सानं सीदेन्सु हस्ता पि सानं सीदेन्सुः प्रहरणा पि प्रपतेन्सुः दिशा पि सानं उज्क्येन्सुः अतीर्थेनापि नदीं नैरम्जनां प्रपतेन्सुः। अन्ये वामेन पार्श्वेन प्रपतेन्सुः अन्य दक्षिणेन पार्श्वेन प्रपतेन्सुः अन्ये उत्तानका प्रपतेन्सुः अन्ये पादेहि प्रपतेन्सुः अन्ये जानुकेहि प्रपतेन्सुः अन्ये ओमूर्धका प्रपतेन्सुः अन्ये अवकुब्जका प्रपतेन्सुः भीता त्रस्ता परस्परमुत्क्रोशमाना॥

सो करेण मृदुतूलुपमेन 

आहनेय धरणीं द्विपदेन्द्रो।


p. 413


कम्पे मेदिनी ससागरशैला

तेन भग्ना च चमुः नमुचिस्य॥

सो च जहे तदा बोधिसमीपं

बोधिसत्वतेजेन ते चरन्तो।

अनेकतुरगवारणयोधा

वगाढा नैरंजनां नाम तीर्थं॥

पतितमथिताश्वरथशस्त्रः

मारो सराक्षसगणो दिशां च।

अप्रजानन्तो नैरंजननाम

प्रत्योतीर्णो विगतशास्त्रो तीर्थं॥

योजनसहस्रमात्रं पलाना

ऋद्धिबलेन रक्षसेना त्रस्ता।

तथापि नो चाभया प्रकंपन्ति

जीवाथ दिष्ट्या स्म संशयमुक्ता॥

अन्ये रक्षगणाः काण्ठावलग्ना

प्ररोदन्ति च मन्दारवां च।

देवा प्रवर्षेन्सु कर्कारवां च 

हृष्टमना वाचमुदीरयन्ति॥

विजयो पार्थिवस्य गगणे च 

दुन्दुभिशब्दो हिक्कारनदो च।


p. 414


निर्नदे त्रैलोक्ये प्रविधुतं च

नभं विमलं शास्तु विजयस्मिं॥

देवपुत्रो देवलोकं गत्वा आह॥

य सौ भावो सत्पुरुषोत्तमस्य

नैरंजनातीरमुपागतस्य।

न शक्यं तद्वर्षशतेहि वक्तुं

प्रदेशमात्रं परिकीर्तयिष्यं॥

दृष्टो मे जाम्बूनदकाञ्चनाभो

व्योमप्रभो लक्षणचित्रगात्रो।

संप्रस्थितो एकचरो अभूषि

नैरञ्जना याव च बोधिमण्डो॥

सो ते क्रमां पद्मदलप्रकाशां

यथा यथा निक्षिपते महीयं।

तथा तथा कम्पति साभिरामा

अनेकघोषाभिरता वसुन्धरा॥

दृष्टा मे मारस्य चमू समागता

समन्ततो यक्षसहस्रकोटयो।

करोति त्रासं हृदयं प्रकम्पे

न सत्वसारस्य करोन्ति इञ्जनां॥

न चास्य भावं पृथिवीय ज्ञायते

समन्ततो देवसहस्रकोटियो।

घोषं उदीरयन्ति भविष्यते जिनो 


p. 415


प्रहृष्टा वस्त्राणि च भ्रामयेन्सुः॥

दृष्टा मे पंचशता जीवजीवका

मयूरहंसा करविंककोकिला।

संप्रस्थितेनैकरवा अभूषि

नैरंजना याव च बोधिमण्डं॥

दृष्टो मे मार्गो अमरेहि निर्मितो

नैरंजना याव च बोधिमण्डं।

धूपस्य च पुष्पस्य च माल्यस्य

विचित्रपुष्पो सुमनोज्ञगन्धो॥

भग्ने मारे सर्वशो हततेजे

पूर्वे यामे परिशोधये चक्षुं।

मध्यमे च यामे मारनिघाती

पूर्वेनिवासचरिता स्मरेसि॥

उद्गते च अरुणे वरबुद्धिं

यत्तकां पुरिमबुद्धानुबुद्धां।

बुद्धधर्मवशिता प्रापुणेसि

लोकनाथो भवरागनिघाती॥

रात्र्या पश्चिमे यामे अरुणोद्धाटसमये नन्दीमुखायां रजन्यां यत्किञ्चित्पुरुषेण सत्पुरुषेण महापुरुषेण पुरुषर्षभेन पुरुषद्रव्येन पुरुषवीरेण पुरुषनागेन पुरुषसिंहेन पुरुषनृपेण पुरुषपदुमेन पुरुषकुमुदेन पुरुषपुण्डरीकेन पुरुषपुंगवेन पुरुषाजानेयेन पुरुषधौरेयेण अनुत्तरेण पुरुषदम्यसारथिना विक्रान्तेन पराक्रान्तेन एकेन अप्र -


p. 416


मत्तेन आतापिना व्यपकृष्टेन प्रहितात्मेन विहरन्तेन गतिमता स्मृतिमता धृतिमता बुद्धिमता प्रज्ञावन्तेन अर्थिकेन च्छन्दिकेन सर्वशो सर्वत्र यज्ज्ञातव्यं बोद्धव्यं अभिसंबोद्धव्यं सर्वं तमेकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः॥ देवपुत्रा गन्धमाल्यं गृह्य स्थिता किन्तु खलु भगवतो चित्तं विमुक्तं॥ भगवांस्तासां देवतानां चित्तेन चित्तमाज्ञाय ताये वेलाये तासां देवतानां इमं कांक्षाछेदनं उदानं भाषति॥ छित्त्वा तृष्णां विजहामि रजं शुष्काश्रवाणि न स्रवन्ति छिन्नं वर्त्मं न वर्तति। एषैव अन्तो दुःखस्य॥

अथ नानावर्णा कुसुम ओघा

निपतेन्सुः सुविचित्रसुगन्धा।

देवपुत्रकरतलविमुक्ता

देवराजमभिदक्षिणियेन्सुः॥

यस्य वीर्यं गिरिसारमतुल्यं 

सो सदा कुलातितेज सिखीव।

तस्य देवमनुजोपचितस्य 

अंजलिं कुरुथ अप्रतिमस्य॥

यदा इमे प्रादुर्भवन्ति धर्मा

आतापिनो ध्यायतो ब्राह्मणस्य।

अथास्य कांक्षा व्यपनेन्ति सर्वा

यदा प्रजानाति सहेतुधर्मा॥

अयं अनुलोमो प्रतीत्यसमुत्पादः॥


p. 417


यदा इभे प्रादुर्भवन्ति धर्मा

आतापिनो ध्यायतो ब्राह्मणस्य।

अथास्य कांक्षा व्यपनेन्ति सर्वा

क्षयं प्रत्ययानां अवैति॥

अयं प्रतिलोमः प्रतीत्यसमुत्पादः॥

मारेण पापीमता प्राणका निर्मिता भगवतो पर्यंकं भिन्दन्ति। सूर्येण उदेन्तेन सर्वे विलीना॥

अथ खलु भगवान्ताये वेलाये इमं उदानमुदानये॥

यदा इमे प्रादुर्भवन्ति धर्मा

आतापनो ध्यायतो ब्राह्मणस्य।

विधर्षिता तिष्ठति मरसैन्या

सूर्येणैव ओभासितमन्तरीक्षं॥

अथ खलु भगवान्प्रथमसंबोधिप्राप्तो ताये वेलाये इममुदानमुदानये॥

सुखो विपाको पुण्यानां अभिप्रायश्च ऋध्यति।

क्षिप्रं च परमां शान्तिं निर्वृतिं चाधिगच्छति॥

पुरतो ये उपसर्गा देवता मारकायिका।

अन्तरायं न शन्कोन्ति कृतपुण्यस्य कर्तुं वै॥

ये भोन्ति अल्पपुण्यस्य विग्रहा ते न भवन्ति बलवन्तो।

बलवां भोति समाधी संभारवतां सपुण्यवतां॥

यदि यो च देवलोके अथ वा वसवर्तिनो मनुष्यो वा।


p. 418


अकृत्यं प्रार्थयते किंचि तथा तथ न ऋध्यते तस्य॥

अथ वा पुन प्रार्थयति निर्वाणं अच्युतं पदमशोकं।

मार्गं दुःखप्रशमनं प्रतिलभते अल्पकिसरेण॥

अथ खलु भगवानाह॥ लोकविजितं नाम समाधि समापद्यते॥ अयं लोकः सन्तापजातो स्पर्शोपरतो रागं वेदेति आत्मनो। येन येन हि मद्यन्ति ततो न भवति अन्यथा। भवे अयं लोको सक्तो भवे रक्तो भवाभिनन्दितो॥ भवो यत्र भवति दुःखं भवति॥ प्रहाणार्थं खलु पुनर्भिक्षवस्तथागतेन ब्रह्मचर्यं उष्यति॥  ये हि केचि भवेन भवस्य निःशरणमाहुः सर्वे ते भवा अनिःशरण ति वेदेमि। ये वा पुनः केचिद्भिक्षवो भवेन भवस्य विप्रमोक्षमाहुः सर्वे ते भवा अविमुक्ता ति वदेमि॥ उपधिं प्रतीत्य दुःखस्य संभवो सर्वोपधिक्षयतो भिक्षवो नास्ति दुःखस्य संभवो॥ लोकमिमं पश्य पृथुं अविद्यापरीत्तं भूतं भूतसंभवा अपरिमुक्तं॥ ये केचिद्भवा सर्वे हि सर्वत्रताये संवर्तन्ति। सर्वे ते भवा अनित्या दुःखधर्माः परिणामधर्माः॥ एवमेतं यथाभूतं सम्यक्प्रज्ञया पश्यते॥ क्षीयति भवतृष्णा भवं नाभिनन्दति सर्वशो तृष्णाक्षयो निर्वाणं॥ तस्य निर्वृतस्य भिक्षवः पुनर्भवो न भवति॥ अभिभूतो मारो विजितसंग्रामो निर्जिताः शत्रवः अपत्यक्तः सर्वभवो इति॥

भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा बोधिमूले उक्काशनशब्देन मारो पापीमां सबलो सवाहनो भग्नो॥ अनुत्तरां सम्यक्संबोधिमभि -


p. 419


संबुध्यित्वा प्रवृत्ते वरधर्मचक्रे महापरिषां समुदानयित्वा राजगृहे विहरति शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो ऽपचितो लाभाग्रयशोग्रप्राप्तो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां। तत्र च अनोपलिप्तः पद्ममिव जलेन पुण्यभागीयां सत्वां पुण्येहि निवेशयमानो फलभागीयां सत्वां फलेहि प्रतिष्ठापयमानो वासनाभागीयां सत्वां वासनायामवस्थापयमानो अमृतमनल्पकेन देवमनुष्यां संविभजन्तो प्राणकोटिशतसहस्राणां अमृतमनुप्रापयन्तो अनवराग्रजातिजरामरणसंसारकान्तारनरकादिदुर्गमहाप्रपातादभ्युद्धरित्वा क्षमे शिवे समे स्थले अभये निर्वाणे प्रतिष्ठापयमानो आवर्जयित्वा 

अङ्गमगधवज्जिमल्लकाशिकोशलकुरुपांचालचेतिवत्समत्स्यशूरसेन अश्वक अवन्तिदशदिशां। ज्ञाने दृष्टपराक्रमो स्वयंभू दिव्येहि विहारेहि विहरन्तो ब्राह्मणेहि विहारेहि विहरन्तो आनिंजेहि विहारेहि विहरन्तो आर्येहि विहारेहि विहरन्तो सांतत्येदि विहारेहि विहरन्तो बुद्धो बुद्धविहारेहि विहरन्तो जिनो जिनविहारेहि विहरन्तो जानको जानकविहारेहि विहरन्तो सर्वज्ञो सर्वज्ञविहारेहि विहरन्तो। चेतोवशिंप्राप्तो पुनः बुद्धो भगवन्तो येहि येहि विहारेहि आकांक्षति तेहि तेहि विहारेहि विहरति॥

एतं प्रकरणं भिक्षुभि श्रुतं भगवतो बोधिमूले उक्कासनशब्देन मारः पापीमां सबलो सवाहनो भग्नो॥ ते भिक्षू भगवन्तमाहन्सुः॥ पश्य भगवन्नाश्चर्यं नरसिंहस्य मानक्रोधप्रमथिनः कथं च भगवतो उक्काशनमात्रेण मारो सबलाग्रो निर्जितो। एकेनापि असहायेन मैत्रचित्तेन धीमता अनेकयक्षनयुता उक्कासनमात्रेण बलाग्रो निर्जितो सिंहव्याघ्रतरक्षुद्वीपिवारणकुंजरा एकेन चन्द्रवक्तेण सब -


p. 420


लाग्रो निर्जितो पापीमां पापनयो च पापाचारपरिश्रमः। उक्काशनमात्रेण सबलाग्रो कथं जितः भगवानाह॥ किं भिक्षवः आश्चर्यं तथागतेन परसंबोधिप्राप्तेन बोधिमूले उक्काशनशब्देन मारः पापीमां सबलवाहनो भग्नः। अन्यदापि मये कुमारभूतेन उक्काशनशब्देन एष पापीमां सबलाग्रो निर्जितः॥ भिक्षू आहन्सुः॥ अन्यपापि भगवन्॥ भगवानाह। अन्यदापि भिक्षवः।

भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे तत्र राजा सुबन्धु नाम कृतपुण्यो महेशाख्यो महाबलो महाकोशो षष्टीनां नगरसहस्राणां राज्यं कारयति ऋद्धं स्फीतं प्रशान्तदण्डव्यवहारतस्करं क्षेमं सुभिक्षं निरीतिकं निरुपद्रवं आकीर्णजनमनुष्यं। तस्य दानि राज्ञो सुबन्धुष्य षष्टि नागसहस्राणि इभदन्तकल्पितानि हेमजालप्रतिच्छन्नानि सुवर्णालंकारभूषितानि सुखुरप्रवालानि सहस्त्यारोहाणि [ इषुतोमरपाणिनो] षष्टि अश्वसहस्राणि सैन्धवानां शीघ्रप्रवाहिनां सर्वालंकारभूषितानां षष्टि रथसहस्राणि सिंहचर्मपरिवाराणि व्याघ्रचर्मपरिच्छन्ना द्वीपिचर्मपरिच्छन्नानि सनन्दिघोषाणि सवैजयन्तकानि सुखुरप्रवालानि उच्छ्रितध्वजपताकानि षष्टि धेनुसहस्राणि सर्वाणि कामदोहीनि षष्टि स्त्रीसहस्राणि आमुक्तमणिकुण्डलानि सर्वालंकारभूषितानि षष्टि पर्यंकसहस्राणि सुवर्णमयानि रूप्यमयानि दन्तमयानि षष्टि सुवर्णपात्रसहस्राणि षष्टि रत्नमयानि सहस्राणि षष्टि निधानसहस्राणि। विंशुद्ब्राह्मणसहस्रानि नित्यभोजनानि। प्रभूतं धनधान्यकोशकोष्ठागारं प्रभूतदासीदासकर्मकरपौरुषेयं प्रभूतं अमात्यमठबलाग्रं प्रभूतं यन्त्रध -


p. 421


नुगुणकोशं॥ तस्य दानि राज्ञो सुबन्धुस्य शयनगृहे महन्तो इक्षुस्तम्बो प्रादुर्भूतः तस्य दानि इक्षुस्तम्बस्य मध्ये एकं इक्षुः सर्वशोभनं प्रादुर्भूतः इतराणीक्षुस्तंबान्यभिभवति बलेनापि वर्णेनापि तेजेनापि पलाशेनापि॥ सो दानि राजा सुबन्धुः इक्षुस्तम्बं दृष्ट्वा विस्मितो चिन्तासागरमनुप्रविष्टो॥ कस्येदं भविष्यति निमित्तं कल्याण वा पापकं वा॥ सो दानि राजा सुबन्धुः ब्राह्मणपुरोहितराजाचार्यां शब्दावित्वा आमन्त्रेति॥ भवन्तो शयनगृहे मे महान्तो इक्षुस्तम्बो प्रादुर्भूतो तस्य इक्षस्तम्बस्य मध्ये एको इक्षु सर्वशोभनं प्रादुर्भूतं सर्वा इतराण्यभिभवति वर्णेनापि तेजेनापि पलाशेनापि। तं भवन्तो प्रत्यवेक्षथ जानथ कस्येतं निमित्तं लंचकं पापकं वा यं दानि बो कर्तव्यं तं करोथ॥ ते दानि ब्राह्मणपुरोहितराजाचार्यास्तं इक्षुस्तम्बं प्रत्यवेक्षन्ति पश्यन्ति अद्भुतं प्रासादिकं दर्शनीयं चक्षुरमणीयं दृष्ट्वा च पुनः राज्ञो सुबन्धुस्य जयेन वद्धापयित्वा एतदवोचत्॥ दिष्टया वृद्धि महाराज कल्याणं निमित्तं अन्तःपुरे प्रादुर्भूतं। अतो ते महाराज इक्षुस्तम्बातः कुमारो प्रादुर्भविष्यति कृतपुण्यो महेशाख्यो महातेजो दुरासदो दुष्प्रधर्षो दुष्प्रसहो प्रासादिको दर्शनीयो देवानां च मनुष्याणां च। तं देवस्य प्रियं भवतुः॥ ते दानि ब्राह्मणा राज्ञा सुबन्धुना प्रणीतेन खादनीयभोजनीयेन संतर्पयित्वा संप्रवारयित्वा हिरण्यसुवर्णस्य उत्संगां कृत्वा विसर्जिता॥

सो दानि इक्षुस्तम्बो अहोरात्रेहि संवृद्धो कालान्तरेण महन्तो इक्षुस्तम्बो संवृत्तो सो पि मध्यमको इक्षुस्तम्बो महन्तो वेलुप्रमाणो इक्षु संजातो कोमलो च दर्शनीयो च परिणाहवन्तो च सर्वानिक्षुस्तम्बानभिभवति॥ तस्य दानि राज्ञो सुबन्धुस्य


p. 422


अग्रमहिषी सुरुचिरा नाम प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाय शुभवर्णपुष्कलताय समन्वागता॥ सो दानि राजा सुबन्धुः अग्रमहिषीय सुरुचिराय सार्धं राजार्हे शयने शयितः ओसक्तपट्टदामकलापे धूपितधूपने मुक्तपुष्पावकीर्णे सुवर्णमये रूप्यमये दीपवृक्षेहि   कुब्जवामनकिरातवर्षवरकांचुकीयेहि जाग्रन्तेहि॥

अथ खलु ततो इक्षुस्तम्बातो रात्र्या पश्चिमे यामे अरुणोद्घाटकालसमये मूलदण्डातो कुमारः प्रादुर्भूतः प्रासादिको दर्शनीयः अक्षुद्रावकाशः परमाये सुवर्णपुष्कलताये समन्वागतः॥ ततो सो कुमारो सुरुचिराये देवीये प्रतिगृहीतो॥ सो दानि राजा सुबन्धुः त कुमारं इक्षुस्तम्बातो प्रादुर्भूतं दृष्ट्वा विस्मितो। आश्चर्यं केदृशो एषो सत्वो भविष्यति यो इक्षुतो प्रादुर्भूतो॥ सो दानि राजा सुबन्धुः कुमारस्य सप्तरात्रं रमणीयाणि जातकर्माणि करोति। श्रमणब्राह्मणकृपणवनीपकेषु अन्ये च महाजनकाये सप्ताहं विश्राणेति अन्नं पानं खाद्यं भोज्यं गन्धमाल्यविलेपनं वस्त्रां च तैलप्रनालिका प्रवाहिता घृतप्रनालिका प्रवाहिता नानाप्रकाराः पानप्रनालिका प्रवाहिता। महन्तो ज्ञातिवर्गो समागतः बहूनि राजशतानि समागतानि बहूनि ब्राह्मणसहस्राणि समागतानि। महन्तो आमोदो सुबन्धुस्य गृहे वर्तति। तूर्यशतानि संप्रवाद्यन्ति संगीतिशतानि निवर्तन्ति॥ सर्वं नगरं सप्ताहं सत्कृतं॥ तदनुपात्रं राजा सप्ताहं जातकर्माणि कृत्वा सप्ताहस्यात्ययेन ततो राजा सुबन्धुः ब्राह्मणपुरोहितराजाचार्याणामामन्त्रयति॥ भवन्तो कुमारस्य सदृशं नामं करोथ॥ तेषां दानि भवति। एषो कुमारो इक्षुतो जातो भवतु इमस्य इक्ष्वाकुत्ति नामं॥ ते दानि ब्राह्मण राज्ञो निवेदेन्ति यं 


p. 423


महाराज एषो कुमारो इक्षुतो जातो भवतु इमस्य कुमारस्य इक्ष्वाकूति नामं॥ सो दानि राजा सुबन्धुः कुमारस्य नामं  ब्राह्मणानां सकाशातः श्रुत्वा प्रीतो संवृत्तो। सदृशं कुमारस्य नामं स्थपितं॥ अन्ये पि कुमारस्य नामं श्रुत्वा प्रीता संवृत्ताः॥ तषां दानि ब्राह्मणानां राज्ञा सुबन्धुना प्रभूतं खादनीयं भोजनीयं दत्त्वा संप्रवारिता प्रभूतं हिरण्यसुवर्णं दत्त्वा विसर्जिताः॥

तेन दानि राज्ञा सुबन्धुना तस्य कुमारस्य चत्वारो धात्रीयो सपरिवारा अनुरूपा उपस्थापिता या कुमारं अन्या उद्वर्तेति सुपेति अन्या स्तनं पायेति अन्या उच्चारप्रस्रावमाकर्षति अन्या उत्संगेन धारयति॥ एवं दानि सो इक्ष्वाकू राजकुमारो चतुर्हि धात्रीहि सम्यगुपस्थिहियमानो सम्यक्परिचरीयमानो यथा उत्पलं वा पदुमं वा कुमुदं वा पुण्डरीकं वा कूलांतेहि एवं स बव्हीयति॥ यथोक्तं भगवता॥

कृतपुण्यो हि वर्धति न्यग्रोधो इव सुभूमिया।

जातो नुपन्थके व द्रुमो सो ल्पपुण्यः विरुह्यति॥

एवं दानि सो कुमारः संवर्धियमानो यं कालं सप्तवर्षः अष्टवर्षो वा संवृत्तो ततः सेखीयति लेखायं पि लिपीयं पि संख्यायां पि गणनायां पि मुद्रायां पि धारणायां पि हस्तिस्मिं पि अश्वस्मिं पि धनुषि पि वेलुषि पि धाविते लंघिते जविते प्लविते इष्वस्त्रज्ञाने युद्धे छेद्ये भेद्ये संग्रामशीर्षे राजमायासु सर्वत्र निश्चितगुणगृहीतो मातृज्ञो श्रामण्यो ब्राह्मण्यो अभिवादनवंदनप्रत्युत्थानशीलो आवर्जनसंपन्नो मार्दवसम्पन्नो अपरुषो अकर्कशो निवातो सुखसंवासो पूर्वालापी प्रियभाषी राज्ञो इष्टो  


p. 424


देवीये अन्तःपुरस्य इष्टो अमात्यानां इष्टो सर्वस्य भटबलाग्रस्य इष्टो पुरोहितस्य श्रेष्ठिस्य नैगमजानपदस्य प्रतिराजानामिष्टः च प्रियो च मनापो च अल्पातंको समाये सम्यग्विपाचनीये ग्रहणीये समन्वागतो न चातिशीताये न चाति उष्णाये ऋतुविपरिणामाये दीर्घायुष्कः चतुरशीति वर्षसहस्राणि आयुःप्रमाणं॥ यथोक्तं भगवता॥

