Digital Sanskrit Buddhist Canon

षड्गतिकारिकाः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

षड्गतिकारिकाः
(गुणिनो जितजेयस्य
सम्यग्ज्ञानावभासिनः।
परार्थकारिणो नित्यं
त्रिलोकगुरुणो नमः॥)

(1)

कायावाग्मानसं कर्म
कृतं यच् च शुभाशुभम्।
लोकस् तस्य फलं भुङ्क्ते
कर्ता नान्यो ऽस्ति कस्य चित्॥

(2)

इति सर्वे कृपाविष्टास्
त्रैलोक्यगुरवो जिनाः।
उक्तवन्तस् तथा तद् धि
कर्मणो यस्य यत् फलम्॥

(3)

तद् वक्षामि समासेन
श्रोतुं युक्तं भवार्थिभिः।
कर्म कर्तुं विहातुं च
सदसद्गतिहेतुकम्॥

(4)

लोभमोहभयक्रोधा
ये नरा नरघातिनः।
संवध्यान्यांश् च हिंसन्ति
संजीवं यान्ति ते ध्रुवम्॥

(5)

संवत्सरसहस्राणि
बहून्य् अपि हता हताः।
संजीवन्ति यतस् तत्र
तेन संजीव उच्यते॥

(6)

मातापितृसुहृद्बन्धु-
मित्रद्रोहकराश् च ये।
पैशुन्यानृतवक्तारः
कालसूत्राभिगामिनः॥

(7)

कालसूत्रेण संसूत्र्य
पाट्यन्ते दारुवद् यतः।
ज्वलद्भिः क्रकचैस् तत्र
कालसूत्रस् ततः स्मृतः॥

(8)

दावादौ दहनैर् दाहं
देहिनां विदधाति यः।
स तीव्रैर् ज्वलनैर् जन्तुस्
तप्यते तपने रटन्॥

(9)

तीव्रं तपनसंतापं
तनोत्य् एव निरन्तरम्।
यत् ततो ऽन्वर्थया लोके
ख्यातस् तपनसंज्ञया॥

धर्माधर्मविपर्यासं
नास्तिको यः प्रकाशयन्।
संतापयति चान्यांश् च
तप्यते स प्रतापने॥

(10)

प्रतापयति तत्रस्थान्
सत्त्वांस् तीव्रेण वह्निना।
तपनातिशयेनासौ
प्रोक्तस् तस्मात् प्रतापनः॥

(11)

अजैडकशृगालांश् च
शशाखुमृगसूकरान्
अन्यांश् च प्राणिनो घ्नन्ति
संघातं यान्ति ते नराः॥

(12)

संहतास् तत्र घात्यन्ते
सम्यग् वा हननं यतः।
तस्मात् संघात इत्य् एवं
विख्यातो ऽन्वर्थसंज्ञया॥

कायवाग्मानसं तापं
ये कुर्वन्तीह देहिनाम्।
कटुकापटिका ये च
रौरवं यान्ति ते नराः॥

(13)

तीव्रेण वह्निना तत्र
दह्यमाना निरन्तरम्।
रौद्रं रवं विमुञ्चन्ति
यतस् तस्मात् स रौरवः॥

(14)

देवद्विजगुरोर् द्रव्यं
हृतं यैर् दुःखिनाम् इह।
ते महारौरवं यान्ति
ये चान्यस्वापहारिणः॥

(15)

रौद्रत्वाद् वह्निदाहस्य
रवस्य च महत्तया।
रौरवो हि महांस् तस्य
महत्त्वरौरवाद् अपि॥

(16)

कृत्वा गुणाधिके तीव्रम्
अपकारं निहत्य च।
मातापितृगुरून् कल्पम्
अवीचौ पच्यते ध्रुवम्॥

(17)

अस्थीन्य् अपि विशीर्यन्ते
रौद्राग्नौ तत्र देहिनाम्।
यतो न वीचिः सौख्यस्य
तेनावीचिर् उदाहृतः॥

(18)

मिथोद्रोहरता येऽत्र
रणे घ्नन्तीव देहिनः।
पापाद् असिनखास् ते तु
जायन्ते दुःखभागिनः॥

(19)

