॥अध्यर्धशतिका प्रज्ञापारमिता॥
नमो नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥ नमो भगवत्या आर्यप्रज्ञापारमितायै॥
एवं मया श्रुतमेकस्मिन्समये भगवान्सर्वतथाग-तवज्राधिष्ठानसमयज्ञानविविधविशेषसमन्वागतः सर्वतथागतरत्नमुकुटत्रैधातुकाभिषेकप्राप्तः सर्वतथागतसर्वज्ञज्ञानमहायोगेश्वरः सर्वतथागतसर्वमुद्रासमताधिगतो विश्वकार्यकरणतयाशेषानवशेषसत्त्व-धातुसर्वाशापरिपूरिसर्वकर्मकृन्महावैरोचनः शाश्वतस्त्र्यध्वसमतास्थितसर्वकायवाक्चित्तवज्रस्तथागतः सर्वतथागताध्युषितप्रशस्तभूषिते महामणिरत्नप्रत्युप्ते विचित्रवर्णघण्टावसक्त्रमारुतोद्धूपट्टपताकास्रग्दाम-चामरहारार्धहारचन्द्रोपशोभिते सर्वकामधातूपरि परनिर्मितवशवर्तिनो देवराजस्य भवने विजहार॥
अष्टाभिर्बोधिसत्त्वकोटीभिः सार्धम्। तद्यथा - वज्रपाणिना च बोधिसत्त्वेन महासत्त्वेन, अवलोकितेश्वरेण च बोधिसत्त्वेन महासत्त्वेन, आकाशगर्भेण च बोधिसत्त्वेन महासत्त्वेन , वज्रमुष्टिना च बोधिसत्त्वेन महासत्त्वेन, मञ्जुश्रिया च बोधिसत्त्वेन महासत्त्वेन, सहचित्तोत्पादितधर्मचक्रप्रवर्तिना च बोधिसत्त्वेन महासत्त्वेन, गगनगञ्जेन च बोधिसत्त्वेन महासत्त्वेन, सर्वमारबलप्रमर्दिना च बोधिसत्त्वेन महासत्त्वेन॥
एवम्प्रभुखाभिरष्टाभिर्बोधिसत्त्वकोटीभिः परिवृतः पुरस्कृतो धरं देशयति स्म। आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं सर्वधर्मविशुद्धिमुखं ब्रह्मचर्यं सम्प्रकाशयति स्म॥
यदुत सर्वधर्मस्वभावविशुद्धिमुखं नाम प्रज्ञापारमितानयं देशयति स्म। तद्यथा - (१) सुरतविशुद्धिपदमेत-द्यदुत बोधिसत्त्वपदम्। (२) रागवाणविशुद्धिपदमेतद्य-दुत बोधिसत्त्वपदम्। (३) द्वेषवह्निविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (४) स्नेहबन्धनविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (५) सर्वैश्वर्याधिपत्यविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्॥ (६) दृष्टिविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (७) रतिविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (८) तृष्णाविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (९)
गर्वविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (१०) भूषणविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (११) मनोह्लादनविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (१२) आलोकविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (१३) कायविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (१४) कायसुखविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (१५) रूपविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (१६) शब्दविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (१७) गन्धविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (१८) रसविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (१९) स्पर्शविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। (२०) धर्मविशुद्धिपदमेतद्यदुत बोधिसत्त्वपदम्। तत्कस्य हेतोः। तथा हि सर्वधर्माः स्वभावविशुद्धा सर्वधर्मास्वभावतया प्रज्ञापारमिताविशुद्धितेति॥
