Digital Sanskrit Buddhist Canon

कालचक्रावतारः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

पण्डित अभयाकरगुप्तपादानाम् 


कालचक्रावतारः 


[ 1B ] ॐ नमो मञ्जुश्रिये।। 


प्रज्ञादयाद्वैतमसीमशर्म्म विश्वाकृतिं बिभ्रदकल्परूपम्। 

नीरूपरूपादिमयं शरीरं जैनं निजं सार्वजनं नमामि।। 

यान्यम्बरस्य श्रियमादधन्ति सम्पद्विपत्ती च निवेदयन्ति। 

ताथागताभ्यन्तरिव स्फ़ुरन्ति ज्योतीषि तान्यद्य तमो जयन्ति।। 


इह हि मात्सर्योपहतैस्तीर्थिकैज्योतिषे सिद्धान्तं गुप्तीकृत्य बहुप्रपञ्चं लघुकरणं कृतमपीदानीं न ज्ञायत इति तत्प्रतिपाद्यते। त्रिष्ठ्याधिकं शतचतुष्टयं लिखनीयम्। शुक्लप्रतिपदादिचैत्रमासादिवर्ष यदा स्यात् तदानेन तन्मिश्रं कार्यम्। तद् द्वयशीतिशतोनं शुद्धं वर्षध्रुवकं भवति। तदर्क्काहतं मासपिण्डम्। शुक्लप्रतिपदाद्यमावास्य(स्या) न्त चैत्रादिमाससम्भवे। तन्मिश्रं द्विस्थाने कृत्यधस्थं चतुर्हतं खाग्निचन्द्रैर्विभक्तं भागशेषे लोपं लब्धलब्धे मूर्ध्नि प्रविष्टे सति। मूर्ध्नि शुद्धो मासपिण्डो भवति। यदा तु द्वि वर्षा स्यात् तदा त्रयोदशमासैः वर्षं कार्ये मासद्वयमेकं गणनीयम्। चैत्रमासप्रवेशश्च न कर्तव्यः। तं शुद्धमासपिण्डं त्रिस्थानै दत्वा करशिखिहतो मध्यस्थेऽधः स्थात् षड्भागैः लब्धं विशोध्यम्। भागशेषौ ( षो ) यदिस्यात् ततोपि षड्भागलब्धं विशोध्यम्। अत्राधः स्थात् त्रिंशन्मिश्रात् षष्ठिभागैर्लब्धं मूर्ध्नि द्विमिश्रे प्रवेश्यम्। भागशेषो दण्डपिण्डं स्यात्। मूर्ध्निः सप्तभागावशेषो वार पिण्डः। लब्धन्तु न किञ्चित्। पुनः शुद्धमासपिण्डं द्वादशोत्तरशतमिश्रं द्विस्थाने कृत्वा अधः स्थादृतुरविभागशेषः पिण्डावयवः स्यात्। भागलब्धं पञ्चमिश्रं मूर्ध्नि द्वि हतौ देयम्। ततो मूर्ध्नोऽष्टाविंशति भक्ताद् भागशेषः पदपिण्डः स्यात्। अत्रवारपिण्डाद्दण्डपदपिण्डपिण्डावयव क्रमं अधोऽधः लिखनीयः। पुनस्त्रिस्थेषु शुद्धमासेषु मध्यस्थानीशैर्हतोऽधः उनचत्वारिंशद्भा गलब्धेन द्विमिश्रभ्यो न षष्ठ्याघटीभिर्विभज्यः भागशेषो नक्षत्रघटीज्ञेया। लब्धं तु द्विहते मूर्ध्नि। ततो मूर्ध्नः सप्ताविंशतिभागशेषो नक्षत्रपिण्डोज्ञेयः। अत्र ऋत्युपिण्डादध ऋत्युघटीपिण्डो लिखनीयः। यदा वर्ष राशौ वर्षम् शुद्धमास पिण्डेमासश्च न प्रवेश्यते। तदा प्रतिमासं वारदण्डपदपिण्डावयवेषु यथाक्रममे को द्वात्रिंशत् द्वावेकश्च देयः ऋत्युत्र घट्योर्द्वे रूद्रश्च देयः। वर्षादि प्रवेशेऽन्य एव वारपिण्डादिकः कार्यः। प्रतिदिनं वारार्थः। तिथिभोगार्थञ्च शुक्लप्रतिपदादि वर्तमानमासस्य गतवर्तमानतिथयो यथासंख्या देया हेयाः पुनर्देया वारनाडीपदेषु। पिण्डचतुर्दशभागं लब्धयोर्द्वयोश्चतुर्थं लाभे वा पिण्डः समो देयः। एकस्मिन् स्त्रिषु वा लब्धेषु विषमः। 


