भद्रचर्यादेशना
I
यावत केचि दशद्-दिशि लोके
सर्व-त्रियध्व-गता नर-सिंहाः
तान् अहु वन्दमि सर्वि अशेषान्
कायतु वाच मनेन प्रसन्नः।
(1)
II
क्षेत्र-रजोपन-काय-प्रमाणैः
सर्व-जिनान करोमि प्रणामम्
सर्व-जिनाभिमुखेन मनेन
भद्र-चरी-प्रणिधान-बलेन।
III
एक-रजाग्रि रजोपम-बुद्धा
बुद्ध-सुतान निषण्णकु मध्ये
एवम् अशेषत धर्मत-धातुं
सर्वाधिमुच्यमि पूर्ण जिनेभिः।
(2)
IV
तेषु च अक्षय-वर्ण-समुद्रान्
सर्व-स्वराङ्ग-समुद्र-रुतेभिः
सर्व-जिनान गुणान् भणमानस्
तान् सुगतान् स्तवमी अहु सर्वान्।
V
पुष्प-वरेभि च माल्य-वरेभिर्
वाद्य-विलेपन-छत्र-वरेभिः
(3)
दीप-वरेभि च धूप-वरेभिः
पूजन तेषु जिनान करोमि।
VI
वस्त्र-वरेभि च गन्ध-वरेभिश्
चूर्ण-पुटेभि च मेरु-समेभिः
सर्व-विशिष्ट-वियूह-वरेभिः
पूजन तेषु जिनान करोमि।
VII
या च अनुत्तर पूज उदारा
तान् अधिमुच्यमि सर्व-जिनानाम्
भद्र-चरी-अधिमुक्ति-बलेन
वन्दमि पूजयमी जिन सर्वान्।
(4)
VIII
यच् च कृतं मयि पापु भवेय्या
रागतु द्वेषतु मोह-वशेन
कायतु वाच मनेन तथैव
तं प्रतिदेशयमी अहु सर्वम्।
IX
यच् च दशद्-दिशि पुण्य जगस्य
शैक्ष-अशैक्ष-प्रत्येकजिनानाम्
बुद्ध-सुतान्ऽ अथ सर्व-जिनानां
तं अनुमोदयमी अहु सर्वम्।
(5)
X
ये च दशद्-दिशि लोक-प्रदीपा
बोधि विबुध्य असङ्गत प्राप्ताः
तान् अहु सर्वि अध्येषमि नाथांश्
चक्रु अनुत्तरु वर्त्तनतायै।
XI
येऽपि च निर्वृति दर्शितु-कामास्
तान् अभियाचमि प्राञ्जलि-भूतः
क्षेत्र-रजोपम-कल्प स्थिहन्तु
सर्व-जगस्य हिताय सुखाय।
(6)
XII
वन्दन-पूजन-देशनताय
मोदन्ऽ-अध्येषन-याचनताय
यच् च शुभं मयि संचितु किंचिद्
बोधयि नामयमी अहु सर्वम्।
(7)
XIII
पूजित भोन्तु अतीतकु बुद्धा
ये च ध्रियन्ति दशद्-दिशि लोके
ये च अनागत ते लघु भोन्तु
पूर्ण-मनोरथ बोधि-विबुद्धा।
XIV
यावत केचि दशद्-दिशि क्षेत्रास्
ते परिशुद्ध भवन्तु उदाराः
बोधि-द्रुमेन्द्र-गतेभि जिनेभिर्
बुद्ध-सुतेभि च भोन्तु प्रपूर्णाः।
(8)
XV
यावत केचि दशद्-दिशि सत्त्वास्
ते सुखिताः सद भोन्तु अरोगाः
सर्व-जगस्य च धर्मिकु अर्थो
भोन्तु प्रदक्षिणु ऋध्यतु आशा।
XVI
बोधि-चरिं च अहं चरमाणो
भवि जाति-स्मरु सर्व-गतीषु
सर्वसु जन्मसु च्युत्य्-उपपत्ती
प्रव्रजितो अहु नित्यु भवेय्या।
(9)
XVII
सर्व-जिनान्ऽ अनुशिक्षयमाणो
भद्र-चरिं परिपूरयमाणः
शिल-चरिं विमलां परिशुद्धां
नित्यम् अखण्डम् अच्छिद्र चरेयम्।
XVIII
देव-रुतेभि च नाग-रुतेभिर्
यक्ष-कुम्भाण्ड-मनुष्य-रुतेभिः
यानि च सर्व-रुतानि जगस्य
सर्व-रुतेष्व् अहु देशयि धर्मम्।
(10)
XIX
पेशलु पारमितास्व् अभियुक्तो
बोधियि चित्तु म जातु विमुह्येत्
येऽपि च पापक आवरणीयास्
तेषु परिक्षयु भोतु अशेषम्।
XX
कर्मतु क्लेशतु मार-पथातो
लोक-गतीषु विमुक्तु चरेयम्
पद्म यथा सलिलेन अलिप्तः
सूर्य शशी गगनेऽव असक्तः।
(11)
XXI
सर्वि अपाय-दुखां प्रशमन्तो
सर्व-जगत् स्थापयमानः