यः कश्चिद्वज्रपाणे इमं सर्वधर्मस्वभावविशुद्धिपदनिर्हारनामधेयं प्रज्ञापारमितानयं सकृदपि श्रोष्यति तस्या बोधिमण्डात्सर्वज्ञेयावरणक्लेशावरणकर्मावरणानि महान्त्यप्युपचिन्वतो न कदाचिदपि नरकाद्यपायोपपत्तिर्भविष्यति। पापानि च कृतमात्राण्यदुःखतः क्षयं यास्यन्ति। यश्च धारयिष्यति दिने दिने वाचयिष्यति स्वाध्यायिष्यति योनिशश्च मनसिकरिष्यति स इहैव जन्मनि सर्वधर्मसमतावज्रसमाधिप्रतिलम्भात्सर्वधर्मेश्वरो भविष्यति। सर्वरतिप्रीतिप्रामोद्यान्यनुभविष्यति। षोडशमे महाबोधिसत्त्वजन्मनि तथागतत्त्वं प्रतिलप्स्यते वज्रधरत्वं चेति॥
अथ भगवान्सर्वतथागतमहायानाभिसमयः सर्वमण्डलः सकलवज्रधात्वग्यसत्त्वः सकलत्रैधातुकसर्वत्रिलो-कविजय्यशेषानवशेषसत्त्वधातुविनयनसमर्थः सर्वार्थसिद्धः सर्ववज्रपाणिर्महासमयो ऽनेकवज्रमहागुह्यसत्त्वपरिवार इममेव प्रज्ञापारमितानयार्थमुद्द्योतयन्प्रहसितवदनस्तदाद्यं महावज्रं वामगर्वोल्लालनतया स्वहृद्युत्कर्षणयोगेन धारयन्निदं महासुखवज्रामोघसमयं नाम स्वतत्त्वहृदयमगात् - हूं॥
अथ भगवान्वैरोचनस्तथागतः पुनरपीमं प्रज्ञापारमितानयं सर्वतथागतवज्रधर्मताभिसम्बोधिनिर्हारं नाम देशयति स्म - वज्रसमताभिसम्बोधो महाबोधिर्वज्रदृढतया। अर्थसमताभिसम्बोधो महाबोधिरेकार्थतया। धर्मसमताभिसम्बोधो महाबोधिः सर्वधर्मविशुद्धितया। सर्वसमताभिसम्बोधो महाबोधिः सर्वधर्मस्वभावाविकल्पतयेति॥
यः कश्चिद्वज्रपाणे इमांश्चतुरो धर्मविहाराञ्श्रोष्यति धारयिष्यति वाचयिष्यति भावयिष्यति स सर्वपापसमाचारो ऽपि सर्वापायसमतिक्रान्तो भविष्यत्या बोधिमण्डात्। क्षिप्रं चानुत्तरां सम्यक्सम्बोधिमभिसम्भोत्स्यत इति॥
अथेदमुक्त्त्रा भगवाञ्ज्ञानमुष्टिपरिग्रह इदमेवार्थपदं भूयस्या मात्रयोद्दीपयन्स्मितमुख इदं सर्वधर्मसमताहृदयमभाषत - वज्र आः॥
अथ भगवान्सर्वदुष्टविनयनशाक्यमुनिस्तथागतः पुनरपि सर्वधर्मसमताविजयसङ्ग्रहं नाम प्रज्ञापारमितानिर्हारमभाषत - रागाप्रपञ्चतया द्वेषाप्रपञ्चता। द्वेषाप्रपञ्चतया मोहाप्रपञ्चता। मोहाप्रपञ्चतया सर्वधर्माप्रपञ्चता। सर्वधर्माप्रपञ्चतया प्रज्ञापारमिताप्रपञ्चता वेदितव्येति॥
यः कश्चिद्वज्रपाणे इमं प्रज्ञापारमितानयं श्रोष्यति धारयिष्यति वाचयिष्यति भावयिष्यति तस्य त्रैधातुकोपपन्नानपि सर्वसत्त्वान्प्रपातयतो नापायगमनं भविष्यति विनयवशमुपादाय। क्षिप्रं चानुत्तरां सम्यक्सम्बोधिमभिसम्भोत्स्यत इति॥
अथ वज्रपाणिरिममेव धर्मतार्थं भूयस्या मात्रयोद्दीपयंस्त्रिलोकविजयवज्रां नाम मुद्रां बद्द्बा सभ्रुकुटिभ्रू-भङ्गदीप्तदृष्टिविहसितरुषितेषद्दंष्ट्राकरालवदनकमलः प्रत्यालीढस्थानस्थ इदं वज्रहूंकारं नाम हृदयमभाषत - वज्र हूं॥