एतदुपरि नास्ति भागः। यतः सप्ताविंशत्युर्द्धं पिण्डा न लभ्यन्ते। अष्टाविंशत्या भागात्। तेन त्रिंशत् तिथि सहिताः सप्तपञ्चाशदूर्ध्वं न भवन्ति। समे देयानि चन्द्रपदानि विषमे हेयानि भागशेषे तु शून्ये शून्यम्विशुद्धं त्रिदशशशिपदे पञ्चनेत्रार्क्कयोर्दिक् तिथ्याख्यैकादशेऽग्नौ दशजलधिपदे विंशतिश्चैकहीनाः। द्वाविंशत्पञ्चरन्ध्रे ऋतुवसुनि जिनाः सप्तमे पञ्चविंशत् तस्मिनर्क्कप्रभेदैः प्रकटितरविका देय हेयाः समस्ता। विशुद्धमिति न किञ्चिद् देयं हेयं वा। तस्मिन्निति घटीपिण्डे। अर्क्कप्रभेदेन सूर्यपदानि भवन्ति। सूर्यस्य ऋणं तस्मिन् सूर्यस्य ऋणं सूर्यस्य धनं तस्मिन् धनमिति सूर्य प्रभेदः। 


एतदुक्तम्-वक्ष्यमाण न्यायेन भूतादिभागलब्धं मिश्रयित्वा त्यक्ता वारं विचरणपदानि पिण्डितानि भवन्ति तावद्रवियाख्यं यदि सूर्यभोगे देयम्। तदा वारघट्यां देयम्। अथ सूर्यभोगे देयम् चन्द्रस्य हेयमिति। 


द्वयमेव चन्द्रस्य शुद्धरविका चन्द्ररविका चन्द्रपदानि भूतभूतेषु वेदाः शिखिकरशशिनः पूर्वभागेऽपरे च। पूर्वे भागे ऊर्ध्वचन्द्रक्रमेणमध्ये तिर्यग्रेखां दत्वा अपरे अधः शश्याना व्यतिक्रमेण लिखनीयामीति चतुर्द्दश। एवं सर्व प्रहाणा घटिकात्मकान्येव। अत्र चतुर्द्दशभागशेषेण प्रतिपादिकं सच्चार पदं तदुपरिमं सच्चारः। तत्र ग्रह प्रविष्टः। तेन पिण्डावयवं हत्वा षड्विंशत्यधिकशतभागेन लब्धम्। पूर्वार्द्धे भुक्त पदञ्च। अपरार्द्धेन तत् त्यक्त्वाऽभुक्तपदमेव वारघटिकास्थाने देयं हेयं वा। एतदुक्तम्-वक्ष्यमाण न्यायेन भूतादिभागलब्धं मिश्रयित्वा त्यक्ता स रविचरणपदानि पिण्डितानि यावन्ति भवन्ति तावद्रविकाख्यं यदि सूर्यभोगे देयम्। तदा वारद्यट्यां देयम्। अथ सूर्यभोगे हेयम्। तदाऽस्यां हेयमिति। द्वयमेव चन्द्रस्य शुद्धरविका चन्द्ररविका चन्द्रपदानि भूताभूतेषु वैदाः शिखिकरशशिनः पूर्वभागेऽपरे च। पूर्वे भागे ऊर्ध्वमनुक्रमेण मध्ये तिर्यग्रेखां दत्वा अपरे भावः शश्यादिना व्यतिक्रमेण लिखनीयामीति चतुर्द्दश। एवं सर्व प्रहाणघटिकात्मकान्येव। अत्र चतुर्द्दशभागशेषेण प्रतिपादितं सच्चार पदं तदुपरिमं सच्चारः। तत्र ग्रह प्रविष्टः। तेन पिण्डावयवं हत्वा षड्विंशत्यधिकशतभागेन लब्धम्। पूर्वार्द्धे भुक्त पदञ्च। अपरार्द्धे तु तत् त्यक्त्वाऽभुक्तपदमेव वारघटिकास्थाने देयं हेयं वा। किं ईह लोके रविका अशुद्धा अतः शुद्धरविकार्थम्। ततो वारस्थाने एकादिकमादित्यादिवारं प्रतिपादयति। तिथौ दण्डादिकं सूर्योदयात् प्रभृति भोक्तव्यम्। प्रतिदिनसूर्यस्य नक्षत्र भोगार्थं शुक्लादिनोक्त तिथिर्द्विस्थाने कृत्य एकत्र चतुर्द्दण्डे हता। अपरत्र च करणन्यायेन विंशत्या द्वाविंशत्या वा पाणीपलैः। सिद्धान्त न्यासेन वा षड्विंशति पाणिपलैर्हृत्वा षष्ट्या हृत्वा लब्धमूपरिप्रवेश्योपरिम् दण्डारपि षष्ट्या हृत्वा लब्ध ऋक्षे भागशेषः ऋक्षदण्ड प्रक्षिपेत्। पाणीपलञ्च नक्षत्रदण्डादधो लिखेत्। नक्षत्रतद्दण्डपिण्डपाणीपलेषु द्विस्थाने कृतेष्वकत्र रविकार्थं स त्रिपदे षड्नक्षत्राणि शोध्यानि। मेषाश्विन्यादितः शोधिता चन्योऽनन्तरोजन्मराशिः स्यात्। उक्तम्। 


