Digital Sanskrit Buddhist Canon

वज्रयान दर्शन मीमांसा

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

वज्रयान दर्शन मीमांसा


प्रथमः परिच्छेदः

वज्रयानतत्त्वदर्शनम्


चतुर्थधर्मचक्रप्रवर्तनम्


आबोधिर्प्राप्तेर्महानिर्वाणपर्यन्तं बुद्धोपदिष्टवचनविषयकं नास्ति मतैक्यं विभिन्नशास्राणां विदुषां च। तत्सम्पुर्णा उपदेशा एकस्मिन्नेव धर्मचक्रप्रवर्तने समाह्रियेरन् आहोस्वित्तदधिके ? विषयेऽस्मिन् समुद्ध्रियते कैश्चिद् विद्वद्भिर्गुणव्युहराजसूत्रस्य बुद्धवचनमिदम् - 'न विहिता मया कस्यचिद्दर्शनविशेषस्य देशना, परञ्च सत्त्वैः स्व-स्वमत्यनुरूपं विविधरूपेण तदबोधि'। एतदाधारीकृत्यैकदैव धर्मदेशनामन्तारो वक्तुर्महन्ति - बुद्धेनैकदैव स्वोपदेशो विहितः स चोपदेशः सत्त्वैः स्व-स्व विचारानुरूपं समबोधि। एकेनैव वचनेन समग्रधर्मपर्यायस्य देशनां व्यनक्ति बुद्ध इति तद्वाग्वैशिष्त्यम्।


इत्थं वृष्टिसमा तथागतदेशना। भेदमन्तरेण वृष्टिः पादपान् सिञ्चति ? वृक्षपादपा अपि निजक्षमतानुरूपं जलमादाय वर्धन्ते। तथैव बुद्धेन यत्सत्यमुपदिश्यते तस्याप्येकत्वमेव। परं हि सत्त्वैर्निजमत्यनुरूपं तदबोधि व्याख्याय्यत चापि। तस्मादेव विभिन्नशाखोपशाखानां प्रादुर्भूतत्वं तद्देशनानां च व्याख्याबाहुल्यम्। केचित्तु बुद्धो भिषगिवेति मन्यते। यथा वैद्येन रोगानुरूपमौषधं प्रदाय रोगिणां चिकित्सा विधीयते तथैव बुद्धेनापि कस्यचिदध्याशयक्षमतानुरूपमुपदेशोऽनुष्ठीयते। यथोक्तं लङ्कावतारसूत्रे -


आतुरे आतुरे यद्वद् भिषग् द्रव्यं प्रयच्छति।

बुद्धा हि तद्वत् सत्त्वानां चित्तमात्रं वदन्ति वै॥ (२.१२३)


कैश्चिद् विद्वद्भिः कालस्याभिधेयवस्तुनश्च दृष्ट्या त्रिः धर्मचक्रप्रवर्तनवार्तामङ्गीकुर्वद्भिरुच्यते - सर्वप्रथमं चतुरार्यसत्यादारभ्य सर्वधर्मसस्वभावतां स्वीकुर्वाणेन बुद्धेन ऋषिपत्तने मृगदावे (सारनाथे) पञ्चवर्गीयभिक्षुभ्यस्तथाऽनन्तकामधातु-रूपधात्वोर्देवीदेवेभ्यः प्रथमं धर्मचक्रं प्रवर्तितं, यत्र च हीनयानीयत्रिपिटकानि समाहितानि। तदनु गृध्रकूटपर्वते रूपस्कन्धादारभ्य सर्वज्ञतापर्यन्ता सर्वधर्मशून्यतां प्रतिपाद्य निर्लक्षणतादर्शनं प्रतिपादितं, यच्च द्वितीयधर्मचक्रप्रवर्तनमभिधीयते। यत्र प्रज्ञापारमितासूत्रादीनां देशनाऽभूत्। अतश्च वैशालीपद्मगर्भप्रभृतिक्षेत्रेषु सर्धर्मान् परिकल्पित-परतन्त्र-परिनिष्पन्नाख्ये स्वभावत्रये विभज्य सर्वधर्माणां सस्वभावतानिः- स्वभावतयोर्भेदं स्पष्टयता पृथग्जनबोधिसत्त्वेभ्यो यदुपदिष्टं तदेव सुविभङ्गधर्मचक्रप्रवर्तनमुच्यते। अस्मिंश्च तथागतगर्भस्य देशनया संबद्धाः सर्वेऽपि सूत्रग्रन्था हीनयान-महायान-मतप्रतिपादकाश्च सद्धर्मपुण्डरीकसन्धिनिर्मोचनप्रभृतयो ग्रन्था समाहृता वर्तन्ते। 


अत्र प्रश्न उदेति ? तन्त्रं कस्य धर्मचक्रप्रवर्तन्तस्यान्तः संग्राह्यं ? तन्त्रशास्त्राणान्तदैव बुद्धवचनता यदा च तद्देशनाकर्तृत्वं भगवतो बुद्धस्य स्याद् अन्यथा कथमेतेषां बौद्धतन्त्रत्वम् ? सन्दर्भेऽस्मिन्-आधुनिकविद्वज्जनैः पारमितायान-मन्त्रयानयोश्चान्वेषणं श्रावकयानीय(हीनयानीय)ग्रन्थेष्वर्थात् पालित्रिपिटकादिषु विधीयते, तद्ग्रन्थेभ्यश्च महायानमन्त्रनययोश्च बीजमवाप्तुं प्रयस्यते। कीदृशोऽयं विरोधः यद् हीनयानिनां यदा महायानग्रन्थानां बुद्धवचनत्वमङ्गीकर्तुमसहमतिस्तदा का कथा पुनः मन्त्रनयादेः ? पुनश्च स्वविरोधिष्वेव स्वास्तित्वबीजान्वेषणं कियदुचितमिति विचारणीयोऽयं प्रश्नः। किन्नायं प्रश्नः समुदेति - यानि त्रिपिटकानि समुपलब्धान्यद्य तानि बुद्धमुखादेव साक्षादुच्चरितानि ? यदिदं मन्येत, तर्हि एतदतिरिच्य नान्यत् किमपि बुद्धेनाभिहितमिदमपि कथङ्कारं मन्तुं शक्यम् ? हीनयानमहायानमन्त्रयानानां स्व-स्व दृषयः स्वदर्शनानि पन्थानः शास्त्राणि च वर्तन्ते। एतदधिकृत्यैव धर्मदेशनानिर्णयः युज्यते। मन्त्रनयस्य देशनाविषये वज्रयानीय-एकस्मिन्नतिमहत्त्वपूर्णे ‘नामसङ्गीति’ इत्याख्ये ग्रन्थेऽभिहितं - तन्त्रशास्त्रस्य देशनाऽतीतबुद्धैर्विहिता भाविबुद्धैश्चापि विधास्यते। अत्र भाविबौद्धैः येषां शास्त्राणां देशनाऽभिहिता तान्येव वर्तमानास्तन्त्रग्रन्था मन्यन्ते। यथा - 


यातीतैर्भाषिता बुद्धैः भाषिष्यन्ते ह्यनागताः।

प्रत्युत्पन्नाश्च संबुद्धा यां भाषन्ते पुनः पुनः॥ (एकादशं पद्यम्)


नडपादेन सेकोद्देशटीकायां प्रतिपादितं - यदा बुद्धेन गृध्रकूटे महायान-प्रज्ञापारमिताया देशनाऽनुष्ठीयते तदा धान्यकटके तैर्गुह्यसमाहकालचक्रादीन्युपदिश्यन्ते। यथा - 


गृध्रकूटे यथा शास्त्रा प्रज्ञापारमितानये।

तथा मन्त्रनये प्रोक्ता श्रीधान्ये धर्मदेशना॥ इति।

(सेकोद्देशटीका, पृ. ३)


आचार्यशाक्यमित्रेणावोचि-तथागतो यदा नैरञ्जनानद्यास्तटे तपो विधते तदा तज्ज्ञानकायः अकनिष्ठभुवनं प्राप्य योगतन्त्रस्य देशनां विधधाति। अपरतश्चानुत्तरतन्त्रस्य नैकेषु ग्रन्थेषु प्रत्यपादि-तथागतः स्वयमेवोपदेष्टा स्वयमेव च धर्मः श्रोता चापि स्वयमेवास्ति। यथा -


व्याख्याताऽहमहं धर्मः, श्रोताऽहं स्वर्गुणैर्भुवः।

साध्योऽहं जगतः शास्ता, लोकोऽहं लौकिकोऽप्यहम्।

सहजानन्दस्वभावोऽहं परमान्तं विरमादिकम्॥

(हे.व. २-२-३९-४०)


एतदतिरिच्य क्रियाचर्यायोगादितन्त्रशास्त्राणां देशना भगवता विभिन्नावस्थासु स्थानेषु च विविधविनेयजनेभ्यो नागदेवासुरमनुष्यलोकेषु व्यधीयत। साधनातत्त्व-दर्शनानुरोधाद्धि क्रियाचर्यायोगानुत्तरयोगतन्त्रेष्वतीव वैभिन्न्यम्। एतद्वैभिन्न्यस्य सप्रमाणां प्रस्तुतिरेव प्रबन्धस्यास्य मुख्यो विषयः। अतो धर्माणां सस्वभावता-निःस्वभावताभ्यां तत्सम्यग् विभङ्गेन च यथाऽन्यद्धर्मचक्रप्रवर्तनत्रयं मन्यते तथैव तन्त्रदेशना कस्यां कोटौ निधीयेत इति विचारणीयमास्ते। धर्मचक्रप्रवर्तनत्रमिव स्वरूपगतचतुर्थधर्मचक्रप्रवर्तनमपि स्यात् तदपि युक्तियुक्तं न प्रतीयते यतो हि तन्त्रशास्त्रस्य दर्शनं तत्साधनाविधिश्च गुह्यरहस्यात्मकविभिन्नताभिः समृद्धिमेति। एतानि च किञ्चिदेकस्यां कोटौ उत वा कालस्य च दृष्ट्या तन्त्राणि चतुर्थधर्मचक्रप्रवर्तनस्य नाम्ना नाभिधातुं शक्यानि, यतः कतिचनमन्त्राणां देशना भगवता बुद्धेनानन्दप्रभृति-भिक्षुणां कृते बहुपूर्वमेव कृता केषांचिच्च बहुकालानन्तरं व्यधीयत।


एतेन निष्कर्षोऽयं सम्भवो यद् बुद्धेन विनेयजनेभ्यस्तेषामभीप्साध्याशयानुरूपं किञ्चिदपि काले यत्किञ्चिद्रूपेण देशना विधातुं शक्या। कश्मिंश्चिद् विशिष्टक्रमे विशेषसंख्यायां वा तद्गणनं कियदुचितं ? तच्चिन्त्यमेव मैत्रेनाथः महायानोत्तरतन्त्रे प्राब्रवीत् - 


विनेयधातौ विनयाभ्युपाये विनेयधातोर्विनयक्रियायाम्।

तद्देशकाले गमने च नित्यं विभोरनाभोगत एव वृत्तिः॥

(महायानोत्तरतन्त्रम् ४.१)


तत्रेवैतदप्युक्तम् -


क्षेत्रेष्वपरिशुद्धेषु दर्शयित्वा भवस्थितेः। (महायानोत्तर. २-५६)


यावद् भवः संसारश्च तावत् स यत् किञ्चिद्रूपेण देशनां विदधाति, एतदेव महत्कृत्यं बुद्धानाम्।


बुद्धवचनम्


किं स्वरूपं बुद्धवचनम् ? तस्य च कति भेदाः? एतदुत्तरमिदम् - त्र्यधिशीलशिक्षाभिर्युक्तं वाग्दोषविरहितं प्रमाणत्रय-परीक्षितं युक्तिसङ्गतम्, आद्यन्ते कुशलकर्मयुक्तं वचनमेव बुद्धवचनम्। महायानोत्तरन्तन्त्रे मैत्रेयनाथोऽवोचत् -


यदर्थवद्धर्मपदोपसंहितं, त्रिधातुसंक्लेशनिबर्हणं वचः।

भवेच्च यच्चान्त्यनुशंसदर्शकं तदुक्तमार्षं विपरीतमन्यथा॥ (५-१८)


यः सार्थधर्मेणोपनिबद्धः त्रिधातुसर्वक्लेशप्रहाणकः। परमशान्तिपदाय चोपदिष्टः धर्म एव महर्षिवचनम्।


भोटपरम्परयाधिपतिप्रत्ययेन बुद्धवचनं पंचधा विभज्यते। १. साक्षान्मुखोपदिष्टम्, २-४. कायवाक्चित्तैरधिष्ठितम्, ५. अनुज्ञयाभिहितञ्च। यथा च बुद्धमुखादुपदिष्टानि महायानसूत्रादीनि २. कायेनाधिष्ठितवज्रगर्भशिरसि बुद्धेन हस्ताभिक्षेपे कृते सति तद्द्वारा दशभूमिसूत्रस्य कृतं व्याख्यानम्। ३. वाग्वुद्धेन मञ्जुश्रियि अजातशत्रोः शोकं च दूरीकर्तुं कथिते तत्प्रेरितमञ्जुश्रिया-कृतम् अजातशत्रुकोकृत्यविनोदननाममहायानसूत्रस्याख्यानम्। ४. चित्तम्-शारिपुत्रावलोकितेश्वराभ्यां बुद्धिचित्ततः प्रेरणायां प्राप्तायां सत्यां तच्चित्ताधिष्ठिते सति तौ मिथं प्रज्ञापारमितां विमर्शयतः, तद्विचारमिवर्शावधावेव सूत्रं स्फुरति शास्त्राणि चोद्भवन्ति। एतदेव चित्ताधिष्ठितं बुद्धवचनमभिधीयते। भगवता बुद्धेन परिनिर्वाणानन्तरं वचनसङ्गीतिकर्तृन् प्रति शास्त्रारम्भे ‘एवं मया श्रुतम्’ इत्यभिधातुं मध्ये च पृथक् पृथक् भागान् (स्कन्धान्) निक्षेपयितुमन्ते चानुमोदनं ‘साधु साधु’ चोद्घोषयितुं भणितं, यच्चानुज्ञाबुद्धवचनं समभिधीयते। देशनाविषये अग्रिमाध्यायेषु विस्तरेण प्रतिपादयिष्यते।


किन्नाम तन्त्रम् ?


तन्त्रशब्दो बहुष्वर्थेषु प्रयुक्तः एतद्विवरणं डा. पी. वी. काणे महोदयेन ‘धर्मशास्त्र का इतिहास’ ग्रन्थे प्रथमपरिच्छेदे प्रादायि। तन्त्रशब्दः ‘तनु विस्तारे’ त्रैरक्षणे धातूभ्यां निष्पन्नो मन्यते। नैकविषयाणां समावेशो यस्मिन् तत् तत्त्वमन्त्रप्रभृतीनि वा सम्मिलितानि तन्त्रं तद् विस्तारयति रक्षति, अतश्च एतत्तन्त्रमुच्यते। बौद्धतन्त्रसाहित्येऽपि - ‘तन्यते विस्तार्यते ज्ञानमनेन इति तन्त्रम्’ एतस्मिन्नेवार्थे तन्त्रशब्दः प्रायुंक्त।


तन्त्रस्य लक्षणं भेदाश्च -


गुह्यसमाहोत्तरतन्त्रे वर्णितम् -


प्रबन्धं तन्त्रमाख्यातं तत् प्रबन्धं त्रिधा भवेत्।

आधारः प्रकृतिश्चैव, असंहार्य्यप्रभेदतः॥


प्रकृतिश्चाकृतेर्हेतुरसंहार्य्यफलं तथा।

आधारस्तदुपायश्च त्रिभिस्तन्त्रार्थसङ्ग्रहः॥ (१८.३३-३४)


गुह्यसमाहीयेऽस्मिन् वचने प्रबन्धः तन्त्रत्वेनाख्यातः, तन्त्राभिप्रायो हि नैरन्तर्यम्। नैरन्तर्यं तस्यैव यदाद्यन्तरहितं स्यात्। सादेर्न नैरन्तर्यं तदारभ्यत्वात्। सान्तस्यापि न, तन्नैरन्तर्यस्याशक्यत्वात्। तस्मात् सततचित्तस्यानाद्यन्तावस्थैव तन्त्रम्। अत्र चाभिधेयदृष्ट्या तन्त्रस्य त्रयो भेदाः - हेतुरुपायः फलं च। अभिधानदृष्ट्या उपर्युक्तविषयप्रतिपादकशास्त्राणि तन्त्राण्युच्यन्ते।


एतच्छास्त्रस्य भोटदेशे विद्यमानविपुलराशेः संख्याविषये दरठङ् रिन्पोचेद्वारा स्वप्रकाशितकन्ग्युरतन्ग्युरप्रारम्भे (द स्दे द्गे केनन कन्टेण्ट एनालाईजे, पृ.३५) कथितम् - बुद्धवचने तन्त्रग्रन्थसंख्या - ४७१ परिच्छेदाः २४७० श्लोकाः ४१.५०० भारतीयपण्डितप्रणीततन्त्रग्रन्थानां संख्या २६३० परिच्छेदाः ३५७५ श्लोकाः १०३,००० एतदतिरिक्ता निङ्मा र्ग्युद् ह्बुमः नैके धारणीसंग्रहाश्च वर्तन्ते।


हेतु-(आश्रय)तन्त्रम्


तन्त्रेऽस्मिन् अभिधेयदृष्ट्याऽस्माकं चित्तस्वभादिकं बुद्धस्वरूपं सदपि कृत्रिम-(आगन्तुक) मलैरावृतमस्ति। बीजसदृशमिदं, यच्च प्रत्ययसंसर्गतामवाप्य फलवाप्तिसामर्थ्यमधत्ते। कृत्रिम-(आगन्तुक) मलस्य नाशे सति सत्वचित्तं निर्मलं जायते तच्च बुद्धः उच्यते। तस्मादभिधेयदृष्ट्या चित्तमेवेदमाश्रयनन्त्रमभिधीयते। मलिनावस्थायां चित्तमिदं सांसारिकषड्योनीनां कारणं भवति अध्वनि च परिपक्वं परिष्कृतंच सद् बुद्धरूपेणाविर्भवति। कृत्रिमागन्तुकमलनाशमतिरिच्य साधकेन न किमपि विधेयं यतोऽस्य स्वीयस्वभावे कथंचिद् विकारः परिवर्तनं च न जायते। 


अतः स एकस्यामवच्छिन्नस्वरूपधारायामवतिष्ठते। यथा च हेवज्रतन्त्रे प्रतिपादितम् -


सत्त्वा बुद्धा एव किन्तु आगन्तुकमलावृताः।

तस्यापकर्षणात् सत्त्वा बुद्धा एव न संशयः॥ (२/४/६९)


न बुद्धो लभतेऽन्यत्र लोकधातुषु कुत्रचित्।

चित्तमेव हि संबुद्धो न बुद्धोऽन्यत्र दर्शितः॥ (२/४/७०)


इत्थं सत्त्वचित्तमेव मालिन्यनैर्मल्ययोराधारः। अत एवेदमत्र आश्रयतन्त्रं हेतुतन्त्रं वोच्यते।


उपायतन्त्रम् -


उपायाभिप्रायो हि  हेतोः फलरूपप्रदायिका चित्तवृत्तिरर्थात् फल-प्राकट्ये यः सहायकः प्रत्ययसदृशश्च स एव उपायः कथ्यते। यथा - शालिबीजात् फलप्राप्तौ जलप्रकाशादयः उपाया मन्यन्ते तथैवात्र चित्तस्य परिपक्वतायै परिष्कृत्यै च प्रयत्नानामुपायत्वमुच्यते। सम्पुटतन्त्रे - 


उपायो दर्शितो बुद्धैः सत्त्वानां ज्ञानवृद्धये।

पुण्यं परमार्थतस्त्याज्यमपुण्यस्य च को ग्रहः॥

(नेवारी पाण्डुलिपिः, पृ. सं. १३३)


आनुमुपायोऽपि तन्त्रमुच्यते, यतः उपदेशाभिषेकयोरविच्छिन्नपरम्परायां साधनायां च निरतसाधकस्यानुभवपरम्परा उपायरूपेण अनवरतं विस्तारं लभते। विस्तरमिममादाय एतदुपायानामपि तन्त्रत्वमुच्यते। हेवज्रतन्त्रे -


नदीस्रोतः प्रवाहेण, दीपज्योतिःप्रबन्धवत्।

सततं तत्त्वयोगेन स्थातव्यमहोरात्रतः॥ (१/८/५६)


समाधेरविच्छिन्नधारा आदिकर्मिकस्यासम्भवा। परं च क्रमिकाभ्यासेनाविच्छिन्नसमाध्यवस्थाऽवाप्यते।


बोधिचर्यावतारे -


अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभः समाः॥ (१-१९)


अविच्छिन्नपुण्यधारारूपोऽयं समाधिर्यश्च चित्तनैर्मल्योपायभूतः तदपि चित्तस्यै वैकावस्था, अतोऽयमुपायतन्त्रम्।


फलतन्त्रम् - 


फलतन्त्रस्याभिप्रायः हेतावसंहार्यरूपेण स्थितफलस्याभिमुखीभावत्वम् चित्तस्य हेत्वस्थायामन्तर्निहितनिर्मलवृत्तीनां प्रकटीकरणम्, फल्तन्त्रं निगद्यते। यथा वृक्षपुष्पेषु असंहार्यरूपेण (अविनाभवेन) स्थितं फलं कालक्रमेण पक्वं भवति तथैवोपायतन्त्रस्य साहाय्येन चित्तं बोधिरूपेण परिष्कृतं सत् फलत्वेन जायते। फलतन्त्रस्यापि तन्त्रत्वं तस्यावच्छिन्नस्थितत्त्वात्।


सूत्रालङ्कारे -


त्रिभिः कायैस्तु विज्ञेयो, बुद्धानां कायसंग्रहः।

साश्रयः स्वपरार्थो यस्त्रिभिः कायैर्निदर्शितः॥


आश्रयेणाशयेनापि कर्मणा ते समा मताः।

प्रकृत्याऽस्रंसनेनापि प्रबन्धेनैषु नित्यता॥ (९/६५-६६)


धर्मकायस्य स्वभावतो नित्यत्वम् अविकारित्वात्। संभोगकायेन सततं धर्मोपभोगत्वाद् निर्माणकायेन च अविरतं प्राणिनां कल्याणकरत्वात् फलकायेऽपि नैरन्तर्य्यं सम्पद्यते। अतः फलतन्त्रमिदमुच्यते। यथा च महायानसूत्रालङ्कारेऽपि प्रतिपादितम् -


यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः।

तथैवानास्रवे धातौ, अविच्छिन्ना जिनक्रियाः॥ (९/१२०)


एतदभिप्रायस्तु-सत्वेष्वाद्यन्तरहितचित्तस्याविच्छिन्नसन्ततेः साधकस्य च मार्गादिप्रक्रिया-प्रवृत्तिरथ वा, अवतारवादस्याधारः आश्रयो वा तन्त्रमुच्यते। विभिन्नेषु बौद्धमतवादेषु ‘गोत्र-तथागतगर्भ-सुगतगर्भ-महामुद्रा-बोधिचित्त-निजचित्त-समन्तभद्रप्रभृतिनामभिरिदं व्याख्यामभूत्।


भैवाषिकमते भवभवोपकरणेष्वनासक्तचित्तवृत्तिः चैतसिक एव आर्यगोत्रम्। यतश्चानासक्तचित्तचैतसिकयोरनास्रवज्ञानमुत्पद्यते।


अभिधर्मकोषेऽपि - 


अलोभ आर्यवंशाश्च तेषां तुष्ट्यात्मकास्त्रयः।

कर्मान्तेन त्रिभिर्वृत्तिस्तृष्णोत्पादो विपक्षतः॥ (६/७)


अत्र भवपदेन पञ्चस्कन्धाः भवोपकरणेन च धर्मकाषायप्रभृतयः ग्राह्याः। विनयपिटकेऽपि धर्मकाषायभिक्षासामान्यशय्यादितः सन्तुष्टिः प्रवृत्तिरर्थगोत्रीया समभिहिता। तथैव यो जनस्त्यागध्यानभावेषु रुचिमादधाति, सोऽप्यार्यगोत्रीयो वर्तते। अत्र प्रथमे त्रयो (धर्मकाषाय-भिक्षा-सामान्यशय्याः) भवस्य प्रतिपक्षाः भण्यन्ते, त्याग-ध्यानयोः भावनाप्रवृत्तिर्भवक्रस्य प्रतिपक्षः निगद्यते।


सौत्रान्तिकैश्चित्तायतनविशेषाविच्छिन्नधारा गोत्रत्वेनाङ्गीक्रियते। विज्ञानवादिमहायानिष्वनादिकालतोऽविच्छिन्नरूपेण प्रचलितधर्मधातुलब्धमनास्रवबीजं गोत्रं कीर्त्यते। गोत्रोऽयमेव बोधिसत्त्वगुणाधारः, यथा च बोधिसत्त्वभूमौ वर्णितम् -


तत्राधारः कतमः ? इह बोधिपक्षसत्त्वस्य स्वगोत्रं प्रथमश्चित्तोत्पादः सर्वे च बोधिपक्षा धर्मा आधार इत्युच्यन्ते। तत्कस्य हेतोः ? इह बोधिसत्त्वो गोत्रं निश्रित्य प्रतिष्ठापयितव्यो भवति। प्रतिबलोऽनुत्तरां सम्यक्सम्बोधिमभिसंबोद्धुम्। तस्मात् सभागतया गोत्रम् आधार इत्युच्यते। (बो. स. भू. गोत्रपटलम्, पृ. १)


माध्यमिकमहायानिमतानुरोधेन समलचित्तस्य निःस्वभावता तत्प्रभास्वरत्वं वा गोत्रमुच्यते। समस्तबुद्धगुणाश्रत्वादेतस्य। अवतंसकेऽपि बोधिसत्त्वानां गोत्रं धर्मधातुमयं गगनसदृशं विस्तृतं स्वभावतः प्रभास्वरमुक्तम्। इत्थम्मलयुक्तं तथागतत्त्वं बुद्धगोत्रमुच्यते। अयमेव विषयः सूत्रालङ्कारेऽपि -


सर्वेषाम्विशिष्टापि तथता शुद्धिमागता।

तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिनः॥ (९/३७)


