विशालामलवती प्रमाणसमुच्चयटीका
Chapter 2
द्वे एव प्रमाणे प्रत्यक्षमनुमानं चेत्युक्तम्। तत्र प्रत्यक्षं व्युत्पादितम्।
सम्प्रति प्राप्तावसरमनुमानं व्युत्पादयितुमाह- अनुमानं द्विधेत्या-
दि। स्वार्थम् येन स्वयं प्रत्येति। परार्थम् येन यरान् प्रत्याय-
यति॥
ननु परार्थस्य लक्षण पृथगवाच्यमेव। गमकलक्षणविधानेनैव हि
प्रतिपिपादयिषोर्वचनानुक्रमो दर्शित एव अन्यथाभिधाने गमकध-
र्माद्योतनात्। न हि ये यथा यमर्थं विदन्ति वचनज्ञाः ते तत्प्रति-
पादने पुनरुपदेशान्तरमपेक्षन्ते॥
सत्यमेतत्। तथापि बालव्युत्पादनार्थोऽयमारम्भः। यथावस्तु
प्रतिपाद्यमाना अपि ह्यन्यथा निगदन्तो दृष्टाः उपयोगिनोऽप्यवि-
नाभावस्यावचनादनुपयोगिनामपि च साध्योपनयनिगमनानां प्रयो-
गात्॥
त्रिरूपादिति हेतौ पञ्चमी अभिघाताच् छब्द इति यथा। अथ व
ल्यब्लोपे यथा प्रासादमारुह्य प्रेक्षते प्रासादात् प्रेक्षते। तथा त्रिरूपं
लिङ्गं दृष्ट्वार्थदर्शनम्- त्रिरूपाल् लिङ्गतोऽर्थदृगिति॥
(1)
ननु त्रिरूपग्रहणमनर्थकम् अत्रिरूपस्यालिङ्गत्वात्। किं च ली-
नोऽर्थो लिङ्ग्यतेऽनेनेति लिङ्गम्। तच् च त्रैरूप्यं विना न सम्भवति।
अतोऽपि गतार्थत्वात् त्रिरूपादिति न वाच्यम्॥
नैष दोषः। अत्रिरूपमपि केचिल् लिङ्गमिच्छन्ति। अतस् तद्विप्र-
तिपत्तिनिवृत्तये त्रिरूपग्रहणम्॥
तत्राह्रीक आह-
अन्यथानुपपन्नत्वं यस्यासौ हेतुरिष्यते।
एकलक्षणकः सोऽर्थश् चतुर्लक्षणको न वा।
इति। अन्यथेति साध्येन विनेत्यर्थः। अनुपपन्नत्वमक्लृप्तिरसम्भवः।
ननु चाविनाभावित्वमेवेदं स्यात्। नेत्यह्रीकः। अविनाभावित्वं हि सा-
ध्याद् बहिरिष्यते अन्यथानुपपन्नत्वं तु धर्मिण्येव साध्य एवेति।
श्लोकमप्याह-
विना साध्याददृष्टस्य दृष्टान्ते हेतुतेष्यते।
परैर्मया पुनर्धर्मिण्यसम्भूष्णोर्विनामुना॥
(2)
इति। एतच् चैकमेव रूपम्। सति व त्रैरूप्येऽन्यथानुपपन्नत्वं चतुर्थं
रूपमेष्टव्यम्। त्रैरूप्यमात्रे हि स देशान्तरगतः श्यामः चैत्रपुत्र-
त्वादित्यस्यापि हेतुत्वं स्याद् इति॥
तत्र यदुक्तम्- अविनाभावित्वं हि परैः साध्याद्बहिरिष्यत इति
एषोऽध्यारोपः। सर्वोपसंहारेण हि यत्र यत्र साधनधर्मः तत्र तत्र
साध्यधर्म इत्यषा व्याप्तिरविनाभावित्वम्। अतः साध्येऽपि तदिष्यत
एव। यदि च साध्यधर्मिण्येव यः साध्यधर्मेणाविनाभावी स हेतुरि-
ष्यते एवं सति यस्य बहिरपि साध्येनाविनाभावस् तस्य हेतुत्वं न
स्यात्। व्यभिचार्यपि च हेतुः स्यात् तस्यापि धर्मिण्यन्यथानुपपन्न-
त्वस्य सम्भवात्। तस्मादयुक्तमेतत्। अत एवास्यायुक्तत्वान् न चतु-
र्लक्षणो हेतुरुपपद्यते॥
यत् पुनरुक्तम्- त्रैरूप्यमात्रे हि स स्यामः चैत्रपुत्रत्वादित्य-
स्यापि हेतुत्वं स्यादिति तदयुक्तम्। स्वभावकार्यानुपलम्भविशे-
(3)
षाणामेव हि त्रैरूप्यमुपपद्यते नान्येषाम्। न चायं तेष्वन्तर्भवति।
तत कुतः स प्रसङ्गः॥
अन्यस् तु द्विरूपो हेतुरिति दर्शयन्नाह-
अज्ञातो धर्मिणो धर्मो धर्मे सन्नेव यत्र हि।
ज्ञायते ज्ञाप्यते चैष हेतुर्विधिनिषेधवान्॥
इति। अज्ञातो धर्मो जिज्ञासितोऽनित्यत्वादिर् धर्मिणः शब्दादेर्यत्र
ज्ञायते कृतकत्वादौ धर्मे। ज्ञातत्वं सामर्थ्यलभ्यम्। सन्नेवेति प्रमात्रा
घटादिषु स्वयं स्मर्यते परो व स्मार्यते परार्थानुमाने। सन्नेव नास-
न्नित्येतौ विधिनिषेधौ यस्य स्तः स विधिनिषेधवान्हेतुः। एतेन
धर्मिधर्मत्वं सत्साध्यधर्मत्वं चेत्येतद् द्वैरूप्यमुक्तम्॥
अत्र साध्यधर्मो यत्र सन्नेव नासन्निति ब्रुवता तदेवान्वयव्यतिरे-
कवत्त्वमुक्तं भवति यस्मादेवं स तत्र सन्नेव भवति यदि तदभावे
हेतुर्न भवत्येव। ततश् च त्रैरुप्यमेवाकारान्तरेणोक्तमिति न द्विरूपो
हेतुः॥
(4)
षड्लक्षणो हेतुरित्यपरः। त्रीणि चैतानि- अबाधितविषयत्वं विव-
क्षितैकसङ्ख्यत्वं ज्ञातत्वं चेति। तत्राबाधितविषयत्वं तावन् न रूपान्त-
रम् बाधाविनाभावयोर्विरोधात्। अविनाभावो हि हेतोः साध्यधर्मे
सत्येव भावः। कथं च स तल्लक्षणो धर्मिणि हेतुः स्यात् न चात्र
साध्यधर्मो भवेत्। तेन् न बाधाविनाभावयोः सहभावः। तेन नाबा-
धितविषयत्वं रूपान्तरम्॥
व्यवच्छेद्याभावाद् विवक्षितैकसङ्ख्यत्वमपि न लक्षणान्तरत्वेन वा-
च्यम्। तद् विरुद्धाव्यभिचारिणो हेतुत्वप्रसङ्गनिवृत्त्यर्थमुच्यते। स्व-
लक्षणयुक्तयोश् च हेत्वोरेकत्र विरोधिनोरुपनिपाते विरुद्धाव्यभि-
चारित्वं भवति। न च यथोक्तलक्षणानां कार्यस्वभावानुपलम्भानां
प्रत्यनीको हेतुः सम्भवति। कथं हि नाम एकः स्वसाध्यभाव एव
भावात् तेनाव्यभिचारी तत्रैव चान्योऽपि तद्बाधकस्य भाव एव
भावाद् विरुद्धस् तेन सम्भवेत्। अपि च स हेतुर्यदि स्वभावत एव
तद्धर्मभावी तदार्थान्तरोपनिपातेऽपि कथमन्यथा स्यात्। न हि
(5)
वस्तूनां स्वभावान्यथाभावस्य विरुद्धस्वभावद्वयस्य च सम्भवः।
अथ स्वभावतोऽतद्धर्मभावी एवं सत्यन्यदापि न साधनं कस्यचित्।
तस्मात् स्वभावत एव स्वसाध्याविनाभाविनो यथोक्तलक्षणस्य
हेतोस् तल्लक्षणः प्रतिहेतुर्न सम्भवतीत्यलक्षणमेकसङ्ख्याविवक्षा।
विरुद्धाव्यभिचार्यवचनप्रसङ्ग इति चेत् वस्तुबलप्रवृत्तं लिङ्गं प्रतीष्ट-
त्वाददोषः। विषयश् चास्य परस्तान् निवेदयिष्यते॥
ज्ञानं पुनरलिङ्गधर्मः। कथं लिङ्गस्य लक्षणं स्यात्। किंरूपाल्
लिङ्गादर्थः प्रतिपत्तव्य इति चिन्तायां प्रतिपत्तुरविसंवादकस्य रूपमु-
च्यते यद्दर्शनादयं साधनासाधने प्रविवेच्य तस्येष्टार्थसाधनप्रत्ययात्
प्रवर्तते। तत्र यदस्य लिङ्गस्यात्मरूपम् तल् लक्षणम् न पररूप-
म् प्रतिपत्तिजन्मन्युपयोगमात्रात् तल्लक्षणत्वेऽतिप्रसङ्गात्। एवं हि
प्रमेयपुरुषादीनामपि तल्लक्षणत्वं स्यात्। न हि तेष्वप्यसत्सु लिङ्गिनि
(6)
ज्ञानं भवति। तस्माज् ज्ञानमपि न लिङ्गलक्षणमेष्टव्यमिति स्थितमे-
तत्- त्रिरूप एव हेतुरिति॥
पूर्ववत् फलमिति। यथा प्रत्यक्षे द्विधा फलमुक्तं विषयसंवित्तिः
स्वसंवित्तिश् च तथेहापि प्रत्यक्षवदव्यतिरिक्तमनुमानस्याधिगमा-
त्मकं फलमिति ब्रुवतानुमानमप्यधिगमस्वभावमित्युक्तं भवति॥
अतः पृच्छति- यदि द्वयमपीत्यादि। अर्थस् तु रूपं चातुल्य-
मेतयोरिति। तुशब्दोऽवधारणार्थः- एतदेव द्वयमतुल्यम् अधिग-
मरूपता तु तुल्येति। ननु चाधिगमस् तयो रूपम्। तच् चेदभिन्नम्
तत् किमन्यद्रूपम् यदुच्यते- रूपं चातुल्यमेतयोरिति। यत्
तद्विषयसारूप्यं प्रमाणं व्यवस्थापितम् तदतुल्यमित्युक्तम्। तथा
हि- तत् प्रत्यक्षस्य स्पष्टम् अस्पष्टं त्वनुमानस्य॥
विषयो हीत्यादि। विषयशब्देनात्रालम्बनं विवक्षितम् न तु प्रा-
माण्यस्य विषयः। अनुमानस्यापि ह्यविसंवादलक्षणं प्रामाण्यं वस्तु-
विषयमेव। तस्मादालम्बनभेदात् प्रमाणयोर्विषयभेदमाह। कथं पुन-
रालम्बनभेदः। प्रतिभासस्य भिन्नत्वात्। न हि तावेकस्य विलक्षणा-
वाकारौ युज्येते। भिन्न इति चाभिन्नप्रतिषेध एव द्रष्टव्यः न तु ना-
(7)
नाविषयता अनुमानविकल्पस्य निर्विषयत्वात्। तच् च अनुमान-
स्य सम्मतो यो विषयः तस्य तत्त्वतोऽपरिनिष्पन्नत्वात्॥
तदाकारविशेषाच् चेति। तदिति प्रत्यक्षानुमानयोर्विषयः
परामृश्यते। तस्याकारः स्वभावः आक्रियते परिच्छिद्यत इति
कृत्वा। तदाकारस्य विशेषो भेद इत्यर्थः। विशेषग्रहणं चाविशेषप्र-
तिषेधप्रतिपादनपरं वेदितव्यम्। न तु नानास्वभावतानेन प्रतिपद्यते
सामान्यस्य विकल्पितत्वेनासत्त्वात्। तदेतत् सूचितं भवति- यस्मात्
प्रत्यक्षस्य बहिर्विषयोऽस्ति यतस् तस्य स्पष्टो विषयप्रतिभासो
भवति न त्वनुमानस्य यस् तु तस्यास्फुटो विषयाकारः स स्व-
बीजबलादेव जायते तस्मात् प्रत्यक्षानुमानयोर्यथोक्तं स्वरूपं भिन्न-
मिति। अथ वा प्रत्यक्षस्य स्वलक्षणं साक्षात् स्पष्टस्वाकारजनकं
प्रमेयं स्वरूपेण अनुमानस्य तु तदेव पारम्पर्येणास्फुटविषया-
कारजनकं पररूपेण प्रमेयम्। प्रत्यक्षस्यापि पररूपेणेत्यपरे। तदेवं
यतः प्रत्यक्षानुमानयोर्भिन्नो विषयः अतस् तत्स्वभावविशेषात्
स्पष्टास्पष्टविषयाकारतया स्वरूपमपि भिन्नमिति॥
(8)
अथ कस्मादिति। किं कारणं स्वार्थपरार्थभेदेनानुमानमेव द्विधा
भिद्यते न तु प्रत्यक्षमित्यवधारणेन दर्शयति। एतदुक्तं भवति-
स्वयं प्रत्यक्षीकृतस्यार्थस्य परावबोधनाय यद् वचनम् तत् परार्थं
प्रत्यक्षं द्वितीयं कस्मान् नेष्यत इति॥
यस्मादित्यादि। अनुमानस्य हि सामान्यं विषयः। तत्र च यादृ-
शमनुमानमात्मनः तादृशमेव परसन्ताने वाचा क्रियत इति युक्तं
तस्य द्वैविध्यम्। प्रत्यक्षस्य तु स्वलक्षणं विषयः। न च तत्र यादृश-
मात्मनः प्रत्यक्षज्ञानम् तादृक् शब्देन सन्तानान्तरे जनयितुं श-
क्यते तस्यानिर्देश्यत्वात्। अन्यथान्धादीनामपि शब्दात् तथाविघ-
मेव स्फुटप्रतिभासि ज्ञानं स्यात्। कस्मात् तदनिर्देश्यमित्याह-
ग्राह्यभेदादिति। प्रत्यक्षस्य ह्यसाधारणं ग्राह्यम्। न च तच् छक्यते
निर्देष्टुम् तस्य पूर्वमदृष्टत्वात्। अनुमानस्य तु तद्विपरीतम्। तस्मात्
तस्यैव ग्राह्यं निर्देश्यम् न प्रत्यक्षस्य॥
स्वात्मवदित्यनेनैतत् सूचयति- प्रत्यक्षानुमानयोः स्वरूपं
भिन्नम्। प्रत्यात्मवेद्यमेतत् सर्वस्य। न चाभिन्नविषयत्वे स्वविषया-
कारमनुकुर्वतोस् तदुपपद्यते। तस्माद् यथा तयोः स्वरूपं भिन्नम्
(9)
तथा विषयभेदोऽपि द्रष्टव्यः। ततो नानुमानवत् प्रत्यक्षस्य विषयो
निर्देश्य इति॥
अन्ये त्वाहुः - वृत्तभङ्गभयादत्र यत् पश्चाद् वक्तव्यम् तत् पूर्वमु-
क्तम्। तस्मादेवमथ ग्रन्थो विज्ञेयः- कस्मादनुमानमेव द्विधा भि-
द्यते न प्रत्यक्षमिति पृष्टे कारणमाह- ग्राह्यभेदादित्यादि। यदि
ग्राह्यभेदादनुमानं द्विघा भिद्यते एवं सति प्रत्यक्षमपि द्विधा भिद्ये-
तेत्याह- स्वलक्षणमनिर्देश्यमिति। एतदुक्तं भवति- ईदृशमिदं
प्रत्यक्षानुमानयोर्ग्राह्यमिष्यते यत्रैकं निर्देश्यमन्यदनिर्देश्यमिति।
तस्मादनुमानमेव द्विधा भिद्यते यस्य विषयो वाचा परस्मै प्रतिपा-
दयितुं शक्यते न तु प्रत्यक्षमिति॥
ननु चार्थस् तु रूपं चातुल्यमेतयोरित्यनेन प्रागेव प्रमाणयोर्विष-
यभेदः प्रतिपादितस् तद्भेदाच् च स्वरूपभेदः। तत् किमिदमुपन्य-
स्तम्- भिन्नं हि प्रत्यक्षानुमानयोः स्वात्मवद् ग्राह्यमित्यादि।
पूर्वमन्यार्थोऽयमर्थ उक्तः इदानीमन्यार्थ इत्यदोषः॥
यदि चेत्यादिना स्वलक्षणस्यानिर्देश्यत्वं प्रतिपादयति। स तेनैव
शब्देनानुमेयः स्यादिति स एव प्रत्यक्षग्राह्योऽर्थस् ततः शब्दात्
(10)
प्रतीयेतेत्यर्थः। न चैवम्। मा भूदन्धादेरपि प्रत्यक्षेणैव तस्यार्थस्य
दर्शनमिति। परस् तु जाड्यादिमं दोषमनवगच्छन् स्वयमभ्युपगत-
प्रमाणैकविषयत्वस्य दृष्टानुविधायितां दर्शयन्निष्टमेवं मे तदिति ननु
चेत्यादिना सूचयति। स्पर्शो हि प्रत्यक्षस्यार्थः। स एव च रूपेणानु-
मीयत इति मन्यते। कदाचिदिति यदा स्पर्श इन्द्रियेण न स्पृश्यते
तदेत्यर्थः। न तु यथा प्रत्यक्षमिति। प्रत्यक्षं हि भेदान्तरविमर्शवि-
वेकेन प्रतिष्ठितेनैव रूपेण स्पर्शं परिच्छिनत्ति अनुमानं तु स्मार्ता-
कृष्टपूर्वानुसन्धानतः- सोऽयं मया पूर्वमनेन रूपेण सह प्रागुपल-
ब्ध इति स्पर्शसामान्यमस्पर्शव्यावृत्तम्। तद् यथेति पूर्वदृष्टानुस-
न्धाने दृष्टान्तमाह। यथा रूपं न प्रत्यक्षतो गृह्यत इत्येव स्वलक्षणा-
कारेण लिङ्गं भवति विशेषस्यानन्वयात् अपि तु सामान्याकारेणैव
पूर्वदृष्टानुसंहितेन तथा न स्पर्शः पूर्वप्रत्यक्षेण गृहीत इत्येव स्वल-
क्षणतोऽनुमेयः किं तु सामान्याकारेणैवानुमानयोग्येनेति
दर्शयति॥
(11)
कथं दृष्टादिव्यवहार इति। यदि यथानुभूतमाचक्षते एवंव्यव-
हारा आर्या युज्यन्ते। त्वन्मतेन तु स्वलक्षणमुपलभ्यान्यदेव कथयतां
व्यवहारा अनार्याः स्युः। ततश् चाभ्युपेतबाधा॥
दृष्टमित्यादिनैतत् कथयति - दर्शनादिक्रियानिमित्ता दृष्टादिश-
ब्दाः। ते च सति स्वस्मिन्निमित्ते आर्यैः प्रयुज्यन्ते नासतीत्यार्या
व्यवहारा अभ्युपेयन्ते न तु स्वलक्षणाभिधानादिति नाभ्युपेतबाधे-
ति॥
यत् तर्हीत्यादि। शास्त्रविरोधमाह। ननु च नैव चक्षुर्विज्ञाना-
नुभूत एव क्षणो मनोविज्ञानेनानुभूयते। किं तर्हि। क्षणान्तरमित्युक्तं
प्राक्। तत् कथमेवमुक्तम्। नैष दोषः। चक्षुर्विज्ञानानुभूतमेवार्थम्
इति स्वलक्षणोपलक्षणपरमेतत् स्वलक्षणमेवेति यावत्। तुल्यजा-
तीयत्वाच् च पूर्वोत्तरयोः क्षणयोरभेदविवक्षयैवमभिहितं स्यात्। अथ
वानुशब्दोऽयं सहार्थे वर्तते भूतशब्दोऽप्युत्पन्ने। ततश् च चक्षुर्वि-
ज्ञानेन सहोत्पन्नमेवार्थं विजानातीत्ययमत्रार्थ इत्यदोषः। यदि यत्
(12)
तन्मनोविज्ञानानुभूतं स्वलक्षणम् तदनिर्देश्यम् कथं मनो नीलं
च विजानाति नीलमिति चाविष्टाभिलापं तदेव। तत्रापीति शास्त्रे।
आकारान्तरविर्देश्यनामज्ञत्वादित्यादि। स्वलक्षणाकारादाका-
रान्तरं सामान्याकारः। तेन निर्देश्यम् न स्वलक्षणेन। तस्य नाम
नीलमितीयं सञ्ज्ञा। तच् च विजानाति न केवलं स्वलक्षणम्।
तस्माद् द्विधा शास्त्रे मन इष्यते॥
अनीलव्युदासेनेति तमाकारान्तरं दर्शयति। व्यवहर्तॄणामभिप्रा-
यानुरोधादनीलव्युदासेनेत्युक्तम्। ते हि तत्त्वाध्यवसायेन व्यवहर-
न्तीत्युक्तमेतत्। अन्यथा परस्परव्याहतमेतत् स्यात्। तथा हि-
यद्याकारान्तरेण मनो निर्दिशति न तर्हि तेन चक्षुर्विज्ञानानुभूतमेव
निर्दिष्टं भवति। अथ तदेव स्वलक्षणं निर्दिशति न नामाकारान्तरे-
णेति॥
असामान्येऽपीति। अपिशब्दात् सामान्येऽप्यनित्यत्वादौ॥
वाय्वादिस्वभाव इति। आदिशब्देनाकाशादयोऽप्रत्यक्षा
गृह्यन्ते। यथाहेति। कणादः। अस्य सूत्रस्य सम्बन्धः- क्षितिज-
(13)
लाननवदग्रहणात् स्पर्शमात्रं वायुरिति परेणाक्ते तत्परिहारायाह-
अदृष्टस्यापि लिङ्गतः समधिगमं करिष्यामः। किं पुनस् तस्य
लिङ्गमिति। तदुच्यते- स्पर्शश् च। न च दृष्टानां स्पर्श इत्यदृष्ट-
लिङ्गो वायुरिति। स्पर्शश् च समुपलभ्यते शीतोष्णत्वविशेषरहितः।
चशब्दाच् छब्दधृतिकम्पाश् च। निर्वृक्षक्षुपे देशे शुकशुकाशब्दः
समुपलभ्यते तृणादिनां च धृतिः। तेषां द्रव्यान्तरेणासति प्रतिबन्धे
गुरुत्वात् पातः स्यात्। स्थितिश् च वियति लक्ष्यते। लतादीनां च
कम्पः। न चायं दृष्टानां क्षित्यादीनाम्। चशब्दान् न चादृष्टानामा-
काशादिनाम। अतो दृष्टादृष्टेष्वदृष्टत्वात् स्पर्शविशेषोऽदृष्टः। सोऽस्य
लिङ्गमित्यदृष्टलिङ्गो वायुः। न चासौ पूर्वं दृष्टः तत्प्रथमतः स्पर्शवि-
शेषेण ग्रहणादित्यसामान्यविषयमनुमानम्॥
न तत्सामान्यसूचनादिति। तच्छब्देन स्पर्श एव सम्बध्यते
न तु वायुः॥
(14)
अत एवाह- न हि तद् वाय्वादिष्वित्यादि। स्पर्शस्य सामा-
न्यमाश्रितत्वं गुणोत्वेन सूच्यते। यो गुणः स आश्रितः गन्धवत्।
गुणश च स्पर्शः। स्वभावः॥
अथ वा तच्छब्देन वायुरेव सम्बध्यत इति दर्शयन्नाह- न वा
वाय्वादिस्वभावेष्वित्यादि। अस्यार्थः- यो गुणः स द्रव्याश्रितः
गन्धवत्। गुणश् च स्पर्श इति स्वभावः। स्पर्शस्य गुणत्वाद् द्रव्या-
श्रितत्वेऽनुमिते द्रव्यत्वमात्रमर्थतः सिध्यति। तद् यथा चक्षुरादीनां
पारार्थ्ये सिद्धे परोऽप्यर्थतः सिध्यतीत्यभिप्रायः॥
परिशेषादिति। परिशेषसिद्धिरनुमानमेव लिङ्गजत्वादिति मन्य-
ते। यथाहेत्यादि। नायं स्पर्शः पृथिव्याः गन्धाद्यसहचारित्वात्।
नाप्तेजसोः अनुष्णाशीतत्वात्। नाप्याकाशादीनामदृष्टानाम्। तेषां
हि स्पर्शवत्त्वाद् घटादीनां तत्र प्रतिघातः स्यात्। न मनसः अनुमे-
यगुणत्वात्। अणुत्वमेकत्वं चास्यानुमेयौ गुणौ। अयं तु प्रत्यक्षः। न
च निराश्रयो गुणः समस्ति। तस्मात् परिशेषाद् वायोरेवायं स्पर्श
इत्येषा परिशेषसिद्धिः॥
(15)
न तत्सत्त्वासिद्धेरिति। तच्छब्देन वायुः सम्बध्यते। यस्माद्-
न्येषां यस्यासम्भवः तत्र सिद्धसत्ताके तस्यास्तित्वं सम्भाव्यते।
यस्य तु सत्त्वमेवासिद्धम् कथं तत्र परिशेषात् सोऽस्तीति सम्भा-
व्यते। न हि- यदान्येन तत्र सन्निहितेन पुरुषेणेदं कार्यं न कृतमिति
सम्भाव्यते तदा वन्ध्यासुतेन परिशेषात् कृतमेतदिति युक्तं सम्भा-
वयितुम्। तेष्वेव तु केनेदं कृतमिति संशयो भवति॥
प्रतिषेधतुल्यत्वाच् चेति। सिद्धेऽपि तस्य सत्त्वे प्रतिषेधस्य तु-
ल्यत्वान् न युक्तमनुमानम्। यथैवायं स्पर्शः पृथिव्यादिषु न दृष्टचर
इति तेषां न भवति तथा वायावपि प्राङ्न दृष्ट इति तस्यापि मा भूत्।
कथं तर्हि वायोः परिशेषसिद्धिरित्याह- सिद्धे हीत्यादि। यथोत्प-
त्तिमतां घटादीनां सत्त्वं सिद्धम् तथा यदि वाय्वादीनां जिज्ञासिता-
नां सत्त्वं सिद्धं भवति एवं सति हेतोः सिद्धत्वं लभ्यते नान्यथा।
प्रतिषेधासम्भवे चिति। सिद्धेऽपि तेषां सत्त्वे यदि स धर्मः प्रमाणेन
बाध्यतेऽग्नाविव शैत्यम् एवमप्यसिद्ध एव हेतुः स्यात् विपर्ययात्
तु सिद्ध इत्येवं यथा हेतोः सिद्धत्वं जन्यते तथा दर्शितम्। गुणवि-
शेषसम्बन्धादिति। गुणविशेषो धर्मविशेषो हेतुत्वेनाभिमतः। तस्य
सम्बन्धः साध्येनाविनाभावः। गुणसामान्यमुज्झित्वेति धर्मसामा-
(16)
न्यं व्यभिचारि हित्वा। गुणविशेषेणेति यथोक्तेन साध्यधर्मिणि सि-
द्धसत्ताकेनान्वयव्यतिरेकवता धर्मेण। द्रव्यविशेषानुमानं क्रियत
इति परिशेषाद् वायुरनुमीयत इत्यर्थः। तत्रापि सामान्याकारेणेति
वेदितव्यम् न तु स्वरूपेण यस्मात् प्रागेवानुमानस्य स्वलक्षणवि-
षयत्वं निषिद्धम्। विशेषग्रहणं तु पृथिव्यादिद्रव्यनिरासार्थम्। तत्रायं
प्रयोगः- यो यतः सिद्धसत्ताकादन्येषां न सम्भाव्यते वस्तुधर्मस्
तत्र च प्रमाणेनाबाधितः स तस्य भवति। तद् यथोत्पत्तिमद्भ्यः
सिद्धसत्ताकेभ्योऽन्येषामसम्भाव्यमानमनित्यत्वं वस्तुधर्मस् तत्र प्र-
माणेनाबाधितं भवति। वायोः सिद्धसत्ताकादन्येषां न सम्भाव्य-
तेऽनुष्णाशीतस्पर्शो वस्तुधर्मस् तत्र च प्रमाणेनाबाधित इति स्व-
भावः। एवं स्पर्शस्य परिशेषाद् वायुसम्बन्धित्वे सिद्धे वायुः क्वचिद्
देशविशेषे कालविशेषे वा सिध्यति। त्वन्मतेन त्वेषां परिशेषसिद्धिर्न