मेषे युग्मे कुल्लीरे शशिभृगुरवयः सिंहकन्यातुलासु। 

भौमो मन्त्री च राहुर्बुधशनिफ़लिलो वृश्चिकाद्यन्तचापे।। 


आद्यन्तेति। चापस्यादि भागे शौरिरन्ते केतुरिति। अत्र यदि ऋणमधिकं भोग राशि हीना तदा सप्तविंशति नक्षत्रचक्रऋक्षस्थाने प्रक्षिप्य शोध्यम्। यदि शोधित शेषश्चक्रार्द्धं स्यात्। तदा तत् चक्रार्द्धं शोध्यम्। तदैवोत्क्रमोज्ञेयः। अत्यक्त्वे चक्रार्द्धे क्रम एव। ऋक्षात् षष्टिहृतादधःस्थ घटिकायुक्ता भूतवह्नीचन्द्रभागलब्धं राशिचरणप्रतिपादकं लोप्यं राशिचरणं ज्ञात्वा। रसयुगमशशिनो मन्दकार्ये षट्राशिपदानि पञ्चकुर्क्कादिष्ःउ जन्मराशिषु भवन्ति। इयन्त्येव पदानि सर्वग्रहाणां मन्दकार्ये भूतादिना भागा लाभे तु प्रथमवारपदे ग्रहोस्थीति ज्ञेयं सर्वत्र। तदा तेन हृतान्य इत्यादि वक्ष्यमाणं कार्यं। तदा मन्दकार्ये सर्वग्रहाणां क्रमेण ऋणमुत् क्रमेण धनं शेयम्। ततो भुक्त पदात् द्वितीयो भुज्यत् इ भोगः। तेन हृताभ्यो भाग शेष नाडिभ्यो भूतादि भाग भोगांशेन सार्द्धं पूर्वार्द्धे राशि वशात् ग्रहभुक्तानि चरणानि पिण्डितानि। अपरार्द्धे तु भाग लब्धं भोगांशं त्यक्त्वाऽपरेण भोगांशेन सहाभुक्तानि चरणपदानि पिण्डितानि धनं ऋणवशाद् देयानि हेयानि वा ग्रहभोग नाड्यामियमेव सूर्यस्य शुद्ध रविका। सूर्यस्य नक्षत्रस्थाने नक्षत्रादिकं भुक्तं, भुक्तशेषं भोक्तव्यम्। वक्ष्यमाणे चन्द्रेप्येव योगेपि च। 


इदानीं सूर्यस्याशुद्धरविकाः कथ्यन्ते-


सूर्ये कालो रसोऽहिश्च दशहरहरा रूद्रदिग्नागषट् च।। 

वह्निः खञ्चायनान्ते भवति धनमृणं चोत्तरे दक्षिणे च षण्मासं पक्ष भेदैश्चरित दिनकरो माससङ्क्रान्तिभेदादिति। 