सर्व-जगस्य हिताय चरेयं
यावत क्षेत्र-पथा दिश तासु।
XXII
सत्त्व-चरिं अनुवर्तयमानो
बोधि-चरिं परिपूरयमाणः
भद्र-चरिं च प्रभावयमानः
सर्वि अनागत-कल्प चरेयम्।
(12)
XXIII
ये च सभागत मम चर्याये
तेभि समागमु नित्यु भवेय्या
कायतु वाचतु चेतनतो वा
एक-चरि-प्रणिधान चरेयम्।
XXIV
येऽपि च मित्रा मम हित-कामा
भद्र-चरीय निदर्शयितारः
तेभि समागमु नित्यु भवेय्या
तांश् च अहं न विरागयि जातु।
(13)
XXV
धारयमाणु जिनान सद्-धर्मं
बोधि-चरिं परिदीपयमानः
भद्र-चरिं च विशोधयमानः
सर्वि अनागत-कल्प चरेयम्।
XXVI
संमुख नित्यम् अहं जिन पश्ये
बुद्ध-सुतेभि परीवृतु नाथान्
तेषु च पूज करेय उदारां
सर्वि अनागत-कल्प-म्-अखिन्नाः।
(14)
XXVII
सर्व-भवेषु च संसरमाणः
पुण्यतु ज्ञानतु अक्षय-प्राप्तः
प्रज्ञ-उपाय-समाधि-विमोक्षैः
सर्व-गुणैर् भवि अक्षय-कोशः।
XXVIII
एक-रजाग्रि रजोपम-क्षेत्रा
तत्र च क्षेत्रि अचिन्तिय बुद्धान्
बुद्ध-सुतान निषण्णकु मध्ये
पश्यिय बोधि-चरिं चरमाणः।
(15)
XXIX
एवम् अशेषत सर्व-दिशासु
वाल-पथेषु त्रियध्व-प्रमाणान्
बुद्ध-समुद्र्ऽ अथ क्षेत्र-समुद्रान्
ओतरि चारिक-कल्प समुद्रान्।
XXX
एक-स्वराङ्ग-समुद्र-रुतेभिः
सर्व-जिनान स्वराङ्ग-विशुद्धिम्
सर्व-जगस्य यथ्ऽ आशय-घोषान्
बुद्ध-सरस्वतिम् ओतरि नित्यम्।
(16)
XXXI
तेषु च अक्षय-घोष-रुतेषु
सर्व-त्रियध्व-गतान जिनानाम्
चक्र-नयं परिवर्तयमानो
बुद्धि-बलेन अहं प्रविशेयम्।
XXXII
एक-क्षणेन अनागत सर्वान्
कल्प-प्रवेश अहं प्रविशेयम्
येऽपि च कल्प त्रियध्व-प्रमाणास्
तान् क्षण-कोटि-प्रविष्ट चरेयम्।
(17)
XXXIII
ये चे त्रियध्व-गता नर-सिंहांस्
तान् अहु पश्यिय एक-क्षणेन
तेषु च गोचरिम् ओतरि नित्यं
माय-गतेन विमोक्ष-बलेन।
XXXIV
ये च त्रियध्वसु क्षेत्र-वियूहांस्
तान् अभिनिर्हरि एक-रजाग्रे
एवम् अशेषत सर्व-दिशासु
ओतरि क्षेत्र-वियूह जिनानाम्।
(18)
XXXV
ये च अनागत लोक-प्रदीपास्
तेषु विबुध्यन चक्र-प्रवृत्तिम्
निर्वृति-दर्शन निष्ठ-प्रशान्तिं
सर्वि अहं उपसंक्रमि नाथान्।
XXXVI
ऋद्धि-बलेन समन्त-जवेन
यान-बलेन समन्त-मुखेन
चर्य-बलेन समन्त-गुणेन
मैत्र-बलेन समन्त-गतेन
(19)
XXXVII
पुण्य-बलेन समन्त-शुभेन
ज्ञान-बलेन असङ्ग-गतेन
प्रज्ञ-उपाय-समाधि-बलेन
बोधि-बलं समुदानयमानः।
XXXVIII
कर्म-बलं परिशोधयमानः
क्लेश-बलं परिमर्दयमानः
मार-बलं अबलं करमाणः
पूरयि भद्र-चरी-बल सर्वान्।
(20)
XXXIX
क्षेत्र-समुद्र विशोधयमानः
सत्त्व-समुद्र विमोचयमानः
धर्म-समुद्र विपश्ययमानो
ज्ञान-समुद्र विगाहयमानः।
XL
चर्य-समुद्र विशोधयमानः
प्रणिधि-समुद्र प्रपूरयमाणः
बुद्ध-समुद्र प्रपूजयमानः
कल्प-समुद्र चरेयम् अखिन्नः।
(21)
XLI
ये च त्रियध्व-गतान जिनानां
बोधि-चरि-प्रणिधान-विशेषाः
तान् अहु पूरय सर्वि अशेषान्
भद्र-चरीय विबुध्यिय बोधिम्।
XLII
ज्येष्ठकु यः सुतु सर्व-जिनानां