महायानोत्तरतन्त्रेऽपि -


चित्तस्य याऽसौ प्रकृतिः प्रभास्वरा,

न जातु सा द्यौरिव याति विक्रियाम्।

आगन्तुके रागमलादिभिस्त्वसा-

वुपैति संक्लेशमभूतकल्पजैः॥ (१/६३)


समाधिराजसूत्रे निखिलजगतः सुगतगर्भव्याप्तत्वं प्रतिपादितमेतदप्युक्तं - इदमशेषं जगत् बुद्धकारकं वर्तते। यथा तिले तैलं पयसि च नवनीतं समाहितं, तथैवेदं प्राणिमात्रे प्रभास्वरानिरुद्धानास्रवस्वभावे अवतिष्ठते। एतन्निमितं प्रदर्शयतोत्तरतन्त्रे कथितम् - 


सम्बुद्धकायस्फरणात् तथताव्यतिभेदतः।

गोत्रश्च सदा सर्वे, बुद्धगर्भाः शरीरिणः॥ (१/२८)


एतदग्रे वज्रयाने आश्रयतन्त्रं स्वभावतो निराभोगमण्डलत्वेनाङ्गीकृत्म्। अविकारिमहासुखं सर्वाकारवरोपेता शून्यता, तदद्वयत्वं त्रिकायासंहार्याभेदमहामण्डलमेव गोत्रं तन्त्रं वास्ति। एतन्महामुद्राबोधिचित्तनामभ्यामपि सम्बुद्ध्यते। यथा - 


यथेन्धनं समाश्रित्य तेजोबीजं तु संस्थितम्।

तिलेषु वा यथा तैलं रस इक्षोः प्रकल्पितः॥

पुष्पेषु वा यथा गन्धो दघ्नि वा नवनीतकम्।

सर्वत्र सर्वसत्त्वेषु स्थावरे जङ्गमेषु च॥

रूपरूपगता चापि महामुद्रा प्रतिष्ठिता।

(ज्ञा. सि. पृ. १४३)


आश्रयरूपेण बोधिचित्तमपि व्यक्तीकृतम्।


यथा श्रीसमाजोत्तरतन्त्रम् -


अनादिनिधनं शान्तं भावाभावाक्षयं विभुम्।

शून्यताकरुणाभिन्नं बोधिचित्तमिति स्मृतम्॥ (१८/३७)


अत्र प्राणिमात्रस्य बुद्धत्वावाप्तिकामनामात्रं बोधिचित्तं न कथितम् अपि तु प्रभास्वरचित्तवज्रस्यैव बोधिचित्तत्वमाख्यातं तद्भावनाऽपि निरदेशि। उपर्युक्त - श्लोकस्य व्याख्यायां ज्ञानसिद्धौ न्यरूपि -


“एतदुक्तं भवति - सर्वधर्मस्वभावज्ञो योगी सर्वतथागतैः सह अन्योन्य (व्याप्य) व्यापकभावेन सदा स्थितो बुद्धकृत्यकरः। सर्वसत्त्वेषु महाकरुणा प्रमाणानुगतं बोधिचित्तं वज्र इत्यर्थः। अनेन भावनाप्येवं कर्तव्येति निदर्शितम्। बोधिचित्तमिति स्मृतमिति अशेषयोगतन्त्रेष्वेवमभिप्रापयति। आदिकर्मिकादीनां तु बोधिचित्तं सर्वसत्त्वाननुत्तरायां सम्यक्सम्बोधौ प्रतिष्ठापयामीति चित्तमात्रम्” (ऱ्. १३५)


महामायातन्त्रस्य गुणवतीतिटीकायां बोधिचित्तं हेतूपायफलत्वेनापि वर्णितम् -


त्रिविधं तन्त्रम् - हेतुतन्त्रम्, फलतन्त्रम्, उपायतन्त्रं च। तत्र प्रकृतिप्रभास्वरमनादिनिधनं चित्तं बोधिचित्तम्, सहेतुस्तद्बीजम्। कस्य बीजम् ? बोधेः सम्यक्सम्बोधिः फलम्, निरुत्तरफलत्वात्.....एतान् हेतुफलोपायानधिकृत्य वे देशनाप्रबन्धास्ते यथाक्रमं हेतुतन्त्रं फलतन्त्रमुपायतन्त्रं वा।


प्रतिपादनेनानेन सुस्पष्टं यदभिधेयदृष्ट्या चित्तमाधारीकृत्य यथा तन्त्रस्य भेदत्रयं तथैवाभिधानदृष्ट्या चित्तस्योक्तत्रिविधावस्थाप्रतिपादकं तन्त्रशास्त्रमपि त्रिविधमस्ति।


उपर्युक्ततन्त्रस्वरूपविवेचनेन सुस्पष्टं यत् चित्ते चित्तसंततौ प्रवाहे वा विभिन्नबौद्धमतावलम्बिभिरात्मसामर्थ्यानुसारं चित्तस्वरूपे नानाविधा गुणाः प्राप्ताः अथवा तद् नैकेष्वर्थेषु दृष्टम्। संक्षेपेणेदं स्वीकार्य्यं यत् चित्तस्थितिः अविरताऽस्ति, तदभावे न किमपि कर्तुं शक्यं नापि च किञ्चिद् भवितुं शक्यम्। सरहपादो वक्ति - 


चित्त के अभाव मे धर्म किसने समझा,

चित्त और धर्म में सारा प्रतिभास

ढूँढें तो न लहैं गवेषक पूर्व से नहिं,

अभाव त्रिकाल (में) अजात अनिरुद्ध।

(राहुल दोहाकोश, हिन्दि छया, पृ. २५३)


मन्त्रयानस्य पर्यायवाचिशब्दाः


वज्रयानस्य कृते मन्त्रयानं, फलयानञ्चाथवोपाययानञ्चाभिधीयते। हेतुः पारमितानयः फलं च मन्त्रनयो वर्तते। हेतुफलयोरर्थात् - प्रज्ञोपाययोरभिन्नतैव वज्रमास्ते।


वज्रेण शून्यता प्रोक्ता, सत्त्वेन ज्ञानमात्रता।

तादात्म्यमनयोः सिद्धं, वज्रसत्त्वस्वभावता॥ (अद्वयवज्रसंग्रहः, पृ. २४)


शून्यताकृपयोर्भेदः प्रदीपालोकयोरिव।

शून्यताकृपयोरैक्यं, प्रदीपालोकयोरिव॥


भावेभ्यः शून्यता नान्या, न च भावोऽस्ति तां बिना।

अविनाभावकमियत् कृतकानित्ययोरिव॥ (अद्वयवज्रसंग्रहः, पृ. २४)


इमामद्वयवज्रीयामुक्तिमाश्रित्य वज्रस्य वज्रसत्त्वस्य वा प्रापको मार्गः यानमेव वा वज्रयानमित्युच्यते। हेतुफलयोरभिन्नत्वप्रतिपादकं शास्त्रं वज्रयानमभिधीयते। गुह्यसमाजे चाप्यभिहितं-रागद्वेषमोह-परिशोधयितृ शास्त्रं वज्रयानम्। अथवा-कायवाक्चित्तपरिशोधकं शास्त्रं वज्रयानम्। कायवाक्चित्तानामभिन्नत्वप्रतिपादने नैव वज्रयानमिदमुच्यते।


इदं गुह्यमन्त्रयानं चोद्यते अयोग्यपात्राणां गुह्यं च भवति योग्यसाधकैरत्रोपदिष्टमन्त्रमुद्राभिः सिद्धिरवाप्यते। गुह्यसमाजे चोक्तम् -


प्रतीत्योत्पद्यते यद्यदिन्द्रियैर्विषयैर्मनः।

तन्मनो मननं ख्यातं, कारकत्राणनार्थतः॥

लोकाचारविनुर्मुक्तं, यदुक्तं समयसंवरम्।

पालनं सर्ववज्रैस्तु मन्त्रचर्येति कथ्यते॥ (१८.६९-७१)


अर्थादिन्द्रियविषयचक्षुर्विज्ञादिजं ज्ञानमेव मन उच्यते। इत्थमेवाभिधर्मकोशेऽपि न्यरूपि। विषयाणां नानापकारकगुणगोषेषु वासक्तं मनः भवचक्रकारणं जायते। मन्त्रनयोपदिष्टविधिना तन्मनः रक्षितुं शक्यते। मननादयं मन्त्रः भवचक्रं विनाश्य रक्षति तस्मात्, तेनैवायं मन्त्रो निगद्यते। सर्वे भाजनलोकाः, इष्टदेवस्य विमानानि, सर्वे च सत्त्वलोका इष्टदेवाः सर्वे चापि शब्दा इष्टदेवस्य मन्त्राः। सर्वाः कल्पनास्तर्कवितर्काचेष्टदेवस्य चित्तवृत्तयः। एवं लोकोत्तरव्यवहारनिदर्शकं मार्गं प्रतिपाद्य तदुन्मुखकारकं यानमेव मन्त्रयानमास्ते।


व्यक्तभावानुगततत्त्वसिद्धावपि विषयस्यास्य वर्णनमित्थम् -


ते सर्व एव मुद्राप्रकाराः येऽपि च वाग्विक्षेपास्ते मन्त्रप्रकाराः।


सर्वतथागततत्त्वसंग्रहेऽपि -


अनतिक्रमणो च हि दुर्भेद्यो गुह्य एव च।

मन्त्र्यते गुह्यसिद्धत्वं मन्त्रस्तेन निरुच्यते॥ (पृ २०६)


इदं फलयानश्चाभिधीयते। यतः कायोपभोगदेशकर्माद्यवस्थासु यथेदमुपलभ्यते फलं तथैवास्यमार्गावस्थायामपि भावनाया व्यवस्था वरीवर्ति।


इदमुपाययानं चाप्युच्यते, यतः पारमितायानापेक्षया नैक उपायाः सुगमा मार्गाश्चास्मिन् न्यरूप्यन्त। अस्माच्च त्वरितगत्या वज्रधरपदं प्राप्यते।


तथा च विनयप्रदीपे त्रिपिटकमलाचार्यस्य वचनम् -


एकार्थत्वेऽप्यसंमोहाद्, बहूपायाददुष्करात्।

तीक्ष्णेन्द्रियाधिकाराच्च, मन्त्रशास्त्रं विशिष्यते॥


तन्त्राणां वर्गीकरणम् -


विद्वद्भिस्तन्त्रसाधनायाः स्वातन्त्र्येण नैके भेदा विहितास्तेषां च संक्षिप्तं विवरणं दीयमानं वर्तते -


सम्पुटतन्त्रस्य टीकायाम् आम्नायमंजर्याम् अभयाकरगुप्तेन बाह्याभ्यन्तरभेदाभ्यां तन्त्रं विभज्य क्रियातन्त्रं चर्यातन्त्रं च बाह्यतन्त्रत्वेनैवं योगानुत्तरतन्त्रं चाभ्यन्तरतन्त्रत्वेनाभिधाय भागद्वयमकारि। कोंटुल रिनपोछे इत्याख्यभोटविदुषा प्रदीपोदय - वचनानि समुद्धृत्योत्पन्नक्रमस्य निष्पन्नक्रमस्य वा प्रतिपादकग्रन्था आभ्यन्तरतन्त्रत्वेन उत्पत्तिक्रमस्य च प्रतिपादकग्रन्था बाह्यतन्त्रत्वेन न्यगद्यन्त। आर्यत्रैलोक्यः विजयनामवृत्तौ कथयमास-बहुविकल्पिनां क्रियातन्त्रं एकाग्रचित्तवतां च योगतन्त्रमस्ति। ये चोभयतन्त्रं स्वीकुर्वते ते त्रुटिं विदधते, यतश्चोभयतन्त्रयोरपि क्रियातन्त्रस्य देवानतिरिच्य नान्ये देवा उपलभ्यन्ते, अतः तन्त्रस्य द्वावेव भेदौ सम्भाव्येते न तु त्रयश्चत्वारो वा। बुद्धेन वज्रगर्भालङ्कारे तन्त्रस्य क्रियातन्त्र-चर्यातन्त्र(उभयतन्त्र) योगतन्त्रनामानस्त्रयो भेदा अभिहिताः। वज्रामृततन्त्रटीकायां क्रियातन्त्र-योगतन्त्र-गुह्यतन्त्रनामानः त्रयो भेदा अवर्ण्यन्त। वज्रपञ्जरेऽपि प्रत्यपादिबुद्धेन स्वबुद्धिस्तरानुरूपमेवाधमस्य क्रियातन्त्रं, मध्यमस्य चर्योत्तमस्य च योगतन्त्रमत्युत्तमस्य चानुत्तरयोगतन्त्रमुपादेशि। 


सम्पुटतन्त्रे -


हासदर्शनपाण्याप्तिः स तु तन्त्रे व्यवस्थितः।

रागश्चैव विरागश्च, चर्वयित्वा घुणः स्थितः॥ (६/३/४९)


रागस्यैतच्चतुः प्रस्थानानुसारन्तन्त्रस्य भेदचतुष्टयं प्रतिपादितम्। श्रद्धाकरो वर्मा अनुत्तरयोगावतारे योगतन्त्रमाभ्यन्तरसमाधि-बाह्यचर्याभेदाभ्यं द्विधा व्याख्यातवान्। इत्थन्तत्र तन्त्रस्य-क्रिया-चर्योभययोगानुत्तरयोगतन्त्राख्याः पञ्च भेदा निरूपिताः। शान्तिपादेनापि त्रियानव्यवस्थाया मेतत् क्रियाचर्यायोगमहायोगानुत्तरमहायोगनामकेषु पञ्चसु भागेषु व्यभज्यत। डाकार्णवतन्त्रेऽपि पञ्चैव भेदाः, यथा च - क्रियातन्त्रं चर्यातन्त्रं महायोगतन्त्रं योगतन्त्रं महानुत्तरतन्त्रं च। वज्रज्ञानसमुच्चयतन्त्रे चापि पञ्चात्मिका संख्याऽभिहिता यथा - क्रियातन्त्रचर्यातन्त्रोभयतन्त्रकल्पतन्त्रयोगतन्त्राणि च। काह्णपादोऽपि योगरत्नमालायां सर्वमन्त्रनयसिद्धौ पञ्चविधक्रियाचर्यायोगयोगोत्तरयोगानुत्तरभेदेन इत्यभिधाय पञ्चभेदान् प्रत्यापादयत्। त्रिपटकमलोऽपि क्रियामूलचर्यायोगयोगगुवर्नुत्तरयोगाख्यषट्सु भागेष्वेतदभाङ्क्षीत्। पण्डित-अलंकलशेनापि प्रत्यपादि-भगवता बुद्धेन निर्दिष्टं समग्र-तन्त्रं पञ्चभागेषु विभक्तम्-तन्नामानि च क्रियातन्त्र-चर्यातन्त्र-योगतन्त्रानुत्तरतन्त्रानुत्तरमातृयोगतन्त्राणि। बोधिपथप्रदीपस्य स्ववृत्तौ दीपङ्करश्रीज्ञानेनापि क्रियाचर्याकल्पोभय-योग-महायोगानुत्तरयोगतन्त्र-नामकेषु सप्तसु भागेष्वेतद् विभक्तम्। भोटदेशीयञ्यिङ्मासम्प्रदायेऽपि क्रिया-चर्या-योगानुत्तराख्यं भेदचतुष्टयं प्रतिपाद्य पुनः अनुत्तरयोगतन्त्रस्यानुयोगातियोगमहायोगाख्यं भेदत्रयमभिधाय भेदसप्तकमिदं स्वतन्त्रयानत्वेनाभिमतं पुनः श्रावकयानपारमितायानाभ्यां सह याननवकं तत्र व्यवस्थापितम्। बुस्तोनमहोदयः-क्रिया-चर्यायोगतन्त्रानुत्तरयोगतन्त्राणां ग्रन्थानां पितृतन्त्रं मातृतन्त्रमद्वयतन्त्रञ्चेति भेदत्रयं विधाय तन्त्रग्रन्थान् समग्रान् सप्तभागेषु विभज्य सूचिपत्रं निरमासीत्। 


तन्त्रदेशनायाः प्रयोजनम् -


भगवान् बुद्धो न केवलं मानवजातेरेवापि तु प्राणिमात्रस्य हितमुत्थानं च चकांक्ष। विनयपिटके बौद्धभिक्षून् प्रत्युक्तिः-‘चरथ भिक्खवे चारिकं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं’ (१-२१_ अतोऽग्रे बौद्धविध्वद्भिरियमेव प्रवृतिरन्वकारि सत्त्वानां संग्रहाय मार्गदर्शनाय नानामतानि प्रतिपाद्य तानि चानुशीलितानि।


महायानसूत्रालङ्कारे -


दानं समं प्रियाख्यानमर्थचर्या समार्थता।

तद्देशना समादाय स्वानुवृत्तिभिरिष्यते॥

उपायोऽनुग्रहकरो ग्राहकोऽथ प्रवर्तकः।

तथानुवर्तको ज्ञेयश्चतुः संग्रहवस्तुनः॥ (१६-७२/७२)


अर्थात् विनेयजनाननुग्रहीतुं दानं देयं ततश्च मधुर-मधुरवचोभिश्शिष्याभिलाभिषिणी देशना प्रदीयेत्, पुनः स्वयमपि तदेवानुसरणीयम् यादृशा विनेयजनाः समायान्ति, तद्विधैरुपायैर्धर्मदेशनाऽनुष्ठीयतेऽनान्यथा तेऽनुग्रहीतुं शक्यन्तेऽस्माभिः। चतुःशतकेऽपि व्याहृतम् -


नान्यया भाषया म्लेच्छः शक्यो ग्राहयितुं यथा।

न लौकिकमृते लोकः, शक्यो ग्राहयितुं तथा॥ (८.१९)


सम्यग्मार्गे विनेयजन-प्रवर्तनमेवोपदेशस्य प्रधानमुद्देश्यं भवेत्।


भाषा-विधि-विधानानि तु साध्यस्यावाप्तिसाधनानि उपायाश्च न च चरमं लक्ष्यम्। कालचक्र-विमलप्रभाटीकायामपि -


येन येन प्रकारेण सत्त्वानां परिपाचनम्।

तेन तेन प्रकारेण कुर्याद् धर्मस्य देशनाम्॥


योगी शब्दापशब्देन, धर्मं गृःनाति यत्नतः।

देशशब्देन लब्धेऽर्थे, शास्त्रशब्देन तत्र किम्॥

(लोकधातुपटलम्, पृ। २४_


पारमितानयस्यापेक्षया मन्त्रनये समुपदिष्टोपायानां वैशिष्ट्यमद्वयवज्रं इत्थन्निरदेशि - 


एकार्थत्वेऽप्यसमोहात् बहूपायाददुष्करात्।

तीक्ष्णेन्द्रियाधिकाराच्च, मन्त्रशास्त्रं विशिष्यते॥ (पृ। २१)


तन्त्रभेदप्रयोजनानि


विनेयजनानां बुद्धिस्तरानुरूपा चतुर्विधा देशना क्रियते तन्त्राणां, यथा च - यद्यपि क्रियादितन्त्रचतुष्टयस्य भेदतः फलबुद्धत्वे, मार्गावस्थायां बोधिचित्तोत्पादे, दशपारमिताचरणे, शून्यतादर्शने देवयोगभावनादिषु च नास्ति किमप्यन्तरं परं च चतुर्विधरागपरिशोधनं जातिचतुष्टयं क्लेशचतुष्टयं पुद्गलचतुष्टयं वासनाचातुर्विध्यं याम-युगाभिषेकचातुर्विध्यं चाश्रित्य विद्वद्भिस्तन्त्राणि भागचतुष्टये विभाजितानि।


१. रागस्य चत्वारः स्तराः, चतुर्धा च रागस्य मार्गीकरणं विधीयते अतः चतुर्षु भागेषु तन्त्रं व्यभज्यत। यथा च सम्पुटतन्त्रे बुद्धेन प्रत्यपादि -


हासदर्शनपाण्याप्तिः स तु तन्त्रे व्यवस्थितः।

रागश्चैव विरागश्च, चर्वयित्वा घुणः स्थितः॥ (पृ. ६-३-४९२)


अभिधर्मकोशेऽपि -


द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षणमैथुनाः। (३/६९_


इत्युक्त्यायमेवार्थः प्रदर्शितोऽस्ति। बुद्धेन वजज्ञानसम्मुच्चये तन्त्राणां चतुर्विध-विभागस्यैतदेव तथ्यं हेतुत्वेन व्याह्रियत।


२. चतुर्वर्णसंस्कारं तन्मनोवृत्तिं च ध्यायता बुद्धेन चतुर्भागेषु तद् विभज्य देशनाऽनुष्ठिता। यथा च (क) सुबाहुपरिपृच्छासूत्रे निगदितं गुह्यमन्त्रस्य चर्याणां क्रमशोऽनुष्ठानेन साधकः क्लेशविनिर्मुक्तो जायते। ब्राह्मणजातिः एवंविधानि बाह्याचरणानि सेवितुं सातिशयं प्रेरयति तपो दुश्चर्याश्च परिहातुमभिधत्ते एवं चेदमेव मोक्षमुक्त्योर्मार्गं मन्यते। तेनेव अन्ये साधका जातयश्च-इत्थं चर्याः स्वीकुर्वते तान् अनुग्रहीतुं बुद्धः क्रियातन्त्रं दिदेश।


(ख) ये दुष्करीं तपस्यां न चिकीर्षन्ति नापि च लोके जुगुप्सिताश्चर्याश्चिकीर्षन्ति एवं वैश्यवर्गीयविनेयजनेभ्यः बुद्धश्चर्यातन्त्रमुपादिशत्। एते योगतन्त्रस्य पद्धत्यनुसारम् - आध्यात्मिकपद्धतिं न प्राप्नुवन्ति क्रियातन्त्रस्य च बाह्यविधिभ्यो दूरेतिष्ठासन्ति। अतः एतेभ्यो बुद्धः चर्यातन्त्रं दिदेश, यस्मिंश्च उक्तोभयतन्त्रयोर्देशना विद्यते। एते च चिन्तने योगतन्त्रस्यैव चर्यायाञ्च क्रियातन्त्रस्यैव साधनानुष्ठानिन उभयतन्त्रिणः उच्यन्ते।


(ग) क्षत्रियाः येऽपि वा नरा तपस्यादिदुष्करीचर्यां न चिकीर्षन्ति, अर्थात् कामादिगुणेषु लिप्तिं वाञ्छन्ति, तेभ्यश्च तदुच्चसज्जानुरूपमेवाभिषेकादिविधिं निरूप्य बुद्धेन योगतन्त्रम् आदेशि। इत्थम् तत्त्वसंग्रहस्य आर्यत्रैलोक्यविजयनामवृत्तौ विस्तरेण प्रत्यपाद्यत।


(घ) शूद्रा येऽपि वा नरा पेयापेययोर्गभ्यागम्ययोः शुभाशुभयोश्च भेदमकृत्वा निर्विकल्पतः पञ्चामृतं पञ्चमहामांसं च भक्षयतुमर्हन्ति सामान्यतश्च ये साधका विष्ठामूत्रादीनि दुग्धवद् निःसङ्कोचं ग्रहीतुं शक्नुवन्ति, एतादृशसाधकेभ्यः बुद्धेन सन्घ्याभाषायाम् अनुत्तरयोगतन्त्रमुपादिश्यत। तेभ्यश्च न किमपि बन्धनं वर्तते, एवं हेवज्रतन्त्रे सम्पुटतन्त्रादौ बहुशः प्रतिपादितम्।


३. विनेयजनेषु चतुर्णां क्लेशानां प्राधान्यं भवति, एतत् क्षयायापि तन्त्राणि चतुर्भागेषु विभक्तानि। अतिमूढजनाय क्रियातन्त्रम्, अत्यल्पमूढजनाय चर्यातन्त्रं, द्वेषमोहाद्युक्तजनाय योगतन्त्रं, राममोहसमन्विताय विनेयजनाय च अनुत्तरयोगतन्त्रमुपदिदेश।


४. बुद्धिस्तरानुरूपं चतुर्विधतन्त्राणां देशना विद्यते। यथा हीनबुद्धिमतां क्रियातन्त्रं, तदुच्चवतां चर्यातन्त्रं, श्रेष्ठजनाय योगतन्त्रं, अतितीक्ष्णेन्द्रियविनेयजनायानुत्तरयोगतन्त्रं च बुद्धः अदिक्षत्। ये पुद्गला मन्देन्द्रिया बाह्यस्नानाद्यभिलाषिणस्तेषां कृते चित्रलिखितायां द्रव्यनिर्मितायां वा मूर्तौ देवताया भावनं पूजनं च क्रियातन्त्रे निर्दिष्टम्। मध्यमेन्द्रियपुद्गलानां बाह्यरूपेण च देवताभावनाचर्यामनुष्ठातुं चर्यातन्त्रम्। तदुत्तमसाधकानां कृते ज्ञानादेवावाहनपूर्वकं तस्य च भाव्यमानसमयदेवे विलयनं देवयोगभावनायै योगतन्त्रं, सर्वश्रेष्ठपुद्गलेभ्यो ह्यनुत्तरयोगतन्त्रं निर्दिष्टं, यत्रोत्पत्तिक्रमोत्पन्नक्रमयोर्देशना तदनुत्तरयोगतन्त्रमभिधीयते।


५. चतुर्वासनानां क्षयायापि चतुर्विधतन्त्राणां देशना कृता यथा च काल्चक्रतन्त्रे -


प्रज्ञातन्त्रं हि पूर्वात् पुनरपरमुखादेव योगानुविद्धं

सव्यास्याद् योगतन्त्रं गदति जिनपतिर्वामवक्त्रात् क्रियाद्यम्।

योगाचारं हि पूर्वात् पुनरपरमुखान्मध्यमं वै समस्तं

सूत्रान्तं सव्यवक्त्राद् गदति सितमुखात् शुद्धवैभाषिकं च॥ (५/४८)


निद्राभङ्गे सति निन्दावसनया बाह्यजगत्यभिनिवेशस्य प्रहाणाय वाममुखेन क्रियातन्त्रं, दक्षिणमुखेन स्वप्रवासनया प्रभाविते चित्ते आभासमात्रस्याभिनिवेशं प्रहातुं चर्यातन्त्रम् अभिमुखेन अतिनिद्रावासनया बाह्यविकल्पेभ्यः दूरिभूय प्रकटिताभिनिवेशानां प्राहाणाय योगतन्त्रं, पृष्ठमुखेन वासनावशात् सर्वसूक्ष्मविकल्पाभिनिवेशवासनाजन्यधर्माभिनिवेशप्रहाणाय प्रहाणार्थम् अनुत्तरतन्त्रं च देशितम्।