सर्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितं।

यथाकर्म गमिष्यन्ति पुण्यपापफलोपगाः॥

निरयं पापकर्माणो कृतपुण्या च सद्गतिं।

अपरे च मार्गं भावेत्वा परिनिर्वायन्त्यनाश्रवा इति॥

सो दानि राजा सुबन्धु चिरं दीर्घमध्वानं धर्मेण राज्यं कारयित्वा चतुरशीतिनां च वर्षाणामत्ययेन कालधर्मेण संयुक्तो कालगतो इक्ष्वाकुना कुमारेण राज्यं प्रतिलब्धं॥ ततः राजा वाराणस्यां पैतृक्येहि षष्टीहि नगरसहस्रेहि राज्यं कारयति निहतदण्डो निहतप्रत्यर्थिको निहतप्रत्यमित्रो अकण्टको अनुरक्तजनपदो महाबलो महाकोशो महावाहनो विस्तीर्णान्तःपुरो बहूनि स्त्रीसहस्राणि सर्वाणि च अप्रजातापत्यानि। न कस्याचित्पुत्रो वा धीता वा अस्ति॥ सो दानि राजा इक्ष्वाकुः कालान्तरेण राज्यं कारयित्वा चिन्तासागरमनुप्रविष्टो॥ मम विस्तीर्ण राज्यं विस्तीर्णमन्तःपुरं न पुत्रो स्ति मा हैव तावदहं अपुत्रो कालं करेय॥ ततः मे इमं विषयं प्रत्यर्थिकेहि आक्रमिष्यति॥ सो दानि राजा इक्ष्वाकुः पुरोहितेन सार्धं निमन्त्रयति॥ कथं मे पुत्रो भवेयाति॥ पुरोहितो तमाह॥ महाराज एतं स्त्रीकागारं अष्टमिं चतुर्दशिं पंचदशिं त्रिक्षुत्तो पक्षस्य ओशिरितव्यं। ततस्ते


p. 425


कुमारो भविष्यतीति विस्तीर्णो च इक्ष्वाकुकुलो भविष्यति॥ सो दानि राजा इक्ष्वाकुः पुरोहितस्य सकाशातो वचनं श्रुत्वा अलिन्दादेवीं अग्रमहिषीं राजकुले स्थपेत्वा तानि अन्यानि बहुस्त्रीसहस्राणि त्रिक्षुत्तं पक्षस्य ओशिष्टा। गच्छथ येन यस्या अभिप्रेतं सा तेन सार्धं रमतु॥ एवं दानि राजकुलातो बहूनि सहस्राणि निर्धावितानि हृष्टमनसः सर्वालंकारविभूषिताः मृगिका इव संत्रस्ता द्वारे द्वारे उपागमे काचिज्जल्पन्तीयो लोभये अपरा हसन्तीयो अपरा धावमाना अनुधावन्ती। सर्वे स्खलिता आसि सर्वे आसि प्रमूर्च्छिता। इक्ष्वाकुराजनगरे मनुष्यास्ताहि राजपत्नीहि सार्धं प्रलुठिता प्रमूर्च्छिता  आसि॥

अपरो दानि पुरुषो सुबन्धुकुलातो जातिसंबद्धो मनुष्यभूतो कायसुचरितेन समन्वागतः वाक्सुचरितेन समन्वागतो मनःसुचरितेन समन्वागतः दश कुशलकर्मपथ समादाय वर्तित्वा मनुष्येषु च्यवित्वा त्रायस्त्रिंशे देवनिकाये शक्रो नाम देवराजा उत्पन्नो॥ सो दानि समन्वाहरति। कहिं सो राजा सुबन्धुः काये वर्तमानो ति जीवति वा मृतो वा ति॥ सो दानि पश्यति यथा राजा सुबन्धुः कालगतो तस्या इक्ष्वाकु नाम पुत्रो तेन राज्य प्रतिलब्धं। तस्य राज्ञो इक्ष्वाकुस्य पुरोहितेन विषमा गतिः दिन्ना अयोग्या असदृशा सुबन्धुकुलस्य त्रिष्क्षुत्तं पक्षस्य इस्त्रियागारं ओशिरितव्यं प्रजाये अर्थाये॥ सो दानि शक्रो देवानामिन्द्रो ब्राह्मणवेषमात्मनो निर्मिणित्वा जीर्णो वृद्धो महल्लको अध्वगतो वयमनुप्राप्तो वलीहि परिगतशरीरो पलितशिरो तिलकालगात्रो सो इक्ष्वाकुस्य राज्ञो द्वारं गत्वा आह॥ अहं इक्ष्वाकुं पश्यितुकामो॥ प्रतिहाररक्षो राजकुलं प्रविष्टः राज्ञो इक्ष्वाकुस्य निवेदेति।


p. 426


महाराजा ब्राह्मणो द्वारे स्थितो राजानं द्रष्टुमिच्छति। राजा इक्ष्वाकु आह॥ स्वागतं ब्राह्मणस्य प्रविशतु॥ तेन दानि प्रतिहाररक्षेण सो ब्राह्मणो राजकुलं प्रवेशितः॥ राजा वृद्धं ब्राह्मणं दृष्ट्वा प्रत्युत्थितो॥ स्वागतं ते ब्राह्मण निषीदाहि इमन्ते आसनं॥ सो दानि ब्राह्मणो जयेन वर्धापयित्वा उपविष्टः॥ राजा नं पृच्छति॥ ब्राह्मण कुतो दिशातो आगतो किं मार्गसि किन्ते रुच्चति किन्ते देमि॥ ब्राह्मणो आह॥ महाराज दूरतो स्मि प्रदेशातो आगतो तव उदारं कीर्तिशब्दश्लोकं श्रुत्वा इक्ष्वाकुः त्रिष्क्षुत्तं पक्षस्य स्त्र्यागारं ओशिरति प्रजाये अर्थाये ति। ततः राज स्त्रियाय अर्थिको दूरतो स्मि देशातो आगतो ततो मे स्त्रियाये प्रतिभागेहि॥ सो दानि राजा ब्राह्मणस्य वचनं श्रुत्वा प्रीतः तुष्टः संवृत्तो कांचुकीयमामन्त्रयति। भो भणे कांचुकीय शीघ्रं इमस्य ब्राह्मणस्य मम स्त्र्यागारं उपदर्शेहि। या सि स्त्री रोचते तान्से देहि॥ तेन दानि कांचुकीयेन ब्राह्मणो अन्तःपुरं प्रवेशितो बहूनां स्त्रीसहस्राणां मध्ये॥ ब्राह्मण एषो राज्ञो इक्ष्वाकुस्य स्त्र्यागारो या ते स्त्री अभिप्रेता तां गृह्य गच्छाहि॥ तेन दानि ब्राह्मणेन तेषां बहूनां स्त्रीसहस्राणां या राज्ञो इक्ष्वाकुस्य अग्रमहिषी अलिन्दा नाम देवी न कदाचित् राजकुलातो निष्क्रमति सा देवी तेन ब्राह्मणेन गृहीता। एषा मे भवतु॥ सा दानि देवी प्ररुण्डा। अयं ब्राह्मणो मम अय्यको वा पय्यको वा अथ वा उत्तरो। राजा इक्ष्वाकु दृढव्रतसमादानो मा हेवं मां इमस्य ब्राह्मणस्य उपस्थानपरिचर्याये ओसिरिष्यति॥

तस्या दानि अलिन्दाय कुब्जा मालाकारी मालां गूहयति। सा दानि कुब्जा


p. 427


तं ब्राह्मणं जल्पति॥ ब्राह्मणं त्वं जीर्णो वृद्धो महल्लको तरुणीं स्त्रीमिच्छसि। न त्वां कदाचित्त रुणी स्त्री हस्तेन वा पादेन वा स्पृशेया गच्छ किं ते अलिन्दाये देवीये या अपरित्यक्ता राज्ञो इक्ष्वाकुस्य॥ सो दानि ब्राह्मणो तां कुब्जां आह॥ अल्पोत्सुका तुवं कुब्जे मालां गुहाहि प्रियो अहं अलिन्दाये देवीये यथा तुवं नान्ये॥ तस्या दानि अलिन्दाये देवीये अन्या चेटी वर्णकपीषिका। सा दानि तं ब्राह्मणं जल्पति॥ ब्राह्मण त्वं जीर्णो वृद्धो महल्लको शयवस्त्रगन्धिको दुर्गन्धो न तव देवी द्रष्टुं पि इच्छे किं पुनः प्रष्टुं। गच्छ किन्ते अलिन्दाये या राज्ञो इक्ष्वाकुस्य अपरित्यक्ता॥ सो दानि ब्राह्मणो तां चेटीमाह॥ अल्पोत्सुका तुवं चेटी वर्णकं पीषेहि प्रियो अहं अलिंदाये देवीये यथा तुवं नान्ये॥ सा दानि अलिंदा देवी आह॥ न मे केनचिदुपायेन एषो ब्राह्मणो ओशिरिष्यति॥ सा दानि देवी उच्चेन कण्ठेन प्ररुदिता। ताये देवीये रुदमानाये परिवारो पि से प्ररुण्डो। तत्र अन्तःपुरे महन्तो आरावशब्दो॥ अश्रोषी खलु राजा इक्ष्वाकु उपरिप्रासादवरगतः अन्तःपुरस्य उच्चशब्दं महाशब्दं। सो दानि राजा वर्षवरां कांचुकीयांश्च पृच्छति। भो भणे किं प्येष स्त्रीणां आरावशब्दः श्रुयति॥ ते दानि वर्षवरा कांचकीया आह॥ देव तेन ब्राह्मणेन अलिन्दा देवी गृहीता। राजेन मे इक्ष्वाकुना प्रवारितं या ते स्त्री रुच्चिता तां गृह्लाहीति। ततः मे एषा भवतु। ततो सा देवी अलिन्दा प्ररुण्डा देवीय रुदमानाय परिवारेण पि से आरावो मुक्तो॥ सो दानि ते प्रतिश्रुत्वा स्वकमन्तःपुरं प्रविष्टो तं ब्राह्मणं जल्पति॥ ब्राह्मण त्वं जीर्णो बृद्धो महल्लको यदि राजकुले इच्छसि नित्यभक्तिकं भोक्तुं तत्ते दास्यामि किन्ते अलिंदाये देवीये अन्यां गृह्लाहि॥ सो दानि आह॥ महाराज


p. 428


अहं जीर्णो वृद्धो कासनको च मुहूर्ते मुहूर्ते मूर्च्छियामि। न शन्कोमि स्वयं उत्थिहितुं स्वकां शेय्यां ओमूत्रेमि तदेनामेव देहि तुवं एषा मे उत्थापयिष्यति एषा मे परिचरिष्यति। मा भवानिक्ष्वाकुः मम स्त्रीयाय प्रवारयित्वा पश्चादनुतप्याहि। अथ दानि भवानिक्ष्वाकुः मिथ्यायाचनां करोतीति आमन्त्रेमि गच्छामि॥ राजा आह॥ नाहं ब्राह्मण मिथ्यायाचनां करोमि नापि दत्त्वा अनुतप्यामि अपि त्वं जीर्णो वृद्धो महल्लको इयं च देवी तरुणी सुकुमारा तन्ते न इच्छति। विस्तीर्णो यं चान्तःपुरो बहूनि स्त्रीसहस्राणि या ते स्त्री रुच्चति तां गृह्लाहि ताये सार्धं अभिरमाहि सा ते उपस्थिहिष्यति॥ ब्राह्मण आह॥ अलं महाराज एषा एव मे भवतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी मन्दं प्रेक्षति। एषा एव मे भवतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यागी मृगीभावं च प्रेक्षति। एषा मे भोतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी मुखं अश्रूहि सिंचति। अलं मे महाराज अन्तःपुरिकाये एषा एव मे देवी भवतु एषा मे उत्थापयिष्यति एषा मे उपस्थास्यति एषा मे परिचरिष्यति मा भवानिक्ष्वाकु मम स्त्रीं प्रवारयित्वा अनुतप्याहि। अथ दानि(याव) गच्छामि॥ राजा इक्ष्वाकु आह॥ (यावद्) अपि त्वं जीर्णो वृद्धो महल्लको इयं च देवी तरुणा सुकुमारा तं ते न इच्छति। अयन्ते वृषला कुब्जा मैथुनार्थिका दासी ते अयं भवतु येन त्वं इच्छसि तेन तां नेहि एषा ते उपस्थास्यति॥ कुब्जा आह॥ महाराज एषो ब्राह्मणो पूतिवली पलितमुखो वदरीकुसुमो व सुदुर्गन्धो छगलो व गन्धप्राप्तो। विषं भुक्त्वा मरिष्यं सचे मे देव एतस्य देसि। इमं स्थविरं भग्नांगं मारेष्यं रहोगता॥ सो दानि ब्राह्मणो आह॥


p. 429


सर्वकुन्जेहि मे वैरं ये केचित्पृथिविनिश्रिता।

यत्रायं वृषला कुब्जा मम इच्छति धातितुं॥

अलं महाराज कुब्जाये एषा एव मे देवी भवतु एषा मे उपस्थास्यति एषा परिचरिष्यति। मा भवां मम स्त्रियं प्रवारयित्वा अनुतप्याहि। अथ तव मिथ्यायाचनां करोसीति आमन्त्रेमि गच्छामि। राजा आह॥ नाहं ब्राह्मण मिथ्यायाचनां करोमि नापि दत्त्वा अनुतप्यामि। अपि त्वां जीर्णो वृद्धो महल्लको इयं च देवी तरुणी सुकुमारा तं ते न इच्छति। यदि त्वं तरुणो भवेया तं एषा देवी उत्कण्ठेया अपि तु नाहं मिथ्यायाचनां करोमि गच्छ गृह्य अलिंदां देवीं नेहि यत्रेच्छसि॥ सो दानि ब्राह्मणो राज्ञो इक्ष्वाकुस्य प्रतिश्रुत्वा हृष्टः तुष्टः प्रीतो संवृत्तो॥ अलिंदां देवीमालिंग्य ततः प्रवेशं प्रवेशयन्तो तस्या एव उपरि प्रपतितो स्त्रीसहस्रेहि अट्टहासो मुक्तो। देवीये कल्याणो अनुरूपः पुरुषो लब्धः। अलिंदापि देवी अश्रुकण्ठा रुदन्मुखी प्रलपन्ती ब्राह्मणेन हस्ते गृह्य आकड्ढति कट्टीक्रियति इतो च इतो च लग्गति। उच्छूसन्तेन प्रश्वसन्तेन अश्रूहि वहन्तेहि आलापेन गलन्ती प्रदेशे देशे ओमूत्रेन्तेन सुसंगृहीतां कृत्वा अनालम्बन्ती राजगृहातो कट्टीयमानी निक्कसिता विकलीभूता च संवृत्ता॥

तेन ब्राह्मणेन नगरस्य अनुप्राकारं दरिद्रग्रामे वंकजर्जरशालां निर्मिणित्वा जर्जरमंचे तृणपलाशं प्रज्ञपितं खण्डघटकं दकस्य स्थापितं॥ तत्र अलिंदा देवी प्रवेशिता वस्त्रेहि नष्टप्रणष्टेहि आभरणेहि लुग्नप्रलुग्नेहि शेषावशेषेहि न कदाचि -


p. 430


त्पादेहि भूमिं स्पृष्ट्वा पादुकाहि भ्रष्टाहि अनामुक्तेहि पादेहि क्षतविक्षतेहि॥ ततो सो ब्राह्मणो तत्र जर्जरशालामध्ये निषीदित्वा आह॥ भद्रे सुनिवस्ता भवित्वा पादानि मे धोवाहि स्वकानि च पादानि घोवाहि ततो रमाहि वरन्ते रमितो अहं सुष्ठु भद्रे रामेहि सम्यक् मां भद्रे रमापेहि भणितेन मे भद्रे रमापेहि ललितेन मे भद्रे रमापेहि॥ एवं दानि सा देविये सर्वरात्री एवं मे रामेहि एवं मे रामेहि उत्थापेहि संविशपेहि संविशापेहि त्ति गता रात्रिये प्रभाताये अरुणोद्गमनकालसमये ततो शक्रो स्वरूपेण स्थितो अंगदकुण्डलदिव्यशरीरधारो उदारेण वर्णेनोभासयित्वा वरविमलकुण्डलधरो देवराजा भवित्वा स्वयंप्रभा ओसृष्टा वर्णेन सर्वशाला सामन्तेन ओभासिता॥ सा दानि अलिन्दा देवी शक्रं देवानामिन्द्रं स्वरूपेण दृष्ट्वा रागेन मूर्छिता। किं मया कृतं यमेतेन सार्धं न रमितं ति॥ शक्रो देवानामिन्द्रो अलिंदां देवीं वरेण प्रवारयति॥

शक्रो स्मि देवानामिन्द्रो त्रायस्त्रिंशान ईश्वरो।

वरं वरेहि मे भद्रे यं किंचित् मनसेच्छसि॥

सा दानि अलिंदा देवी शक्रस्य देवानामिन्द्रस्य प्रांजलिं कृत्वा एतदुवाच॥ शक्रो मे वरेण वारेति एवं वदेमि पुत्रो मे वरो ति॥ तस्या दानि इन्द्रेण भैषज्यगुडिका दिन्ना। इमां गुडिकां उदकेन विलोलयित्वा पिबाहि ततः ते पुत्रो भविष्यति सिंहसदृशो वलवां परसैन्यप्रमर्दनो। उत्साहेनास्य लोके समसमो न भविष्यति। अपि तु वर्णेण रुपेण पापको भविष्यति यन्ते अहं न हृष्टाय उपस्थितो॥ इन्द्रो


p. 431


दानि अलिन्दाये देवीये वरं दत्त्वा जर्जरशालामन्तरहापयित्वा त्रायस्त्रिंशदेवनिकाये प्रत्यस्थासि॥

सा दानि अलिंदा देवी तां भैषज्यगुडिकां अंशुकस्य कोणे बन्धित्वा राजकुलं प्रविष्टा पद्मवर्णेन मुखेन परिशुद्धेहि इन्द्रियेहि। एवं विस्तीर्ण अन्तःपुरे मम पुत्रो भविष्यति॥ सा दानि अलिन्दा देवी राज्ञा इक्ष्वाकुना दूरतो एव द्वारशालायां प्रविशन्ती दृष्टा पद्मवर्णेन मुखेन परिशुद्धेहि इन्द्रियेहि। राजा दानि देवीं पृच्छति॥ पद्मवर्णो ते मुखो परिशुद्धानीन्द्रियाणि सुखं रात्रिं शयिताये क्रीडारती वा अनुभूता किंचित्ते उदारो कल्याणो लब्धो ति॥ सा दानि देवी आह॥ महाराज कुतो मे शयिताये सुखं क्रीडारतिर्वा अनुभूता। शक्रो सो देवानामिन्द्रो सो ब्राह्मणवेषं निर्मिणित्वा इहागतो॥ ततः मे सर्वरात्रि उत्थापेहि संवेशेहि गता प्रभातायां रात्र्यां अरुणोद्धाटकालसमये तं ब्राह्मणवेशमन्तर्धापयित्वा इन्द्रः स्वरूपेण स्थितः सर्वां च दिशां वर्णेनावभासयित्वा अहं वरं प्रवारिता वरं वरेहि भद्रे।

शक्रो स्मि देवानामिन्द्रो त्रायत्रिंशान ईश्वरो।

वरं वरेहि मे भद्रे यन्तुवं मनसेच्छसि॥

तत्र महाराज पुत्रवरो याचितः पुत्रं मे वरं देहि॥ तेन शक्रेण मम भैषज्यगुडिका दिन्ना इमां गुडिकां उदकेन विलोलयित्वा पिबाहि ततो पुत्रो भविष्यति सिंहासनपीठो बलवां परसैन्यप्रमर्दको उत्साहेन सो लोके समसमो न भविष्यति अपि तु वर्णरूपेण पापको भविष्यति यं ते अहं न हृष्टतुष्टाये उपस्थितो॥ सो दानि राजा 


p. 432


श्रुत्वा देवीये रुष्टो॥ या दानि त्वं मया अनुज्ञाता किमस्य त्वया न हृष्टतुष्टा ए उपस्थितो॥ तेन दानि राज्ञा देवीये भैषज्यगुडिका रोषेण आछिन्ना॥ सो दानि राजा भैषज्यगुडिकां शिलायां निघृषयित्वा उदकेन विलोलयित्वा पंचानां मानविकानां देवीशतानां कुशाग्रेण पिबनाये दिन्ना। सापि अलिंदा देवी ततो भैषज्यगुडिकातो पिबनाये न लभति मा देवी पापकं पुत्रं जनयिष्यति॥ सा दानि अलिंदा देवी चेटीनां पृच्छति॥ कहिं सा भैषज्यगुडिका कृता॥ चेटीयो आह॥ देवी तव सा भैषज्यगुडिका राज्ञा गृह्लीत्वा निषदायां निघर्षयित्वा पंचानां मानविकानां देवीशतानां पिबनाये दिन्ना॥ देवी पृच्छति॥ कतमाये निषदाये सा भैषज्यगुडिका ओघृष्टा ति॥ चेटी आह॥ इमा देवि निषदाय सा भैषज्यगुडिका ओघृष्टा॥ सा दानि अलिंदा देवी निषदाय उदकविन्दुं कृत्वा कुशाग्रेण जिव्हाग्रं कृत्वा अभ्यवहृतं। ताये अपि देवीये कुक्षिः प्रतिलब्धो। एवं दानि पंच देवीशतानि कुक्षिमन्तानि संवृत्तानि॥

तानि दानि पंच देवीशतानि नवानां वा दशानां वा मासानामत्ययेन प्रसूतानि। एकूनपंचकुमारशता जाता प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाये शुभाये वर्णपुष्कलताये समन्वागता। अलिंदाये पि देवीये पुत्रो जातो दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादः महोदरो कालो मषिराशिवर्णो॥ ते दानि वर्षवरा कंचुकीया च राज्ञो निवेदयन्ति॥ महाराज एकूना पंचशता देवी प्रसूता एकूना पंच कुमारशता जाता प्रासादिका दर्शनीया अलिंदाये देवीये पुत्रो जातो दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादो कालो मषिराशिवर्णो॥


p. 433


श्रुत्वा पुनः राजा इक्ष्वाकुः रुष्टो दौर्मनस्यजातो संवृत्तो। यं मया देवीये गुडिका पिबनाये न दिन्ना मा सा पुत्रं जनयिष्यतीति तत्कुतो देवीये एदृशो पुत्रो जातो॥ वर्षवरा कंचुकीया आह॥ महाराज यत्र देवेन निषदाय सा भैषज्यगुडिका निघृष्टा तत्र ताये निषदाये देवी उदकविन्दुं कृत्वा कुशाग्रेण जिव्हाग्रेण अभ्यवहृतं ततो देवीये पुत्रो जातो॥ राजा आह॥ मा मे कदाचिद्देवीये पुत्रो अग्रतो तिष्ठतु न इच्छामि एदृशं द्रष्टुं॥ सो दानि इक्ष्वाकु तेषां पंचानां कुमारशतानां एकूनकानां वर्णरूपं श्रुत्वा प्रहृष्टतुष्टो। तेषां रूपवन्तानां कुमाराणां अलिंदाये पुत्रं स्थापयित्वा सप्ताहं रमणीयानि जातकर्माणि क्रियन्ति श्रमणब्राह्मणकृपणवनीपकेषु अन्यस्य जनस्य विश्राणेति अन्नं पानं खाद्यं भोज्यं वस्त्रं गन्धं माल्यं विलेपनं तैलप्रणालिका प्रवाहिता घृतप्रणालिका च नानाप्रकारा पानप्रणालिका प्रवाहिता॥ एकमेकस्य कुमारस्य चत्वारो धात्रियो उपस्थापितायो। कुमारस्य अन्या उद्वर्तेति सुपेति अन्या उच्चारप्रस्रावमपकर्षति अन्या स्तनं देति अन्या उत्संगेन धारयति॥ अलिंदाये देवीये पुत्रे धात्रियो दिन्ना। ततो अलिन्दाये देवीये स्वका उपस्थायिका दिन्ना॥ एवं दानि ते कुमारा उन्नीयन्ति वर्धीयन्ति॥ ततो राजा इक्ष्वाकुः सर्वेषां तेषां पंचानां कुमारशतानां कुशमिश्राणि नामा कृतानि। कोचि इन्द्रकुशो कोचिद्ब्रह्मकुशो कोचिद्देवकुशो कोचिदृषिकुशो कोचित्कुसुमकुशो कोचि द्रुमकुशो कोचि रत्नकुशो कोचित् महाकुशो कोचि हंसकुशो कोचि क्रोञ्चकुशो कोचि मयूरकुशो इत्येवमादि सर्वेषां कुशमिश्राणि नामा कृतानि अलिंदाये देवीये शुद्धं कुशो ति नामं कृतं॥


p. 434


राजा दानि इक्ष्वाकुः सर्वेषां एकूनपंचकुमारशतानां दारकक्रीडापनकानि नानाप्रकाराणि देति देवीये पुत्रस्य कुशस्य क्रीडापनकं न देति॥ ततः कुशो कुमारो यं वा क्रीडापनकं अभिप्रेतं भवति तेषां भ्रातृणां आच्छिन्दित्वा क्रीडित्वा रमित्वा पुनर्देति॥ एवं दानि राजा इक्ष्वाकुः तेषां कुमाराणां नानाप्रकाराणि क्रीडायानकानि देति हस्तियानं अश्वयानं रथयानं नानाप्रकाराणि उदाराणि राजार्हाणि कुशस्य कुमारस्य यानं न देति। कुशो पि कुमारो यं से यानं अभिप्रेतं भवति हस्तियानं वा अश्वयानं वा रथयानं वा युग्ययानं वा शिविका वा स्यन्दमानिका वा गल्ली वा अर्धगल्ली वा पत्त्रयानं वा आकाशयानं वा तेषां भ्रातृणां आच्छिन्दित्वा वहित्वा व पुनर्देति किमेतानि रक्षित्वा ति॥ एवं दानि ते कुमारा विवर्धमाना यं कालं विज्ञप्राप्ता सप्तवर्षा वा अष्टवर्षा वा ततो शेखीयन्ति लेखायं पि लिपियं पि संख्यायं पि गणनायं पि मुद्रायं पि धारणीयं पि हस्तिस्मिं पि अश्वस्मिं पि रथस्मिं पि धनुस्मिं पि वेणुस्मिं पि धाविते जविते प्लविते इष्वस्त्रज्ञाने युद्धे वा नियुद्धे वा छेद्ये वा भेद्ये वा हेठ्ये वा संग्रामशीर्षायां वा राजमायाचारे सर्वत्र निश्चिता गतिगताः॥ कुशकुमारं न कोचि शिल्पं शिक्षयति स्वकाय बुद्धीय स्वकाय प्रज्ञाय स्वकेन वीर्येण सर्वेषान्तेषां भ्रातृणां अन्यस्य महाजनकायस्य सुशिक्षितः। इष्वस्त्रज्ञाने सुशिक्षितो सर्वशिल्पायतनेहि अपरापरेहि च सर्वेषां कुशो कुमारो विशिष्यति॥