नखा एवासयस् तेषाम्
आयसा ज्वलिताः खराः।
तैर् अन्योन्यं निकृन्तन्ति
यत् तेनासिनखाः स्मृताः॥

(20)

लोहज्वलिततीक्ष्णाग्रां (or ग्राः)
षोडोशाङ्गुलकण्टकाम् (or काः)।
बलाद् आरोह्यते क्रन्दन्
शाल्मलीं (or लीः) पारदारिकः॥

(21)

लोहदंष्ट्रा महाकाया
ज्वलितास् तीव्रभैरवाः।
आश्लिष्य भक्षयन्त्य् एनं
परदारापहारिणम्॥

आरटन्तो ऽपि खाद्यन्ते
श्वगृध्रोलूकवायसैः।
असिपत्त्रवने छिन्ना
नरा विश्वासघातिनः॥

(22)

अयोगुडानि भोज्यन्ते
प्रतप्तानि पुनः पुनः।
पाय्यन्ते क्वथितं ताम्रं
ये परस्वापहारिणः॥

(23)

क्रूरैः श्वभिर् अयोदंष्ट्रैः
खाद्यन्ते विवशा भृशम्।
वर्षकोटी रटन्तो ऽपि
ये सदाखेटके रताः॥

(24)

मत्स्यादीञ् जलजान् हत्वा
ज्वलत्ताम्रद्रवोदकाम्।
याति वैतरणीं शश्वद्
वह्निना दह्यते नरः॥

(25)

यः स्वार्थलवसंमूढो
व्यवहारम् अधार्मिकम्।
करोति नरके क्रन्दन्
स चक्रेणाभिपीड्यते॥

(26)

पीडा बहुभिर् आकारैः
कृता यैर् देहिनाम् इह।
पीड्यन्ते ते चिरं तप्तैर्
यन्त्रपर्वतमुद्गरैः॥

भेदका धर्मसेतूनां
ये चासन्मार्गवादिनः।
क्षुरधाराचितं मार्गं
गत्वा क्रामन्ति ते नराः॥

(27)

नखैः संचूर्ण्य यूकादींश्
चूर्ण्यन्ते मेषपर्वतैः।
भूयो भूयो महाकायाः
क्रन्दन्तस् ते शरच्छतम्॥

(28)

व्रतं यस् तु समाश्रित्य
सम्यग् नो परिरक्षति।
स शीर्यमानमांसास्थिः
कुकूले पच्यते ध्रुवम्॥

(29)

अणुनापि हि यः कश्चिन्
मिथ्याजीवेन जीवति।
भक्ष्यते कृमिभिश् चण्डैः
स मग्नो गूथमृत्तिके॥

(30)

दृष्ट्वापि व्रीहिमध्यस्थान्
प्राणिनश् चूर्णयन्ति ये।
आयसैर् मुषलैस् तप्तैः
क्षोभ्यन्ते ते पुनः पुनः॥

(31)

अत्यन्तक्रोधनाः क्रूराः
शठाः पापाभिकाङ्क्षिणः।
परव्यसनहृष्टाश् च
जायन्ते यमराक्षसाः॥

(32)

सर्वेषाम् एव दुःखानां
बीजं मृद्वादिभेदतः।
कायवाग्मानसं पापं
यत् तद् अण्व् अपि वर्जयेत्॥

नरककाण्डं समाप्तम्॥

(33)

हंसपारावतादीनां
खराणाम् अपि रागिणाम्।
योनौ रागेण जायन्ते
मूढाः कीटादियोनिषु॥

(34)

सर्पाः क्रोधोपनाहाभ्यां
मानस्तब्धा मृगाधिपाः।
अभिमानेन जायन्ते
गर्दभश्वादियोनिषु॥

(35)

मात्सर्येष्यादिदोषेण
वानराः प्रेत्य देहिनः।
जायन्ते मुखरा धृष्टाश्
चपलात्माश् च वायसाः॥

(36)

वधबन्धनमात्सर्यैर्
गवाश्वादिषु देहिनः।
जायन्ते क्रूरकर्माणो
लूताः खर्जूरवृश्चिकाः॥

(37)

व्याघ्रमार्जारगोमायु-
ऋक्षगृध्रवृकादयः।
जायन्ते प्रेत्य मांसादाः
क्रोधना मत्सरा नराः॥

(38)