६. यस्मिन् तन्त्रे जलघटभिषेकविधानमात्रं तत्क्रियातन्त्रं यत्र च वज्रघण्टाऽऽदर्शधर्मदेशनानुज्ञाद्यभिक्षेकविधानं तच्चर्यातन्त्रं, वज्राचार्यादिकलशसम्बद्धैकादशाभिषेकविधायकं हि योगतन्त्रं, यत्र गुह्यप्रज्ञाज्ञानचतुर्थाभिषेकविधानं तदनुत्तरयोगतन्त्रमुच्यते।


७. चतुर्युगानुसारमपि तन्त्रचतुष्टायस्य देशनाऽभिमन्यते। यथा सत्यत्रेताद्वापरकलियुगेषु क्रमशः क्रिया-चर्या-योगानुत्तरयोगतन्त्राणां देशना भगवता विधीयते।


८. रागस्याऽयामचतुष्टयमार्गीकरणार्थमपि क्रियातन्त्रप्रभृतिकं तन्त्रचतुष्टयं देशितम्। यथा हासमार्गीकरणाय क्रियातन्त्रं, दर्शनस्य कृते चर्यातन्त्रं, पाण्याप्तिकृते योगतन्त्रम्, आलिङ्गनस्य च मार्गीकरणायानुत्तरयोगतन्त्रं देशितम्।


९. बौद्धानां वैभाषिकादिचतुः सिद्धान्तवादिनः अनुग्रहीतुमपि तन्त्राणां चत्वारो विभागाः अक्रियन्त। यथा वैभाषिकेषु बाह्यार्थसत्ता मन्यते ताननुग्रहीतुं प्रत्यक्षतः पटचित्रे न्यस्ते ज्ञानदेवमावाह्य तधृदये मन्त्रं सन्न्यस्य स्वयं च स्नानादिक्रियातः शुद्धीभूय सिद्धिःकाम्यते अतस्तेभ्यः क्रियातन्त्रं वर्तते। सौत्रान्तिकैर्ग्राह्यग्राहकयोः क्षणिकत्वमणुत्वं चाङ्गीक्रियते, अतस्ताननुग्रहीतुं चर्यातन्त्रम्, यस्मिंश्च स्वयं समयदेवं भावयित्वा स्वसम्मुखं ज्ञानसत्त्वमावाह्य तधृदये मन्त्रं सन्न्यस्य ईष्टदेवं मित्रसमं मत्वा सिद्धिमवाप्तुं विधिः प्रत्यपाद्यत। विज्ञानवादिनो बाह्यार्थं न मत्त्वा आभ्यन्तरिकग्राह्यग्राहकाद्वयस्वसंवेद्यं परमार्थं स्वीकुर्वन्ति, तेषां दर्शन-चिन्तनानुरूपं स्वसंवेद्यस्वरूपदेवं भावयित्वा तस्मिन् ज्ञानदेवं विलीय मन्त्रावृत्तिमनु ज्ञानदेवं विसर्जयन्ति यश्च योगतन्त्रस्य विधिरुच्यते। माध्यमिकाः संवृतौ विषयविषयिणोः द्वैतभावस्थितिं स्वीकृत्य परमार्थात्मिकां कांचिदपि सत्तां न मन्यन्ते। अतः स्वयं समयदेवं भावनाविषयीभूतं विधाय तस्मिन् ज्ञानदेवं विलीय विना विसर्जनमेव तिष्ठन्ति यच्चानुत्तरयोगतन्त्रस्य विधुरुद्यते। इत्थं-देवभावनायाः विभिन्नचतुर्विधिभिरपि तन्त्रशास्त्रं चतुर्षु भागेषु विभज्यते, एवं नागार्जुनादिसिद्धगणैरङ्गीक्रियते। तिब्बतीयविदुषामप्यभिमतमेतदेव।


तन्त्रशास्त्राणां त्रिपिटकत्वविचारः


किं भगवद्बुद्धेनोपदिष्टानि सर्वाणि वचनानि त्रिपिटके संगृहीतानि? सूत्रालङ्कारे एतदुत्तरमित्थम् -


पिटकत्रयं द्वयं वा संगृह्णतः कारणैर्नवभिरिष्टम्।

वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति॥ (११/१)


अर्थात् सर्वाणि द्वादशप्रवचानि (सूत्रगेयव्याकरणगाथोदानजातकवैपुल्याद्भुतधर्मप्रभृतीनि) पिटकत्रये संगृहीतानि, येषां च नवभिः कारणैः सिद्धिर्विहिता। किन्तन्त्राण्यपि त्रिपिटके संगृह्यन्ते ? विषायेऽस्मिन् विदुषां मतवैभिन्न्यं यथा च अभिधर्मकोशे वसुबन्धुना न्यगादि -


धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः।

तानि वाङ् नाम वेत्येषां रूपसंस्कारसंग्रहः॥


शास्त्रप्रमाण इत्येके स्कन्धादीनां कथैकशः।

चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः॥ (१/२५-२६)


अशीतिः सहस्राणि धर्मस्कन्धा बुद्धेनोपादिश्यन्त। किन्तत्स्वरूपमेतन्निर्णयोऽत्र नानुष्ठीयते। धर्मस्कन्धः कः ? इत्येतद् विचारयिष्यते येन च बुद्धेन विहितानाम् अशीतिसहस्रधर्मस्कन्धानां प्रवचनाशयस्य प्रतीतिर्भवेत् पिटकव्यवस्थापि वर्णिता स्यात्। तथ्यमिदमभिधर्मकोशव्याख्यायां स्पष्टीकृतम्। धर्मस्कन्धस्य किं प्रमाणं ? यच्छास्त्रस्य प्रमाणं तदेवास्य प्रमाणमिति केषांचिन्मतम्। धर्मस्कन्धसंज्ञकस्याभिधर्मकोशस्य प्रमाणं षट्सहस्रमिता गाथाः सन्ति। किञ्चित्स्कन्धानाम् एकैका गाथा एकैकः धर्मस्कन्ध एव। अन्ये तु - स्कन्धायतनधातुप्रतीत्यसमुत्पादार्यसत्याहारध्यानाप्रमाणारूप्यविमोक्षप्रणिधिप्रणिधिज्ञानप्रभृतीन्यैकैकान्याख्यानानि एकैकाः धर्मस्कन्धाः वर्तन्ते।


स्वमतं प्रदर्शयता वसुबन्धुनाभिधीयते - प्रत्येकं धर्मस्कन्धः एकैकस्य चरितस्य विनेयजनानां प्रतिपक्षायानुवर्णितः। अतश्चरितभेदेन सत्त्वानां संख्याऽशीतिसहस्रमिता। कश्चिद्रागचरितः अन्यश्च द्वेषचरितस्तर्हि कश्चिन्मोहचरितः कश्चिच्च मानचरितः। भगवताऽशीतिसहस्रधर्मस्कन्धाः सत्त्वानां क्लेश-प्रतिपक्षे देशिताः।


महायानिभिश्चतुरशीतिसहस्रमिता धर्मस्कन्धा मन्यन्ते ते च तत्त्वसाक्षात्कारायोपदिष्टा इत्यभिमन्यते। चीनीभाषायामामनूदिते “कृतो ऋण” सूत्रे महायानिनः अनन्तधर्मस्कन्धा बभूवुरित्येषा वार्ता समुक्ता, अन्यच्चेदमपि यद् देवदत्तस्य पञ्चसहस्रगजानां भारोपमप्रमाणवन्तः सूत्रग्रन्था कण्ठस्था आसन्। एतेन सिध्यति - पारमितायाने सूत्रसंख्याऽपरिमिताचासीत्।


वज्रयानेऽपि रागस्य दमनाय एकविंशतिसहस्रमितानि विनयपिटकानि द्वेषस्य च दमनाय एकविंशतिसहस्रसूत्रपिटकानि मोहस्य प्रतिपक्षे एकविंशतिसहस्राभिधर्मपिटका सामान्यरूपेण च सर्वावरणक्षयायैकविंशतिसहस्राणि चतुर्थपिटकान्यर्थात् चतुरशीतिसहस्रमितधर्मस्कन्धाः बुद्धेन देशिता मन्यन्ते। तन्त्रग्रन्थः चतुर्थपिटकः सूत्रान्तो वोच्यते। मङ्जुश्रीमूलकल्पेऽपि - 


यो हीमं सूत्रवरं मुख्यं धर्मकोशं जिनोर्जितम्।

प्रतिक्षेप्तारो भुवि मर्त्या वा अवीचौ नरकान्तकौ॥ (५४/७५)


पुनस्तत्रैव -


यत्र तत्र गतिर्याति कुमतिस्तत्र जायते।

प्रतिक्षेपादिदं सूत्रं तत्र तत्रोपपद्यते॥ (५४/८१)


अर्थात् तन्त्रं सूत्रस्य सुत्रान्तपिटकस्य चान्तर्गतम्मन्यते।


गुह्यसिद्धावपि -


क्रियाचर्यादिभेदेन, सूत्रान्तपिटकादिभिः।

एकमेव परं शुद्धं नैकाकारं व्यवस्थितम्॥ (१/२९)


प्रज्ञोपायसिद्धावप्यभिहितम् -


तथा त्रैयध्वसम्बुद्धैर्जगदानन्दकारकैः।

आख्यातोऽनेकसूत्रान्तमन्त्रचर्यादिषु क्रमात्॥ (२/४)


अतश्चतुर्थपिटकं सूत्रान्तं भवितुं शक्यम् यतो हि विद्वद्भिरन्यैरपि तन्त्रं सूत्रान्तपिटकस्य विद्याधरपिटकस्यान्तो मतम्। श्रद्धावर्मणाऽपि मन्त्रयानं त्रिपिटके च सम्मेलितम् अपि तु विद्याधरपिटकं चेदमुच्यते। यतश्चेदं महायानि-पिटकम् विशिष्टं स्थानमादधाति विद्याधरपदप्राप्त्यै नैके उपाया समुपबृंहिताश्चात्र। अतश्चतुर्थपिटकस्य विद्याधरपिटकत्वमुच्यते। यथा च विनयपिटकधारको विनयधरः सूत्रपिटकधारकाश्च सूत्रधरादयः कथ्यन्ते तथैव च तन्त्रपिटकधारको विद्याधरो मन्यते।


बुद्धगुह्येनापि तन्त्रमिदं देवमन्त्रयोरभिन्नत्वं प्रतिपादयतीत्युक्तम्। अभयाकरगुप्तेन सुबाहुपरिपृच्छासूत्रं समुद्धरता प्रावोचि देवासुराणां हिताय गुह्यमन्त्रः विद्यामन्त्रादिषु नैकेषु भेदोपभेदेषु पञ्चलक्षतोऽप्यधिकानि विद्याधरपिटकानि समुपादिश्यन्त तथा चेदं चतुर्थपिटकम् चोच्यते। शान्तिपादो वैपुल्यसूत्रेषु तन्त्रोपदेशेन तेषां सूत्रपिटकान्तर्गतत्वं मनुते, वक्ति च यत् द्वादशाङ्गप्रवचनधर्मेषु देशितत्वादेतानि सूत्राणि च सन्ति। योगरत्नमालायामपि - “अवदानशतकत्रिदण्डकमालादिकंसूत्रान्तमिति अनभिगम्भीराणि सूत्राणि सूत्रान्तानि एकगाथा-चतुर्गाथा उपधारिणी षण्मुखी भद्रचर्या ललितविस्तरदशभूमिकादीनि’ इत्यादि, कथितम्।


शान्तिपादोऽभिधत्ते यत् सामान्यतो वयं बुद्धशिक्षाः शीलसमाधिप्रज्ञाख्यस्कन्धत्रये विभज्य त्रिपिटकं व्याख्यामस्तर्हि तन्त्राण्यपि पिटकत्रये अभिधेयदृष्ट्या सम्मिलितानि भवन्ति। यथा च तन्त्रेषु यत्र समय-संवराणां निर्देशः विनयपिटके, धर्माणां स्वलक्षणानि सामान्यलक्षणानि च यत्र प्रतिपादितानि, तान्यभिधर्मपिटके, गूढार्थादिकं (समाधेः) यत्र प्रतिपादितं तत्सूत्रपिटके संगृहीतम्मन्यते। रङ्जुङ् दोर्जे एतच्चतुर्थपिटकं मन्यते एतस्मिन् पिटकत्रयस्य विषयसमावेशत्वात्। तस्माद् विद्याधरपिटकस्य शीलप्रज्ञासमाधिप्रतिपादकत्वात्तस्य चतुर्थपिटकत्वं कथ्यते। पुनरपि बुद्धगुह्यमते गम्भीरार्थस्य संक्षेपेण वर्णितत्वादेतत् सूत्रपिटकेऽपि संग्रहीतुं शक्यते।


तन्त्रवर्गीकरणमभिधानदिशा


अभिधानदृष्ट्या विद्वद्भिस्तन्त्राणां वर्गीकरणमित्थं व्यधायि-बुस्तोनमहोदयेन मूलतन्त्रोत्तरतन्त्रोत्तरोत्तरतन्त्रसंग्रहतन्त्रोत्तरिकतन्त्रव्याख्यातन्त्रसभागीयतन्त्राणां नाम्ना तन्त्राणि सप्तभागेषु व्यभज्यन्त। उदाहरणत्वेन-चक्रसंवरस्य लक्षैकपरिच्छेदयुक्तो मूलतन्त्रग्रन्थः लक्षैकश्लोकवद् उत्तरोत्तन्त्रम्, एकपंचाशत् परिच्छेदसहितं उत्तरोत्तरतन्त्रम्, योगिनीसंचर्यासंग्रहतन्त्रम्, वज्रडाकार्णवव्याख्यातन्त्रम्, बुद्धकपालोत्तरिकतन्त्रं सम्पुटोद्भवसभ्गीयतन्त्रं चास्ति।


पद्मकर्पो तन्त्रे प्रवेशभेदानुसारं मूलतन्त्रपरीक्षातन्त्रोत्तरतन्त्रोत्तरोत्तरतन्त्र व्याख्यातन्त्र-गर्भतन्त्रफलतन्त्रात्यद्भुततन्त्रनामभिस्तन्त्राण्यष्टसु भागेषु विभाजितानि।


शाक्यसोदनमचेमो महोदयेन तन्त्रस्य मूलतन्त्रसंग्रहतन्त्र-व्याख्यातन्त्रोत्तरतन्त्र उत्तरोत्तरतन्त्रप्रभृतयः ये पञ्च भेदा व्यधीयन्त, तन्मूलतन्त्रं वर्तते। यन्मूलमाधारीकृत्य व्याख्यारूपेण समुपादेशि, तद्व्याख्यातन्त्रं व्याहृयते। उभयस्य च द्वौ द्वौ भेदौ, यथा - 


मूलविस्तारतन्त्रम् मूलसंग्रहतन्त्रं च।

सामान्यव्याख्यातन्त्रमसामान्यतन्त्रं च।


(क) मूलविस्तारतन्त्रं तत्तन्त्रमुच्यते यदुपदेशः स्वयं बुद्धेन विनेयजनहिताय चक्रे। यद्विष्णुशिष्याणां प्रयोजनेनोपदिष्टं तत् संग्रहमूलतन्त्रं निगद्यते। विभिन्नतन्त्राणामाशयस्पष्टकारितन्त्रं सामान्यव्याख्यातन्त्रमुच्यते। यच्च किञ्चिद् विशेषमूलतन्त्राशयान् स्पष्टीकुरुते तदसामान्यव्याख्यातन्त्रम्।


(ख) षड्भिर्हेतुभिर्व्याख्यातन्त्रमुच्यते - १. मूलतन्त्रगूढाशयं स्पष्टायति। २. अपूर्णविषयं पूरयति। ३. विभिन्नविधीन् प्रतिपादयति। ४. संक्षिप्तविषयान् विस्तारयति। ५. सारांशं बोधयति। ६. शदार्थं सुस्पष्टं व्याख्याति। इमे भेदाः केवलमनुत्तरतन्त्रस्य ग्रन्थेषूपलभ्यन्ते, क्रियादितन्त्रेषु च सर्वे भेदा नोपलभ्यन्ते। यथा च क्रियातन्त्रे मूलतन्त्रोत्तरतन्त्रोत्तरोत्तरतन्त्रव्याख्यातन्त्रनामकाश्चत्वारो भेदा उपलभ्यन्ते। चर्यातन्त्रे मूलतन्त्रोत्तरतन्त्रोत्तरोत्तरतन्त्राख्या भेदा वर्तन्ते। योगतन्त्रे च मूलतन्त्रोत्तरतन्त्रव्याख्यातन्त्रेति भेदत्रयमुपलभ्यते। खसडुबजे इत्यनेन योगतन्त्र उत्तरतन्त्रस्य स्थाने सभागतन्त्रं परिगण्यते। इत्थन्तन्त्राणामाभ्यन्तरभेदा नैके सन्ति, एते च सर्वे सूत्रपिटके संगृहीतास्सन्ति।


बुद्धत्वावाप्तेर्विभिन्ना अध्वानः


भगवता बुद्धेन नानाविधविनेयजनेभ्यः स्वाध्याशयाभिरुचिसामर्थ्यानुसारं विविधोपाया विभिन्ना धर्मा उपादिश्यन्त। बुद्धः यच्छिष्येभ्यो यदुपायं मार्गञ्च दिदेश स्वयं बुद्धोऽपि तदेव मार्गमनुसृत्य बुद्धत्वावाप्तिं स्वीचकार, येन च विनेयजनास्तन्मार्गं निष्ठया समर्पितभावेन चानुशीलयन्तु। नास्त्यत्र संशीतिलेशो यत् श्रावकयानिमहायानिवज्रयानिनश्च स्वस्वविभिमार्गानुरूपमेव बुद्धत्वं स्वीकुर्वन्ति एवं च स्वतन्त्रैकव्यवस्थां प्रतिपादयन्ति।


१. श्रावकयानेऽपि यानत्रयव्यवस्थोपलभ्यते। यथाऽभिधर्मकोशे प्रत्येकबुद्ध-सम्यक्सम्बुद्धप्रादुर्भावविषये समुक्तम् -


बुद्धत्वमपकर्षे तु शताद् यावत्तदुद्भवः।

द्वयोः प्रत्येकबुद्धानां खड्गः कल्पशतान्वयः॥ (३.९४)


खड्गः शतकल्पपर्यन्तं बोधिसम्भाराय (शीलसमाधिप्रज्ञाभ्यः) प्रयतते स चान्तिमजन्मनि श्रुतागममन्तरेण स्वातन्त्र्येण बोधिं लभते। स्वयं मोक्षसाधितत्त्वादयं प्रत्येकबुद्धो यो हि परस्मै धर्मं न दिशति। तन्मार्गस्पष्टीकरणमभिसमयालङ्कारे यथा - 


परोपदेशवैयर्त्त्यं स्वयम्बोधात् स्वयम्भुवाम्।

गम्भीरता च ज्ञानस्य खड्गानामभिधीयते॥


शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा।

स सोऽर्थः ख्यात्यशब्दोऽपि तस्य तस्य तथा तथा॥


ग्राह्यार्थकल्पनाहानाद् ग्राहकस्याप्रहाणतः।

आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः॥ (२.६-८)


बोधिसत्त्वसम्बन्धेऽभिधर्मकोशस्य चतुर्थकोशस्थाने कर्मनिर्देशे चोक्तम् -


बोधिसत्त्वः कुतो यावद्यतो लक्षणकर्मकृत्।

सुगतिः कुलजोऽध्यक्षः पुमान् जातिस्मरोऽनिवृत्॥ (४.१०८)


स तत्कर्मकर्ता द्वात्रिंशल्लक्षणानि समुत्पादयते। स च नियतो बोधिसत्त्वस्तदनु जम्बूद्वीपे पुरुषभावमाक्षिपति। बोधिचिन्तकस्त्र्यसंख्येयकल्पान्तं पुण्यसम्भारं चिनोति। एकासनस्थः प्रयोगमार्गतः अशैक्षमार्गान्तं सर्वज्ञानानि साक्षात्कृत्य बुद्धो जायते। एवं श्रावकयानीयाभिधर्मकोषानुसारं नेयं मान्यता यत् बुद्धो नैककल्पपूर्वमेव बोधिमुपलेभे तथा सिद्धार्थस्य पुनः संसारे जन्म-गृहत्यागाभिनिष्क्रमणतपस्याबोधिलाभादिकं लीलात्वेन महायानिमान्यतानुसारेण न स्वीक्रियतेऽपि तु असंख्यकल्पेषु सम्भारद्वयं संचित्य वैशाखपौर्णमास्यां यामचतुष्टये प्रयोग-दर्शनभावनामार्गं च साक्षात्कृत्य उषसि तेन बुद्धत्वमवाप्तम् इति मन्यते।


२. महायानम्


महायानिभिर्महायानोत्तरतन्त्रे प्रतिपाद्यानुरूपं बुद्धस्य बोधगयायां बोधिप्राप्तिर्नेयार्थमात्रं मन्यते, नीतार्थे च बुद्धः पूर्वत एव लब्धबोर्धिर्मन्यते। वज्रयानिभिर्नामसङ्गीतौ प्रतिपादितानुरूपम् अहेतुक आदिबुद्ध इव नो मन्यते तथैव पारमितायानिभिर्नाभिधीयतेऽपि तु बोधिचित्तमुत्पाद्य क्रमशः महायानमनुशील्य त्र्यसंख्यकल्पानामनन्तरं बुद्धत्वमवापि इति मन्यते। श्रावकयानिभिः स्वानुशीलनमार्गेण महायानिभिश्च स्वमार्गमनुशील्य बोधिरवाप्यतेति मन्यते। यथा च विशेषस्तवे बुद्धं सम्बोध्याभाणिभवता यन्मार्गमनुगम्य बुद्धत्वमवाप्यते स एव मार्गः स्वीयशिष्येभ्योऽपि निर्दिश्यते।


तन्त्रदेशनाया भेदाः


महायानं पारमितायानय-मन्त्रनयाख्येतिभागद्वये विभज्यते मन्त्रनयस्य च पुनः क्रियाचर्यायोगानुत्तरयोगतन्त्रप्रभृतयश्चत्वारो भेदा भवन्ति। मन्त्रयानस्य भेदचतुष्टयेऽस्मिन्नपि बुद्धस्य बोधि-प्राप्तिविधौ धर्मचक्रस्य च विधौ भिन्नत्वं वरीवर्ति।


क्रियातन्त्रम् 


क्रियातन्त्रानुसारं तथागतसर्वपुष्पनिर्देशसम्मुखं बोधिचित्तमुत्पाद्य मन्त्रचर्या शाक्यमुनिना समनुष्ठीयते। अनन्तकल्पेषु मन्त्रमनुसन्धाय पुण्यज्ञाने संचिन्वता तथागतेन पूर्णकश्यपे लोके समागमावधौ ब्राह्मणपुत्रस्य गुरुत्वावाप्तिं यावत् पुण्यं संचीयते तदनु च तत एव मृत्युमुपलभ्य तुषितलोके श्वेतकेतुरूपेणावतीर्य देवयोनिजानां धर्मोपदेशः क्रियते। ततश्च मनुष्यलोके उत्पद्य मनुष्ययोनिजानां कल्याणाय मार्गो निर्दिश्यते। मञ्जुश्रीमूलकल्पे विषयोऽयं विस्तरेण वर्णितः। बुद्धलीलासु प्रायेण सर्वमतेषु साम्यं दृश्यते -


मारेण बहुधा विघ्ना अनेकाकारयोजिताः।

भग्नसैन्यः परावृत्य गतोऽसौ भवनं पुनः॥ (५३.३३)


अनुत्तरतन्त्रानुसारेण बुद्धगयायामभिसम्बोधिप्राप्त्यवधौ मारबलैर्विघ्नानुत्पादयितुमुत्पातो व्यधीयत। तदा मारपराजयाख्यसमाधौ समाहितो भगवान् निजकायवाक्चित्तैः महायमारिक्रोधराजमुत्पाद्याचकथत् - वज्रपाणे! त्वं भैरवकायं सन्धार्य मारनागासुरादीन् विनाशय।


क्रियातन्त्रानुसारेण भगवतो प्रथमधर्मचक्रप्रवर्तनानन्तरे काशीतः श्रावस्ती गत्वा तत्र प्रातिहार्य्यं प्रादर्शि, आटानाटीयसूत्रेऽपीदं तथ्यमवर्तत। प्रातिहार्य्यमनुश्रावस्त्यास्त्रायस्त्रिंशलोकं स्वमात्रे समुपदेशाय जगाम भगवान् बुद्धः। तत्र च मासत्रयं स्थित्वा उपोसथमकार्षीत् यथासमयं ततः अकनिष्ठ-तुषित-ब्रह्मलोकादीनुपगम्य तन्त्रमदिशत् तस्मान्मासत्रयानन्तरं भूमिलोकमागत्य मगधश्रावस्त्यादिषु क्रियातन्त्रं दिदिशे। यथा - सुवर्णप्रभाससूत्रं गृध्रकूटे तथागतगर्भेः सागर-तटे सर्वधर्मगुणव्यूहराजनामधारिणी च वेणुवने समुपादिश्यत। इत्थं क्रियातन्त्रस्य धारणीकल्पमन्त्रसूत्राणि व्याख्यातन्त्राणि च बुद्धेन देवमनुष्यलोकयोः पात्राणां योग्यतानुरूपं समुपदिष्टानि तथा विभिन्नकुलदेवसम्बद्धतन्त्राणां देशना तत्राविभूर्य विहिता। यथा हि तथागतकुलस्याकनिष्ठभुवने तथागतेन पद्मकुलस्यावलोकितेश्वरेण पोतलके वज्रकुलस्य वज्रपाणिनाऽलकावत्यां मणिकुलसम्बद्धतन्त्रस्य मणिभद्रवैश्रवणमुनिभ्यामलकावत्यां पुष्टिकुलस्य पञ्चकहरिताभ्यां कपिलवस्तुनि तथागतश्रद्धालुभिर्भूतपिशाचैर्विद्यामन्त्रं विधिविधानं च तथागताय समर्पितम्। तदनु तैस्ते समधिष्ठापितास्तथाऽनेन लोककुलं लोके प्रचारितमभूत्। मञ्जुश्रीमूलकल्पे वृत्तमिदं विस्तरेण निरूपितम्। 