अत्र कर्क्कटादौ व्रणं पक्षे कालः। द्वितीये कर्क्कटं पक्षे रसः। एवं यावद् धनुषि वह्निः खंचायनान्ते एवं मकरादौ धनमिति। चन्द्रस्य नक्षत्रभोगार्थं सूर्यभोगे नक्षत्रस्थाने शुक्लादिनोक्ततिथयो देयाः। तदनु तास्तिथयः स्थानान्तरे रसहुता वारस्य भोग घटिकादिभिर्मिश्राः सूर्यस्य ऋणघटी। घटी स्थाने ऋणमिति ज्ञेया। अतश्चन्द्रभोगः स्यात्। सूर्यभोगेनेन्दु भोगो भवति। शुक्लादि नोक्ततिथयोर्द्विहता एकरहिताः सम्भवे सति सप्तभागावशेषाः करणं स्यात्। करणं भोगस्तिथि भोग एव। इह साधारण न्यायः। श्वासस्थाने यदुपरि श्वासा न तिष्ठन्ति। षड्भागेन लब्धाः पाणीपलेषु विशन्ति। तान्यपि षष्टार्द्धेन तिष्ठन्ति। षष्टीभागेन लब्धा घटीषु विशन्ति। घट्योप्येवं वारे नक्षत्रे वा विशन्ति। वाराऽपि सप्तभूत्वैव विनश्यन्ति। नक्षत्राश्यपीह सप्तविंशतिर्भूत्वा न तिष्ठन्ति ? योगा अप्येवं तथा षष्टिदण्डात्मकमेकं नक्षत्रं। वारोयोगोदिनञ्चेति। तत्र वारा आदित्यादयसप्त। तिथयः प्रतिपदाद्याः पञ्चदश। नक्षत्राणि अश्विनी भरणी कृतिका रोहिणी मृगशिरा आर्द्रा पुनर्वसुः पुष्य अश्लेषा मघा पूर्वफ़ाल्गुनी उत्तरफ़ाल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूला पूर्वाषादा उत्तराषादा श्रवणा धनिष्ठा शतभिषा पूर्वभाद्रपदां उत्तरभाद्रपदा रैवती चेति सप्तविंशतिः। तथा योगाः। विष्कम्भः प्रीतिरायुष्मान् सौभाग्यः शोभनो अतिगण्डः सुकर्म्मा धृतिः शूलः गण्डो वृद्धिः ध्रुवोः व्याघातो हर्षणो वज्रः सिद्धिः व्यतीपातो वरीयान् परिघः शिवः सिद्धः साध्यः शुभः शुक्लो ब्रह्या ऐन्द्रे वैधृतिश्चेति सप्तविंशतिः। करणानिभवं बालवं कौलवं तैतिलं गरजं वणिजं विष्टिरिति सप्त। तथा शकुनि चतुष्पदो नागः किस्तुघश्चेत्येकादशः। तत्र शुक्लप्रतिपदपरार्द्धात्प्रभृति प्रत्येकं चतुः प्रहरभोगं सङ्ख्यया यथाक्रमं पुनः पुनरावर्त्त्य कृष्णचतुर्द्दश्याः पूर्वार्द्ध यावत्सप्तानां भोगः स्यात्। तस्या अपरार्द्धात्प्रभृति शुक्लप्रतिपत्पूर्वार्द्ध यावदपरेषां चतुर्णां, तिथि भोगं समभाग द्वयङ्कृत्वा। पूर्वार्द्धापरार्द्धव्यवस्थाज्ञेयैति। वारतिथिनक्षत्रयोगकरणपञ्चाङ्गक्रमः। अश्विनीभरणीकृतिकापादमेकं मेषः। एवं प्रत्येकं नवपादैर्द्वादशमेष वृषमिथुन कर्क्कट सिंह कन्या तुला वृश्चिक धनुर्मकरकुम्भ मीना राशयो वैशाखादिषु ज्ञेयाः। 


भौमशुक्रबुधसोमभास्कराः सौम्य शुक्र वसुधासुतागुरूः। 

शौरिशौरिगुरवश्च सम्मताः क्षत्रिण क्रमत एषु राशि स्थिति।। 


शुद्धवर्षाणि शुद्धाब्दा अष्टमिश्राश्चतुर्भिः शतैर्हताः। पृथगष्टमिश्रिभैः शुद्धाब्दैरूनी कृताः सप्तदशाधिकशतत्रयभागेन लब्धाद्विमिश्रा वारा भवन्ति। भाग शेषेभ्यः षष्ट्यानि हत्यनाडी कृतेभ्यः सप्तादि भाग लब्धा ग्राह्या भागशेषो लोप्यः। लब्धघटीभ्यस्त्रिंशमिश्रिताभ्य षष्टिभागलब्धोर्द्विमिश्रे वारे विशति। भागावशिष्टा वारघटिका ध्रुवकमधः। वारेभ्योऽपि सप्तभागावशेषो वर्षसङ्क्रान्तिवारध्रुवकमूर्द्धस्यात्। अत्र यदा सूर्यो मीनं त्यक्त्वा मेषे याति। तदा  क्षिप्यन्त इति क्षेपका द्वादशः मेषादिषु यथाक्रमम्। 