भवतीति दर्शयन्नाह- सत्त्वं त्वसिद्धमित्यादि। यस्मात् सत्त्वम-
सिद्धं तुल्यश् च पृथिव्यादिभिः प्रतिषेधः तस्माद्गुणविशेषाभा-
वः त्रैरूप्यवतो धर्मस्याभाव इत्यर्थः। ततो गुणविशेषाभावात् तत्र
(17)
कुतोऽनुमानम्। नैव। एवं तावद् दृष्टादृष्टेभ्यः प्रतिषेधमभ्युपेत्यानु-
मानाभाव उक्तः॥
सम्प्रति प्रतिषेध एवायुक्त इति दर्शयन्नाह- यद्यदर्शनमात्रे-
णेत्यादि। मात्रग्रहणेनोपलब्धिलक्षणप्राप्तस्य यददर्शनम् तत
एवाभावः सिध्यतीति सूचयति। ननूपलब्धिलक्षणप्राप्तेः स्पर्शस्य
युक्त एव प्रतिषेधः। न युक्तः दृश्यतत्स्वभावमात्राप्रतिषेधात्।
पृथिव्यादिसामान्यं गृहीत्वा भवान् प्रतिषेधमाह। तत्र च तूलोपलप-
ल्लवादिषु तद्भावेऽपि स्पर्शभेददर्शनात् क्वचिद् विशेषस्यापि
सम्भवाच् छङ्कया भाव्यमिति सर्वत्रादर्शनमात्रेणायुक्तः प्रतिषेधः॥
अदृष्टेभ्योऽपि न युक्त इति दर्शन्नाह- न ह्यदृष्टेभ्य इत्यादि।
हिशब्दः समुच्चयऽवधारणे वा। अमुर्तिमतामनभिघातादिति।
अभिघातस्य वायं प्रतिषेधः स्यात् तद्विपरीतस्य वा वस्तुनो विधिः।
यदि प्रतिषेधः अभिघातस्पर्शविशेषयोः कार्यकारणभावो व्याप्य-
व्यापकभावो वा वाच्यः यतो हेतुव्यापकावेव निवर्तमानौ स्वप्रति-
बद्धे कार्यव्याप्ये निवर्तयतः अन्यथातिप्रसङ्गात्। कार्यकारणव्या-
प्यव्यापकभावौ च न सिध्यतः विनाप्यभिघातेन स्पर्शविशेषस्य
भावादर्थान्तरत्वाच् च। अथामूर्तिमतामनभिघातादित्यनेनानभि-
(18)
घाताख्यं वस्त्वेवोच्यते पर्युदासवृत्त्या तस्य तर्हि व्योमाधिभिः
सम्बन्धः साध्यः स्पर्शविशेषेण च विरोधः। अन्यथा कथं तदस-
म्बद्धमविरुद्धं च तेनैतत् तत्र बाधत अतिप्रसन्ङ्गो वा॥
तत्र तावत् सम्बन्धो न सिध्यति। तथा हि- तेषु तस्य वृत्तिर्वा
सम्बन्धः स्यात् तज्जन्यता वा। न तावद् वृत्तिः सिध्यति तेषामती-
न्द्रियत्वात्। न् ह्यतीन्द्रियेषु कस्यचिद् वृत्तिरुपलभ्यते। न च विनो-
पलम्भेनात्रेदं वर्तत इति शक्यते निश्चेतुम्। नापि तज्जन्यता
सिध्यति व्यतिरेकासिद्धेः। न ह्यन्वयमात्रात् कारणस्य सामर्थ्यं
गम्यते अपि तु व्यतिरेकादपि। स चेह नास्ति नित्यत्वात् सर्वगत-
त्वाच् च व्योमादिनां तदभावे तदभावासम्भवात्। तदेवमनभिघाता-
ख्यमाकाशादिसम्बन्धि वस्त्वेव न सिध्यति॥
कुतः पुनस् तस्य स्पर्शविशेषेण विरोधः। तथा हि- आतपादिषु
घटादिनामनभिघातोऽस्ति। अथ च ते स्पर्शवन्तः। तस्मान् न ततः
प्रतिषेधः सिध्यति॥
गुणानुमेयत्वाच् चेति। तत्पुरुषोऽयम्। मनसि च गुणोपजनि-
तव्यतिरेकनिबन्धना षष्ठी नानुमेयापेक्षा। मनसो गुणानामनुमेय-
त्वादिति वाक्यार्थः। गुणस्य गुणापेक्षाया नित्यत्वात् सामर्थ्याभावदो-
षोऽपि नास्ति। अयमप्यहेतुः अविरोधात्। तथा हि- यथात्मनो
(19)
विभुत्वं नाम गुणोऽनुमेयः अथ च सुखादयः प्रत्यक्षाः तथा मन-
सोऽप्यणुत्वमेकत्वं चानुमेयमेतद्गुणद्वयं स्यात् अयं च स्पर्शः
प्रत्यक्षो गुणः स्यादिति न कश्चिद् विरोधः॥
इदानीं यदत्र युक्तम् तत् प्रतिपादयितुमाह- किं तर्हीत्यादि।
चशब्दोऽवधारणार्थः। कथं पुनर्- दृष्टेषु च दृष्टत्वादित्येतदुक्तम्
यावता स स्पर्शविशेषो दृष्टेष्वपि नैव दृष्टः॥
नैष दोषः। दृष्टेषु तावत् स्पर्शसामान्यं सम्भवद्विशेषं दृष्टम्।
अदृष्टेषु तु तस्यापि दर्शनं नास्ति। यो यत्र दृष्टसामान्यः स तत्र
सम्भवति। यथामलकेषु मधुरो रसः। दृष्टसामान्यश् च दृष्टेषु
स्पर्शविशेषः। अथ वा यो यत्र दृष्टः स तत्र सम्भवद्विशेषः।
यथामलकेषु रसः। दृष्टश् च स्पर्शो दृष्टेष्विति स्वभावौ। उभयत्र
चाबाधके सतीति विशेषणं द्रष्टव्यम्। वाय्वादौ तु सद्व्यवहार-
प्रतिषेधायानुपलम्भो वाच्यः। यद्येवं निश्चयेन भवितव्यम्- अत्रै-
वायं सम्भवतीति। संशयस् तु दृष्टः। तस्मान्नायं दृष्टेषु सम्भवती-
त्यत आह- तेषां चेत्यादि। अनेकत्वात् संशयः न तु तत्रासम्भ-
वादित्यर्थः॥
तैरपि वायोरानुमानिकत्वं निरस्तमिति दर्शयन्नाह- आप्तसञ्ज्ञा-
विधानेनेत्यादि। न वायोरानुमानिकत्वमित्यत्राध्याहार्यम्। द्रव्यसा-
मान्यानुमाने सतीति। स्पर्शेन गुणेन द्रव्याश्रितेनास्ति किमपि
(20)
द्रव्यम् यदयमाश्रित इति द्रव्यमात्रानुमानम् तत् परित्यज्य।
आप्तसञ्ज्ञाप्रामाण्यादिति। यस्मात् क्षीणदोषैर्नवैव द्रव्यसञ्ज्ञा
विहिताः तत्र पृथिव्यादिष्वष्टासु द्रव्येष्वष्टौ सञ्ज्ञा निवेशिताः
वायुसञ्ज्ञैवावशिष्यते न चान्यद् द्रव्यमस्ति दशमम् तस्माद्
यस्यायं स्पर्शः स वायुरित्येवं पृथिव्यादिभ्योऽन्यस्य दशमादेर् द्र-
व्यस्य पृथिव्यादेश् चान्यस्य प्रतिषेधेन वायुसत्त्वमवगच्छति॥
न भेदस्यापि सम्भवादिति। शाब्दस्य प्रमाणान्तरत्वनिराकर-
णाय प्रमाणान्तरवादी तावदुत्तरं दायिकः स्वयं तूत्तरत्र दास्यति।
प्रसिद्धिवशेनेति। सपक्षविपक्षयोः सदसत्त्वे श्रोतुः सिद्धे इति दृष्टा-
न्तानभिधानम्। दृष्टान्तग्रहणमवयवोपलक्षणार्थम् अवयवानामनु-
पदेशादिति यावत्। तदेतदुक्तं भवति- यदनुपदिष्टावयवम्
तदनुमानाद् भिन्नम् प्रत्यक्षवत्। तथा च शाब्दमिति स्वभावः॥
एवमपीति। व्यभिचारमाह। दृष्टान्तस्यैकस्येति। शेषावयवापे-
क्षया दृष्टान्तस्यैकत्वम् न तु दृष्टान्तापेक्षया। ततश् चायमर्थः-
यदॄष्टान्तस्यैवानभिधानमिति। द्वयोर्वेति। वाशब्दश् चार्थे वर्तमानो-
ऽनुक्तसमुच्चयं करोति त्रयाणां चतुर्णां पञ्चानां चेत्यर्थः। तेन
(21)
यदापि साधारणं हेतुं करोति तदापि स्वार्थानुमानेनानेकान्तो
भवति। शाब्दप्रसङ्ग इति। परस्य शाब्दमनुमानाद् भिन्नं प्रतीतम्
तेन शाब्दवत् प्रसङ्गः अनुमानाद् भिन्नत्वप्रसङ्ग इत्यर्थः। यथाभूतं
शाब्दम् तथाभूतं तदपि प्राप्नोतीति यावत्। विनापि हि वतिना
तदर्थो गम्यत इत्युक्तप्रायम्॥
अन्ये त्वाहुरित्यादि। शब्दो हि स्वरूपेणाभिन्नरूपमेवार्थं
प्रत्याययति न त्वेवं धूमादयः। न हि धूमादग्निं प्रतियन् प्रत्यायय-
न्वा धूमरूपेण प्रत्येति प्रत्याययति वा। कथमर्थेऽनुमानमिति।
अर्थस्यानेकरूपत्वात्। तत्र किं स्वरूपेण सोऽर्थो गम्यत उत सामा-
न्यरूपेण। सर्वथैवानुपपत्तिं मन्यते। तथा हि- यदि वृक्षादयः
शब्दाः सत्त्वादिभिः सामान्याकारैर्वृक्षादिकमर्थं प्रतिपादयेयुः
सर्वशब्दानामेकार्थता प्रसज्येत सामान्याकाराणामनेकार्थसाधा-
रणत्वात्। अथ विशेषरूपेण तदयुक्तम् असाधारणस्य रूपस्य
प्रतिपादयितुमशक्यत्वादिति सर्वथा शब्दार्थत्वाभावः। वृक्षशब्दाभि-
धेयोऽन्योऽर्थे न भवतीति। यथैव तव शब्दार्थोऽन्यापोढः सामा-
(22)
न्यम् तथा ममापि। एतावांस् तु विशेषः - मया तच् छब्दाकारोप-
रक्तं प्रतीयत इत्यभ्युपगतमिति दर्शयति। वृक्षशब्दाभिधेयो योऽर्थः
सोऽन्यो घटादिर्न भवति। अन्यशब्दार्थाभावेनात्र वृक्षशब्दाभिधेयो
भागो लक्ष्यते। एतदुक्तं भवति- अर्थान्तरव्यावृत्त्युपलक्षितो यो
वस्तुनो भागः स एव वृक्षशब्दस्यार्थ इति तेनैव तस्य सारूप्यात्।
न तु सत्त्वादिभिः साधारणैराकारैरसाधारणेन वा रूपेणेति मन्यते॥
अन्येषां पाठो वृक्षशब्दाभिधेयोऽन्यार्थो न भवतीति। वृक्षश-
ब्दार्थो यः स शब्दान्तरस्यार्थो न भवति। पर्यायशब्दानामेकार्थत्वे-
नानन्यत्वमेवेत्यभिप्रायः। अत्रापि वृक्षशब्दार्थस्य शब्दान्तरानभिधे-
यतां दर्शयता शब्दान्तरार्थव्यावृत्त्युपलक्षितं वृक्षत्वमात्रं वृक्षशब्द-
स्यार्थ इत्युक्तं भवतीति स एवार्थः॥
ननु च द्रव्यशब्देनापि शाखादिमानर्थः प्रत्याय्यते। न चासौ
तद्रूपः। ततश् चासारुप्येऽप्यभिधेयत्वदर्शनान् न शब्दसारूप्येणा-
र्थप्रत्यायनमित्यत आह- यद्यपीत्यादि। अपिशब्देन द्रव्यशब्दो
द्रव्यभेदानां व्यभिचारादवाचक एव। अभ्युपेत्य तूत्तरमुच्यत इत्यर्थ-
माविष्करोति। रूपान्तरमाकारान्तरम् तस्यैव वस्तुनः कश्चिद्
भागः। तेन च सह द्रव्यशब्दस्य सारुप्यमस्त्येवेत्यभिप्रायः। तत्
(23)
पुना रूपान्तरमद्रव्यनिवृत्त्योपलक्ष्यत इति दर्शयितुमिदमुक्तम्-
अद्रव्यनिवृत्त्येति॥
ननु चेत्यादि। न केवलं द्रव्यशब्देनाद्रव्यनिवृत्त्युपलक्षितं वस्तुनो
रूपान्तरं द्रव्यशब्दसारुप्यप्राप्तियोग्यं गम्यते अपि तु वृक्षशब्दे-
नापि। तथा हि- सामानाधिकरण्यं दृश्यते- द्रव्यं वृक्ष इति। न हि
भिन्नार्थयोस् तदुपपद्यते। न च तेन सह तस्य सारूप्यमिष्यते। ततः
स एव दोषः असारूप्येऽपि शब्दार्थत्वदर्शनात्। नाभिधानस्य सा-
रूप्येणार्थाभिधानमित्यभिप्रायः॥
अर्थात् न शब्दादिति। वृक्षशब्दार्थादेवाद्रव्यनिवृत्त्यविनाभा-
विनः सा प्रतीयते। मूढस् तु शब्दादेव गम्यत इति मन्यते। सामा-
नाधिकरण्यं तु विशेषसहितस्य विशेषे वर्तमानत्वात्। न तु वृक्ष-
शब्देनाद्रव्यनिवृत्तिरभिधीयते। यदि वृक्षादिपदान्येवेत्यादि। सुब-
न्तान्येव पदानि यदि शब्दनिबन्धने प्रमाण उच्येरन् न स्याद्
दोषः। तथा हि- तेषां परिनिष्पन्नरूपोऽर्थ इदं तदिति प्रत्यवमर्श-
योग्यो बुद्धौ सन्निविशत इति तेन सहाभेदोपचारः सम्भवति
शब्दस्य। न तु नामपदान्येव परिनिष्पन्नार्थाभिधायीन्युच्यन्ते। किं
(24)
तर्हि। तङन्तान्यपि यदाह- आख्यातशब्दैरपीत्यादि। आख्या-
तशब्दैः पचति पठतीत्येवमादिभिरलिङ्गासङ्ख्या पूर्वापरीभूतावयवा
परिनिष्पन्नस्वरूपा क्रियोच्यते। न च तथाविधस्यार्थस्येदं तदित्यगृ-
हीतस्य बुद्द्या शक्योऽभेदोपचारः कर्तुम्। नापि परिनिष्पन्नरूपः
शब्दात्मा शाद्यमानाकारतां प्रतिपद्यते॥
येषां च वाक्यमेव शब्द इति। तेनार्थस्य शब्दनात्। यदि वाक्य-
मेव शब्दः पदानामुपादानं किमर्थमित्याह- तदधिगमोपायश्
चेत्यादि। तत्समुदायात्मकत्वात् यथा वर्णाः पदानामिति मन्यते।
तेषां नास्तीत्यादि। वाक्यार्थो हि बाह्यो वा स्यात् साध्यसाधनसम्ब-
न्धात्मा साधनशक्तिनिवेशानुगृहीता निरवयवा क्रिया वा आन्त-
रो व प्रतिभालक्षणः॥
त्रयमपि चैतदसत्त्वभूतमिदं तदिति प्रत्यवमर्शातिक्रान्तम्। न च
तथाभूतेनार्थेन सोऽयमित्यभेदोपचारः शक्यः कर्तुमिति॥
विशेषलेशमिति। दृष्टान्तानभिधानं शब्देन चाभेदोपचारो विशे-
षलेशः॥
(25)
यदि तर्हि न भिद्यते त्वया चागमिकत्वं वाय्वादीनां प्रतिपादयता
स्वलक्षणविषयत्वं शाब्दस्य प्रतिपादितम् एवं सत्यागमानुमानयो-
रभेदात् सिद्धिं स्वलक्षणविषयत्वमित्याह- तत्र शब्दविनिर्मुक्तमि-
त्यादि। तत्रेति शास्त्रे शास्त्रनिमित्तमित्यर्थः। एतदुक्तं भवति- भ-
वतां स्वलक्षणविषयं शास्त्रमित्यभ्युपगमः। ततो यदेतदमुमानं स्प-
र्शश् च। न च दृष्टानां स्पर्श इत्यादिनोपन्यस्तम् एतद् युष्म-
च्छास्त्रादेव निमित्तादस्वलक्षणविषयमुक्तम्। आगमिकत्वं भवतामेव
प्रसिद्धं ब्रुवता न तु स्वप्रसिद्धिमिति किं सन्धायैवमुक्तमित्याह- श-
ब्दमिनिर्मुक्तं लिङ्गमभिसन्धायेति। शब्देनागमाख्येन त्यक्तमेतल्
लिङ्गं स्पर्शाख्यम्। तन्निरपेक्ष एव स यस्माद् वायोः सत्तां
साधयति। तदेवं त्वदभ्युपगतशास्त्रवशादकिञ्चित्करं लिङ्गमभिप्रेत्य
तज्जमनुमानं मयेदमस्वलक्षणविषयमुक्तम् न पुनः स्वयमागमि-
कत्वं वाय्वादीनामिच्छतेत्यचोद्यम्। एवं तर्हि शाब्दमपि यथा स्वल-
क्षणविषयं न भवति प्रतिपाद्यतामित्यतः प्रतिपादयितुमाह- शाब्द-
मपि त्वित्यादि। सम्बन्धाभाव इति सङ्केतकाले। शब्दार्थसम्बन्धा-
(26)
भिज्ञो हि सङ्केतकालानुभूतार्थसामान्यमेव प्रतिपद्यते शब्दात् न
स्वलक्षणम् तस्य पूर्वमदृष्टत्वात्। प्रयोगकाले विशेषविषयत्वाशङ्का
न भवत्येव। सङ्केतकाले तु प्रत्यक्षं स्वलक्षणमिति सम्भवति तद्विष-
यत्वाशङ्का। अतः सम्बन्धाभाव इत्याह॥
दृष्टार्थं यत्रार्थः प्रत्यक्षेण दृश्यते अदृष्टार्थं विपर्ययात्। दृष्टार्थे
सञ्ज्ञाव्युत्पत्तिरिति। यथायं पनस इत्यत्र सम्बन्धव्युत्पत्तिरेव
भवति नानुमानम् अर्थस्य प्रत्यक्षत्वात्। अदृष्टार्थे स्वर्गादावर्थवि-
कल्पमात्रमिति। न हि स्वर्गादिशब्दाः स्वर्गादीनां सङ्केतकालेऽन्य-
दा वा स्वलक्षणं बुद्धावर्पयन्ति अनतीन्द्रियत्वप्रसङ्गात्। केवलं
तत्प्रतिपादनाभिप्रायैः प्रयुक्ताः श्रोतर्यप्रतिभासमानतत्स्वभावमर्थ-
बिम्बमर्पयन्त्यस्ति कश्चित् सुराधिवासविशेष इत्येवमादिकम्। न
चैवं स्वलक्षणं प्रतिपन्नं भवति प्रतिपादितं वा स्वर्गादिश्रवणे तद-
नुभाविनामिव प्रतिभासभेदप्रसङ्गात्। अप्रतिपद्यमानोऽपि च तत्स्व-
भावं तथाभूत एव विकल्पप्रतिबिम्बे तदध्यवसायी सन्तुष्यति
(27)
तथाभूतत्वादेव शब्दार्थप्रतिपत्तेः। अत्र च सम्बन्धाभाव इत्येत-
न्नापेक्ष्यते। किं तु दृष्टार्थेष्वेव। तत्र हि दृष्टत्वाद् विशेषस्य तस्यैव
वाच्यताशङ्क्येत। ततस् तन्निवृत्त्यर्थमुक्तम्- सञ्ज्ञाव्युत्पत्तिरिति॥
कथं तर्हि तस्यानुमानत्वमिति। अपि नामागमात् पुरुषोपयो-
गिनमर्थमतीन्द्रियं निश्चित्य यथार्हमनुतिष्ठन्नासादयेयमित्यागमो
मृग्यते। ततश् चेदर्थविकल्पमात्रं भवति न विशिष्टार्थप्रतीतिः
तस्यानुमानत्वमेव हीयत इत्यभिप्रायः। ननु च यथानाप्तप्रयुक्तानां
शब्दानां विवक्षालक्षणं यदर्थमात्रं तद्वचनादेवानुमानत्वम् न तु बा-
ह्यस्यार्थस्याभिधानात् तथाप्तप्रयुक्तानामपि स्यादित्यत आह- न
हीत्यादि। एवं मन्यते- नाप्तवचसो विवक्षामात्रे प्रामाण्यमेष्टव्यम्
अपि तु बाह्येऽप्यर्थे। अन्यथा कस् तस्यानाप्तवचनाद् विशेषः
स्यात्। तस्मान्नाप्तप्रयुक्तैः स्वर्गादिशब्दैरर्थमात्रमुच्यते। किं तर्हि।
लौकिकशब्दासाधारणो बाह्योऽप्यर्थ इति॥
न स्वलक्षणवचनादागमानामनुमानत्वम्। किं तर्हि। तथाविधम्
अर्थविकल्पमात्रमुपजनयतां सामान्याकारेणार्थप्रकाशनात् तत्र चा-
(28)
विसंवादादिति दर्शयन्नाह- आप्तवादाविसंवादसामान्यादित्यादि।
आप्तवचसोऽत्यन्तपरोक्षार्थविषयस्येतरेण प्रत्यक्षानुमानदृष्टार्थविष-
येणाप्तवचनेनाविसंवादसामान्यादनुमानत्वमिति वाक्यार्थः॥
ननु च शब्दानामर्थेष्वप्रतिबन्धात् पुरुषातिशयस्य न निश्चेतुम-
शक्यत्वाद्बाह्येऽर्थे प्रामाण्यमेवायुक्तम्। सत्यमेतत्। अयं पुनरत्राभि-
प्रायः- नायं पुरुषोऽनाश्रित्यागमप्रामाण्यमासितुं शक्तः अत्यक्ष-
फलानां केषाञ्चिन्महानुशंसापायश्रवणात् तद्भावे विरोधादर्शनाच्
च। तत् सति प्रवर्तितव्ये वरमेवं प्रवृत्तिरिति। अतः परीक्षया
प्रामाण्यमाह। तत्र पुरुषार्थस्य शक्यस्य च तदुपायस्य यत् प्रतिपा-
दनसमर्थम् तच् छास्त्रं परीक्षार्हमिति तदेव परीक्ष्येत अन्यत्राव-
धानस्यैवायुक्तत्वात्। तद् यदि न विसंवादभाग्भवति प्रवर्तमानः
शोभेत॥
(29)
आप्तवचनं गृहीत्वेत्यादि। आप्तवचनं गृहीत्वाविसंवादाधिगमहेतुं
तस्यानुमानत्वमुक्तम्। कस्मात् पुनस् तस्यानुमानत्वमर्थाविसं-
वादतुल्यत्वादिति व्याख्येयम्। कः पुनरस्याविसंवादः। प्रत्यक्षा-
भिमतानां तथाभावोऽतथाभिमतानां चाप्रत्यक्षता। तथानुमानविष-
याभिमतानां तथाभावोऽतथाभूतानां चाननुमेयता। सेयं शक्यपरि-
च्छेदाशेषविषयपरिशुद्धिरविसंवादः। तत्सामान्यमनुमीयते प्रत्यक्षा-
नुमानागम्येऽप्यर्थ आप्तवचनत्वमुपलभ्य- यदाप्तवचनम् तदविसं-
वादि तदन्याप्तवचनवत्। आप्तवचनं चात्यन्तपरोक्षविषयं किञ्चिद्
वचनम्। स्वभावः। ततश् च स्वलक्षणमविषयीकुर्वतामप्यागमानां
न तदन्यशब्दवद् विवक्षामात्रे प्रामाण्यम्। किं तर्हि अर्थेऽपि॥
अथ वान्यथाप्तवचनस्याविसंवादाद् अनुमानत्वमुच्यते- हेयो-
पादेयतदुपायानां तदुपदिष्टानामवैपरीत्यमविसंवादः। तथास्य पुरु-
षार्थोपयोगिनोऽनुष्ठानार्हस्याविसंवादाद् विषयान्तरेऽपि तथात्वोपग-
मो न विप्रलम्भाय अनुपरोधान् निष्प्रयोजनवितथाभिधानवैफल्याच्
च वक्तुः॥
(30)
तदेतदगत्योभयथाप्यनुमानत्वमागमस्योपवर्णितम्- वरमागमात्
प्रवृत्तावेवं प्रवृत्तीरिति। न खल्वेवमनुमानमनपायम् अनान्तरीय-
कत्वादर्थैः शब्दानामिति॥
अत्र चाप्तवचनं गृहीत्वाविसंवादोऽनुमीयते। अनुमिते तस्मिन्
पश्चात् तत एवाविसंवादादाप्तवचसोऽनुमानत्वं भवति। अनुमानश-
ब्दश् चात्र लिङ्गे वर्तते अनुमीयतेऽनेनेति कृत्वानुमितिकारणत्वाद्
वा। अविसंवादः पुनराप्तवचसोऽर्थकार्यत्वात्। तत् पुनः प्रतिपत्तुर-
भिप्रायानुरोधात् न तु वस्तुवशात्॥
तथा ह्याहेत्यनेन स्वमतं शास्त्रान्तरेण संस्यन्दयति। आप्ताः
प्रत्यक्षतः स्वर्गादीनां स्वभावं गृहीत्वा सञ्ज्ञां प्रणयन्ति। उपलक्षण-
मात्रं च सञ्ज्ञाकर्म वेदितव्यम्। सर्वमेव हि तेऽर्थदर्शनपूर्वकेवेव
व्याहरन्ति। अन्यथाप्ता एव न स्युः। तस्मात् तेषां सर्वमेव वचो
ऽविसंवादि। अतश् चानुमानमिति॥
अनया दिशेति। प्रधानादिभिरदृष्टसम्बन्धत्वात् तल्लिङ्गानामाग-
मिका एव प्रधानादय इति पूर्वानुसारेण वाच्यम्॥
(31)
अनुमेयेऽथ तत्तुल्य इति। अथशब्दः समुच्चयार्थः तत्तुल्ये चे-
त्यर्थः। उपलक्षणं चान्वयस्य तत्तुल्ये सद्धावो वेदितव्यः। यथा
काकाद् दधि रक्ष्यतामित्यत्र काकः सर्वस्य श्वादेरुपघातकस्य।
एतदुक्तं भवति- अन्वयश् च द्वितीयं रूपमिति। एवं च श्रावणत्व-
स्याप्यनित्यत्वे हेतोस् त्रैरूप्यं प्रतिपादितं भवति न त्वन्यथा। न हि
तस्य तत्तुल्ये सद्धावोऽस्ति। अन्वयस् तु विद्यते। अन्वयो हि नाम
लिङ्गे लिङ्गिनो भाव एव। स चास्ति श्रावणत्वस्य। तथा हि- यत्र
श्रावणत्वम् तत्रानित्यत्वं भवत्येव। अन्यथा श्रावणत्वमेव नोपपद्यत
इति प्रतिपादयिष्यामः॥
नास्तितासतीत्यत्रासच्छब्देन न केवलं तत्तुल्याभाव उच्यते
अपि तु ततोऽन्यस् तद्विरुद्धश् च तदाकारविवेकादिति वेदितव्यम्।
व्यतिरेकोपलक्षणं वासति नास्तित्वं द्रष्टव्यम्। व्यतिरेकश् च तृतीयं
रूपमिति वाक्यार्थः।
(32)
इह केवलयोर्धर्मधर्मिणोः सिद्धत्वादनुमेयत्वं नोपपद्यते। समुदा-
योऽपि यावद्धर्मो न सिध्यति तावन् न सम्भवत्येव। न ह्यसन्निवि-
ष्टेन बुद्धौ धर्मण विशिष्टो धर्मी युज्यते। सिद्धे तु धर्मिणि पश्चात्
समुदायो जायते। तदा चास्य साध्यत्वं निवर्तते सिद्धत्वात्। तस्मा-
दनुमेये हेतोः सत्त्वं न सम्भवत्येवेति कस्यचिच् चोद्यमाशङ्क्याह-
अनुमेयो हीत्यादि। अत्र यद्यपि धर्मशब्दः सामान्यवाची तथापि
साधनाधिकाराद् यदर्थं साधनमन्विष्यते प्रत्यासत्तेस् तत्रैव वर्तते।