तस्य दानि राज्ञो इक्ष्वाकुस्य एवं भवति॥ यं नूनाहं इमां पंच कुमारशतां मीमांसेयं को इमेषां ममात्ययेन राजा भविष्यति॥ तेन दानि राज्ञा इक्ष्वाकुना 


p. 435


पंच मोदकशता कारापिता एको मोदको महान्तो तेषां मोदकानां मध्ये स्थापितो अपरेहि मोदकेहि ओछादितो यो एतं महान्तं मोदकं गृह्लीष्यति तमहं ज्ञास्यामि एषो ममात्ययेन राजा भविष्यति॥ सो दानि राजा इक्ष्वाकुः तं मोदकराशिं कृत्वा पंच कुमारशतां शब्दापयित्वा आमन्त्रयति। शीघ्रं त्रीहि तालेहि मोदकराशितो एकमेकं मोदकं गृह्लीथ॥ ते दानि कुमारा सर्वे प्रथमं पि धाविता पश्चात्कुमारो प्रधावितो। सो कुमारो सर्वेषां भ्रातृणां वामदक्षिणेन हस्तेन अवगूहित्वा तं महान्तं मोदकं गृहीतं॥ तस्य राज्ञो इक्ष्वाकुस्य एवं भवति। एषो कुशो कुमारो ममाल्ययेन राजा भविष्यति। एषो च दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादो महोदरो कालो मषिराशिवर्णो अप्रियो प्रतिकूलो दर्शनाये। को एतं राजं धारयिष्यति। यं नूनाहं द्वितीयं पि इमां कुमारां विज्ञासेयं। आहारदेशकाले इमे कुमारा संमुखं परिवेशापयिष्यं। यो एतेषं प्रथमं भोजनं प्रतीछिष्यति अहं ज्ञास्यामि एषो ममात्ययेन राजा भविष्यति॥ सो दानि राजा इक्ष्वाकुः आहारदेशकाले तां पंच कुमरशतां शब्दापयित्वा पुरतो निषीदापयित्वा भोजलं अल्लीपयति। ते पि कुमारा भोजनं प्रतिपालेन्ति। सो कुशो कुमारो तं भोजनं भूमिये प्रतीछति यत्तकेन स भोजनेन अभिप्रायो तं भूमीयं ओदनस्य राशिं करोति। तत्रैव उपरि व्यंजनानि प्रतीछति पृथिवीनिश्रितं भुंजति॥ तस्य दानि राज्ञो इक्ष्वाकुस्य एवं भवति॥ एषो कुशो कुमारो ममात्ययेन राजा भविष्यति पृथिवीश्वरो पृथिवीनिश्रितं परिभुंजति॥ सो दानि राजा इक्ष्वाकुः अपरेण कालेन पुरोहितं पृच्छति। उपाध्याय को इमेषां कुमाराणां ममात्ययेन राजा भविष्यति॥ पुरोहितो आह॥ महाराज एषो हि कुशो कुमारो देवस्यात्ययेन राजा भविष्यति। एतस्य राजलक्षणाः॥ सो दानि राजा इक्ष्वाकुः


p. 436


पुरोहितस्य श्रुत्वा दुःखितो संवृत्तो॥ को उपायो भवेया यं एषो कुशो कुमारो ममात्ययेन राजा न भवे। यं नूनाहं राजकुले देशे देशे गुह्यप्रदेशेषु महानिधानानि निखनेयं अदृष्टानि केनचि। यो इमा निधानान्ममात्ययेन जानेया बुद्धेया उत्खनयेया सो राजा भवेया अप्येवं नाम अन्यो कुमारो राजा भवेया॥ तेन दानि राज्ञा इक्ष्वाकुना राजकुले देशे देशे गुह्यप्रदेशेषु महानिधानं निखतं अदृष्टं केनचि॥ सो दानि राजा इक्ष्वाकुः दीर्घस्याध्वनो त्ययेन मरणकालसमये अमात्याननुशासति। भो भणे अमात्या यो इमेषां पंचानां कुमारशतानां ममात्ययेन इमानि निधानानि व जानेया बुद्धेया उत्खनयेया तं राज्येन अभिषिंचथ। अन्ते निधिः वहिर्निधिः न चान्ते न वहिर्निधिः चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः समुद्रे निधिः सागरे निधिः योजने निधिः मोचने निधिः वृक्षाग्रे निधिः पर्वते निधिः यतो च वैरोचनो अभ्युदेति ततः निधिः प्रभंकरादित्यं यत्रास्तमेति तत्र निधिः यत्र देवा महीयन्ति तत्रापि निहितो निधिः यो अमात्याहो इमां कुमारो निधानां जानाति उत्खनापेति अनाचिक्षितो तं राज्येनाभिषिंचथ। सो व राजा भविष्यति॥ सो दानि राजा इक्ष्वाकुः एवममात्याननुशासित्वा कालधर्मेण संयुक्तो कालगतो॥

ते दानि पंच कुमारशता पितुः कालगतस्य राज्यहेतोः अन्यमन्यं विवदित्वा अहं राजा अहं राजेति न चान्यमन्यं विहिंसन्ति धार्मिकत्वात्॥ तदा अमात्या कुमाराणां जल्पन्ति॥ कुमाराहो मा विवदथ। तेषां वो राज्ञो इक्ष्वाकुस्य आणत्ति 


P. 437


का अस्ति। पितरि मरणकालसमये संदेशो दिन्नः यो पितरि संदेशं जानिष्यति सो राजा भविष्यति॥ कुमारा आहुः॥ अमात्याहो एवं तु यथास्माकं पितरि संदेशो दिन्नो आख्यायथ॥ ते दानि अमात्या पंचानां कुमारशतानां पुरतः तं राज्ञो इक्ष्वाकुस्य संदेशं परिकीर्तेन्ति। अन्ते निधिः वहिर्निधिः नैवान्ते न वहिर्निधिः चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः समुद्रे निधिः सागरे निधिः योजने निधिः मोचने निधिः वृक्षाग्रे निधिः पर्वताग्रे निधिः यत्र च वैरोचनो अभ्युदेति ततो निधि।   प्रभंकरादित्यं यत्रास्तमेति तत्र निधिः यत्र देवा महीयन्ति तत्रापि निहितो निधिः। कुमाराहो इमं वो पितरेण इक्ष्वाकुना संदेशो दिन्नः यो युष्माकं इमान्निधाना निक्षिप्तां जानिष्यति उत्खनयिष्यति सो व राजा भविष्यति॥ एकूनपंचकुमारशता निधानान् कीर्तियमानान्न जानन्ति न बुध्यन्ति कुशो महाबुद्धिर्महामीमान्सको सर्वं अर्थं उपगतो परिशुद्धो॥ सो दानि आह॥ अहमेतं पितरि वचनं तत्र भो निवेदयिष्यामि॥ ये युष्माभिर्निधाना परिकीर्तितास्तान्सर्वानुत्खनापयिष्यं॥ यं तातेन वुत्तं अन्ते निधिः अभ्यन्तरं राजकुलद्वारे देहलाय अभ्यन्तरतो निहितो निधिः॥ तं प्रदेशं अमात्यहि उत्खनापितं महानिधानं॥ यन्तातेन वुत्तं वहिर्निधिस्तस्यैव देहलाय वाह्यतो निहितो निधिः तं पि महानिधानं कुमारेण उत्खनापितं॥ यन्तातेन वुत्तं नैवान्ते न वहिर्निधीति तं मध्यमद्वारे देहलाये हेष्ठतो निहितो निशिः। तं पि कुमारेण महानिधानं


p. 438


उत्खनापितं॥ यन्तातेन वुत्तं चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः यत्र राज्ञो इक्ष्वाकुस्य पर्यंको शालमयो सुवर्णपादेहि ओनद्धः शय्यां कल्पयति तेषां पर्यंकपादानां हेष्ठतो चतुरो निधिः ते पि कुमारेण महानिधाना उत्खनापिता॥ यन्तातेन वुत्तं समुद्रे निधिन्ति या राजक्य अशोकवणिकायां क्रीडापुष्करिणी  तत्रापि निहितो निधिः। तत्रापि कुमारेण क्रीडापुष्किरिणिकातो उक्कड्ढापितो॥ यान्तातेन वुत्तं सागरनिधिं ति यत्र राज्ञो इक्ष्वाकुस्य स्नापनशालाये उदुपानं तत्रापि निहितो निधिः। तं कुमारेण उदुपानातो महानिधानं उत्खनापितं॥ यन्तातेन वुत्तं योजने निधिन्ति यस्मिं प्रदेशे राज्ञो इक्ष्वाकुस्य यानं युज्यति हस्तियानं वा अश्वयानं वा युग्ययानं वा तं पि कुमारेण महानिधानं उत्खनापितं॥ यन्तातेन वुत्तं मोचने निधिन्ति यत्र अभिरक्षणप्रदेशे राज्ञो इक्ष्वाकुस्य यानं मुच्चति हस्तियानं वा अश्वयानं वा युग्ययानं वा तत्रापि निहितो निधिः। तं कुमारेण महानिधानं उत्खनापितं॥ यन्तातेन वुत्तं वृक्षाग्रे निधिन्ति यत्र राज्ञो इक्ष्वाकुस्य दर्शनशालायां महावृक्षं तस्य सूर्येण उदयन्तेन यत्र अग्रच्छाया निपतति अस्तमितेनापि सूर्येण यत्र चरिमा छाया निपतिता तत्रापि निहितो निधिः। ते पि कुमारेण द्वे महानिधाना उत्खनापिता॥ यं तातेन वुत्तं पर्वते निधिन्ति यत्र शिलापट्टे राज्ञो इक्ष्वाकुस्य शीर्षस्नानं वर्णनं च विलेपनं च पिष्यति तत्र हेठतो निहितो निधिः। तं पि कुमारेण महानिधानं उत्खनापितं॥ यन्तातेन वुत्तं यत्र वैरोचनो भ्युदेति निधिन्ति यत्र तातो इक्ष्वाकु इक्षुणा जातो तत्रापि निहितो


p. 439


निधि। तं पि कुमारेण महानिधानं उत्खनापितं॥ यं पि तातेन वुत्तं यत्र प्रभंकरादित्य अस्तमेति तत्र निहितो निधि त्ति यत्र इक्ष्वाकु कालगतो तत्रापि निहितो निधिः। तं पि कुमारेण महानिधानं उत्खनापितं॥ यं तातेन वुत्तं यत्र देवा महीयन्ति तत्रापि निहितो निधिः यत्र राज्ञा इक्ष्वाकुना पंच कुमारशता परिविषापिता तत्रापि निहितो निधिः। तं पि कुमारेण महानिधानमुत्खनापितं॥ एवं तेन कुशेन कुमारेण तानि निधानानि उत्खनापियमानानि अमात्या च कुमारा च पुरोहिता च ब्राह्मणराजाचार्या च भटबलाग्रा च नैगमजनपदा च सर्वे कुशस्य कुमारस्य तत्र निधानेषु उत्खनापियमानेषु विस्मयमापन्ना। अहो कुशस्य कुमारस्य महाबुद्धि महामीमान्सा यत्र दानि राज्ञो इक्ष्वाकुस्य राजकुले देशे देशे महानिधानं निहितं तं सर्वं कुशेन ज्ञातं सर्वं च उत्खनापितं। एषो राजा भविष्यति॥

तेषां दानि अमात्यानां एवं भवति। मा हैव तावत्कुशेन कुमारेण अन्येषां सकाशातो श्रुतं भविष्यति भूयो भूयो अन्येनार्थेन जिज्ञासेम॥ ते दानि कुमाराणां अमात्या जल्पन्ति॥ कुमारा यो युष्माकं सर्वां देवान्वन्दित्वा प्रथमं सिंहासने उपविशिष्यति सो राजा भविष्यति॥ ते दानि एकूनपंचकुमारशता नानाप्रकाराणि यानानि अभिरुहित्वा शीघ्रं त्वरमानरूपा येन देवकुला तेन देववन्दका प्रधावन्ति॥ सो पि कुशो कुमारो येन सर्वसौवर्णं अभिषेचनीयसिंहासनं तेनोपसंक्रमित्वा चतुर्दिशं देवानां अंजलिं कृत्वा पूर्वराजचित्तीकरेण च तं सिंहासनं प्रदक्षिणीकृत्वा उपविष्टः॥ सो हि कुशो कुमारेहि अमात्येहि भटबलाग्रेहि 


p. 440

च नैगमजनपदेहि च अयं पण्डितो ति कृत्वा राज्ये भिषिक्तो सर्वेहि षष्टीहि नगरसहस्रेहि निगमजनपदेहि राजामात्येहि कुमारेहि च अभ्यर्चितो एषः राजा ति॥ एवं दानि कुशो कुमारो राज्यं प्राप्तो॥

सो दानि राजा कुशो यं कालं राज्यं प्राप्तः ततो मातरं अलिन्दां देवीमभिवादयित्वा सत्कृत्वा गुरुकृत्वा मानेत्वा पूजेत्वा एवं दानि राजा कुशो चिरं कालं धर्मेण राज्यं कारापयित्वा अपरेण कालेन तां देवीमलिन्दां मातरं विज्ञपेति अम्बे भार्यां मे अग्रमहिषीमानेहि प्रासादिकां दर्शनीयां यस्या अन्या स्त्री सदृशा न भवेत्॥ अलिंदा देवी आह॥ पुत्र को ते पापकस्य रूपेण प्रासादिकां दर्शनीयां भार्यां दास्यति। पापिकां एव रूपेण भार्यां आनयिष्यामि या ते उल्लासं न करिष्यति॥ राजा कुशो आह॥ अम्बे यदि पापिकां मे भार्यां आनयिष्यसि न तामहं पापिकां भार्यां पादेन वा पाणिना वा स्पृशेयं। प्रासादिकां दर्शनीयां मे भार्यां आनेहि। न मे अम्बे श्रुतं वा दृष्टं वा राजा पापिको ति नापि राजा पापिकाये स्त्रियाये सार्धं अभिरमति शोभनां व मे भार्यां अम्बे आनेहि॥ अलिन्दा देवी आह॥ पुत्र सुखं जायापतिका अन्योन्यसमलक्षणा संवसन्ति न चान्यमन्यं अभिमन्यन्ति। कल्याणरूपा भार्या पापकं रूपेण पतिं अभिमन्यति। कल्याणरूपो पतिः पापरूपाये भार्याये अभिमन्यति॥ यादृशा ते पुत्र भार्या योग्या तादृशान्ते भार्यां आनयिष्यामि पापिकां रूपेण या ते पुत्र नाभिमन्यिष्यति॥ राजा कुशो आह॥ अम्बे न मे पापिकाये भार्याये कार्यं॥ असदृशां मे रूपेण भार्यामानेहि॥ अलिंदा देवी आह॥ पुत्र को ते पापकस्य रूपेण कल्याणरूपां भार्यान्दास्यति॥ कुशो राजा आह॥ अम्बे दूरातो मे अर्थहिरण्यसुवर्णेन व्ययकर्मेण कल्याणरूपां भार्यां आनेहि॥


p. 441


सा दानि अलिंदा देवी अमात्यां पुरोहितां शब्दापयित्वा आमन्त्रयति॥ भवन्तो राज्ञो कुशस्य भार्यां अग्रमहिषीं जानथ यदृशा राजकुले बहूनां स्त्रीसहस्राणां अग्रमहिषी ज्येष्ठा भवेया॥ ते दानि अमात्या पुरोहिता च देवीय प्रतिश्रुत्वा समन्ततो नगरजानपदेषु ब्राह्मणा च दूता च विसर्जिता। गच्छथ भवन्तो यादृशा इह कन्या राज्ञो कुशस्य इक्ष्वाकुपुत्रस्य योग्या भवेया तादृशीं कन्यां जानथ॥ ते दानि ब्राह्मणा च दूता च षोडश जनपदानण्वमाना शूरसेनेषु जनपदेषु कस्मकुब्जं नाम नगरं तत्र अनुप्राप्ता॥ तत्र महेन्द्रको नाम मद्रकराजा राज्यं कारयति। तस्य सुदर्शना नाम धीता प्रासादिका दर्शनीया यस्या सर्वे जंबुद्वीपे रूपेण सदृशा अन्या कन्या नास्ति॥ सा दानि राजधीता महता राजऋद्धीये महता राजानुभावेन महता समुदयेन चतुघोटं अश्वरथं अभिरुहित्वा वयस्यकाहि च चेटिकाहि च परिवारिता उद्यानभूमिं निर्धावति। तेहि ब्राह्मणेहि दूतेहि च दृष्टा। तेषां दानि भवति। इयं राजकन्या सुष्ठु प्रासादिका दर्शनीया इयं राज्ञो कुशस्य अग्रमहिषी योग्या॥ ते दानि ब्राह्मणा दूता च अपरं दिवसं कल्यतो एव प्रावरिय निवासयित्वा च राजकुलद्वारे स्थिता। यं काल राजा महेन्द्रको दर्शनशालायां उपविष्टो ते दानि ब्राह्मणा दूता च राज्ञो भिवादयित्वा पुरतः स्थिता॥ सो दानि ब्राह्मणो राज्ञो महेन्द्रकस्य जयेन वर्धापयित्वा एतदुवाच॥ महाराज वाराणस्यां कुशो नाम राज्ञो इक्ष्वाकुस्य पुत्रो सो ते सुदर्शनां स्वधीतरं भार्यार्थाय वरेति॥ सो दानि कुशो राजा अभिलक्षितो यथा षष्टीनां नगरसहस्राणां राज्यं कारयति॥ तस्य महेन्द्रकस्य भवति। अनुरूप एदृशस्य पुरुषस्य सम्बन्धो॥ सो दानि राजा महेन्द्रको तं ब्राह्मणं दूतां च जल्प


p. 442


ते॥ भवन्तो वयस्यः राजा कुशो मम भवति देमि से धीतरं भार्यार्थं॥ सो दानि ब्राह्मणो मोदकानि क्रीणिय ब्राह्मणां शब्दावित्वा मोदकानि वारेति। भवन्तो अयं महेन्द्रको मद्रकराजा राज्ञो कुशस्य इक्ष्वाकुपुत्रस्य धीतां सुदर्शनां प्रपत्नीं प्रयच्छति। तं भवन्तो उदकं प्रयच्छन्तु॥ ते दानि ब्राह्मणा च दूता च ब्राह्मणस्य वचनं कृत्वा राजानं महेन्द्रकमामन्त्रयित्वा प्रस्थिता। अनुपूर्वेण वा राणसीमनुप्राप्ता॥

ते दानि ब्राह्मणा च दूता च अमात्यानां पुरोहितानां निवेदयन्ति॥ तादृशा कन्या लब्धा यस्या सर्वे जम्बुद्वीपे अन्य कन्या रूपेण सदृशा नास्ति। शूरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा। तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया॥ श्रुत्वा ते दानि अमात्या पुरोहिता च अलिंदाये देवीये निवेदेन्ति॥ तादृशा कन्या लब्धा यस्या सर्वे जम्बुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति। शूरसेने नाम जनपदे कन्यकुब्जं नाम नगरं। तत्र महेन्द्रको नाम मद्रकराजा। तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया॥ श्रुत्वा अलिन्दा देवी हृष्टा प्रीता संवृत्ता। असदृशा मे पुत्रस्य भार्या लब्धा॥ सा दानि अलिन्दा देवी पुत्रस्य कुशस्य रोचयति॥ पुत्र तादृशा कन्या लब्धा यस्या सर्वे जंबुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति। शूरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया॥ सो दानि राजा कुशो मातुर्वचनं श्रुत्वा हृष्टो प्रीतो संवृत्तः॥ अमात्यपारिषद्या ब्राह्मणपुरोहितराजाचार्यानामन्त्रेति॥ भवन्तो


p. 443


शूरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा तस्य धीता सुदर्शना नाम। गच्छथ तां मम कृतेन आनेथ॥ ते दानि अमात्या परिषद्या ब्राह्मणपुरोहिता राजाचार्या राज्ञो कुशस्य प्रतिश्रुत्वा चतुरंगं बलकायं सन्नाहयित्वा महता समृद्धिये महता विभूषाये प्रस्थिता॥ तस्या दानि अलिंदाये देवीये तेषां प्रस्थितानामेतदभूषि॥ को न खलु उपायो भवेया यथा सा सुदर्शना राजधीता न जानेया केदृशो राजा कुशो वर्णरूपेण॥ तस्या दानि अलिंदाये देवीये भवति एवं॥ यं नूनाहं गर्भगृहं कारेयं यत्र राजा कुशो भार्याया सार्धं क्रीडेया रमेया परिचारेया न च सा जानेया केदृशो राजा कुशोत्ति॥ ताये दानि अलिंदाये देवीये तादृशं गर्भगृहं कृतं लिप्तोपलिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं यत्र राजा कुशो क्रीडिष्यति रमिष्यति परिचारिष्यति॥

ते पि दानि अमात्या पारिषद्या ब्राह्मणपुरोहिता राजाचार्या अनुपूर्वेण शूरसेनेषु जानपदेषु कन्यकुब्जं नाम नगरमनुप्राप्ता॥ ते दानि येन महेन्द्रको मद्रकराजा तेनोपसंक्रमित्वा राजानं जयेन वर्धापयित्वा पुरतो स्थित्वा एतदुवाच॥ महाराज जामाता ते कुशो राजा कौशल्यं परिपृच्छति सपरिवारस्य यं च महाराजेन प्रतिज्ञातं तां मे धीतां सुदर्शनां भार्यार्थं देहि॥ सो दानि राजा महेन्द्र तानमात्यपारिषद्यां ब्राह्मणपुरोहितराजाचार्यानभिनन्दित्वा प्रतिसंमोदित्वा राजारहाणि वस्त्रालंकाराणि परिभोगानि च दिन्ना॥ ते दानि अमात्यपारिषद्या तत्र कत्यहं कालं विहरित्वा राज्ञो महेन्द्रकस्य आमन्त्रयन्ति॥ महाराज चिरगता स्म विवाहः क्रियतु गच्छामः॥ सो दानि राजा महेन्द्रको महता राजर्द्धीये


p. 444


महता राजानुभावेन महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगपटहशंखसनिनादेन विवाहधर्मं कृत्वा धीता सुदर्शना राज्ञो कुशस्य भार्या दिन्ना॥ तेन दानि अमात्या पुरोहिता विवाहधर्मं कृत्वा राज्ञो महेन्द्रकस्य आमन्त्रयित्वा प्रस्थिता। अनुपूर्वेण वाराणसीये उपवनं अनुप्राप्ता॥ एवं दानि सुदर्शना राजधीता महता सत्कारेण महता समुदयेन वाराणसीं नगरीं प्रवेशिता॥ सा दानि सुदर्शना राजधीता राजकुले प्रवेशिता॥ येन श्वश्रू अलिंदा देवी तेनोपसंक्रमित्वा श्वश्रुये पादां शिरसा वंदित्वा पुरताः प्रत्युस्थासि॥ सा दानि अलिंदा महादेवी तां वधूं दृष्ट्वा प्रमुदिता प्रीतिसौमनस्यजाता संवृत्ता॥