यस्य च नाम समन्ततभद्रः
तस्य विदुस्य सभाग-चरीये
नामयमी कुशलं इमु सर्वम्।
(22)
XLIII
कायतु वाच मनस्य विशुद्धिश्
चर्य-विशुद्ध्य् अथ क्षेत्र-विशुद्धिः
यादृश नामन भद्र-विदुस्य
तादृश भोतु समं मम तेन।
XLIV
भद्र-चरीय समन्त-शुभाये
मञ्जुशिरी-प्रणिधान चरेयम्
सर्वि अनागत-कल्प-म् -अखिन्नः
पूरयि तां क्रिय सर्वि अशेषाम्।
(23)
XLV
नो च प्रमाणु भवेय्य चरीये
नो च प्रमाणु भवेय्य गुणानाम्
अप्रमाण चरियाय स्थिहित्वा
जानयि सर्वि विकुर्वितु तेषाम्।
XLVI
यावत निष्ठ नभस्य भवेय्या
सत्त्व अशेषत निष्ठ तथैव
कर्मतु क्लेशतु यावत निष्ठा
तावत-निष्ठ मम प्रणिधानम्।
(24)
XLVII
ये च दशद्-दिशि क्षेत्र अनन्ता
रत्न-अलंकृतु दद्यु जिनानाम्
दिव्य च मानुष सौख्य विशिष्टां
क्षेत्र-रजोपम-कल्प ददेयम्।
XLVIII
यश् च इमं परिणामन-राजं
श्रुत्व सकृज् जनयेद् अधिमुक्तिम्
बोधि-वराम् अनुप्रार्थयमानो
अग्रु विशिष्ट भवेद् इमु पुण्यम्।
(25)
XLIX
वर्जित तेन भवन्ति अपाया
वर्जित तेन भवन्ति कुमित्राः
क्षिप्रु स पश्यति तं अमिताभं
यस्य् इमु भद्र-चरि-प्रणिधानम्।
L
लाभ सुलब्ध सुजीवितु तेषां
स्व्-आगत ते इमु मानुष जन्म
यादृश सो हि समन्ततभद्रस्
तेऽपि तथा न-चिरेण भवन्ति।
(26)
LI
पापक पञ्च अनन्तरियाणि
येन अज्ञान-वशेन कृतानि
सो इमु भद्र-चरिं भणमानः
क्षिप्रु परिक्षयु भोति अशेषम्।
LII
ज्ञानतु रूपतु लक्षणतश् च
वर्णतु गोत्रतु भोति-र्-उपेतः
तीर्थिक-मार-गणेभिर् अधृष्यः
पूजितु भोति स सर्व-त्रिलोके।
LIII
क्षिप्रु स गच्छति बोधि-द्रुमेन्द्र
गत्व निषीदति सत्त्व-हिताय
बुध्यति बोधि प्रवर्तयि चक्र
धर्षयि मारु स-सैन्यकु सर्वम्।
(27)
LIV
यो इमु भद्र-चरि-प्रणिधानं
धारयि वाचयि देशयितो वा
बुद्ध विजानति योऽत्र विपाको
बोधि विशिष्ट म काङ्क्ष जनेथ।
LVI
सर्व-त्रियध्व-गतेभि जिनेभिर्
या परिणामन वर्णित अग्रा
ताय अहं कुशलं इमु सर्वं
नामयमी वर-भद्र-चरीये।
(28)
LVII
काल-कृयां च अहं करमाणो
आवरणान् विनिवर्तिय सर्वान्
संमुख पश्यिय तं अमिताभं
तं च सुखावति-क्षेत्र व्रजेयम्।
(29)
LVIII
तत्र गतस्य इमि प्रणिधाना
आमुखि सर्वि भवेय्यु समग्राः
तांश् च अहं परिपूर्य अशेषान्
सत्त्व-हितं करि यावत लोके।
LIX
तहि जिन-मण्डलि शोभनि रम्ये
पद्म-वरे रुचिरे उपपन्नः
व्याकरणं अहु तत्र लभेय्या
संमुखतो अमिताभ-जिनस्य।
LX
व्याकरणं प्रतिलभ्य च तस्मिन्
निर्मित-कोटि-शतेभिर् अनेकैः
सत्त्व-हितानि बहून्य् अहु कुर्यां
दिक्षु दशस्व् अपि बुद्धि-बलेन।
(30)
LXII
भद्र-चरिं परिणाम्य यद्-आप्तं
पुण्यम् अनन्तम् अतीव विशिष्टम्
तेन जगद् व्यसनौघ-निमग्नं
यात्व् अमिताभ-पुरिं वरम् एव।
LXI
भद्र-चरि-प्रणिधान पठित्वा
यत् कुशलं मयि संचितु किंचित्
एक-क्षणेन समृध्यतु सर्वं
तेन जगस्य शुभं प्रणिधानम्।
(31)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project