कः पुनरसौ। जिज्ञासितो विशेषलक्षणो धर्मः। न ह्यजिज्ञासिते
धर्मिणो धर्मे कश्चित् प्रक्षावान् साधनं प्रत्याह्रियते। तस्मात् सिद्धिस-
त्ताके धर्मिणि यत्राकृष्टं साधनम् स एव जिज्ञासितो धर्मो धर्मश-
ब्देन प्रत्याय्यते। तेन विशिष्टोऽर्थान्तराद् व्यवच्छिन्न इत्यर्थः। तत-
श् चायमेवार्थो भवति- जिज्ञासितविशेषो धर्मी इति। तथा हि-
यो येन जिज्ञासितेन विशिष्टो भवति तस्यासौ जिज्ञासितो विशेषो
भवति। समुदायः साध्य इत्यपि वचनं जिज्ञासितधर्मापेक्षयैव
वेदितव्यम्॥
(33)
उत्तरकालसिद्धिभाजा धर्मेण प्रतिनिर्दिश्यते धर्मविशिष्टो
धर्मीति। न तु लिङ्गदर्शनकाले धर्मविशिष्टत्वमस्ति असंविदितत्वा-
द्धर्मस्येत्यपरे। ज्ञापकस्य हेतोरधिकाराज् ज्ञानमर्थाक्षिप्तमिति
निश्चित्याह- तत्र दर्शनमित्यादि। तत्रेत्यनुमेये। प्रत्यक्षत इति
धूमादेः। सधूमं हि प्रदेशमर्थान्तरविविक्तरूपमसाधारणात्मना
दृष्टवतः प्रत्यक्षेण तद्बलेनैव यथादृष्टभेदविषयं निश्चितं स एवायमिति
स्मार्तं लिङ्गज्ञानमुत्तरकालमुत्पद्यते। न च तत् प्रमाणम् अनधि-
गतार्थक्रियायोग्यवस्त्वनधिगमात्। आद्यमेव तु प्रमाणम् अतो
विपर्ययात् एतल्लक्षणत्वात् प्रमाणस्य। कुत एतत्। वस्त्वधिष्ठानत्वात्
प्रमाणव्यवस्थायाः। एतदपि कुतः। अर्थक्रियायोग्यविषयत्वाद-
र्थिप्रवृत्तेः। एतेन धर्मिधर्मादिविकल्पस्याप्रामाण्यं वेदितव्यम्। ततश्
च ये चोदयन्ति- लिङ्गादिज्ञानस्य प्रत्यक्षानुमानानन्तर्भावात्
प्रमाणान्तरत्वं प्राप्नोतीति ते जाड्यमेवात्मनः ख्यापयन्ति॥
अनुमानतो वेति कृतकत्वादेः कादाचित्कत्वादिना लिङ्गेनानुमी-
यमानत्वात्। उत्तरकालमिति प्रत्येकमभिसम्बध्यते- प्रत्यक्षत
उत्तरकालमनुमानतो वोत्तरकालमिति। अनुमानशब्दश् चात्र लि-
ङ्गज्ञाने वर्तते। यथोक्तम्- तदेतत् साक्षात् पारम्पर्येण वानुमितिका-
(34)
रणत्वादुभयमप्यनुमानं करणं कारकं कृत्वेति। धर्मस्य सामान्यरू-
पेणेति। सामान्यरूपग्रहणमसाधारणरूपनिरासार्थम् तेनानुमा-
नासम्भवात्। न च तत् प्रत्यक्षादिपृष्ठभाविना विषयीकर्तुं शक्यते
ज्ञानेन तस्य सविकल्पकत्वाद् विकल्पानां च सामान्यविषयत्वात्॥
तज्जातीये चेति। अत्रापि सामान्यरूपेणेति सम्बन्धनीयम्। ननु
धर्मिविशिष्टस्यान्यत्र वृत्तिविरोधोऽविशेषणे वा नानुमेयधर्मता
स्यात्। न अयोगव्यवच्छेदेन विशेषणात् यथा चैत्रो धनुर्धर
इति। यदि तर्हि साधनधर्मस्य विशेषोऽनुमानानुमेयव्यवहारं प्रत्य-
नुपयोगीति सामान्यमेव लिङ्गं परिगृह्यते साध्यधर्मस्यापि तदेव
ग्राह्यम्। न हि तस्यापि विशेषस् तत्रोपयुज्यते। सामान्यसाधने च
सिद्धसाध्यता स्यात्। नैष दोषः। सामान्यमेव साध्यमयोगव्यवच्छे-
देन। न च सिद्धसाधनम् अयोगव्यवच्छेदस्यासिद्धेः॥
एकदेशग्रहणेन सपक्षाव्यापिनोऽपि हेतुत्वं दर्शयति। कुत
एतदिति। अनुमेयतत्तुल्ययोस् तुल्ये सद्भाववचन एकत्र सर्वत्र
सद्भावोऽन्यत्रैकदेशेऽपीत्येतत् कुतो हेतोर्लभ्यत इति पृच्छति।
(35)
व्यवच्छेदफलत्वाद् वाक्यानामिष्टतश् चावधारणादेतल् लभ्यत
इत्याह- तत्तुल्य एवेत्यादि। अनेनान्ययोगव्यवच्छेदेनात्रावधार-
णमाश्रितम् यथा पार्थो धनुर्धर इति दर्शयति। यद्येवं साध्यधर्मि-
ण्यवृत्तिरिति चेत् न अन्यनिषेधार्थत्वात्। तत्र वृत्तौ लब्धायां
समुच्चीयमानावधारणमन्यद् व्यवच्छिनत्ति
नरं च नारायणमेव चादौ स्वतः सुतौ द्वौ जनयां बभूव
इति यथा॥
न तर्हि वक्तव्यमिति। अत एवावधारणात् तदर्थस्य गतत्वादिति
मन्यते। एतत् पुनरित्यादि। नियम्यतेऽनेनेति नियमः। साधर्म्य-
वान् वैधर्म्यवांश् च प्रयोग उच्यते। प्रयोगवाक्येन हि प्रमाणं
प्रकाशयता किमयं नित्य उत नेति परेषां संशयदोलारूढा बुद्धिर-
नित्य एवायमित्यर्थान्तराद् व्यवच्छिद्यानित्य एव व्यवस्थाप्यते।
तस्मात् प्रयोगो नियमः। तदर्थं तृतीयं रूपं वक्तव्यम्। अन्वयव्य-
तिरेकयोर्निश्चितव्याप्तिकमेकमपि रूपं प्रयुक्तमर्थाद् द्वितीयं गमयती-
त्येकस्यापि प्रयोगः स्यादिति। द्विरूपं तर्हि लिङ्गं प्राप्तम्। न अन्व-
(36)
यव्यतिरेकयोः पृथग्रूपत्वात्। ते त्वेकेनापि वाक्येन शक्ये दर्शयितु-
मिति प्रयोगसमास उच्यते न रूपसमासः। तथा ह्युक्तम्- अर्था-
पत्त्या वान्यतरेणोभयप्रदर्शनादिति॥
स्यादेतत्- असति नास्तिता नोपपद्यत एव असतोऽधिकरण-
त्वाद्ययोगात्। शक्तिप्रभावितानि हि कारकाणि असतश् च सर्वसा-
मर्थ्यविरहादित्यत आह- असत्वेव नास्तितेति। निपातो भिन्न-
क्रमः। असति नास्तितैवेत्येवं द्रष्टव्यः। अथ वा यथान्यासमेवास्तु॥
नन्वेवं सति सत्तावति नास्तिता न प्राप्नोति। नैष दोषः इह ना-
स्तितासतीति लक्षणवाक्येऽसति नास्तितैवेत्यवधारणस्येष्टत्वात्।
नियमवती नास्तितोक्ता। ततस् तामधिकृत्यैवमुक्तम्। तदस्यायम-
र्थः- असति नास्तितैव वस्तुप्रतिषेधरूपा भवति न त्वस्तिताविधि-
रूपा विधेरसत्ययोगात्। एतत् प्रमाणफलम्। नान्यत्रेति।
अनन्तरमसतः प्रकृतत्वात् तदपेक्षयात्रान्यार्थो द्रष्टव्यः। असतो
ऽन्यत्र सत्तावति न नास्तितैव भवति तत्र विधेरपि सम्भवात्।
अनेन नियमवत्या नास्तितायाः सति प्रतिषेधं कुर्वन्नियमरहिता
नास्तितास्तीत्यमुमर्थं गमयति। विशिष्टप्रतिषेधेन हि तद्विपरीतप्र-
तीतिर्भवति नास्तीह फलितः पलाश इति यथा। एष दृष्टान्तः
परस्य सिद्धत्वात्। असति हि परो नास्तितां नेच्छति न तु सति॥
(37)
किं पुनः कारणमसति नियमवती नास्तिता भवतीत्याह- न
विरुद्ध इति। इतिकरणो हेतौ। एतद् दर्शयति- यद्यसति कश्चिद्
वस्तुधर्मो विधीयेत स्याद् दोषः वस्तुधर्मस्यासत्यसम्भवात्। न
चात्र किञ्चिद् विधीयते। किं तर्हि। प्रतिषेधमात्रं क्रियते। न चासन्
वन्ध्यासुतादिर्नास्तिताया विरुद्धः। तस्मात् सा तत्र सम्भवतीति।
यो नास्तिताया न विरुद्धः तत्रासौ सम्भवति। तद् यथासति।
अविरुद्धश् चासन्वस्तुधर्मप्रतिषेधलक्षणाया नास्तितायाः। स्वभा-
वः। अधिकरणादिव्यवहारस् तु न वस्तुनिबन्धन एव। परेणाप्येतद्
अभ्युपेतं नासति नास्तितेति ब्रुवाणेनेत्यभिप्रायः॥
ज्ञानग्रहणमित्यादि। ज्ञानं गृह्यते येन तज् ज्ञानग्रहणम्
यत्नान्तरम्। एतदुक्तं भवति- तथा यत्नान्तरं कर्तव्यम् यथा लिङ्ग-
विषयज्ञानं लभ्यते। अन्यथाज्ञातादपि धूमादेरुद्दिष्टदेशविशेषे
वह्न्यादावनुमितिः स्यादिति॥
ज्ञानमप्यात्तमित्यादिना सामर्थ्याक्षिप्तत्वाज् ज्ञानस्य न तद्
यत्नान्तरप्रतिपाद्यमिति दर्शयति॥
(38)
एकैकद्विद्विरूपश् चेत्यादि। एकैकं द्वेद्वे च रूपे यस्य स
तथोक्तः। अर्थसम्बन्धादत्र पुंलिङ्गनिर्देशः। अर्थत इति। विनापि
शब्देनार्थलब्धतामस्यार्थस्य दर्शयति॥
यदि तर्ह्यर्थलब्ध एवायमर्थः किमर्थमाख्यायते। अर्थतोऽयमर्थो
मया प्रतिपादितो विनापि शब्देनेत्येवमाख्यायमानेनाप्याख्यातो
भवति। न चार्थलब्धस्य पुनर्वचनेन प्रतिपादनं फलवत्॥
सत्यमेतत् तथापि मन्दबुद्धिव्युत्पादनार्थमयमर्थलब्धोऽप्यर्थ
आख्यायते न तूद्धटितज्ञापेक्षयेति। अत्र चोद्यम्- तत्तुल्य एव
सद्भाव इत्यनेनान्वयः प्रतिपाद्यते। स च न व्यतिरेकमन्तरेण।
नास्तितासतीत्यनेनापि व्यतिरेकः। सोऽपि न विनान्वयेन। तत्
कथमेवमुक्तम्- तत्तुल्येऽस्ति नापि तदभावे नास्ति। तदभावे
नास्ति न तत्तुल्येऽस्तीत्यादि। नैष दोषः। न ह्येतदन्वयलक्षणं
व्यतिरेकलक्षणं च प्रकृतरूपमधिकृत्योक्तम्। किं तर्हि। सपक्षे
सद्भावमात्रं विपक्षे च नास्तित्वमात्रं नियमरहितम्। छन्दतोऽपि वा-
चां प्रवृत्तिः अर्थस् तु परीक्ष्यः। अयं चात्रार्थो विवक्षितः- यस्या-
न्वयव्यतिरेकौ न स्तः स सत्यपि पक्षधर्मत्वे न हेतुः। यस्य च
(39)
पक्षधर्मत्वं नास्ति सोऽपि सत्यप्यन्वयव्यतिरेकवत्त्वे न हेतुरिति। स
चानेनापि प्रकारेण शक्यत एव प्रतिपादयितुमिति॥
अनास्थावचनं प्रति मूर्तत्वान्नित्यः शब्द इति वैशेषिकमतेन
नित्यमूर्तपरमाणुव्यपेक्षयैकरूपः। एवं नित्यः शब्दः अप्रमे-
यत्वादिति विपक्षाद् व्यावृत्तेरेकरूपः। नित्यः शब्दः अमूर्त-
त्वादिति द्विरूपः साधारणः। नित्यः शब्दः श्रावणत्वादित्यसा-
धारणोऽयं द्विरूपः यदि शब्दत्वं नित्यं नाभ्युपेयते। अनित्यः
शब्दः चाक्षुषत्वादिति द्विरूपोऽयमसिद्धः यदि जातयश् चक्षुर्ग्रा-
ह्या नेष्यन्ते॥
अरूपोऽप्यस्ति। तद् यथा नित्यः शब्दः चाक्षुषत्वादित्येवमा-
दिकः। स त्वनयैव दिशा गम्यत इति वृत्तौ नोक्तः। सूत्रे त्व्
एकैकद्विद्विरूपश् चेत्यत्र चशब्दस् तत्समुच्चयार्थो द्रष्टव्यः। अन्ये
त्वाहुः - अरूपो नोपन्यस्तः लिङ्गाभासत्वाभावात्। यत्र हि कश्चि-
द्रूपैकदेशो ऽस्ति स तद्वदाभासमानो बुद्धिं विपर्यासयतीति स
एवात्रोच्यत इति॥
(40)
अनुमेयो हि धर्मविशिष्टो धर्मी इत्युक्तम्। ये त्वन्यथेच्छन्ति
तन्मतं निराकर्तुमुपन्यस्यति- अत्र त्वित्यादि। अव्यभिचारत इति
हेतुः। येन यस्याव्यभिचारो न कथ्यते न तत् तस्य साध्यम्। तद्
यथा धूमस्य जलम्। न च साध्यधर्मेण हेतोरव्यभिचारो न कथ्यत
इति व्यतिरेकिणं स्वभावं मन्यन्ते॥
सिद्धत्वादिति। यत् सिद्धम् न तत् साध्यम् उष्णो ऽग्निरिति
यथा। सिद्धौ च केवलौ धर्मधर्मिणाविति स्वभावविरुद्धमाह॥
लिङ्गं धर्मे तु सिद्धं चेदिति। यो हि केवलं धर्मं साध्यमिच्छति
तेनावश्यं तत्रैव लिङ्गं द्रष्टव्यम्। अन्यथा तं न प्रत्याययेत्। न ह्यन्य-
त्र विदितं लिङ्गमन्यं प्रत्याययति मा भूदतिप्रसङ्ग इति। ततश् च
लिङ्गग्रहणकाल एव लिङ्गिनो गतत्वात् किमपरमनुमीयेत यदर्थं
सम्बन्धः स्मर्येत॥
अथाग्निसम्बद्धे देश इति सम्बद्धग्रहणमतिप्रसङ्गपरिहाराय। स
एव देशोऽग्निमत्त्वेन किं नेष्यत इत्येवश्रुतिः केवलस्य धर्मस्य
(41)
साध्यत्वव्यवच्छेदाय। एवं केवलो धर्मः साध्यत्वेन युज्यते यदि
धर्मी नास्यधारत्वेनेष्यते। अन्यथा यत्र धर्मिणि लिङ्गमुपलभ्यते
तत्राधार आश्रीयमाणे समुदाय एव साध्यः स्यात्। ततः स एवै-
ष्टव्यः। नियोगतश् चैतदेवमभ्युपेयम्। धर्ममात्रे हि साध्ये सत्तास्य
साध्या स्यात्। तच् चायुक्तम् तस्याः सिद्धित्वात् यदाह- न ह्य-
ग्निसत्ता न प्रतीतेति। तदनेन- यत् सिद्धिम् न तत् साध्यमित्या-
दिकं पूर्वोक्तं स्वभावविरुद्धमाह॥
सम्बन्धेऽपि द्वयं नास्तीति। द्वयं साध्यधर्मः साधनधर्मश् च।
न ह्यग्नेः प्रदेशस्य च संयोगलक्षणे सम्बन्धे वह्निधूमौ विद्येते। यदि
तत्र द्वयं नास्ति किमिति तस्य साध्यत्वं न भवतीत्याह- एवं च
क्रियत इत्यादि। अनुमानकाले हि यत्रतत्रशब्दाभ्यामनुमेयपराम-
र्शिभ्यामनुमानं क्रियते। अत्र यदि प्रदेशः साध्यः स्यात् युज्येत
ताभ्यां तस्य प्रत्यवमर्शः। अन्यथाग्निधूमौ स्वशब्देन निर्दिष्टौ प्रदे-
शोऽपि नानुमेयः। सम्बन्धेऽपि द्वयं नास्तीति निर्विषयौ तौ
स्याताम्। तदनेन- यत्राग्निधूमौ न स्तः न स धूमेनानुमेयः ज-
लवत्- न स्तश् चाग्निधूमौ सम्बन्ध इति विरुद्धव्याप्तमाह॥
(42)
षष्ठी श्रूयेतेति। सम्बन्धविवक्षायां ह्यग्निशब्दः षष्ठ्यन्तः स्यात्
यथाग्नेरुष्णः स्पर्श इत्यत्र। प्रथमान्तस् तु श्रूयतेऽग्निरत्रेति। ततो
गन्यते- नात्र सम्बन्धो विवक्षित इति। ननु च स्वार्थानुमानाधिका-
रोऽयम्। तत्र कः प्रसङ्गः षष्ठ्याः। नैष दोषः। षष्ठीश्रवणाभावेन
परार्थानुमाने स्फुटमुपलभ्य सम्बन्धाभावं स्वार्थानुमानेऽपि प्रतिपा-
दयति। तदेतदुक्तं भवति- यत्राग्निशब्दः प्रथामान्तः न तत्र सम्बन्धस्य प्रतियोगिनो विवक्षा। तद् यथा सम्बन्धाविवक्षायां प्रयु-
क्तेऽग्निशब्दे। प्रथमान्तश् चाग्निरत्रेत्यत्राग्निशब्द इति कार्यविरुद्धः॥
स्यादेतत्- अभिकरणविभक्त्यैव सम्बन्ध उक्तः। तत् कुतः षष्ठी-
प्रसङ्ग इति। यदा तर्ह्यनित्यः शब्द इति प्रथमान्तयोरेव धर्मधर्मिणोः
प्रयोगः तदा का कल्पना। न चाग्निरत्रेत्युक्ते आधाराधेयभावः
साध्यत्वेन प्रतीयते। किं तर्हि। अग्निरेव। तस्यापि च सम्बद्धस्य
प्रदेशे साध्यमानत्वात् स एव समुदायः साध्य इत्यापन्नम्॥
अवाच्यः स्वधर्मेणेति सम्बन्धनं हि सम्बन्ध इति भावरूपेण
सम्बन्धशब्देनाभिधानात्। भावश् चान्येन सम्बन्धिना युज्यत इति
(43)
सम्बन्ध्यन्तराकाङ्क्षा जायते- कस्य सम्बन्ध इति। ततश् च सम्ब-
न्ध्येव स भवतीति न स्वरूपेण सम्बन्धोऽभिधीयते। न चैवमनुमेय
इत्यभ्युपेतबाधामाह। पक्षवचनस्य हि साधनत्वमिच्छताभ्युपेतमनु-
मेयस्य वाच्यत्वम्। तत् सम्बन्धानुमेयत्वे हीयते॥
यदि शब्दवाच्यो न भवति कथं तर्हि प्रतीयत इत्याह- अर्थगृ-
हीतः स्यादिति। अग्निरत्रेत्यग्न्यधिकरणभावेन प्रदेशः शब्देन
प्रत्याय्यते। सति चाग्निसंयोगित्वे प्रदेशस्याधिकरणसक्तिः। अतः
सैव प्रतीयमाना नान्तरीयकत्वात् संयोगं गमयतीत्यर्थगृहीत इत्यु-
च्यते अधिकरणशक्तिस्वकार्योन्नीयमानत्वात्॥
नन्वेवमनुमेय एव स्यात्। धूमादिलिङ्गसाध्यातातिवृत्तिस् तस्य
विवक्षिता नाशेषलिङ्गिसाध्यतातिवृत्तिरित्यविरोधः। यदप्युक्तम्-
कार्यानुमेयः सम्बन्ध इति तदपि स्वकार्यानुमेयत्वादुक्तम् न तु
धूमादिलिङ्गानुमेयत्वात्। एतदुक्तं भवति- यदि नाम सम्बन्धोऽस्ति
स्वकार्येणैवानुमीयते न त्वन्येन धूमादिनेति। यदाह- न तु धूमे-
नानुमीयत इति। पूर्वेभ्यो हेतुभ्य इति। सम्बन्धेऽपि द्वयं नास्ति
षष्ठी श्रूयेत तद्वति अवाच्य इत्येतेभ्यः॥
(44)
न चासौ लिङ्गसङ्गत इति नाविनाभावलक्षणेन सम्बन्धेन
लिङ्गेन सम्बद्ध इत्यर्थः। यस्य येनाविनाभावित्वं न प्रदर्श्यते न स
तेनानुमीयते यथा धूमेन जलम्। न प्रदर्श्यते च सम्बन्धेन धूम-
स्याविनाभावित्वम्। विरुद्धव्याप्तः। अप्रदर्शनं तु अर्थान्तरस्य
तदकार्यत्वेनाविनाभावस्यासत्त्वात्। नैष इत्यादिनानेकान्तमाह॥
अन्यत्रेति सामान्येन सर्वत्र महानसादौ। स किमर्थं प्रदर्श्यते।
यत्र प्रदेशादावग्न्यादिः साधयितुमिष्टः तत्र प्रसिद्धं धूमादिलिङ्गं येन
धर्मेण तदविनाभूतमनलादिना तत्सम्बद्धं प्रदेशादिकं धर्मिणं गम-
यिष्यतीत्येवमर्थम्॥
यस् त्वन्यत्रेति धूमवत्प्रदेशसामान्ये। सोऽन्यत्रेत्यादि। अयम-
न्यत्रशब्दो धर्मिणि साध्ये प्रदेशादौ वर्तते। धूममात्रदर्शने ऽपीति।
मात्रशब्दोऽग्निदर्शनव्यवच्छेदार्थः अग्नावदृष्टेऽपीत्यर्थः। अथ वा
मात्रशब्देनेदं दर्शयति- विनापि धर्मिणानुगमदर्शनेनेति॥
एष समासार्थः- धर्मविशिष्टस्य धर्मिणोऽनुमेयत्वेऽपि योऽग्निना
धूमस्याविनाभावो महानसादौ प्रदर्श्यते स उपाय एव प्रदेशस्या-
ग्निमत्त्वप्रसाधनायेति कृत्वा। तथा हि- यत्र धूमः तत्राग्निरिति
निश्चयादन्यत्र धूममात्रं दृष्ट्वा देशमग्निमन्तं प्रतिपद्यते। ततो धर्मेणा-
विनाभावित्वमवश्यं प्रदर्शयितव्यमिति। धर्मिणा तु विशेषेण वावि-
(45)
नाभावः प्रदर्श्येत सामान्येन वा। तत्र न तावद् विशेषेण प्रदर्श-
यितव्यः अन्यत्र तस्याभावित्वेनाशक्यत्वात् यदाह- अन्यथा
हीत्यादि। धर्मिसामान्येन तु सम्भवत्यविनाभावः स च तेन प्रद-
र्शितः यदाह- आधारसामान्येन त्वित्यादि। आधेयेनाविना-
भावित्वे दर्श्यमान आधारेणापि दर्शितं भवति आधेयतन्त्रत्वादाधार-
स्य॥
अथ वा यत्र धूमः तत्राग्निरिति नानेन धूमस्याग्निमात्रेणाविना-
भावित्वं कथ्यते। किं तर्हि। आधारसामान्यविशिष्टेन। तस्मादाधार-
सामान्येनापि तद् दर्शितमेव। सम्बन्धेन तु सर्वथाविनाभावित्वस्या-
दर्शनमेवेतीदमुक्तम्- विषम उपन्यास इति। तदेवं सामान्येनाप्य-
विनाभावित्वाप्रदर्शनं हेतुरभिमतम्। न च तस्य विपक्षे वृत्तिरिति
नानेकान्तः॥
धर्मेऽपि तु विचारोऽन्य इति। पूर्वमनुमेयगतो विचार उक्तः
इदानीं तु साध्यधर्मगतो विचारः। लिङ्गतश् च प्रदर्श्यते। तुशब्दो
विचारस्य सम्भवं द्योतयति। स पुनर्विचारो यावेव लिङ्गलिङ्गिनौ
धर्मिवदनेकधर्मकौ यथाग्निधूमौ तत्रैव प्रत्याय्यप्रत्यायकांशनिरूप-
(46)
णाय भवति न तु कृतकत्वानित्यत्वादौ। तत्रानेकधर्मकत्वासम्भवात्
केनांशेन गम्यगमकभाव इत्याशङ्का न सम्भवत्येव॥
अनुबद्धस्य विच्छेदमिति। अनुबध्नातीत्यनुबद्धः। योंऽशो वह्नि-
मनुगच्छति द्रव्यत्वादि तस्यान्यतो विपक्षाद् विच्छेदं व्यावृत्तिं
गमयति। के पुनर्विशेषा अनुबद्धा इत्याह- यान् अन्तरेनाग्निर्न
भवतीति। ननु च धूमस्य सूचकत्वाद् यान् अन्तरेण धूमो न
भवतीति वक्तव्यम्। तत् किमित्येवमाह। अयमेवार्थोऽनेन प्रकारेण
कथ्यत इत्यदोषः। तथा हि- यानन्तरेणाग्निर्न भवति धूमोऽपि
तैर्विना न भवत्येव॥
अथ वा ये त्वनुबद्धा इति धूमस्यैवानुबद्धा इति योज्यम्। धूममेव
येऽनुबध्नन्ति तानेव दर्शयितुमाह- यानन्तरेणेत्यादि। त एव हि
धूममनुबध्नन्ति यानन्तरेणाग्निर्न भवति। अनुबद्धानामन्यतो
व्यावृत्तिं गमयतीत्यत्रोदाहरणमाह- यथाग्नेरनग्निनिवृत्तिमात्र-
मिति। कस्मान्निवृत्तिमात्रं प्रत्याययति न विशेषमित्याह- स्वस-
म्बन्धानुरूप्यादित्यादि। कारणहेतुरयम् न लिङ्गम्। तथा ह्यसा-
विति तत्सम्बन्धानुरूप्यमाह। सर्वत्रानग्नौ न दृष्ट इत्यनेन व्यतिरे-
कस्य प्राधान्यं विपक्षे सर्वत्रादर्शनेन ख्यापयति। अन्यत्रापि च दृष्ट
इति। अपिशब्देन क्वचिन् न दृष्टोऽपीति द्योतयन्नन्वयस्याप्राधा-
न्यम्। तदेवं यस्मादन्वयोपसर्जनो व्यतिरेकप्रधानः सम्बन्धः स च
(47)
सामान्येनैव सम्भवति न विशेषेण तस्मात् तदानुरूप्याद् व्यतिरे-
कमुखेनाग्निरेवात्रानग्निर्न भवतीत्यनग्निनिवृत्तिमात्रं प्रतिपादयति
न विशेषम्। यथा चाग्नित्वेन सम्बन्धः तथा द्रव्यत्वगुणित्वा-
दिभिरपीति। तेषामप्यद्रव्यत्वादिनिवृत्तिमेव प्रतिपादयति॥
व्यावृत्तिमुखेन हेतुर्गमयतीत्यत्र हेत्वन्तरमाह- गुणत्वगन्धसौ-
रभ्यतद्विशेषैरित्यादि। एकवृद्ध्येत्येकैकवृद्ध्येत्यर्थः। गुणत्वेना-
द्रव्यादिति। द्रव्यमिदम् गुणत्वादिति गुणत्वेनाद्रव्यव्यवच्छेद
उत्पलादौ क्रियते। तथा हि- तत् सर्वत्राद्रव्ये न दृष्टम् द्रव्ये
दृष्टम्। तत्राद्रव्यव्यवच्छेदे प्रथमेनास्त्येकवृद्धिः यदपेक्षया गन्धेनै-
कवृद्ध्या व्यवच्छेदः क्रियते। तत्प्रदर्शनार्थं तु गुणत्वेनाद्रव्यादित्यु-
क्तम्। अत एव च गुणत्वस्याप्येकवृद्ध्या व्यवच्छेदकरणं प्रत्यङ्गभावो