सो दानि राजा कुशो सुदर्शनाये राजधीताये सार्धं तहिं गर्भगृहे अज्योतिके महारहेहि उपभोगपरिभोगेहि क्रीडन्तो रमन्तो परिचारयन्तो आसति॥ तस्या दानि राजधीतुः सुदर्शनाये तहिं गर्भगृहे अज्योतिके राज्ञा कुशेन सार्धं क्रीडन्तीये रमन्तीये परिचारयन्तीये एतदभूषि॥ इमं राज्ञो कुशस्य इक्ष्वाकुकुलं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च अनन्तरत्नाकरं अयं च अस्माकं शयनगृहो अज्योतिको दीपा पि न दीप्यन्ति। परस्परं हि चक्षुहि न पश्यामो नैवाहं जानामि केदृशो राजा कुशो वर्णरूपेण नापि स राजा कुशो जानाति कीदृशा मे सुदर्शना देवी वर्णरूपेण। एतन्तत्र अन्तरं न परिबुध्यामि कस्यार्थाय अस्माकं शयनगृहे नैव रात्रं न दिवा दीपा दीप्यन्ति॥ सा दानि सुदर्शना देवी राजानं कुशं रहोगतं पृच्छति॥ महाराज अयं राजकुलो ऋद्धो च स्फीतो च अनन्तरतनाकरो इमस्मिं चास्माकं शयनगृहे नैव रात्रौ न दिवा दीपा दीप्यन्ति यथा अन्धकारे तथा संवसामो परस्परं चक्षुहि न पश्यामो नैवाहं जानामि कीदृशो मे भर्ता नापि महाराजा जानाति कीदृशा मे सुदर्शना देवी। तदेतत्कारणं न परिबुध्यामि कस्या -


p. 445


र्थाय अस्माकं शयनगृहे दीपा न दिप्यन्ति॥ राजा कुशो आह॥ देवि अहं पि एतं न जानामि कस्यार्थाय अस्माकं शयनगृहे दीपा न दीप्यन्ति। माता मे जानिष्यति तां पृच्छाहि॥ सा दानि सुदर्शना देवी राजधीता प्रभाताये रात्रीये यं कालं राजा कुशो निर्धावितो भवति वस्त्राणि च प्रावरित्वा अलंकारं च बन्धयित्वा अलिंदाय महादेवीये पादां वन्दनय उपसंक्रान्ता॥ सा दानि सुदर्शना श्वश्रूये पादा वन्दित्वा आह॥ भट्टे अयं राजकुलो ऋद्धो स्फीतो च अनन्तरतनाकरो अस्मिं च अस्माकं शयनगृहे नैव दिवा न रात्रिं दीपा दीप्यन्ति यथा अन्धकारे तथा संवसामो परस्परं चक्षूहि न पश्यामः किमत्र कारणं यं अस्माकं गृहे दीपा न दीप्यन्ति॥ अलिंदा महादेवी आह॥ पुत्रि सुदर्शने युष्माकं उभये जायापतिका उदाररूपा रूपेण अन्यं कंचि समसमं न पश्यामि। तं मा युष्माकं परस्परं उदारं रूपं दृष्ष्ट्वा उन्मादं गच्छेयाति। अपि तु एवं च मे देवानामुपयाचितं चिरकालं अस्माभिः यदा मे वधुकाये सुदर्शनाये पुत्रो वा धीता वा भवेया ततो द्वादशमे वर्षे परस्परं पश्यिष्यथ॥ एषो स्माकं कुलधर्मः॥ सा दानि सुदर्शना राजधीता आह॥ पापं खलु ताव भट्टाये देवानामुपयाचितं चिरकालमस्माभिः परस्पर न द्रष्टव्यं॥ अलिंदा महादेवी आह॥ पुत्रि किं करोमि एवं मे उपयाचितं देवानामपि रक्षामि मा युष्माकं परस्परं उदारवर्णरूपं दृष्ट्वा उन्मादं गच्छेया त्ति॥ एवं दानि सुदर्शना राजधीता श्वश्रुय अलिंदाय महादेवीय संज्ञप्ता॥

सा दानि सुदर्शना राजधीता चिरेण कालेन तां श्वश्रुं प्रनिपतिय नां विज्ञपे - 


p. 446


सि॥ भट्टे इच्छामि स्वामिकं द्रष्टुं॥ अलिंदा महादेवी आह॥ भवतु पुत्रि कालेन तं पश्यिष्यसि॥ सा दानि सुदर्शना पुनर्पुनः तां श्वश्रुं विज्ञपेति। भट्टे इच्छामि एकं वारं द्रष्टुं॥ तस्या दानि अलिंदाये महादेवीये एवं भवति। इयं सुदर्शना राजधीता कुशं पश्यितुकामा यदि से न विनोदयामि कौतुकं महान्तं भवेया। सा अलिंदा देवी आह॥ पुत्रि सुदर्शने सुष्ठु सुवे ते राजानं कुशं दर्शयिष्यामि दर्शनशालायां जनस्य दर्शनं च दत्तं॥ सा दानि अलिंदा देवी राजं कुशं आमंचेति॥ पुत्र एषा सुदर्शना  राजधीता त्वां पश्यितुकामा त्वं च पापको रूपेण मा सुदर्शना तवेदृशं रूपं दृष्ट्वा चित्तस्य भवे अन्यथात्वं यो तेषां पंचानां कुमारशतानां सर्वेषां कुमाराणां दर्शनीयतरो प्रासादिकतरो भवेया स राजेति कृत्वा राजासने निषीदापयित्वा ततो सुदर्शनाये उपदर्शयितव्यो एषः राजा कुशो ति। ततो सुदर्शना जानेय एदृशो राजा कुशो ति ततः चित्तं न प्रतिहरिष्यति॥ राजा कुशो आह॥ अम्बे एवं क्रियतु॥ तेषां दानि कुमाराणां कुशद्रुमो कुमारो प्रासादिको दर्शनीयो॥ सो दानि कुशद्रुमो राजार्हेहि वस्त्रेहि च आभरणेहि च अलंकृत्वा यथा राजा तथा अलंकृतो दर्शनशालाये राजकृत्ये सिंहासने राजेति कृत्व उपविशापितो। ते पि कुमारा सर्वे अलंकृताः सुभूषिता कृता स्वकस्वकेषु आसनेषु उपविशापिता॥ अमात्या पि पुरोहिता भटबलाग्रा श्रेष्ठिनैगमग्रामग्रामिकजनपदा सराजक्या परिषा यथा देवपरिषा विरोचति॥ सो दानि राजा कुशो भ्रातुः कुशद्रुमस्य कुमारस्य राजासने निषस्मस्य च्छत्रं गृह्य वामे पार्श्वे छत्रं दारेति॥ सा दानि अलिंदा देवी वधुकाये सुदर्शनाये सार्धं अपरेहि च बहुहि देवीशतेहि परिवारिता राजकुलातो निर्धाविता सिंहपंजरे स्थिता॥ अथ खलु अलिंदा महादेवी


p. 447


कुशद्रुमं कुमारं राजासने उपनिषस्मकं उपदर्शयति॥ पुत्रि सुदर्शने एषो ते भर्ता पश्याहि नं॥ सा दानि सुदर्शना कुशद्रुमं कुमारं राजासने निषस्मं दृष्ट्वा प्रीतमनसा सुलब्धा मे लाभा यस्या मे भर्ता एदृशो अभिरूपो प्रासादिको दर्शनीयो यो सर्वां स राजपरिषामभिभवति रूपेण॥ सा दानि सुदर्शना राजधीता परिषां च अभिविलोकयति यावत्तस्य सहस्रस्त्रीबुद्धिये सो राजक्यो छत्रधारो दृष्टो॥ तस्या दानि सुदर्शनाये तं राजक्यं छत्रंधरं दृष्ट्वा मनसं प्रत्याहतं दुःखदौर्मनस्यजाता संवृत्ता॥ श्वश्रुं अलिन्दां महादेवीं जल्पति॥ भट्टे शोभति राजा कुशो कुमारा च कृतपुण्या दर्शनीया सर्वा च राजक्या परिषा शोभति यथा देवपरिषा। अपि च एषो छत्रधारो अपश्यनीयो न अनुरूपो सदृशस्य राज्ञो देवपुत्रसमस्य एदृशो छत्रधारो विकृतरूपो स्थूलोष्ठो स्थूलशिरो स्थूलपादो महोदरो कालो मषिराशिवर्णो॥ एतेन च्छत्रधारेण सर्वा सा राजक्यपरिषाशिरी उपहता। एवं विस्तीर्णे राज्ये नास्ति अन्यो पुरुषो यो राज्ञो छत्रं धरेया॥ यदि मे भर्ता इच्छति प्रियं कर्तुं तदेषो छत्रधारो राज्ञो सामन्तके न तिष्ठेया अन्यं पुरुषं छत्रं धारापये॥ अलिंदा देवी आंह॥ पुत्रि सुदर्शने मा हैवं जल्पाहि न रूपेण कृत्यं भवति यदेषो छत्रधारो रूपेण पापको अपि तु गुणेहि महात्मको शीलवन्तो सत्यवादी धार्मिको पुण्यवन्तो बलवां परराष्ट्रप्रमर्दको एतस्यानुभावेन अस्माकं षष्टीहि नगरसहस्रेहि सनिगमजानपदेहि न कोचि प्रत्यर्थिको हेठां उत्पादेति। एतस्यानुभावेन सर्वे वयं सुखं जीवाम॥ एवं दानि अलिंदाये देवीये सा सुदर्शना 


p. 448


संज्ञप्ता॥ सा दानि सुदर्शना राज्ञा कुशेन सार्धं रहोगता जल्पति॥ महाराज एवं विस्तीर्णे तव राज्ये नास्त्यन्यो पुरुषो यो तव च्छत्रधारो भवेय। यो तव एदृशो छत्रधारो अदर्शनीयो। यदि मे इच्छसि प्रियं कर्तुं तदेतं छत्रधारं मेल्लेहि अन्यं पुरुषं छत्रधारं थपेहि॥ राजा आह॥ मा एतं छत्रधारं निन्दाहि किं रूपेण कृत्यं भवति। यो गुणेन सम्पन्नो किं रूपं तस्य करिष्यति। सो छत्रधारो महात्मा गुणेन कल्याणो च महाबलो च तस्य अनुभावेन इमानि षष्टि नगरसहस्राणि न कोचि प्रत्यर्थिको हेठां उत्पादयति॥ एवं दानि सुदर्शना देवी राज्ञा कुशेन संज्ञप्ता॥

सो दानि राजा कुशो सुदर्शनां देवीं पश्यितुकामो मातरं अलिंदां देवीं विज्ञापेति। अम्बे अभिप्रायो मे यथा सुदर्शनां देवीं पश्येयं॥ अलिंदा देवी आह॥ पुत्र त्वं पापको रूपेण यदि सुदर्शना जानेया एदृशो राजा कुशो वर्णरूपेण स्थानमेतं विद्यति यं सुदर्शना उपक्रमेण आत्मानं मारेया॥ राजा कुशो आह॥ अम्बे किं शक्या कर्तुं। उपायो चिन्तयितव्यो यदहं सुदर्शनां पश्येय सा च मे न जानेया को एषो ति॥ आलिंदा देवी आह॥ पुत्र एष अस्ति उपायो यदा सुदर्शना राजधीता अपराहि देवीहि सार्धं सर्वाहि च अन्तःपुरिकाहि उद्यानभूमिं निर्धाविष्यति उत्पलानि पद्मानि च पुष्पितकानि द्रष्टुं ततो त्वं प्रकृत्यैव उद्यानं गत्वा पद्मिनीये कण्ठमात्रो ओतरित्वा पद्मपलाशेन शीर्षं प्रतिच्छादयित्वा आससि। तथा वयं करिष्यामः यथा यत्र देशे तुवं पद्मिनीये स्थितको भविष्यसि तेन सोपानेन सुदर्शना पद्मिनीय पद्मानामर्थाय स्वयं ओतरिष्यति। यत्कारणं सुदर्शनातीव पुष्पलोला पत्रलोला च ततो नां त्वं यथाभिप्रायं पश्यिष्य -


p. 449


सि॥ तत्र दानि राजकुले मालाकारेहि उत्पलानि च पदुमानि च पुण्डरीकानि च सौगन्धिकानि च फुल्लितानि नानाप्रकाराणि च माल्यानि प्रवेशियन्ति॥ सा दानि सुदर्शना तानि उत्पलानि पदुमानि फुल्लितानि दृष्ट्वा तां श्वश्रुं अलिंदां देवीं विज्ञपेति॥ भट्टे इच्छामि वापीयो द्रष्टुं फुल्लितकेहि उत्पलपदुमकुमुदपुण्डरीकेहि॥ अलिंदा महादेवी आह॥ पुत्रि सुष्ठु पश्याहि सर्वे वापीयो निर्धाविष्यामः॥ सा दानि अलिंदा देवी राज्ञो कुशस्य निवेदयति॥ पुत्र यं खलु जानेसि सा वै सुदर्शना राजधीता अन्तःपुरेण सार्धं वापीयो दर्शनाये निर्धाविष्यति। यदि तां पश्यितुकामः ततो प्रकृत्यैव उद्यानभूमिं गत्वा तत्र देशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषो राजा कुशो ति॥

सो दानि राजा कुशो मातुः प्रतिश्रुत्वा प्रभाताये रात्रीये प्राकृतकेन वेषेण प्रकृत्यैव उद्यानभूमिं गत्वा अन्तःपुरिकां प्रतिपालेन्तो आसति॥ सो दानि राजा कुशो येन सोपानेन सर्वबहूनि पदुमानि च पुण्डरीकानि च तत्रोतरित्वा पद्मपलाशेनात्मानं छादयित्वा आसति॥ अन्तःपुरिका च सर्वा निर्धाविता। यादृशं नन्दनवनं अप्सरगणेहि भरितं उपशोभति तादृशो तमुद्यानं तेन राजान्तःपुरेण॥ सा दानि सुदर्शना देवी तासु वापीसु उत्पलपद्मकुमुदपुण्डरीकां फुल्लितकानि रमणीया दृष्ट्वा अपरासु देवीषु जल्पति॥ देवीहो आगच्छथ वापीसु पदुमानि गृह्लीष्यामः॥ तान्देवीयो आह॥ सुष्ठु देवि 


p. 450


गृह्लीष्यामो पद्मानि॥ सा दानि सुदर्शना देवी तहिं अन्याहि देवीहि येन सोपानेन राजा कुशो स्थितो तेन सोपानेन सुदर्शनां अग्रतो कृत्वा ओकस्ता॥ ताय दानि सुदर्शनाये पद्मानां कृतेन हस्तो प्रणामितो पद्मं गृह्लीष्यामीति। ततः कुशेन राज्ञा सहसा आलिंगिता॥ तस्या दानि सुदर्शनाये देवीये एवं भवति उदकराक्षसेन गृहीता॥ सा दानि अविधा अविधा प्रवेशिताहमुदकराक्षसेन खज्जामि उदकराक्षसेन खज्जामि त्ति॥ ता दानि अन्तःपुरिका सर्वा एकान्तीभूता स्थिता राजा कुशो देवीय सार्धं क्रीडिष्यति सा दानि सुदर्शना देवी अविधाविधत्ति वक्ष्यति उदकराक्षसेन खज्जामि॥ ता दानि अन्तःपुरिका यं कालं जानन्ति राज्ञा कुशेन यथाभिप्रायं कृतं तदा सुदर्शनाये देवीये परिवारेण संलग्नं बलिकर्म कृतं। कटच्छु ज्वलिता शान्तं समितं ते पापं दिष्टयासि उदकराक्षसेन मुक्ता ति॥ सा दानि सुदर्शना ताहि अपराहि देवीहि सार्धं तहिं दिवसं पद्मिनीये क्रीडित्वा रमित्वा परिचारयित्वा विकाले राजकुलं प्रविष्टा॥ सा दानि सुदर्शना देवी राज्ञो कुशस्य शयनगृहं प्रविष्टा॥ राजा जल्पति॥ देवी पद्मिनीं पश्यनाय गता न मम पद्मानि आनीता। न ते अहं प्रिये प्रियो ति॥ देवी आह॥ महाराज कुतो मे पद्मानि ओकस्ता अहं वापीं पद्मानि गृह्लिष्यामीति ततो हं उदकराक्षसेन आलिंगिता मनास्मि उदकराक्षसेन खादिता। ततो स्मि अन्तःपुरिकाहि मोचिता॥ यादृशो महाराज सो तव च्छत्रधारो तादृशो तत्र पद्मिनीये उदकराक्षसो मन्यामि एकमाताय जाता ति॥ सो दानि राजा कुशो आह॥


p. 451


देवि मा भूयो पद्मिनीं पश्यनाय निर्धावसि। अहं पि तत्र वापीये मनास्मि उदकराक्षसेन खादितो हि॥ 

तत्र राजकुले आम्रकाले राजक्येहि आम्रपालेहि नानाप्रकाराणि आम्राणि प्रवेशितानि॥ सा दानि सुदर्शना देवी तानि नानाप्रकाराणि आम्राणि दृष्ट्वा श्वश्रुमलिंदां महादेवीं विज्ञपेति॥ भट्टे इच्छामि आम्रवनानि द्रष्टुं॥ अलिंदा महादेवी आह॥ पुत्रि सुष्ठु पश्याहि शुवे आम्रवनानि निर्धावयिष्यामि॥ ताये दानि अलिंदाये महादेवीये आम्रपालां शब्दापयित्वा आणत्तिका दिन्ना॥ श्वः सुदर्शना राजधीता अन्तःपुरेण सार्धं आम्रवनानि पश्यनाय निर्धाविष्यति ततो आम्रवनं सिक्तसंसृष्टं करोथ। वसन्तचित्रेहि दुष्येहि आम्रदण्डानि वेठेथ ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं आम्रवनं अलंकरोथ॥ ते दानि उद्यानपाला महादेवीये अलिंदाय वचनमात्रेण तमुद्यानं आम्रवनं अलंकृतं॥ सा दानि अलिंदा देवी राज्ञो कुशस्य निवेदयति॥ पुत्र यं खलु आणेसि शुवे सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यमाम्रवनं पश्यनाय निर्धाविष्यति। यदि मे पश्यितुकामो सि सुदर्शनां राजधीतान्ततो प्रकृत्यैव गत्वा तत्र प्रदेशे तिष्ठाहि यथा ते सुदर्शना न जानाति एषो सो राजा कुशो ति॥ सो मातुर्वचनं प्रतिश्रुत्वा प्राकृतकेन वेषेण प्रकृत्यैव आम्रवनं गत्वा सर्वस्यारामस्य यो सर्वशोभनो आम्रो तस्य हेष्टा स्थितः॥ सा दानि सुदर्शना अन्तःपुरिकाहि परिवृता महता राजऋद्धिये महता राजानुभावेन नानाप्रकारेहि सुविचित्रेहि राजरथेहि आरुहित्वा आम्रवनं प्रस्थिता॥ सा दानि सुदर्शना देवी यानातो ओरुहित्वा बहूहि देवीशतेहि परिवृता तं आम्रवनं प्रविष्टा। यादृशं चित्ररथे मिश्रकावने देवानां


4p. 452


त्रायस्त्रिंशानां यात्रका कोविदारा देवपरिवृता शोभन्ति तादृशं राजन्यं आम्रवनं ताहि राजान्तःपुरिकाहि परिवृतो शोभति॥ सा दानि सुदर्शना देवी अपराहि सार्धं तमाम्रवनं अनुचंक्रमन्ती अनुविचरन्ती वरवराणि आम्राणि उच्चिनन्ती आम्रफलानि च भुजन्ती नानाप्रकाराणि च पुष्पजातानि उच्चिनन्ती यावदाम्रवनस्य मध्ये अनुप्राप्ता यत्र राजा कुशो आसति॥ सो दानि राजा कुशो आम्रमूलातो उत्थिहित्वा सुदर्शनाये देवीये उन्मूर्धिकाये आलिंगितो॥ सा दानि सुदर्शना भीता सन्त्रस्ता जानाति वनपिशाचेनास्मि गृहीता ति॥ सा दानि अविधाविध त्ति प्रवेशिता वनपिशाचेन खज्जामि वनपिशाचेन खज्जामि त्ति॥ ता दानि अन्तःपुरिका इतो च इतो च पलायन्ति। राजा कुशो सुदर्शनाय सार्धं आम्रवने क्रीडति रमति परिचारयति सापि सुदर्शना अविधाविधं वक्ष्यति धावथ अन्तःपुरिकाहो वनपिशाचेन खज्जामि॥ ता दानि अन्तःपुरिका यं कालं जानन्ति यथाभिप्रायो राज्ञा कुशेन सुदर्शनाये सार्धं क्रीडितं रमितं परिचारितं ततः नानाप्रकाराणां पुष्पाणां उत्संगे गृह्लियान तं देशं गता॥ ता दानि बहूनि देवीशतानि पुष्पमुष्टीहि राजं कुशं ओकिरन्ति शब्दं च करोन्ति॥ धिक्पिशाच धिक्पिशाच त्ति॥ सो दानि राजा कुशो सुदर्शनां देवीमोशिरित्वा राजकुलं प्रविष्टो॥ तस्य दानि सुदर्शनाय देवीये परिवारेण संलग्नं बलिकर्म कृतं। कटच्छु ज्वालापिता शान्तं शमितं पापं दिष्टयासि वनपिशाचेन जीवन्ती मुक्ता ति॥ सा दानि सुदर्शना देवी अपराहि देवीहि सार्धं तहिं आम्रवने यथाभिप्रायं दिवसं क्रीडित्वा रमित्वा प्रविचारयित्वा विकाले राजकुलं प्रविष्टा॥ सा दानि सुदर्शना राज्ञो कुशस्य शयनगृहे प्रविष्टा॥ रा


p. 453


जा जल्पति॥ देवी आम्राणि संपश्यनाय निर्धाविता न ते आम्राणि आनीतानि न ते अहं प्रियो॥ देवी आह॥ महाराज कुतो मे आम्राणि। निर्धाविता सा आम्राणि पश्यनाय ततः मे वनपिशाचेन आलिंगिता मनास्मि वनपिशाचेन खादिता।  ततो हं अन्तःपुरिकाहि वनपिशाचस्य हस्तातो मोचिता॥ महाराज यादृशो तव च्छत्रधारो यादृशो पद्मिनी उदकराक्षसः तादृशो आम्रवने वनपिशाचः सर्वे त्रयो जना मन्ये एकमाताय जाता ति सर्वे समसदृशा॥ राजा कुशो आह॥ देवी मा भूयो आम्रवनं पश्यनाय गच्छ। अहं पि तत्राम्रवने मनास्मि वनपिशाचेन खादितो॥