चर्यातन्त्रम् -


चर्यातन्त्रानुसारं बुद्धेन सर्वप्रथमं तथागत-पुष्पाभासस्य सम्मुखं बोधिचित्तमुदपादि मन्त्रनयस्य चर्याङ्कर्तुं तथागताद् भविष्यवाणीं प्राप्य मन्त्र-मार्गानुसारेण पुण्यं ज्ञानसंभारश्च समचीयत। यत्र च क्रियातन्त्रे उद्धो भगवतशताष्टधारणीप्रभूतेः साधनामावृत्तिं चाकार्षीत् तत्रैव चर्यातन्त्रमनुरुध्य - ‘महावैरोचनाभिसम्बोधि-व्याकृताधिष्ठानवैपुल्यसूत्रेन्द्रराजनामधर्मपर्यायाख्ये ग्रन्थे वज्रपाणिः भगवन्तं वैरोचनं ज्ञानाय बोधये च मूलनिष्ठपदयोर्विषये पृच्छति तदा स वक्ति-हेतुर्बोधिचित्तमस्ति मूला च करुणा पर्यन्तश्चोपायस्तत्रैव बोधिचित्तं स्पष्टयन्नभिदधाति सम्यग् यथावत् स्वचित्तस्य ज्ञानमेव बोधिरिदमेव च बोधिचित्तमपि। अतः हे वज्रपाणे, बोधये सर्वज्ञतायै च स्वचित्तं पूर्णतः निरीक्षस्व - इत्थं प्रतिपादयन् सः बोधिचित्तस्य साक्षात्काराय प्राबल्येन प्रेरयति। तद्वदेव वज्रशेखरमहागुह्ययोगतन्त्रे चाप्यभिहितं - भगवान् बुद्धः पुरा काले बोधिचित्तं गृहीत्वा बोधिसत्त्वो बभूव, तदनु च सम्भारद्वयं संचित्य प्रज्ञा-पूर्णतां लब्ध्वा पटलाभिषेकमवाप्य अकनिष्ठमनोमयस्थाने अवस्थितः सन् पंचाभिसम्बोधिभ्यः बुद्धत्वं लेभे अकनिष्ठभुवने च वैरोचनसामान्यमहायानतन्त्रं चर्यातन्त्रं वज्रपाणि-अभिषेकमूलमन्त्रं च समुपादिशत्। पुनश्च परनिर्वाणवशवर्तिनि आर्य-अचलमहाक्रोधराजसर्वतथागतबलापरिमितवीरविनयस्वव्याख्यातनामकल्पं समुपदिदिशे। तदनु च मनुष्यलोके समुत्पद्य महायानीव सारनाथादिक्षेत्रेषु धर्मचक्रं प्रावर्तत। इत्थं चर्यातन्त्रिण एव स्वीकुर्वन्ति। चर्यातन्त्रेषु बोधिचित्तोत्पादस्य प्रक्रिया क्रियातन्त्रसदृशी बोधिप्राप्तिश्च योगतन्त्रानुसारिणी मन्यते। तस्मात् कतिपये विद्वांसश्चर्यातन्त्रं ह्युभयतन्त्रसंज्ञमिति ब्रुवते। चर्यातन्त्रमान्यतया अकनिष्ठभुवने चर्यातन्त्रं सततमवतिष्ठते कामधातावपि बुद्धशासनान्तं तिष्ठति।


योगतन्त्रम् -


तथागततत्त्वसङ्ग्रहस्य प्रथमपरिच्छेदे वज्रधातुमण्डलविधौ ‘ अथ सर्वार्थसिद्धिबोधिसत्त्वमहासत्त्वसर्वतथागतप्रचोदितः समानस्तत आस्फान समाधितो व्युत्थाय’ इत्येतत्प्रभृतिवचोभिर्बुद्धत्व-संप्राप्तिविषये विस्तरेण निरूपितम्। तत्रैव च पञ्चाभिसम्बोधिभिर्बुद्धत्वप्राप्त्यनन्तरं सर्वतथागतैः बुद्धः अभिषेकधर्म-प्रवचनाभ्यामनुज्ञापितः तस्य च निर्माणकायः सुमेरुपर्वतं गत्वा मूलतन्त्रोत्तरतन्त्रत्रिलोकविजयप्रभृतीनि योगतन्त्राण्युपादिशत्। ततः परनिर्वाणवशवर्तिनि परमाद्यतन्त्रमुपादिशत् आनन्दवने च चर्यातन्त्रं समुपदिश्य निर्माणकायस्यावासं संगृह्य अकनिष्ठभुवने स्थितस्तथागतः वैरोचने समाहितः पुनस्ततो नेयार्थे द्वादशलीलाः प्रदर्शयन् जम्बुद्वीपे समुद्भूय नैकयानानि समुपादिदेश।


तथ्यमिदमाश्रित्य शाक्यमित्राचार्येण अवोचि शुद्धोदनस्य पुत्रेण सिद्धार्थेन उरुवेला-नद्यास्तटे तपस्यामाचरता तत्रैव विपाककायमपहाय सूक्ष्मकायाद् अकनिष्ठभुवनमुपलभ्य तत्रैव पञ्चाभिसम्बोधिभिः बोधिमवाप्य सुमेरुपर्वते-योगतन्त्रमुपदिश्य पुनः विपाककायं प्रविश्य बोधगयायां बुद्धत्वमलम्भि। भोटस्य परवर्ती रत्नभद्रोऽनुवादको हेवज्रव्याख्याकाराश्चापि तथ्यमिदं स्वीकुर्वन्ति। आनन्दगर्भानुसारेण बुद्धः असंख्यकल्पपूर्वमेवाभिसम्भोधिं लेभे अत एवानन्दगर्भः शाक्यकुलोत्पन्नं सिद्धार्थं बोधिसत्त्वरूपेण न मनुते शाक्यमित्रमतं चापि खण्डयते। अनेनाचार्येण ‘बुद्धः पूर्वमकनिष्ठभुवने बोधिं प्राप’ इति मन्यते तदनु च शाक्यकुले समुत्पन्नस्य बुद्धत्वावाप्तिः निर्माणकायस्य लीला नेयार्था च स्वीक्रियते।


अनुत्तरतन्त्रम् -


अनुत्तरतन्त्रं पितृतन्त्रमातृतन्त्राद्वयतन्त्राख्ये भागत्रये विभज्यते। एतत्त्रियतयस्य देशनाविषयकमतानां वैभिन्न्यमास्ते। परं च बुद्धत्वसम्प्राप्तिविषये प्रायः सम्पुटतन्त्रमनुकृत्य सामान्यानुत्तरतन्त्रस्य पक्षः प्रतिपादयितुं शक्यतेऽस्माभिः। एतदनुसारं बुद्धः एकस्मिन्नेव काले क्वचिद् बोधिचित्तमुत्पादयन् क्वचिच्च देवलोकतश्चंक्रमणं विदधानः अन्यच्च कुत्रचित् धर्मचक्रं प्रवर्तयन् व्युत्थानं च कुर्वाणो दृश्यते। अतः एतत्सर्वं किञ्चिद्विशिष्टक्रमे व्यवस्थायाचान्तर्गतं व्यक्तीकर्तुं न शक्यते।


पितृतन्त्रम् -


पितृतन्त्र - गुह्यसमाजस्य देशनाविषयेऽपि नैकं मतमतान्तरं परिलक्ष्यते। तेषु च एकं द्वयं वा मतमत्र प्रतिपाद्यते-आनन्दगर्भेण गुह्यसमाजपंजिकायामुच्यते-बुद्धः वैष्णवादिमहारागिण उपदशति भोटीयो महान् सिद्धाचार्यः ‘बुस्तोनः’ अपि मनुते यत् - बुद्धो वैष्णवन्त्रेऽप्यभिनिविष्टान् अनुग्रहीतुं परनिर्वाणवशवर्तिनि लोके गुह्यसमाजं समुपदिदेश।


श्रीवज्रमालामहायोगतन्त्रटीकागम्भीरार्थदीपिकायाम् अलंकलशपण्डितेन कथ्यते - यदा सिद्धार्थो नैरञ्जनानद्यास्तटे आकाशस्फरणनामसमाधिमेव बोधिं मत्त्वा समाहितावस्थायामासीत् तमालोक्य अकनिष्ठरत्नसम्भवक्षेत्रसुखावतीप्रभृतिशुद्ध क्षेत्रेभ्यः तथागत आगत्य तस्य (सिद्धार्थरूपस्य) मिथ्याध्यान-विषयकं स्पष्टयति तदानीन्तेन ‘ओं सर्वतथागतकायवाक्चित्तप्रणामेन वज्रसन्धानं करोमि’ इत्येवं कथिते सति तथागते तम् अभ्यषिंचत् ध्यानत्रयशतकुल-भेदपंचक्रमादींश्चोपादिशत्। अतश्च ते स्व स्वक्षेत्रं जग्मुः। सिद्धार्थः तत्तथागतोपदिष्टमार्गमनुसृत्य बोधिं समवाप ततश्च सूक्ष्मकायेन तुषितलोकं प्राप्य स्वकायमहाभूतेभ्यो रत्नविमानं निर्ममे एव च स्वपंचस्कन्धान् पञ्चतथागतेषु परिवर्त्यं कामुकानां रागस्य मार्गीकरणाय गुह्यसमाजमहातन्त्रपञ्चविंशशतकं समुपदिदिशे पुनश्च पञ्चकाषायिक-प्राणिभ्यः (आयुर्दृष्टिक्लेशकालमार्गिभ्यः) अनुचराणां निवेदनेन अष्टादशपरिच्छेदयुक्तसंग्रहगुह्यसमाजतन्त्रं समदिशत् तच्च क्रमशो गुह्यसमाजस्य संग्रहकर्तृवज्रपाणि - मञ्जुश्रीप्रभृतीनां परम्परया जम्बुद्वीपे प्रासरत्।


भोटपरम्परया मन्यते यद् गुह्यसमाजं स्वयं बुद्धः ओडियानदेहीयं राजानं इन्द्रभूतिमदेशयत्। तदभिमतं यद् आकाशमार्गेण गच्छन्तं भगवद्-बुद्धमवलोक्य राजा स्वमन्त्रिगणेभ्यस्तद्विषये अजिज्ञासत तदा शाक्यमुनेः श्रावकोऽयम् इत्यजानात्। तत्प्रभावितः सन् नृपो भोजनार्थं भगवत्सहित-श्रावकानामन्त्रितवान् समागतेषु च तेषु राजा आत्मानम् अनुग्रहीतुं बुद्धं सम्प्रार्थयत्। बुद्धेन गृहस्थाश्रमत्यागाय समभिहितः राजा समवोचत् कामगुणादीन् परिहाय त्वहं मोक्षं न कामये यद्यस्यामेव सांसारिकतायां सम्भवं चेदनुग्राह्योऽयं जनः इत्थं राज्ञो वचनानुसारं तद्राजानं तन्त्रस्य योग्यतापात्रं बुद्ध्ध्वा श्रावकानन्तर्हित्य स्वयं बुद्धेन गुह्यसमाजे प्रकटीभूय इन्द्रभूतिः प्रव्राजितः। अभिषेकमात्रेणैव सः सम्बोधिमवाप्नोत्। तदनु पर्वतश्रेष्ठे देवदेवीनां निवासस्य प्रधानकेन्द्रे अलकावतीप्रासादे वज्रपाणेः संश्रुत्य बोधिसत्त्वैर्गुह्यसमाजो लिपिबद्धोऽकारि। तच्च स्वयंभूप्रासादगन्धोलायां संस्थाप्य डाकिणीश्वराभिरत्यादीन् अभिषेकात्परं समुपदिश्य ततोऽग्रे आगन्तुकसिद्धानां संग्रहकर्तॄणाञ्च नामानि घोषितानि।


मातृतन्त्रम् -


आचार्यकामधेनुना हेवज्रस्य पदोद्धारणनामटीकायां प्रतिपाद्यते यद् मातृतन्त्रे प्रधानीभूतहेवज्रतन्त्रस्य देशना तथागतस्य निर्माणकायद्वारा द्वात्रिंशद्वर्षपर्यन्त (३२) जम्बूद्वीपे निवासकाले हेवज्रस्य संग्रहकर्तृबोधिसत्त्ववज्रगर्भाय मगधे विहिता। तत्रैव च ‘एकस्मिन् काले मया श्रुतम्’ इत्यस्य व्याख्यायां सुस्पष्टं व्यलेखि-यत् न कयाचित् परम्परया एतस्योपदेशोऽपि तु स्वयं बुद्धेन वज्रगर्भाय कृतः। बुस्तोनोऽपि सामान्यतन्त्रव्यवस्थायां हेवज्रस्य बृहट्टीकायाः व्याख्यातन्त्रवज्रमालायाश्च वचनमुद्धरन् अकथयत् यत् चक्रसंवरदेशनानन्तरं निर्माणकायद्वारा मगधे चतुर्मारनाशकाले जम्बूद्वीपे हेवज्रतन्त्रस्य देशना जाता। हेवज्रतन्त्रस्य प्रायः समग्रव्याख्याग्रन्थेषु टीकाग्रन्थेषु च कुत्र देशना कृता, इत्यस्य सुस्पष्टो निर्देशो न लभ्यते।


अद्वयतन्त्रम् -


अद्वयतन्त्रेऽपि कालचक्रमायाजालप्रभृतीनि नैकानि तन्त्राणि समाहितानि। तेषु चात्र कालचक्रस्य देशनाविषये परमाद्यतन्त्रे एवं प्रतिपादितम् -


गृध्रकूटे यथाशास्त्रं प्रज्ञापारमितानये

तथा मन्त्रनये प्रोक्ता, श्रीधान्ये धर्मदेशना। (से.टी. ऱ्.३)


नाडपादेनापि सेकोद्देशटीकायाम् कालचक्रस्य देशना धान्यकटके (अमरावत्यां) बभूवेत्थं प्रत्यपादि। नामसङ्गीतिटिप्पण्याममृतकणिकायामपि कथितम् - “इह खलु श्रीधान्यकटके महाचैत्यस्थाने - नानातन्त्रश्रवणार्थिभिरध्येषितः श्रीशाक्यसिंहो नाम बुद्धो भगवान् चैत्रपूर्णिमायां श्रीधर्मधातुवागीश्वरमण्डलं तदुपरि श्रीमान् नक्षत्रमण्डलमादिबुद्धं विस्फार्य तस्मिन्नेव दिने बुद्धाभिषेकं दत्त्वा देवादिभ्यः सर्वमन्त्रनीतिबृहल्लभुतन्त्रभेदेन देशितवान्” अस्याभिप्रायः - वैशाखपूर्णिमायां बुद्धत्वं समुपलभ्य महायानिमतेन ऋषिपत्तन-मृगदावाख्ये प्रथमधर्मचक्रप्रवर्त्तनस्य द्वादशवर्षानन्तरं माघपूर्णिमायां भगवान् बुद्धः गृध्रकूटे पारमितायानं दिदेश, तत्काले एवातितीव्रेन्द्रियजनेभ्यो धान्यकटके स्वतःकालचक्ररूपेणाविर्भूय मूलतन्त्रद्वादशशतमुपादिशत्। मूलकालचक्रतन्त्रस्य देशनायै सविनयं प्रार्थयिता शम्भलदेशीयो राजा सुचन्द्रस्तन्त्रं संगृह्य षष्टिसहस्रमितश्लोकेषु व्याख्याय्य समुपदिष्टवान्। तदनु चैतत्परम्परायां षड्धर्मराजैः शतवर्षपर्यन्तं शासद्भिरिदं प्रचारितम् ततश्च तत्संक्षेपाय ऋषिमुनिभिर्मञ्जुश्रीकीर्तिमनुरुध्य बुद्धस्य महापरिनिर्वाणस्य षट्शतवर्षानन्तरम् (६००) मूलतन्त्रं संगृह्य पुष्पमालानामकच्छन्दसा त्रिंशत्सहस्त्रपद्येषु संगृह्य प्राचार्य्यत।


विनयभेदेन तन्त्रदेशना


मञ्जुश्रीर्मायाजाल-व्याख्यातन्त्रे प्रत्यपादयत्-मन्त्राणां प्राधान्येन अकनिष्ठभुवन-सुमेरुपर्वतजम्बूद्वीपानीति त्रीणि कथावस्तूनि सन्ति। विनेयजनेषु बोधिसत्त्वदेवयोनि-मानवास्त्रयो वर्तन्ते। शास्ताऽपि वज्रधरनिर्माणकायशाक्यमुनिरि स्वरूपपत्रये प्रकटीभूय दिशति। इत्थन्तन्त्रस्य देशनाविषये यदाऽस्माभिर्विचार्य्यते तदा स्पष्टीभवति यत् तन्त्रस्य तत्त्वदर्शनं साधनाविधिश्च अत्यन्तं गूढो रहस्यात्मकश्च वरीवर्ति। यथा च योगशास्त्रे सूक्ष्मप्राणचित्तादिकं नियन्त्र्य परकायप्रवेशो रहस्यात्मको विद्यते। सम्पूर्णब्रह्माण्डं सूक्ष्मप्राणचित्तादिकं नियन्त्र्य परकायप्रवेशो रहस्यात्मको विद्यते। सम्पूर्णब्रह्माण्डं निजचित्तस्य विस्तारमात्रं चित्तस्य च स्वरूपमात्रं वर्तते। यथा हि अचिन्त्यक्रमोपदेशे निर्दिष्टम्।


दर्पणालोकविम्बेषु यथा सर्वं प्रदृश्यते।

तथैवाद्वयज्ञानेऽस्मिन् बुद्धबोधिरचिन्तिता॥ ८२॥

त्रैधातुकेषु सर्वेषु उत्पत्तिस्थितिहेतुभिः।

तत्सर्वमद्वयज्ञानम् उद्भूताः सर्वजन्तवः॥ ८३॥

सागराः पर्वता वृक्षास्तृणगुल्मलताश्च ये।

विनिःसृता अद्वयज्ञानाद्, भ्रान्तिरत्र न विद्यते॥ ८४॥

(गुह्याद्यष्टसिद्धिः ८२-८४ का., पृ. २०३)


स्वातन्त्र्येण तत्त्वतः समग्रधर्मेषु चेत् पार्थक्यं स्यात्तर्हि परचित्तज्ञान-परकायप्रवेशादीनां कथं सम्भाव्यता स्यात्। पुनस्तत्रैव तन्त्रदेशनाविषये पद्मवज्रेणाप्यभाणि -


स्रष्टा तन्त्रस्य हृद्वज्रो वक्ता स एव देशकः। २५।

(गुह्याद्यष्टसिद्धिः २-५, पृ. १२)


अर्थात् संग्राहक-देशनाकर्तृविषयाश्च सर्वेऽपि एकरूपा एव। चक्रसंवरमूलतन्त्रेऽपि - कथयिताप्यहमस्मि श्रोता चाप्यहमेवेति निरूपितम्। अतो ‘बुस्तोन’ इतिहासकारोऽपि लिखति-इत्थं बुद्धेन धर्मदेशनाव्याख्यायां देशयितृ-श्रोतृसंग्राहकाणां पृथक्-पृथक् निर्देशस्तेभ्य एव कृतो ये च एवंविधव्यवस्थायामभिनिविष्टाः सन्तुष्टा वा भवन्ति। इत्थं शास्ता स्व विकुर्वणमेव (लीलामेव) शास्तुरनुचरस्य संग्रहकर्तुश्च रूपेण प्रकटीभूय प्रत्यपादीत् नान्यथा पृथक्-पृथक् सन्ततीनां तन्त्राणां च मान्यता सम्भाव्यते। प्रदीपोद्योतनेऽप्युक्तम् ‘अनेन न्यायन सङ्गीतकार इति। आदिकर्मिकसत्त्वावतारणाय बुद्धनाटकोऽयं प्रदर्शितः’ (प्रदीपोद्योतनम्, पृ. १२) इदमप्युक्तन्तत्रैवबुद्धो न कदापि परिनिर्वाणं लभते न च धर्मस्यान्तो जायते।


सारांशः - 


उपर्युक्तधर्मप्रवचनसम्बद्धतत्यानामलोकनेन सुस्पष्टमिदं यत् तन्त्रस्य सम्पूर्णधर्मचक्रप्रवर्तनस्य परम्परायाः शाक्यमुनिना सह साक्षात्सम्बन्धं संस्थाप्य व्याख्याविधानमशक्यम्। अधिकांशतन्त्राणां देशना देवलोक-अकनिष्ठप्रभृतिक्षेत्रेषु समभूत्। जम्बूद्वीपे चैकतन्त्र-देशना विभिन्नेष्टदेवरूपेण प्रकटीभूयाकारि। तथ्यमिदं भारतभोटदेशयोः समग्रसिद्धाचार्यैः स्वीक्रियते। येषामित्थं साधनाचिन्तनं च वरीवर्ति यैर्हि साधारणासाधरणाः सर्वविध्सिद्धयोऽवाप्तास्तेषामपीयमेव मान्यता। अतः एतद् रहस्यात्मकतथ्यस्य स्वल्पज्ञानेन बुद्धिप्रधानकल्पनया शुष्कतर्कवितर्कैश्चामान्यत्वं प्रतिपादयितुमशक्यम्। एवं रहस्यात्मकवृत्तं तन्त्रेषु एव नापि तु पारमितानयग्रन्थेष्वपि समुपलभ्यते। यथा च चन्द्रकीर्तिः माध्यमिकावतारे प्रत्यपादीत् - प्रथमप्रमुदिता भूमिमवाप्य साधकः बुद्धानामेकस्मात् क्षेत्रात् क्षेत्रान्तरं प्रगत्य नैकतथागतान् साक्षाकृत्य तद्धर्मं शृणोति, पूर्वजन्मानि च स्मरति परचित्तं विजानातीत्यादिद्वादशगुणावाप्तिर्भवति। पारमितायामेव न श्रावकयानीयग्रन्थेष्वपि बुद्धद्वारा ऋद्धिप्रातिहार्यप्रदर्शनस्य त्रायस्त्रिंशादिलोकगमनस्य च सम्प्रत्यपि (दीर्घनिकाये) चर्चा समायाति। अतश्च संक्षेपेण वक्तुं शक्यते योग्यसाधकेभ्यो बुद्धेन अर्वाचीनतन्त्राणां देशना क्रियमाणा स्यात्, कर्तुं शक्यते चापि अत एव तन्त्रस्य विशिष्टैतिहासिकः क्रमः न कर्तुं पार्य्यते। यतोऽद्यापि यैः क्रियातन्त्रस्य पात्रता धार्यते तैर्बोधिसत्त्वेभ्यः श्रावं श्रावं तत्प्रतिपादयितुं शक्यते। इत्थमद्यतनविदुषामियं दृष्टिः स्वीकर्तुमशक्या यत् पूर्वं मन्त्रस्य पुनः धारण्याः देवोपासनायाः क्रियायाश्चर्यायाः योगस्य अनुत्तरयोगस्य पश्चाच्च सिद्धानां साहित्यं विकासतां प्राप्नोत्। 


तत्त्वदर्शनम् -


अत्र हि प्रश्नः समुदेति तथ्यस्यास्य प्रतीतिः कथं स्यात् ? हेवज्रतन्त्रे विषयेऽस्मिन् बुद्धः अवोचत् -


पोषधं दीयते प्रथमं तदनु शिक्षापदं दशम्।

वैभाष्यं तत्र देशेत सूत्रान्तं वै पुनस्तथा॥


योगाचारं ततः पश्चात् तदनु मध्यमकं दिशेत्।

सर्वमन्त्रनयं ज्ञात्वा तदनु हेवज्रमारभेत।

गृह्णीयात् सादरं शिष्यः सिध्यते नात्र संशयः॥ (२/८/९-१०)


अभिप्रायश्च-उपोसथादारभ्य शिक्षापदत्रयमनुशील्य क्रमेण वैभाषिक-सौत्रान्तिक-माध्यमिकान् पुनश्च मन्त्रनयं प्रविश्य क्रियाचर्यायोगादीनि विमृश्यान्ते अनुत्तरहेवज्रतन्त्रं प्रविश्याद्वयज्ञानं प्राप्तव्यं भवति। इदमेव कारणं यद् बौद्धदर्शनस्य चरममुद्देश्यमद्वयज्ञानस्य युगनद्धस्य च प्राप्तिर्भवति। बुद्धवचनानामयमेव सारः यथा हि चर्यागीतिकोशस्य व्याख्यायां चतुर्देवीपरिपृच्छामहायोगतन्त्रमुद्धृत्योक्तम् -


चतुरशीतिसाहस्रे, धर्मस्कन्धे महामुने।

तत्त्वं ये न विजानन्ति, ते सर्वे निष्फलाय वै॥ (पृ. २२)


अर्थात् चतुरशीतिसहस्रस्कन्धानां देशना तत्त्वज्ञानायैवाभूत्। किन्तत्त्वम् ? कुडालपादोऽत्र अचिन्त्यक्रमोपदेशे -


यस्य स्वभावो नोत्पत्तिर्विनाशो नैव दृश्यते।

तज्ज्ञानमद्वयं नाम, सर्वसंकल्पवर्जितम्॥

(गु. अ. सि., पृ. १९६)


वैभाषिकः सौत्रान्तिकगोत्रीयो विनेयजनो बोधिपथप्रदीपे प्रतिपादितपद्धत्या -


विरतः पापकर्मभ्यो भवसौख्यात् पराङ्मुखः।

आत्मोपशममात्रार्थी स उक्तो मध्यमः पुमान्॥ (श्लो. का. ४)


मध्यमपुरुषो भूत्वा केवलमात्मनिर्वाणावाप्तौ शीलसमाधी-वितर्कयुक्तविपश्यनां च भावयति। तत्त्वतस्तु वैभाषिक-सौत्रान्तैः बाह्यार्थसताऽभिमन्यते। 


अभिधर्मकोशेऽपि -


यत्र भिन्ने न तद् बुद्धिरन्यापोहे धिया च तत्।

घटाम्बुवत् संवृतिसत्, परमार्थसदन्यथा॥ (६/४)


एतदेव प्रमाणवार्तिके चापि -


अर्थक्रियासमर्थं यत् तदत्र परमार्थसत्।

अन्यत् संवृतिसत् प्रोतं ते स्वसामान्यलक्षणे॥

(प्रत्यक्षपरिच्छेदः १ श्लोकः ३)