अथ भगवान्स्वभावविशुद्धधर्मताप्राप्तस्तथागतः पुनरपीमं सर्वधर्मसमतावलोकितेश्वरज्ञानमुद्रं नाम प्रज्ञापारमितानयार्थमभाषत - सर्वरागविशुद्धिता लोके सर्वद्वेषविशुद्धितायै संवर्तते। सर्वमलविशुद्धिता लोके सर्वपापविशुद्धितायै संवर्तते। सर्वधर्मविशुद्धिता लोके सर्वसत्त्वविशुद्धितायै संवर्तते। सर्वज्ञानविशुद्धिता लोके प्रज्ञापारमिताविशुद्धितायै संवर्तते॥
यः कश्चिद्वज्रपाणे इमं नयं श्रोष्यति धारयिष्यति वाचयिष्यति भावयिष्यति स सर्वरागमध्यस्थितो ऽपि पद्ममिव रागदोषैर्न मलैरागन्तुकैर्लेपं यास्यति। क्षिप्रं चानुत्तरां सम्यक्सम्बोधिमभिसम्भोत्स्यत इति॥
अथ भगवानवलोकितेश्वरो बोधिसत्त्वो महासत्त्व इममेवार्थपदं भूयस्या मात्रयोद्दीपयन्प्रहसितवदनः पद्मपत्त्रविकासनतया रागादिनिर्लेपतामवलोकयन्निदं सर्वजगद्विश्वरूपपद्मं नाम हृदयमभाषत - ह्रीः॥
अथ भगवान्सर्वत्रैधातुकाधिपतिस्तथागतः पुनरपि सर्वतथागताभिषेकसम्भवज्ञानगर्भ नाम प्रज्ञापारमितानयार्थमभाषत - अभिषेकदानं सर्वत्रैधातुकराज्यप्रतिलम्भाय संवर्तते। अर्थदानं सर्वाशापरिपूर्यै संवर्तते। धर्मदानं सर्वधर्मसमताप्राप्त्यै संवर्तते। आमिषदानं सर्वकायवाक्चित्तसुखप्रतिलम्भाय संवर्तते॥
अथाकाशगर्भो बोधिसत्त्वो महासत्त्वः प्रहसितवदनो भूत्वा स्वशिरसि वज्ररत्नाभिषेकमालामवबन्धयन्निममेव धर्मतार्थं भूयस्या मात्रयोद्दीपयन्निदं सर्वाभिषेकसमयरत्नं नाम हृदयमभाषत - त्रां॥
अथ भगवान्सर्वतथागतज्ञानमुद्राप्राप्तः सर्वतथागतमुष्टिधरः सर्वतथागतः शाश्वतः पुनरपीमं सर्वतथागतज्ञानमुद्राधिष्ठानवज्रं नाम प्रज्ञापारमितानयार्थमभाषत - सर्वतथागतकायमुद्रापरिग्रहः सर्वतथागत्वाय सवर्तते। सर्वतथागतवाङ्भुद्रापरिग्रहः सर्वधर्मप्रतिलम्भाय संवर्तते। सर्वतथागतचित्तमुद्रापरिग्रहः सर्वसमाधिप्रतिलम्भाय संवर्तते। सर्वतथागतवज्रमुद्रापरिग्रहः सर्वकायवाक्चित्तवज्रत्वोत्तमसिद्द्यै संवर्तते॥
यः कश्चिद्वज्रपाणे इमं धर्मपर्यायं श्रोष्यति धारयिष्यति वाचयिष्यत्युद्देक्ष्यति भावयिष्यति स सर्वसिद्धीः सर्वसम्पत्तीः सर्वज्ञानानि सर्वकार्याणि सर्वकायवाक्चित्तवज्रत्वसर्वोत्तमसिद्धिं च प्रतिलप्स्यते। क्षिप्रं चानुत्तरां सम्यक्सम्बोधिमभिसम्भोत्स्यत इति॥
अथ भगवान्वज्रमुष्टिर्महासमयवज्रमुद्रापरिग्रह इममेवार्थं भूयस्या मात्रयोद्दीपयन्प्रहसितवदन इदं सर्वदृढवज्रमुद्रासिद्धिसमयं नाम हृदयमभाषत - अः॥
अथ भगवान्सर्वधर्मसमताप्रपञ्चस्तथागतः पुनरपीमं चक्राक्षरपरिवर्तं नाम प्रज्ञापारमितानयार्थमभाषत - शून्याः सर्वधर्मा निःस्वभावतायोगेन। अनिमित्ताः सर्वधर्मा निर्निमित्ततामुपादाय। अप्रणिहिताः सर्वधर्मा अप्रणिधानयोगेन। प्रकृतिप्रभास्वराः सर्वधर्माः प्रज्ञापारमितापरिशुद्द्या॥
२२-३१ (मिस्शिन्ग्)
त् तत्र महावज्रे श्वर इदं तत्त्वहृदयमगात् - ओं वज्रनेत्रीभ्यः स्वाहा।