चन्द्राद्रीभूतवेदौ गुणशरशशिनः शैलचन्द्रन्तृतीये। 

वेदाग्रीभूतचन्द्रौ नयनकरयुगे वेदनेत्राणि षष्टे।। 

षड्चन्द्रौ बाणचन्द्रौ गिरियुगशिखि षड्चन्द्रवेदाद्रिलोकाः। 

षड्वेदौ शून्यशून्यं नयनशरपदं मीनराशौ रवेश्चेति।। 


एषामयं न्यासः। एषु द्वादश कोष्टानां प्रत्येकं प्रथमो वारध्रुवे देयः द्वितीयः सप्तपञ्चाशदादिको घटी ध्रुवे इति सङ्क्रान्तिर्वार तद् भोगयो ज्ञातव्य करणे। इदानीं मङ्गलादिनाम् नक्षत्रभोगार्थम् अहन् गण उच्यते। शुद्धमासान् दिनराश्यर्थं त्रिंशद् हताश्च शुक्लादिनोक्ततिथिसहितास्रिस्थाने कृत्वाऽधो राशेः शैलखागैर्भागेन लब्धं मध्ये देयम्। ततो मध्याच्चतुः षष्टिभागलब्धेन हीन उपरराशिर-स्फ़ुटोदिनगणः स्यात्। तं द्विस्थाने कृतै कस्मिन् सप्तवारैर्हृते, यदि तदहवारो न स्यात्। तदैकादिकं प्रथम राशौ देयं हेयं वा यथा वारः स्यात्। ततः स्फ़ोटोऽहग्गणो भवतीति। मङ्गल शुद्धार्थं स्फ़ुटाहग्गणात् सप्तषष्ट्याधिकशतमिश्रात् मङ्गलमण्डलदिनैः शैलनागर्तुभिर्भागलब्धोराशिपरिवर्त्तो लोप्य एवमन्येषामपि शेषान्नक्षत्र हताः स्वमण्डलदिनैर्भागलब्धं नक्षत्र भवत्युपरि। तच्छेषाच्च षष्टि हतात् स्वमण्डलदिनैर्भागलब्धान् घट्योऽधः पूर्ववत्पाणीपलादिकं इदमृऋक्षादिकं द्विस्थाने संस्थाप्य एकत्र सार्द्ध नवनक्षत्राणि शोध्यानि। ततः सूर्ये मेषाश्विनीभ्या ह्यक्तं ज्ञेयम्। विशेवस्थस्य तत्वान्यष्टादशाद्रा मन्दकार्ये पदानि। अपरस्मिन् ऋक्षादिके देयानि हेयानि वा। इति मन्दकर्मणि मङ्गलशुद्धिः। शीघ्र कर्मणि तु मङ्गलगुरूशनि शुद्धाणां मन्दकर्मपरिशुद्धं भोगं द्विस्थाने कृत्वा। एको रविका रहित सूर्यभोगे तिथिमिश्रेऽशोधिते अकृत स त्रिपाद षड्नक्षत्र त्याजनादि विधौ शोध्यः। ततः सूर्योक्तं यदि ऋणमित्यादि क्रम एवेत्यन्तं ज्ञेयम्। अत्र शीघ्र कार्ये क्रमेण धनं देयमुत्क्रमेण ऋणं हेयम्। शोधि तस्य यथा सम्भवत्याजितस्य शेषो ग्रहचरणप्रतिपादकपदं लब्धं ज्ञात्वा लोप्यः। तेनैव पदेन शेषनाडी निहत्य षष्टिभागेन लब्धिनः तत्पदांशेन सार्द्धं पूर्वार्द्धे राशि चरणवशात् ग्रहभुक्तानि चरणानि पिण्डितानि। अपरार्द्धे तु भागलब्धं तत्पदांशं त्यक्त्वाऽपरेण तत्पदांशेन सहाभुक्तानि। अपरत्र मन्दकर्म्म शुद्धे ग्रहभोगे देयानि हेयानि वा। अत्र पदानि चतुर्द्दश जिनस्त्रिधा अक्षिविधोः करोद्विरष्टादशाहः शिववह्निमूलात् रूद्राष्ट वह्निः खभुजङ्गमाधस्त्रिपञ्चधै तानि मही सुभस्य। मूलादिति तिर्यग्रेखायाः दिग्दिग्रन्धोवसुः षट्षट्द्वेकमूलाङ्गुणोरसः। रन्ध्रो रूद्रोनृयोगश्च शीघ्रकार्ये पदङ्गुरोः। ऋतुशरशरवेदावेददृग्दृग्खमूलात् द्वियुगशरसाष्टत्रीणि शौरेः पदानि। श्लोकार्द्धं। तथा मन्दसूर्यं द्विस्थाने कृत्वा एकं बुधचारे शुक्रचारे च शोधयेत्। ततः शोध तस्येत्यादि। अभुक्तानीत्यन्तमनन्तरं मङ्गलोक्तं कृत्वाऽपरत्रमन्दसूर्ये देयानि हेयानि वा। एवम् एव बुधभोगः शुक्रभोगश्च भवति। 


भूपोभूपेस्तिथि तस्मात् गन्धनङ्गं शिवाद्रयः। 

पञ्चमं मूलतो शाविंशति चाष्टविंशतिः। 


चतुस्त्रिंशच्च सौम्यस्य स्त्रिषुत्व द्विर्ज्जना द्विधा। 

द्वाक्षि दोष तिथिचाष्टौ मूलात् षट् खाग्रयस्तथा।। 


रन्ध्ररन्ध्रोगुणादिश्चशीघ्रचरैपदं भृगोः। 


इति भौमादीनां शीघ्रकर्मपरिशुद्धिः। मन्दकर्म्मणि बुधशुद्ध्यर्थं स्फ़ुटदिवसगणाच्छतहताद्वह्नि सूर्याद्रिहीनाद्बुद्धमण्डलदिनैः शैलरन्धादिनाशै भागलब्ध इत्यादि पाणीपलादि इतीत्यन्तं मङ्गलवत्कार्यं नक्षत्रादि कमीदं शीघ्रकर्मार्थंञ्चार उच्यते। अतस्तदर्थं स्थानान्तरे संस्थाप्य रविका रहित सूर्यभोग द्विस्थाने कृत्वेकत्र सूर्यभोगे सार्द्धषोडशनक्षत्राणि शोध्यानि। ततः सूर्योक्तं मेषेत्यादि धनऋणवशादित्यन्तं कृत्वाऽपर सूर्यभोगे देयानि हेयानि वा। इति मन्दकर्मणि शुद्धो बुधः।। 