यच्चार्थक्रियाकारि तदेव वास्तविकं पारमार्थिकं च भवति, विकल्पान्यसामान्यलक्षणादीनि अलीकानि सांवृतिकानि च। एवं स्वीकृत्य सौत्रान्तिकैरपि बाह्यान्तरिकधर्माणां सत्ताऽङ्गीक्रियते।


विज्ञानवादिनो माध्यमिकाश्च -


स्वसन्तानगतैर्दुःखैर्दुःखस्यान्यस्य सर्वथा।

सर्वस्य यः क्षयं काङ्क्षेदुत्तमः पुरुषस्तु सः॥ (बो.प.का. ५)


एतत्सूक्तिमनुसृत्य प्राणिमात्र-हिताय विचारहन्ति, तत्त्वदृष्टौ विज्ञानवादिनः- ‘चित्तमात्रं भो जिनपुत्रा यदुत त्रैधातुकम्’ (दशभूमिसूत्रं, पृ. ३२) एतद्वचनानुसारेण चित्तमात्रं स्वीकुर्वाणा बाह्यार्थसत्ता न मन्यन्ते। माध्यमिकाः परमार्थे चित्तसत्तामपि नाङ्गीकुर्वन्ति सर्ववस्तूनि च धर्मशून्यनिःस्वभावानि प्रतीत्यसमुत्पन्नानि च मन्यन्ते। यथा च नागार्जुनः -


अप्रतीत्यसमुत्पन्नो धर्मःकश्चिन्न विद्यते।

यस्मात्तस्मादशून्यो हि धर्मः कश्चिन्न विद्यते॥

(मू. मा. का. २४/१९)


ततश्च यदा वज्रयानमवलोक्यते तदा ज्ञायते यद् माध्यमिकानां निःस्वभावता विज्ञानवादिनाञ्च चित्तमात्रतैव चतुष्कोटिविनिर्मुक्तनिष्प्रपञ्चप्रज्ञोपायात्मकाद्वयतत्त्वं जायते। स्थितिरियं तन्त्रग्रन्तैराभासशून्यता विद्याशून्यता-महासुखशून्यताप्रभृति-शब्दैर्व्याहृताऽस्ति।


प्रतिपत्तिसारशतके समभिहितमार्यदेवेन - 


प्रज्ञाकरुणयोर्भेदः प्रदीपालोकयोरिव।

प्रज्ञाकरुणयोरैक्यं, प्रदीपालोकयोरिव॥

(नेवारी हस्तलिपिः)


प्रदीपालोकयोरिव चित्तस्य प्रभास्वरता (आभासः) अत्न्निष्प्रपञ्चता च भिन्ना भिन्ना चाप्यस्ति। इदमेवाद्वयतत्त्वम्। इत्तमत्र विज्ञानवादिनश्चित्तमात्रतायाः परमार्थतः सत्तां स्वीकुर्वन्ति। परं च माध्यमिकमते चित्तमपि धर्मे वर्तते। अतः एतस्मिन् स्वभाव-शून्याऽपि अपेक्ष्यते। यथा च महामायातन्त्रटीकागुणवत्यामपि रत्नाकार-शान्तिपादेन चित्तमचितम् इति व्याख्यायता चित्तं च तदचित्तं चेति चित्ताचित्तम्। कस्माद्चित्तं ? ग्राह्याभावे ग्राहकस्याप्यभावात्। यदि ग्राहकत्वेन चित्तलक्षणेन वियोगात्तदचित्तम्। कतरेण चित्तलक्षणेन योगाच्चित्तं तत् ? चित्तलक्षणेन योगाच्चित्तं तदित्यर्थः। तच्च ज्ञानज्ञेयस्वरूपकम्। तदनेन पारमार्थिकबोधिचित्तलक्षणं निष्प्रपञ्चज्ञानस्वरूपत्वं स्वभावः साक्षादुक्तः। व्याख्याने निगद्य वज्रयाणोपरि निर्दिष्टाद्वयतत्त्वं त्रैकालिकमजातमनिरुद्धं चाभिमतम्। अयमेव वज्रयानस्य दार्शनिकः पक्षः प्रतीयते।


साधना -


सामान्यतः साधना-यानशब्दौ समानार्थकौ। बौद्धग्रन्थेषु श्रावकयान-प्रत्येकबुद्धयान-बोधिसत्त्वयान (महायान) नामकाणि त्रीणि यानानि वर्णितानि। साध्याभावे साधनानि निरर्थकानि, आहोस्विद् भवितुमशक्यानि। अतो हीनयानिभिस्त्रीणि स्वतन्त्रसाध्यानि स्वीक्रियन्ते, १. अर्हत्वं २. प्रत्येकबुद्धत्वं ३. बुद्धत्वं च परं च महायानिनैकयानं स्वीक्रियते यद् बुद्धत्वं प्रापयति। सद्धर्मपुण्डरीकेऽपि -


उपायकौशल्य ममेव रूपं

यत् त्रीणि यानान्युपदर्शयामि।

एकं हि यानं हि नयश्च एक

एका चेयं देशना नायकानाम्॥ (२/६९)


इत्थं बुद्धेन स्वोपायकौशल्येन यथायोग्यसमागतपात्राणामाशयानुरूपं देशना अकारि।


अद्वयवज्रसंग्रहेऽपि -


आदिकर्मिकसत्त्वस्य परमार्थावतारणे।

उपास्त्वयं सम्बुद्धैः सोपानमिव निर्मितः॥ (पृ. २१)


सर्वसत्त्वानामद्वयज्ञानस्य सक्षात्कार-विधानं बुद्धस्याशयोऽवर्तत। यथा हि चर्यागीतिकोषे -


चतुरशीतिसाहस्रे धर्मस्कन्धे महामुनेः।

तत्त्वं ये न विजानन्ति, ते सर्वे निष्फलाय वै॥ (पृ. २२)


अतः अर्हत्वं प्राप्नुवन्तो यथा श्रावकयानिनः -


दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम्।

दिशं न कांचिद् विदिशं न कांचित् स्नेहक्षयात् केवलमेति शान्तिम्॥

एवं कृती निर्वृतिमभ्युपेतो नैवावनिं गच्चति नान्तरिक्षम्।

दिशं न चांचिद् विदिशं न कांचित् क्लेशक्षयात् केवलमेति शान्तिम्॥

(सौन्दरनन्द. म. ६/२८-२९)


इत्थन्तत्परमशान्तनिरोधावस्थां मन्यन्ते, महायानिनश्च तन्नेआर्थमामनन्ति। यथा च सद्धर्मपुण्डरीके -


तथैव श्रावकाः सर्वे प्राप्तनिर्वाणसंज्ञितः।

जिनोऽथ देशयेत्तस्मै विश्रामोऽयं न निर्वृतिः॥ (५/७४)


उपाय एष बुद्धानां वदन्ति यदिमं नयम्।

सर्वज्ञत्वमृते नास्ति निर्वाणं तत्समारभ॥ (५/७४-७५)


एवं श्रावकयानिभिर्यत् परमपदमवगम्यते तच्चरमं लक्ष्यं नास्ति, विश्रामस्थितिमात्रम्। अतस्तथागतेन तन्निरोधादुपरि महाबोधये प्रेर्यते। पुनस्तत्रैवोक्तं यत् सर्वज्ञताज्ञान-षट्पारमिता-शून्यताऽनिमित्तताप्रणिधानादीनि त्वया साधगीयानि।


पुनस्तत्रैव -


त्र्यध्वज्ञानमनन्तं च षट् च पारमिताः शुभाः।

शून्यतामनिमित्तं च प्रणिधानविवर्जितम्॥ (५/७६)


अतः श्रावकाः अर्हतः निरोधसमापत्या ज्ञानकायस्य, अविद्यावासनाया अनास्रवकर्मणः मृत्युसंक्रमणस्य च बलेन नवं जन्म गृहीत्वा महायानं प्रविश्य बुद्धत्वं लभन्ते। महायाने केन पथा प्रवेष्टव्यमस्मिन् विषये तैब्बताचार्याणां मतानि निम्नानि -


१. संभारमार्गेण प्रवेष्टुमुक्तिः केषांचिद् विदुषाम्। तेषामाशयः - बुद्धत्वावाप्त्यै महायानस्य संभारादिपञ्चमार्गानुगमनमावश्यकम्।


२. अपरे आचार्या वदन्ति - अर्हद्द्वारा क्लेशावरणस्य समूलनाशेन संसारे पुनर्जन्म न ग्रहीतव्यं भवति। अतः सुखावतीप्रभृतिबुद्धक्षेत्रे संभूय तत एव क्रमशः बोधिसत्त्वसाधनामनुशील्य बुद्धत्वं लभ्येत।


३. अपरैराचार्यैरर्हद्द्वारा क्लेशावरस्य क्षयेन महायाने प्रथमप्रमुदिताभूमिं प्रविश्य भावनामार्गेण ज्ञेयावरणानां क्रमशः क्षयेन बुद्धत्वावाप्तिः स्वीक्रियते।


४. अन्ये आचार्याः बोधिसत्त्वेषु सप्तमभूमिपर्यन्तं क्लेशावरणस्य सूक्ष्मवासनया, अर्हद्भिभस्तेषां समूलनाशेन बोधिसत्त्वानां सप्तमभूमितः प्रवेशमामनन्ति।


एतन्मतमतान्तराणां विस्तारो भोटविद्वद्भिर्मध्यमकावतारप्रथमपरिच्छेदे व्यधायि, यत्र च दूरंगमाभूमेः प्राप्त्यनन्तरं बोधिसत्त्वैः प्रज्ञया श्रावकाणामाकर्षकत्वप्रसङ्गः चर्चितोऽस्ति।


महायानिष्वपि केषांचिद् विदुषां मतमिदम् -


पारमितानयेनापि अन्ते मन्त्रनयः (वज्रयानम्) आश्रयणीयो भवति, नान्यथा-आलोकालोकाभासालोकोपलब्धिसमावरणानि परिशुध्यन्ति सम्यक्सम्बोधिप्राप्तिरप्यशक्या।


यद्यपि एतन्नयद्वयं महायाने एव सम्मिलितम्। यथा चाद्वयवज्रसंग्रहे - ‘महायानं च द्विविधं पारमितानयो मन्त्रनयश्चेति (पृ. १४) अधुनावलोकनीयं पारमितानयमन्त्रनययोश्चान्तरं किम् ? किं च तत्तत्वम् ? यदभावे पारमितायानिभिश्चापि मन्त्रयानवज्रयानयोराश्रयमादायैव लक्ष्यप्राप्तिर्विधीयते। एतद्विचारविमर्शेन नयद्वयस्य साधनापक्षः कीदृशः ? तदपि सुस्पष्टं भविष्यति।


उभयनयान्तरं स्पष्टयता भोटदेशस्य महासिद्धाचार्यसुमतिकीर्तिचोङ्खापामहोदयेन महामन्त्रक्रमे प्रत्यपादि -


१. नयद्वयस्य चरमलक्ष्यं बुद्धत्वप्राप्तिः, अतः अभिसमयालङ्कारस्य ‘ (१.१९) एतदुक्तिमनुसृत्य उभयं प्राणिमात्रहिताय बोधितत्त्वभीप्सति। अतो बोधिचित्तद्वस्य भेदरेखा स्वीकर्तुमशक्या।


२. सर्वधर्माणां निंस्वभावतायाः स्वीकृत्या शून्यतायामपि भेदासत्त्वेन शून्यताऽपि तदुभयस्य भेदरेखा भवितुमशक्या।


३. उभयनये षट्पारमितानां चर्यानुशीलनेनापि सीमारेखा कर्तुमशक्या। 


४. पात्रेषु मृदुमध्याधिमात्रक्रममाधारीकृत्य भेदः कर्तुमशक्यः। यतो हीमौ भेदावुभयनये सम्भाव्येते।


५. पारमितानयो रागरहितानां तन्त्रनयश्च रागयुक्तानां पात्राणामनुग्रहायोपदिष्टः इत्यपि मन्तुमशक्यं यतो हि पारमितानयेऽपि एवं नियमोऽस्ति।


यथा च बोधिचर्यावतारः -


एवं बुद्ध्वा परार्थेषु भवेत् सततमुत्थितः।

निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः॥ (५/८४)


एतदतिरिच्य पारमितानयानुपालका बहवो गृहस्था अपि भवितुं शक्नुवन्ति नैतदेव, ब्राह्मणपुत्रो भिक्षुनक्षत्रोऽपि उपायकौशलेन प्राणिकल्याणाय मैथुनमकार्षीत्। एवं विधा नैका कथाः सूत्रग्रन्थेषूपलभ्यन्ते। तत्रैव मन्त्रनयेऽपि ईदृशा अनेके महापुरुषाः ये भिक्षवः एव नापि तु सिद्धपुरुषा अप्यासन्। अत्र विचारणीयं हि तन्त्रे रागमार्गीकरणं विवेचितं परं पारमितानये रागादीनि प्राणिनां हितायोक्तानि। एतन्नयद्वये महदिदमन्तरं विद्यते, यच्च विचारणीयमास्ते।


६. महासुखं संचार्य्य विषयशून्यतायां दाढ्यार्प्तेः सीमा रेखाऽपि स्वीकर्तुमशक्या, यतश्च पारमितानयेऽपि शमथे दार्ढ्यप्राप्त्या प्राणवायुर्नियम्यते, यतः कायप्रश्रब्धिं प्राप्य काये सुखं संचरते स च यथेच्छं चित्तप्रस्रब्धिसमापत्या स्वविषयेस्थैर्य्यं लब्धुमर्हति। अत उभयत्र सुखानुभूत्या सीमारेखाङ्कनं कियत्संभवमिदं विचारणीयं वर्तते। केचित् तन्त्रे अविकारितायाः अनक्षरसुखस्य च विषये कथयन्ति। पारमितानये तु स्थितिरियं प्रश्रब्धिकालिको प्रयासादिनिर्भरा च तिष्ठति। पुनश्चात्र महासुखाभिप्रायः रक्तश्वेतबोधिचित्तस्यार्द्रीभावतया नाडीवायुतिलकादीनां प्रक्रियया समुत्पन्नसुखेन गृह्येत तर्हि केवलमनुत्तरतन्त्रस्य वैशिष्ट्यमिदं स्यात् क्रियाद्यन्यसामान्यतन्त्राणां तु न स्यात्। इत्थं नयद्वयेन प्राप्ते लक्ष्ये लोऽपि भेदो नास्ति, तत्प्राप्तौ मार्गे च शून्यतादर्शनचित्तोत्पादपारमितासम्भरणादीनां भेदेनान्तरं न कर्तुं पार्यते। 


निष्कर्षः


परं चात्र विचारणीयमिदम् - उभयनयस्य मुख्योद्देश्यं परार्थविधानम्, यदा च परार्थविषये विचिन्त्यते तदेदं कार्यं रूपकायेन संभाव्यते धर्मकायेन चासम्भाव्यम्। शास्त्रेषु धर्मकायप्राप्तिः स्वार्थसम्पत्या रूपकायस्य च प्राप्तिः परार्थसम्पत्याभिहिता। इदमपि सत्यं यत् एकस्याभावेऽपरस्य प्राप्तिरसम्भवा। श्रावकयानिवैभाषिक-सौत्रान्तिकास्तु बुद्धस्य रूपकायं कर्म-विपाकं मन्यन्ते निर्वाणमपि भागद्वये विभजन्ति। बुद्धत्वप्राप्त्यनन्तरमपि स्कन्धसन्ततेः अविच्छिन्नरूपेण विद्यमानतावस्था सोपधिशेषनिर्वाणत्वेन स्कन्ध-सन्ततेः (पञ्चस्कन्धानां) निरोधावस्था निरुपधिशेषनिर्वाणत्वेन चोच्यते। एवं रूपकायनिरोधमनु प्राणिनां साक्षात् कल्याणं न सम्भाव्यते। परं महायानमते तदापि ते (बुद्धाः) कल्याणन्निवृत्ताः स्युरथ वा तत्परार्थसम्पत्तिः क्षीयेत इत्यपि नाभिमतम्। श्रावकयानमते बुद्धोपदेश एव धर्मकायत्वेन मन्यते यो हि तन्निरूपधिशेषनिर्वाणानन्तरं परार्थं सम्पादयते। यथा च महापरिनिर्वाणावस्थायाम् आनन्दादिशिष्यैर्महापरिनिर्वाणप्राप्तावत्यन्तदुःखानुभूतौ प्रकटितायां सत्यां बुद्धेन स्वीयान्तिमोपदेशरूपेणावोचि -


मया एवं किमपि तथ्यं स्वजीवने तव - सम्मुखं न गोपितम्। मत्तन्निरावरणचरित्रमेव तव शास्तृपथप्रदर्शकं चास्ति तदेव धर्मकायः। तदाचर्य्य स्वयमात्मनि ज्ञानदीपं ज्वालय।


भगवतो बुद्धस्य स उपदेशः अद्य पञ्चाशदुत्तरसहस्रद्वयवर्षान्तरमपि (२५००) जनस्य हृदयानि सत्याहिंसाबोधितत्त्वानि प्रति प्रेरयति। बौद्धधर्मदर्शनाध्ययनाध्यापनयोर्याऽविछिन्ना परम्परा, सैव च तत् (बुद्धस्य) पुण्यस्य परिणामो विद्यते। इत्थं श्रावकयानिमतानुसारं बुद्धेन मनुष्यरूपेण अवतीर्य्य प्राणिनां प्रत्यक्षकल्याणविधानं न सम्भाव्यते तथापि प्रवचनरूपिधर्मकायेनाद्यापि स दुःखमुक्त्यै जनान् सन्मार्गमारोहयति। श्रावकयानिनः रूपकायेन लक्ष्यप्राप्तिं न मन्यन्ते बुद्धस्य रूपकायं च दुःखसत्यं मन्यन्ते। यद्यपि श्रावकयानिनो बुद्धकायं दुःखस्कन्धमास्रवं च स्वीकुर्वन्ति तथापि तत् द्वात्रिंशल्लषणैश्चतुरशीति-अनुव्यञ्जनैः सुशोभितमभिमतम्। हेतुमार्गे एतत् पुण्यसंभारस्य संचयफलमभिमन्यन्ते। यथा सामान्यप्राणिनां सुरूपता तत्पुण्यकर्मफलं मन्यते स एव क्रमो बुद्धेन सहापि। परं च महायानिनां स्थितौ वैपरीत्यमवलोक्यते। गोत्रव्याख्याप्रसङ्गे वार्तेयं सुस्पष्टा यदस्मिन्नये बुद्धो महापरिनिर्वाणानन्तरमपि निर्माणकायसंभोगकाययोः रूपेणाविर्भूय सततं सत्त्वहितं विदधाति। अतस्तत् प्राप्तिः कथङ्कारं शक्येति विचारणीयम्।


इदन्दृस्यते यत् प्रज्ञापक्षस्य पूर्णतः प्रतिपादनं पारमितायानेऽप्यस्ति परं च विनेयजनाध्याशयानुरूपं यावद् भवः स्थास्यति तावत् प्राणिमात्रहितेन विद्यमानरूपकायस्योपादानकारकं किं स्यात् ? यद् द्वात्रिंशल्लक्षणैश्चतुरशीत्यनुव्यञ्जनैश्च सुशोभितः निर्माणकायः अकनिष्ठभुवने च स्थितः संभोगकायो विद्यते। यथा च वयं शून्यताज्ञापिकां प्रज्ञां धर्मकायस्योपादानकारणं मत्त्वा विचार्य्य तद् भावयामः तथैव रूपकायस्य हेतुभूतदेवकायस्य भावनाविधिः पारमितानयेऽपि नाकथ्यत। अर्थात् परार्थसिद्धिदायकरूपकायस्य मार्गीकरणविधेर्भवनम् अभवनम् वा, नयद्वयस्य सीमारेखाङ्कनं भवतुं शक्यते। इत्थं स्वीकृतौ सत्या पुनः प्रश्नः - यत्फलं प्राप्तव्यमस्ति, किन्तत् सदृशफलं भाव्येत ? यदि भावनीयन्तर्हि किं मनुष्य-जन्मने मनुष्यरूपं भावयितव्यं ? तथैव पशुपक्षिपर्यन्तं एतद्व्याप्तिः स्वीकार्या ? नैवम्, यतः पारमितानयेन दानादिपुण्यार्जनादपि लक्षणानुव्यञ्जनानि सिद्ध्यन्ति परमत्र चिरकालोऽपेक्ष्यते। वज्रयाने तु फलभावनया रूपकायः शीघ्रं सिद्ध्यति। सूत्रालङ्कारे सम्भोगकायस्यैकरूपत्वं पंचसु विनियतत्वमुपभोगैर्युक्तत्वं चामन्यत।


आश्रयेणाशयेनापि कर्मणा ते समा मताः।

प्रकृत्याऽसंस्रनेनापि प्रबन्धेनैषु नित्यता॥ (१०/६५)


इत्थमवच्छिन्नतया सत्त्वानां सम्मुखं प्रकटानाय रूपकायस्यैकोऽविच्छिन्नः आश्रयः उपादानं च नूनमपेक्ष्यते। अतस्तदर्थन्तत्स्वरूपभावनाया आवश्यकत्वं सम्भाव्यते पारमितानये धर्मकायहेतुर्हि प्रज्ञा रूपकायहेतुस्तु पुण्यम्।


यथा आर्यनागार्जुनो रत्नावल्याम् -


बुद्धानां रूपकायस्तु पुण्यसंभारतो भवेत्।

धर्मकायःसमासेन ज्ञानसंभारजो नृप॥ (३/१३)


एतदनुसारेण धर्मकायस्य हेतुः ज्ञानसंभारः रूपकायस्य च हेतुः पुण्यसंभारो वर्तते। प्रायशस्स्वर्वेऽपि मतमिदमामनन्ति, तथापि पारमितानये ज्ञानसंभारः अविकलरूपेण प्रतिपाद्यते। यथा चोपरि निर्दिष्टं दर्शनं चतुष्कोटिनिष्प्रपञ्चाद् नान्यद् सम्भवम्। परं च रूपकायहेतुसम्भन्धः पारमितानये -


यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः।

तस्य तस्य प्रपूर्यायं समुदागमलक्षणः॥ 

(अभिसमयालङ्कारः ८/१८)


गुरूणामनुयानादिर्दृढता संवरं प्रति।

संग्रहसेवनं दानं प्रणीतस्य च वस्तुनः॥

(अभिसमयालङ्कारः ८/१९)


एवं द्वात्रिंशल्लक्षणचतुरशीत्यगुव्यञ्जनानां हेतुरूपेण गुर्वागमन-प्रत्युद्गमनविधानं, दानादिपारमितानुशीलनञ्चेत्यादि वर्णितम्। ततोऽप्यग्रे उत्कृष्टावस्थां प्राप्तुं बुद्धक्षेत्रस्य परिशुद्धिव्यवस्था व्यधीयत। यथा चाभिसमयालञ्कारे - 


सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा।

बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे॥ (१/६७)


अक्षयज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः।

सञ्चिन्त्य च भवादानमिदं कर्माष्टधोदितम्॥ (१/६८)


एतद् व्याख्यायमानो हरिभद्रोऽब्रवीत् - एवं विशुद्धक्षेत्रस्य रूपभूमिः स्वर्णनिर्मिता। तरुपल्लवादीनि रत्नजटितानि जलादीन्यपि अष्टगुणैर्युक्तानि। अत्र बोधिसत्त्वा देवदेवीनां रूपेण भाव्यन्ते तथा च सर्वे धर्मा मायोपमा मन्यन्ते।


परं च वज्रयानिमते यावत् साधको मण्डलयुक्तविमानस्य त्रयोदशभिरुपभोगवस्तुभिस्तथा लक्षणानुलक्षणैर्युक्तफलरूपिसम्भोगकायस्य मार्गावस्थायामेव भावनां न कुरुते तावत् दानशीलादिमात्रेण रूपकायप्राप्तिरशक्या। प्रेक्षणीयमधुना यद् वज्रयानस्य स्वरूपकायस्य मार्गीकरण-प्रक्रिया का ? पारमितानयमन्त्रनययोर्भेद-विचारारणायामिदं सुस्पष्टं देवकायस्य प्राप्त्यै रूपकायस्य विशिष्टमुपादानं भवेत्। यथा हि धर्मकायस्योपादानहेतुभूता शून्यता भाव्यते तथैव रूपकायस्योपादानायापि सूक्ष्ममन्त्रयानस्यारम्भः ‘ओं स्वभावशुद्धाः सर्वधर्माः स्वभावशुद्धोऽहम्’ तथा च ‘ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम्’ इत्येताभ्यां जायते। अर्थात् सर्वधर्मस्वभावशून्यतां भावयित्वा तच्छून्यताभावनया चतुष्कोटिनिष्प्रपञ्चनिजचितेन सूक्ष्मप्राणचित्तेन वा सामरस्यं निष्पद्यते। यथा दीपदीपालोकयोः पुष्पस्य तदूगन्धस्य च पार्थक्यमशक्यम्, तथैव चित्तप्राणवाय्वोरपि न पार्थक्यम्। परस्परमेकरसत्त्वम्। सूक्ष्मवायोरपि तन्त्रेषु पञ्चप्रभामयप्राणत्वं कथितम्। चित्तस्य प्रभास्वरत्वमद्वयस्वरूपत्वं च। तस्मादेव देवरूपं प्रकाशते। अत्र स्वयम् इष्टदेवः सप्तावयवयुक्तो वज्रधरः तदनु च स्वभावतः निष्प्रपञ्चस्वभावशून्यता भावयितव्या यद्धि वज्रयाने उत्पत्तिक्रम-निष्पन्नक्रम-भावनया संज्ञितम्। अर्थात् संक्षेपतः वज्रयाने कायवाक्चित्तनामकत्रिवज्रकायस्वरूपस्य समरसता एकाकारता चित्तमस्ति। चित्तमेव कायः वागेव चित्तम् इत्यभिमतम्।


गुह्यसमाजतन्त्रे -


कायवाक्चित्तवज्रेण भेद्याभेद्यस्वभावतः॥ (१८-३८)


नामसंगीतावपि-


अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः।

ज्ञानैकचक्षुरमलो ज्ञानमूर्तिस्तथागतः॥ (१००)