ऽस्ति। यदि हि तेनाद्रव्यव्यवच्छेदो विधीयते एवं गन्धेनैकवृद्ध्या
व्यवच्छेदः क्रियते नान्यथा। एवं च श्लोके द्वन्द्वसमासान्तः पातित्वं
गुणत्वशब्दस्याविरुद्धं भवति तुल्यकक्ष्यत्वात् पदान्तरैः। गन्धत्वे-
(48)
नापार्थिवादद्रव्याच् चेति। पार्थिवमिदं द्रव्यं च गन्धत्वादित्यपा-
र्थिवादद्रव्याच् च व्यवच्छेदः क्रियते। सौरभ्येणासुरभिसाधारणा-
दिति। गन्धवदेतत् सौरभ्यादिति सौरभ्येण पूर्वकाभ्यामसुरभिसाधा-
रणाच् च व्यवच्छेदः क्रियते। सुरभेर्गन्धविशेषस्य साधारणं सामा-
न्यं सुरभिसाधारणम् गन्धत्वमात्रमिह विवक्षितम्। अविद्यमानं
सुरभिसाधारणं यस्य तत् तथोक्तम् निर्गन्धमित्यर्थः। सुरभिवि-
शेष उत्पलादिगन्धविशेषः। तदेवमद्रव्यादिव्यवच्छेद एकैकवृद्ध्यो-
त्पलादिषु गुणत्वादिभिः क्रियमाणो दृष्टः॥
स कथं युज्यते यदि विपक्षव्यावृत्तिमुखेन हेतुः प्रत्याययति
नान्यथा दृष्टवत्। विधिमुखेन हि सर्वेषु सर्वेषां दर्शनस्याविशिष्टत्वात्
तुल्या प्रतीतिः स्यात्। तस्माद् व्यावृत्तिद्वारेणैव हेतुर्गमयतीत्यभ्यु-
पेयम्। ये तु तन् नेच्छन्ति तान् प्रत्याह- दृष्टवदित्यादि। दृष्टेन
तुल्यं दृष्टवत् यथा पूर्वं सम्बन्धकाले लिङ्गम् उपलब्धम् तथा
यदि प्रकाशयेदित्यर्थः। विधिमुखेन- अग्निरत्र भवतीति न व्या-
(49)
वृत्तिमुखेन- अग्निरेवात्र नानग्निरिति। एवं सर्वत्रादर्शनान् न स्यात्
प्रकाशनमिति ज्ञेयम् प्रकाशयेदिति प्रक्रान्तत्वात्॥
यदि हि यथाग्नौ दृष्ट इत्यादि। यद्येवमभ्युपगच्छेद् विधिवादी-
यस्माद् वह्नावेव धूमो दृष्टः नाग्न्यभावे तस्माद्गमयतीति एवं
सति प्रतिषेधद्वारकमेव प्रकाशनं स्यात्। तस्मात् तेनैवमभ्युपेयम्-
यस्मादग्नौ दृष्ट एव न त्वदृष्टः तस्मात् स तं गमयतीति। ततश् च
नैव प्रकाशयेत्। न हि सर्वत्र सोऽग्नौ दृष्टः दिग्दशादिभिन्ने सर्वत्र
वह्नौ दर्शनासम्भवात्॥
यदि चेति दोषान्तरमाह। यदा हि धूमोऽग्नौ दृश्यते तदा
दीप्तादीनां विशेषाणामन्यतमेन युक्त एव दृश्यते। ततश् च तानपि
प्रकाशयेत्। न चैवम्। तस्मान् न दर्शनमात्रमनुमेयप्रतिपत्तिहेतुः
सत्यपि तस्मिन् तदभवादिति। ननु प्रतिषेधवादिनोऽपि दर्शनमिष्ट-
मेव। तथा हि- कार्यत्वेनाविनाभावित्वाद्धूमो हुतभुजो हेतुः। कार्य-
कारणभावश् च दर्शनादर्शनाभ्यां सहिताभ्यां सिध्यति न केवला-
ददर्शनादित्याह- यतस्त्वित्यादि। एतद् दर्शयति- यस्माद्धूमोऽग्निं
(50)
सामान्यरूपेणैव प्रकाशयति न विशेषरूपेण दीप्तादिना तस्मात्
कार्यकारणभावसिद्धये विधिनापि तदेवास्य रूपं दृष्टमिति गम्यते
न विशेषरूपम् कार्यकारणव्यवहारसिद्धिहेतुत्वेनेत्यभिप्रयः। न हि
दीप्तादिविशेषदर्शनं कार्यकारणव्यवहारसिद्धिहेतुः तदभावेऽपि धू-
मस्य दर्शनात्। अंशेन जन्यजनकभाव इति चेत् न तज्जन्यविशे-
षग्रहणेऽभिमतत्वात् सर्वथा जन्यजनकभावस्य। अविशिष्टसामान्य-
ग्रहणे व्यभिचारान्नेष्यते॥
स्यादेतत्- सामान्यवस्त्वेकमेव व्यक्तिषु तद्व्यतिरिक्तमव्यतिरिक्तं
वास्ति। तस्य च प्रतिव्यक्ति सर्वात्मना परिसमाप्तत्वादेकस्यामेवाग्नि-
व्यक्तौ दर्शनोपपत्तिः। तस्मात् सर्वत्रादर्शनान् न स्यात् प्रकाशन-
मित्ययुक्तमेतदित्याह- सामान्यं यद्यपीत्यादि। यद्यपीत्यनेन ना-
स्त्येव तत्। अभ्युपेत्य तु दोष उच्यत इत्येतद् दर्शयति॥
न तावदग्नित्वमस्तीति। यदि व्यक्तेरन्यत् सामान्यं स्यात्
भेदेन बुद्धौ प्रतिभासेत न च प्रतिभासते। तस्मात् स्वभावानुपल-
म्भतिरस्कृतसत्ताकं नास्त्येव तत्। अथानन्यत् एवमपि व्यक्तिवत्
तत् सामान्यमेव न स्यात्। तथाप्यभ्युपगम्य तद्दर्शनासम्भवं प्रति-
(51)
पादयितुमाह- सत्यपि तस्मिन्नित्यादि। यदनेकाश्रयसाधारणम-
गृहीतसकलाश्रयम् न तद् द्रष्टुं शक्यम् यथागृहीतसकलाश्रयं
द्वित्वादि। तथा चाग्नित्वम्। व्यापकविरुद्धः। नापि सादृश्यस्येति।
आश्रयादव्यतिरेकित्वात् सादृश्यं पृथगुपन्यस्तम्। अत्राप्ययमेव
प्रयोगो वाच्यः। अथैकाश्रयग्रहणेऽपि समस्तं गृह्यते एवं सति
तस्य प्रत्येकं सर्वात्मना परिसमाप्तत्वाद्गुणवदनेकत्वं स्यात्। न ह्ययं
सम्भवोऽस्ति- यदेकत्र सर्वात्मना परिसमाप्तम् तदन्यत्रापीति।
यदनेकत्र प्रत्येकं सर्वात्मना परिसमाप्तम् तदनेकम् गुणवत्।
तथा च सामान्यम्। स्वभावः प्रसङ्गः। अवयविनोऽप्यनेनैव प्रति-
षेधान् नानेकान्तः। अनेकत्वाच् च तत् सामान्यमेव न स्यात्
आश्रयवत्। सामान्यं ह्येकमिष्यते॥
तथेत्यादिना प्राक्प्रतिज्ञाते लिङ्गे विचारं दर्शयति। अङ्ग्यते गम्य-
तेऽनुमेयमनेनेत्यङ्गं लिङ्गमुच्यते। नातिवर्तत इति न व्यभिचरती-
त्यर्थः। अनेकधर्मापीति सामान्यविशेषधर्मैः॥
धूमत्वपाण्डुत्वादिनेति। पाण्डुत्वमिह धूमसम्बन्ध्येव विवक्षि-
तम् न तु दधिशरादिवृत्ति तस्य व्यभिचारात्। द्रव्यत्वादयोऽपि
तर्हि यदा धूमोपाधयो गृह्यन्ते तदा तैरपि किमिति न प्रत्याययति।
(52)
प्रत्याययत्येव नात्रान्यथाभावः। अविशिष्टसामान्यग्रहणं त्वभिस-
न्धायेद्मुक्तम्- न द्रव्यत्वादिभिरिति। धूमत्वपाण्डुत्वादिनेति।
आदिशब्देन कटुकत्वादयो विशिष्टा गृह्यन्ते॥
उक्तमेवार्थं सङ्ग्रहश्लोकाभ्यां सङ्गृह्णाति सुखप्रतिपत्तये- गम्यन्ते
लिङ्गतस् तेऽपीति। तेऽप्यनुबन्धिनो द्रव्यत्वादयो गम्यन्ते नाग्नि-
त्वादिक एव धर्मः यस् तदानीं बोद्धुमिष्ट इत्यपिशब्दस्यार्थः। व्य-
भिचारिण इति लिङ्गात्। दीप्तादिविशेषापेक्षया तस्य व्यभिचारि-
त्वम्॥
लिङ्गानुबन्धिनस् त्वर्था इत्यविशिष्टा द्रव्यत्वादयः सामान्य-
धर्माः। विशिष्टास् त्विति धूमत्वादयः। ते चाविशिष्टद्रव्यत्वादिसा-
मान्यापेक्षया विशेषा इत्युच्यन्ते न त्वसाधारणरूपापेक्षया॥
ननु द्विगतत्वादिति। सम्बन्धः सर्व एव द्विष्ठः। तस्य च सम्बन्धि-
नोरविशेषेण वृत्तिः। ततश् च यथायं संयोगित्वे संयोगिनोर्नास्ति
विशेषः तथा लिङ्गलिङ्गिनोरपि न स्यात्। एवं च लिङ्गसामान्यमपि
गमकं स्याल् लिङ्गिविशेषोऽपि च गम्यः स्यात् सम्बन्धस्याविशे-
(53)
षादिति। यावेकसम्बन्धाश्रयौ तावभिन्नधर्माणौ संयोगिवत्।
तथा च लिङ्गलिङ्गिनौ। स्वभावप्रतिरूपकः॥
सम्बन्धो यद्यपि द्विष्ठ इति। नैव सम्बन्धो द्विष्ठः। तथा हि- अ-
विनाभावित्वं सम्बन्धः। तच् च लिङ्ग एव वर्तते न लिङ्गिनि। अभ्यु-
पेत्य तु द्विष्ठत्वं साहभाव्ये सत्युत्तरमुच्यत इति दर्शयति। आधारा-
धेयवदिति। आधाराधेययोरिव वृत्तिस् तस्य लिङ्गलिङ्गिसम्ब-
न्धस्य न तु संयोगिनोरिव॥
न कदाचिदाधार इत्यादि। आधेयस्य धर्म आधारायत्तस्थिति-
त्वम्। आधारस्य धर्म आधेयस्थापनम्। आधाराधेययोरेकसम्ब-
न्धाश्रयत्वेऽपि नाभिन्नधर्मत्वमित्यनैकान्तिकत्वमाह। तथा न कदा-
चिदित्यादि। न लिङ्गिलिङ्गे परस्परधर्मके भवत इत्यर्थः। संयोगी
त्वित्यादिना संयोगिभ्यां लिङ्गलिङ्गिनोर्विसदृशत्वमाह॥
तथा हीत्यादिनैकसम्बन्धाश्रयत्वस्यासिद्धतामुद्भावयन् पूर्वोक्तमेव
गम्यगमकभावं समर्थयते। तथा हि- लिङ्गलिङ्गिनोरविनाभावः स-
(54)
म्बन्धः। स च लिङ्ग एव वर्तते न लिङ्गिनीत्यमुनावधारणद्वयेन
प्रतिपाद्यते। कथं कृत्वा। यस्माल् लिङ्गे लिङ्गी भवत्येवेति॥
कथमवधारणं युज्यते। यदि- यत्र यत्र लिङ्गम् तत्र तत्र लिङ्गी
भवति। लिङ्गिनस् त्वन्यत्र वृत्तिरनेन न प्रतिषिध्यते लिङ्गे तदभाव-
मात्रव्यवच्छेदफलत्वादवधारणस्य। ततश् च लिङ्गिनि नाविनाभावि-
त्वं वर्तत इत्युक्तं भवति लिङ्गादन्यत्रापि तद्भावसूचनात्। यथाग्नित्वं
धूमे भवत्येव तथा द्रव्यत्वादयोऽपि। तस्मात् तेषामपि धूमो गम-
कः न तु दीप्तादीनाम्। न हि ते धूमे भवन्त्येव यदाह- तस्माद्
युक्तमित्यादि। लिङ्गिन्येवेतरत् पुनरित्यनेनापि लिङ्ग एवाविनाभा-
वः प्रवर्तत इति सूचयति लिङ्गिनोऽन्यत्र लिङ्गं न भवतीत्यर्थगतेः।
लिङ्गिनस् तु लिङ्गादन्यत्र भावो न प्रतिषिध्यते। यथा च धूमत्वमग्नौ
भवत्येव तथा पाण्डुत्वादयोऽपि विशेषाः। तस्मात् तेऽपि गमकाः
न तु द्रव्यत्वादयः। न हि तेऽग्नौ भवन्त्येव यदाह- तस्माद् युक्त-
मित्यादि। एवं हीत्यादिनोत्तरार्धं विवृणोति॥
(55)
ननु पूर्वं लिङ्गस्य लिङ्गिनि सद्भाव उक्तः तत्तुल्ये सद्भाव इति
वचनात्। इह तु लिङ्गिनो लिङ्गे सद्भव उच्यते लिङ्गे लिङ्गी भव-
त्येवेति वचनात्। तत् कथं न विरोधः। नैष दोषः। लिङ्गलिङ्गिनोरे-
काधिकरणत्वे यथा लिङ्गे लिङ्गी भवति एवं लिङ्गमपीतरत्र। केवल-
मवधारणवैपरीत्येन लिङ्ग एव सम्बन्धो वर्तत इति प्रतिपादनायेद-
मुच्यते। यदि तर्हि लिङ्ग एव वर्तते कथं सम्बन्धो लिङ्गलिङ्गिनो-
रित्युक्तम्। लिङ्ग एव वर्तमानोऽप्यसौ लिङ्गिनं प्रतियोगिनमपेक्ष्य
वर्तत इत्येवमुक्तम् न तु द्विष्ठत्वादित्यदोषः॥
ननु चेत्यादिना यदुक्तम्- नियमस्य विपर्यासे सम्बन्धो लिङ्ग-
लिङ्गिनोरिति तद् विघटयन् लिङ्गिन्यप्यविनाभावो वर्तत इति
दर्शयति॥
काममित्यादिना यद्यपि लिङ्गमपि किञ्चिल् लिङ्गिनि भवत्येव
तथापि लिङ्गिरूपेणैव। एवं च कृतकत्वसाध्यापेक्षया हेतुभूत एवानि-
त्यत्वेऽविनाभावो वर्तत इति दर्शयन् स्वपक्षमेव स्थापयति।
लिङ्गमपि व्यापीति। व्याप्नोतीति व्यापि। लिङ्गिनीत्यनित्यत्वे। यत्
तद्व्यापित्वम् तल् लिङ्गिविषयमिति लिङ्गिनि व्यापीत्युक्तम्। तद्
(56)
यथाक्षेषु धूर्त इति। अङ्गि तु तत् ततो व्यापित्वादिति। अनित्यत्वे
भाव एव कृतकत्वस्य व्यापित्वम्। ततो व्यापित्वात् कृतकत्वं गम्यमेव
भवति न गमकम्। किंवदित्याह- गोविषाणवदिति। यथा
विषाणं गोर्व्यापित्वाद्गवापेक्षया गम्यमेव सम्पद्यते न तु गमकम्
तद्वदिति। यो यत्र भवत्येव स तस्य गमकः। यथा गोत्वं विषाणि-
त्वस्य। भवत्येव च कृतकत्वमनित्यत्वे। स्वभावः॥
किं कारणमिति व्याप्तिमसम्भावयन् पृच्छति। प्रतिषेध्याप्रचारे-
णेत्यादि। प्रतिषेध्यः साध्यविपक्षः। तत्र हेतोरप्रचारोऽभावः। तेन
लिङ्गस्य या व्याप्तिः सापेक्ष्यत आश्रीयते तस्या एव गमकत्वहेतु-
त्वात्। तस्माल् लिङ्गस्य लिङ्गिविषया या व्याप्तिः सा विद्यमाना-
प्यकारणम् गमकत्वस्य न निमित्तमित्यर्थः॥
कृतकत्वस्येत्यादि। यद्यपि सकलानित्यत्वव्यापि कृतकत्वम्
तथापि न तेन व्यापित्वेन तस्य गमकत्वम् अपि तु नित्यत्वप्रतिषे-
धेन। नित्यत्वे प्रतिषेधोऽप्रचारः। तेनैव गमकत्वम्। न हि विपक्षा-
दव्यावृत्तो हेतुः साध्यं गमयति प्रमेयत्ववत्। तथानित्यत्व-
(57)
स्येत्यादि। यदा कृतकत्वसिद्धयेऽनित्यत्वं हेतुत्वेनोपादीयते तदाप्य-
नित्यत्वस्याशेषकृतकत्वव्यापित्वेऽपि न तेन व्यापित्वेन गमकत्वम्।
किं तर्हि। अकृतकत्वप्रतिषेधेन अकृतकत्वे विपक्षेऽभावेनेत्यर्थः।
तदेवं यतः स्वसाध्यविपक्षव्यावृत्त्या हेतोर्गमकत्वं भवति नान्यथा
तस्माद् यदनित्यार्थे कृतकत्वस्य व्यापित्वम् तेनाकृतकत्वानव-
काशाद् अनित्यत्वस्याकृतकत्वेऽनवकाशादनवस्थितत्वादसम्भवाच्
चानित्यत्वेन कृतकत्वस्याकृतकत्वप्रतिषेधेनाकृतव्यवच्छेदेन ग-
म्यतैव स्यात्। अकृतकत्वप्रतिषेधेनेति वचनं विधिमुखेन प्रत्याय-
नव्यवच्छेदार्थम्। न तु गमकत्वमिति यस्माद् विपक्षाप्रचारेण या
व्याप्तिः सा गमकत्वनिमित्तम्। न चानित्यत्वे कृतकत्वस्य व्याप्तिर्वि-
पक्षाप्रचारेण। तथा हि- यदनित्यम् तत् कृतकमिति व्याप्तावुपद-
र्शितायां न नित्यात् कृतकत्वस्य व्यावृत्तिर्गम्यते। किं तर्हि। अकृत-
(58)
कत्वादनित्यत्वस्य। ततोऽनित्यत्वमेवाकृतकत्वेऽनवकाशमित्यकृत-
कत्वप्रतिषेधेन गम्यतैव कृतकत्वस्यानित्यत्वेन युज्यते न गम-
कत्वमित्युक्तार्थसङ्ग्रहं श्लोकाभ्यां करोति॥
नाशिनः कृतकत्वेनेत्यादि। अनित्यस्य कृतकत्वेन व्याप्तेरनि-
त्यत्वादकृतकं न तदित्ययमर्थोऽप्रसुत एव गम्यते। इतिकरणो
लुप्तनिर्दिष्टः। यस् तु प्रकृतो नित्यत्वाभावोऽनित्यत्वम् स तया
व्याप्त्या कृतकेऽर्थे न प्रदर्श्यते॥
अस्यैवार्थस्य स्पष्टीकरणाय द्वितीयेन श्लोकेन दृष्टान्तमाह-
अविषाणित्वं निवर्तयेदिति विषाणित्वं गमयेदित्यर्थः। नागवार्थ-
निवर्तकमिति न गवार्थस्य साधकमित्यर्थः॥
(59)
नान्तरीयकार्थदर्शनं तद्विदोऽनुमानमिति। योऽर्थो यमन्तरेण न
भवति स तस्य नान्तरीयकः यथाग्नेर्धूमः। तस्य दर्शनमनुमा-
नम् अनुमीयतेऽनेनेति कृत्वा। अनुमेयार्थज्ञानं तु फलम्। अनेन
व्यभिचारिदर्शनं निरस्तम्। सम्बन्धस्मृत्यपेक्षतां लिङ्गदर्शनस्य दर्श-
यितुम्- तद्विद इत्युक्तम्। यस् तं वेत्ति- नान्तरीयकोऽयमिति
तस्यानुमानम् नान्यस्य॥
नानतरीयकत्वेनैवेति। तस्य हि नान्तरीयकत्वमेव स्व आकारो
भवति। न वाच्यम्- तद्विद इति सामर्थ्यलब्धत्वादस्य। न ह्यत-
द्विदो नान्तरीयकोऽयमिति दर्शनं सम्भवति। इतिकरणो लुप्तनि-
र्दिष्ट इति। विना हि तेन स्वरूपपदार्थकत्वं न विज्ञायेत। अन्यदेव
किञ्चित् तद्विदो न वाच्यमित्यर्थगतिः स्यात्। निर्देशो निर्दिष्टम्।
लुप्तं निर्दिष्टं यस्य स तथोक्तः। लोपस् तु तस्य वाक्यस्य स्वरूप-
प्रत्यायने विवक्षिते प्रसक्तस्यादर्शनमेव प्रसक्तस्यादर्शनं लोप इति
कृत्वा। अनेनैतत् सूचयति- स्वरूपपदार्थकं तद्विद इत्येतद् वेदित-
(60)
व्यम्। इतिकरणस् तु तदर्थनिर्देशार्होऽपि वृत्तभङ्गभयान् न निर्दिष्ट
इति॥
अन्येन यदि वाच्यं कथं क्व वेति। अनेकाकारत्वात् तस्य
वक्तव्यम्- केनाकारेण दर्शनं क्व वा स्थाने। अनुच्यमाने हि
तस्मिन् स्थाने नियमो न स्यात्। ततश् च घटे चाक्षुषत्वदर्शनाच्
छब्देऽप्यनित्यत्वं प्रतिपद्यते॥
ननु पूर्वस्मिन्नपि विकल्पे क्व दर्शनमिति वाच्यमित्येतच्
चोदयितुं युक्तमेव। तत् किमिहैव चोद्यते। एवम् मन्यते- नान्तरीय-
कत्वेन दर्शने यमन्तरेण स न भवति तत्रैव दर्शनमित्यनुक्तमपि
गम्यत एव तस्य प्रत्यासत्तेरिति॥
अर्थ इति शिष्यत इति अर्थग्रहणमतिरिच्यत इत्यर्थः। तथा
हि- नान्तरीयकोऽर्थ एव भवति। किमर्थग्रहणेन। तस्माद् दर्शन-
विशेषणार्थं तदिति प्रत्येयम्। तेन लिङ्गस्याकारग्रहणमनुमानम्।
ननु स्वाकारस्य व्यभिचारित्वान् न तेनानुमानं सम्भवति। एवं
मन्यते- धूमादिरूपेणैव ग्रहणमर्थग्रहणम्। अन्यथा सामान्या-
नुयायित्वाद् ग्रहणमात्रमेतत् स्यात्। ततश् च वृथार्थग्रहणं स्यात्
अर्थाकारग्रहणमात्रस्य नान्तरीयकग्रहणेनैव लब्धत्वादिति। साध्यश्
(61)
च प्रकृत इति। विचारणायामिष्टोऽर्थः पक्ष इति अथ वा साध्या-
भिधानं प्रतिज्ञेत्यत्र। तस्मात् साध्ये दर्शनमिति प्रतीयते॥
किं हि पूर्वेणेति। अर्थदर्शनं नान्तरीयकत्वविद इत्युक्ते यो हि
नान्तरेणाग्न्यादिमयं धूमादिर्भवतीति वेत्ति तस्यैवंविदुषो नान्तरीय-
कार्थदर्शनमेव तद् भवति। अथ वार्थदर्शनं नान्तरीयकत्वविद इत्युक्ते
यस्यार्थस्य साध्ये दर्शनम् तन्नान्तरीयकत्वविद इत्यर्थः प्रतीयते।
ततश् च किं पूर्वेण नान्तरीयकग्रहणेन॥
अग्न्यादिषु चेति। अग्निबीजानित्यत्वानामनुमेयत्वेनोदाहरणाद्
धर्ममात्रमनुमेयत्वेभिमतमिति गम्यते। तथा हि- वर्तमानादिभे-
देनैतदुदाहरणत्रयं वक्ष्यते। न च धर्मविशिष्टस्य धर्मिणः साध्यता-
यामयं भेदः सम्भवति सर्वत्र धर्मिणो वर्तमानत्वात्। ततश्
चाग्न्यादौ धूमादिदर्शने निश्चिता एवाग्न्यादयो भवन्तीति किमन्यत्
तद्विदानुमेयम्। एतेन यदुक्तम्- साध्ये दर्शनमिति तस्यायुक्तत्व-
माह॥
(62)
कथं तद् वेत्त्यनुक्तमित्यनेनाप्यस्फुटीकरणदोषोऽपीति॥
(63)
नैयायिकानां त्वित्यादि। प्रत्यक्षानुमानोपमानशब्दाः प्रमाणा-
नीत्युद्दिश्य प्रत्यक्षलक्षणेऽभिहिते तदनन्तरं प्राप्तावसरमनुमानलक्ष-
णमाह- तत्पूर्वकमित्यादि। तदनन्तरं प्रकृतं प्रत्यक्षं पूर्वं यस्य तत्
तथोक्तम्। पूर्वं यस्य प्रत्यक्षेण लिङ्गलिङ्गिनौ प्रसिद्धौ तत्सम्बन्धो वा
स एवोत्तरकालं लिङ्गमात्रदर्शनाल् लिङ्गिनमनुमिमीत इति प्रत्यक्ष-
पूर्वं तद् भवति॥
पूर्वेण तुल्यं पूर्ववत्। यथा सम्बन्धकाले प्रत्यक्षेणाधिगतं वस्तु
तथैवोत्तरकालं लिङ्गदर्शनादपि तत्र ज्ञानमुपजायते। तस्मात् तत्
पूर्ववत्। शेषेण प्रत्यक्षेण तुल्यं शेषवद्वस्तु। तद्विषयमपि ज्ञानं
शेषवत्। यथा फलमेकं रसतः प्रत्यक्षीकृत्य शेषाण्यप्येवंरसानि
प्रत्यक्षरसेन तुल्यत्वात् तद्वदिति रसानुमानम्। ननु च प्रत्यक्षादितरच्
छेषं भवति न तु शेषवत्। अतस् तद्विषयं ज्ञानं कथं शेषवद्विषयं
भवति। परस्परापेक्षं शेषत्वमिति प्रत्यक्षमपीतरापेक्षया शेषं तेन
चेतरस्यापि तुल्यत्वाच् छेषवत्त्वमित्यदोषः॥
(64)
अथ वा पूर्वं कारणम्। तदस्यास्तीति पूर्ववत् कार्यम्। तद्विषय-
मपि ज्ञानं पूर्ववत् यत् कारणात् कार्यानुमानम्। शेषं कार्यम्।
तदस्यास्तीति शेषवत् कारणम्। तद्विषयमपि ज्ञानं शेषवत् यत्
कार्यात् कारणानुमानम्॥
सामान्यतो दृष्टम् यदन्यसादृश्यादन्यत्रात्यन्तपरोक्षे ज्ञानम्।
यथा चैत्रस्य गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्य तत्सामान्येन रवेर-
पि गतिपूर्विकास्तगिरिप्राप्तिरनुमीयते। निर्देशादेव त्रित्वे सिद्धे त्रिवि-
धग्रहणमेकस्य पूर्ववदनुमानस्य त्रिकालविषयत्वेन त्रिविध्यज्ञापना-
र्थम्। तत्र नदीपूराद् वृष्टो देव इत्यतीतेऽनुमानम्। पिपीलिकाण्डस-
ञ्चाराद् वर्षिष्यतीत्यनागते। केकायितादत्र मयूर इति वर्तमाने। अत्र
मतुपा पूर्ववत्त्वं न सम्भवतीति वतिना योजयितव्यम्॥
सम्बन्धो नेन्द्रियग्राह्य इति। भूतगुणवत् सम्बन्धिभ्यो भेदेनाप्र-
तिभासनादिति मन्यते। य इन्द्रियज्ञाने न प्रतिभासते नासाविन्द्रि-
यग्राह्यः इन्द्रियवत्। तथा च सम्बन्धः। व्यापकाभावः॥
नापि सर्वत्रेति चक्षुर्विज्ञानेन्द्रियादीनामिन्द्रियेण ग्रहणासम्भ-
वात्। सर्वत्रग्रहणम् अग्निधूमादीनां प्रत्यक्षग्रहणसम्भवात्।
अनेनाव्यापितामाह। अथ वा सर्वत्रैव सम्बन्धिनावप्रत्यक्षावित्ययम-
(65)
र्थः सामान्यरूपत्वात् तस्य चाप्रत्यक्षत्वस्य प्रतिपादितत्वात्। ततश्
चासम्भवादलक्षणमेतत्। नापि लिङ्गलिङ्गिनौ प्रत्यक्षावित्येतावतैव
विवक्षितार्थप्रतीतावपि सर्वत्रेति ग्रहणं केषाञ्चिदग्निधूमादिषु प्रत्यक्षा-