अयमपरसूर्यभोगोमन्दकर्म शुद्धबुधात्मताङ्गतः शीघ्रकर्मार्थं मन्द सूर्य उच्यते। 


दशगिरिशिखिनो मन्दकार्ये पदानि।। 


गुरूशुद्ध्यर्थ स्फ़ुटाहन गणात् खखरसनयनैरूनाद्गुरूमण्डलदिनिर्दन्तवह्न्याब्धिभिः भागलब्धं इत्यादि भौमवत्कार्यम्। अत्रायम्विशेषः शोध्यानि द्वादशनक्षत्राणि हरनवशिखिनः पदानि। शुक्रशुद्ध्यर्थं स्फ़ुटाहन् गणाद् दशहता चतुरशी ऋनाच्छुक्रमण्डलदिनैरद्रिजिनाक्षिभिर्भागलब्धं इत्यादि बुधवत्कार्यं सर्वम्। अयं तु विशेषः षट्नक्ष [ त्रा] णि शोध्यानि पदानि शरयुगशशिनः। शनैश्चरशुद्ध्यर्थं स्फ़ुटाहन् गणात् खाक्ष्यष्टवेदैरूनाच्छौरिमण्डलदिनैः षड्रसागाम्बरैकैर्भागलब्धं इत्यादि भौमवत् कार्यम्। विशेषस्तु शोध्यान्यष्टादशनक्षत्राणि द्वाविंशति तिथ्यतवः पदानि। इति बुधादीनां मन्दकर्म्मणि परिशुद्धिः। अपि च मन्दकर्मपरिशुद्धो ग्रहभोगः शीघ्रकर्मणा परिशुद्धः सन्यकर्मद्वयेन परिशुद्ध एव ग्रहभोगो भवति। न तु मन्दकर्मपरिशुद्धो भिन्नो ग्रहभोगः शीघ्रकर्मारिशुद्धभिन्नो इति क्षोभिः शास्त्रविदः। कर्मद्वयेन परिशुद्ध-भोगश्च मङ्गलबुधगुरूशुक्रशनैश्चरणामेव रवेस्तु मन्दकर्मणैव शीघ्रकर्मणैवेन्दोरिति। राहोर्नक्षत्रभोगार्थं शुद्धमासेभ्यो नेत्रार्क्कमिश्रितेभ्यः पक्षराश्यर्थं द्विगुणितेभ्यः। पूर्णिमाया चन्द्रग्रहार्थमेकपक्षमिश्रेभ्योऽमावास्यां सूर्यग्रहार्थं द्विपक्षमिश्रेभ्यो राहुपक्षमण्डलैः खऋत्वम्भोधिभागैर्लब्धं लोप्यम्। भागशेष पक्षेभ्य ऋक्षार्थं सप्तविंशति हतेभ्यः खादिना लब्धमृक्षम्भवति। शेषेभ्यः षष्टि हतेभ्यः खादिभागलब्धाधट्यः। तच्छेषेभ्योपि तथा लिप्ताः। तच्छेषाश्च षठताः खादिलब्धाः श्वासाः। अनेन नक्षत्रादिना लब्धेनोनोनि सप्तविंशतिनक्षत्राणि राहोमुखभोगो भवति। स एव मुखभोगः सार्द्धत्रयोदशनक्षत्रमिश्रः पुच्छभोगः। ततः प्रतिमासं सूर्यभोगे नक्षत्रद्वयमेकादशघटिकाः षण्मासैर्द्वादशनक्षत्राणि षड्षष्टिघटिकाः स्यू। तश्च त्रयोदशो नास्त्रयः पञ्चाशद् भवन्ति। अत्र सूर्यभोगे सूर्यग्रहणेऽमावास्याभोगे रविका देया हेया वा। ततो राहु भोगे पञ्चचत्वारिंशद् घटिकाद्रूनीत्य शेषं नक्षत्रभोगं शोधयेत्। तत्र यदि मुखेन पुच्छेन वा तुल्यं नक्षत्रं स्यात् तदैव ग्रहणं नान्यथा। अथवा पूर्वोक्त न्यायेनानीयायेमावास्यां सूर्यभोगं राहोर्मुखभोगे पुच्छभोगे वा शोधयेत्। चन्द्रग्रहणे तु पूर्णिमायां चन्द्रभोगं राहोर्मुखभोगे पुच्छ भोगे वा शोधयेत्। मुखेन पुच्छेन वा सह तुल्यं नक्षत्रत्वे ग्रहणम्। नान्यथा। अत्र हि अमावस्यावसाने पूर्णिमावसाने वा पर्वसन्धौ राहोर्मण्डले रविशशिनोर्मण्डलं प्रविशन्ति मण्डलशब्द गात्र षष्टिनाडिका एकनक्षत्रभोगः स च द्वादशराश्यात्मकः षोडशकलात्मको वेदितव्यः। तत्र यदि राहुभोगेऽनयोर्भोगः शुद्धस्तदा सर्वग्रासः षष्टिनाकापर्यतः। अर्द्धभोगे शुद्धे सत्यर्द्धग्रासः। कलायाश्चतुर्नाड्यात्मिकाया राहुभोगे प्रविष्टं चतुर्थाशं यावद् ग्रह समागमो ज्ञेयः। यदा च मुखभोगे राहुग्रसति तदा पूर्वभागम्। पुच्छभोगे च पश्चिमभागम्। एवमन्यदिग्विभागानिति बलनं ज्ञेयमन्यत्रेति टीकाग्रहणं चेदं षण्मासैरेवभवत्यव। परमार्थतश्चन्द्रमेवतमः स्वभावो राहुर्ग्रसते शीतरश्मित्वात्। न सूर्यं। अमावास्यावसाने काले शशिनोपि