अथ भगवाननन्तापर्यन्तनिष्ठस्तथागतो ऽपर्यन्तनिष्ठ धर्मा पुनरप्यस्य कल्पस्य परिनिष्ठाधिष्ठानार्थमिमं सर्वधर्मसमतापरिनिष्ठानवज्रं नाम प्रज्ञापारमितानयार्थमभाषत - प्रज्ञापारमितानन्ततया सर्वतथागतानन्तता। प्रज्ञापारमितापर्यन्ततया सर्वधर्मापर्यन्तता। प्रज्ञापारमितानेकतया सर्वधर्मानेकता। प्रज्ञापारमितापरिनिष्ठतया सर्वधर्मापरिनिष्ठता भवति॥
वज्र ओं सर्वधर्मताप्रपञ्चो हिलि सर्वधर्मता मिलि सर्वानुरागिणि स्वाहा॥
यः कश्चिद्वज्रपाणे इमं धर्मपर्यायं श्रोष्यति धारयिष्यति वाचयिष्यत्युद्देक्ष्यति प्रवर्तयिष्यति भावयिष्यति तस्यानिष्ठां बुद्धबोधिसत्त्वचयां गत्वा सर्वावरणपरिनिष्ठतया तथागतत्वं वज्रधरत्वं वाशु भविष्यति॥
नमः सर्वतथागतानां नमः सर्ववज्रधराणाम्। ओं भगवन्नारात्पारं विशोधय स्वाहा॥ ओंकारपूर्वङ्गमादोधोत्तारणं करिष्यामि सर्वसत्त्वानाम्॥
अथ सर्वतथागताः समाजमागम्यास्य धर्मपर्यायस्यामोघमप्रतिहताशुसिद्द्यर्थं वज्रपाणये साधुकारमदात् -
साधु साधु महासत्त्व साधु साधु महासुख।
सधु साधु महायान साधु साधु महामते॥१॥
सुभाषितमिदं कल्पं वज्रसूत्रमधिष्ठितम्।
सर्ववज्रधरैर्बुद्धैरमोघविनयोत्तमम्॥२॥
धारयिष्यन्ति ये हीमं कल्पराजमनुत्तरम्।
अधृष्टाश्चाघातव्याश्च सर्वमारादिभिस्तु ते॥३॥
बुद्धत्वं बोधिसत्त्वत्वमुत्तमाः सर्वसिद्धयः।
अचिरादेव लप्स्यन्ते सर्वबुद्धवचो यथा॥४॥
इदमुत्का तु सर्वाग्राः सर्वबुद्धाः ससौरघनाः।
वज्रिणा गुह्यसिद्धर्थ्यं भाषितं चाभ्यनन्दि ते॥५॥
अथ भगवान्वैरोचनस्तथागतः सर्वतथागतगुह्यधर्मताप्राप्तः सर्वधर्माप्रपञ्चः पुनरपीदं महासुखवज्रामोघसमयं नामामोघवज्रधर्मसमताप्रज्ञापारमितानयमुखं परमाद्यनादिनिधनमध्यमुत्तममभाषत - महारागोत्तमसिद्धिर्महाबोधिसत्त्वानां महासुखोत्तमसिद्ध्यै संवर्तते। महासुखोत्तमसिद्धिर्महाबोधिसत्त्वानां सर्वतथागतमहाबोध्युत्तमसिद्ध्यै संवर्तते। सर्वतथागत-महाबोध्युत्तमसिद्धिर्महाबोधिसत्त्वानां सर्वमहामारप्रमर्दनोत्तमसिद्ध्यै संवर्तते। सर्वमहामारप्रमर्दनोत्तमसिद्धिर्महाबोधिसत्त्वानां सर्वत्रैधातुकाधिपत्योत्तमसिद्ध्यै संवर्तते। सकलत्रैधातुकैश्वर्योत्तमसिद्धिर्महाबोधि-सत्त्वानामशेषानवशेषसत्त्वधातुविशोधनाध्यवसा-यहेत्वर्थेनेत्यासंसाराध्यवसायिनां महावीर्याणां महासत्त्वानामशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखोत्तमसिद्ध्यै संवर्तते॥
ओं वज्र। ओं सर्वतथागतमाते। महासुखवज्रधारिणि। सर्वसमताप्रवेशनि। सर्वदुःखक्षयङ्करि। सर्वसुखप्रदायि के। सर्वसुखप्रदायिनि स्वाहा॥
तत्कस्य हेतोः -
यावत्संसारवासस्था भवन्ति वरसूरयः।
तावत्सत्त्वार्थमतुलं शक्त्राः कर्तुमनिर्वृताः॥६॥
प्रज्ञापारमितोपायज्ञानाधिष्ठानवासिताः।
सर्वधर्मविशुद्ध्यां तु भवशुद्धा भवन्ति ह॥७॥
रागादिविनयो लोक आ भवात्पापकृत्सदा।
तेषां विशोधनार्थं तु विनयन्त्या भवात्स्वयम्॥८॥
यथा पद्मं सुरक्तं तु रागदोषैर्न लिप्यते।