दातारः क्रोधनाः क्रूरा
नरा नागमहर्द्धिकाः।
भवन्ति त्यागिनो दर्पात्
क्रोधाच् च गरुडेश्वराः॥

(39)

कृतं यत् पापकं कर्म
स्वयं वाक्कायमानसम्।
त्रियञ्चस् तेन जायन्ते
तन् मनाग् अपि मा कृथाः॥

त्रियक्काण्डं समाप्तम्

(40)

भक्ष्यभोज्यापहर्तारो
ये क्षुद्रा दानवर्जिताः।
भवन्ति कुणपाहाराः
प्रेतास् ते कटपूतनाः॥

(41)

विहेठयन्ति ये बालान्
वञ्चयन्त्य् अपि तृष्णया।
ते ऽपि गर्भमलाहारा
जायन्ते कटपूतनाः॥

हीनाचारातिदीनाश् च
मत्सरा नित्यकाङ्क्षिणः।
जायन्ते ये नराः प्रेत्य
प्रेतास् ते गलगण्डकाः॥

(42)

दानं निवारयत्य् एव
न च किंचिद् ददाति यः।
क्षुत्क्षामो ऽसौ महाकुक्षिः
प्रेतः शूचीमुखो भवेत्॥

(43)

धनं रक्षति वंशार्थं
न भुङ्क्ते न ददाति यः।
दत्तादायी ततः प्रेतः
श्राद्धभोक्ता स जायते॥

(44)

यः परस्वापहारेप्सुर्
दत्त्वा चैवानुतप्यते।
भोक्ता विट्श्लेष्मवान्तानां
प्रेत्य प्रेतः स जायते॥

(45)

अप्रियं वक्ति यः क्रोधाद्
वाक्यं मर्मावघट्टनम्।
भवत्य् उल्कामुखः प्रेतः
सुचिरं तेन कर्मणा॥

(46)

कुरुते कलहं यस् तु
निष्कृपः क्रूरमानसः।
कृमिकीटपतङ्गादः
प्रेतो ऽसौ ज्योतिको भवेत्॥

(47)

ग्रामकूटो ददात्य् एव
यो दानं पीडयत्य् अपि।
कुम्भाण्डो विकृताकारः
पूज्यमानः स जायते॥

(48)

निर्दयाः प्राणिनो घ्नन्ति
भक्ष्यार्थं ये ददत्य् अपि।
भक्ष्यभोज्यानि ते ऽवश्यं
लभन्ति प्रेत्य राक्षसाः॥

(49)

गन्धमालारता नित्यं
मन्दक्रोधाः प्रदायकाः।
गन्धर्वाः प्रेत्य जायन्ते
देवानां रतिहेतवः॥

(50)

क्रोधनः पिशुनः कश् चिद्
अर्थार्थं यः प्रयच्छति।
स पिशाचः प्रदुष्टात्मा
जायते विकृताननः॥

(51)

नित्यप्रदुष्टाश् चपलाः
परपीडाकरा नराः।
संप्रदानरता नित्यं
भूताः प्रेत्य भवन्ति ते॥

क्रूराः क्रुद्धाः प्रदातारः
प्रियासवसुराश् च ये।
जायन्ते प्रेत्य यक्षास् ते
क्रूरात्मानह् सुराप्रियाः॥

(52)

मातापितृगुरून् यानैर्
ये नयन्ति यथेप्सितम्।
विमानचारिणो यक्षा
जायन्ते ते सुखान्विताः॥

(53)

तृष्णामात्सर्यदोषेण
प्रेत्य प्रेता भवन्त्य् अमी।
यक्षादयः शुभैः क्लिष्टैर्
अतस् तान् परिवर्जयेत्॥

प्रेतकाण्डं समाप्तम्

(54)

देवासुरमनुष्येषु
दीर्घम् आयुर् अहिंसया।
जायते हिंसयाल्पायुर्
अतो हिंसां विवर्जयेत्॥

(55)

कुष्ठक्षयज्वरोन्मादा
ये चान्ये व्याधयो नृणाम्।
भवन्ति कृतैर् भूतेषु
वधबन्धनताडनैः॥

(56)

यो हि हर्ता परस्वानां
न च किंचित् प्रयच्छति।
महतापि प्रयत्नेन
स द्रव्यं नाधिगच्छति॥