भिमाननिरासार्थम्॥
न वतिः सर्वसम्भवादिति। सर्वेषां पूर्ववत्व एकस्यैव पूर्ववत्त्वं
ब्रुवतेतरयोस् तन् नास्तीति प्रतिज्ञातम्। तच् च सिद्धेन पूर्वत्त्वेन
बाध्यते। सम्बन्धान्तरेण चायमिति। सम्बन्धान्तरं सम्बन्धविशे-
षोऽविनाभावः। तद्बलेन पूर्ववदर्थोऽधिगम्यते। तस्यानिर्देशादनि-
र्दिष्टमेवानुमानम्॥
मतुप् तर्ह्ययमस्तु। न च यथोक्तदोषापत्तिः। न हि सर्वमनुमानं
कारणात् कार्यविषयं भवति। सम्बन्धोऽपि चात्र निर्दिष्ट एव कार्य-
कारणभावप्रदर्शनादित्यत आह - न मतुप् व्यभिचारित्वादिति।
कार्यकारणभावेन हि कार्यस्यैवाविनाभावो भवति न कारणस्य।
तथा हि- सत्यपि कारणे सहकारिवैकल्यात् कार्यं न भवति।
यथा सत्यपि मेघे कृषीवलानां धर्माभावाद् वृष्टिः। सत्यपि च कार-
णान्तरसमाधाने विरुद्धेनाधर्मादिना प्रतिबन्धात्॥
(66)
ननु विशिष्टावस्थाप्राप्तस्यैव बीजदेर्मुख्यं कारणत्वम्। न च तस्य
प्रतिबन्धः शक्यते कर्तुम्। तत् कुतो व्यभिचारित्वम्। न। तद्दर्शनात्
सम्बन्धस्मृत्यपेक्षादनुमेयप्रतिपत्ताविष्यमाणायां सम्बन्धस्मृतेः प्राक्
कार्यमेवोत्पन्नं प्रत्यक्षीभवति। न चाप्रत्यक्षे कार्ये तथाविधकारणाव-
गतिः यतः कारणात् तत् प्रतीयेत। तस्मान् न कारणात् कार्य-
सिद्धिः॥
शेषवत्यपि चेद् वतिरित्यादिनात्राप्यनन्तरोक्तमेव दोषमाह। न
ह्यवश्यमित्यादि। नायं नियोगः - तुल्यरूपादिना तुल्यरसेन भा-
व्यम्। एतावत् तु स्यात्- एवंस्वभावान्येतत्समानहेतूनि चैवंरसा-
नीति। न तु रूपसाम्यमात्रादनुमानम् व्यभिचारात्॥
मतुप् चेदगतौ न स्यादित्यादि। अगतिरप्रतीतिः। कस्य।
कार्यतायाः यस्मात् कार्यादिदं कारणानुमानम्। अतः कार्यरूपे-
णाप्रतीतौ सत्यां लिङ्गस्यानुमेये कारणेऽविनाभावि-
त्वग्रहणादवगतिर्न स्यात्। सा च दृष्टा॥
(67)
ननु चार्थान्तरस्य कार्यकारणभावसिद्धेरेवाविनाभावनिश्चयः। त-
त् कथं कार्यतामगृहीत्वाविनाभावित्वं शक्यते निश्चेतुम्। शास्त्रदृष्टका-
र्यताग्रहणातिक्रमोऽत्र विवक्षितः न तु लोकप्रसिद्धकार्यताग्रहणा-
तिक्रम इत्यदोषः। शास्त्रे हि जलधारावयविनः सजातीयैरेवाप्यैः प-
रमाणुभिरारभ्यन्ते। जलदास् तु परमाण्वाकर्षणं प्रति निमित्तत्वमुप-
यन्तो वृष्टिकारणव्यपदेशभाजो भवन्तीति व्यवस्था। न चैवंविधं का-
र्यकारणभावं लोकः प्रत्येति। किं तर्हि। जलदेषु सत्सु वृष्टिदर्शनात्
तदभावे चादर्शनादेव साक्षादेव वृष्टेर् जलादा एव कारणमित्येवं दर्श-
नादर्शनाभ्यां कार्यकारणभावमवस्यति। शास्त्रदृष्टस् तु कार्यकार-
णभावो नोपपद्यत एव नित्यानां परमाणूनामसिद्धेः सिद्धावप्यवि-
कारित्वादाक्रष्टुमशक्यत्वात् आकृष्टानामपि क्रमयौगपद्याभ्यां कार्या-
रम्भायोगात् अवयविकार्यस्य च वस्तुसतो धीमद्भिर् विस्तरे-
णान्यत्र निषिद्धत्वादित्यलमतिप्रसङ्गेन॥
तथा यत् कृतकत्वादिभिरिति। मतुप्पक्षस्याव्यापितामाह। न
हि कृतकत्वादीनामनित्यत्वादिभिः कार्यकारणभावोऽस्ति॥
अन्येषां दर्शनम् - एकस्यावयविनः शरीरादेरेकस्मादवयवादुद-
रादेः प्रत्यक्षाधिगताद् योऽन्योऽवयवः पृष्ठादिः स शेषः। तद्विषयं
(68)
ज्ञानं शेषवत्। तच् च न व्यभिचरति। न हि कदाचिदपि कुक्षिः पृ-
ष्ठादिना विनोपलब्धपूर्व इति। अत्रापि सर्वसम्भव एव। सर्वत्रैव ह्यनु-
माने प्रत्यक्षार्थव्यतिरिक्त एवार्थ सम्प्रतिपत्तिः। न ह्यगृहीताल् लि-
ङ्गात् क्वचिदप्यनुमानमुपजायते। व्यभिचारोऽपि चास्त्येव शृङ्गाद्य-
वयवसम्भवेऽपि लाङ्गूलाद्यवयवाभावात्॥
पूर्ववत्यपि चेति। पूर्ववदित्यत्र वतिपक्षे विषाणादिलिङ्गेन गवा-
र्थानुमाने समवायः सम्बन्धः। स चेहबुद्धिलिङ्गावसेयो वर्ण्यते। इह-
बुद्धेश् च तेन सम्बन्धासिद्धेः प्रतिबन्धाभावाच् चालिङ्गयोग इति न
ततः स सिध्यति। ततश् च सास्नादेर् लिङ्गाद् गवार्थानुमानं न
स्यात्। तच् च दृष्टम्। तथा हि- एकसामग्य्रधीनसास्नाद्यवयवा-
त्मको गौरिति युक्त्या विमृशन्तोऽविनाभावं निश्चित्य सास्नादेर् लि-
ङ्गाद् गवार्थेऽनुमानं कुर्वन्ति। धूमादग्न्यनुमाने संयोगः सम्बन्धः।
तस्याप्यग्रहणे प्रतीतिर् न स्यात्। सा च दृष्टा। तथा हि- धूममात्रं
दृष्ट्वाग्निरविनाभावनिश्चयपूर्वकमनुमीयते। न च तदागृहीतसकलाश्र-
योऽनेकार्थसाधारणत्वाद् द्वित्वादिवत् संयोगः परिच्छिद्यते॥
(69)
मतुप्पक्षे तु मेघादीनां कार्यकारणभावो वृष्ट्यादिभिः सह सम्ब-
न्धः॥
शेषवत्यपि चेद् वतिरिति वतिपक्षे रूपस्य रसेनैकार्थसमवाय
इत्येते यथोक्ताः। अन्तेऽपदिष्टत्वादिति। शेषवति मतुप्पक्षो विचा-
रस्यान्तस् तत्रापदिष्टत्वादस्य॥
कारणत्वादीनां च सम्बन्धित्व इति। कारणत्वादीनां कार्यत्वादि-
भिः सह लिङ्गलिङ्गभावेन सम्बन्ध इष्यमाणे कारणत्वादेः कार्यत्वादि-
मात्रापेक्षत्वात् ततो लिङ्गिनि कार्यत्वाद्याकारमेव ज्ञानं स्यात् न वृ-
ष्ट्याद्याकारम्। किं कारणमित्याह- सम्बन्धमात्रद्वारेणेत्यादि। न
हि सम्बन्धमन्तरेण लिङ्गाल् लिङ्गिज्ञानम् उत्पद्यते। लिङ्गं च यथा
येन सह सम्बद्धम् तथा तमेव गमयति नान्यमन्यथा मा भूदति-
प्रसङ्ग इति। कारणत्वादिना च मेघादयः कार्यत्वादिना वृष्ट्यादीनां स-
म्बद्धा इति तन्मात्रगतिः स्यात्॥
(70)
स्यादेतत्- सर्वात्मना तेषां कार्यकारणभावादयः सम्बन्धाः
नांशेन। ततोऽयमप्रसङ्गः विशेषाणामपि सम्बन्धित्वादित्याह- स-
र्वाकारग्रहणं चेत्यादि। स्थूलबिन्दुका वृष्टिरशनिमतीत्याद्यपि ग्रहणं
स्यात् एवमादिभिरप्याकारैः सह कारणकार्यादिभावात्। अस्माकं
तु यद्यपि सर्वथा जन्यजनकभावः तथापि नायं प्रसङ्गः तथा नि-
श्चेतुमशक्यत्वात्। परस्य च निश्चयात्मकं प्रत्यक्षमिष्टं तद्विषयश् चा-
नवयवः। ततो यदि तद् गृह्णाति सर्वथा तेन स ग्राह्यो न वा कथ-
ञ्चिदित्युक्तम्। अतस् तस्यैवायं दोषः॥
पूर्वत्र येऽभिहिता दोषाः- सम्बन्धान्तरतो गतिः कार्यमात्राद्यनु-
मानं सर्वाकारग्रहणं चेत्यादयः तान् सामान्यतो दृष्टेऽप्यतिदेष्टुमा-
ह- सामान्यदृष्टमप्येवमिति॥
कथमित्याह- तदपि हीत्यादि। कस् तर्हि पूर्वाभ्यां तस्य विशेष
इत्याह- अत्यन्तपरोक्ष इति॥
सर्वत्र चेति पूर्ववदादिषु त्रिष्वपि। पूर्ववच् छेषवदिति ब्रुवतानुमे-
यज्ञानं प्रमाणमुक्तम्। तदेव चार्थाधिगमः। न चान्यत् फलमस्ति।
(71)
ततश चाभ्युपेतहानम्। स्यादेतत्- हानोपादानापेक्षाबुद्धयः फल-
मिति। नैतदस्ति तासां हिताहितस्मरणहेतुकत्वात्। न हि तदेवेदं
हितमहितं चेत्याद्यस्मरतस् ताः कस्यचित् समुपजायन्ते। स्यादेतत्
- फलमेव नाभ्युपेतमित्याह- न चेत्यादि। यत् करणम् तत् क-
र्मणि क्रियाफलम् परशुवत्। तथा चानुमानम्। स्वभावः॥
सिद्धसाध्यतामाशङ्क्याह- लिङ्गज्ञानमित्यादि॥
व्यपदेशो न सिध्यतीति यस्मादनुमेयमेव मुख्यं पूर्ववच्छेषव-
त् ज्ञानं तूपचारेण। तद्विषयत्वात् तथा व्यपदिश्यत इति वर्णितम्।
न च लिङ्गज्ञानं तद्विषयम् यतस् तथा व्यपदेशोऽस्य स्यात् लिङ्ग-
स्य पूर्ववच्छेषवत्त्वेनासंवर्णितत्वाच् छास्त्र इत्यभ्युपेतहानिः॥
यच् चेत्यादिनाप्यभ्युपेतहानिमेवाह। तथा हि- तत्रैवोक्तम्-
एकैकस्य वा त्रैविध्यज्ञापनार्थमुक्तं त्रिविधमिति। को हेतुः। अयमेव
- त्रैकाल्यग्रहणाद् इति। इदमपि मतुप्पक्षे नैवोपपद्यते कारणाद-
(72)
नागतस्यैव कार्यस्य ग्रहणात्। नापि शेषवतः अनागतानुमानास-
म्भवात्। न हि प्राक् कारणात् कार्यसम्भवोऽस्ति॥
पक्षिलस् त्वाह- द्रव्यादिपदार्थप्रतिषेधाच् छब्दे गुणत्वसम्प्रतिप-
त्तिः शेषवदिति। अत्रापि सम्बन्धानिर्देशादनुमानत्वमेव तस्य दुर्ल-
भम् कुतः पुनस् त्रैविध्यम्। प्रतिपादितं प्रपञ्चेन शब्दगुणत्वस्या-
प्यागमिकत्वम् आप्तसञ्ज्ञाविधानेनेत्यादिना। ततो न शब्दे गुणत्व-
प्रतिपत्तिरनुमानं॥
न च तत्र वताविति। पूर्ववत्यनुमाने सम्बन्धनिर्देश एव नास्ति।
अतस् तस्यानुमानत्वमनिर्दिष्टमेवेति कुतोऽस्य त्रैविध्यम्। न हि पूर्वे-
ण तुल्यमित्याकारमात्रनिर्देशान् निर्दिष्टं भवति स्मृत्यादिष्वपि पू-
र्वदद् ग्रहणात्। तथा शेषेण प्रत्यक्षेण तुल्यमित्यत्रापि नैव सम्ब-
न्धो निर्दिष्ट इति।
(73)
वैशेषिकाणामपीत्यादि। अस्य सम्बन्धः- योगिणां प्रत्यक्षज्ञानवि-
धिरुक्तः। लैङ्गिकमिदानीं वक्ष्यामः। आह- किमिदं लैङ्गिकं नामे-
ति। उच्यते- आलोचिताध्यवसानमालोचितान्यानुगमनं च। तत्र
यत् साक्षादालोचनमर्थानां यथा गौरेवायमश्च एवायमिति तत् प्र-
त्यक्षम्। यत् त्वन्यदालोच्यान्यस्यानुगमनम् तन् नो लैङ्गिकम्। त-
स्य त्वतिप्रसज्यमानस्य लिङ्गलिङ्गिनियमाय सामयिको लक्षणनिर्देशः
क्रियते। समये भवः सामयिकः समयकृत इत्यर्थः। तद् यथा-
अस्येदमित्यादि। अस्येति लिङ्गमाह इदमित्यनुमेयम्। यदा ख-
ल्वस्येदं प्रसिद्धमसन्दिग्घं च भवति- अस्य कारणस्य ज्ञापने भा-
वने व समर्थस्येदं व्यङ्ग्यमभिनिर्वर्त्यं वा कार्यमिति अथास्य कार-
णालोचनादगृह्यमाणेऽपि कार्येऽनुव्यवसायो भवति यथा दिनकरो-
दयदर्शनाद् घटाभिव्यक्तौ। तन्तून् वातानवितानावस्थितांस् तन्तु-
वायाधिष्ठातान् दृष्ट्वा भाविनि पटे॥
(74)
एवम्- यदास्येदं प्रसिद्धमसन्दिग्धं च भवति- अस्य कार्यस्य
व्यङ्ग्यस्य निर्वर्त्यस्य वेदं कारणमिति अथास्य कार्यालोचनादि-
त्यादि यथायोगं वाच्यम्॥
सम्बन्धि द्विविधम्- संयोगि च यथा धूमोऽग्नेः समवायि
च यथा विषाणं गोः॥
एकार्थसमवाय्यपि द्विविधम्- कार्यं कार्यान्तरस्य कारणं
कारणान्तरस्य। तत्र कारणस्यैकार्थसमवाय एकस्थार्थेषु समवा-
यः कार्यस्य पुनरेकस्मिन्नर्थानां समवाय इति विग्रहभेदात्। तत्र
कार्यात् कार्यान्तरेऽनुमानम् तद् यथा रूपात् स्पर्शे कारणात्
कारणान्तरे तद् यथा पादात् पाणौ॥
विरोधि चतुर्विधम्- अभूतं भुतस्य तद् यथाविद्यमानं व-
र्षकर्म सतो वाय्वभ्रसंयोगस्य तस्मिन् सति वर्षकर्माभावात्। भूत-
मभूतस्य तदेव वर्षकर्म विद्यमानं तस्यैव वाय्वभ्रसंयोगस्यातिवृत्त-
तां प्रवृत्त्यभावं गमयति। भूतं भूतस्य द्रवत्वं सेतुबन्धस्य। द्रवत्व-
कार्येण स्यन्दनेन विरोधाद् द्रवत्वेन विरोधो दर्शितः। अभूतमभूत-
(75)
स्य अतिवृत्ता श्यामता घटे पाकजरूपोत्पत्तावतिवृत्तस्य घटाग्नि-
संयोगस्य॥
कार्यकारणे नानुमितिहेतू इत्युक्तमिति पराभिमते इत्यभिप्रा-
यः। ननु च जन्यजनकलक्षणे तत्र कार्यकारणे निषिद्धे न व्यङ्ग्य-
व्यञ्जकलक्षणे। नैष दोषः। व्यङ्ग्यव्यञ्जकभावो हि जन्यजनकभाव ए-
व। तथा हि- सहकारिणिः प्रकाशादुपादानापेक्षाज् ज्ञानजननयो-
ग्यक्षणान्तरोत्पत्तिरेव घटादीनां व्यक्तिः अन्यथानपेक्ष तत्कृ-
तमुपकारं ज्ञानोत्पादनप्रसङ्गात्। परस् तूत्पत्तिव्यतिरिक्तामेव रूप-
मपि जडतो घटादेरभिव्यक्तिं मन्यते। न च तस्याः स्वरूपमवधार्य-
ते॥
ज्ञानजननसामर्थ्यमभिव्यक्तिरिति चेत् एवं तर्हि घटादिरेवाभि-
व्यञ्जकेन क्रियत इत्यापन्नम् सामर्थ्यस्य तदात्मभूतत्वात् अर्था-
न्तरत्वे घटाद्यनुपकारप्रसङ्गात्। सामर्थ्याच् च ज्ञानोत्पत्तेर् नित्यं घ-
टादीनामग्रहणप्रसङ्गः स्यात्। न ह्यकारणं विषय उपपद्यते। तस्या-
पि तत्र सामर्थ्यमिति चेत् केवलोऽपि जनयेत्। सहकारिणमपेक्ष
(76)
जनयति न केवल इति चेत् केयमनुपकार्यस्यापेक्षा। ज्ञानमभि-
व्यक्तिरिति चेत् नित्यं घटादेरग्रहणप्रसङ्ग इत्यादि सर्वं पुनरावर्तते।
तन् न परपरिकल्पिताभिव्यक्तिरुपपद्यते। ततो न तस्य लिङ्गलिङ्गि-
भावः॥
नापि तन्त्वादिभ्योऽवयवेभ्योऽन्यदेवयविद्रव्यं पटादिकमवधार्यते।
ततः स्वभावानुपलम्भतिरस्कृतसत्ताकं नास्त्येव तत्। तत् कुतस्
तैस् तस्य तेन वा तेषामनुमानम्। सत्त्वेऽपि तस्य न कारणादनुमि-
तिर् युक्ता व्यभिचारादित्युक्तम्॥
स्यादेतत्- समग्रेण कारणेन कार्यस्य सम्भवोऽनुमीयत इत्ययु-
क्तमेतत् निश्चयात्मकस्य प्रत्यक्षस्याभ्युपगमात्। कारणं हि जन-
कमेव वा स्यादसम्भवत्प्रतिबन्धम् अजनकमेव वा निर्यत्प्रतिबन्ध-
म्। पूर्वकल्पे तत् तेन रूपेण प्रत्यक्षेण निश्चितमिति ततो विशिष्टका-
र्योत्पादानुमानमेव स्यात्। न च भवति। यथा हि कारणात् कार्यं प-
रिच्छिद्य तदर्थं प्रवर्तमाना विप्रलभ्यमाना दृश्यन्ते। द्वितीये तु पक्षे
कारणमेव तन् न भवतीति निश्चये सति कुतस् ततः कार्यसम्भवानु-
(77)
मानम्। न हि शीतस्याग्निर हेतुर् न भवतीति निश्चये सति कश्चिद्-
ग्निना शीतसम्भवोऽनुमीयते। तदेवं परमतेन कार्यकारणे नानुमि-
तिहेतू॥
संयोगो नागतौ सिद्धेरिति। यस्मिन्नगृहीतेऽपि यत्रानुमितिः
नासौ तदनुमितिहेतुः। तद् यथा जलस्यानलः। अगृहीतेऽपि चा-
ग्निधूमसंयोगे दहनानुमितिर् भवति। व्यापकविरुद्धः॥
कथं पुनस् तदगतौ सिद्धिरित्याह- दृष्टो हीत्यादि। संयोगस्य
हि द्विष्ठत्वाद् द्वित्ववत् सर्वाश्रयदर्शनपूर्वकमेव ग्रहणं भवति। अनु-
मानकाले चाश्रयस्य सर्वस्यादर्शनात् संयोगस्य ग्रहणं न सम्भवत्ये-
व। अथ चाविनाभावित्वस्मरणादग्निर् धूमेनानुमीयते। स्यादेतत्
- अविदित एवासावनुमितिहेतुर् भविष्यतीत्याह- ज्ञानकारणत्वे-
नैवेत्यादि स्वविषयज्ञानहेतुत्वेनेत्यर्थः। सर्व एव हि ज्ञापकः स्ववि-
षयं ज्ञानमुपजनयन् ज्ञाप्यमर्थं ज्ञापयति प्रदीपवत्। अन्यथाऽगृ-
हीतादपि धूमादग्नौ प्रतीतिः स्यात्॥
संयोगस्य चेत्यादि। यः संयोगाश्रयः स द्वितीये प्रतियोगिनि
प्रतीतिहेतुः। तद् यथा धूमः। तथा चाग्निरिति स्वभावं प्रसङ्गमाह।
(78)
स्यादेतत् - इष्यत एवैतदित्याह- दृष्टश् चेत्यादि। ननु च धूम-
स्यापि वासगृहादिष्वनग्नेर् भावो दृष्ट एव। तत् कोऽनयोर् विशेषः
येनैकत्राभिव्यञ्जकत्वप्रसङ्गश् चोद्यते नेतरत्र। एवं मन्यते- धूमस्य
संयोगित्वं यद्यपि वर्तमानं नास्ति भूतपूर्वं तु विद्यत एव नैमित्ति-
कस्य निमित्ताव्यभिचारात्। उत्पद्यमान एव धूमोऽग्निना संयुज्यते।
अग्निस् तु निमित्तं तस्य। न चावश्यं निमित्तानि नैमित्तिकवन्ति भ-
वन्ति। अतस् तस्य कस्याञ्चिदवस्थायां भूतपूर्वमपि संयोगित्वं न स-
म्भवतीति। तदेवम्- यतः कदाचिदग्निर् धूमस्य निमित्तं कदाचिद्-
निमित्तम् तस्माद् व्यभिचारित्वान् न तस्य धूमं प्रत्यभिव्यञ्जकत्व-
म्। संयोगे त्वनुमितिहेताविष्यमाणे तत् प्राप्नोतीति चोद्यते॥
अपवादादित्यादि। सन्दिग्धश्रुत्यानैकान्तिकमाह सन्देहहेतु-
त्वात्। कथं पुनस् तुल्ये संयोगित्वे वह्नेरनैकान्तिकत्वम् न धूमस्ये-
त्याह- न हि सोऽवश्यमित्यादि॥
अभेदत इति। संयोगो हि प्राप्तिः। न च तस्या भेदोऽस्ति। तत-
श् च यथैकस्य प्राप्तिः तथा द्वितीयस्येति। नैकत्राग्नावकारणं यु-
क्तः। स्यादेतत्- संयोगस्य कश्चिदाश्रयो व्यभिचारी यस् तं व्य-
भिचरति। कश्चिदव्यभिचारी यो न व्यभिचरति। तत्र योऽस्याव्य-
(79)
भिचार्याश्रयः स एव लिङ्गत्वेनेष्यते नेतरः। तस्मान् न संयोगो
गृहीत इत्येवानुमितिहेतुः। हिं तर्हि। यदायमस्याश्रयो व्यभिचारी
अयमव्यभिचारीत्येवं पुनर् व्यभिचार्यव्यभिचार्याश्रयत्वेन विचारपूर्व-
कं गृह्यते तदैवाव्यभिचारिण्याश्रये गमकत्वम् आदध्मः। ततस् ते-
नैवाव्यभिचारिणानुमानं कर्तव्यमिति नास्ति यथोक्तदोषावकाश
इत्याह- न हीत्यादि। सकृदसकृद् वा गृह्यमाणः संयोगो न कञ्च-
नात्मातिशयं प्रतिपद्यते येनासकृद् गृह्यमाणस्य तस्यानुमितिकार-
णत्वं स्यात्। यदि च स गृहीतोऽपि सन् पुनरपि व्यभिचार्यव्यभिचा-
र्याश्रयत्वेन ग्रहणमपेक्षते एवं सत्यन्य एवाविनाभावित्वसम्ब-
न्धोऽङ्गीकृतः स्यात् न संयोगः। तस्मात् तदङ्गीकरणे सकृदेवास्य
ग्रहणं प्रमाणयितव्यम्। ततश् च कुतोऽस्य व्यभिचार्यव्यभिचारि-
त्वेन विचारणेति॥
यस्याप्यविनाभावित्वं सम्बन्धः तस्यापि कथमयं दोषो न भ-
वतीत्याह- यस्य त्वित्यादि। अवश्यंग्रहणं कृतकत्वानित्यत्वादाव-
विनाभावित्वस्याप्युभयत्र वृत्तेः॥
न च केनचिदित्यादिना। यद् रूपमग्नेर् धूमसंयोगि तद् धू-
मगम्यम् अग्न्यादिरूपवत्। तथा च दीप्तादिरूपम्। तथा यद् धूम-
स्य रूपं वह्निसंयोगि तदग्नेर् गमकम् धूमत्वादिरूपवत्। तथा च
(80)
द्रव्यादिरूपमिति स्वभावप्रसङ्गद्वयमाह। दीप्तादिश्रुत्या चात्र तद्वद-
ग्निरूपमेवोक्तम् न तु गुणसामान्ये तयोः संयोगित्वासम्भवात्॥
यथा चेत्यादि। यथोक्तं दोषं सम्बन्धान्तरेऽतिदिशति॥
विरोधिषु तु सम्भवादिति। सम्भवग्रहणेन- भूत एव विरोधि-
न्ययं प्रसङ्गः न त्वभूते तस्य सामान्यविशेषानुपपत्तेरिति दर्शय-
ति॥
लिङ्गस्येत्यादि। लिङ्गस्य धूमादेरन्येन यत् सामान्यं द्रव्यत्वादि-
रूपं ये च विशेषा दीप्तादयः तदुभयमपि द्योतकद्योत्यं न भवति।
अत्र च व्यवहितः सम्बन्धो द्रष्टव्यः - लिङ्गस्यान्येन सामान्यं वि-
शेषाश् च लिङ्गिनो न द्योतकद्योत्यमिति। वृत्तानुरोधाद् वैवं पठि-
तम्। अन्येषां तु वैशेषिकादीनां सर्वथा प्रसज्यते द्योतकद्योत्यम्
संयोगादेः सम्बन्धस्याविशिष्टत्वादिति॥
संयोगिमात्राधिगमप्रसङ्ग इति संयोग्याकारमात्रेण ग्रहणमनु-
मेयस्य प्राप्नोतीत्यर्थः। कुत एतदित्याह- अन्यथेत्यादि। सम्ब-
न्धानुरूप्येण हि लिङ्गं लिङ्गिनं गमयति। अतः संयोगवशेन लिङ्गं
प्रत्याययत् संयोगिरूपेण गृहीतं तेनैव रूपेण प्रत्याययेत् संयोग्य-
(81)
न्तरापेक्षत्वात् संयोगित्वस्य। तथाप्युक्तम्- यदास्येदं संयोगि प्रसि-
द्धमसन्दिग्धं च भवति अथास्य सम्बन्धिनो ग्रहणादगृह्यमाणेऽपि
सम्बन्धिन्यनुव्यवसायो भवतीति॥
स्यादेतत्- अग्निरूपेणैव संयोगः। ततस् तद्रूपेणाप्यधिगमः।
यत् पुनरुक्तम्- अथास्येत्यादि तत्र सम्बन्धिनीत्यनेन विशेष एव
परामृष्यते न तु संयोगिसमवायिरूपमात्रमित्याह- न चात्रेत्या-
दि॥
अथ वानाशङ्क्य पूर्वपक्षे दोषान्तरमेवानेनाह। यदि धूमेन संयो-
गिनाग्निसत्ता साध्येत स्यादग्निधूमसंयोगस्यानुमितावङ्गभावः। न
चासौ साध्यते। कुत इत्याह- तस्याः प्रतीतत्वादिति। किं तर्हिं।
साध्यत इत्याह- यत्र त्वित्यादि। कुत एतत्। अत्रेति वचनात्।
अत्रशब्देन ह्यत्र देशस्याधारत्वं प्रतिपाद्यते॥
ननु चाधारसामान्यमत्रेति वचनेन प्रतिपाद्यते। तत्र कुतस् ततो
