॥विमलरत्नलेखः॥
भारतभाषायाम्
विमलरत्नलेखो नाम।
भोटभाषायाम्
द्रि म मेद् प रिन् पो छे-इ फ्रिन चेस व्य व।
गुरुवे नमः।
तारादेव्यै नमः॥
(1)
महागति(?)कायं दृष्ट्वा
बर्द्धयन् बुद्धशासनम्
धर्मेण पालयन् राज्यं
नयपालो नृपोऽभवत्॥१॥
त्वय पूर्व्वं दानं
दश कुशलानि पोषधः।
क्षान्तिर्वीर्यञ्चाभ्यस्तमिति
देव त्वमधुना सम्पन्नः॥ २॥
(2)
गुरुणामाज्ञां
धम्मानुगतं सूत्रादिकञ्चेदम्।
भक्त्या शिरसा गृहाण
आत्मपरयोर्हितं भवेत्॥३॥
विवर्जयन् सर्व्वसंशयं
सिद्ध्ये कुरु महायत्नम्।
निद्रालुत्वं तन्द्राञ्च विवर्जयन्
नित्यमुद्यमं कुर्या वीर्याय॥४॥
(3)
स्मृतिज्ञानाप्रमादेन
सदेन्द्रियद्वाराणि रक्षेत्।
अहोरात्रं पुनःपुन-
श्चित्तसन्तानं परीक्षेत॥ ५॥
स्वदोषज्ञानं चक्षुरिव कुर्यात्
परदोषज्ञानं त्वन्धवत्।
स्मृतिमनहङ्कारं
शून्यताञ्च सदा भावयेत्॥६॥
(4)
कुर्यात् स्वदोषकीर्त्तनं
नापरस्य भ्रान्तिमनुसन्दध्यात्।
कीर्त्तयेदपरस्य गुणं
आत्मगुणन्तु गोपयेत्॥७॥
त्यजेल्लाभं सत्कारञ्च
नित्यमात्मख्यातिं त्यजेत्।
मैत्रीं करुणाञ्च भावयेद्
बोधिचित्तं स्थिरं कुरु॥८॥
(5)
दशाकुशलानि हेयानि
सदा श्रद्धा दृढीकार्या।
मनागपि प्रियं सन्तोषः
कृतानुकम्पा च स्मर्त्तव्यम्॥ ९॥
क्रोधो गर्वञ्च प्रहातव्यं
कार्या च हीनचित्तता।
मिथ्याजीविका विवर्जनीया
धर्मजीविका जीवितव्या॥१०॥
(6)
सर्वमामिषं विवर्जयेद्
आर्यधनेन (आत्मानं) सम्पन्नं कुर्य्यात्।
सदा समाजं त्यजेद्
अरण्ये निवसेत्॥११॥
त्यजेद् वाचमसम्बद्धां
नित्यं स्यात् शुद्धसंयतः।
गुरूपाध्यायदशने
श्रद्धया परिचर्यां कुर्यात्॥१२॥
विशिष्टे पुरुषे
धर्मचक्षुषि पुद्गले।
आदिकर्म्मिकसत्त्वेषु च
शास्तृसंज्ञामुत्पादयेत्॥१३॥
(7)
दुःखतप्तानां
सर्व्वेषां सत्त्वानाञ्च दर्शने।
बोधिचित्तमुत्पाद्य
मातृपितापुत्रसंज्ञाञ्चोत्पादयेत्॥१४॥
सर्वं लोककृत्यं त्यक्त्वा
नित्यं समाधिभावनां कुरु।
त्यज पापमित्रं
कल्याणमित्रमा_य॥१५॥
(8)
दुःशीलभिक्षूणाम्
अन्येषां धर्म्महीनानाम्।
पापाचाराणाञ्च दर्शने
तेषां निग्रहान्न विरमेत्॥१६॥
सर्व्वेरकल्याणमित्रैः
सर्व्वैः पापसहायैः।
रत्नत्रये गुरा-
वुपाध्याय आचार्ये च श्रद्धाहीनैः॥ १७॥
(9)
अकृतज्ञै-
रैहिकबुद्धिभिः।
परत्राल्पश्रद्धैश्च
दिनत्रयातिक्रमेण न वसेत्॥१८॥
दुष्टामशुभां भूमिं परित्यज्य
यत्र शुभं गन्तव्यम्।
यत्र रागस्तत् परित्याज्यम्
अनासक्तं वसेत्॥ १९॥
रागो हि सुगतिमप्रापयन्
मोक्षजीवनं छीनत्ति।
यत्र कल्याणमित्रं वसति
तत्र नित्यं वसेत्॥ २०॥
(10)
गुरुं सदाश्रित्य
नित्यं सूत्रनिकायमवलोकयेत्।
आदौ यदारब्धं
प्रथमं तदेव साधयितव्यम्।
अन्यथा नोभयं सिध्यति॥२१॥
अन्येषु पापदेशनायां
परमपुण्ये च यतेत।
वृत्तानुकूलं लोकं