(57)

अदत्तं वित्तम् आदाय
दानानि च ददाति यः।
स प्रेत्य द्रव्यवान् भूत्वा
भूयो भवति निर्धनः॥

(58)

यो न हर्ता न दाता च
न चातिकृपणो नरः।
कृच्छ्रेण महता द्रव्यं
स्थिरं स लभते ध्रुवम्॥

(59)

यो न हर्ता परस्वानां
त्यागवान् वीतमत्सरः।
अहार्यं विपुलं वित्तम्
इष्टं स लभते नरः॥

(60)

आयुर्वर्णबलोपेतः
श्रीमान् रोगविवर्जितः।
सुखी च स भवेन् नित्यं
यो ददातीह भोजनम्॥

(61)

सलज्जो रूपवान् भोगी
सुच्छायः प्राणिनां प्रियः।
स भवेद् वस्त्रलाभी च
यो वस्त्राणि प्रयच्छति॥

(62)

आवासं यो ददातीह
सुप्रसन्नेन चेतसा।
प्रासादाः सर्वकामाश् च
जायन्ते तस्य देहिनः॥

(63)

उपानत्संक्रमादीनि
ये प्रयच्छन्ति मानवाः।
भवन्ति सुखिनो नित्यं
यानानि च लभन्ति ते॥

(64)

प्रपाकूपतडागादीन्
कारयित्वा जलाश्रयान्।
सुखिनस् त्यक्तसंतापा
निष्पिपासा भवन्ति ते॥

पुष्पैर् अभ्यर्चितः श्रीमाञ्
छरण्यः सर्वदेहिनाम्।
सदा समृद्धः स भवेद्
आरामं यः प्रयच्छति॥

(65)

विद्यादानेन पाण्डित्यं
प्रज्ञाभ्यासेन चाप्यते।
भैषज्याभयदानेन
रोगमुक्तस् तु जायते॥

(66)

दीपदानेन चक्षुष्मान्
वाद्यदानेन सुस्वरः
शयनासनदानेन
सुखी भवति मानवः॥

(67)

गवादीन् यो ददातीह
भोज्यं क्षीरसमन्वितम्।
बलवान् वर्णवान् भोगी
दीर्घायुः स भवेन् नरः॥

(68)

कन्यादानेन कामानां
लाभी स्यात् परिवारवान्।
धनधान्यसमृद्धस् तु
भूमिदानेन जायते॥

(69)

पत्त्रं पुष्पं फलं तोयम्
अभयं वचनं प्रियम्।
यद् यद् एवेप्सितं भक्त्या
दातव्यं तत् तद् अर्थिनः॥

(70)

क्लेशयित्वा ददातीह
स्वर्गार्थं वा भयेन वा।
यशःसौख्याभिलाषाद् वा
क्लिष्टं स लभते फलम्॥

(71)

स्वकार्थनिरपेक्षेण
कृपाविष्टेन चेतसा।
परार्थं यो ददातीह
सो ऽक्लिष्टं फलम् अश्नुते॥

(72)

यत् किंचिद् दीयते ऽन्यस्मै
यथाकालं यथाविधि।
तेन तेन प्रकारेण
तत् सर्वम् उपतिष्ठते॥

परान् अनुपहत्यैव
यथाकालं यथेप्सितम्।
अक्लेशयित्वा दातव्यं
हितं धर्माविरोधि यत्॥

(73)

एवं हि दीयमानस्य
दानस्यैव फलोदयः।
दानं हि सर्वसौख्यानाम्
अनन्यत् कारणं मतम्॥

(74)

विरतः परदारेभ्यो
दारान् इष्टान् अवाप्नुयात्।
स्वेभ्यो ऽप्य् अदेशकालौ च
वर्जयन् पुंस्त्वम् ऋच्छति॥

(75)

परदारेषु संसक्तं
चित्तं यो न नियच्छति।
अनङ्गेषु च रज्येत
स पुमान् स्त्रीत्वम् ऋच्छति॥

(76)

स्त्रीत्वं जुगुप्सते या तु
सुशिला मन्दरागिणी।
पुंस्त्वम् आकाङ्क्षते नित्यं
सा नारी नरतां व्रजेत्॥