विशेषगतिरित्याह- अन्यथा हीत्यादि। एतेनासम्भवदर्थान्तरत्वं
विशेषणं सूचयति। यत्रासम्भवदर्थान्तरमत्रेत्येतद् वचनम् तत्र प्र-
(82)
देशाधारविवक्षा यथात्र कूप इति वाक्ये। असम्भवदर्थान्तरं चाग्नि-
रत्रेत्यस्मिन्नत्रेति वचनम्। कार्यम्॥
ननु चासिद्धं विशेषणम् धूमस्यैवात्रेत्यनेन विवक्षितत्वादित्याह
- धूमेऽग्निरित्यादि। प्रतिज्ञार्थैकदेशत्वं तु साध्यधर्मिण एव हेतुत्वे-
नाभिधानात्। ननु च विशेषः प्रतिज्ञार्थैकदेशः सामान्यं हेतुः। तत्
कुतोऽयं दोषः। एवं मन्यते- अग्निधूमयोः संयोगं सम्बन्धमिच्छता
हेतुरपि विशेष एव स्वलक्षणात्मकोऽभ्युपेयः न सामान्यम् अ-
न्यथा संयोगो न सम्भवेत् द्रव्ययोरेव परस्परं यस्मादसौ शास्त्र
इष्यते। ततश् च भवति प्रतिज्ञार्थैकदेशो हेतुः। अत्रापि चैतद् व-
क्तव्यमेव - न चात्राग्निसत्ता साध्यते तस्याः प्रतीतत्वादित्यादि।
तन् नामोत्तरं वाच्यम् यत्र यथोक्तो दोषो नावतरति। इह तु धूम-
विशेषेऽप्यग्नौ साध्ये स दोषस् तदवस्थ एव। ततो नेदमुत्तरमिति॥
यदि तर्हि द्रव्ययोरेव मिथः संयोग इति समयः नन्वेवमग्निरपि
विशेष एव स्वलक्षणपर्यायः साध्यत्वेनाभ्युपेयः। ततश् च साध्यसा-
धनयोः स्वलक्षणात्मकत्वात् सर्वो हेतुरसाधारणः स्यात् दृष्टान्तश्
(83)
च साध्यसाधनविकलः। सत्यमेतत्। अत एवाह- तस्मान् न लि-
ङ्गलिङ्गिनोरवश्यं संयोग इति। अत्राभ्युपेय इत्यध्याहार्यम्। य-
स्मादेवं संयोगे सम्बन्धे दोषः तस्माल् लिङ्गलिङ्गिनोर् नैव संयोगः
सम्बन्धोऽभ्युपगन्तव्यः अवश्यंग्रहणेन ह्यवधारणं दर्शितम्। किं
तर्हि। अविनाभावित्वमेवेति तस्यादोषत्वात्॥
ननु च तदपि सदोषमेव अव्यापित्वात्। न हि तत् सर्वदा लिङ्ग-
स्य सम्भवति। तथा ह्यग्निशून्ययोरपि देशकालयोः कदाचिद् धूम
उपलभ्यत इत्याह- देशकालव्यपेक्षं त्वित्यादि। यावति देशे धू-
मोऽग्निमन्तरेण न दृष्टः तदपेक्षयाविनाभावित्वं भवति। यावता
वा कालेनारणिनिर्मथनाद्यवस्थायाम् आधिशब्दादन्यस्यां चाव-
स्थायां सन्निहितदहनायाम् धूमोऽग्निनाविनाभाव्युपलब्धः त-
दपेक्षयाविनाभावित्वम्॥
समवायोऽपीत्यादि। यो नोपलब्धः सम्बन्धः न सोऽप्यनुमि-
तिकारणम् यथा कयोश्चिदप्रसिद्धः कार्यकारणभावः। अप्रसिद्धश्
च समवाय इति व्यापकाभावमाह। सम्बन्धो हीत्यादि दृष्टान्तप्रका-
(84)
शनम्। न हीत्याद्यस्यैव विवरणम्। अव्युत्पन्नस्यापि चेति। य-
स्यापि समवायविषया व्युत्पत्तिर् नास्ति तस्यापि विषाणादाववि-
नाभावित्वस्मरणाद् गवादेः सम्प्रतिपत्तिर् दृष्टा। ततोऽविनाभावि-
त्वमेवानुमितेर् हेतुः तद्भावाभावयोस् तद्वत्त्वात् बीजमिवाङ्कुरस्य॥
अत्राप्येतदेवेत्यादिनैकार्थसमवायस्य समवायदोषवत्तामाह अ-
त्रापि चेत्यादिनापि संयोगदोषवत्ताम्। स्यादेतत्- असन् सन्दि-
ग्धश् चानपदेश इत्यपवादोऽस्ति। ततो न रूपस्य स्पर्शाद् वाया-
वनुमितिरित्याह- व्यभिचारित्वे चेत्यादि॥
कारणकारणादिति। शरीरस्य कारणं शिरः। तस्यापि कारणं
स्वावयवो ललाटम्। ततोऽपि कारणकारणात् कार्यकार्ये शरीरे
सम्प्रत्ययो दृष्टः। कथं पुनः शरीरस्य शिरोऽवयवस्य चैकार्थसम-
वायः यावता विग्रहभेदाद् द्विविधमेकार्थसमवायि दर्शितम् एका-
र्थेन समवाय इति विग्रहान्तरसमाश्रयात्। तथा हि- शिर ए-
कोऽर्थः। तेन च तयोरुभयोरपि समवायः। यथाहेति। तद्वचनमेव
ज्ञापकमाह। यस्यैतत् प्रसिद्धमसन्दिग्धं च भवति- ते शिरः प्रभृत-
(85)
यो नानारब्धशरीराः सम्भवन्ति। न चैतन्नाशे शरीरानाशसम्भवः।
न च मूर्धादेरनाशे तदवयवा विभक्ता भवन्तीति तस्यैवंविधः सम्प्र-
त्ययो भवति- अभूच् छरीरम् यस्यायमवयवावयव इति। ततो
नावधारयितव्यं द्विविधमेवेति। ननु च तत एव दृष्टविनष्टाच् छिरसः
सम्प्रत्ययः न तदवयवात्। अत एवोक्तम्- अभूतादिति। न अ-
सतो हेतुत्वायोगात् अत्यन्ताभाववत्॥
विरोधस्यानुमितिहेतुत्वनिरासायाह- यद् विरोधीत्यादि। वा-
य्वभ्रसंयोगो हि वर्षकर्मणा विरोधीति तयोः सहानवस्थानात्।
न चात्र वर्षकर्म लिङ्गमिति तद्विरुद्धधर्मसाधनात्। किं तर्हि। त-
दभाव इति वय्वभ्रसंयोगे सति वर्षकर्माभावात्। न च वर्षकर्मा-
भाववाय्वभ्रसंयोगयोर् विरोध इति सहावस्थानात्। स्यादेतत्-
वर्षकर्मणो योऽभावः स तस्यैवावस्थाविशेषः। ततो वर्षकर्मैवाव-
स्थाप्राप्तं लिङ्गमिति। कथं पुनरभावः सतो विशेषः। तद्विशेषत्वे वा-
भाव एव न स्यात् विशेषस्य भावात्मभूतत्वात्। अर्थान्तरत्वे वा स
एव दोषः - यद् विरोधि न तल् लिङ्गमित्यनुत्तरमेतत्॥
(86)
एवमन्यत्रापि वाच्यमिति। यत्राभूतस्य लिङ्गम् तत्रापि। वा-
य्वभ्रसंयोगाभावो हि वर्षकर्माभावेन विरोधी। न चात्र वर्षकर्माभावो
लिङ्गम्। किं तर्हि। वर्षकर्म। न च वर्षकर्मवाय्वभ्रसंयोगाभावयोर्
विरोधः। एवं भूतं भूतस्येत्यत्रापि। द्रवत्वकर्म स्यन्दनं सेतुबन्धेन
विरोधि। न च स्यन्दनं लिङ्गम्। किं तर्हि। तदभावः। तथाऽभूतम-
भूतस्येत्यत्रापि। श्यामताग्निसम्योगयोर् विरोधः। न चात्र तयोर् लि-
ङ्गलिङ्गिभावः। किं तर्हि। तन्निवृत्त्योः।
यच् चोक्तमिति। सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशे-
षवदिति द्रव्यगुणकर्मणामविशेष इति वचनाच् छास्त्रे द्रव्यगुणकर्म-
णामेव कारणभाव उक्तः। इह चाभूतं भूतस्येत्येवमादिनाभावस्य
कारणाभिधानात् प्रश्नः- कथमभावो भावस्य लिङ्गमिति। न ब्रूमः
- अभावो भावस्य लिङ्गम्। किं तर्हि। अभूतादिप्रतिपत्तिः। कुतः।
प्रसिद्धपूर्वकत्वादपदेशस्येति। यस्य धूमोऽग्नेः संयोगीति पूर्वं स-
म्बन्धग्रहणकाले प्रसिद्धो भवति तस्यैव धूमदर्शनादग्नावनुमानम्
(87)
नेतरस्य। तस्माद् धूमादिप्रतिपत्तिरेव लिङ्गम्। तद्विषयस्य तु लिङ्ग-
त्वमौपचारिकम् यथा चन्दनतुलेति॥
असम्बन्धान् न लिङ्गधीरिति। यस्य येन सह सम्बन्धो नास्ति
न तत् तस्य लिङ्गम् यथा घटः पटस्य। नास्ति च लिङ्गिनो लिङ्ग-
धिया सम्बन्ध इति व्यापकाभावमाह॥
सम्बन्धार्थं चेति। प्रसिद्धिलिङ्ग आत्मेत्युक्ते परेणोक्तम्- न प्र-
सिद्धिरात्मनो लिङ्गमन्यत्वात्। न ह्यर्थान्तरमर्थान्तरं गमयति अ-
तिप्रसङ्गात्। अत इदं सूत्रमुपन्यस्तम्। एतदुक्तं भवति- न सर्वम-
र्थान्तरस्य लिङ्गम्। किं तर्हि। यदेव कार्यकारणादिसम्बद्धानामन्यत-
मेन सम्बद्धम् तदेवापदेश इति॥
लैङ्गिकत्वेन निर्देशादिति। लैङ्गिकमिति वचनादस्मिन् सूत्रे लि-
ङ्गज्ञानं लैङ्गिकत्वेन निर्दिष्टमिति तस्य लिङ्गत्वप्रतिज्ञानेऽभ्युपेतबाधा॥
अथ मन्यसे - अनुमेयज्ञानमत्र लैङ्गिकत्वेन निर्दिष्टम् न लिङ्गज्ञान-
मित्याह- अनुमेयज्ञाने हीत्यादि। यदि लिङ्गज्ञानं लैङ्गिकमिष्यते
(88)
एवमनुमेयज्ञानमस्य व्यतिरिक्तं फलं भवति। अनुमेयज्ञानस्य तु
लैङ्गिकत्वे तदुत्पत्तावधिगतः सोऽर्थ इति फलाभावः। ततः सैवाभ्यु-
पेतबाधा। स्यादेतत्- लिङ्गज्ञानं लिङ्गम् सम्बन्धस्मरणं लैङ्गिकम्।
अनुमेयप्रतीतिस् तु फलमिति। अत आह- स्मृतिमात्र इत्यादि।
यदि सम्बन्धस्मरणं प्रमाणम् एवं सति योऽपि लिङ्गं न पश्यति
तस्यापि धूमसम्बन्धस्मरणादग्निप्रतीतिः स्यात्। मात्रशब्दो धूमद-
र्शनव्युदासाय। तत्सहितं हि सम्बन्धस्मरणमनुमानमिष्यत एव
यदाह- तदेतत् साक्षात् पारम्पर्येण चानुमितिकारणत्वादुभयमप्यनु-
मानमिति॥
इतिकरणनिर्देशादिति विरोधि चेति सूत्रान्त इतिकरणपाठात्।
अस्येदं कार्यमित्यादि यज् ज्ञानम् तदितिकरणो द्योतयति। यदि
तर्हि लिङ्गज्ञानं लैङ्गिकम् अव्युत्पन्नस्यापि लिङ्गदर्शनमात्रादधिग-
तिः स्यादिति। अत आह - सम्बन्धस्मृत्यपेक्षमिति। सम्बन्धस्मृ-
त्यपेक्षत्वं तु तस्य प्रसिद्धपूर्वकत्वादपदेशस्येत्यस्माल् लभ्यते॥
कारणं कृत्वेति। लिङ्गशब्दोऽयं कारणपर्यायः अनेकार्थत्वाद्
धातूनां लिङ्ग्यते जन्यते कार्यमनेनेति व्युत्पत्तेः। लिङ्गप्रतिपत्तिश्
(89)
चानुमेयप्रतिपत्तेर हेतुर् भवति। अतश् च यदुक्तम् - असम्बन्धान्
न लिङ्गधीर् लिङ्गमिति अस्य सिद्धसाध्यता कारणहेतोर् विव-
क्षितत्वादिति। तच् च नेत्यादिना निराकरोति। अनुमेये चिह्नभूत-
स्येति ज्ञापकस्येत्यर्थः अनुमेयं चिह्न्यते ज्ञायतेऽनेनेति कृत्वा।
अन्यथा हीति। यदि जनकस्यापि लिङ्गस्याधिकारः स्यात् आ-
त्मेन्द्रियमनोऽर्थसन्निकर्षा अपि वक्तव्याः स्युः। तेऽपि ह्यनुमेय-
ज्ञानहेतव इति। न चोक्ताः। तस्मान् नात्र जनकस्याधिकार इति।
स्यादेतत्- अनुमेयज्ञानं प्रति लिङ्गज्ञानस्य साक्षात्कारणत्वम् ना-
न्यस्य। अतो मुख्यकारणत्वाल् लिङ्गज्ञानमेवोक्तमित्याह - न च
साक्षादित्यादि। कथं नेत्याह- सम्बन्धस्मृत्यन्तरितत्वादिति॥
सम्बन्धस्मृतिसिद्धिः स्यादिति। अतो वचनात् सम्बन्धस्मृतिः
सिध्येत् न तु सम्बन्धिनि धूमादौ प्रतिपत्तिः। तथा हि भाष्यम्-
यस्य धूमादिनामग्न्यादिभिः सम्बन्धः सिद्ध इत्यादि। यथा व-
क्ष्यतीत्यत्रार्थे ज्ञापकमाह। यस्मात् तत्रैवोक्तम् - कथमवगम्यते -
प्रसिद्धपूर्वक एवापदेश इति। उच्यते - सत्यर्थान्तरभावे यस्माद् अ-
प्रसिद्धोऽनपदेशः। कथम्। यस्य हि धूमादीनामग्न्यादिभिः सम्बन्धो
(90)
न प्रसिद्धः तं प्रति धूमादयोऽनपदेशा इति तस्मादज्ञापकमिदं
लिङ्गज्ञानस्य लैङ्गिकत्वे॥
कार्यत्वादि न सूत्रितमिति। शास्त्रे कार्यत्वात् कारणतो विका-
रात् संयोगाद् विभागाच् छब्दाच् च शब्दनिष्पत्तेर् अनित्यः शब्द
इति कार्यत्वादयः शब्दानित्यत्वहेतव उक्ताः। तथा सदकारणवन्
नित्यमिति नित्यत्वसिद्धये सदकारणवत्त्वमुक्तम्। तेषां कार्यत्वादीनां
लिङ्गत्वं नोक्तमिति लक्षणन्यूनता। तत्रैतत् स्यात्- तान्यपि कार्य-
त्वादीनि कार्यादिष्वन्तर्भवन्तीत्याह- न ह्येषामित्यादि। एषामनि-
त्यत्वादिलिङ्गानामन्यतमदित्येकमपीत्यर्थः॥
ननु कार्यत्वं सदकारणत्वं चैकार्थसमवायित्वेऽन्तर्भवति एकस्मि-
न्नर्थे शब्दादौ कार्यत्वानित्यत्वयोर् नित्यत्वसदकारणत्वयोश् चात्मादौ
समवायात्। नैतदस्ति। एकार्थसमवायि हि कार्यं कार्यान्तरस्य का-
रणं कारणान्तरस्येत्युक्तम्। न चात्र कार्यकारणभावः सम्भवति॥
(91)
व्यङ्ग्यव्यञ्जकत्वेनेति। अनित्यत्वं व्यङ्ग्यत्वात् कार्यम्। कार्यत्वं तु
व्यञ्जकत्वात् कारणमित्येवमन्यत्रापि वेदितव्यम्॥
शेषमव्यञ्जकं प्राप्तमिति। अन्यथा पृथङ्निर्देश एव न स्यात्। स
चास्ति। तन् न व्यङ्ग्यव्यञ्जकत्वेनात्र कार्यकारणत्वमभिप्रेतमिति प्रती-
यते॥
व्यर्थः सोऽप्यन्यतो गतेरिति। व्यर्थो विगतप्रयोजनः। अन्यत
इत्यविनाभावात्। अविनाभावित्वेन हि धूमादेर् लिङ्गादनुमेयमवग-
म्यायमस्य व्यञ्जक इति मनसा कल्प्यते। तस्माद् व्यर्थमस्यानु-
मितिकारणत्वं कल्पितमिति शेषः। कल्पयतीति वा प्रकृतमिहापि
सम्बन्धनीयम् निष्प्रयोजनमेव परोऽस्यानुमितिकारणत्वं कल्पय-
तीत्यर्थः॥
अन्ये पुनराहुः - अविनाभाव एव सम्बन्धोऽनुमितिकारणमिह
शास्त्रे निर्दिष्टः। अनुमानभेदप्रदर्शनार्थं तु कार्यकारणभावादिसम्ब-
न्धोपादानम्। ततश् च सर्वदोषाभाव इति। तदयुक्तम् कारणस्या-
(92)
पि लिङ्गत्वेन निर्देशात् तस्य चाविनाभावात् सम्भवानुमानस्यापि प-
रमतेनासम्भवादिति॥
(93)
साङ्ख्यानामपीत्यादि। विस्तरेणानुमानं विद्येतेति स्थिते ततः स्व-
रूपपरिज्ञानाय परेण - किमिदमनुमानं नामेत्युक्त आह - सम्ब-
न्धादेकस्मादित्यादि॥
सप्तविधः सम्बन्ध इति। सप्तविधत्वं सम्बद्धानामर्थानां स्वस्वा-
मिभावेन वेत्यादिभाष्यवचनात्। सम्बद्धानामर्थानामिति च निर्देशात्
सूत्रे कर्मसाधनः सम्बन्धशब्दो ज्ञेयः॥
स्वस्वामिभावेन वेति राजभृत्यवत् प्रधानपुरुषवच् च। उदाहर-
णद्वयं लोकशास्त्रप्रसिद्धिवशेन। एवमुत्तरत्रापि विज्ञेयम्। स्वस्वामि-
भावः परस्परापेक्षया। स्वस्य स्वामिनं प्रति भावस् तद्योग्यता। एवं
स्वामिनोऽपि स्वं प्रति भावः। प्रकृतिविकारभावेन वा दधिक्षीरवत्
प्रधानमहदादिवच् च। प्रकृतिरविभक्तं कारणम्। विकारस् तस्याः
(94)
पारिणामिको धर्मः। कार्यकारणभावेन वा परस्परोपकारलक्षणेन र-
थाङ्गवत् सत्त्वादिवच् च शब्दादिभावेन परिणतौ। निमित्तनैमित्तिक-
भावेन वान्यतरोपकारलक्षणेन कुलालघटवत् पुरुषप्रधानवृत्तिवच्
च। मात्रामात्रिकभावेन वावयवावयविभावलक्षणेन शाखादिवृक्षवत्
शब्दादिमहाभूतवच् च। सहचरिभावेन वा चक्रवाकवत् सत्त्वादिवच्
च। वध्यवधकभावेन वाहिनकुलवदङ्गाङ्गिसत्त्वादिवच् च। सत्त्वादीनां
हि यस्याङ्गित्वम् तेनेतराभिभवः। एष सप्तविधः सम्बन्धः॥
तेन यथासम्भवं सम्बन्धादेकस्माद् इति। यथाह - कश्चिदर्थः
कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति। तस्मादिदानीमिन्द्रियप्रत्यक्षाद-
र्थात् पुरस्तात् समूहे कृतसम्बन्धाद् बुद्धिरविशिष्टस्यार्थस्यास्तित्वं प्र-
तिपद्यते। तद् यथा पुरो धूमाग्न्योः सम्बन्धं दृष्ट्वा धूमदर्शनादग्नेरपि
सत्त्वं प्रतिपद्यत इति॥
(95)
सिद्धिहेतुरिति। लिङ्गज्ञानं सम्बन्धस्मृत्यपेक्षं तद्विशेषस्याप्रत्य-
क्षस्य सम्बन्धिनः सिद्धिहेतुः। सिद्धिस् तु फलम्। सूत्रे तु कारेणे
कार्योपचाराच् छेषसिद्धिरनुमानमित्युक्तम्॥
लिङ्गज्ञानं तु किञ्चिदनिश्चितमपि स्यादिति बाष्पादिसाधारणं
पाण्डुत्वादिमात्रं दृष्टवतः - किमयं धूम उत बाष्पादिरिति सन्देहात्।
अयथार्थं चेति बाष्पादौ धूम इति ग्रहणात्। विशेषणार्थमुत्तर-
मारभत इति। यदुक्तम्- एकस्मात् प्रत्यक्षादिति तस्यैतद् विशे-
षणम्। प्रत्यक्षं चानवधारितं चेति। सामान्यतः श्रोत्रादिवृत्त्या ग्र-
हणात् प्रत्यक्षम् विशेषतः संशयविपर्ययाभ्यामनवधारितम्। वि-
शेषदर्शनादिति। विशेषयन्तीति विशेषाः। धूम एव ये वर्तन्ते वि-
शिष्टाः पाण्डुत्वादयः तद्दर्शनाद् विशेषेण प्रतिपद्यते - धूम एवा-
यमित्येवम्। सर्वमित्यनेन शेषं ग्रन्थं सूचयति। स पुनः - तद् यथा
(96)
मन्दमन्दप्रकाशे गवाश्वोचिते देशे गोप्रमाणमारुपं दृष्ट्वा सन्दिहाना
बुद्धिर् विशेषदर्शनाद् विशेषेण प्रतिपद्यते - गौरश्व इति चेति।
आरूपं दृष्ट्वेति ईषद्रुपं दृष्ट्वा संस्थानमात्रं दृष्ट्वेत्यर्थः॥
एवं चेष्यमाण इति सामान्यतो गृहीतस्य पुनर् विशेषेण ग्रहण
इष्यमाणे। स्वार्थालोचनमात्रत्वादिति शब्दादिस्वलक्षणानुभव-
मात्रत्वादित्यर्थः। मात्रशब्दः सामान्यविशेषग्रहणनिरासार्थः। न हि
श्रोत्रादिवृत्तेरित्यादि। अर्थोन्तरापेक्षौ हि सामान्यविशेषौ। अतो
ऽर्थान्तरापेक्षयास्यानेन सारूप्यमस्य वातो विशेष इति भवति। न
च श्रोत्रादिवृत्तेरेवं ग्रहणे सामर्थ्यम् अविकल्पकत्वादिति नेन्द्रियवृ-
त्तेः सामान्यं विशेषो वा विषयः।
अयथार्थत्वादिति सामान्यविषयाया इन्द्रियधियः। तथा ह्युक्तम्
- सामान्यतः खल्वपि प्रत्यक्षं चानवधारितं चेति। सैव विशेष्य
वक्तव्येति यथार्था श्रोत्रादिवृत्तिः प्रत्यक्षमिति। यथान्यत्रेति न्याय-
सूक्ष्मे। एवं ह्युच्यमाने प्रत्यक्षलक्षणं चादोषं भवतीह च विशेषणं न
(97)
कर्तव्यं जायते अनवधारितस्य लिङ्गस्याप्रत्यक्षत्वादेवालिङ्गत्वप्रस-
ङ्गात्॥
अत्र केचिदाहुः - यद्यपि स्वार्थालोचनमात्रत्वं प्रत्यक्षस्य तथापि
नैव सामान्यविशेषविषयत्वाभावः शब्दादेरनर्थान्तरत्वात् सामान्य-
विशेषयोः सर्वथैव शब्दादेरिन्द्रियविषयत्वादिति। तदयुक्तम् स्ववि-
षयविनिवेशव्याघातप्रसङ्गात्। यच् छब्दवृत्ति सामान्यम् तदेव
रूपादावपि वर्तते। यथा च तच् छब्दादनन्यत् एवं रूपादेरपीति
तस्य श्रोत्रवृत्त्या ग्रहणे रूपादेरपि ग्रहणमनुषज्यते। अनेकस्माच् च
रूपादेरनन्यत्वात् सामान्यस्यानेकत्वं रूपादीनां च तत एकस्मादन-
न्यत्वादेकत्वमिति॥
प्रत्यक्षफलं प्रत्यक्षमिति। यदुक्तम्- एवं चेष्यमाण इत्यादि
तस्यायं परिहारः विकल्पिकत्वान् मनोवृत्तेः सामान्यविशेषविषय-
त्वात्। तदप्ययुक्तमिति। प्रत्यक्षफलत्वं यदि मनोवृत्तेः स्यात् स्यात्
तथाव्यपदेशः। तच् च नास्ति भिन्नविषयत्वात्। एतच् च प्रागेवो-
क्तम्। तस्मादयुक्तं प्रत्यक्षशब्दव्यपदेश्यत्वम्। तद् दर्शयति- न
चान्यस्येत्यादि प्रत्यक्षात् तत्फलाद् वान्यस्य विषयोपचारहेत्वभा-
वात्॥
(98)
अथ वा केचिदेवं व्याचक्षते - एकस्मात् प्रत्यक्षादिति प्रत्यक्षश-
ब्दोऽयं प्रसिद्धत्वमुपलक्षयति। प्रत्यक्षात् प्रसिद्धादित्यर्थः। तेन प्रत्य-
क्षात् प्रत्यक्षफलाच् चान्यस्यापि ज्ञानस्य विषये लिङ्गे प्रत्यक्षव्यपदे-
शो भविष्यतीति। अत आह- न चान्यस्येत्यादि। एवं मन्यते-
प्रसिद्धत्वं हि प्रमाणेन स्यात् प्रत्यक्षादिना। तत्र प्रत्यक्षेण तावत् तन्
नोपपद्यते यथोक्ताद् विधानात्। अनुमानेनापि नैव अनवस्थाप्र-
सङ्गात्। येन हि लिङ्गेन धूमोऽनुमीयते तत्साधनायापरं लिङ्गमन्वे-
ष्यम्। तत्सिद्धयेऽप्यपरमित्यनवस्थाप्रसङ्गः। आगमोऽपि नैव सदा
लिङ्गग्रहणे व्याप्रियते। न हि सिद्धान्तसमयानाश्रिता लिङ्गमागमेन
परिच्छिन्दन्ति। कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवतीति
भाष्यवचनाच् चायुक्तमेतदिति॥
भवतु नाम कथञ्चित् प्रत्यक्षव्यपदेश इत्यभ्युपगम्य दोषान्तराभि-
धित्सयाह- इदं च वक्तव्यमित्यादि। स्वादेः सम्बन्धिनः स्वत्वादि-
रूपेणैव वा ग्रहणं स्याद् रूपान्तरेण वा। यदि स्वत्वादिरूपेण स्व-
मित्येवं गृह्यते एवं सति स्वामिसम्बन्धित्वात् स्वस्य स्वामिनमन्त-
रेण स्वत्वानुपपत्तेर् नियतं स्वाम्यपेक्षत्वाल् लिङ्गदर्शनात् पूर्वमेव
स्वामिप्रतिपत्त्या भाव्यम्। न ह्यन्यथास्येदं स्वमित्येवं ग्रहणं भवति।
(99)
ततश् चोत्तरकालं सम्बन्धस्मरणमनर्थकं स्यात् स्वामिनः पूर्वमे-
व सिद्धत्वाच् छेषानुपपत्तेः शेषसिद्धेश् चानुमानत्वेनेष्टत्वात्॥
अथान्यथाकारान्तरेण ग्रहणमिष्टम् तन् नोक्तमित्यसम्पूर्णता
लक्षणस्य। लिङ्गग्रहणे तुल्यमिति। यद्यविनाभावित्वेन लिङ्गग्रहण-
म् अविनाभावित्वं च प्रतियोग्यन्तरापेक्षमेवेति प्रागेव लिङ्गग्रहणात्
साध्यप्रतीत्या भाव्यम् एवं च साध्ये प्रतियोगिनि सिद्धे सम्बन्धस्म-
रणानर्थक्यम्। अथान्यथा तन् नोक्तमिति समानम्। न त-
स्येत्यादि। अनुमेये सद्भाव इति वचनाद् धर्मिणि धूमादेः सद्भाव-