तत्र दानि अपरेण कालेन सुदर्शना देवी श्वश्रुमलिंदां महादेवीं विज्ञपेति॥ अभिप्रायो मे राज्ञो कुशस्य हस्तिवाहिनीं द्रष्टुं। शृणोमि राज्ञो कुशस्य विस्तीर्णा हस्तिवाहिनी षष्टि हस्तिसहस्राणि॥ अलिन्दा महादेवी आह॥ भो पुत्रि सुवे राजहस्तिवाहिनीं पश्यनाय निर्धावसि॥ सा दानि अलिंदा महादेवी हस्तिमहामात्रं शब्दावियान आणत्तिका दिन्ना॥ सुवे सुदर्शना राजधीता अन्तःपुरिकाहि सार्धं राजक्यां हस्तिशालां पश्यनाय निर्धाविष्यतीति। ततः हस्तीं च हस्तिशालां च अलंकरोहि॥ सो दानि हस्तिमहामात्रो अलिंदाय महादेवीये आणत्तिकाये श्रुत्वा सर्वां हस्तिवाहिनीं षष्टिं हस्तिसहस्राणि सर्वालंकारेहि अलंकृतानि हेमलालप्रतिच्छन्नानि दन्तपतिमोकानि शुण्डापतिमोकानि सखुरप्रवालान्। सा च हस्तिशाला सिक्तसन्सृष्टा मुक्तपुष्पावकीर्णा कृता ओसक्तपट्टदमकलापा धूपितधूपना॥ सा दानि अलिंदा महादेवी राजं कुशमामन्त्रयति॥


p. 454


पुत्र यं खलु जानेसि सुवे सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यां हस्तिशालां निर्धाविष्यति पश्यनाय। ततः प्रकृत्यैव हस्तिशालं गत्वा तत्र देशे आसथ यथा ते सुदर्शना न जानेया एषः राजा कुशो ति॥ सो दानि राजा कुशो मातुः प्रतिशुत्वा प्रभाताये रात्रीये हस्तिमेण्ठवेशेन प्रकृत्यैव हस्तिशालां गत्वा हस्तिनो मूले सुदर्शनां प्रतिपालयमानो आसति॥ सापि दानि सुदर्शना श्वश्रुय अलिंदाये सार्धं सर्वाहि च अन्तःपुरिकाहि परिवृता राजारहेहि अश्वरथेहि अभिरुहित्वा हस्तिशालां प्रविष्टा॥ सा दानि अश्वरथातो ओरुहित्वा बहूहि चेटीशतेहि परिवृता हस्तिशालां प्रविष्टा। सो पि राजा कुशो हस्तिनां मूले हस्तिमेण्ठो ति कृत्वा सुदर्शनां निध्यायमानो आसति॥ सा दानि सुदर्शना देवी ताहि अन्तःपुरिकाहि सार्धं तत्र हस्तिशालाय अनुचंक्रमन्ती अनुविचरन्ती यं कालं प्रतिनिवर्तिता राजकुलं गच्छामीति राज्ञा कुशेन प्रत्यग्रेण हस्तिलण्डेन वाष्पायन्तेन सुदर्शना देवी पृष्ठितो आहता। तानि राजार्हाणि वस्त्राणि हस्तिलण्डेन विनाशितानि॥ सा दानि सुदर्शना राजधीता श्वंश्रुं अलिंदां महादेवीं विज्ञपेति॥ भट्टे इमस्य राजक्यस्य हस्तिमहामात्रस्य दण्डो दातव्यः। शक्या एतेन या राज्ञो कुशस्य अग्रमहिषी तां हस्तिलण्डेन आहनितुन्ति॥ सा दानि अलिन्दा महादेवी आह॥ भवतु पुत्रि मेल्लेहि एषो राजक्यो हस्तिमहामात्रो अवध्यो किं शक्यं कर्तुं॥ एवं दानि सुदर्शना श्वश्रुये संज्ञापिता॥

सा दानि सुदर्शना अपरेण कालेन श्वश्रुमलिंदां महादेवीं विज्ञपेति॥ भट्टे प्रियं मे राज्ञो कुशस्य अश्ववाहिनीं द्रष्टुं॥ अलिंदा महादेवी आह॥ सुष्ठु पुत्रि स्वो राज्ञो कुशस्य अश्ववाहनं पश्यनाये निर्धावाहि॥ सा दानि 


p. 455


अलिंदा महादेवी अश्वमहामात्राणां शब्दापयित्वा आणत्तिकां देति॥ श्वो सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यं अश्ववाहनं पश्यनाये निर्धाविष्यति। तां दानि षष्टि अश्वसहस्राणि सर्वाणि अलंकरोहि अश्वशालां च सिक्तसंसृष्टां मुक्तपुष्पावकीर्णां करोहि॥ तेहि अश्वरक्षेहि अलिंदाये महादेवीये आणत्तिकां श्रुत्वा सर्वाणि षष्टि अश्वसहस्राणि सर्वालंकारेहि अलंकृतानि। सा च अश्वसाला सिक्तसन्सृष्टा मुक्तपुष्पावकीर्णा कृता॥ सा दानि अलिन्दा महादेवी राजस्य कुशस्य निवेदयति॥ पुत्र कुश यं खलु जानेसि सा सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यं अश्ववाहनं पश्यनाये निर्धाविष्यति। यदि सि पश्यितुकामः  ततो प्रकृत्यैवाश्वशालायां गत्वा तत्र देशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषः राजा कुशो त्ति॥ सो दानि राजा कुशः मातुर्वचनं प्रतिश्रुत्वा प्रभाताये रात्रीये अश्वरक्षवेशं कृत्वा अश्वानां घासं विकिरन्तो आसति सुदर्शनां प्रतिपालयमानो॥ सा दानि सुदर्शना राजधीता श्वश्रुये अलिंदाये महादेवीये सार्धं सर्वाहि चान्तः- पुरिकाहि रत्नामयीं शिविकामारुहित्वा अश्वशालां प्रस्थिता॥ सापि दानि सुदर्शना शिविकातो प्रत्योरुहिय बहूहि देवीशतेहि परिवृता अश्वशालां प्रविष्टा॥ सो पि राजा कुशो अश्वानां पृष्ठतो स्थितः सुदर्शनां निध्यायन्तो॥ सापि दानि सुदर्शना अपराहि अन्तःपुरिकाहि सार्धं तत्र अश्वशालायां अनुचंक्रमित्वा अनुविचरित्वा यं कालं निवर्तिता राजकुलं गच्छामि त्ति ततः कुशेन राज्ञा प्रत्यग्रेण अश्वलण्डेन वाष्पायन्तेन पृष्ठिमेन आहता। तानि राजार्हाणि वस्त्राणि अश्वलण्डेन विनाशितानि॥ सा दानि सुदर्शना राजधीता श्वश्रुं अलिंदां महादेवीं आह॥ भट्टे इमस्य अश्वरक्षस्य दण्डो दातव्यः। लभ्या एतेन राज्ञः कुशस्य


p. 456


अग्रमहिषीं अश्वलण्डेन आहनितुं ति॥ अलिंदा महादेवी आह॥ पुत्रि मर्षेहि एते राजक्या अश्वरक्षा अवध्या किं शक्या कर्तुं॥

सा दानि सुदर्शना अपरेण कालेन श्वश्रुमलिंदां महादेवीं विज्ञपेति॥ भट्टे अभिप्रायो मे राज्ञो कुशस्य रथवाहिनीं द्रष्टुं। श्रुतं मे विस्तीर्णा राज्ञः कुशस्य रथवाहिनी षष्टि रथसहस्राणि॥ अलिन्दा महादेवी आह॥ सुष्ठु पुत्रि श्वो राज्ञो कुशस्य रथवाहिनीं पश्यनाय निर्धावाहि॥ सा दानि अलिंदा महादेवी राज्ञो कुशस्य रथपालां शब्दापयित्वा आणत्तिकां देति॥ स्वो सुदर्शना राजधीता अन्तःपुरेण सार्धं राज्ञो कुशस्य रथवाहिनीं पश्यनाये निर्धाविष्यति॥

तेहि दानि रथपालेहि महादेवीवचनं श्रुत्वा अपरज्जुकातो षष्टि रथसहस्राणि युक्तानि सिंहचर्मपरिवाराणि द्वीपिचर्मपरिवाराणि व्याघ्रचर्मपरिवाराणि पाण्डुकम्बलप्रतिच्छन्नानि सनन्दिघोषाणि सवैजयन्तिकानि सुखरप्रवालानि उच्छ्रितध्वजपताकानि॥ सा दानि अलिंदा महादेवी राज्ञो कुशस्य निवेदयति॥ पुत्र यं खलु जानेसि स्वो सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यां रथवाहिनीं पश्यनाये निर्धाविष्यति। येदि सि पश्यितुकामः ततो प्रकृत्यैव रथशालां गत्वा तत्र प्रदेशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषः सो राजा कुशो त्ति॥ सा दानि सुदर्शना राजधीता अलिंदाये महादेवीये सार्धं सर्वेण च अन्तःपुरेण राजा रहेहि रथेहि अभिरुहित्वा रथशालां प्रस्थिता॥ सो पि राजा कुशो मातरि प्रतिश्रुत्वा प्रभाताये रात्रीये प्रकृत्यैव रथवाहनशालां गतः रथपालवेषेण रथानां मूल आसति सुदर्शनां प्रतिपालयमानो॥ सापि दानि सुदर्शना राजधीता अश्वरथातो ओरुहित्वा बहूहि देवीशतेहि परिवृता रथशालां प्रविष्टा॥ सा दानि सुदर्शना राजधीता अपराहि देवीहि सार्धं रथशालामनुचंक्रमित्वा यं कालं निवर्तिता राजकुलं गच्छामि त्ति ततः राज्ञा कुशेन प्रत्यग्रेण गोमयपिण्डेन वाष्पायन्तेन 


p. 457


पृष्ठे आहता॥ तानि राजार्हाणि वस्त्राणि गोमयपिण्डेन विनाशितानि॥ सा दानि सुदर्शना राजधीता श्वश्रुमलिंदां महादेवीमाह॥ भट्टे इमस्य रथपालस्य दण्डो प्रमामयितव्यो। लभ्या एतेन राज्ञो कुशस्य अग्रमहिषीं गोमयपिण्डेन आहनितुं॥ अलिंदा महादेवी आह॥ पुत्रि मर्षेहि एष राजक्यो रथपालः अवध्यो राज्ञो रथकोशधारो किं शक्या कर्तुं॥ सा दानि सुदर्शना ताय अलिंदाय महादेवीय संज्ञप्ता॥

तत्र दानि अपरेण कालेन या राजक्या हस्तिशाला तत्राग्निः मुक्तो महन्तो अग्निदाहो प्रज्वलितो॥ हस्तिमेण्ठसहस्राणि महामात्राणि च अन्यश्च महाजनकायो सन्निपतितो हस्तिशालां निर्वापयिष्यामः न च शन्कोन्ति तं अग्निदाघं परिनिर्वापयितुं अन्तःपुरं पि तेन अग्निभयेन सर्वं भीतं सन्त्रस्तं संवृत्तं मा इमं पि राजकुलं दहिष्यतीति॥ ता दानि सर्वाः अन्तःपुरिका यतो हस्तिशाला ततो निर्धावमाना आसन्ति को शन्कोति एतं हस्तिदाघं परिनिर्वापयितुं ति॥ महाजनकायं खिज्जन्ते न च शन्कोति  तं अग्निदाघं निर्वापयितुं न च शन्कोन्ति तानि हस्तिशालाय पटलानि घनानि महन्तानि बहुजन उत्तकानि पातयितु॥ तस्मिंश्च कालान्तरे राजा कुशो वहिर्नगरे अनुचंक्रमन्तो अनुविचरन्तो अण्वति। तस्य दानि राज्ञो अमात्येन पुरुषेण निवेदितं॥ महाराज यं खु जानेसि या राजक्या हस्तिशाला तत्र अग्निः प्रज्वलितो॥ श्रुत्वा च पुनः राजा कुशो हस्तिस्कन्धवरगतः जवेन तां हस्तिशालां सपरिवारो आगतो॥ सर्वाहि अन्तःपुरिकाहि राजा आपतन्तो दृष्टो तेन राज्ञा आपतन्तेन तानि प्रदीप्तानि पटलानि एकेनोस्साहेन सपक्ष -


p. 458


कानि सतलकण्टकानि ततः हस्तिशालातो वाह्यमुखं क्षिप्तानि॥ ये पि हि हस्तियो वरचेहि बद्धानि तानि बन्धनानि हस्तेन च्छटच्छटाय च्छिन्दति। ये पि हस्तिनागा अग्निना अभिग्रस्ता तानि उत्क्षिपित्वा अग्निभयातो एकमन्ते क्षिपति॥ एवं दानि कुशेन राज्ञा मुहूर्तेन हस्तिशाला निर्वापिता सर्वा हस्तिवाहिनी अग्निदाघातो मोचिता एको पि न हस्तिर्दग्धो नाबाधितो॥ तत्र दानि अनेककोटीशतसहस्राणि राज्ञो कुशस्य तादृशां वीर्यपराक्रमां दृष्ट्वा हक्कारसहस्राणि प्रवर्तेन्ति। अन्तःपुरं पि राज्ञो कुशस्य तादृशं पुरुषपराक्रमं दृष्ट्वा सर्वे प्रीता तुष्टा अहो राज्ञो कुशस्य बलो अहो पराक्रमं॥ तत्र दानि अपरा कुब्जा हर्षिता वेगजाता राजा राजा ति कुशं संरावेति॥

सिंहसुपीठो बलवां शोभे सुविपुलो महां।

खे चन्द्रो इव आभाति समन्तपरिमण्डलं॥

चकोरताम्रायताक्षो कामदेवो व शोभति।

हस्तिनो मोचये राजा स्थामोपेतो नरर्षभो॥

सो दानि राजा कुशो तस्या कुब्जाय प्रीतो दायं देति संवारेति वरं॥

भद्रिका खु अयं कुब्जा या राजानं प्रशंसति।

काशिकानि ते वस्त्राणि ददामि चतुरो अहं॥

सा दानि सुदर्शना राजधीता तां कुब्जां कुशस्य वर्णं भाषमाणां श्रुत्वा तस्या दानि सुदर्शनाय राजधीतु एवं भवति॥ एषः राजा कुशो भविष्यति 


p. 459


यस्य एषा कुब्जा वर्णं भाषति॥ सा दानि सुदर्शना राजधीता राजस्य कुशस्य तादृशं वर्णरूपं दृष्ट्वा मानसं से प्रत्याहतं दुःखदौर्मनस्यजाता संवृत्ता॥ मा ताव एदृशो मम भर्ता एवं दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूपपादो महोदरो कालो मषिराशिवर्णो पिशाचस्य च एतस्य च नास्ति किंचित् नानाकरणं॥ सा दानि सुदर्शना देवी तस्य कुब्जाये रुषिता आह॥

न नाम एताये कुब्जाये जिव्हाये अस्ति च्छेदको।

सुतीक्ष्णेन शस्त्रेण या राजानं प्रशंसति॥

सा दानि कुब्जा सुदर्शनां देवीं गाथाये संज्ञपेति॥

प्रतितर्जेन्ति राजानो बंधनेन वधेन वा।

तस्मास्य वर्णं भाषामि रक्षं जीवितमात्मनो॥

सा दानि सुदर्शना देवी राजं कुशं तादृशं दृष्ट्वा दुर्वर्णं दुर्दृशं दृष्ट्वा तत्र राजकुले एवं रमणीये देवभवनसन्निभे अनन्तरतनाकरे रतिं न विन्दति अन्नपानेन से छन्दः नोत्पद्यते। नाहं अत्स्यामि न भोक्ष्यामि किं जीवितेन मे यदहं पिशाचेन सार्धं संवसामि॥ सा दानि सुदर्शना राजधीता श्वश्रुमलिंदां महादेवीं विज्ञपेति॥ भट्टे मुञ्च्चाहि मे कन्यकुब्जं गमिष्यामि मातापितुः सकाशं॥ यदि मे न ओसिरिष्यसि मुहूर्तेन उपक्रमेमि आत्मानं मारयिष्यं॥ तस्या दानि अलिंदाये महादेवीये एवं भवति॥ वरं अयं राजधीता जीवति नैव मृता ति॥ सा दानि अलिंदा महादेवी आह॥ पुत्रि गच्छ यत्र ते अभिप्रायो॥


p. 460


सा दानि सुदर्शना राजधीता कुब्जाद्वितीया अश्वरथं अभिरुहित्वा वाराणसीतो निर्यात्वा प्रस्थिता अनुपूर्वेण कन्यकुब्जं गता मातापितुः सकाशं॥ सो दानि राजा कुशो विकाले शयनगृहं प्रविष्टो सुदर्शनां देवीं न पश्यति। राजकुले समन्तेन मार्गियमाना न कुत्रचिद्दश्यति॥ सो दानि राजा कुशो सुदर्शनां देवीं न लभन्तो उत्कण्ठति शोचति परितप्यति। एवं विस्तीर्णे अन्तःपुरे न्यां न लभति॥ यदा से विदितं यथा सुदर्शना देवी कुब्जाद्वितीया ज्ञातिकुलं गता सो दानि राजा कुशो मातरं अलिंदा विज्ञपेति। अम्बे अहं पि गच्छामि कस्मकुब्जं श्वशुरस्य महेन्द्रस्य मद्रकराज्ञो सकाशं सुदर्शनां देवीमानयिष्यामि॥ सा दानि अलिंदा महादेवी पुत्रस्य कुशस्य वचनं श्रुत्वा कन्यकुब्जं गमिष्यामीति ततः पुत्रप्रेम्नेन राज्यतृष्णाये च मूर्छिता प्रस्खलिता च भग्ना धरणीतले प्रपतिता पुत्रशोकसमन्विता॥ अहो मम मन्दभाग्याये अनर्थं। पर्येषिता यतो इयं मया महेन्द्रकस्य कन्यकुब्जकस्य मद्रकराज्ञो धीता सुदर्शना इहानीता ततो न जानामि कथं मे पुत्रस्य राज्ञो कुशस्य भविष्यति॥ सा दानि अलिन्दा महादेवी पुत्रस्य कुशस्य जल्पति॥ पुत्र त्वं इक्ष्वाकुराजपुत्रो सुकुमारो सुखसंवृद्धो जानपदा च शक्तुभक्षा कम्बलपरिधाना च दिवसकर्मलूखाहारा च कथन्ते मार्गगमनं भविष्यति॥ राजा कुशो आह॥ अहं अम्बे नृत्यगीतवाद्येन अन्याहि च मायाहि विविधेहि च उपायेहि आत्मनो वृत्तिं कल्पयन्तो गमिष्यं मा उत्कण्ठतु अम्बा॥ सो राजा कुशो तां मातरं संज्ञापयित्वा भ्रातरं कुशद्रुमं राज्ये प्रतिष्ठापयति॥ भ्राता


p. 461


इमानि ते षष्टि नगरसहस्राणि सनिगमजानपदानि ऐश्वर्यं कारापेहि इमानि ते षष्टि हस्तिसहस्राणि सर्वालंकारविभूषितानि हेमजालप्रतिच्छन्नानि सुखुरप्रवालानि षष्टि अश्वसहस्राणि सर्वे सैन्धवानि शीघ्रवाहीनि सर्वालंकारविभूषितानि षष्टि रथसहस्राणि सिंहचर्मपरिवाराणि व्याघ्रचर्मपरिवाराणि द्वीपिचर्मपरिवाराणि पाण्डुकम्बलप्रतिच्छन्नानि सनन्दिघोषाणि सवैजयन्तिकानि सुखुरप्रवालानि उच्छ्रितच्छत्रध्वजपताकानि इमानि ते वाहनानि। इमं राज्यं परिपालेहि याव मम आगमनं भविष्यति॥ सो दानि राजा कुशो अमात्यानां संदिशति॥ एषो वो कुमारो कुशद्रुमो  राजा मम यावदागमनं। एवं जानथ। तथा एव राज्यं समनुशासथ धर्मेण च पौरजानपदां परिपालेथ॥ सो दानि राजा कुशो अमात्यानां एवमनुशासयित्वा भ्रातरं कुशद्रुमं राज्ये प्रतिष्ठापयित्वा मातरमलिंदां महादेवीं अभिवादयित्वा प्रदक्षिणीकृत्वा सप्ततन्त्रिकां वीणामादाय उत्तराभिमुखो प्रस्थितो॥

राजा कुशो विविधेहि उपायेहि आत्मनो वृत्तिं कल्पयंतो कन्यकुब्जं श्वसुरं येन गच्छति अनुपूर्वेण कन्यकुब्जस्य विषयमनुप्राप्तः॥ तत्र अन्यतरस्मिं ग्रामे वासमुपगतो अपराये वृद्धाये शालाये प्रतिश्रयो दिन्नो॥ तत्र ग्रामे उत्सवो व वर्तति। सो दानि राजा कुशो ताये वृद्धाये वुच्चति॥ पुत्र इह ग्रामे उत्सवो वर्तति व्रज ग्राममध्ये तत्र किंचिदन्नापानं लभिष्यसि ततः आहारं कृत्वा प्रतिक्रमिष्यसि॥ सो दानि राजा कुशो तस्या वृद्धाय श्रुत्वा ग्राममध्यं गतः॥ तेन  दानि राज्ञा कुशेन तादृशी वीणा वादिता गीतकं गायितं यं सर्वो ग्रामजनो आराध्यति। एतस्य दानि कुशस्य ग्रामजनेन प्रीतेन समानेन नानाप्रकारस्य खज्जकस्य पूरं गोपिटकं दिन्नं महान्तं अलिन्दं ओदनस्य दधिकलशश्च नानाप्र-


p. 462


काराणि च व्यंजनानि॥ तेन दानि राज्ञा कुशेन खाद्यभोज्यं सर्वं बुद्धाये शालां प्रवेशितं॥ सा दानि वृद्धा प्रभूतखाद्यभोज्यं दृष्ट्वा (पूरं महान्तं गोपिटकं नानाप्रकारस्य च खज्जकस्य पूरं पिटकं दिन्नं महान्तं अलिन्दं ओदनस्य नानाप्रकाराणि च व्यंजनानि तेन दानि राज्ञा कुशेन प्रवेशितं दृष्ट्वा च पुनर्वृद्धा) प्रीता संवृत्ता॥ अद्य एषः गान्धर्विको एकाहारं कृत्वा पश्चिमे यामे गमिष्यति तं शेषं खाद्यभोज्यं मम द्वेमासिकं त्रेमासिकं वा भक्तं भविष्यति॥ तेनापि दानि राज्ञा कुशेन तस्या वृद्धाये आलापं करन्तेन एकार्धं व यन्तं गोपिटकं खज्जकस्य प्रखादितं। सापि वृद्धा जानाति। इदानिं पि मुहूर्तके पि एषो मम खज्जकशेषं दास्यतीति॥ तेनापि दानि राज्ञा कुशेन बुभुक्षितेन सर्वं तं गोपिटकं खज्जकस्य खादितं न एकं पि खज्जालोपं शेषकृतं॥ तस्या वृद्धाये एवं भवति॥ यदा इमेन गान्धर्विकेन तं महान्तं गोपिटकं खज्जकस्य सर्वं खादितं आशितो एषः भविष्यति। न धारयिष्यति एषो भूयो इमं अलिन्दं मोदकस्य खादितुं। एवम्मम चिरस्य कालस्य भक्तं भविष्यति॥ तेन दानि राज्ञा कुशेन मार्गगतेन बुभुक्षितेन महान्तं अलिन्दं मोदकस्य तं च दधिकलशं तानि च व्यंजनानि नानाप्रकाराणि सर्वं परिभुक्तं। तस्या वृद्धाये न किंचि शेषकृतं॥ सा दानि वृद्धा निराशा संवृत्ता अविधाविधं प्रविशथ धावथ प्रवेशितकायो मनुष्यरूपेण मे पिशाचो गृहं प्रविष्टः मम खादितुकामो॥ राजा कुशो आह॥ अम्बे किमारवसि किञ्च द्रवसि। ग्रामस्मि न च का पि पापका वसन्ति मा त्रसाहि मा रवाहि। इमां एकरात्रिं वसित्वा शुवे गमिष्यामि॥ 