यस् तु सम्यङ् निरातङ्कं
ब्रह्मचर्यं निषेवते।
तेजस्वी सद्गुणः श्रीमान्
देवैर् अपि स पूज्यते॥

(77)

दृढस्मृतिर् असंमूढो
मद्यपानानिषेवणात्।
जायते सत्यवादी च
यशःसौख्यान्वितः पुमान्॥

(78)

भिन्नानाम् अपि सत्त्वानां
भेदं नैव करोति यः।
अभेद्यपरिवारो ऽसौ
जायते स्थिरमानसः॥

(79)

यस् त्व् आज्ञां कुरुते नित्यं
गुरूणां हृष्टमानसः।
हिताहिताभिधायी च
स स्याद् आदेयवाङ् नरः॥

(80)

नीचाः परावमानेन
विपर्यासेन चोद्गताः।
भवन्ति सुखिनः सौख्यं
दुःखं दत्त्वा च दुःखिनः॥

(81)

परप्रपञ्चाभिरताः
शठाश् चानृतवादिनः।
कुब्जवामनतां यान्ति
ये च रूपाभिमानिनः

(82)

जडो विज्ञानमात्सर्याद्
भवेन् मूकः प्रियाप्रियः।
बाधिर्यं याति मूढात्मा
हितवाक्याभ्यसूयकः॥

(83)

दुःखं पापस्य पुण्यस्य
सुखं मिश्रस्य मिश्रितम्।
सर्वं सादृश्यनिस्यन्दम्
अभ्यूह्यं कर्मणः फलम्॥

मनुष्यकाण्डं समाप्तम्॥

(84)

शाठ्येन मायया नित्यं
चरत्य् अकृतकिल्बिषः।
कलिप्रियः प्रदाता च
स भवेद् असुरेश्वरः॥

असुरकाण्डं समाप्तम्॥

(85)

नात्मना यः सुखाकाङ्क्षी
न च हृष्येत् परिग्रहैः।
ग्रहाणाम् अग्रणीश् चासौ
महाराजिकतां व्रजेत्॥

(86)

मातापितृकुलयेष्ठ-
पूजकस् त्यागवान् क्षमी।
हृष्यते यो न कलहैस्
त्रिदशेषु स जायते॥

(87)

न विग्रहे रता नैव
कलहे हृष्टमानसाः।
एकान्तकुशलोद्युक्ता
ये च यामोपगास् तु ते॥

(88)

बहुश्रुता धर्मधराः
सुप्रज्ञा मोक्षकाङ्क्षिणः।
गुणैर् ये परिहृष्णाश् च
नरास् ते तुषितोपगाः॥

(89)

शीलप्रदानविनये
प्रवृत्ता ये स्वयं नराः।
महोत्साहाश् च ते ऽवश्यं
निर्माणरतिगामिनः॥

अदीनसत्त्वा ये श्रेष्ठाः
प्रदानदमसंयमैः।
गुणाधिकाश् च ये यान्ति
परनिर्मिततां ध्रुवम्॥

(90)

शीलेन स्वर्गम् आप्नोति
ध्यानेन च विशेषतः।
यथाभूतपरिज्ञानात्
पर्यन्ते चापुनर्भवः॥

(91)

शुभाशुभफलं कर्म
यद् एतत् कथितं स्फुटम्।
शुभेन लभ्यते सौख्यं
दुःखं त्व् अशुभसंभवम्॥

(92)

मृत्युर् व्याधिर् जरा चैव
चिन्तनीयम् इदं त्रयम्।
विप्रयोगः प्रियैः सार्धं
कर्मणां च स्वकं फलम्॥

(93)

एवं विरागम् आप्नोति
विरक्तः पुण्यम् ऋच्छति।
पापं च वर्जयत्य् एवं
तच् च संक्षेपतः शृणु॥

(94)

सम्यक्परार्थकरणं
परानर्थविवर्जनम्।
पुण्यं विपर्ययात् पापम्
उक्तम् एतद् महात्मना॥

देवकाण्डं समाप्तम्॥

(95)

आर्यसद्धर्मस्मृत्युपसथान-
महायानसूत्रान्तात् समाकृष्टा
महापण्डिताश्वघोषेन
षड्गतिकारिकाः समाप्ताः॥

(96)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project