सदा परलोकचित्तञ्च रक्षेत्॥२२॥
(11)
यदा चित्तमुन्नतं जायते
तदा गर्वं छिन्द्यात्।
अप्रमादविरहे
गुरूपदेशः स्मर्त्तव्यः॥ २३॥
लीनचित्ते जाते
चित्तोन्नतिमपि प्रशंसेत्।
स्मृत्वा प्रज्ञापारमितां
निखिलप्रपञ्चोपशमं कुर्यात्॥२४॥
(12)
यदा रागद्वेषविषयो जायते
मायाप्रपञ्चवत् पश्येत्।
निन्दावाक्यश्रवणे
प्रतिश्रुत्कावज्जानीयात्॥२५॥
(13)
कायपीडोद्भवे
पूर्वकर्मावलोकयेत्।
प्रान्तारण्ये प्रवसन्
मृगशववत्॥ २६॥
यत्र केनापि न ज्ञायते
[ तत्र] आत्मनात्मानं गोपयेत्।
सदेष्टदेवतामाश्रयेत्
कामे व्यापादे मिद्धे स्त्याने॥ २७॥
आलस्ये तन्द्रायाञ्च यदा चित्तमुत्पद्यते
तदा स्वपापं गणयेत्।
व्रतं हृदि स्मरेद्
अनित्यतां मृत्युञ्च भावयेत्॥ २८॥
अन्यस्य पुरतोऽवस्थानकाले
शान्तमृजु च भाषेत।
भ्रूकुटिमुखेन हास्यं प्रहातव्यं।
सदा स्मितेन स्थातव्यं
नित्यमन्येषु प्रीतिश्च कार्या॥२९॥
(14)
अमात्सर्येण त्यागे प्रीतिं कुर्यात्।
नित्यमीर्ष्या प्रहातव्या।
अन्यस्य चित्तं रक्षेत्।
सर्व्वे वादाः प्रहातव्याः॥ ३०॥
परिचयेन विना नूतनेन सङ्गं न कुर्यात्।
सदा मन्त्रे समर्थः स्यात्।
सदा क्षान्तिमान्
अल्पकामश्च सन् सन्तोषं कुर्यात्॥३१॥
(15)
चण्डालदाससंज्ञः स्यात्
लज्जाज्ञानेऽपत्रपायां।
तस्यां परलोकाराधनायाञ्च यतेत।
आत्मसंयमं कुर्यात्॥ ३२॥
परावज्ञा प्रहातव्या
श्रद्धाशीलेन तिष्ठेत्।
परोपदेशकरणे
कारुण्योपकारचित्तः (तत्) कुर्यात्॥३३॥
(16)
बुद्धधर्म्मे श्रद्धां
सद्धर्म्मञ्च न जातु त्यजेत्।
नित्यं रत्नत्रये श्रद्धां
संसारत्रयं च परिशुद्धं कुर्यात्॥ ३४॥
पूर्वं करुणागतो
ऽहोरात्रं त्रिकृत्वः।
प्रसिद्धस्याराधनासप्तकस्य
स्कन्धत्रयं गृह्णीयात्॥३५॥
जगद्दुःखनिराकरणकाम
उदारप्रणिधानं स्थापयेत्।
सत्त्वपरिपाकं बोधिञ्चेच्छेत्।
सर्वं महाबोधौ परिणमयेत्॥ ३६॥
(17)
चिरं प्रतिज्ञाय
सदोद्योगी भवेत्।
एवं कृते द्विवर्गः
सम्पद्यत आवरणद्वयञ्च क्षीयते॥३७॥
नरदेहलाभः सार्थको भवति।
दृष्टधर्म्मे निर्व्वाणं भवति।
स्वपरार्थः सम्पद्यते।
परमतत्त्वं च प्राप्यते॥ ३८॥
(18)
निदाघकोकिलपोतः मधुरं कूजतीति
किं मयूरपोतो न मधुरं कूजति।
यद्यपि बहुभिः पण्डितैरुक्तं
(तथापि) राज्ञां व्यसनच्छेदाय लिखितमिदम्॥३९॥
_____ कथां श्रेयोऽभिप्रायेण कुरु।
अन्यस्मायपि मतिमते जनाय कथय।
(19)
नित्यं षड्देवताः स्मर शुद्धं व्रतमाचर।
राजं धर्म्मेण पालय आत्मानं च क्षमं कुरु॥ ४०॥
विमलरत्नलेखो नाम
स्थविरमहापण्डितदीपङ्करश्रीज्ञानाद्
राज्ञे नयपालाय प्रेरिता श्लोकचत्वारिंशत् सम्पूर्णा॥
तस्मिन्नेव काले तेनैव गुरुणा
परिवर्त्तकेन भिक्षुणा जयशीलेन च परिवर्तिता
श्लोकचत्वारिंशत्॥
(20)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project