यावत् बुद्धस्य ज्ञानमसीमितं तावदेव बुद्धस्य रूपमपि, यावत् पर्यन्तं बुद्धस्य ज्ञानं व्याप्तं तावत्पर्यन्तं कायस्यापि व्याप्तिः। सूक्ष्मप्राणानां चित्तस्याथवा निजचित्तस्य स्वीकृतिं बिना सर्वसत्त्वानां हितात्मकं यदुद्देश्यमस्माकन्तन्न सेत्स्यति। पारमितायां सर्वधर्मस्य निःस्वभावत्वम् अस्यैव च प्रतिपादनन्तत्र विधीयते। तस्यामवस्थायाम् ‘न ग्राह्यो न च ग्राहकः’ इत्यादिवाख्यानां साहाय्येन किमपि हस्तगतं न भवति। एवमनुभूयते यद् वयं क्वचित् सर्वशून्याकाशे अवस्थिताः स्मः। प्रतिकार्यस्य प्रत्ययेषु विचारेण इत्थमनुभूयते यद् वयं कुत्रचित् शून्याकाशपर्यन्तं प्रसृतस्य सिकतामयस्थलस्य (रेगिस्तानस्य) मध्ये वर्तामहे। किमस्ति ? कुत्रास्ति? कस्मादागतः? कुत्र गन्तव्यम्? क्व च स्थितः? किं विधेयं? किम्विधेयम्? इत्येषां प्रश्नानां समाधानानि नोपलभ्यन्ते।


यद्यपि विज्ञानवादिनः अद्वये माध्यमिकाश्चाप्यद्वये विषयविषय्येकाकारतारूपशून्यतायां स्थिताः, परं च विज्ञानवादिनश्चित्तसत्तामभिनिवेशेन साकं स्वीकुर्वन्ति माध्यमिकानां प्रतिक्षणं तथागतस्कन्धगतिप्रभृतीनां परीक्षणे व्यत्येति।


तथा हि माध्यमिककारिका-गतागतपरीक्षायाम्-


गतं न गम्यते तावदगतं नैव गम्यते।

गतागतविनिर्मुक्तं गम्यमानं न गम्यते॥ (२/१)


इत्येतदनुसारन्तु किमपि गमनागमनादिकं न बुध्यते अकर्मण्यता चानुभूयते वा अतो महल्लक्ष्यभूतपरार्थहेतवे दिव्यशक्तिज्ञानचक्षुःप्रभृतिप्राप्त्यर्थं चतुष्कोटिनिष्प्रपञ्चं प्राणचित्ते निजचित्ते बोधिचित्ते वा महामुद्रायां सम्पन्नचित्तेऽर्थात् आभासशून्याद्वयरूपे समाहितिरावश्यिकी प्रतीयते। अत्राभासशून्यतार्थे न ज्ञानशून्यतामात्रम् अपितु चतुर्थाभिषेकवेलायां संकेतितः परमार्थप्रभास्वरः अर्थात् एवं रूपः सप्तावयवैर्युक्तो वज्रधरः संभोगकाय एव महामुद्राऽथवाभासशून्यो वर्तते। वज्रयानस्यैतदेव दर्शनं साधनायाः प्रमुखं तत्त्वं चास्ति।


वज्रयाने स्वयं देवत्वेनोत्पादयितृविधिषु बीजलक्षणायुधाद्यालम्बनाया भावनाया विभिन्नविधयो वर्तन्ते, यस्मात्तन्त्राणां क्रिया-चर्या-योगानुत्तरादयो विभागा जायन्ते। एतद्भावनाविधयः पश्चाद् वक्ष्यन्ते। वज्रयानोक्तमद्वयस्वरूपं यदत्र विमृष्टं तदनुत्तरतन्त्रसम्बद्धमेव। तन्त्राणामेतेषां भेदोपधेदाः साधनापद्धतयश्चाग्रे प्रतिपादयिष्यन्ते।


वज्रयानसाधनास्वरूपम्


बोधिसत्त्वयानस्य भेदद्वयं–—पारमितानयो गुह्यमन्त्रनयश्चार्थात् महायानस्य धाराद्वयी वर्तते। अद्वयवज्रसंग्रहेऽपीत्थमेव प्रत्यपादि। मन्त्रनयस्य स्वरूपाबोधनात् पूर्वमिदमावश्यकं यत्तत्तत्त्वदर्शनं साधनापक्षश्च बुध्येत। प्रथमपरिच्छेदेऽत्र तत्त्वदर्शनविषये संक्षेपेण वर्णितम्। साधनासम्बन्धे पारमितानयस्य किञ्चिद् मूलभूतान्यन्तराणि प्रतिपादयिष्यन्तेऽत्र यतः सामान्यतन्त्रसाधनाविधिर्विवेचितः स्यात्। विषयशून्यतायां पारमितानयमन्त्रनययोश्च किमप्यन्तरं नास्ति। तिब्बतीयमहासिद्धाचार्येण शाक्यपण्डितेन कथितम्—शून्यता निष्प्रपञ्चा भवितुं शक्नोति। निष्प्रपञ्चतो व्यावृत्ता सती शून्यता सदसतोः शाश्वतो उच्छेदपक्षे वा पतिष्यति। अत्रेदं बोध्यं यत्—शून्यता निष्प्रपञ्चा त्वस्त्येव परं च यत्र शून्यता निष्प्रपञ्चमात्रं तत्रैव मन्त्रनये इयं प्रज्ञोपायाद्वयमयी वर्तते। हेवज्रे यथा—


नास्ति भावको न भावोऽस्ति, मन्त्रं नास्ति न देवता।

संस्थितौ मन्त्रदेवौ च, निष्प्रपञ्चस्वभावतः॥ (१.५-११)


साधनानुशीलनेनाद्वयतत्त्वस्थितिं स्वबुद्ध्यनुसारं भगवत्याः साधकः साक्षात्कर्तुमीप्सति। विषयेऽस्मिन् विस्तरेण तन्त्रचतुष्टयस्य साधनापद्धतौ विचारयिष्यते। तन्त्रचतुष्टये वार्तेयमभिमता यत् पारमितायानस्य चर्या (साधना) हेयोपादेयतादिकं ध्यात्वा विधीयते, मन्त्रनये तु विशुद्धसमताभावनया सर्वदेव-देवीश्च वीरवीराङ्गनाश्च मायोपमा मत्वा नाना पूजार्चना क्रियते। यत्र पारमितानये श्रमेण शमथः विपश्यना च भाव्यते तत्र मन्त्रनये उपायकुशलतया सह सनिमित्त-(उत्पत्तिक्रम-)अनिमित्त(उत्पन्नयोग-)द्वारा प्राणायामेन वायुं नियन्त्र्य वज्रजापादेः सरलो विधिरनुष्ठीयते। पारमितानये समाधिः पृष्ठलब्धस्थितिश्च क्रमशः भाव्यते यत्र चात्राद्वयज्ञानेन सर्वधर्मसमभावाद् युगपद् भावनया विविधं पुण्यं संचीयते। पारमितानये साधनाद्वारा साध्याप्तिः काम्यते तदत्र मन्त्रनये उपायकौशलेन सनिमित्तनिर्निमित्तयोगाभ्यां प्राणायामतो वायुं नियन्त्र्य वज्रजपादेः सरलविधिः स्वीक्रियते। पारमितानये साधयना साध्याप्तिः परं च मन्त्रनये साध्यस्वाधनयोरद्वयतत्त्वतैव। तस्मादेवेदं फलयानमुच्यते। पारमितानये यत्र अनन्तकल्पपर्यन्तं दुष्करं तपोऽनुष्ठीयते। तत्रैव चायं साधकः एकासने एव बोधिप्राप्तिमभिलषति, प्राप्तुमपि शक्नोति। सामान्यप्राणिनां हिताय पारमितानये उपायानामल्पतैव। मन्त्रनये वृष्टिविधानम् रोगशमनं शान्तिरौद्रपुष्टिवशीकरणप्रभृतिविधयः अनेके सन्ति। अत एव त्रिनयप्रदीपे मन्त्रयानं पारमितानयापेक्षया चतुर्विधवैशिष्ट्येन विशिष्टमभिहितम्। यथा — १. असंमोहः २. उपायबहुलता ३. अदुष्करचर्या ४. तीक्ष्णेन्द्रियता। 


१. असंमोहः— पारमितासाधकः प्राणिकल्याणाय हस्तपादं शरीराणि च प्रददाति। परं चासंख्यजनानां हितं साधयितुमशक्यमेतेन। अत्र खड्गांजनवृष्टिप्रभृतयोऽनेके उपायास्सन्ति यैश्च प्राणिहितं विधातु शक्यम्।


२. उपायबहुलता— यत्र च पारमितानये समयसंवरतपस्योपवासप्रभृतयः नैके दुष्करनियमास्तत्रैवात्र तन्त्रे नानाशयरुचिसामर्थ्यानुसारं शान्तरौद्रबीभत्सभयानकप्रभृत्युपायानां साहाय्यमुपादातुं शक्यते।


३. अदुष्करचर्या— यत्र पारमितानये क्लेशास्त्याज्यास्तत्रैव तन्त्रे क्लेशान् नापहाय बोधये तद् मार्गीकरणं क्रियते। यथा च हेवज्रतन्त्रे—


येन येन हि बध्यन्ते जन्तवो रौद्रकर्मणा।

सोपायेन तु तेनैव मुच्यन्ते भवभन्धनात्॥ (२.२.५०)


पञ्चक्रमेऽपि—


येन चित्तेन बालाश्च, संसारे बन्धनं गताः।

योगिनस्तेन चित्तेन, सुगतानां गतिं गताः॥ (४/१६)


४. तीक्ष्णेन्द्रियता— अद्वयतत्त्वं स एव ज्ञातुं प्रभवति यश्च पूर्वसंस्कारयुक्तः वस्तुस्थित्यवगमने तीव्रबुद्धिश्च स्यात्। यद्यपि तीव्रबुद्धेः नैकेषु क्षेत्रेषु स्वस्वपृथक् स्वरूपं भवति परं चात्र वस्तुसत्यतावगमनतीव्रतैवोत्तमा मन्यते। पारमितावादिनः समग्रताभावबोद्धुमसमर्थास्तेनैव नैकमार्गेषु प्रज्ञोपायाद्वयतत्त्वस्य विवेचनं नोपलभ्यते। यत्र च पारमितासाधकः षट्सु दशसु वा पारमितासु एकैकां भावयति तत्रैव तन्त्रसाधकाय सम्पूर्णब्रह्माण्डमण्डलं देवताद्वयबोधिचित्तमास्ते तच्च सर्वमात्मसन्निहितमात्मस्थं च विद्यते, स्वकाय एव निजमण्डलम्, अयमेव तन्त्रस्य साधनाविधिरस्ति। अनङ्गवज्रोऽभिद्यत्ते—


श्रीमता वज्रसत्त्वेन येऽपि चान्ये निदर्शिताः।

अधिमुक्तिवशाः केचित् तैश्च किं तत्त्ववेदिनः॥ (५/३५)


क्रियादितन्त्रचतुष्टयस्य स्वरूपम्


(क) यः साधकः बाह्यशारीरिकमुद्रा-विधानेन कायसिद्धिं वाग्द्वारा मन्त्रावृत्या वाक्सिद्धिं चित्तेन च देवभावनाविधानेन चित्तगुणांश्च प्राप्नोति एवं चाभ्यन्तरध्यानभावनापेक्षया बाह्यशुद्ध्यादिशुभाचरणानि प्रबलतया कुरुते स क्रियातन्त्रवानुच्यते। सेरतोगपामहोदयेन तन्त्रचतुष्टयस्वरूपं क्रमशः स्पष्टयतोक्तम्—


उपलभ्यदेवीं मुद्रां वा समालोक्य रागं समुत्पाद्य तद्रागमार्गीकरणं कुर्वत् तत्त्वध्यानस्थितेः प्रक्रियैव क्रियातन्त्रस्य स्वरूपम्।


(ख) उपलभ्यदेव्या ईक्षणेन सह हासादिप्रक्रियां विदधानः सुखानुभूत्या निष्प्रपञ्चस्वरूपस्य साधनां व्यदधत् कायवाक्चर्यादिशुद्धेराभ्यन्तरचित्तयोगस्य च समानरूपेण अनुशीलकः साधकश्च चर्यातन्त्रवान् निगद्यते।


(ग) उपलभ्यदेव्या पाणिग्रहणं विधाय सुखं संचारयन् सुखरूपविषयज्ञानात् विषयशून्यतायाः साक्षात्कारे प्रयत्नशीलो योगी योगतन्त्रवान् उच्यते।


(घ) समापत्तियोगे स्थित्वाऽद्वयतत्त्वं साक्षात्कृत्य बाह्यपेयापेय-गम्यागम्य-शुभाशुभप्रभृतेः सम्पादनं बिना चर्याकारकः साधकोऽनुत्तरतन्त्रवान् कथ्यते। ‘प्रज्ञोपायविनिश्चयसिद्धौ’ अनङ्गवज्रेणोच्यते—


गम्यागम्यादिसंकल्पं नात्र कुर्यात् कदाचन।

मायोपमादियोगेन भोक्तव्यं सर्वमेव हि॥ (५/२९)


धर्मधातुसमुद्भूता न केचित् परिपन्थिनः।

प्रभुंजीत यथाकामं निर्विशङ्केन चेतसा॥ (५/३१)


तिब्बतस्य परवर्तिपण्डितधर्मश्रीमहोदयेनापि नन्त्रचतुष्टस्य संवर (दीक्षा)स्वरूपं प्रतिपादयताऽवोचि—दर्शनहास्यपाण्याप्तिप्रभृतिष्वेकस्य सुखस्य मार्गीकरणं विधाय तत्सदृशरागस्य परिशोधनाय विशिष्टप्रज्ञोपायज्ञानं भावयित्वा द्वारत्रयस्य (कायवाक्चित्तरूपस्य) वासनाहेतवे विकल्प-बाधकसहेतुचित्तस्य क्रियाचर्यादिकतन्त्राणामभिषेकात्प्राप्तः संवरः शीलञ्च क्रियादितन्त्राणां संवरस्वरूपं वर्तते।


चतुर्णान्तन्त्राणां मण्डलं लिखन् तथागतः कथयामास—क्रियातन्त्रमण्डले दक्षिणतस्तारादेवीं रागमुद्रायां, वामतश्च धर्मदानमुद्रायां पद्मकुलस्यामोघपाशं विलोक्य लेखनीयम् क्रियातन्त्रवज्रोष्णीषेऽपि कथितं-पितृदेवो मातृदेवीं प्रति मातृदेवी च पितृदेवं प्रत्यवेक्षते इति श्वेतवर्णेषु लिखेत्। वैरोचनाभिसमयतन्त्रे चर्यातन्त्रविधिं स्पष्टयता व्यलेखि-दक्षिणतः बुद्धःलोचनस्मितमुद्रायामवतिष्ठते अस्य निखिलं शरीरं कान्तिमयम्। वामे च स्थिता शाक्यमुनेरियं भार्या। योगतन्त्रमण्डसम्बन्धे वज्रशेखरः प्रावोचत्—वज्रदेवी वज्रशब्दं कुर्वती भगवतः हस्तमालिङ्गयन्तीति दृष्ट्वा लिखेत्। अनुत्तरतन्त्रमण्डले पितरं मातरं च युगनद्धसमापत्तिस्वरूपं लिखेत्। यतश्च समापत्तियोगेनैवाद्वयतत्त्वं सिध्यति। तथा च गुह्यसमाजे—


तथागतमहाभासां लोचनां वा विभावयेत्।

द्वयेन्द्रियसमापत्या बुद्धिसिद्धिमवाप्नुयात्॥ (७/१३)


एतेन सुस्पष्टं तन्त्रचतुष्टये साधकैः रागं मार्गीकुर्वद्भिः अद्वयतत्त्वं साक्सात्कर्तुमिष्यते। सम्पुटतन्त्रेऽपि—


हासदर्शनपाण्याप्तिः स तु तन्त्रे व्यवस्थितः।

रागश्चैव विरागश्च, चर्वयित्वा घुणः स्थितः॥ (१६-३-४९)


एतद्व्याख्यायमानो बुस्तोनः लिलेख—कामधातौ रागस्य चत्वारो भेदः— त्रायंस्त्रिंशस्याधः समापत्तिद्वारा, यामे आलिङ्गनेन, तुषिते पाण्याप्तिं कृत्वा, निर्माणरतौ हासेन च परनिर्मितवशवर्तिनि मुद्रादर्शनमात्रेण सन्तोषः सुखं चानुभूयते विनेयजनैः। रूपधातौ कामधातोः रागो न भवति।  अतस्तेषा विनेयजनानां रूपधातुरागान्मुक्त्यै बुद्धेन पारमितानय उपदिश्यते। ये साधका वैराग्यमार्गाददमितास्तेभ्यस्तन्त्रमदिश्यत। एतत्तथावलोकनेन तन्त्रे एकस्य निश्चितरागस्य मार्गीकरणं भवति। परं चास्य कृते निश्चितमेव रूपवतीमुद्रां संसेव्य साधना नानिवार्य्या यतश्च स्त्रीपुरुषयोः शुक्रशोणितोभयरूपत्वात् कार्यकारणयोः सन्ततेरेकत्वाच्च। तन्त्रशास्त्रेऽस्मिन् ‘एवम्’ इत्यस्य व्याख्यया सुस्पष्टं विहितम्। अनेकष्वर्थेषु वर्णितम्। परं च ललना शोणितवाहकनाडीं रसना शुक्रवाहकनाडीं मेलनं मध्यमानाडीं च प्रज्वाल्य शुक्र-स्रवणं विधातुं शक्यम्। यस्य न नैके विषयास्तन्त्रे समुपवर्णिताः। एतस्माच्च काल्पनिकेनैकेन मार्गेण रागस्य मार्गीकरणमद्वयतत्त्वं च साक्षात्कृतं भवति। प्रथमावस्थायामयमेव साधकस्य मार्गः समुचितः प्रतिभाति।


रूपवतीमुद्रां संसेव्य समापत्याऽद्वयतत्त्वस्य साक्षात्कारायेदमपरिहार्यं यत् प्रथमं धर्मशून्यतां मनोमयरूपेण यावद् असङ्कुचितः सन् अन्तः सूक्ष्मचेतनया जानीयात्, शून्यतायां च यदा चित्तस्यात्मसात्करणं भवेत् तदैवातिसूक्ष्मशून्याद्वयतत्त्वमहासुखस्य साधनां विदध्यात्। साधकस्यापरिपक्वतया एतदाचरणं लोके जुगुप्सितं भवति, एतेन च समाजे एतत्परमदिव्यमार्गस्यावहेलना जायते। साधकस्य परिपक्वदशायां एतदाचरेत्तु एतत्सत्यतां तथ्यं च कोऽपि नावरोद्धुं शक्नोति। साधकश्चाश्चर्यकारिचमत्कारान् प्रकटयितुमर्हति। चमत्कार-प्रदर्शनाय विनेयजनानामपात्रत्वमिति केचिदनधिकृता निगदन्ति। उच्चपदस्थो गुरुरपि न दर्शयति। परं च त एव मुद्रादिकं संसेव्य चर्या विदधति तर्हि तेऽपि त्रुटिं विदधति। एतत्त्रुट्या तन्त्रं प्रति हीनभावो जनेष्वजायत, यो हि धर्मावलम्बिनां महान् दोष इति।


कुल-विचारः—


सामान्यकुलस्य सम्बन्धे भारतरत्नभूषितः पी. वी. काणे महोदयः धर्मशास्त्रस्येतिहासे बौद्धबौद्धेतरोभयकुलयोर्वर्णनमकार्षीत्। बौद्धशास्त्रेषु मन्त्रयानादतिरिक्तान्यमतेषु कुलशब्दस्य स्थाने गोत्रशब्दः प्रायुज्यत। पारमितानयश्रावकयानीयग्रन्थेषु गोत्रशदार्थे एव तन्त्रे कुलशब्दस्य प्रयुक्तत्वात्। महायानोत्तरतन्त्रे मैत्रेयनाथः अकथयत्— गोत्रं कुलं वा तच्छक्तिः या हि सम्यक्सम्बोधिं प्रापयति। तेनोच्यते—समे जीवा एकस्मिन् दिने नूनं निर्वाणं लभन्ते सर्वजीवेषु गोत्रस्य विद्यमानत्वात्।


यथा— सम्बुद्धकायस्फरणात् तथताव्यतिभेदतः।

गोत्रतश्च सदा सर्वे, बुद्धगर्भाः शरीरिणः॥ (म. ३१/२८)


गोत्रास्तित्व एव जीवो बुद्धो भवितुमर्हति नान्यथा। गोत्रस्य द्वौ प्रमुखौ भेदौ— १. प्रकृतिस्थं गोत्रम्, २. परिपुष्टिगोत्रं च। यथा—


गोत्रं तद् द्विविधं ज्ञेयं निधानफलवृक्षवत्।

अनादिप्रकृतिस्थं च, समुदानीतमुत्तरम्॥ (म. उ. १-१४९)


गोत्रं निधिफलाभ्यां परिपूर्णं वृक्षसमम्। प्रथममनादिप्रकृतितः परिशुद्धं चास्ति यच्च गगनाकारमास्ते।


चित्तस्य याऽसौ प्रकृतिः प्रभास्वरा

न जातु सा द्यौरिव याति विक्रियाम्।

आगन्तुकैः रागमलादिभिस्त्वसा-

वुपैति संक्लेशमभूतकल्पजैः॥

(म. उ. १-६३)


नाभिर्निर्वर्तयत्येनं कर्मक्लेशाम्बुसंचयः।

न निर्दहत्युदीर्णोऽपि मृत्युव्याधिजरानलः॥ (म. उ. १-६४)


अर्थादिदं गोत्रं कर्मक्लेशाद्यभिमुखं न भवति, परं चास्य स्वरूपमागन्तुकः हेतुविकृतं न कर्तुं पारयति। इदमादित एव गगनवत् प्रभास्वर-स्वरूपं यस्य च नोत्पत्तिर्न नाशश्च। एतस्मिन्नेव तथागतगुणस्थितिः। पृथिव्यां निर्मलजलमिव शरीरधारिषु स्थितम्।


नागर्जुनः—


पृथिव्यन्तर्हितं तोयं यथा तिष्ठति निर्मलम्।

क्लेशैरन्तर्हितं ज्ञानं तथा तिष्ठति निर्मलम्॥


प्रकृतिस्थगोत्रस्य प्रभास्वरस्य चाभिमुखीभाव एव परिशुद्धता, न तु कार्यकारनहेतुभ्य उत्पत्तिः। यथा—


अग्निःशौचं यथा वस्त्रं मलिनं विविधैर्मलैः।

अग्निमध्ये यथा क्षिप्तं दग्धं न वस्त्रता॥ (से. टी. पृ. ६६)


ज्ञानसाधनाभ्यां यथा यथा साधकः आगन्तुक-क्लेशान् प्रजहाति तथा तथा तत्र प्रभास्वरबुणो विकसति। अन्ततः साधनासाधयु चैकीभूतौ तथा भवतः यथा शुक्लपक्षीयश्चन्द्रः कृष्णत्वशुद्ध्या पूर्णतां प्राप्नोति। मार्गगमनपरिपुष्टगोत्रयोरयमेव क्रमः। मैत्रेयनाथेनापि शरीरिषु स्थितगोत्रस्य गुणान् उपमया स्पष्टयता एतत्स्वरूपं व्याहृतम्—


जिनगर्भव्यवस्थानमित्येवं दशधोदितम्।

तत्क्लेशकोशगर्भत्वं पुनर्ज्ञेयं निदर्शनैः॥

बुद्धः कुपद्मे मधुमक्षिकासु तुषेषु साराण्यशुचौ सुवर्णम्।

निधिःक्षितावल्पफलेऽङ्कुरादि प्रक्लेन्नवस्त्रेषु जिनात्मभावः॥

जघन्यनारीजठरे नृपत्वं यथा भवेन्मृत्सु च रत्नबिम्बम्।

आगन्तुकक्लेशमलावृतेषु सत्त्वेषु तद्वत् स्थ्त एष धातुः॥

(म. उ. त. १/१५-९७)


यथा निर्गन्धपुष्पे मधु-मञ्जर्य्यन्तोऽन्नं, अशुचौ सुवर्णम् भूमौ निधिः कुखाद्येन कृषिः प्रक्लिन्नवस्त्रावेष्टितमणिर्देवमूर्तिर्वा स्त्रीगर्भे चक्रवर्ती राजा च चवतिष्ठते तथैव सत्त्वानामनादिप्रभास्वरचित्ते तथागतानां गुणो धातुरूपेण तिष्ठति। साधनया तत्प्रकटीकरणमेव परिपुष्टगोत्रमभिधीयते। बुद्धस्यायमेव रूपकायोऽपि। महायानोत्तरतन्त्रे—


बुद्धकायत्रयावाप्तिरस्माद् गोत्रद्वयान्मता।

प्रथमात् प्रथमः कायो द्वितीयाद् द्वौ तु पश्चिमौ॥ (म. उ. १/१५०)


प्रथमगोत्राद्धर्मप्राप्तिः द्वितीयाच्च संभोगकायनिर्माणकाययोश्च जायते। कारणेनानेनैव निर्माणकायोऽपि धर्मकायात् प्रस्फुटित उक्तः। यतः सर्वगुणाः प्रथमगोत्रे एव तु तिष्ठन्ति। प्रथमगोत्रस्य गगनसमत्वात् सर्वजीवस्यापि समत्वम्। यथा चाकाशधर्मधातोरनेकत्वमशक्यन्तथैव प्रकृतिगोत्रवैषम्यं न भवति। अभिसमयालङ्कारे चापि—


धर्मधातोरसम्भेदाद् गोत्रभेदो न युज्यते।

आधेयधर्मभेदात्तु तद्भेदः परिगीयते॥ (१/४०)