सूर्ये प्रविष्टत्वात् सूर्यं ग्रसते इति। व्यवहारः। इति राहु शुद्धिः। केतुः सूर्यमण्डले प्रविश्य प्रत्यहं दण्डचतुष्टयं षड्विंशति लिप्ताश्चार्क्कभोगस्तमधिकसार्द्धं लिप्ता द्वयञ्च शीघ्रचारे क्रमेणाग्रतो वक्रचारे उत्क्रमेन पृष्टतो विचरति। एवं वर्षत्रयं स्थित्वा निःसरति। निःसृत्य च प्रतिदिनं घटी द्वयमुदेति, घटी च स पादे। षट्पञ्चाशत् लिप्तात्मिका केतोः मासमेकं यावन्निर्धूमो नक्षत्रवद्दृश्यते। ततः पक्षमेकं प्रकटौ धूमकेतुः। एवं सार्द्धमासान्ते पुनः सूर्यमण्दले तथैव वर्षत्रयं यावददृश्या भवति। प्रथममुदयोऽस्य यथा प्रसिद्धि निरीक्ष्य ज्ञेयः। एवमेकदास्योदयो ज्ञायतेऽनन्तकालमिति केतु शुद्धिः। इहायं साधारण न्यायः। शीघ्रकर्मणि सूर्यमण्डलादुदितस्य ग्रहस्य क्रगमने चतुर्दशचरणघटिकार्द्ध पूर्वाद्धे भोगः शीघ्रचारे उच्यते। अपरार्द्धे भोगो मन्दचारः। ततोऽर्द्धचक्रे परित्यक्ते नक्षत्रोत्क्रमः। पूर्वार्द्धे चक्रचारोऽपरार्द्धे निर्गमगर इत्युच्यते। राशिनक्षत्रचक्रत्यागात्। अत्र क्रमे पूर्वार्द्धे धनवृद्धिः ग्रहाश्च पूर्वाभिमुखाः। अपरार्द्धे धनक्षयो दक्षिणाभिमुखाः। उत्क्रमे पूर्वार्द्धे ऋणवृद्धिः पश्चिमाभिमुखाः। अपरार्द्धे ऋणहानिरूत्तराभिमुखाः। एषामन्यादिङ् मुखत्वमरिष्टादिवशेन प्रकृत्या तु राहुः पश्चिमाभिमुखो मेरूं प्रदक्षिणयत्यपरे ग्रहाः। पूर्वाभिमुखाः। ततो रविरश्मिभिराच्छादितत्वादस्तङ्गमनसूर्ये न ग्रहस्य सर्वथा अभावः। पुनस्तथैवोदय इहायं विषये रविशशिभोगहानिवृद्धिवशात् षष्टिनाडीस्वभावादहोरात्राद्दशभागलब्धनाडीनामह्निवृद्धिर्भवति। रात्रौ हानि दक्षिणाग्नि बलयशीम्नौ महाहिमवद्बलयशीमा यावत्पञ्चसप्ततियोजनसहस्रमुत्तरायणे षण्मासैः। एवं महाहिमबलयशीम्रो दक्षिणाग्निबलयशीमा यावद् दक्षिणायने रात्रौ वृधिरह्निहानिः। एवं सति प्रत्यहोरात्रं लिप्ता द्वयस्य हानिर्वृद्धिर्वा ज्ञेया। तथा भोट लीच चीनादिदेशेषु सम्भलविषयान्तं यावन्नवाष्टसप्तभागैर्लब्धनाडीनां कैलाशखण्डे षड्भागैः प्रत्यहोरात्रं कैलाश खण्डान्तुत्तरस्मिन्य हिमगिरि यावत्प्रत्यहोरात्रं चतुः श्वासाधिक लिप्ता त्रयस्य हानिर्वृद्धिर्वा। हिमगिरे वाह्येऽष्टदिक्षु बलयाकारेण नक्षत्रराशिगोल एकः। अस्य मध्ये विश्रु ( षु ) व रेखा। अत्र एवोमय पार्श्वे चापाकरः अत्र च खलमध्यमे धीचन्द्रवलीवर्द्दवद् भ्रमन्ति नक्षत्राश्यश्विन्यादीनि चित्रार्द्ध यावदुत्तरे रेखायाः। दक्षिणे तु चित्रार्द्धादीनि रेवत्वन्तानि एवमेव सपाद नक्षत्र द्वयमेक राशिः। एव द्वादशराशयो ग्रहाश्च भोक्तारः। अस्य च गोलस्योत्तरप्रान्त उत्तरवह्निबलयादि व्रजति। दक्षिणप्रान्तस्तु हिमगिरेर्द्दक्षिणान्तं स्पृशत्युत्तरायणे। दक्षिणायने तु दक्षिणप्रान्ते। दक्षिणवह्निबलयादि व्रजति। उत्तरप्रान्तस्तु शीतशौलस्य उत्तरान्तस्पृशति। एतच्च नक्षत्रादिकं सुमेरूम्प्रदक्षिण यद्रति बलनवशात् गोलाकारं भवति। गोलाया मानं दक्षिणाग्निबलयात् महाहिमवन्तं यावत् पञ्चसप्तत्रि ( ति ) योजनसहस्राणि। एभ्यो मण्डलदिनार्द्ध सार्द्धद्वाशीतिशतभागलब्धं दिग्विभाग प्रतिदिनं त्यजति सूर्यः। एवं द्वादशखण्डेषु तिर्यक्क्रान्तिः सूर्यस्य वेदितव्येति करणमार्गः। किन्तेवमपि करणमार्गेण सदा शुद्धिर्नास्ति रवेः। 