मात्रं गृह्यते न तु सम्बन्धित्वम्। कदा तर्हि तद् गृह्यत इत्याह-
पश्चादित्यादि।
अव्युत्पन्नस्य तद्गतेरिति स्वस्वामिसम्बन्धाद्यनभिज्ञस्य शेषग-
तेरित्यर्थः। कथं पुनस् तद्गतिरित्याह - दृष्टो हीत्यादि। कार्यकारण-
भावे तु सम्बन्धे यथा शास्त्रे विभज्यते कार्यकारणभावः सम्बन्धः
तथैवाव्युत्पन्नत्वमत्र विवक्षितम् न तु सर्वथेति वेदितव्यम्। शास्त्रे
ह्येकस्यैव वस्तुनः स्वरूपमविजहतः परिणामेन कार्यकारणभावो
व्यवस्थाप्यते। येऽपि च तथा कार्यकारणभावसम्बन्धं न प्रतिपद्य-
न्ते तेऽपि प्रकारान्तरेण तं प्रतिपद्याविनाभावित्वमात्रोपलम्भा-
दनुमेयं निश्चिन्वन्ति॥
(100)
शास्त्रदृष्टस् तु कार्यकारणभावो नोपपद्यत एव। एकत्वे हि कार्य-
कारणयोरिदं कार्यमिदं कारणमित्येतदेव न स्यात्। अथास्ति तयोः
कश्चित् स्वभावातिशयः येनैवं भवति भेदप्रसङ्गः। सत्त्वादिष्वपि
हि भेदव्यवस्थायाः स्वभावभेद एव निबन्धनम्। सत्यपि कार्यकार-
णत्वेन भेदे त्रैगुण्यजात्यभेदादैक्यमिति चेत्। न कार्यकारणव्यतिरे-
केण त्रैगुण्यस्यानुपलक्षणात्। न च नित्यस्य क्रमेण योगपद्येन वा
परिणामः सम्भवति तत् कुतस् तन्निबन्धना कार्यकारणव्यवस्थे-
त्यलं प्रसङ्गेन॥
स्यादेतत् - अगृहीते एव सोऽनुमितिकारणमित्याह - न
चेत्यादि सुगमम्॥
न चावश्यमित्यादि। ननु स्वाम्यपेक्ष्यैव स्वस्य रूपनिष्पत्तिः।
तत् कुतो व्यभिचारः। एवं मन्यते - अनुमितिकाल एव वा स्वत्वेन
गृहीतं लिङ्गं प्रतियोगिनं गमयेत् प्राग् वा सम्बन्धग्रहणकाले तथा
परिच्छिन्नं सदनुमानकालेऽन्यथाप्युपलभ्यमानमिति। यद्यनुमान-
काल इदमस्य स्वमित्येवं निश्चितं गमकमिष्यते अत्रोक्तो दोषः-
(101)
स्वामिसम्बन्धात् स्वत्वमित्येवमादिना। तस्माद् द्वितीयं दर्शनम-
भ्युपेयात्। ततश् च व्यभिचारः। स्वस्वामिनोः पर्यायेण विपर्यय-
भावसम्भवान् न शक्यमेवमनुमानं कर्तुम्- इदं मया तस्य प्राक्
स्वत्वेन गृहीतम्। तस्माद् यत्रेदं तत्रास्य तेन स्वामिना भवितव्यमि-
ति विनापि पार्थिवादिना च्छत्रादेः केवलस्यास्वामिकस्य च दर्शन-
सम्भवादिति। एवमन्यत्रापि यथासम्भवं व्यभिचारोऽभ्यूह्यः॥
स्यादेतत् - न सर्वं स्वस्वामिभावादिना सम्बद्धं गमकम्। किं त-
र्हि। यदव्यभिचारीति। अत आह- न ह्युपलब्धसम्बन्धस्येत् यादि।
यदि यथोक्ते सम्बन्धे गृहीतेऽपि लिङ्गस्य पुनर् व्यभिचार्य-
व्यभिचारित्वमक्ष्यते ततोऽविना भावित्वमेवानुमितिहेतुः स्या-
त् न स्वस्वामिभावादयः सम्बन्धाः॥
स्यादेतत् - अविनाभावोऽनुमितिहेतुः। स तु यथोक्ते सम्बन्धे
सति भवति। अतस् तन्निर्देश इति। तदयुक्तम् तद्भावेऽपि तदभा-
वात्॥
सम्बन्धस्याविशिष्टत्वादिति। द्विष्टो हि निमित्तनैमित्तिकसम्ब-
न्धः। स चैकत्र यथा द्वितीयेऽपीत्युभयत्र गम्यगमकभावः स्यात्॥
(102)
वध्यवधकभावस् त्वसम्बन्ध एवेति लिङ्गलिङ्गिनोरित्यभिप्रायः।
अत एवाह - न हि तौ लिङ्गलिङ्गिनाविति। इतरे सम्बन्धाः पराभि-
प्रायेण लिङ्गलिङ्गिनोः सम्भवन्ति। वध्यवधकभावस् तु परमतेनापि
न सम्भवति। अहिनकुलयोर् हि वध्यवधकभावः न च तौ लिङ्ग-
लिङ्गिनाविष्येते व्यभिचारात् अपि त्वहिजयनकुलपराजयौ। न
च तयोर् वध्यवधकभावः। एवमन्यत्रापीति काकोलूकादिषु॥
यत् पुनरवधारितमित्यादिना लक्षणाव्यापितामाह प्रधानपुरु-
षसम्प्रयोगप्रतिपत्तिहेतोरनुमानस्यासङ्ग्रहात्। अन्वयादिभिरिति।
आदिशब्देन परिमाणकार्यकारणभावशक्तिप्रवृत्तिवैश्चरूप्याणि गृह्य-
न्ते। प्रदानास्तित्वाद्यधिगम इत्यत्राप्यादिग्रहणेनैवत्वार्थवत्त्वपारा-
र्थ्यादयश् चूलिकार्थाः। तदा कतर इति सप्तस्वेकोऽपि न सम्भव-
तीति पृच्छति। चिन्त्यमिति द्वैविध्यसम्भवात्॥
न पृथग्वाच्य इति। अस्ति प्रधानम् भेदानां दर्शनादित्येवं वक्तव्य-
म् न तु भेदानामन्वयदर्शनाद् इति॥
भेदा एव हि नैमित्तिका इति उत्पाद्यत्वात्। निमित्तं प्रधान-
मिति उत्पादकत्वात्॥
(103)
अनन्यत्वादिति। अन्वयोऽपि भेदानामात्मभूतः तद्धर्मत्वाद् ध-
र्मधर्मिणोश् चानन्यत्वात्। अतो भेदवत् तस्यापि नैमित्तिकत्वमुपप-
न्नम्। एवं परिमाणादीनामपि वेदितव्यम्॥
न पञ्चधेति। भेदात्मभूतत्वादन्वयादीनां भेदा एवैको वीतः स्या-
त्॥
न च कश्चिदित्यादिना- ये भेदानां निर्वर्तकाः प्रधानधर्माः ते
तद्गम्याः एकत्वादिवत्। तथा च निरवयवामूर्तत्वादयः। तथा ये
प्रधानेन निर्वर्त्या भेदधर्माः ते तस्य गमकाः अन्वयादिवत्। त-
था च सत्त्वविभुत्वादय इति स्वभावप्रसङ्गद्वयमाह॥
ननु यद्यपि सर्वथा निमित्तनैमित्तिकभावः तथापि तथाऽनिश्च-
यान् न सर्वथा गम्यगमकत्वप्रसङ्गः। सामान्यतः खल्वपि प्रत्यक्षं
चानवधारितं चार्थं विशेषदर्शनाद् विशेषेण प्रतिपद्यत इत्यादिवच-
नाल् लिङ्गज्ञानस्य निश्चयात्मकस्येष्टत्वादनिश्चिताभिमतानां च लिङ्ग-
धर्माणामनन्यत्वादनुत्तरमेतत्॥
(104)
स्यादेतत्- इष्यत एव तथा गम्यगमकभाव इत्याह - भेदाना-
मित्यादि। यस्मादन्वयादय एव शास्त्रे हेतुत्वेन गृह्यन्ते न तु सन्मा-
त्रादयः प्रधानस्य चास्तित्वादय एव साध्यत्वेन न तु निरवयवत्वा-
दयः तस्मान् नायं निमित्तनैमित्तिकभावः प्रधानास्तित्वाद्यधि-
गमहेतुः॥
कथं पुनः प्रधानस्य निरवयवत्वम् यावता सत्त्वादयस् तस्याव-
यवाः सन्त्येव। तद्व्यतिरिक्तावयवाभावान् निरवयवत्वमित्यदोषः।
दश चूलिकार्था इति।
अस्तित्वमेकत्वमथार्थवत्त्वं पारार्थ्यमन्यत्वमकर्तृभावः।
योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्त्या॥
इत्येते वेदितव्याः। तस्माद् योऽत्रानुरूप इति योग्यः। स चाविना-
भाव एव॥
ननु निमित्तनैमित्तिभावेन सोऽप्याक्षिप्त एव नैमित्तिकस्य नि-
मित्ताविनाभावित्वात्। सत्यम् आक्षिप्तः। परेण तु निमित्तनैमित्ति-
(105)
कभावेन सम्बद्धं लिङ्गं गमकमिच्छता निमित्तस्यापि गमकत्वमङ्गीकृ-
तम् तस्यापि तेन सम्बन्धात्। सर्वथा च गम्यगमकत्वं सर्वथा नि-
मित्तनैमित्तिकभावादित्यतस् तस्येदमनिष्टमापद्यते। यदि पुनर् नि-
मित्तनैमित्तिकभावेन यस्याविनाभावस् तद् गमकमित्यभ्युपेयात्
सर्वथा च निमित्तनैमित्तिकभावो न स्यात् न किञ्चिदनिष्टं स्यात्॥
तथेत्यादिनेतरेष्वपि सम्बन्धेषु यथोक्तं दोषमतिदिशति। भागे-
नैवेति केनचिदाकारेणेत्यर्थः। असम्बन्धत्वमाख्यातमिति। अ-
सम्बन्धत्वमिति पर्युदासोऽयम् अनुमेयाधिगमहेतोः सम्बन्धस्य
यत् सम्बन्धत्वम् तस्मादन्यत् सम्बन्धत्वमाख्यातमित्यर्थो वेदित-
व्यः। अन्यथा सम्बन्धानामसम्बन्धत्वानुपपत्तेर् विरोधः स्यात्॥
ननु च स्वस्वामिभावादयः सम्बन्धाः प्रकाशकाः। ततस् तद्द्वारेण
लिङ्गं प्रकाशयत् स्वसम्बन्धानुरूप्यात् केनचिदेव भागेन प्रकाशय-
तीति युक्तम्। तत् कुतः सर्वथा गम्यगमकभाव इत्याह - स्वस्वा-
म्यादित्वमात्रेणेत्यादि। स्वदर्शनाद् राजादौ स्वामित्वाकारेणैव प्रती-
तिः स्यात् न श्रीहर्षादिविशेषरूपेण। कुत इत्याह- अन्यथा ज्ञा-
न इत्यादि। यदि स्वसम्बन्धानुरूप्यव्यतिरेकेण ग्रहणशक्तिरिष्यते
स एव सर्वथा गम्यगमकभावः स्यात्॥
(106)
स्वत्वभागेनापीत्यादि। स्वत्वभगो हि स्वामित्वमात्रेण सम्बद्धः।
ततो यदि सम्बन्धानुरूप्यात् तेनैव तस्यैव प्रकाशनमिष्यते स्वा-
मित्वमात्रं लिङ्गिनि गमयेत्। कुत इत्याह- न हीत्यादि सम्ब-
न्धनिरपेक्षस्य प्रत्यायनेऽतिप्रसङ्गः स्यादिति भावः। तदतिक्रम
इत्यनन्तरोक्तार्थातिक्रमे। यदि स्वसम्बन्धद्वारं मुक्त्वान्यथाकारा-
न्तरेणापि स्वार्थं प्रत्याययितुं शक्तिः स्यात् न तु स्वसम्बन्धानु-
रूपेणेति यावत्। अलं प्रसङ्गेनेति। स्वस्वाम्यादयो लिङ्गलिङ्गिनः
प्रसङ्गेनोपात्ता इति दर्शयति॥
व्यङ्ग्यव्यञ्जकभावेनेति। यदि व्यङ्ग्यव्यञ्जकभावेन निमित्तनैमित्ति-
कभाव इष्यते। ततो न निमित्तनैमित्तिकभाव एवैको व्यञ्जको वक्त-
व्यः। कुत इत्याह - स सप्तधेति॥
गम्यगमकभावो हि व्यङ्ग्यव्यञ्जकभावः। सप्तभिरपि च सम्बन्धैर-
नुमेयं गम्यते। ततः स एव सप्तधेत्यभ्युपेयम्। अन्यथान्येषामव्य-
ञ्जकत्वं स्यात्। ततो भिन्नत्वादिति निमित्तनैमित्तिकभावादन्यत्वात्।
(107)
उक्तं प्रागिति व्यर्थः सोऽप्यन्यतो गतेरित्यनेनायमर्थः प्रागेवोक्तः।
निमित्तनैमित्तिकभाव इति च न वक्तव्यमिति। यद्युभयोर् निमि-
त्तनैमित्तिकयोर् गमकत्वं स्यात् युज्येतैवं वक्तुम्। न चोभयोर् गम-
कत्वम् अपि तु नैमित्तिकस्यैव। तद् दर्शयति - यस्मादभिव्यञ्जक-
मत्र निमित्तत्वमिति। अत्र ह्यनुमानानुमेयव्यवहारे निमित्तत्वम्
एवाभिव्यञ्जकम्। किं पुनरिदं निमित्तत्वं नाम। निमित्तस्य धूमादेः
स्वसाध्याविनाभावः। येन प्रवृत्तिनिमित्तेन तत्र निमित्तशब्दः प्रवर्त-
ते तन् निमित्तत्वम्। न नैमित्तिकत्वमिति व्यञ्जकमित्यनेन सम्ब-
ध्यते। अत्रापि साध्यस्य योंऽशो गम्यः तन् नैमित्तिकत्वम्। क-
स्मात् पुनर् नैमित्तिकत्वं न व्यञ्जकमित्याह - व्यङ्ग्यत्वादिति सा-
ध्यत्वादित्यर्थः। सिद्धस्य हि गमकत्वं भवति न साध्यस्य। तस्मान्
निमित्तभाव इत्येव वक्तव्यम् न तु निमित्तनैमित्तिकभाव इति॥
स्यादेतत् - नैवं विज्ञायते - निमित्तनैमित्तिकयोर् भावो निमित्त-
नैमित्तिकभाव इति। एवं हि विज्ञायमाने नैमित्तिकग्रहणमनर्थकं
स्यात् निमित्तभावस्यैव गमकत्वात्। कथं तर्हि निमित्तस्य नैमित्ति-
केन भाव इति। स पुनरविनाभावो भवति। अस्मात् साध्यसिद्धिनि-
(108)
मित्तमित्यभिधानं प्रत्ययश् चेति कृत्वा निमित्तभाव इतीयत्युच्यमाने
न ज्ञायते - केन सह निमित्तभावोऽविनाभावलक्षण इति। अतः प्र-
तियोगिप्रतिपत्तये नैमित्तिकशब्दोपादानमिति॥
नैतदस्ति निमित्तस्य हि नियमेन नैमित्तिकापेक्षत्वादेवमनुच्य-
मानेऽपि प्रतियोगिप्रतिपत्तिरिति नैमित्तिकग्रहणं निष्फलम्।
यच् चोक्तमिति। दर्शनान्तरे दूषणमतिदिशति। सहचरिभावस्
त्वन्वयादीनां प्रधानमन्तरेणाभावः। न च सहचरिभाव इति। अ-
न्वयादिभिः प्रधानद्यतीन्द्रियार्थाधिगमः। शेषवच् चानुमानमती-
न्द्रियार्थाधिगमहेतुरुक्तः शास्त्रे। सहचरिभावे च सम्बन्धे प्रधानान्व-
यादीनां नैतच् छेषवद् युज्यते। न हि सहचरिभावः कार्यकारणभा-
वः पृथग् निर्देशात्। किं च द्वयोर् हि व्यवस्थितयोः सहचरिभावो
भवति चक्रवाकवत्। न च कार्यकारणयोर् योगपद्यं समस्ति कार्य-
काले कारणस्य तिरोभावात्। तत् कुतस् ततः सहचरिभावादती-
(109)
न्द्रियार्थाधिगमः। अन्वयादिभिरतीन्द्रियार्थधिगमोऽभ्युपेतः। स
सहचरिभावे सम्बन्धे न युज्यत इत्यभ्युपेतं हीयते। तस्मान् नैत-
देवेति। अपरोऽप्येष्टव्यः यतोऽन्वयादिभिः प्रधानादिसिद्धिर् भव-
ति॥
द्विविधमनुमानमिति। तत्र विशेषदृष्टम् यदाग्निधूमसम्बन्धं दृष्ट्वा
तेनैव धूमेन तस्यैवाग्नेः पुनः पुनरस्तित्वं प्रतिपद्यते - स एवायमग्नि-
रिति। सामान्यतो दृष्टम् यत् क्वचिद् धूमाग्निसम्बन्धं दृष्ट्वोत्तरकालं
धूममात्रदर्शनादग्निसामान्यानुमानम्। एतदपि सामान्यतो दृष्टमनु-
मानं द्विविधम्- पूर्ववच् छेषवच् च। तत्र पूर्ववत् यदा कारणम-
न्यूनं दृष्ट्वा भविष्यत्त्वं कार्यस्य प्रतिपद्यते। तद् यथा मेघोदयं दृष्ट्वा भ-
विष्यत्त्वं वृष्टेः। शेषवत् यदा कार्यनिर्वृत्तिं दृष्ट्वा भूतत्वं कारणस्य प्र-
तिपद्यते। तद् यथा नववृद्धजलां नदीं दृष्ट्वा भूतत्वं मेघस्य। तत्र पूर्व-
वदनुमानं व्यभिचारि शेषवत् सविचारमव्यभिचारि। तेषां यदेत-
त् सामान्यतो दृष्टमनुमानं शेषवत् एष हेतुरतीन्द्रियाणां भावा-
नां समधिगम इति॥
(110)
स्मृतिः सेष्टेत्यत्रोपपत्तिमाह- न हीत्यादि। अनेन - यत् पूर्वा-
नुभूतं तदेवेदमिति प्रत्यवमृशति तत् स्मृत्यात्मकम् यथा स ए-
वायं धूम इति ज्ञानम्। यथोक्तधर्मकं च विशेषदृष्टमिति स्वभावमा-
ह॥
कार्यकारणाभ्यामित्यादि। सामान्यतो दृष्टमेव द्विविधमित्यव-
धारणस्य ह्यन्यद्वैविध्यवयवच्छेदः फलम्। ततश् च कार्यकारणा-
भ्यां पुनः पुनरनुमानाभावप्रसङ्गः पुनः पुनरनुमानं विशेषदृष्टमि-
ति कृत्वेत्यभ्युपेतहानिः। अथेत्येवमादिनाप्यभ्युपेतहानिमेवाह य-
स्मात् सामान्यतो दृष्टं द्विविधमेवेत्यवधारणस्य सङ्ख्यान्तरव्युदासः
फलम्। ततश् च स्वस्वाम्यादिसम्बन्धैस् तत्प्रथममनुमानाभावः।
तत्प्रथमग्रहणम् पुनः पुनरनुमाने विशेषदृष्टसम्भवात्। कस्मात्
सामान्यतो दृष्टाभाव इत्याह- न ह्येषु कार्यकारणभावोऽस्तीति।
कार्यकारणभावाच् च सामान्यतो दृष्टमिष्टम्। कथं विशेषदृष्टाभाव
इत्याह- न विशेषग्रहणमिति। द्वितीयादिषु क्षणेषु विशेषग्रहणं स-
म्भवति स एवायमिति तद्भावाख्येति विशेषग्रहणात् न तु प्रथमे
क्षणे॥
सम्बन्धाः सप्तविधा निर्दिष्टा इति स्वस्वामिभावादयः। अनुमा-
नं द्विधैवेति सामान्यदृष्टविशेषदृष्टाभ्यामन्यस्यापि सम्भवात्। ए-
(111)
कस् तुशब्दो यस्मादर्थे द्वितीयस् तस्मादर्थे। यस्माद् द्विविधमेवा-
नुमानम् तस्मात् प्रथमतोऽनुमेयाधिगमे स्वस्वाम्यादिभिस् त्रिभिर्
यद् अनुमानत्रयम् तत् क्व विनिवेश्यताम् नैव क्वचित् तस्या-
न्तर्भाव इति भावः। त्रयग्रहणम् प्रकृतिविकारनिमित्तनैमित्तिकमा-
त्रमात्रिकभावानां कार्यकारणभाव एवान्तर्भावात्॥
अनुग्राह्यानुग्राहकत्वादिति उपकार्योपकारक त्वादित्यर्थः। न
ह्युपकार्योपकारकभावमन्तरेण स्वस्वामिभावः सम्भवति। अन्यथा
ह्यतिप्रसङ्गः स्यात्॥
अनया दिशा सहचरिभाववध्यवधकसम्बन्धयोरपि कार्यकारण-
भव उन्नीयत इति पृथग् नोक्तः। तथा हि- न विनोपकारेण सहच-
रिभावोऽस्ति चक्रवाकयोर् मैथुनसुखोपसंहारादिना परस्परोपका-
रदर्शनात्। वध्यवधकभावोऽप्यहिजयनकुलपराजययोः कार्यकार-
णभाव एव परस्परहेतुत्वात् सत्त्वादीनामिव शब्दादिभावेन परिण-
तौ॥
सम्बन्धान्तराभावप्रसङ्गादिति। कार्यकारणसम्बन्ध एवैकः
स्यात् न सम्बन्धान्तरम्। न ह्युपकार्योपकारकत्वेन विना सम्बन्धः
(112)
सम्भवति अतिप्रसङ्गात्। कथं पुनः सम्बन्धान्तराभाव इत्याह-
सर्वत्रेत्यादि। सप्तभिरपि सम्बन्धैरनुमाने कर्तव्ये प्रत्याय्यप्रत्याय-
काभ्यां सम्बन्धिभ्यां कृतः परस्परस्यान्यतरस्य वा यथासम्भवमुप-
कारो विद्यतो। अन्यथा तयोः सम्बन्ध एव न स्यात्॥
अथ वा- अनुमीयतेऽनेनेत्यनुमानं सप्तविधः सम्बन्धः। तस्मि-
न्ननुमाने। निमित्तार्था सप्तमी। सप्तविधसम्बन्धो निमित्तम्। प्रत्या-
य्यप्रत्यायकाभ्यामित्यादि शेषं पूर्ववत्। अस्मिन् व्याख्याने यदेतच्
चोद्यम्- ननु कार्यकारणभावः प्रत्यायनायाश्रीयते। अन्यथाविदि-
तसम्बन्धादपि लिङ्गात् प्रथमदर्शनेऽनुमानं भवेत्। तत् कथं स ए-
वोपकार इत्युच्यत इति तस्यावतार एव नास्ति यतो नात्र प्रत्या-
यनमुपकारोऽभिसंहितः। किं तर्हि। सम्बन्धिनोरात्मभूतोऽनुग्रहः॥
द्विधा दोष इति। अयमेवोभयपक्षभावी। फलाभाव इति अर्था-
न्तरव्यवच्छेदफलत्वाद् वाक्यानाम्॥
किं ह्यस्येत्यादिना तमेव फलाभावं दर्शयति। ननु चाविदितद्वै-
विध्यप्रतिपादनमेव वाक्यस्य फलं स्यात्। किमत्रार्थान्तरव्यवच्छेदेन
(113)
कर्तव्यम्। अयुक्तमेतत्। अर्थान्तरव्यवच्छेदेन हि तत्स्वरूपं प्रतीय-
ते स्वभावान्तरव्यावृत्तरूपत्वात् तस्य। रूपान्तरं चेन न व्यवच्छि-
न्नम् कुतस् तत्स्वरूपप्रतीतिः। न चाविदितं द्वैविध्यम् कार्यकार-
णानुमानप्रस्तावात्। तत्र पुनर्वचनं नियमार्थं विज्ञायते।
तदयुक्तमित्यत्र हेतुमाह- सम्बन्धिनो व्यभिचारित्वादिति।
प्रतिबन्धादिसम्भव इति। प्रतिबन्धो विधुरप्रत्ययोपनिपातः। आ-
दिशब्दात् सहकारिवैकल्यसम्भवे॥
लिङ्ग्यत इति गम्यत इत्यर्थः नात्रोपचारो युक्त इति उपचार-
निबन्धनस्याभावात्। अथेत्यादि। यो हि किञ्चित् कारणमुपजनित-
कार्यं दृष्ट्वान्यदपि तज्जातीयं पश्यन् सादृश्यस्खलितमतिरेतदपि नि-
यतं तत् कार्यं जनयिष्यतीत्यध्यवस्यति तस्य कारणात् कार्यज्ञानं
भवति। कदाचिदिति वचनान् न भवत्यपि। यस्माद् भवति त-
स्मादनुमानकारणत्वादनुमानमुच्यते। यस्मात् कदाचिन् न भवति
तस्माद् व्यभिचारीत्युच्यते। एवमनुमानत्वं व्यभिचारित्वं चोक्तमि-
ति॥
तन् न तदा तस्याकारणत्वादिति। तदापि नैवानुमानोपचारो
युक्तः अनुमानकारणत्वाभावात्। नैव हि स तदानुमानमिति
योऽसावयथार्थः प्रत्ययः। अतस् तत्कारणे नानुमानोपचारो युज्य-
(114)
ते। यदापि च यथार्थः तदा व्यभिचारित्वाभावः। अतो नास्ति तदे-
कम् यदनुमानं स्याद् व्यभिचारि च॥
नन्वनुमा नाभासकारणमप्यमानमुच्यते। तथा हि- वक्तारो
भवन्ति - यदनेनानुमानमुपन्यस्तम् तन् मया दूषितमित्यपि च-
व्यभिचारीति। एतावतोऽर्थस्य विवक्षितत्वाददूषणमेतदित्याह- य-
दि चेत्यादि। यदि कार्यकारणज्ञाने सत्यपि पुनस् ततोऽधिकं व्य-
भिचार्यव्यभिचारित्वमपेक्ष्यते सम्बन्धान्तरमागतमित्यभ्युपेत-
हानम्॥
यस्यैवाव्यभिचारितापेक्ष्यत इति यस्यैवाव्यभिचारितास्वरू-
पमपेक्ष्यत इत्यर्थः। स्वरूपमित्येतत् कुतः। यतोऽविनाभावित्वस्य
नान्याव्यभिचारितास्ति तस्याव्यभिचारितारूपत्वात्॥
सर्वानुमानेष्वित्यादिना पुनर्वचनानर्थक्यमाह। अथ नियमार्थं
तद् वचनम् एवमपि - सामान्यतः खल्वपीत्यादेरानर्थक्यं स्या-
त्॥
सत्त्वे चासौ विचारणेति। सत्त्वशब्दोऽत्र स्वरूपाभिधायी।
कार्यकारणसम्बन्धे ह्यनुमितिहेतुत्वेनाभ्युपेते लिङ्गस्वरूपमेव विचार-
यितुं युक्तम् - किमिदं कार्यं स्यान् न स्यादिति। तद् यथा नदीपूर
(115)
इति। तत्र हि स्वरूपगत एव विचारः - किमयं नदीपूरो वृष्टिकृत
आहोस्विन् नेति। यदा त्वसौ फेनकलिलपांसुलोदकादिभिश् चिह्नैर्
निश्चितस्वरूपो भवति तदा न पुनरव्यभिचारित्वे विचारमपेक्ष्यते।
न हि वृष्टिकार्यत्वे निश्चिते तत्र व्यभिचारित्वमाशङ्क्यते कार्यस्य कार-
णाव्यभिचारात्। एतदेव दर्शयन्नाह- अविचरितमपीत्यादि॥
तस्मान् न युक्तमवधारणमिति अन्यतोऽप्यतीन्द्रियार्थाधिग-
मात्। ननु च नैवमवधार्यते - सामान्यतो दृष्टमेवातीन्द्रियार्थदर्शन-
हेतुरिति कथं तर्हि - सामान्यतो दृष्टमतीन्द्रियार्थोपलब्धिहेतुरेवेति।
एवं चानुमानान्तरस्यातीन्द्रियार्थसमधिगमहेतुत्वाप्रतिषेधाददोषः।