आश्रितधर्मभेदेन सत्त्वभेदो विधातुं शक्यः। यथा सुवर्णरजतलौहादीनां कलशेषु पार्थक्यं तन्मूल्यं स्थानं चापि पृथक् भवितुं शक्नोति परं च तत्र स्थिताकाशधातौ कोऽपि भेदः न भवितुं शक्नोति तथैव सत्त्वानां स्वभावभिरुचीनां कारणेन श्रावकयानिनः प्रत्येकबुद्धः बोधिसत्त्वाश्च कथ्यन्ते स्वसामर्थ्यानुरूपं परमपदं प्राप्यते। प्रकृतिस्थभेदत्वादयं भेदो नास्ति, परं च परिपुष्टगोत्रस्य पूर्णताऽपूर्णताभेदेनाजायत। वैभाषिक-सौत्रान्तिक-विज्ञानवादिभिः श्रावकार्हत्वं, प्रत्येकबुद्धत्वं, सम्यक्सम्बुद्धत्वं चेति पृथक्-स्वतन्त्रपदत्रयं स्वीक्रियते किन्तु नेदमुचित्तम्। महायानिनस्तु अर्हत्-प्रत्येकबुद्धाख्यं विश्रामपदस्थलत्वेन निर्धारयन्ति यावत् सम्यक्सम्बोधिर्न लभ्यते तावत् निर्वाणं न कथयितुं शक्यते, यतश्च प्रथमगोत्रं द्वितीयगोत्रं च चन्द्र-चन्द्रिकासदृशं विद्यते। यथा चोक्तं—


प्रज्ञा ज्ञानविमुक्तीनां दीप्तिस्फरणशुद्धितः।

अभेदतश्च साधर्म्यं प्रभारश्म्यर्कमण्डलैः॥ (म. उ. त. १/१३)


गोत्रस्य परिशुद्धिरेव साधकं संभार-प्रयोग-दर्शन-भावनाशैक्षणिकाख्यपंचमार्गेषु विभजते। यथा—


अशुद्धोऽशुद्धशुद्धोऽथ सुविशुद्धो यथाक्रमम्।

सत्त्वधातुरिति प्रोक्तो, बोधिसत्त्वस्तथागतः॥ (म. उ. त. १/४७)


एतदशुद्धावस्था हि सत्त्वधातुः अशुद्धशुद्धावस्था च बोधिसत्त्वस्य प्रथमभूमितो भावनामार्गपर्यन्तं परिशुद्धावस्था तु तथागतत्वम्। अस्माभिः कथयितुं शक्यं यत् क्लेशज्ञेयावरणसमन्वितः पृघत्जनः अशुद्धः क्लेशेन सद्ग्राह्यधारणया च शुद्धः ज्ञेयावरणेन अशुद्धः एवं च दर्शनभावनामार्गौ शुद्धाशुद्धौ, आवरणद्वयेन पूर्णशुद्धस्तथा भवति।


सारतस्तु वक्तुं शक्यते साधकः स्वस्वयोगतानुरूपं साधनामनुष्ठाय परमपदं समवाप्नोति। साधनायाः शक्तिः कुलं गोत्रञ्च। कुलं यत्र फलन्तत्रैव मार्गाचरणे मार्गो हेतुर्वापि विद्यते। यथा लोके कुलसन्तनिरग्रिमोऽधिकारी भवति। तत्त्वतस्तु कुलमेवमेव यथा च मनुष्यः। परं च बुद्धिसतरानुसारेण नैके भेदा विधातुं शक्याः। लोके एव मनुष्यस्य बुद्धौ वर्णसंस्थानादिभेदेन नैके भेदा दृश्यन्ते तथैव तन्त्रग्रन्थेषु व्यावृत्त्यनुसारेणानेककुलवृत्तानि चर्चितानि। यथा हि—


(क) साधकेषु क्लेशानां न्यूनाधिकवासनया तन्त्रग्रन्थेषु तत्तत्क्लेशानां मार्गीकरणविधिः न्यरूपि। वज्रपञ्जरे बुद्धेनावोचि—द्वेषामोहाहङ्काररागमात्सर्यादिग्रस्तजनाननुग्रहीतुं द्वेषप्रधानसाधकायोक्षोभ्यकुलस्य, मोहप्रधानाय वैरोचनकुलस्य च रूपं धारयित्वा मया तन्मार्गः प्रत्यपादि।


(ख) साधकानां वर्णानुरूपं हेवज्रतन्त्रे कुलदेवः एवं न्यरूप्यत—


यो हि योगी भवेत् कृष्णः, अक्षोभ्यस्तस्य देवता।

यो हि योगी महागौरो वैरोचनः कुलदेवता॥


यो हि योगी महाश्यामः, अमोघस्तस्य देवता।

यो हि योगी महापिङ्गो रत्नेशः कुलदेवता॥


रक्तगौरो हि यो योगी, अमिताभः कुलदेवता।

श्वेतगौरो हि यो योगी तस्य वज्रसत्त्वकुलं भवेत्॥ (२-११-५-७)


(ग) शरीरवर्तिलक्षणानुसारमपि साधकः केन कुलेन सम्बद्धः कीदृक्संस्कारनिधिः, इदं दृश्यते। यथा च हेवज्रे—


अनामिकामूले यस्य, स्त्रिया वा पुरुषस्य वा।

नवशूकं भवेद् वज्रमक्षोभ्यकुलमुत्तमम्॥


वैरोचनस्य भवेत् चक्रममिताभस्य पङ्कजम्।

रत्नसम्भवो महारत्नं खड्गं कर्मकुलस्य च॥ (२/११/३-४)


बुद्धिस्तरानुसारमपि साधकः विभिन्नकुलिको मन्यते—


अनेकाकारबुद्धित्वात् पुद्गलाः पञ्च संमताः।

रत्नचन्दनपद्माश्च पुण्डरीकस्तथोत्पलः॥

(प्रदीपोद्योतनपटलम्, पृ. ४)


(घ) एवं साधकानां विभिन्नाशयसामर्थ्यानुसारमपि कुलस्यासंख्या भेदाः— गुह्यसमाजे चापि—


तत्त्वं पञ्चकुलं प्रोक्तं, त्रिकुलं गुह्यमुच्यते।

अधिदेवो रहस्यं च परमं शतधा कुलम्॥ (१८/३६)


पुनः पञ्चकुलानां विस्तरेण अगणिता कुलभेदा जायन्ते। हेवज्रतन्त्रे चापि—


एकमेव महाचित्तं पञ्चरूपेण संस्थितम्।

पञ्चकुलेषु संभवस्तत्रानेकसहस्रशः॥


तस्मादेकस्वभावोऽसौ महासुखं शश्वत्परम्।

पञ्चतां याति भेदेन रागादिपञ्चचेतसा॥


दशगङ्गानदीबालुकातुल्या एककुलेषु तथागतसङ्घाः।

सङ्घकुलेषु ह्यनेककुलानि, तेषु कुलेषु कुलानि शतानि॥


तानि च लक्षकुलानि महान्ति, कोटिकुलानि बहूनि भवन्ति।

तत्र कुलेषु चासंख्यकुलानि परमानन्दकुलोद्भवानि॥

(२/२/५८-६१)


तत्त्वतः एकस्मिन् सत्यप्यानन्त्यं विस्तरेण, संक्षेपतस्तु कायवाक्चित्तेषु अन्ततः कायस्यैव चित्तत्वात् चित्तस्यैव कायत्वाच्च प्रभास्वरो निजचित्ते महाचित्ते च समाविशति। इदमेव गोत्रं कुलं चापि।


सहजसिद्धौ कुलं साधनापक्षत्वेनाङ्गीकृत्य वर्णितम्—


कुलानि भजते लोके पञ्चसंख्याकृतालयम्।

कुलसेवया भवेत्सिद्धिः, सर्वकामप्रदा शुभा॥ (२/४)


अक्षोभ्यश्चामिताभश्च रत्नसम्भवो वैरोचनः।

अमोघश्च तथा प्रोक्ताः सत्त्वानां सिद्धिहेतुना॥ (२/६)


अक्षोभ्यप्रभृतिकुलसाधनया सिद्धिरवाप्यते। पुनस्तत्रैवोक्तं—‘कुलसेवया भवेत्सिद्धिः सम्यक्सम्बुद्धभाषितम्’ (२/८) फलप्राप्त्यै स्वस्वमार्गानुशीलनं कुलसेवार्थात् कुलाचरणमुच्यते। एतस्माद् हेतोः बोधिचर्यावतारे बोधिचित्तस्य दीक्षावाप्त्यनन्तरं साधकं स्वात्मानं बुद्धकुलप्रसूतं मन्यते, एवं च बुद्धस्य भाव्युत्तराधिकारिणं मत्वा स्वदुर्लभं मानवजीवनं धन्यं मनुते। यथा—


अद्य मे सफलं जन्म सुलब्धो मानुषो भवः।

अद्य बुद्धकुले जातो बुद्धपुत्रोऽस्मि साम्प्रतम्॥ (३/२५)


सम्पुटोद्भवतन्त्रे साधकः अभिषेकं समुपलभ्य सहर्षं स्वोद्गारान् प्रकटयन् वक्ति—


प्राप्ताभिषेको मनुजः कृतकृत्यः प्रहर्षितः।

वदेत् सुमधुरां वाणीं जगदानन्दकारिणीम्॥


अद्य मे सफलं जन्म, सफलं जीवितं च मे।

अद्य बुद्धकुले जातो बुद्धपुत्रोऽस्मि साम्प्रतम्॥ (२/१-२)


इत्थमत्र तन्त्रसामान्यसाधनां विचार्य्य मानवप्रकृत्यनुरूपं कुलं निर्धार्य्य साधना विधेया। एतदग्रे अधिकारिभेदेन क्रियाचर्यादितन्त्रसाधनाविधयो निरूपयिष्यन्ते।   


द्वितीयः परिच्छेदः


क्रियातन्त्रम्


क्रियातन्त्राभ्युदयः


क्रियातन्त्रस्य देशनाप्रसङ्गे कथितं भगवांस्तथागतः श्रावस्त्या मासत्रयाय त्रायस्त्रिंशल्लोके धर्मोपदेशेन स्वमातरम् अनुग्रहीतुं जगाम, तत एव यथासमयं सुमेरुपर्वतादिस्थानमुपगत्यानेकतन्त्रशास्त्राणि दिदेश, पुनश्च जम्बूद्वीपं परावृत्य मगधश्रावस्त्यादिविभिन्नस्थानेषु नानाविधाभिरुचिविनेयजनेभ्यः तन्त्रमुपदिदेश। एतेषु च क्रियातन्त्रं मञ्जुश्रीतन्त्रावलोकितेश्वरतन्त्रवज्रपाणितन्त्राचलतन्त्रविद्यादेवीतन्त्रोष्णीषतन्त्राख्येषु षट्सु भागेषु व्यभाजि। क्रमेऽस्मिन्नेव क्रियातन्त्रस्याभ्युदयस्तत् प्रादुर्भावश्च निरूप्यते।


मञ्जुश्रिया सम्बद्धतन्त्रम्


मञ्जुश्रीमूलकल्पस्य देशना तथागतेन शुद्धावासलोके कृता-"एकस्मिन् समये भगवान् शुद्धावासोपरि गगनप्रतिष्ठिते अचिन्त्यसाश्चर्याद्भुतबोधिसत्त्वसंनिपातमण्डलमाले विहरति स्म" इत्यादिप्रकरणे विस्तृतविवरणं द्रष्टुं शक्यते। 


अवलोकितेश्वरतन्त्रम्


अवलोकितेश्वरेण सम्बद्धान्यनेकानि तन्त्रपुस्तकानि सन्ति। तेषु आर्यामोघपाशतन्त्रं भगवांस्तथागतः पोतलपर्वते समुपादिशत्, यच्चावलोकितेश्वरक्षेत्रमुद्यते। तत्रैव चासंख्यबोधिसत्त्वैः रूपलोकसत्त्वैश्च एतदुपदेशः अलाभि।


२. आर्यावलोकितेश्वरपद्मजालमूलतन्त्रराजं भगवान् हिमालयस्य महावने आयुष्मद्महाकश्यप-गयाकश्यप-आनन्दकुमार-शारिपुत्रमौद्गल्यायनसुभूतिप्रभृतीन् नैकांश्च भिक्षून् श्रामणेरान् नागदेवासुरकिन्नरगन्धर्वादीन् समुपादिशत्। 


३. आर्यापरिमितायुर्ज्ञानहृदयनामधारणीं बुद्धो गङ्गातटे भिक्षुसंघबोधिसत्त्वेभ्य उपादिशत्। 


४. आर्यावलोकितेश्वरगुह्यकोश-असङ्गचिन्तामणिचक्रहृदयनामधारणीं भगवान् बोधिसत्त्वेभ्यः ऋषिपर्वते दिदिशे।


५. आर्यमुखदेशक-विद्यामन्त्रहृदयनामधारणी भगवता तथागतेन श्रावस्त्या वेणुवने भिक्षुसंघेन मैत्रेयादिबोधिसत्त्वैश्च साकं विहरताऽवलोकितेश्वरादिऋषीणां विद्याधरादीनां च निवेदनेन समुपादेशि।


६. आर्यसमन्तभद्रनामधारणी राजगिरौ भगवताऽष्टसहस्रभिक्षुसंघेनासंख्यबोधिसत्त्वैः शुद्धावासकुलस्य देवैश्च परिपूर्णायां सभायां प्रवचनं विदधता अवलोकितेश्वरैस्तद्धारणीं देशयितुं विनतौ समुपादिश्यत।


७. आर्यामोधपाशकल्पः भगवता पोतलापर्वते अवलोकितेश्वरस्य निवेदनेन देशितः।


८. आर्यावलोकितेश्वरनामधारणी स्वयमवलोकितेश्वरेण मैत्रीवशात् पद्मचन्द्रसूर्यासने एकाननचतुर्भुजाभिराविर्भूय बोधिसत्त्वेभ्यः समुपदिष्टा।


९. भगवान् स्वयमेव पद्मावलोकितेश्वररूपेणाविर्भूय वज्रासने वज्रपाणये सिंहनादतन्त्रमुपदिदिशे।


१०. आर्यावलोकितेश्वराष्टशतकं भगवता देवनागयक्षगन्धर्वराक्षसासुरकिन्नरविनेयैश्च साकं विहरता ब्रह्मादिबोधिसत्त्वानां समक्षं देसितं यत्र विभिन्नपर्यायेषु अवलोकितेश्वरः प्रशंसितः।


अचलतन्त्रम् 


१. अस्याप्यनेके उपविभागाः समुपलभ्यन्ते। एतेषु चार्याचलनामधारणी भगवता त्रायस्त्रिंशलोके दशमभूमिवासि-बोधिसत्त्वसमन्तभद्राकाशगर्भ-सर्वनीवरणविष्कम्भि-मञ्जुश्रीपाण्यवलोकितेश्वरमैत्रेयप्रभृतिबोधिसत्त्वैः समं विहरमाणेन मैत्रेयस्य निवेदनेन अकारि।


२. आर्यविघ्नविनायकधारणीं भगवान् श्रावस्ती-जेतृवने आयुष्मद्-रतिनिवेदनेनोपादिशत्।


३. श्रीवज्रभैरवं स्वयं वज्रभैरवोऽदिशत्।


वज्रपाणितन्त्रम्


१. भगवांस्तथागत आर्यवज्रपाणि-नीलाम्बरधरवज्रपालनामकतन्त्रं पाताललोके नागराजानन्द-उपनन्दबोधिसत्त्ववज्रपाणिप्रभृतिभिः सह विहरन्नुपादिशत्।


२. आर्यवज्रपाणिनीलाम्बरत्रिलोकविजयनामतन्त्रं सुमेरुपर्वतस्य दक्षिणप्रदेशे अलकावत्यां वज्रपाणिसहितानन्तदेवासुरेभ्यो बोधिसत्त्वेभ्यश्च तथागतभगवता समुपादेशि।


३. नीलाम्बरधरवज्रप्रत्यक्षतन्त्रत्रिलोकविजयस्य देशना वज्रपाणिना व्यधीयत।


४. वज्रचण्डचित्तगुह्यतन्त्रं भगवता तथागतेनेन्द्रदेवस्य निवेदनेन समुपदिष्टम्।


५. श्रीवज्रचण्डचित्तगुह्यतन्त्रोत्तरतन्त्रं भगवतः वज्रपाणेः निवेदनेन भगवान् समुपदिष्टवान्।


६. वज्रहृदयवज्रजिह्वानलनामधारणीं भगवान् शीतवज्रमहाश्मशाने बोधिसत्त्वश्रावकप्रत्येकबुद्धदेवासुरनरप्रभृतिभ्यः समुपादिशत्।


७. श्रीगुह्यवज्रपाण्यभिदेशतन्त्रं भगवता तथागतेन अकनिष्ठभुवने अलकावतीप्रासादे वीरेश्वरे पृष्टवति सति प्रश्नोत्तररूपेण समुपादिश्यत।


८. आर्यलोहतुण्डनामधारणी भगवता इन्द्रस्य निवेदनेन मगधे आम्रवनस्य विदेहगुहायां विहरता देशना समपादि।


९. आर्यमेखलानामधारणी कपिलवस्तुनि न्यग्रोधोद्याने कुमारराहुलस्य निवेदनेन उपादेशि।


१०. आर्यवज्रपाणिहृदयं भगवान् बुद्धः श्रावस्ती-जैत्रवने आनन्दादिना वज्रपाणेः किं कुलमित्यादि प्रश्ने समुपादिशत्।


विद्यादेवीतन्त्रम् 


१. महामायूरी-विद्याराज्ञी भगवता तथागतेन अनाथपिण्डकोद्याने विहरता देशिता। दीक्षामादाय शारिनामकभिक्षोः भिक्षुसंघे प्रवेशस्य किञ्चित्काल एव गतः अकस्माच्च सर्पेण सः दंष्ट्रः तं मूर्च्छितं विलोक्य आनन्देन भगवान् निवेदितस्तदा प्राणिमात्रस्य विभिन्नरोगेभ्यो मुक्तये विद्याराज्ञीमुपादिश्यत।


२. महामन्त्रानुधारणीसूत्रं भगवान् बुद्धः श्रावस्त्या जेतृवने इन्द्र त्रायस्त्रिंशदेवदिक्पालयक्षादिभिर्निवेदने कृते सति समुपदिदेश।


३. आर्यमहाप्रतिसराविद्याराज्ञीं भगवान् तथागतो वज्रपर्वते समुपदिष्टवान्।


४. आर्यजयवतीमहाविद्याराज्ञी भगवता राजगिरि-विदेहपर्वते निवसता भिक्षुसंघ-भिक्षुणीसंघ-श्रामणेरसंघोपासकानां शासनं प्रति विघ्नं विलोक्य प्रार्थनया स्वयंवज्रधरचण्डरूपेणाविर्भूय पूर्वाभिमुखसहस्रवज्रज्वालाः प्रसार्य्यं भूतसमूहं तर्जयतोपादेशि। 


५. आर्यताराभट्टारिकानामकाष्टशतकमार्यावलोकितेश्वरः समुपादिशत्।


६. सर्वतथागतमातृताराविश्वकर्मभावतन्त्रं तथागतबुद्धेन तुषितलोके मञ्जुश्रीप्रभृतिबोधिसत्त्वाभ्यर्थनया समुपदिष्टम्।


७. आर्यताराष्टघोरतारणीसूत्रं भगवान् सुमेरुपर्वते देवस्थाने समुपादिशत्।


उष्णीषतन्त्रम्


१. अस्याप्यनेके ग्रन्थाः प्राप्यन्ते। एतेषु च आर्यमहादण्डनामधारणीं भगवांस्तथागतः राजगिरेः गृध्रकूटे आयुष्मतो राहुलभद्रस्य प्रार्थनयाऽदिशत्।


२. आर्यसर्व-आन्तरायिकविशोधिनीनामधारणी भगवता तदा समुपादेशि यदा राजगिरेः पूर्वस्मिन् ब्राह्मण-निवासाम्रवनस्य दक्षिणे च विदेहपर्वतस्य इन्द्राख्यकन्दरायां भगवान् विहरमाण आसीत्। ससेवकः इन्द्रस्तत्रोपदेश-ग्रहणाय समुपागतस्तस्य च निवेदनेन भगवता धारणीयं तस्मै समुपादिश्यत।


३. आर्यसर्व-अभयप्रदाननामधारणी चापि मगधे भगवता इन्द्रस्य विनत्या दिदिशे।


४. आर्यबाहुपुत्रप्रतिसारनामधारणी श्रावस्त्यामनाथपिण्डकेन राज्ञा प्रसेनजितेन आक्रमणे कृते सति तद्रक्षणं कथं शक्यम् इति पृष्टे सति भगवतेयं धारिणी समुपादेशि।


५. श्रावस्त्यनाथपिण्डकोद्याने पञ्चशतोत्तरसहस्रद्वय-(२५००) भिक्षुभिः सह यदा भगवान् विहरति स्म तदानीम् आनन्दो ग्रीष्मकाले मासत्रयमुपोषथं सम्पाद्य अयोध्यातः बुद्धदर्शनाय श्रावस्तीमुपजगाम। भगवता आनन्दः समभिहितः यदद्यतः पूर्वं सप्तसप्ततिकोटिमितसम्यक्सम्बुद्धैरपि आर्यमहाधारणी समुपदिष्टा। अहं च पुनः आर्यमहाधारणीं तुभ्यमुपदिशामि। 


६. आर्यभद्ररात्रिनामसूत्रं भगवता राजगिरि-वेणुवने भिक्षुभ्यो दिदिशे।


७. आर्य-ओजःप्रत्यङ्गिरणीसूत्रं श्रावस्त्यामानन्दादिभिक्षुभ्यः समुपदिष्टम्।


८. आर्यज्वरप्रशमनीनामधारणी च भगवता राजगिरेः शीलाख्यश्मशाने भिक्षुसंघायोपादिश्यत।


९. सर्वतथागतोष्णीषविजयनामधारणीकल्पस्य अमितायुर्भगवता सुखावतीलोके अवलोकितेश्वरस्य निवेदनेनोपदेशः समपादि।


१०. आर्यद्रविणविद्याराजतन्त्रं बुद्धः श्रावस्त्यां वेणुनिर्मिते प्रकोष्ठाङ्गणे विहरन् आनन्दादिभ्यः समुपादिशत्।


क्रियातन्त्रस्य स्वरूपम् 


क्रियातन्त्रस्वरूपं तथागतेन ज्ञानसमुच्चये एवं प्रत्यापादि - “लोके अवहेलनाविधातृचर्याया भीतः क्रियातन्त्रस्य साधकः बाह्यशुद्धिं प्राबल्येन विधत्ते। अस्मिन् ज्ञानसत्त्वस्याभावः स्वदेहे देवकायस्य भावनाऽभावः अतिविशिष्टेऽध्वनि प्रवेशयोग्यताऽभावो भवति। अतः स दोषक्षयहेतवे विकल्पमाश्रयते। एवं साधकः क्रियातन्त्रावस्थितः समभिधीयते”।


एतद्व्याख्यायमानः कोङ्टुल रिनपोछे वक्ति - मन्दबुद्धिर्जनः - (साधकः) गम्भीरार्थाद् (रागोत्पन्नानुभूते) बिभेति। स्वयं समयदेवस्य भावनायामसामर्थ्येन स्वदेहे देवकायस्य भावनाभावो भवति। एतदभावे ज्ञानदेवमाहूयात्मनि स विलीनत्वमपि न कर्तुमर्हति। सन्ध्याभाषया मुद्रितातिविशिष्टमार्घानुकरणेऽपि तदसामर्थ्यम्। दोषाणां प्रहाणाय विकल्पानाश्रित्य स्नानादिकमाचरद्भिरिष्टदेवस्य स्वामिनः रूपेणात्मनश्च सेवकस्य रूपेण भावनां विधायाधिष्ठातुमिष्यते। एवं साधकाः क्रियातन्त्रवन्तः कथ्यन्ते। एभिर्मन्त्रांजनाद्यष्टलौकिकसिद्धीनां स्वातन्त्र्येणाचरणाभिलाषेण तत्प्राप्त्यर्थं मन्त्रावृतिमनुष्ठाय साधनानुष्ठीयते।


सेरतोगपाचार्येण क्रियातन्त्रस्य स्वरूपमित्थं न्यरूपि - क्रियाचर्यातन्त्रयोः साधकाः सम्पूर्णमार्गं साधनास्थल-स्वतत्वविद्यामन्त्रावृत्ति-अग्निस्थ-ध्वनिस्थ-ध्वन्यन्तःस्थ समाधि-मन्त्रसाधनाप्रवेशविधिषु होमाभिषेकाख्येषु दशसु तत्त्वेषु संगृह्य ध्यानं कुर्वन्ति। एतानि दश तत्त्वानि बोध्यङ्गानि मन्यन्ते।


बुद्धेनानुष्ठितायाः ज्ञानसमुच्चयवचन-व्याख्याया उदाहरणं ददताचार्य-चोङ्खापामहोदयेन व्याह्रियते-क्रियातन्त्रस्य विनेयजना ये च देवयोगे एकाग्रताया बिभ्यति, अतिविशिष्टाचरणस्य लोक-गर्हणत्वाद् एवं चार्थं विधातुमसमर्थाः एवं चोत्पत्तिजराभङ्गादिदोषाणां कारणेन सर्वधर्मसत्यतां सत्त्वा साधनां विदधति, एवं विकल्पोन्मुखसाधकेभ्यः एव स्वयं देवभावनायाः ज्ञानावेशस्य चाभावः प्रतिपादितः, न तु क्रियातन्त्रस्य समग्रसाधकेभ्यः एवं विशिष्टसाधकाः ये च स्वदेहदेवभावनाज्ञानावेश-राग-हासदर्शनादिमार्गेणचरणे क्षमन्ते तेषां कृते समनुज्ञा विद्यते। इत्थमत्र क्रियायाः सामान्यविशिष्टसाधकानां स्तरानुरूपं स्वरूपं स्वीकृतमस्ति।


निष्कर्षस्तु क्रियातन्त्रस्य तदेव स्वरूपं यस्मिन् स्नानादिबाह्याचरणादिपवित्रताम् आभ्यन्तरमन्त्राद्यावृत्तिं प्राबल्येन प्रतिपाद्य रागस्य स्तरचतुष्टये प्रथमदर्शनावस्थायाः मार्गीकरणविधिः प्रत्यपाद्यत।


क्रियातन्त्रस्यावान्तरभेदाः


क्रियातन्त्रचर्यातन्त्रयोः कुलस्य भेदद्वयं विधीयते। यथा - 

१. लोकोत्तरकुलम्, २. लोककुलं च।


१. लोकोत्तरकुलम्


तथागतकुलम्


लोकोत्तरकुले तथागतकुलपद्मकुलवज्रकुलाख्यानि त्रीणि कुलानि समाहितानि। क्रमश एतान्युत्तममध्यमाधमान्युच्यन्ते। बुद्धगुह्येन कुलत्रयाभिप्रायं स्पष्टयता कीर्त्यते-तथागतकुले सर्वधर्मान् सम्यग् विज्ञायातीते यथा अनन्ता बुद्धा बोधिसत्त्वा अभुवन् तस्मिन्नेव मार्गे तद्वत् प्रगत्य बोधिलाभकारकः तथागतकुलस्योच्यते यथा भगवान् शाक्यमुनिः।