सो दानि राजा कुशो प्रत्यूषलेशकाले उत्थाय प्रस्थितः अनुपूर्वेण कन्यकुब्जं


p. 463


अनुप्राप्तः मालाकारशालां प्रविष्टो। मालाकारमहत्तरकस्य अल्लीनो अहं पि इमाहिं वसिष्यं अहं पि अत्र कर्मे कुशलो॥ तत्र दानि मालाकारशालायां राजन्यानि कण्ठगुणानि गन्धमकुटा च माला च क्रियन्ति॥ सो दानि राजा कुशो तादृशानि कण्ठगुणानि  च गन्धमकुटानि च मालाश्च सुकृतानि सुनिष्ठितानि च सुविचित्राणि च आकारवंतानि च करोति यथा सर्वे मालाकारा दृष्ट्वा विस्मयमापद्यन्ति। अहो कल्याणो आचार्यपुत्रो शोभनो शिल्पिको य इमानि एदृशानि कण्ठगुणानि गन्धमकुटानि च मालाश्च तादृशानि सुकृतानि सुनिष्ठितानि करोति यथा अस्माभिः न कदाचि दृष्टपूर्वा। सर्वाणि च राजा कुशो आत्मनो नामकेन आलिखति यथा सुदर्शना जानेया राज्ञो कुशस्य एतं कर्मन्ति॥ तानि कण्ठगुणानि गन्धमकुटानि मालाश्च राजकुलं प्रवेशिता सुदर्शनाये उपनामियन्ति। पश्य सुदर्शने इमानि पुष्पजातानि केदृशानि सुकृतानि सुविचित्राणि सुनिष्ठितानि नानावर्णानि॥ सा दानि सुदर्शना यं तत्र सर्वशोभनं कण्ठगुणं च मकुटं च मालावरं च गृहीतं आबन्धामि त्ति यावत्पश्यति कुशस्य नामकं। तस्या एतद्भवति। कुशस्य एतं कर्मन्ति राजा कुशो प्राकृतकेन वेशेन इहागतो भविष्यतीति॥ सा दानि सुदर्शना तानि कुशेन कृतानि मेल्लेत्वा अन्यानि प्राकृतकानि गृह्लति॥ सा दानि सुदर्शना आतरे वुच्चति भगिनीहि च वुच्चति अन्तःपुरिकाहि। सुदर्शना किं त्वमिमानि सर्वशोभनानि कण्ठगुणानि मकुटानि मालाश्च मेल्लित्वा अन्यानि प्राकृतानि गृह्लसि॥ सा तामाह॥ अलं मे एतेहि एतमेव मे भवतु॥ यन्तत्र रहस्यं तन्न कस्यचिदाचिक्षति॥

सो दानि राजा कुशो मालाकारस्य मूले वसित्वा अर्थं नोपलभति। ततः 


p. 465


कियन्ति पीठका पि क्रियन्ति शय्यासनका पि क्रियन्ति पादफलकानि पि क्रियन्ति भद्रपीठकानि पि क्रियन्ति अयक्का पि क्रियन्ति फेलिकानि पि क्रियन्ति अंतकोटान्यपि क्रियन्ति अन्यानि च नानाप्रकाराणि वर्धकिभाण्डानि क्रियन्ति॥ सो दानि राजा कुशो तादृशानि वर्धकिभाण्डानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे वर्धकिनो दृष्ट्वा विस्मयमापन्ना। अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि वर्धकिभाण्डानि सुकृतानि सुनिष्ठितानि करोति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि। सर्वेषु च राजा कुशो आत्मनो नामकं संज्ञामात्रकेण लिखति यथा सुदर्शना जानेया राज्ञो कुशस्येदं कर्मन्ति॥ ताहि दानि अन्तःपुरिकादासीहि तं वर्धकिभाण्डं राजकुले प्रवेशितं। यानि सर्वशोभनानि तानि विचिनित्वा सुदर्शनाये उपनामीयन्ति। सुदर्शने पश्य पश्य इमानि वर्धकिभाण्डानि यादृशानि शोभनानि दर्शनीयानि। यन्ते अभिप्रेतं तं गृह्लाहि॥ सा दानि सुदर्शना या तत्र सर्वशोभना आसन्दिका या मंचका या पीठका पादाश्रया वा पादफलका वा भद्रपीठा वा अयक्का वा अंतकोटा वा फेला वा फेलिका वा तं गृह्लामीति यावत्पश्यति कुशस्य नामकं॥ तस्या दानि एवं भवति। कुशस्येदं कर्मन्ति॥ सा दानि तं मेल्लित्वा अन्यं प्राकृतकं गृह्लाति॥ सा दानि सुदर्शना माताये वुच्चति भगिनीहि च ताहि च अन्तर्पुरिकाहि। सुदर्शने किस्य त्वं इमानि एदृशानि वर्धकिभाण्डानि शोभनीयानि


p. 466


मेल्लित्वा अन्यानि प्राकृतकानि गृह्लासि॥ सा दानि आह॥ अलं मे तेहि इमानि एव मे भवन्तु॥ यं तत्र रहस्यं तं न कस्यचिदाचिक्षति॥

सो दानि राजा कुशो वर्धकिस्य मूले वसित्वा अर्थं नोपलभति॥ ततो निर्धावित्वा चोडकधोवकस्य मूले अल्लीनो॥ तत्रापि राजान्तःपुरस्य कृतेन चोडकानि धोवीयन्ति सुदर्शनाया पि चोडकानि तत्रैव धोवीयन्ति॥ सो दानि राजा कुशो सुदर्शनाये वस्त्राणि प्रत्यभिजानति। सो दानि राजा कुशो तानि सुदर्शनाय चोडकानि तादृशानि धोवति तानि सुप्रक्षालितानि चौक्षाणि निर्मलाणि धौतानि यथा सर्वे धोवका चोडका दृष्ट्वा विस्मयमापन्नाः। अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमानि चोलकानि एदृशानि सुधोवितानि सुप्रक्षालितानि चौक्षाणि निर्मलानि धोवति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि॥ राजा कुशो स्वकं नामकं भल्लातकेन संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन्ति॥ ताहि दानि अन्तःपुरदासीहि तानि चोलकानि राजकुलं प्रवेशितानि यानि देवीनां चोलकानि तानि देवीनामुपनामितानि यानि अन्तःपुरिकानां चोलकानि तानि अन्तःपुरिकानां दिन्नानि। तानि दानि अन्तःपुरिकानां सुदर्शनाचोलकानि पश्यन्ति अवदातानि चौक्षाणि निर्मलानि। ता दानि विस्मयं लभन्ति सर्वशोभनानि सुदर्शनाय चोलकानि सुधोतानि च चौक्षाणि निर्मला द्विगुणं त्रिगुणं सुदर्शनाय धोवापनिकमर्हन्ति॥ सुदर्शनापि तानि वस्त्राणि दृष्ट्वा शुद्धानि निर्मलानि प्री -


p. 467


ता संवृत्ता याव यत्र देशान्ते चोडधोवनको भल्लातकेन संज्ञामात्रेण लिखन्तो चोलके नामकं करोति तत्र तं कुशस्य नामकं दृष्ट्वा कुशस्येदं कर्मन्ति। सा दानि न स्वयं प्रतीछति उपस्थायकाये गृह्लावेति॥ तानि सर्वान्तःपुरिका स्वकस्वकानां वस्त्राणां वस्त्राणां धोवापनिकं चेटीनां हस्ते देन्ति। सा दानि सुदर्शना न इच्छति वस्त्राणां धोवापनिकं दातुं॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च अन्तःपुरिकाहि च। सुदर्शने यदा तव चोलकानि सुधोवितानि सुचौक्षाणि सर्वाणि लंचकानि तस्य धोवापनिकं न देसि॥ सुदर्शना आह॥ किं युष्माकं चिन्ता दीष्यति सो अन्येन कालेन॥ यं तत्र रहस्यं तं न कस्यचि आचिक्षति॥

सो दानि राजा कुशो धोवकस्य मूले वसित्वा अर्थं नोपलभति। ततः निर्धावित्वा रजमहत्तरकस्य मूले अल्लीनो तत्रापि च रजकशाले राजान्तःपुरस्य चोलकानि रज्यन्ति सुदर्शनाय पि चोलकानि रज्यन्ति॥ तत्रैव सो राजा कुशो सुदर्शनाये चोलकानि प्रत्यभिजानति। तेन कुशेन ताये सुदर्शनाये चोलकानि सुरक्तानि रंगरक्तानि सुविचित्राणि नानाप्रकाराणि तादृशानि रक्तानि यथा ते सर्वे रजा विस्मयमापन्ना। अहो कल्याणाचार्यपुत्रो शोभनः शिल्पिको यो इमानि एदृशानि सुरक्तानि सुविचित्राणि चोलकानि रजति यान्यस्माभिः न कदाचित् दृष्टपूर्वाणि। सर्वेषु च राजा कुशो स्वकं नामकं भल्लातकेन संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन्ति॥ ताहि दानि अन्तःपुरिकादासीहि यानि यानि देवीनां चोलकानि तानि तानि देवीनां यतानि यानि अन्तःपुरिकानां चोलकानि तानि अन्तःपुरिकानां दिन्नाहि। सुदर्शनाचोलकं


p. 468


अन्तःपुरिका दृष्ट्वा विस्मिता इमानि सुदर्शनाये चोलकानि तानि सुरक्तानि सुदर्शनीयानि सुविचित्राणि इमाये सुदर्शनाये द्विगुणं त्रिगुणं रंजापनीयं दातव्यं॥ ता दानि चोलकानि सुदर्शनाये उपनामितानि॥ सा दानि सुदर्शना तानि चोलकानि सुरक्तानि सुदर्शनीयानि सुविचित्राणि दृष्ट्वा तुष्टा प्रीतिसौमनस्यसंवृत्ता याव यत्र देशे रजको भल्लातकेन अङ्कं करोति तत्र देशे पश्यति कुशस्य नामकं। तस्या एवं भवति। कुशस्य तं कर्मन्ति। सा न प्रतीछति उपस्थायकाये प्रयच्छति॥ ता दानि अन्तःपुरिका स्वकस्वकानां चोलकानां रंजापनिकं चेटिकानां हस्ते देंति सा सुदर्शना रंजापनिकं न इच्छति दातुं॥ सा मातरे च भगिनीहि च अन्तःपुरिकाहि च वुच्चति। सुदर्शने यथा तव चोलकानि सुरक्तानि सुविचित्राणि दर्शनीयानि ततः त्वं यावद्विगुणं त्रिगुणं रंजापनिकं दातव्यं तन्न इच्छसि दातुं॥ सुदर्शनाह॥ किं युष्माकं चिन्ता दीप्यसि सो अन्येन कालेन॥

यं तत्र रहस्यं तन्न कस्यचि आचिक्षति॥

सो दानि राजा कुशः राजकस्य मूले वसित्वा अर्थं नोपलभ्य ततो निर्धावित्वा ततः तट्टकारमहत्तरकस्य मूले अल्लीनः॥ तत्र दानि राज्ञो महेन्द्रकस्य आणत्तिया अन्तःपुरस्य अर्थाय नानाप्रकाराणि सुवर्णरूप्यमयानि रत्नप्रत्युप्तानि भोजनभाजनानि पिबनभाजनानि च क्रियन्ति॥ सो दानि राजा कुशो सुवर्णमयानि रत्नमयानि च रतनप्रत्युप्तानि भोजनभाजनानि पिबनभाजनानि च तादृशानि करोति सुदर्शनीयानि सुसंस्थितानि यथा एको पि तट्टकारो नास्ति यो तादृशानि भाजनानि शन्कोति कर्तुं॥ ते दानि तट्टकारा तादृशानि दृष्ट्वा


p. 469


विस्मयमापन्नाः अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि रत्नभाजनानि करोति यानि अस्मेहि न कदाचिद्दृष्टपूर्वाणि । सर्वेषु च राजा कुशः स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येतं कर्मन्ति॥ ता दानि राजक्यानि सुवर्णरूप्यमयानि भाजनानि यं कालं सर्वाणि निष्ठितानि तेन तट्टकारमहत्तरकेन राज्ञो महेन्द्रकस्य उपनामितानि॥ सो दानि राजा महेन्द्रको यानि कुशेन भाजनानि कृतानि तानि दृष्ट्वा विस्मयति। यादृशानीमानि रत्नप्रत्युप्तानि भाजनानि कुशलेन इमानि आचार्येण कृतकानि॥ सो दानि राजा महेन्द्रकः तानि रत्नभाजनानि च वर्षवराणां कांचुकीयानां च हस्ते देति। गच्छथ अन्तःपुरं प्रवेशेथ महादेवीये धीतुश्च मे सुदर्शनाये यथाभिप्रेतं पूर्वं देथ पश्चादपराणां देवीनामन्तःपुरिकानां च॥ तेहि दानि वर्षवरेहि कांचुकीयेहि च तानि रत्नभाजनानि अन्तःपुरं प्रवेशितानि महादेवीये उपनामितानि। देवि इमानि ते रत्नभाजनानि राज्ञा प्रेषितानि देवी च धीता च ते सुदर्शना यथाभिप्रेतं पूर्वं गृह्लन्तु पश्चादन्यासां देवीनां दीस्यति सर्वासां च अन्तः- पुरिकानां॥ सा दानि सुदर्शना माताये वुच्चति भगिनीहि च अन्तपुरिकाहि च वर्षवरेहि कांचुकीयेहि च॥ सुदर्शने इमानि व ते रत्नभाजनानि पिबनभाजनानि पितरे प्रेषितानि त्वं तावद्यथाभिप्रायं पूर्वं गृह्लथ पश्चादन्यासां देवीनां दीप्यति सर्वासां च अन्तःपुरिकानां यथाभिप्रेतं गृह्लाहि॥ सा दानि सुदर्शना यं तत्र सर्वशोभनं सुकृतं च सुनिष्ठितं आकारवन्तं तं गृह्लामि त्ति यावत्पश्यति कुशस्य नामकं। तस्या एवं भवति। कुशस्यैतं कर्मन्ति। सा दानि तं मेल्लित्वा अन्यानि प्राकृतशिल्पिकेन कृतकानि गृह्लाति॥ सा दानि सुदर्शना ताये माताये भगिनीहि 


p. 470


च अन्तःपुरिकाहि च वुच्चति वर्षवरेहि च कांचुकीयेहि च॥ सुदर्शने किं त्वं एदृशकानि दर्शनीयानि रतनभाजनानि सर्वशोभनानि मेल्लित्वा अन्यानि प्राकृतकानि गृह्लासि॥ सा दान्याह॥ अलं मे एतेन एतमेव मे भवतु॥ यन्तत्र रहस्यं तन्न कस्यचि आचिक्षति॥

सो दानि राजा कुशो तट्टकारस्य मूले वसित्वा अर्थं नोपलभति। ततो निर्धावित्वा सुवर्णकारमहत्तरस्य मूले अल्लीनो। तत्रापि राजआणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि सुवर्णाभरणानि क्रियन्ति मूर्धापिधाना पि क्रियन्ति पादास्तरणानि षि क्रियन्ति सुवर्णमाला पि क्रियन्ति किलंजका पि क्रियन्ति वेठका पि क्रियन्ति मणिकुण्डला पि क्रियन्ति करण्डा पि क्रियन्ति मुखफुल्लका पि क्रियन्ति बिम्बा पि क्रियन्ति पारिहार्यका पि क्रियन्ति कटका पि क्रियन्ति श्रोणिभाण्डिका पि क्रियन्ति पादास्तरका पि क्रियन्ति नुपुरा पि क्रियन्ति पादाङ्गुलिवेठका पि क्रियन्ति॥ सो दानि राजा कुशो तादृशानि सुवर्णाभरणानि करोति उदाराणि कल्याणानि सुकृतानि सुनिष्ठितानि सुनिर्वायन्तानि सुनिर्वान्तमलकषायाणि मृदूनि कर्मनियानि प्रभास्वराणि तादृशानि करोति यथा ते सुवर्णकारा सर्वे दृष्ट्वा विस्मयमापन्नाः। अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि सुवर्णाभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथास्माभिः न कदाचि दृष्टपूर्वाणि। सर्वेषु च राजा कुशः स्वं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येतं कर्मन्ति॥ तेहि दानि सुवर्णकारेहि यं कालं


p. 471


आभरणानि निष्ठितानि तं सर्वं राज्ञो महेन्द्रस्य अल्लीपितं॥ सो दानि राजा यानि कुशेन राज्ञा आभरणानि कृतकानि दृष्ट्वा विस्मयमापन्नः अहो यादृशानीमानि आभरणानि सुकृतानि सुनिष्ठितानि शोभनानि कुशलेनाचार्यपुत्रेण कृताकानि॥ सो दानि राजा महेन्द्रको तान्याभरणानि वर्षवराणां कांचुकीयानां च हस्ते प्रेषति॥ गच्छथ इमान्याभरणानि महादेवीये सुदर्शनाये च यथाभिप्रेतं पूर्वं देथ पश्चादपराणां देवीनां देथ सर्वासां च अन्तःपुरिकानां देथ॥ ते दानि वर्षवरा कांचिकीया च तान्याभरणानि राजकुलं प्रवेशित्वा महादेवीय सुदर्शनाय च उपनामेन्ति॥ देवि इमन्ते सुवर्णाभरणं राज्ञा प्रेषितं। त्वं च धीता च ते सुदर्शना यथाभिप्रेतं पूर्वं गृह्लथ। पश्चादपराणां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां॥ सा दानि सुदर्शना तेषां सुवर्णाभरणानां यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितं आकारवन्तं गृह्लामि त्ति यावत्पश्यति कुशस्य नामकं। तस्या एवं भवति। कुशस्येतं कर्मन्ति। सा दानि तं मेल्लित्वा प्राकृतकानि कुशिल्पिकृतानि गृह्लाति॥ सा दानि सुदर्शना माताये वुच्चति भगिनीहि च अन्तःपुरिकाहि च वर्षवरेहि च कांचुकीयेहि च॥ सुदर्शने किं त्वं एवं विपरीतिका यानीमानि सर्वशोभनानि सुवर्णाभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कुशलेनाचार्यपुत्रेण कृतानि तानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिककृतानि गृह्लसि॥ सुदर्शना आह॥ अलं मे एतेन इममेव मे भवतु॥ यन्तत्र रहस्यं तन्न कस्यचिदाचिक्षति॥ 

सो दानि राजा कुशो सुवर्णकारस्य मूले वसित्वा अर्थं नोपलभति। ततः निर्धावियान मणिकारमहत्तरकस्य मूले अल्लीनो। अत्रापि राजाणत्तिकाये अन्तः -


p. 472


पुरस्य अर्थाये नानाप्रकाराणि आभरणानि क्रियन्ति मुक्तामणिवैडूर्यशंखशिलाप्र-वालस्फटिकसुसारगल्वलिहितिकाहारा पि क्रियन्ति अर्धहारा पि  क्रियन्ति मणिकुण्डला पि क्रियन्ति मणिवक्कलापि क्रियन्ति रत्नमयानि मूर्धपिधानानि अङ्गदानि पि क्रियन्ति केयूराणि पि क्रियन्ति मेखला रत्नामयानि क्रियन्ति॥ सो दानि राजा कुशो तादृशानि मणि आभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे ते मणिकारा दृष्ट्वा विस्मयमापन्नाः अहो कल्याणाचार्यपुत्रः शोभनो शिल्पिको यो इमानि ईदृशानि आभरणानि सुकृतानि सुनिष्ठितानि आकारवन्ता करोति ये अस्माभिरदृष्टपूर्वा। सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्यैतं कर्मन्ति॥ तेहि दानि मणिकारेहि यं कालं आभरणानि निष्ठितानि तं वेलं राज्ञो महेन्द्रकस्य अल्लीपितानि॥ सो दानि राजा यानि केशेनाभरणानि कृतानि दृष्ट्वा विस्मयमापन्नः। अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको॥ सो दानि राजा महेन्द्रको तान्याभरणानि वर्षवराणां कांचुकीयानां च हस्ते प्रेषित्वा। गच्छथ एतान्याभरणानि महादेवीय सुदर्शनाय च यथाभिप्रायं पूर्वं देथ पश्चादपराणां देवीनां सर्वासां च अन्तःपुरिकानां देथ॥ ते दानि वर्षवरा कांचुकीया तान्याभरणानि राजकुलं प्रवेशित्वा महादेवीय सुदर्शनाय च उपनामयन्ति। देवि इमानि मण्याभरणानि राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना यथाभिप्रेतं गृह्लथ। पश्चादपराणां देवीनां सर्वासां च अन्तःपुरिकानां दीष्यति॥ सा दानि सुदर्शना तेषां मण्याभरणानां यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितं आकारवन्तम् तं गृह्लामि त्ति याव पश्यति कुशस्य नामकं॥ तस्या एवं भवति। कुशस्यैतं कर्मन्ति।


p. 473


सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिककृतानि गृह्लाति॥ सा दानि सुदर्शना मातरे च वुच्चति भगिनीहि च अन्तःपुरिकाहि च वर्षवरेहि च कांचुकीयेहि च॥ सुदर्शने किं त्वमेवं विपरीता या त्वमेदृशकानि मण्याभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कुशलशिल्पिककृतानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्लासि॥ सा दानि सुदर्शना आह॥ अलं मे एतेहि इममेव मे भवतु॥ यन्तत्र रहस्यं तन्न कस्यचिदाचिक्षति॥

सो दानि राजा कुशो मणिकारस्य मूले वसित्वा अर्थं नोपलभति। ततः निर्धावित्वा शंखवलयकारमहत्तरकस्य मूल अल्लीनो। तत्रापि राजाणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि शंखगजदन्तमयानि आभरणानि भाजनानि पि क्रियन्ति। नागदन्तवलयका पि क्रियन्ति अंजनीया पि क्रियन्ति दन्तसमुद्गका पि क्रियन्ति रोचनपिशाचिका पि क्रियन्ति दन्तभृंगारका पि क्रियन्ति दन्तविहेठिका पि क्रियन्ति दन्तपादमया पि क्रियन्ति सींहका पि क्रियन्ति शंखका पि क्रियन्ति शंखशय्या पि क्रियन्ति शंखमयानि पि तैलभाजनानि गन्धभाजनानि वर्णकभाजनानि क्रियन्ति शंखमृणालका पि क्रियन्ति शंखमुद्गका पि क्रियन्ति शंखवलयका पि क्रियन्ति शंखमेखला पि क्रियन्ति शंखवोचका पि क्रियन्ति शंखशिविका पि क्रियन्ति शंखचर्मका पि क्रियन्ति॥ एवं नानाप्रकाराणि शंखगजदन्तनयानि भाजनानि आभरणानि च सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे शंखगजदन्तकारका दृष्ट्वा विस्मयमापन्नाः। अहो कल्याणाचार्यपुत्रः शोभनो शिल्पिको यो इमानि एदृशानि शंखगजदन्तमयानि आभरणानि भाजनानि च करोति यं अस्माभिर्न दृष्टपूर्वाणि। सर्वेषु च राजा कुशो स्वकं नामकं संज्ञा -


p. 474


मात्रकेण लिखति यथा सुदर्शना जानेया कुशस्यैतं कर्मन्ति॥ तेहि दानि शंखगजदन्तकारेहि यं कालं सर्वाणि कृतानि यथाणत्तानि राज्ञो महेन्द्रकस्य उपनामितानि॥ राजा तं कुशस्य कर्मं दृष्ट्वा उदारशोभनं सुकृतं राजार्हं विस्मयमापन्नः। अहो यादृशानीमानि कुशलेनाचार्यपुत्रेण कृतानि॥ कुमारामात्येहि पी अभिलक्षितानि राजपुरुषेहि पि अभिलक्षितानि कुशेन कृतानि शंखगजदन्तभाण्डानि दृष्ट्वा विस्मयमापन्नाः। इमानि कुशलेनाचार्यपुत्रेण कृतानि॥ राज्ञा महेन्द्रेण वर्षवराणां कांचुकियानां च हस्ते तान्याभरणानि भाजनानि च प्रेषितानि। गच्छथ अन्तःपुरं प्रवेशे महादेवीये धीतुश्च मे सुदर्शनाये यथाभिप्रायं प्रथमं देथ ततः पश्चादन्यासां देवीनामन्तःपुरिकानां च॥ ते दानि वर्षवरा कांचुकीया तान्याभरणानि भाजनानि च गृह्य अन्तःपुरं प्रवेशितानि महादेवीये उपनामितानि। देवि इमानि ते शंखगजदन्तमयानि आभरणानि भाजनानि च राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना पूर्वं यथामिप्रायं गृह्लथ पश्चादपराणां देवीनां दीष्यति सर्वासाञ्च अन्तःपुरिकानां॥ सा दानि सुदर्शना तानि शंखगजदन्तमयानि आभरणानि भाजनानि दृष्ट्वा यन्तेषां सुकृतं सुनिष्ठितं कल्याणं शोभनं कल्याणाचार्यपुत्रेण कृतकं दृष्ट्वा हस्ते प्रणामितं गृह्लीष्यन्ति यावत्पश्यति कुशस्य नामकं। तस्या एवं भवति। कुशस्यैतं कर्मं ति। सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्लाति॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च अन्तर्पुरिकाहि च वर्षवरेहि च कांचुकीयेहि च वुच्चति॥ सुदर्शने किं त्वं एदृशीका 


p. 475


विपरीतिका यानि इमानि सर्वशोभनानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिककृतानि गृह्लासि। किमिमानि सर्वशोभनानि न गृह्लासि॥ सा दानि सुदर्शना आह॥