अशुद्धे सूर्यभोगेऽस्मिन् शोधिता मङ्गलादयः। 

न स्फ़ुटा वै भवन्यत्र मूलनष्टा इव द्रुमाः।। 


अतः सिद्धान्तमार्ग उच्यते अयं क्रमः सम भूम्यां हस्तप्रमाणमण्डलमध्यना स्तवितस्ति प्रमाण शङ्कौश्छाया पूर्वाह्ने रेखा बाह्यात् क्रमेण सङ्गु चन्ती यदा मण्डलप्रान्तरेखाया मध्यस्थाने प्रविशति। तदा तत्र स्थाने चिह्नङ्काकपदङ्क सैव पश्चिमादिक। अपराह्ने तु मण्डलमध्यात् क्रमेण प्रसरन्ती यदेत्यादि। पूर्वच्चिह्नं कर्त्तव्यं सैव पूर्वादिक अत्रैक चिह्नोपरिसूत्रं धृकाऽपरचिह्नाद्रवाङ्मण्डलं खदिकया कुर्यात्। अपरचिह्नोपरि च सूत्रं धृत्वा तथा कुर्यात्। यथा मत्स्याकारः स्यात्। तत् मण्डलद्वयमध्ये मत्स्यस्य मुखमध्यदक्षिणादिका पुच्छमध्यमुत्तरा। एवं दिशो लिण्डीं यत्रे तत्मण्डल द्वयं लोपयित्वा उत्तरायणदिनात् प्राग्दशमं दिनमारभ्य मध्याह्ने परीक्षा कर्त्तव्या। तत्र प्रथ(म) मण्डलस्योत्तरे प्रान्तरेखा मध्यान्मण्डल मध्यं प्रविशति। या यस्मिन् दिने तदुत्तरायण सङ्क्रान्तिदिनं सूर्यस्य। तेन वारे तया तिथ्या तेन योगेन तेन करणेन। तस्मिन् दिने सूर्यभोगो वैशाखादि। नवमासैर्मेषादि नवराशीनां नक्षत्रस्थाने विंशतिः। घटिका स्थाने पञ्चादशेति मूल ध्रूवकम्। तत्र ध्रूवके प्रत्यहं षड्विंशति पाणीपलाधिकदण्डचतुष्टय प्रक्षिप्य रविका पदानि शोधयेत्। पूर्वोक्तेन स त्रिपाद षट् नक्षत्राणि शोध्यानीत्यादि विधिना। तथा चोक्त मूलतन्त्रे-


अयनादेः प्रत्यहं देयो यावद् भूयोऽयनम्भवेत्। 

उक्तकर्म्मविधानेन शोधनीयं रविपदमिति।। 


एवञ्च वारतिथिनक्षत्रयोगकरणराशिक्षेत्रे सङ्क्रान्ति ग्रहाणां फ़लमन्यात् सुगममिति नेह प्रतन्यत् इति। उदितमिदमुदानं ज्योतिरेवत् फ़लं प्रथितमिह हितान्त कालचक्रऽवतीर्य। गमयतु पदबन्धं निर्विबन्धं सुबुद्धिः सुखमिति रचितेस्मिन्यक्षन्तु महा सनः। विरं तिरियमभयस्य प्रविचय पदवीन्तनो तु हृदयस्य उदित तमः सुकृतञ्च त्रिजगति जिनसम्पदः फ़लतु। 


।। इति कालचक्रावतारः समाप्तः।। 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project