नैतदस्ति। सर्वेषां ह्यनुमानानामप्रत्यक्षाधिगमहेतुत्वात् सामान्यतो
दृष्टस्यापि तदधिगमहेतुत्वप्राप्तौ पुनर्वचने तद्विपरीतप्रतिषेधरुपो नि-
यमो विज्ञायते पञ्च पञ्चनखा भक्ष्या इति यद्वत्। अनुमानद्वयाच् च
सामान्यतो दृष्टं पृथक्कृत्यातीन्द्रियार्थाधिगमहेतुत्वेनोपादीयते। ततो-
ऽपि तस्यैव तद् विज्ञायते। तद् यथा - कृष्णा गवां सम्पन्नक्षीरत-
मेति कृष्णाया एव सम्पन्नक्षीरतमत्वम्॥
तत्सद्भावस्यैव कारणत्वादिति प्रधानसद्भावस्यैव। तद्भावमात्रे-
ण हि प्रधानं भेदहेतुः नैकत्वादिभिर् धर्मैः। एवं मन्यते - असतो
(116)
ह्युपजनः प्रतिषिध्यते विकारणाम्- नेदं व्यक्तमसत उत्पद्यत इति।
अतः पारिशेष्यात् प्रधानसद्भावादेवोत्पद्यन्ते भेदाः। सद्रूपानुविधा-
नाच् च भेदानां सद्रूपमेव कारणम्। सद्रूपं च तस्यात्मधारणं स्वा-
भाविकमेव। न तु सत्तासंसर्गकृतम् सत्तायाः प्राक् परिणामादस-
म्भवात्। तथा ह्याह- निः सत्तासत्तेति। यथा च तदा सत्ता नास्ति
तथैकत्वादयोऽपि। कुतस् तेषां कारणत्वम्। प्रधानसद्भावस्यैव च पु-
रुषौत्सुक्यविनोदनाय प्रवृत्तिः। अतस् तस्यैव कारणत्वमिति॥
यद्येवम् कथं तदुक्तम्-
न च कश्चित् प्रधानस्य भेदो निर्वर्तको न च
इत्यादि। तत् पराभिप्रायेणैवैवमुक्तम्। यदि परोऽनन्यत्वमङ्गीकृत्य
प्रधानपुरुषार्थगतान् दश चूलिकार्थान् साधयेत् सर्वथा गतिः
स्यात्। इदं तु स्वाभिप्रायेण - तत्सद्भावस्यैव कारणत्वं युक्तमिति
कृत्वा॥
(117)
तस्य च भेदेभ्य एवेति प्रधानास्तित्वस्य॥
सत्त्वस्य बहुत्वस्य वेत्यादिना सर्वथाशब्दस्यार्थमाचष्टे। वाश-
ब्दात् समुच्चयार्थादेकत्वादेः। भेदेनाभेदेन वेति सत्त्वेन वैकेनाकर्तृक-
त्वादिभिर् वा अथ वैकेन वा वीतेन पञ्चभिर् वा अथ वा यदि पुरु-
षादस्तित्वादयो भिना अथाप्यभिन्नाः सर्वथानवगम इत्यभ्युपेत-
हानिः। यदकारणम् न तच् छेषवदनुमानावसेयम् अत्यन्ताभाव-
वत्। तथा च पुरुषः। व्यापकाभावः। ये तु - शब्दाकारपरिणते-
न्द्रियवृत्तिनिर्भासायां मनोवृत्तावुपजातायां पुंसोऽपि तदाकारवृत्तिरु-
पजायते तस्माद् वृत्त्याकारपरिणामी पुरुष इतीच्छन्तोऽसिद्धतां
हेतोरुद्भावयन्ति तेषां प्रधानरूपः पुमान् प्रप्नोति। तथा हि मनोवृ-
त्तिस् त्रिगुणात्मका। तदाकारा च पुरुषस्य वृत्तिः। ततश् चासावपि
त्रिगुणात्मकैव स्यात्। एवं च वृत्तिवृत्तिमतोरनन्यत्वात् पुंसोऽपि त्रि-
गुणात्मकत्वमापन्नम्। त्रिगुणस्वभावत्वाच् च सोऽपि प्रधानमेव स्या-
त्। तत्र चोक्तो दोषः। प्रधानस्य चैकत्वमभ्युपेतं हीयत इत्यसारमे-
तदिति॥
(118)
अनुमानादीनीत्यादि। आदिशब्देन शाब्दोपमानार्थापत्तयो गृह्य-
न्ते। प्रत्यक्षपूर्वकत्वात् तद्वदेवेति। यथा प्रत्यक्षं धर्मं प्रत्यनिमित्त-
म् तथानुमानादीन्यपि। कुतः। प्रत्यक्षपूर्वकत्वात्। अत एव चैतानि
न सूत्रितानि। प्रत्यक्षादीनि हि प्रमाणानि किमर्थं परीक्ष्यन्ते। चोद-
नालक्षणो धर्मः न प्रत्यक्षादिलक्षण इति ज्ञापयितुम्। प्रत्यक्षस्य च
धर्मं प्रत्यनिमित्तत्वे ज्ञापिते - अन्यदपि यत् प्रत्यक्षपूर्वम् तद् धर्म्-
परिज्ञाननिमित्तं न भवतीति ज्ञायत एवेति किं तेन सूत्रितेन॥
कथं तर्हि षट् प्रमाणानि मीमांसायां प्रतीत्यानीत्याह - वृत्तिका-
रैरित्यादि॥
तत्रेत्यादिना दूषणमाह। ननु च सूत्रे प्रत्यक्षपूर्वकत्वमसूत्रितत्वे हे-
तुत्वेनोपात्तम्। वृत्तौ तु प्रमाणत्वपरिज्ञाने - यदि यत् प्रत्यक्षपूर्वक-
म् तत् प्रमाणत्वेन विज्ञास्यत इत्यभिधानात् तत् कथं वृत्तेः सू-
त्रार्थानुगमनम्। सूत्रे प्रत्यक्षपूर्वकत्वमसूत्रणस्य पारम्पर्येण हेतुत्वेनो-
पात्तम् न साक्षात्। तदेव च पारम्पर्यं दर्शयितुम्- यदि यत् प्र-
त्यक्षपूर्वकमित्यादिकं विवरणं कृतमित्यदोषः। यदि पुनः प्रमाणप-
(119)
रिज्ञानमेवासूत्रणहेतुरव्यवहित उच्येत प्रमाणपरिज्ञानहेतुर् नोक्तः
स्यात्। ततश् च - स्मृतीच्छाद्वेषयत्नादि प्रमाणमनुषज्यत इत्य-
स्य दूषणस्यावतारो न स्यात्। तस्माद् दूषणावकाशदानाय प्रत्यक्ष-
पूर्वकत्वादित्युक्तम्॥
ननु नैव मीमांसायां प्रत्यक्षपूर्वकत्वेन प्रमाणत्वमुक्तम् अपि तु
धर्मं प्रत्यनिमित्तत्वमेषामाख्यातम् यदाह- प्रत्यक्षपूर्वकत्वाच् चानु-
मानोपमानार्थापत्तीनामप्यकारणत्वमिति। उपवर्षेणापि प्रसिद्धत्वान्
नोक्तानीत्युक्तम्। प्रत्यक्षादीनि हि प्रमाणानि प्रसिद्धानीति नैष दो-
षः। इह प्रसिद्धत्वं नास्ति तेषामिति ज्ञापितमेतत् - बहवश् च वि-
प्रतिपन्ना इत्यनेन। न च तेषां लक्षणमुक्तम् यतः स्वरूपावसायः
स्यात्। प्रत्यक्षपूर्वकत्वाच् च धर्मं प्रत्यनिमित्ततानुमानादीनां विज्ञा-
यत एव। ततो नोक्तानीति वृत्तिकारैर् वाक्यकाराभिप्रायमुद्भावयद्भिः
- प्रत्यक्षपूर्वं यत् तत् प्रमाणत्वेन विज्ञायत एव। ततो नोक्तानीत्य-
यमप्यभिप्राय उत्प्रेक्षित इति सम्भाव्यते। अन्यथा पूर्वकोऽप्यभिप्रा-
यो न स्यात्। न ह्यविज्ञाय प्रमाणान्तराणां स्वरूपं धर्मं प्रत्यनिमि-
त्तता शक्या विज्ञातुम् यतः स्वरूपपरिज्ञानार्थं वक्तव्यानि स्युः। न
चोक्तानि। तस्मान् नूनम्- यत् प्रत्यक्षपूर्वकम् तत् प्रमाणत्वेन वि-
(120)
ज्ञायत एव। ततो नोक्तानीत्ययमपि वृत्तिकारैर् वाक्यकाराभिप्रा-
योऽभ्यूहित इत्याशङ्क्यते। ततश् च स्मृत्यादीनामपि प्रत्यक्षपूर्वक-
त्वात् प्रमाणत्वं प्रसज्यत इति॥
अनुमानोपदेशादीति। आदिशब्देनोपमानार्थापत्तिग्रहणम्।
उपदेशो द्विविधः पौरुषेयोऽपौरुषेयश् च। इह पूर्वस्य ग्रहणम्।
इतरस् तु परेषामपि नैव प्रत्यक्षपूर्वकत्वेनाभिमतः॥
असाधारणविषयेत्युक्तमिति। धर्मिणोऽनेकरूपस्येत्यत्र प्रति-
पादितमिन्द्रियधियोऽसाधारणविषयत्वम्। सम्बन्धश् चानेकाश्रय
इत्यादिना साधारणत्वं सम्बन्धस्य दर्शयन्- यत् साधारणम् न तत्
प्रत्यक्षस्य विषयः सामान्यवत्। तथा च सम्बन्ध इति व्यापकविरु-
द्धमुद्भावयति। सामान्यस्य चादर्शनप्रतिपादनम् - सामान्यं यद्य-
पीत्यादिना। अव्याप्तिरत्र नाशङ्कनीया। इन्द्रियबुद्धिर् हि वस्तुविष-
येष्यते। असाधारणं च वस्तु न साधारणम्। सम्बन्धश् च साधा-
रणः। तस्मान् न वस्तु। ततो नेन्द्रियधियो विषयः। सम्बन्धिनश्
चेत्यादि। यदि सम्बन्धिनः संयोगिसमवाय्यादित्वेन सम्बन्धिरूपेण
गृह्यन्ते एवमनुमानाद्युपकारिणो भवन्ति। आदिशब्दादुपमाना-
(121)
द्युपकारिणः। अन्यथा योऽप्यनग्निसम्बन्धित्वेन प्रथममव्युत्पन्नाग्नि-
धूमसम्बन्धो धूमं गृह्णाति तस्यापि ततोऽग्नेरनुमानं स्यात्। न च ते
तथा प्रत्यक्षा इति सम्बन्धापेक्षत्वात् सम्बन्धित्वस्य सम्बन्धस्य
चाप्रत्यक्षत्वात्। अर्थालोचनमात्रत्वाच् चेन्द्रियधियः सन्धानं प्रत्य-
सामर्थ्यात् सम्बन्धिरूपेण ग्रहणं प्रत्यक्षेण तेषां न सम्भवति॥
दृष्टसामान्यतोदृष्टादिभेदादिति। दृष्टम् यत्र लिङ्गलिङ्गिनोः स-
म्बन्धो दृष्टः। सामान्यतो दृष्टम् यत्र क्वचित् सम्बन्धदर्शनात् त-
त्सामान्याकारेणातीन्द्रियार्थाधिगतिः। आदिशब्देन पूर्ववदादयो नै-
यायिकोक्ता गृह्यन्ते। तत्रेत्यादिना - समवायादीनां तद्वतां च सम-
वाय्यादीनां समवायसमवाय्यादिरूपेणाप्रत्यक्षत्वाभ्युपगमात् परम-
तेनापि तदाश्रयस्यानुमानस्य प्रत्यक्षपूर्वकत्वं नास्तीति दर्शयति। त-
न्मतेन त्विति। तन्मतग्रहणम् स्वमतेन संयोगसंयोगिनोरप्यप्र-
त्यक्षत्वात्। तदभ्युपेत्येति। तन्मतं तच्छब्देन सम्बध्यते॥
न हेतुरनुमायाश् चेति। चशब्दो भिन्नक्रमोऽवधारणार्थश् च
द्रष्टव्यः नैव हेतुरित्यर्थः॥
(122)
द्वयोरविशेषादित्यादि। द्वयोरपि सम्बन्धिनोरविशिष्टः संयोगः।
ततश् चोभयोरप्यग्निधूमयोर् गम्यगमकभावः स्यात् सर्वथा च
सर्वात्मना संयोगात्॥
संयोगिनौ च न। स्वरूपेणाधिगन्तव्याविति। स्वरूपम् य-
दविदितसम्बन्धेनापि गृह्यते धूमादिरूपम्। तेन नाधिगमनार्हौ॥
कस्मादित्याह- न ह्यनुमान इत्यादि। सम्बन्धिरूपेण तर्हि त-
योर् अधिगतयोरुपकारो भविष्यतीत्याह- न चेत्यादि। न ही-
न्द्रियधियो योगो विषयो नापि तद्युत इत्यनेन - संयोगिरूपेण
संयोगिनोः प्रत्यक्षता न भवतीत्युक्तम्॥
स्यादेतत् - न नाम प्रत्यक्षपूर्वकत्वमनुमानादीनाम्। लक्षणं तु ते -
षां यदिष्टम् तदनवद्यम् यतस् तस्य प्रतिषेधो नोच्यत इत्याह-
अनुमानोपदेशोपमानामित्यादि। कथं पुनः स्वाभिप्रायेण नोक्त-
मित्याह- सम्बन्धान्तरस्यानिर्देशादिति। न हि वैशेषिकाद्यभिम-
तसम्बन्धेभ्योऽन्यः कश्चन सम्बन्धो निर्दिष्टः। यदपीदं शबरेण
स्वाभिप्रायेण किलानुमानमुक्तम् - अनुमानं ज्ञातसम्बन्धस्यैकदेश-
दर्शनादेकदेशान्तरेऽसन्निकृष्टे बुद्धिः। तद् द्विविधं प्रत्यक्षदृष्टसम्बन्धं
(123)
सामान्यतो दृष्टं चेति तदपि वैशेषिकीयानुमानमेव यदि त एव स-
म्बन्धा विवक्षिताः। अथान्ये तेषां स्वरूपं न निर्दिष्टमित्यनिर्दिष्टमे-
वानुमानम्। स्मृतिरपि चैकदेशदर्शनादेकदेशान्तरे पूर्वाधिगते जाय-
त इति साप्यनुमानं स्यात्। सम्बन्धोऽपि नेन्द्रियग्राह्य इत्युक्तम्।
तत् कुतस् तस्य प्रत्यक्षदृष्टसम्बन्धतेत्ययुक्तमेतत्॥
अर्थापत्त्यभवयोस् तु प्रतिषेध उच्यत इति तयोः स्वाभिप्रा-
येण विधानात्॥
स्थाल्याद्यधिश्रयणाद्यर्थगृहीतमिति। एकेनादिशब्देन चूर्णीद-
र्व्यादयः साधनविशेषा गृह्यन्ते द्वितीयेन चोदकोपसंहारादयो व्या-
पारविशेषाः। अर्थगृहीतत्वं तु पाकस्य तत उत्पत्तेः। न हि तैर् वि-
ना पाकनिष्पत्तिर् भवति। ततोऽन्यथानुपपत्त्या तत् सर्वमर्थगृहीत-
मेव। कथं पुनरनुमानम् यावता त्रिरूपाल् लिङ्गतोऽर्थदृग् अनु-
मानमुक्तमित्याह- पचतिलिङ्गादेव गम्यत इति। पाक एव हि
स्थाल्यादीनामविनाभावत्वाल् लिङ्गम्। अविनाभावस् तु तत उत्प-
त्तेः। ततो धूमादग्न्यनुमानवल् लिङ्गजत्वादनुमानान् न भिद्यते॥
(124)
अन्ये तु भावाभावाभ्यां कार्यकारणप्रतिपत्तिमर्थापत्तिम् इच्छ-
न्ति तामेवान्ये युक्त्याख्यं प्रमाणान्तरमिति। यथा सति चक्षुषि च-
क्षुर्विज्ञानं भवति असति न भवति। तस्माच् चक्षुरेव तस्य कार-
णमिति। न हीदमनुमानं युज्यते दृष्टान्ताभावात्। प्रमाणान्तरसि-
द्धो हि दृष्टान्तो भवति। न चात्र प्रमाणान्तरेण दृष्टान्तसिद्धिः। तथा
हि - यदपीदं बीजाङ्कुरादि दृष्टान्तत्वेनेष्यते तत्राप्यनेनैव सिद्धः
कार्यकारणभावः। न चैतद् युक्तम् येनैव साध्यं साध्यते तेनैव दृ-
ष्टान्तोऽपीति निदर्शनानवस्थाप्रसङ्गादिति। सापि नैव प्रमाणान्तरम्।
न ह्यत्र कार्यकारणभावः साध्यते साध्यसाधनयोरभेदात्। न हि
भावाभावाभ्यामन्यो हेतुफलभावः। न च तेनैव तस्य साध्यत्वमुपप-
द्यते। तस्मादत्र मूढं प्रति जननख्यात्या पितृत्ववद् विषयदर्शनेने वि-
षयिणो वृत्तसम्बन्धस्य स्मरणाद् व्यवहारः साध्यते। यादृशे विषये
त्वयान्यत्र कार्यकारणव्यवहारः प्रवर्तितः तादृश एवायम्। तस्माद्-
त्रापि स प्रवर्त्यतामिति। व्यवहारे च साध्ये सम्भवति दृष्टान्त इत्य-
नुमानमेव। प्रयोगस् तु- यत्र तद्भावभावित्वम् तत्र कार्यकारणव्य-
वहारः कर्तव्यः। तद् यथा यत्र पूर्वं प्रवर्तितः कार्यकारणभावो बी-
जाङ्कुरादौ। तद्भावभावित्वं च चक्षुर्विज्ञानयोरिति स्वभावः॥
(125)
शबरस् त्वाह- अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत
इत्यर्थपरिकल्पना यथा जीवति देवदत्ते गृहादर्शनेन बहिर्भाव-
स्यादृष्टस्य कल्पनेति। अत्र गोबलीवर्दन्यायेन शब्दादवगतस्य श्रु-
तशब्देन पृथगुपादानाद् दृष्टशब्दः प्रमाणान्तरोपलब्धे वर्तते। यथा
जीवतीत्यभावपूर्विकाया अर्थापत्तेरुदाहरणम्। गृहादर्शनेन बहिर्भा-
वस्येति जीवतो देवदत्तस्य गृहादर्शनमभावप्रमाणोपलब्धं बहिर्भाव-
मन्तरेण नोपपद्यत इत्यर्थः॥
अत्र यदि जीवतो देवदत्तस्य गृहादर्शनं बहिर्भावादन्यथा न दृ-
श्यत इत्यन्यथा नोपपद्यत इत्युच्यते एवं सति बहिर्भावाविनाभूत-
मपि तन् न दृष्टमिति तथापि नोपपद्यते। अथ जीवतो देवदत्तस्य गृ-
हादर्शनं बहिर्भाव एव सति दृष्टं तदभावे च न दृष्टमित्यन्यथा नोपप-
द्यत इत्यभिधीयते तदा तद्भावभावित्वमेवान्यथानुपपन्नत्वमुक्तं स्या-
त्। तच् चान्वयव्यतिरेकिण्येवार्थे भवतीति नार्थापत्तिरनुमानाद्
भिद्यते। प्रयोगस् तु- उपलब्धिलक्षणप्राप्तो गृहे न दृश्यते जीवति
च स बहिर् भवति। यथा यथोक्तप्रकारो बहिरुपलभ्यमानो यज्ञद-
त्तः। यथोक्तधर्मकश् च शब्दावगतसत्ताको देवदत्त इति स्वभावः॥
(126)
संशयकारणत्वादिति। यत् संशयकारणम् न तत् प्रमाणम्
प्रमेयत्ववत्। तथा च प्रक्रान्तार्थापत्तिरिति व्यापकविरुद्धमाह॥
गेहेऽभावान् न चैत्रस्येत्यादि। न हि गेहेऽभावमात्रेण चैत्रस्य
बहिर्भावप्रतीतिर् भवति अन्यथा शशविषाणस्यापि स्यात्। गेह-
शब्दस् तु तत्र वाक्ये प्रयुक्तस् तस्य बहिर्भावं गमयति॥
गेहशब्दस्य प्रयोगे हि वाक्यमेतन् नियमवन्तमभावं ख्यापयति
तथाविधार्थविवक्षायामेवैवंविधवाक्यप्रयोगात्। यदाह- यदि तु गेहे
बहिश् च न स्यात् नास्तीत्येवोच्येतेति। तस्माद् वाक्यमेतदुभ-
यमाक्षिपति गेहाभावं च बहिर्भावं च एकस्यापि नियमयोगख्याप-
कस्य द्वितीयाक्षेपनान्तरीयकत्वात्। न तु केवलोऽभावो बहिर्भावमा-
क्षिपति नियमवांश् च न केवलः नियमस्योभयरूपत्वात्। तस्मान्
नास्ति गेहे चैत्र इति नाभव एवोच्यते अपि तु बहिश् च भावः।
तस्मादर्थापत्तिरेवाभाव इति। यथा हि स्थाल्यादिकमन्तरेण पाक-
स्य निष्पत्तिर् न भवतीति नान्तरीयकत्वात् सा तदाक्षिपति एवं प्र-
तिषेधनियमविवक्षायां गृहशब्दस्य प्रयोगो बहिर्भावमन्तरेण न भव-
तीति नान्तरीयकत्वात् स तमाक्षिपति। ततश् च यथा पचतिः स्था-
ल्यादेर् लिङ्गम् एवमेवंविधवाक्यसमवायी गेहशब्दोऽपि बहिर्भाव-
स्येति तत एव तद्गतिः॥
(127)
शबरस् त्वाह - अभावोऽपि प्रमाणाभावो नास्तीत्यर्थस्यासन्निकृ-
ष्टस्येति। प्रत्यक्षादिप्रमाणपञ्चकाभाव इन्द्रियेणासन्निकृष्टस्यार्थस्य
नास्तीत्यभावे निश्चयहेतुर् भवति। तस्मादभावः प्रमाणमिति वा-
क्यार्थः॥
तमेवान्येऽनुपलब्धिशब्देन व्यपदिशन्तः प्रमाणान्तरवादिन आ-
हुः-
उपलब्ध्या यया योऽर्थो ज्ञायते तदभावतः।
नास्तित्वं ज्ञायते तस्यानुपलब्धिरियं मता॥
इति। अत्रापि प्रमाणाभावोऽगृहीतो वस्त्वभावग्रहणकारणं न भवति।
अथ ग्रहणापेक्षः स वस्त्वभावग्रहणे व्याप्रियते अनवस्था स्यात्।
यथा हि घटाभावः प्रमाणाभावेन गृह्यते तथा प्रमाणाभावोऽप्यपरे-
ण सोऽप्यपरेणेत्यनवस्थितिः। एकस्यापि चाग्रहणे सर्वेषामग्रहण-
मिति कुतस् तस्य प्रामाण्यम्। अगृहीतस्यापीन्द्रियवद् ग्रहणकार-
णत्वं स्यादिति चेत् न अभावस्य सर्वसामर्थ्यविरहलक्षणत्वात्।
(128)
अन्यथा भाव एव स्यात् अर्थक्रियासामर्थ्यलक्षणत्वाद् भावस्येति
नाभावः प्रमाणम्॥
तवापि तर्ह्यनुपलब्धिर् न स्यात् प्रमाणं यथोक्तादेव दोषात्। नैत-
दस्ति न हि मयैवंविधानुपलब्धिरिष्यते अपि तु उपलब्धिलक्षण-
प्राप्तस्यानुपलब्धिः। उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाक-
ल्यं स्वभावविशेषश् च यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन्
प्रत्यक्ष एव भवति। तत्रोपलब्धिः कर्तृस्था वा क्रिया स्यात् कर्मस्था
वा। पूर्वकल्प उपलभमानस्य धर्मो ज्ञानमुपलब्धिः। ततोऽन्योपल-
ब्धिरनुपलब्धिः विवक्षितोपलब्धेरन्यत्वादभक्ष्यास्पर्शनीयवत्। यदा
तु कर्मस्था क्रियोपलब्धिशब्देनोच्यते तदोपलभ्यमानस्यैव धर्मः
स्वविषयज्ञानजननयोग्यतालक्षण उपलब्धिर् विषयस्वभाव एव
योग्यताया भावरूपत्वात्। तस्मादन्य उपलम्भयोग्य एव तदेकज्ञा-
नसंसृष्टस्वभावोऽनुपलब्धिः। स चायं यथोपवर्णितो द्विप्रकारोऽप्य-
नुपलम्भः प्रत्यक्षेणैव सिध्यतीति नास्माकं यथोक्तदोषसम्भवः॥
(129)
भवतु नामैवंविधानुपलब्धिः प्रमाणम्। सा पुनः कथमनुमानम्।
कथं च न स्यात्। दृष्टान्तानपेक्षणात्। न ह्यस्यां कश्चिद् दृष्टान्तो
ऽस्ति। प्रमाणसिद्धो हि दृष्टान्तो भवति। अन्यथा यद्यनुपलब्धिसिद्ध
एव दृष्टान्तः स्यात् एवं सति यथा घटाभावो दृष्टान्तेन साध्यते
तथा दृष्टान्तोऽपि निरुपाख्यं व्योमकुसुमाद्यपरेण दृष्टान्तेन साध्येत।
सोऽप्यपरेणेत्यनवस्था प्रसज्येत। अथ दृष्टान्तो दृष्टान्तेन विनापि
सिध्यति घटाभावोऽपि सिध्येत्। ततश् च प्रमाणान्तरमेवानुपल-
ब्धिः स्यात् दृष्टान्तानपेक्षणादिति॥
नैष दोषः। न ह्यपलम्भेनाभावः साध्यते। किं तर्हि। अभावव्य-
वहारः। निमित्तं ह्यसद्व्यवहारस्योपलभ्यानुपलब्धिः। सा स्वसन्निधा-
नात् स्वनिमित्तमेनं साधयतीति स्वनिमित्तसामग्रीभावी सर्वेऽत्र दृ-
ष्टान्तः। सद्व्यवहारप्रतिषेधेऽपि साध्ये दृश्यानुपलब्ध्येतरया च नि-
मित्तवैकल्याभाविनोऽङ्कुरादयोऽपि दृष्टान्तः न केवलं निरुपाख्य-
मेवेति न प्रमाणान्तरत्वप्रसङ्गः॥
किं पुनः कारणमभाव एव न साध्यते। भेदाभावात्। तथा हि-
उपलब्धिरेव दृश्यात्मनां सत्ता अनुपलब्धिश् चासत्ता। कथं कृत्वा।
(130)
यदा तावद् यथोक्ता स्वविषयज्ञानजननयोग्यतोपलब्धिः तदा यो-
ग्यतायाः स्वभावभूतत्वादुपलब्धिः सत्तेति सिद्धमेतत्। यदापि कर्तृ-
धर्मो ज्ञानमुपलब्धिः तदापि सा दृश्यस्यार्थस्य सत्तानिबन्धनत्वात्
तद्व्याप्त्यव्यतिरेकाभ्यां तत्स्वभावाविशिष्टेति सत्तावदुपचारात् सत्तैव।
तदेवमुभयथाप्युपलब्धिः सत्ता। तदभावश् चासत्ता पर्युदासवृत्त्या
पूर्ववत्। सैव चानुपलब्धिरिति नास्ति साध्यसाधनयोर् भेदः। तेन्
नाभावोऽनुपलब्ध्या साध्यते। तस्मान् निमित्तोपदर्शनेन नास्तीत्य-
नुपलब्धेरसद्व्यवहारः साध्यते मुढं प्रति जननख्यात्या पितृत्ववत्।
अदृश्यानुपलम्भेनापि निमित्ताभावाद् व्यवहारप्रतिषेध अजनन-
ख्यात्यापितृत्ववदिति॥
यात्र परपक्षप्रतिषेधेनेत्यादि। यदुक्तं भाष्यकारेण - परपक्षप्र-
तिषेधेन स्वपक्षसिद्धिरिति तत्प्रतिषेधः साङ्ख्यीयावीतप्रतिषेधादेव
कृतो वेदितव्यः अयमप्यावीतप्रयोग एवेति कृत्वेति॥
द्वितीयः परिच्छेदः समाप्तः॥
(131)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project