अलं मे एतेहि एतमेव मे भवतु॥ यं तत्र रहस्यं तन्न कस्यचि आचिक्षति॥

सो दानि राजा कुशो शंखदन्तकारस्य मूले वसित्वा विशेषं नोपलभति। ततः निर्धावियान जन्तकारस्य मूले अल्लीनो। तत्र राजाणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि जन्तमाष्टदण्डकानि क्रियन्ति। क्रीडापनकानि च विविधानि च जन्तमाष्टकानि क्रियन्ति। वीजनकानि पि जन्तमाष्टानि क्रियन्ति। तालवण्टकानि पि मोरहस्तका पि पादफलका पि आसन्दिका पि जन्तमाष्टपादका महाशालिका पि यन्तमाष्टकानि कंकणका पि यन्त्रमाष्टका। नानाप्रकारानि च पक्षिनो यन्त्रमाष्टकानि क्रियन्ति शुका पि जन्तमाष्टका शारिका पि कोकिला पि हंसा पि मयूरा पि शतपत्त्रा पि कारंदवा पि मोरम्बा पि जीवंजीवका पि तैलकुण्डिका च यन्त्रमाष्टका क्रियन्ति। नानाप्रकारं च फलाफलं यन्त्रमाष्टका क्रियन्ति। भव्यानि च दाडिमानि च मातुलुंगानि च वीरसेनकानि च द्राक्षालतिका च आम्राणि च जाम्बूनि च पिप्पलानि च कपित्थानि च नालीकेराणि च पनसानि च क्षीरिकानि च नीपानि च कदम्बानि च खर्जरलतिका च। एवं नानाप्रकाराणि यन्त्रमाष्टभाण्डानि क्रियन्ति॥ सो दानि राजा कुशो तादृशानि 


p. 476


यन्त्रमाष्टभाण्डानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यं ते सर्वे जन्त्रकारका दृष्ट्वा विस्मिता। अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमान्येदृशानि माष्टकानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यान्यस्माभिः न कदाचिद्दृष्टपूर्वाणि। सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेण लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन्ति॥ तेहि दानि जन्तकारेहि यदा सर्वभाण्डं निष्ठितं ततः राज्ञो उपनामितं। राजा दानि महेन्द्रको मद्रकराजा तानि कुशकृतानि दृष्ट्वा विस्मितः। अहो यादृशकानि इमानि जन्त्रमाष्टकानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि॥ तेन दानि राज्ञा तानि भाण्डकानि वर्षवराणां कांचुकीयानां च हस्ते दिन्नाः। गच्छथ अन्तःपुरं प्रवेशेथ महादेवीय धीतुश्च मे सुदर्शनाये प्रथमं देथ पश्चादपराणां देवीनां सर्वासां च अन्तःपुरिकानां देथ॥ तेहि दानि वर्षवरेहि कांचुकीयेहि च तं भाण्डं गृह्य अन्तःपुरं प्रवेशितं महादेवीये उपनामितं धीतुश्च सुदर्शनाये। देवि इमानि ते यन्त्रमाष्टकभाण्डानि राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना सुदर्शना यथाभिप्रायं प्रथमं तं गृह्लथ पश्चादन्यासां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां॥ सा दानि सुदर्शना यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितं आकारवन्तं दृष्ट्वा तत्र हस्तं प्रणामेति गृह्लामीति यावत्पश्यति कुशस्य नामकं। तस्या एवं भवति। कुशस्येदं कर्मन्ति। सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि गृह्लाति॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि पि अन्तःपुरिकाहि पि वर्षवरेहि कांचुकीयेहि वुच्चति॥ सुदर्शने किस्य त्वं विपरीतिका या त्वमिमानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि तानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतकानि गृह्लासि किं सर्वशोभनानि न गृह्लासि॥ सु


p. 477


दर्शना आह॥ अलं मे एतेन एतमेव मे भवतु॥ यं तत्र रहस्यं तन्न कोचिज्जानाति॥

सो दानि राजा कुशो यन्त्रकारस्य मूले वसित्वा अर्थं नोपलभति॥ ततः निर्धावियान वरुटानां महत्तरकस्य मूले अल्लीनो॥ तत्र राजक्यानि वरुटभाण्डानि नानाप्रकाराणि क्रियन्ति वीजनकानि च तालवण्टकानि च च्छत्राणि च च्छत्रपालकानि च करण्डकानि च वेत्रमञ्चकानि वेत्रमेथिका च वेत्रपेठकानि च एवं नानाप्रकाराणि व वरुटभाण्डानि राजाणत्तिये अन्तःपुरस्यार्थाय क्रियन्ति॥ तत्र कुशो राजा तेहि वरुटेहि सार्धमन्तःपुरस्य नानाप्रकाराणि वरुटभाण्डानि करोति यथा सर्वेषां तेषां वरुटानां एको पि न शन्कोति तादृशानि कर्तुं॥ ते दानि यत्र काले यथाणत्तानि सर्वाणि व वरुटभाण्डानि कृतानि ततः तानि भाण्डान्यादाय राज्ञो अल्लीपितानि॥ राज्ञा वर्षवराणां कांचुकीयानां हस्ते अभ्यन्तरमन्तःपुरस्य सर्जितानि प्रथमं महादेवीये सुदर्शनाये च उपनामितानि॥ ते इमानि राज्ञा प्रेषितानि यूयं प्रथमं गृह्लथ यथाभिप्रेतानि पश्चात्सर्वस्यान्तःपुरस्य दीष्यति॥ महादेवीये यान्यभिप्रेतानि गृहीतानि सुदर्शनापि वुच्चति॥ गृह्ल त्वं अहो वरुटभाण्डानि यानि ते अभिप्रेतानि॥ सा दानि यानि तानि वरुटभाण्डानि शोभनानि चोदाराणि च सुकृतानि च उदाराणि राजार्हाणि बहुजनविस्मयकराणि च स्वयं राज्ञा कुशेन स्वकेन नामेन संज्ञां लिखितां दृष्ट्वा इमानि कुशेन कृतानीति मेल्लित्वा अन्यानि प्राकृतकानि वरुटभाण्डानि गृह्लाति॥ सा दानि 


p. 478


मातरे वुच्चति भगिनीहि पि अन्तःपुरिकाहि पि वर्षवरेहि कांचुकीयेहि पि। सुदर्शने किं शोभनान्युदाराणि वरुटभाण्डानि मेल्लित्वा अन्यानि प्राकृतकानि गृह्लासि॥ सा दानि आह॥ इमानि मे भवतु अलमेतेहि॥ यं तत्र रहस्यं येन सुदर्शना तानि राजभण्डानि न गृह्लाति तं च ते न जानन्ति॥

सो दानि राजा कुशो तत्रापि वरुटमुले वसित्वा अर्थं नोपलभति॥ ततः निर्धावित्वा यो महेन्द्रकस्य मद्रकराज्ञो महानसो तत्र प्रविष्टो सूपकारमहत्तरकस्य अल्लीनो॥ अहं पि इमाहिं एव आसिष्यं यं कर्मं आणपेसि तं करिष्यं। अहं पि तत्र कर्मे कुशलः॥ तेन दानि सूपकारमहत्तरकेन राजा कुशो तत्र महानसे स्थापितो आणत्तिकापि दिन्ना। अत्र कर्मं करोहि॥ सो दानि राजा कुशो तत्र राजकृत्ये महानसे तादृशानि मान्सप्रकाराणि च व्यंजनप्रकाराणि च शाकप्रकाराणि च भोजनप्रकाराणि च अम्ललवणमधुरतिक्तकटुककषायाणि सिद्धेसि यथा सर्वेहि तेहि राजकृत्येहि सूपेहि न कदाचिद्दृष्टपूर्वां प्रागेव सिद्दं। यतो पि च महेन्द्रको मद्रकराजा जातः न से कदाचिदेदृशो रसो परिभुक्तपूर्वो॥ सो दानि राजा महेन्द्रको यं कालं भक्ताग्रमुपविष्टो तानि मान्सप्रकाराणि व्यंजनप्रकाराणि च शाकप्रकाराणि च भोजनप्रकाराणि च उदाराणि अम्ललवणमधुरतिक्तकटुककषायाणि यानि राज्ञा कुशेन सिद्धकानि राजा महेन्द्रको परिभुंजन्तो न तुष्यति॥ विस्मितः सो राजा सूपमहत्तरकं पृच्छति। भो भणे केन सूपकेन ननाद्य आहारो सिद्धो। यतः जातो न मे कदाचिदेदृशो रसाग्रो जिव्हाग्रेण स्वादितपूर्वो॥ सो दानि सूपमहत्तरको राजानं प्रांजलीं कृत्वा विज्ञपेति॥ देव अत्र अपरो आगन्तुको सूपो महानसं प्रस्थितो। तेन महाराजस्य आहारो सिद्धो॥ 


p. 479


तस्य दानि राज्ञो भवति। कुशलो सो सूपो नानाप्रकारेहि संगृह्लितव्यः सो प्रियायितव्यः यथा न कहिंचित् गच्छेया॥ सो दानि राजा सूपमहत्तरकमामन्त्रयति॥ भो भणे सूप आनेहि तं सूपं येन ममाद्याहारो सिद्धो यावन्नं पश्यिष्यामि॥ तेन दानि सूपमहत्तरकेन यं कालं राजा भक्ताग्रमुपविष्टो ततो नं राजा कुशो उपनामितः एषो सः सुपो येन महाराजस्य आहारो सिद्धः॥ सो दानि महेन्द्रको मद्रकराजा राजं कुशं पश्यति दुर्वर्णं दुर्वर्णं दुर्दृशं स्थूलोष्ठं स्थूलशिरोपादं महोदरं कालं मषिराशिवर्णं दृष्ट्वा च पुनः राजा विस्मितः। अहो मा ताव मा ताव शोभनो नाम एदृशो प्राकृतरूपो एदृशो रसविज्ञानो रसाग्रो॥ सो दानि राजा तं सूपं समाश्वासेति। वृत्ति शोभना यथारूपं प्रज्ञप्ता॥ राजार्हाणि च खाद्यभोज्यानि अग्रतः उपविशापयित्वा खादापितो पिबनाये च दिन्नं माला च से आलब्धा॥ राजेन दानि महेन्द्रण आणत्तिका दिन्ना। एषः सूपः अनावृतद्वारो राजकुलं प्रविशतु॥

एवं दानि तत्र राजकुले सत्कृतो सन्मानितो वसति राज्ञो इष्टः सर्वेषां कुमाराणां अमात्यानां भटबलाग्राणां इष्टो च प्रियो च मनापो च॥ सो दानि महेन्द्रको मद्रकराजा वर्षवरां कांचुकीयां च आमन्त्रयति॥ भवन्ताहो एषः सूपो विश्वस्तमन्तःपुरं प्रविशतु अन्तःपुरिकानां क्रीडापनको भवतु॥ सो दानि राजा कुशो विश्वस्तं राजकुलं प्रविशति ताहि पि अन्तःपुरिकाहि एषो ऽस्माकं राज्ञा क्रीडापनको दत्तो ति। ता दानि अन्तःपुरिका तेन सार्धं विश्वस्तं क्रीडन्ति केलिं कुर्वन्ति पृष्ठिमं आरुहित्वा नानावाहिकाये वाहेन्ति॥ सो दानि राजा कुशो अ -


p. 480


न्तःपुरिकाहि वाहियमानः सहसा सुदर्शनाये दृष्टो॥ सा दानि सुदर्शना राजं कुशं पश्यित्वा एव भीता सन्त्रस्ता तासामन्तःपुरिकानां रुष्यति क्षीयति परिभाषति। लभ्य स्त्रीभिः पुरुषं वाहयितुं ति॥ ता दानि अन्तःपुरिका आहन्सुः॥ सुदर्शने किं तुवं अस्माकं रुष्यसि क्षीयसि परिभाषसि। यदि वयमिमं क्रीडापनकं एषः तव पतिर्भोति ततो से ईर्ष्यायसे॥ सुदर्शना आह॥ एषा मम या ईर्ष्या सा भवतु अपि तु न शक्यः युष्माभि एषः वाहयितुं या एतं वाहयिष्यति तस्या अहं न साता भविष्यं॥ सा दानि सुदर्शना राजं कुशं अन्तःपुरे दृष्ट्वा दीनमुखवर्णा शोकार्तिता नापि से अल्लीयति न प्रलापन्देति॥ सो दानि राजा कुशो आह॥ सुदर्शने इमहिं पि तुवं मम पश्यियान उत्त्रससि॥ सुदर्शना आह॥ किं दानि सो इहागतो सि आश्चर्यं यदि सो आगच्छन्तो रात्रिं वा दिवसं दृष्टो आगतो सा न च वनपिशाचो एषो ति त्वं न केनचिद् हतो सि। विस्तीर्णं राज्यं विस्तीर्णमन्तःपुरं गच्छ स्वकं राज्यं क्रीडाहि रमाहि प्रविचारेहि इमहिं किं करिष्यसि॥ राजा कुशो आह॥ सुदर्शने नाहं त्वया विना गमिष्यामि। दिशा मे न प्रतिभायन्ति यतो हमिहागतो॥ सुदर्शना आह॥

किं दानि अहं करोमि कस्य वा गरहाम्यहं।

उत्त्रसति हृदयं दृष्ट्वा समुद्रराक्षसं यथा॥

किं दानि अहं करोमि कस्य वा गरहाम्यहं।

उत्त्रसति हृदयं दृष्ट्वा मृगी भ्रान्ता व लुब्धकं॥


p. 481


अतर्जन्तो यथागतं रात्रिंदिवं अनुब्रजन्।

गच्छ कुश स्वकं राज्यं नेछामि दुर्वर्णं अहं॥

राजा आह॥

अहं खु बृहति श्यामे सुश्रोणि तनुमध्यमे।

तव कामेहि मुह्यन्तो राज्यं पि नाभिप्रार्थये॥

नाहं गमिष्यामि सुसंवृत्तोरु

दिशां न जानामि यतो स्मि आगतो।

संमूढरूपो विचरामि लोके

मत्तो स्मि कामैः मृगमन्दलोचने॥

देवी आह॥

विक्षेपो तव चित्तस्य यमनिच्छन्तिमिच्छसि।

अकामां राज कामेसि नैतं पण्डितलक्षणं॥

कुशो आह॥

अकामां वा सकामां वा यो नरो लभते प्रियां।

लाभं तत्र प्रशंसन्ति अलाभो तत्र पापको॥

देवी आह॥

प्रभोसि स्त्रीसहस्रं पि एकरात्रेण रामितुं।

एकस्त्रियाये कामेन महं दुःखं निगच्छसि॥


p. 482


राजा आह॥

नेतं दुःखं प्रजानामि यशस्वनि वर्णलाभिनि।

सुचीर्णे ब्रह्मचर्यस्मिं त्वं मे भार्या भविष्यसि॥

देवी आह॥

धिगस्तु ते ब्रह्मचर्यं अयं ते भवतु पापकः।

सुनखीं वा सृगालां वा परत्र कामयिष्यसि॥

कुशः आह॥

मा एवं अवचि भद्रे सुश्रोणि तनुमध्यमे।

श्रमणा पि वयं साधु ब्रह्मचर्येण शोभते॥

ते पि भद्रे सुचीर्णेन इह चीर्णेन शोभति।

स्वर्गेषु उपपद्यन्ति त्रिदशे कामकामिनो॥

तत्ते भद्रे अहं ब्रूमि सुश्रोणि तनुमध्यमे।

न ते अन्यो पती अस्ति इति सिंहस्वरो कुशः॥

देवी आह॥

सचे व सत्यं वचनं नैमित्तिकं भविष्यति।

न ते भार्या भविष्यामि कामं छिन्दाहि खण्डशः॥

राजा आह॥

नाहं छेत्तुं तवेछामि सुश्रोणि तनुमध्यमे।

अच्छिन्ना येव त्वं भद्रे मम भार्या भविष्यसि॥


p. 483


महन्तं च मम राज्यं बहूश्वं बहुपूरुषं।

अनन्तबहुप्रपंचं बह्व्हाछादनभोजनं॥

सो हं राज्यं च राष्ट्रं च छोरयित्वा इहागतः।

तव कामहि मुह्यन्तो राज्यं पि नाभिप्रार्थये॥

देवी आह॥

पाषाणे खनसे कूपं कर्णिकारे च कर्णिकां।

त्वं वातं जालेन बन्धेसि यं अनिच्छन्तिमिच्छसि॥

अनिच्छन्तीं मामिच्छेसि अकामेन्तीं च कामसि।

गच्छ तुवं स्वकं राज्यं आत्मानं किं किलामसि॥

राजा आह॥

न एतं किलमथं मह्यं ब्रह्मचर्यं इदं मम।

परत्र एव तुवं भार्या मह्यं भद्रे भविष्यसि॥

देवी आह॥

एतं तव ब्रह्मचर्यं उपात्तं भोतु पापकं।

सुनखिं वा शृगालिं वा गर्दभां वापि प्रार्थये॥

ततो सो राजपुत्रो शूरो युद्धे अप्रतिपुद्गलः।

कुशो यमारूढप्रज्ञो इदं वचनमब्रवीत्॥


p. 484


गच्छन्तो चे अहं भद्रे सुश्रोणि तनुमध्यमे।

निगडेहि ते बन्धेयं किन्ते काहिन्ति ज्ञातयः॥

देवी आह॥

तमेव धर्मं अपरायं यन्ते उत्पादितं पुरा।

तमेव धर्मं स्मरमाणो यं मे बन्धितुमिच्छसि॥

राजा आह॥

प्रभोमि ते अहं भद्रे मण्डयित्वा प्रजापति।

येनिच्छकं प्रचारेतुं पिता ते किं करिष्यति॥

प्रभोमि स्त्रीसहस्रं पि एकरात्रेण रामितुं।

त्वमेव मे वरं भद्रे शुद्धदन्ति प्रजापति॥

देवी आह॥

जानामि ते महाराज बलवां च नरर्षभः।

दुर्वर्णो दुर्दृशो चासि निस्पर्शो सि महीपति॥

स्थूलोष्ठो स्थूलशिरो च स्थूलांगो पि महोदरो।

पश्यितुं त्वां न इच्छामि आत्मानं मा किलामय॥

एते उद्विद्धप्राकारा अट्टाट्टालकखोडका।

ये व वहन्ति नागेहि एते हि वारयन्ति ते॥

एते शक्तीहि युध्यन्ति तोमरेहि शरेहि च।

असीहि च सुतीक्ष्णेहि त्वां लभेयु प्रजापति॥


p. 485


एवं दानि राजा कुशो सुदर्शनाये सार्धं अन्यमन्यं नानाप्रकारं परिभाषति। न च कोचि जानाति एषो राजा कुशो ति॥

तत्र दानि प्रातिसीमकेहि प्रतिराजानेहि श्रुतं महेशाख्येहि महाबलेहि महावाहनेहि। महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना नाम प्रासादिका सुदर्शनीया राज्ञो कुशस्य मूलातो पलायित्वा पितुः सकाशमागता। न च से राजा कुशो पति रुच्चति दुर्वर्णो ति कृत्वा॥ तेहि दानि सप्तहि राजानेहि चतुरंगबलकायं संनाहयित्वा हस्तिकायं अश्वकायं रथकायं पत्तिकायं सुदर्शनाये अर्थाये समागता॥ तेषां दानि सप्तानां राज्ञा यो सर्वार्यवरो सो दुर्मति नाम राजा तेषां सप्तानां राज्ञां बलवत्तरो च महेशाख्यतरो च॥ ते दानि सर्वे सप्त राजानः महता समृद्धिये महता विभूषाये प्रस्थिता अनुपूर्वेण कन्यकुब्जस्योपवनमनुप्राप्ता॥ तेन दानि महेन्द्रकेन मद्रकराज्ञा तेषां सप्तानां राज्ञामेकमेकस्य दूतो प्रेषितो। एषा मम धीता सुदर्शना कुशस्य राज्ञो भार्या ततः न शक्या मया अन्यस्य दातुं॥ ते दानि सप्त राजानः महेन्द्रकस्य मद्रकराज्ञो प्रतिवचनं श्रुत्वा रुषिता कुपिताश्च स्वकस्वकेहि खन्धवारेहि कन्यकुब्जं नगरं समन्तेन वेठियान स्थिताः॥ सो पि राजा महेन्द्रको नगरं प्रविशित्वा द्वाराणि घट्टेत्वा ओरुद्धो आसति॥ तस्य दानि महेन्द्रकस्य मद्रकराज्ञो एवं भवति॥ अहं खलु इमेहि सप्तहि राजानेहि अवरुद्धो धारियामि सर्वे च से राजाने महेशाख्या महाबला न प्रतिबलो हं एतेषां युद्धं दातुं यदापि एकस्य धीतरं दास्यामि षण्मे राजानो विरुधिष्यन्ति किं दानि करोमि॥ सो दानि राजा महेन्द्रको धीतुः सुदर्शनाये रुष्टो परिभाषति॥ किस्य त्वं स्वामिकस्य मूलातो पलायित्वा इहागता यदहं तव कृतेन सप्तराजानेहि ओ -


p. 486


रुद्धो धारियामि। यदि मे एतेषां सप्तानां कोचि हेठां उत्पादयिष्यति ततो ते सप्त खण्डानि कृत्वा तेषां सप्तानां राज्ञामेकमेकं खण्डं दास्यामि॥ सा दानि सुदर्शना पितुर्वचनं श्रुत्वा भीता संत्रस्ता दुःखदौर्मनस्यजाता संवृत्ता मातामामन्त्रयति॥ अम्बे यदिमे सप्त क्षत्रिया परस्परं विरुधित्वा घातयिष्यन्ति ततः भस्मायित्वा (?) अस्थीनि संहरयित्वा ततो मे एलूकां कारापयेसि। तत्र च एलूकाद्वारे कर्णिकारवृक्षं रोपापयसि। ततो ग्रीष्माणामत्ययेन प्रथमे प्रावृषमासे वर्तमाने सो कर्णिकारवृक्षो सर्वपरिफुल्लो भवेया हेमप्रकाशवर्णः। ततो मे स्मरसि। एदृशा मे वर्णेन धीता सुदर्शना आसीति॥ सा दानि महादेवी धीतुः सुदर्शनाये वचनं श्रुत्वा भीता संत्रस्ता दुःखदौर्मनस्यजाता संवृत्ता अश्रुकण्ठी रुदन्मुखी आह॥ कथं मे धीत्ताये विनाभावो भविष्यति॥ तस्या दानि सुदर्शनाये एवं भवति॥ यादृशो रजा कुशो वीर्याबलपराक्रमेण समन्वागतो ततः एते न समर्था सप्त राजानः कुशेन सार्धं संग्रामं दातुं। यन्नृहं राजा कुशेन जीवितार्थिका सियां॥

अथ खलु सुदर्शना येन राजा कुशो तेनुपसंक्रमित्वा नानाप्रकाराणि चाटुकानि करोति आचिक्षति च॥ महाराज एवं मे पिता तर्जति यदि एते सप्त राजानः किञ्चिद् हेठामुत्पादयेन्सुः ततो सप्त खण्डानि कृत्वा एतेषां सप्तानां राज्ञामेकमेकं खण्डं प्रदास्यं॥ सो दानि कुशो राजा सुदर्शनाय बहुप्रकारं भाषति॥ एच्छन्त्वां अहन्ते महान्तं असत्कारं करेयं किन्त्वं पि मम कुर्यात्॥ एवं दानि राजा कुशो सुदर्शनाये सार्धं जल्पमानः आसति। ताय च सुदर्शनाय मातरे श्रुतं श्रुत्वा च 


p. 487


पुनः राज्ञो कुशस्य दृष्ट्वा को स्य अयं कुतो वा अयं वेणो वा पाणो वा चर्मकारो वा नापितो वा चण्डालो वा पुक्कसो वा यो मे धीतां परिभाषति तर्जेति च॥ सा दानि सुदर्शना मातुरं अंजलिं कृत्वा आह॥ अम्बे मा हैव जल्पाहि न एषो वेणो वा पाणो वा दासो वा चर्मकारो वा। एषो राज्ञः इक्ष्वाकुस्य पंचानां कुमारशतानां ज्येष्ठपुत्रो कुशो नाम मा अम्बे एतं दासो ति मन्याहि॥