वासदोषैर्भवे नित्यं न लिप्यन्ते जगद्धिताः॥९॥
महारागविशुद्धास्तु महासौख्या महाधनाः।
त्रिधात्वीश्वरतां प्राप्ताः सत्त्वार्थं कुर्वते दृढम्॥१०॥
इति॥
यः कश्चिद्वज्रपाणे इमं परमाद्यं प्रज्ञापारमितानयमुखं धर्मपर्यायं दिने दिने काल्यमुत्थायोच्चारयिष्यति श्रोष्यति वा स सर्वसुखसौमनस्यलाभी महासुखवज्रा-मोघसमयसिद्धिमात्यन्तिकीमिहैव जन्मनि लप्स्यते। सर्वतथागतवज्रगुह्योत्तमसिद्धिर्महावज्रधरो भविष्यति तथागतो वेति॥
अथ भगवान्वज्रपाणिं गुह्यकाधिपतिमामन्त्रयते स्म। इमानि गुह्यकाधिपते पञ्चविंशतिप्रज्ञापारमितानयमुखानि धारयितव्यानि - ओं बोधिचित्तवज्रे॥१॥
ओं समन्तभद्रचर्ये॥२॥ ओं चिन्तामणि॥३॥ ओं अनिरोधे॥४॥ ओं जातिविवर्तनि॥५॥ ओं सर्वविज्ञाने॥६॥ ओं महाविरागधर्मते॥७॥ ओं वीर्यकवचे॥८॥ ओं सर्वगामिनि॥९॥ ओं वज्रकवचदृढचित्ते॥१०॥ ओं सर्वतथागते॥११॥ ओं स्वभावविशुद्धे॥१२॥ ओं धर्मताज्ञानविशुद्धे॥१३॥ ओं कर्मविशोधनि हूं॥१४॥ ओं निसुम्भवज्रिणि फट्॥१५॥ ओं कामरागे॥१६॥ ओं जह वज्रे॥१७॥ ओं हूं सर्वदायिनि॥१८॥ ओं ह्रीः॥१९॥ ओं अकारमुखे॥२०॥ ओं प्रज्ञापारमिते॥ २१॥ ओं अं वं हूं ओं अः॥२२॥ ओं सर्वतथागतकायाग्रे॥२३॥ ओं सर्वतथागतवाग्विशुद्धे॥२४॥ ओं सर्वतथागतचित्तवज्रे॥२५॥
नायं वज्रपाणे ऽनवरोपितकुशलमूलानां सत्त्वानां कर्णपुटे निपतिष्यति। नाप्यनवरोपितकुशलमूलैः सत्त्वैः शक्यो लिखितुं पठितुं धारयितुं वाचयितुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्। अन्यत्र बहुबुद्धावरोपि-तकुशलमूलास्ते सत्त्वा भविष्यन्ति य इमं प्रज्ञापारमितानयमुखं धर्मपर्यायमन्तश एकाक्षरमपि श्रोष्यन्ति। किं पुनः सकलं परिसमाप्तम्। येन केनचिद्वज्रपाणेऽशीतिगङ्गानदीवालुकासमानि बुद्धकोटिनियुतशतस हस्राणि न सत्कृतानि न गुरुकृतानि न मानतानि न पूजितानि भवन्ति तेन न शक्यो ऽयं प्रज्ञापारमितानयमुखो धर्मपर्यायः श्रोतुम्। तस्माच्चैत्यभूतः स पृथिवीप्रदेशो भविष्यति यत्रायं धर्मपर्यायः प्रचरिष्यति। वन्दनीयश्च स पुद्गलो बहुकल्पकोटी भविष्यति यस्यायं धर्मपर्यायः कायगतो वा पुस्तकगतो वा भविष्यति। जातिस्मरश्च बहुकल्पकोटी भविष्यति। न चास्य मारः पापीयानन्तरायं करिष्यति। चत्वारश्चास्य महाराजानः पृष्ठतः पृष्ठतः समनुबद्धा भविष्यन्ति रक्षावरणगुप्तये, अन्याश्च देवताः। न च विषमापरिहारेण कालं करिष्यति। सर्वबुद्धबोधिसत्त्वसमन्वाहृतश्च भविष्यति। समासतो यत्र यत्र बुद्धक्षेत्र आकाङ्क्षिष्यते तत्र तत्रोपपत्स्यते। एवं बह्वनुशंसः प्रज्ञापारमितानयमुखो धर्मपर्यायः। अपि च प्रदेशमात्रं मया कीर्तितमिति॥
इदमवोचद्भगवान्। आत्तमनसो वज्रपाणिप्रमुखा बोधिसत्त्वा महासत्त्वाः, सा च सर्वावती पर्षत्, सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्॥
इत्यध्यर्धशतिका भगवती प्रज्ञापारमिता समाप्ता॥॥
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project