शंखपाण्डलसंकाशं नारीसंघनिषेवितं।

क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि॥

सुवर्णभाजनप्रत्युप्तं नारीसंघसमाकुलं।

क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि॥

षष्टि नगरसहस्राणि ऋद्धं स्फीतमकण्टकं।

क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि॥

षष्टि नागसहस्राणि सुवर्णालंकारभूषिता।

सुवर्णच्छन्ना मातङ्गा इषादन्ता समुद्गता॥

आरूढा ग्रामणीयेहि खड्गतोमरपाणिभिः।

क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि॥

षष्टि रथसहस्राणि नन्दिघोष अलंकृता।

अयोमया सुबद्धानि द्वीपिचर्मपरिच्छदा॥

आरूढा ग्रामणीयेहि चापहस्तेहि वर्मिभिः।

क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि॥

षष्टि अश्वसहस्राणि आजानेया हयोत्तमाः।


p. 488


सुवर्णमेखलधरा खलीनरतनामया॥

आरूढा ग्रामणीयेहि पाशहस्तेहि वर्मिभिः।

क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि॥

विंश ब्राह्मणसहस्राणि राज्ञो भुंजति नित्यकं।

दिवा वा यदि वा रात्रिं सदा सत्कृतपूजिताः।

क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि॥

कुमाराणां शता पंच उपेता मातापितृतो।

क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि॥

षष्टि निधानसहस्राणि पिता च प्रपितामहा।

यत्र राजा कुशो नाम नराणां चापि ईश्वरो।

एतस्य वर्णवीर्येण लोके नास्ति समासमो॥

सा दानि सुदर्शनाये माता महादेवी इदं वचनं श्रुत्वा प्रीता संवृत्ता॥ईदृशो मे जामाता सर्वगुणेहि उपेतः॥ सा दानि सुदर्शनाय माता धीतुर्वचनं श्रुत्वा महेन्द्रकस्य मद्रकराज्ञो निवेदयते॥ महाराज यं खलु जानेयासि जामाता ते राजा कुशो इहानुप्राप्तो॥ सो राजा दानि देवीये वचनं श्रुत्वा भीतो सन्त्रस्तो संविग्नो हृष्टरोमकूपजातः॥ राजा आह॥ देवि हि किं उन्मत्तिकासि विक्षिप्तचित्तकासि या एवं जल्पसि राजा कुशो इहानुप्राप्तो ति कीदृशो राजा कुशो कहिं वा ते राजा कुशो दृष्टो॥ देवी आह॥ महाराज नाहं उन्मत्तिका न विक्षिप्तचित्ता अपि तु एषो ते जामाता राजा कुशो यो ते महानसे आहारं पचति यो ते अन्तःपुरिकानां क्रीडापनको॥ राजा दानि श्रुत्वा भूयस्या मात्रया भीतो संत्रस्तो 


p. 489


दुःखदौर्मनस्यजातो संवृत्तो। न मे तं दुःखं यं मे सप्त राजानो ओरुद्धकं धारेन्ति अपि तु एतं मे दुःखं महाराजा कुशो सुदर्शनाये रोषेण इहागतः भविष्यति सो च मे अवसानेन धारितस्य रोषेण किंचिदभ्यन्तरनगरे हेठामुत्पादयिष्यति॥ सो दानि राजा महेन्द्रको मद्रकराजा भीतो संत्रस्तो स्वकमन्तःपुरं प्रविष्टः राज्ञो कुशस्याजलिं कृत्वा क्षमापयति। क्षमस्व महाराज यम्मया किंचिदपराद्धं॥ सो दानि राजा कुशो श्वसुरमाश्वासयति। मा भीहि महाराज न मम किंचित् क्षामापयितव्यं॥ सो दानि राजा महेन्द्रको मद्रकराजा मुहूर्तं राजानं कुशं स्नानशालायां प्रवेशित्वा कल्पकेहि केशश्मश्रूणि कल्पापयित्वा शतपाकेहि गन्धतैलेहि अप्यभ्यक्तो राजारहेहि स्नानचूर्णेहि स्नापितो राजारहेहि अनुलेपनेहि अनुलिप्तो राजारहेहि वस्त्रालंकारेहि प्रवारित्वा आमुक्ताभरणो श्वसुरेण सार्धं एकासने उपविष्टो। पंचाङ्गिकेन तूर्येणोपस्थिहिये च॥

  तेषां दानि सप्तानां राज्ञां बलाग्रस्य उच्चशब्दमहाशब्दो नादो श्रुयति॥ राजा दानि कुशो श्वसुरं पृच्छति॥ महाराज कस्यैषो महाजनकायकोलाहलशब्दो श्रुयति॥ राजा आहं॥ इमं नगरं सुदर्शनाये कृतेन सप्त हि राजानो समन्ता परिवारित्वा आसन्ति अहं च ओरुद्धको धीरीयामीति। तस्यैषां राज्ञां बलाग्रस्य शब्दो॥ सो दानि राजा कुशो तं श्वसुरं संज्ञापयति॥ मा भीहि महाराज अहं तथा करिष्यं यथा एते सप्त राजानो प्रणमिष्यन्ति वचनकरा च भविष्यन्ति॥ सो दानि राजा कुशो तं श्वसुरमामन्त्रयति॥ महाराज एते सर्वे महेशाख्या हस्तिनागा सर्वे च अश्वाः सर्वे चतुष्पदा सर्वो जनकायो मधुसिक्थकेन कर्णा पिधापेहि मा मम सिंहनादं श्रुत्वा स्वकं सैन्यं भज्जिष्यति॥ सो दानि राजा कुशो महेशाख्यं


p. 490


हस्तिनागमभिरुहित्वा महता जनकायेन सार्धं नगरद्वारमवद्वारापयित्वा निर्धावितो। तेन राज्ञा कुशेन सिंहनादो मुक्तो। तेन सिंहनादं नदन्तेन सर्वे सप्त राजानो सबला सवाहना भग्ना। जीवग्राहं गृह्लीत्वा पश्चाद्बहुगाढबन्धनं बन्धित्वा श्वसुरस्य महेन्द्रकस्य मद्रकराज्ञो उपनामिता॥ इमे ते महाराजानो ते सर्वे सप्त राजानो महेन्द्रकस्य मद्रकराज्ञो प्रणिपतिता॥ जयतु महाराजा शरणगता स्ममहाराजस्य वयन्ते आज्ञामात्रवचनप्रतिकरा भविष्यामः॥ सो दानि महेन्द्रको मद्रकराजा जामातरं कुशं पृच्छति। पुत्र तव एतेषां सप्तानां राजानां रुच्चति किं करिष्यामो। यथा त्वं आणपेसि तथा करिष्यामिः॥ राजा कुशो आह॥ महाराज अस्ति ते अन्तःपुरे प्रभूता धीतरो तावदवश्यं सर्वे स्वामिकानां दातव्या इमे च सप्त राजानः सर्वे क्षत्रिया महाबला महावाहना महाभागा विस्तीर्णराज्या। ततः महाराज एतेषां क्षत्रियाणां सप्त धीतरो सुवर्णसहस्रमण्डितां कृत्वा एकमेकस्य राज्ञो एकमेकां धीतां देहि। एते च ते सप्त राजानो जामातरो भविष्यन्ति भविष्यन्ति पक्षो च ते बलवन्तो भविष्यन्ति। सर्वे च ते प्रातिसामन्तिका राजानो महाबलो महावाहनो महापरिवारो ति कृत्वा ओनमिष्यन्ति अनुवर्तिष्यन्ति न च ते कोचित्प्रतिराजा विरुद्धिष्यति॥ महेन्द्रको मद्रकराजा आह॥ पुत्र सुष्ठु एवं करिष्यति यथा त्वं आणपेसि॥ सो दानि महेन्द्रको मद्रकराजा तान् सप्त धीतरो एकमेकां सुवर्णप्रतिमण्डितां कृत्वा एकमेकां सुवर्णसहस्रप्रतिमण्डितां कृत्वा एकमेका एकमेकस्य राज्ञो धीता दिन्ना महता राजानुभावेन महता राजऋद्धीये सन्धी च कृता पुत्रपौत्रिका॥ ते दानि सप्त राजानो महेन्द्रकेन मद्रकराज्ञा महता सत्कारेण सन्मानेन स्वकं स्वकं राज्यं प्रेषिता॥ गच्छन्तु भवन्तो स्वकं स्वकं राज्यं कारापेथ॥ 


p. 491


सो दानि राजा कुशो तेहि राजेहि विसर्जितेहि कत्यहकालं वसित्वा श्वशुरकं महेन्द्रकं मद्रकराजानमामन्त्रयति। महाराज आमन्त्रेमि अहं पि स्वविषयं गच्छामि॥ महेन्द्रो मद्रकराजा आह॥ पुत्र मा गच्छाहि मम ते जीवितं दत्तं सर्वं मे राज्यं संशयातो मोचितं। अहं जीर्णो वृद्धो महल्लको गतयौवनो। अहं पिता त्वं पुत्रो त्वं राज्यं करोहि मा गच्छाहि॥ राजा कुशो आह॥ महाराज चिरं मे आगतस्य राज्यं मे असंस्थितको माता मे उत्कण्ठिष्यति आमन्त्रेमि गच्छामि॥ महेन्द्रको मद्रकराज आह॥ अत्यवश्यं गच्छसि॥ राजा कुशो आह॥ महाराज अत्यवश्यं गच्छामि॥ सो दानि महेन्द्रको मद्रकराजा धीतां सुदर्शनां शब्दावित्वा संदिशति॥ पुत्रि पराक्रमयुक्तो तव भर्ता राजा कुशो एवं महाबलो महानुभावो येन त्वं च अहं च सर्वराज्यं संशयातो मोचितं यस्य सर्वे राजानो प्रणमन्ति। अरहसि पुत्रि सुदर्शने राजं कुशं भर्तारं प्रेम्नेन च गौरवेण च उपस्थिहेसि॥ सा दानि सुदर्शना तं पितुर्वचनं प्राञ्जलिं कृत्वा साधूति प्रतिश्रुत्वा सो दानि राजा महेन्द्रको मद्रकराजा तां धीतां सुदर्शनां राज्ञो कुशस्य दत्त्वा महता सत्कारेण महता समुदयेन चतुरंगेन बलकायेन हस्तिकायेन अश्वकायेन रथकायेन पत्तिकायेन स्वकं राज्यं विसर्जितो। गच्छ पुत्र स्वकं राज्यं॥

सो दानि राजा कुशो स्वकं राज्यं गच्छन्तो सोद्यानस्य अधिष्ठानस्य उपवने आवासितो तत्र महापदुमसरो। राज्ञा कुशेन तत्र पदुमसरे स्नायन्तेन उदकस्मिं आत्मनो प्रतिबिम्बं दृष्टं यदृशो दुर्वर्णो दुर्दृशो अपश्यनीयो। दृष्ट्वा च पुनः स्वकं शरीरं अप्रियं संवृत्तं एतदुवाच॥ स्थानं व यं महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना परिभवति मे विरूपेण दुर्वर्णेन दुर्दृशेन समुच्छ्रयेण यन्नूनं अहमा -


P. 492

त्मानं उपसंक्रमेयं॥ सो दानि आत्मानं च उपक्रमेण मारितुकामः॥ शक्रेण देवानामिन्द्रेण त्रायस्त्रिंशे भवने समन्वाहृतो यथा राजा कुशो आत्मानं उपसंक्रमेण मारितुकामो॥ तस्य शक्रस्य एवं भवति। एषो राजा कुशो बोधिसत्वो सर्वसत्वानां हितसुखाये प्रतिपन्नो। सो दुर्वर्णो दुर्दृशो ति कृत्वा आत्मानमुपसंक्रमितुकामः मारेष्यति सर्वलोके अनर्थो भविष्यति॥ सो दानि शक्रो देवानामिन्द्रो दिव्यस्य लोहितमुक्तिकस्य एकावलिकाय मध्ये ज्योतिरसं नाम दिव्यं मणिरत्नं तं गृह्लीयान वैहायसमन्तरीक्षे स्थितो राजं कुशमामन्त्रयति॥ महाराज मा आत्मानमुपक्रमाहि अपि तु इमामेकावलिकां ज्योतीरसरत्नं शीर्षे आबद्धाहि। ततः एतेन आबद्धेन सर्वे जम्बुद्वीपे न कोचि पुरुषो वर्णरूपेण समसमो भविष्यति। अपि तु यथा इच्छसि पौराणकं वर्णरूपं ततो तामेकावलिकां ज्योतीरसरत्नं वस्त्रेण पिधेहि ततः ते पौराणां वर्णरूपं भविष्यति॥ सो दानि राजा कुशो तत्र पदुमसरे स्नायित्वा विलेपनेहि विलेपित्वा राजार्हाणि वस्त्राणि प्रावरित्वा सा एकावलिका शीर्षे आबद्धा॥ ततो तत्र पदुमसरे स्वकं मुखं निध्यायति याव जानाति अस्ति किंचिद्विशेषो। सो दानि प्रत्यवेक्षन्तो आत्मानं पश्यति प्रासादिकं दर्शनीयं यथा न कोचिज्जम्बूद्वीपे पुरुषो तेन वर्णरूपेण दृष्टपूर्वो। दृष्ट्वा च पुनः राजा कुशो आत्मानं तादृशं उदारवर्णनिभं तुष्टो आत्तमनो संवृत्तो। न मे भूयो महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना परिभविष्यति अन्यो वा कोचिद्दृर्वर्णो ति कृत्वा॥

सो दानि राजा कुशो स्वकेद्वारमूले स्थित्वा प्रविश्यामीति। ततो दौवारिकेहि


p. 493


वारीयति को सि त्वं पुरुष यो राजकुलं इच्छसि धर्षयितुं। न त्वं जानसि राजा कुशो दुरासदो द्र्ष्प्रसहो मा इमं मुहूर्तं अनयव्यसनमापद्यसि॥ सो दानि राजा कुशो आह॥ अहन्ते स्वामी अहन्ते राजा कुशो॥ द्वारपाला आहम्सुः॥ किं वयं राजं कुशं न प्रत्यभिजानाम यादृशो राजा कुशो। भद्रमस्तु यदि राजा कुशो एदृशो भवेया ततो परमेण अनुग्रहेण अनुगृहीता भवेमः सर्वराज्यं च इक्ष्वाकुकुलं एवंरूपेण राज्ञा प्रासादिकेन दर्शनीयेन उत्तमेन वर्णरूपेण समन्वागतेन॥ ततः राज्ञो कुशस्यैवं भवति। न मम एषो प्रत्यभिजानाति॥ सो दानि राजा कुशो एकावलिकाज्योतीरसरत्नं स्वकेन वस्त्रेण अपिधेति। सो दानि द्वारपालो राजं कुशं स्वकेन रूपेण दृष्ट्वा भीतो सन्त्रस्तो प्रणिपतितो॥ महाराज वयं न जानामः महाराजा तुवन्ति॥ सो दानि राजा कुशो राजकुलं प्रविशित्वा देवीये अल्लीनो। सा च से देवी वारेति॥ को सि त्वं पुरुष कुतो वा यो राजकुलं धर्षितुमिच्छसि त्वं न जानासि राज्ञो कुशस्य दुरासदं अन्तःपुरन्ति मा राजकुलं धर्षेहि मा अनयव्यसनमापदिष्यसि॥ सो दानि राजा कुशो आह॥ देवि अहन्ते भर्ता अहन्ते कुशो राजा जानाहि॥ सा दानि देवी आह॥ न त्वं मम भर्ता न त्वं राजा कुशो किं वाहं न जानामि यादृशो राजा कुशो वर्णरूपेण। भद्रमस्तु यदि राजा कुशो ईदृशो वर्णरूपेण भवेया। ततो हं परमेण अनुग्रहेण अनुगृहीता भवेयं॥ सो दानि राजा कुशो तामेकावलिकां ज्योतीरसरत्नं पिधेति वस्त्रेण ततः यथापौराणं वर्णरूपं संवृत्तं॥ सा दानि सुदर्शना आह॥ महाराज किस्येमं मायाकारं विदर्शेसि॥ राजा कुशो आह॥ देवी न एषो किंचित् मायाकारो अपि तु अहमात्मानं उपक्रमेण मारेतुकामो। ततः शक्रेण देवानामिन्द्रेण मम एषा एका -


p. 494


वलिका दिन्ना एतं ज्योतीरसरत्नं। महाराज मा आत्मानं मारेहि अपि तु इमामेकावलिकां ज्योतीरत्नं शीर्षे आबद्धाहि ततो सर्वे जम्बुद्वीपे अन्यो पुरुषो वर्णरूपेण सदृशो न भविष्यति। यदि इच्छसि पौराणकं वर्णरूपं ततो तं एकावलिकाज्योतीरसरत्नं वस्त्रेण पिधापेहि ततः ते पौराणकं वर्णरूपं भवति। मम शक्रेण देवानामिन्द्रेणानुग्रहो कृतो॥ सा दानि सुदर्शना देवी आह॥ अनुगृहीतास्मि शक्रेण देवानामिन्द्रेण येन तव एदृशं वर्णरूपं कृतं॥ देवी आह॥ महाराज मा कदाचिदेतं एकावलिकाज्योतीरसरत्नं पिधेहि सर्वकालं ते एदृशमुदाररूपं भवतु। सर्वराज्यस्य सर्वजनकायस्य मनोरमतरो भविष्यसि॥ एवं दानि राजा कुशो एदृशेन वर्णरूपेण देवपुत्रसदृशो मार्गं गच्छति॥

तत्र दानि वाराणस्यां एंकूनपंचकुमारशतेहि सर्वेहि च आमात्येहि सर्वेण च भटबलाग्रेण श्रुतं राजा कुशो आगच्छति। ते सर्वे राज्ञो कुशस्य प्रत्युद्गताः॥ राजापि कुशो हस्तिस्कन्धवरगतो चतुरंगेन बलकायेन परिवृतः आगच्छति॥ ते दानि कुमारा च भटबलाग्रा च राजं कुशं न प्रत्यभिजानन्ति। ते दानि अन्यमन्यं पृच्छन्ति॥ कतमो अयं राजा भविष्यति यो प्रासादिको दर्शनीयो महेशाख्यो उदारेण वर्णरूपेण हस्तिस्कन्धवरगतः आगच्छति कुशो पि राजा न दृश्यति॥ तस्य राज्ञो कुशस्य एवं भवति। न एते मम प्रत्यभिजानन्ति॥ तेन दानि राज्ञा कुशेन एकावलिकाज्योतिरसरत्नं हस्तिस्कन्धवरगतेन पाणिना पिहितं। ततः यथापौराणं वर्णरूपं संवृत्तं॥ ततो ते एकूना पंचकुमारशतानि अमात्या च भटबलाग्रा च राज्ञो  कुशस्य स्वकं वर्णरूपं दृष्ट्वा भीता सन्त्रस्ता मूर्धने प्रणिपतिता राजानमाह॥ जय महाराज न वयं


p. 495


जानामः महाराज एषो ति॥ सो दानि राजा कुशो भ्रातॄणाममात्यानां च भटबलाग्रस्य च एतमर्थं निवेदयति। भवन्तो मम शक्रेण देवानामिन्द्रेण एषाकावलिका ज्योतिरसरत्नं दत्तं एतां शीर्षे आबद्धाहि ततो ते वर्णरूपेण अन्यो पुरुषो सदृशो न भविष्यति॥ ते दानि कुमारा अमात्या भटबलाग्रं च राज्ञो एतदिवाच॥ अनुगृहीता स्म शक्रेण देवानामिन्द्रेणं यं महाराजस्य एदृशं वर्णरूपं संवृत्तं॥ एवं दानि राजा कुशो महता राजानुभावेन महता राजऋद्धीये वाराणसीमागत्वा राजकुलं प्रविष्टो उदारेण वर्णरूपेण तामलिंदां महादेवीमभिवादयित्वा पादौ वन्दित्वा पुरतो स्थितः॥ सा दानि अलिन्दा महादेनी राजानं कुशं न प्रत्यभिजानाति। पृच्छति कहिं पुत्रो कहिं वा राजा कुशो त्ति॥ राजा कुशो आह॥ अम्बे अहन्ते पुत्रो अहं राजा कुशो ति॥ महादेवी आह॥ न त्वं मम पुत्रो न त्वं राजा कुशो त्ति। किमहं राजं कुशं न प्रत्यभिजानामि। किं राजा कुशो केनचि हतो वा मारितो वा यं न दृश्यति॥ अहो अनाथमरणं मम यो मम एकपुत्रस्य विनाभा संवृत्तः॥ सो दानि राजा तां मातरं परिदेवमानां दृष्ट्वा तामेकावलिकां ज्योतीरसरत्नं वस्त्रेण पिधाय यथापौराणं वर्णरूपं संवृत्तं॥ सा दानि अलिंदा महादेवी तं पुत्रं स्वकेन वर्णरूपेण दृष्ट्वा प्रीतिमना संवृत्ता तं पुत्रं पृच्छति॥ पुत्र केन ते एदृशो वर्णरूपो संवृत्तो॥ राजा कुशो आह॥ अम्बे शक्रेण देवानामिन्द्रेण एकावलिका ज्योतीरसरत्नं दत्तं। ततो मे पिनद्धो एतेन मे एदृशो वर्णरूपो संवृत्तो॥ सा दानि अलिंदा महादेवी प्रमुदिता प्रीतिसौमनस्यजाता संवृत्ता। दृष्टो मे पुत्रो एदृशेन उदारेण वर्णरूपेण यथा मे अभिप्रायो। सर्वा च अन्तःपुरिका एदृशं राजस्य उदारं वर्णरूपं दृष्ट्वा प्रमुदिता प्रीतिसौमनस्यजाता संवृत्ता॥ सो दानि राजा कुशो यं कालं तामेकावलिकां ज्योती -


p. 496


रसरत्नं शक्रेण देवानामिन्द्रेण दत्तं बन्धति तं कालं दिव्यो वर्तति यं कालं तं मणिरत्नं पाणिना पिधेति तं कालं पौराणकवर्णरूपो भवति॥ एवं दानि राजा कुशो वारास्यां निहतप्रत्यर्थिको निहतप्रत्यमित्रो उदारेण उपभोगपरिभोगेन राज्यं कारयति॥

अथ खलु भगवान्स्तस्मिं समये चतसृणां पषदां पुरतः अन्यस्य च महाजनकायस्य इमां गथामध्यभाषे॥

एवं पुण्यवन्तस्य अर्था सर्वे भोन्ति प्रदक्षिणाः।

यथा राजा कुशो भार्याय ज्ञातीहि च समागतः॥

स्याद्वो भिक्षवः एवमस्यादन्यो सो तेन कालेन तेन समयेन कुशो नाम राजा अभूषि। अन्यथा द्रष्टव्यं। अहं स तेन कालेन तेन समयेन राजा कुशो अभूषि। अन्यः स महेन्द्रको मद्रकराजा अभूषि। नैतदेवं द्रष्टव्यं। एषः सो महानामः शाक्यो। अन्या  सा अलिन्दा नाम महादेवी। न एतदेवं द्रष्टव्यं। एषा मायादेवी। अन्या सा सुदर्शना। नैतदेवं द्रष्टव्यं। एषा सा यशोधरा॥ स्याद्वो भिक्षवः एवमस्यात्। अन्यः स तेन कालेन तेन समयेन तेषां सप्तानां राज्ञा यो ज्येष्ठो दुर्मतिर्नाम। नैतदेवं द्रष्टव्यं। एषो सो मारो पापीमां। ते पि अन्ये राजानो मारपर्षा। तदापि मया उक्काशनशब्देन एषो मारो पापीमां सबलो सवाहनो भग्नो एतरहिं पि मया भिक्षवः बोधिमूले उक्काशनशब्देन एषः मारो पापीमां सबलो सवाहनो भग्नो॥



uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project