सर्वतथागततत्त्वसंग्रहे चापि—


स्वचित्तप्रतिवेधादिबुद्धबोधिर्यथाविधि।

स एव भगवान् सर्वतथागतकुलं भवेत्॥


तथागतकुलं सैव सैव वज्रकुलं स्मृतम्।

सैव पद्मकुलं शुद्धं सैवोक्तं मणिसत्कुलम्॥


साधकस्य स्वचित्तमपि तथागतानां कायवाक्चित्तसदृशं विद्यते। तद्यथा— वदवगमनमेव तथागतकुलम्। तत्त्वसङ्ग्रहाद्यनेकतन्त्रग्रन्थेषु ‘ओं वज्रात्मकोऽहम्, चित्तप्रतिवेधं करोमि’ इति वर्णितम्। यश्च ‘अ उ म’ इति त्र्यक्षरसम्पन्नः त्रिवज्रसदृशोऽस्ति। तत्प्रतिवेधविधानमेव तथागतकुलमभिधीयते। एतेन चापि सिध्यतीदं चित्ततत्त्वमेव कुलम्, यन्मार्गबलेन साधकः तत्साक्षात्कुरुते तदेव कुलस्य साधकः स मन्यते।


पद्मकुलम् 


क्लेशरहितः सन् अहोरात्रं प्रहरषट्के निस्सहायप्राणिनो वीक्ष्य करुणाद्रवीभूतः सन् प्राणिनामुद्धाराय प्रयत्नशीलः साधकः पद्मकुलिक उद्यते। अत्रावलोकितेश्वरस्तदधिष्ठातृतारादयः कुलस्यास्य देवा देव्यश्च सन्ति।


वज्रकुलम् 


बौद्धशासनरक्षकं शत्रुप्रधर्षकं वज्रकुलकमुच्यते। यथा हि बोधिचित्तसमन्तभद्र—षट्पारमितोद्भूतं ज्ञानक्रमेण चाधिष्ठितचण्डचण्डीप्रभृतिकं वज्रकुलिकं वर्तते। 


पुनश्च त्रिकुलस्याभ्यन्तरभेदा नैके सन्ति। यथा च तथागतकुलस्याष्टौ भेदाः सन्ति-प्रधानकुल-अधिपतिकुल-मातृकुलोष्णीषकुल-क्रोधकुल-दूतदूतीकुल-बोधिसत्त्वकुल-शुद्धावासिककुलानि।


प्रत्येकं कुलस्य ग्रन्थानां विवरणम्—


१. प्रधानकुले त्रिसमयव्यूहराजतन्त्राद्यनेके ग्रन्थाः।


२. तथागताधिपतिकुलस्य मुख्यो ग्रन्थः आर्यमञ्जुश्रीकल्पः।


३. मातृकुले महामायूरीविद्याराज्ञीप्रभृतयः ग्रन्थाः।


४. उष्णीषकुले आर्यसर्वतथागतसितातपत्रा नाम अपराजिता प्रत्यङ्गिरा महाविद्याराज्ञीप्रभृतयः ग्रन्थाः।


५. तथागतक्रोधकुले विषयकल्पगुह्यतन्त्राद्यनेके ग्रन्थाः।


६. दूतदूतीकुले आर्यभद्ररात्रिनाम सूत्रं गण्यते।


७. तथागतबोधिसत्त्वकुले आर्यमैत्रेयनाम-अष्टोत्तर-शतकधारणीसंहिता प्रभृत ग्रन्थाः।


८. तथागतशुद्धावासिकदेवकुले आटानाटीयसूत्रनाम महासूत्रादिग्रन्थाः।


एतेषु धारणीतः यं ग्रन्थमनुकृत्य साधकः स्वसाधनामभ्यस्यति सः तत्कुलस्यैवोच्यते। पद्मकुलस्याभ्यन्तराः पञ्च भेदा विधीयन्ते प्रधानकुल-अधिपतिकुल-मातृकुल-क्रोधकुल-आज्ञाकारिकुलानि।


१. प्रधानकुले आर्य-अपरिमितायुर्ज्ञाननाम महायानसूत्रादिकं गण्यते।


२. अधिपतिकुले आर्यावलोकितेश्वरपद्मजालमूलतन्त्रराजनामादिग्रन्थाः।


३. मातृकुले सर्वतथागतमातृतारा विश्वकर्मभवतन्त्रनामादिधारण्यः नैकसूत्रग्रन्थाश्च सन्ति।


४. क्रोधकुले आर्यावलोकेतेश्वरहृदयग्रीवाधारणीप्रभृतयः ग्रन्थाः समाहृताः।


५. आज्ञाकारिकुले आर्यमहालक्ष्मीसूत्राद्यनेके मन्त्राः स्रोतांसि धारण्यश्च सन्ति।


वज्रकुलस्यापि-प्रधानकुल-अधिपतिकुल-मातृकुल-क्रोधक्रोधितकुल-दूत-दूतीकुल-आज्ञाकारिकुलानि चेत्येतानि पञ्च उपभेदाः।


१. प्रधानकुले आर्यसर्वकर्मावरणविशोधनीनामधारणीप्रभृतयो ग्रन्थाः आयान्ति।


२. अधिपतिकुले आर्यवज्रपातालनामतन्त्रराजादयः ग्रन्थाः।


३. मातृकुले आर्यवज्राजितानलप्रमोहनीनामधारणीप्रभृतयः ग्रन्थाः आयान्ति।


४. क्रोधक्रोधिनीकुले आर्यजयवतीनाममहाविद्याराजः।


५. दूतदूतीकुलेऽथवा आज्ञाकारिकुले महाबलनाममहायानसूत्राद्यनेकसूत्र-धारणी-मन्त्र-स्तोत्रतन्त्रग्रन्थाः समायान्ति।


अत्रेमे भेदाः बुस्तोन जि.-चतुर्दशम् (९४) एवं च खसडुबजे सामान्यतन्त्रम् जि. नवममाधारीकृत्य समुट्टङ्किताः। धीः पत्रिकायाः पञ्चमेऽङ्के श्रीबनारसीलालमोहोदयेन विस्तृतः परिचयः आदायि।


लोककुलम्


लोककुलस्याभ्यन्तरभेदास्त्रयः मणिकुलं पञ्चककुलं (पुष्टिकुलमित्याख्यमपि) लोककुलं च 


१. मणिकुले आर्यमणिभद्रानामधारणी एवं च आर्यजम्भलजलेन्द्रयथालब्धकल्पनामप्रभृतयः ग्रन्थाः समाविष्टाः। 


२. पञ्चककुले आर्यमेखलानामधारणी प्रभृतयः।


३. लोककुले आर्यमन्त्रराजमहाश्वासादयः ग्रन्थाश्चायान्ति।


एतेषां कुलानामन्तर्भावः इष्येत, तर्हि भागत्रये कर्तुं शक्यते। मणिकुलस्य पद्मकुले पुष्टेः पञ्चकुलस्य वा वज्रकुले चान्तर्भावः अन्ये सर्वे लौकिकाः देवाः लोककुले सम्मिलन्ति। सुबाहुपरिपृच्छाटीकापिण्डार्थविधौ निरूपितं—ये एतत्त्रितयकुले न संगृह्यन्ते ते तथागतेनाधिष्ठिता आविर्भूताश्च न मन्यन्ते। तत्रेदमपि कथितं—यद्यपीमे लौकिकदेवाः स्वलौकिकरूपं सन्धार्य्य लोके विचरन्ति, परं च तथागतेन दमिताः सन्तः समये तिष्ठन्ति तत्पालयन्ति च। अत एते तथागतौलाश्रिता मन्यन्ते। लोककुले ब्रह्मगरुडसूर्यचन्द्रप्रभृतयः नैके देवाः समायान्ति।


प्रायशः कुलपरिचयस्तन्मन्त्रैरपि कर्तुं शक्यते। यथा तथागतकुलस्य मन्त्राः “ओं नमो रत्नत्रयाय, नमो बुद्धाय, नमो धर्माय, नमः संघाय” इत्यादितः आरभ्यते। पद्मकुलस्य ‘नमः आर्य-अवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय’ इत्यादित आरभ्यन्ते मन्त्राः। वज्रकुलस्य ‘नमश्चण्डपाणये महासेनापतये’ इत्यादितः। मणिकुलस्य मन्त्राः ओं नमो मणिभद्राय महायक्षासेनापतये इत्यादितः प्रारभ्यते।


पञ्चकस्य पुष्टिकुलस्य च मन्त्राः नमः पञ्चकाय, नमो मेखलायै इत्यादिना समारभ्यन्ते। लोककुलस्य मन्त्राः स्वाधिपतेः नमनेन सहारभ्यन्ते अतः किमपि सुनिश्चितं निर्धारणमशक्यम्।


कुलभेदस्य प्रयोजनम् 


यथा विद्यायाः सरस्वती, धनमंगलादेश्च कुबेरगणेशौ देवौ मन्येते तथैवात्र प्राधान्येन शान्तिकर्मसिद्ध्यै तथागतकुलं पुष्टिकर्मसिद्ध्यर्थं पद्मकुलं रौद्रकर्मणः त्वरितसिद्ध्यै च वज्रकुलमभिमन्यते। तथागतकुलेन पुष्टिरौद्रकर्माभिलाषिणां पात्राणाश्च पुनराभ्यन्तरभेदा विधीयन्ते। यथा च तथागतस्य मुख्यकुलं शान्तिकर्मसिद्ध्यर्थं, तथागताधिपतिकुलं पुष्ट्यर्थं क्रोधकुलं च रौद्रकर्मसाधनायै उपयुक्तम्मन्यते तथैव पद्मकुलवज्रकुलादीन्यप्यवगन्तव्यानि। 


क्रियातन्त्रस्य साधनापद्धतिः


क्रियातन्त्रसाधनायाश्चत्वार्यङ्गानि। चर्यानाम्नाऽप्युच्यन्ते। एतन्नामानि-प्रवेश-चर्यायोगचर्यासाधनचर्यासिद्धिचर्याः।


प्रवेशचर्या


क्रियातन्त्रे प्रवेशाय जलपटाख्याभिषेकयोरावश्यकत्वमपेक्ष्यते। कलशाभिषेकप्राप्त्या साधकः धर्मकायप्राप्तिभाग् भवति। पटाभिषेकेण च सम्भोगकायस्य प्राप्तिभाग् जायते। जलाभिषेके बाह्यमण्डलानां प्रवेशार्थं कलशाभिषेकेण द्वितीयमण्डले प्रवेशाय सर्वदेवकलशाभिषेकेण तृतीये श्रावकप्रत्येकबुद्धकलशेन चतुर्थेबोधिसत्त्वकलशेन पञ्चमे बुद्धकलशेन जिनविजयकलस्यैच जलाभिषेकोऽनुष्ठीयते। साधकशिरसि हस्तमुद्रादिना पटाभिषेको विधीयते। इत्थं क्रियातन्त्रस्य प्रमुखाभिषेकद्वयप्राप्त्या साकं स्वस्वसमयसवरं पालयेत्। तेनैव सह क्रियातन्त्रस्य विभिन्नाम्नायानुसारेण वज्राचार्यत्वप्राप्त्यै जलपटाभिषेकौ विद्यामन्त्रस्य च सिद्ध्यै यस्मिन् देवे साधकस्य पुष्पं पतेत् तद्देवस्य मन्त्रजपाय मन्त्रव्याकरणमावश्यकम्। साधकस्य साधनावसरे समागतविघ्नेभ्यो रक्षणाय स्नानाभिषेकः ऐश्वर्यस्य चाभिवृद्ध्यर्थं अष्टमाङ्गलिकद्रव्याणामभिषेकः प्रदीयते। यद्यपीदं जलपटाभिषकयोः निहितमस्ति, तथापि विनेयजनार्हतां वीक्ष्य विस्ताराय एवं विधानमप्यपेक्ष्यते।


कुलेष्वपि तथागतकुलाभिषेकप्राप्त्या सर्वप्रधानकुलाधिपतीनां कुलाभिषेकोऽपि प्राप्त इव मन्तुं शक्यते, तथैव च पद्मकुलं वज्रकुलं चापि मन्तव्यम्। क्रियातन्त्रे अभिषेकार्थं मृण्मयमण्डलस्यैव व्यवस्थाऽस्ति। चित्तमण्डलदेहमण्डलादीनां व् यवस्था तत्र न वर्तते।


योगचर्या


एतद्भेद्द्वयम्-गौणप्रयोगचर्या, २. मुख्यप्रयोगचर्या च।


१. क्रियातन्त्रिणा यः देवः साध्यस्तस्य पटचित्रं मूर्ति सहायकद्रव्यं च प्रति समर्पितभावनया समुचितदेशपर्वतकन्दरादिसाधनास्तानेषु वसन्तर्तु-उषःकालप्रभृतिभिर्दशभिरङ्गैः परिपूर्य्य साधना प्रारम्भणीया। गौणेयं प्रयोगचर्या। 


२. प्रमुखप्रयोगचर्यायाः चत्वार्यङ्गानि-स्वतत्त्वभावना देवतत्त्वभावना, जपभावना ध्यानतत्त्वभावना चैतानि सन्ति। 


१. स्वतत्त्वभावना


तन्त्रे प्रवेशायाभिषेकावाप्त्यनन्तरमेव तन्त्रसाधनाधिकारी जायते साधकः। अन्यथा तन्त्रसाधना निष्फला भवति। क्रियातन्त्रे कलशाभिषेकप्राप्त्यनन्तरं साधको धर्मकायस्य प्राप्तिभाग् भवति। स धर्मकायस्य हेतुभूतज्ञानपुण्यसंभाराभ्यां षड्धर्मैर्युक्तं स्वतत्त्वं शून्यतां भावयति। षड्धर्मयुक्तशून्यताभावनावधौ पूर्वं साधकेन स्नानादिकं विधाय शुद्धेन भाव्यम्। ततश्च स्वरक्षायै रक्षाचक्रं भावयेत्। तदनु स्वेष्टदेवमाहूय स्वसम्मुखं संस्थापितपटे चित्रे मूर्तौ वा तत्प्रतिष्ठाप्य तत्पूजा विधेया। ततः परम् इष्टदेवसदृशमासनं विधाय धर्मकायप्राप्तिमार्गे षड्धर्मयुक्तचतुष्ट्कोटिनिष्प्रपञ्चप्रभास्वरे स्थेयम्। षड्धर्माश्च— (१) ग्राह्यग्राहकादीनां विकल्पानामभावः, (२) निर्विकल्पस्य निराभासता, (३) सूक्ष्माण्वादिरूपाभावः, (४) सर्वनिमित्ताभावः, (५) सर्वविकल्परहिता शून्यता, या च अप्रसज्या सती प्रभास्वरा, (६) स्वस्वभावप्रतिसंवेद्यसमाधिश्च। इते षड्धर्मा एव धर्मकायस्य प्राप्तिमार्गाः सन्ति।


२. देवतत्त्वभावना


देवतत्त्वं रूपकाय-प्राप्तिमार्गः उच्यते। एतस्य षड्भेदाः—यथा—शून्यदेवः, अक्षरदेवः, ध्वनिदेवः, रूपदेवः, मुद्रादेवः, निमित्तदेवश्च।


(क) शून्यदेवः (तत्त्वदेवः)—स्वचित्तेष्टपरमार्थाभिन्नबोधिचित्तं स्वभावशून्यमिति प्रतिपाद्य तदवस्थितिरेव देवतत्त्वभावनोच्यते।


(ख) अक्षरदेवः—साधकेन यः इष्टदेवः भावनीयस्तत्पूर्वं स्वशरीरं शून्याकाशे परिवर्त्य स्वचित्तचन्द्रमण्डले परिणतं विचिन्तनीयम् तत्स्वचित्तचन्द्रमण्डले तन्मन्त्रबीजं न्यस्य तदेकीभूय स्थितिरेवाक्षरदेवस्य भावना व्याह्रियते।


(ग) ध्वनिदेवः—स्वचित्तचन्द्रमण्डलस्य मध्ये सहसा मन्त्रबीजाद् ध्वनिर्गुञ्जति, इति मत्त्वा तत्र समाहितिरेव ध्वनिदेव-भावनाऽभिधीयते। 


(घ) रूपदेवः— नभोमण्डले स्वचित्तं चन्द्रमण्डलसदृशं भावयित्वा तन्मध्ये यस्येष्टदेवस्य मन्त्रबीजस्य न्यासेन अक्षरदेवध्वनिदेवयोर्भावनाविधिना चित्तस्यैकाग्र्यमभूत् तद्बीजमन्त्रात् पञ्चरश्मिपुंजः स्फुरितः सन् तन्मिन् आराध्यदेव्यः दशाशासु विराजितबुद्धस्य बोधिसत्त्वानां च पूजार्चनं कुर्वन्ति, इत्येवं चिन्तनीयम्। तदनु प्रकाशपुञ्जो-नरक-प्रेत-तिर्यग्मनुष्यप्रभृतिषड्योनिपर्यन्तं प्रसृत्य निखिलप्राणिनां पापान् क्षिप्त्वा पुण्यसंभारेण तत्परिपूर्णतां व्यदधात्, एवं पौनः पुन्यं गम्भीरतया विचारणीयम्। तदनुबीजमन्त्रं स्वेष्टदेवे परिणतं विचिन्त्य एकाग्रतां कुर्यात्।


(ङ) मुद्रादेवः— हस्तमुद्रया स्वोष्णीषललाटकण्ठादिषु स्पृष्टेषु सत्सु स्वयं समयमुद्रयाधिष्ठितो भवेत्, एवं भावनाविधानमेव मुद्रादेवस्य भावनोच्यते।


(च) निमित्तदेवः— साधकः यमिष्टदेवं स्वचित्तमण्डलभिन्नं मत्त्वा समाहितवान् तत उपरि पृष्ठभूमौ सर्वभाजनं सत्त्वलोकश्च शुद्धाभासः। अर्थात् स्वेष्टदेवस्य स्थानं कायसामग्री चास्ति एवं भावना निमित्तदेवस्य भावना समभिधीयते।


साधकेन भावनायां दक्षताप्राप्त्यै प्राणायामः अभ्यस्यते। प्राणायामशब्दः यद्यप्यनुत्तरतन्त्रे क्रियातन्त्रे चोपलभ्यते परं च विधेस्तु भिन्नत्वमेव। यथा गुह्यसमाजे प्राणवायुरस्ति, अपानं च तद् यत् प्राणेभ्यः दीर्घत्वं प्रददाति। अतः प्राणापानबन्धनम् तदवरोधश्च प्राणायामः वर्तते।


कालचक्रे ललनायां रसनायां च चलद्वायुमवरुध्य तन्मध्यमायां प्रवेशस्य प्रयास एव प्राणायाम उच्यते। अत्र प्राणापानयोः श्वासप्रश्वासयोः नियन्त्रणं संस्थाप्य तत्र विकल्पोद्भवावरोधो विधातव्यः। तदा तद्बाह्यगतिरेव रुध्यते। तदाभ्यन्तरभागः शुद्ध्यति। इष्टदेवाभासः प्रकटीभवति। प्राणायाम-विधान-कालस्यापि तन्त्रनये पार्थक्यमेव। अनुत्तरतन्त्रे निष्पन्नक्रमस्य भावनाकाले एव प्राणायाम-भावना क्रियते नान्यस्यामवस्थायाम् अत्र निमित्तदेवस्य भावनायां प्राणायामो विधीयते। प्राणायामप्रयोजनान्यपि पृथक् सन्ति। अनुत्तरतन्त्रे वायुमधूत्यां प्रवेशयितुं प्राणायामो विधीयते। अत्र क्रियातन्त्रे तु केवलं विकल्पावरोधायेदं सम्पाद्यते। विकल्प-बन्धनाद् देवताभासः सुस्पष्टं प्रकटीभवति। प्राणायामविधौ चापि भेदः, अनुत्तरतन्त्रेऽवस्थितोष्णीषचक्रस्थितस्य पितृलब्धशुक्रस्य नाभिचक्रस्थितमातृलब्धशोणितस्य चोर्ध्वाधोगतिभ्यामुत्पन्नमहासुखस्य चानुभूत्या महाशून्यता साक्षात्क्रियते। अत्र विकल्पानवरोध्य देवभावनाम् एकाग्रचित्तेन गृहीत्वा आलम्बने स्थित्वा देवाभासोद्भवाय चित्तवृत्तेरैक्यं विधीयते। 


३. जपभावना


जपस्य द्वौ विधी—(क) पूर्वकर्म (ख) प्रधानभावना।


(क) ध्यानोत्तरतन्त्रस्य व्याख्यानुसारेण स्नानादिना पवित्रीभूय स्वसमक्षमिष्टदेवमावाह्य पूजार्चन बोधिचित्तोत्पादनमित्यादि पूर्वकर्मेत्युच्यते। 


(ख) प्रधानभावनायां ध्यानोत्तरतन्त्रोक्तिमाश्रित्य चतुरवयवसहितः साधकः प्राणायामेन साकं जपं कुर्यात्। एतच्चतुरङ्गानि—आश्रयदेवः आश्रितबोधिचित्तम्, बीजमन्त्रात् सहसा समुत्पन्नो ध्वनिः, प्राणायामश्च। एतद्धि मन्त्रजपस्य अनिवार्यतत्त्वं च।


आश्रयदेवादिभावना


स्वसमक्षम् इष्टदेवस्य सुस्पष्टरूपस्य परिपूर्णरूपस्य च भावनाकरणम् आश्रयदेवः। आह्रयदेवस्य हृदये स्वचित्तमण्डलस्य भावनैव आश्रितबोधिचित्तमुच्यते  


पगे ७३


क्रियातन्त्रस्य साधनापद्धतिः 

क्रियातन्त्रसाधनायाश्चत्वार्यङ्गानि। चर्यानाम्नाऽप्युच्यन्ते। एतन्नामानि प्रवेशचर्यायोगचर्यासाधनचर्यासिद्धिचर्याः। 


प्रवेशचर्या 


क्रियातन्त्रे प्रवेशाय जलपटाख्याभिषेकयोरावश्यकत्वमपेक्ष्यते। कलशाभिषेकप्राप्त्या साधकः धर्मकायप्राप्तिभाग् भवति। पटाभिषेकेण च सम्भोगकायस्य प्राप्तिभाग् जायते। जलाभिषेके बाह्यमण्डलानां प्रवेशार्थं कलशाभिषेकेण द्वितीयमण्डले प्रवेशाय सर्वदेवकलशाभिषेकेण तृतीये श्रावकप्रत्येकबुद्धकलशेन चतुर्थेबोधिसत्त्वकलशेन पञ्चमे बुद्धकलशेन जिनविजयकलशैश्च जलाभिषेकोऽनुष्ठीयते। साधकशिरसि हस्तमुद्रादिना पटाभिषेको विधीयते। इत्थं क्रियातन्त्रस्य प्रमुखाभिषेकद्वयप्राप्त्या साकं स्वस्वसमयसवरं पालयेत्। तेनैव सह क्रियातन्त्रस्य प्रमुखाभिषेकद्वयप्राप्त्या साकं स्वस्वसमयसवरं पालयेत्। तेनैव सह क्रियातन्त्रस्य विभिन्नाम्नायानुसारेण वज्राचार्यत्वप्राप्त्यै जलपटाभिषेकौ विद्यामन्त्रस्य च सिद्ध्यै यस्मिन् देवे साधकस्य पुष्पं पतेत् तद्देवस्य मन्त्रजपाय मन्त्रव्याकरणमावश्यकम्। साधकस्य साधनावसरे समागतविघ्नेभ्यो रक्षणाय स्नानाभिषेकः ऐश्वर्यस्य चाभिवृद्ध्यर्थं अष्टमाङ्गलिकद्रव्याणामभिषेकः प्रदीयते। यद्यपीदं जलपटाभिषकयोः निहितमस्ति , तथापि विनेयजनार्हतां वीक्ष्य विस्ताराय एवं विधानमप्यपेक्ष्यते। 


कुलेष्वपि तथागतकुलाभिषेकप्राप्त्या सर्वप्रधानकुलाधिपतीनां कुलाभिषेकोऽपि प्राप्त इव मन्तुं शक्यते, तथैव च पद्यकुलं वज्रकुलं चापि मन्तव्यम्। क्रियातन्त्रे अभिषेकार्थं मृण्मयमण्डलस्यैव व्यवस्थाऽस्ति। चित्तमण्डलदेहमण्डलादीनां व्यवस्था तत्र न वर्तते। 


योगचर्या 


एतद्भेदद्वयम्-गौणप्रयोगचर्या, २.मुख्यप्रयोगचर्या च। 


१. क्रियातन्त्रिणा यः देवः साध्यस्तस्य पटचित्रं मूर्तिं सहायकद्रव्यं च प्रति समर्पितभावनया समुचितदेशपर्वतकन्दरादिसाधनास्थानेषु वसन्तर्तु-उषः कालप्रभृतिभिर्दशभिरङ्गैः परिपूर्य्य साधना प्रारम्भणीया। गौणेयं प्रयोगचर्या। 


२. प्रमुखप्रयोगचर्यायाः चत्वार्यङ्गानि-स्वतत्त्वभावना देवतत्त्वभावना, जपभावना ध्यानतत्त्वभावना चैतानि सन्ति। 


१. स्वतत्त्वभावना 


तन्त्रे प्रवेशायाभिषेकावाप्त्यनन्तरमेव तन्त्रसाधनाधिकारी जायते साधकः। अन्यथा तन्त्रसाधना निष्फ़ला भवति। क्रियातन्त्रे कलशाभिषेकप्राप्त्यनन्तरं साधको धर्मकायस्य प्राप्तिभाग् भवति। स धर्मकायस्य हेतुभूतज्ञानपुण्यसंभाराभ्यां षड्धर्मैर्युक्तं स्वतत्त्वं शून्यतां भावयति। षड्धर्मयुक्तशून्यताभावनावधौ पूर्वं साधकेन स्नानादिकं विधाय शुद्धेन भाव्यम् । ततश्च स्वरक्षायै रक्षाचक्रं भावयेत्। तदनु स्वेष्टदेवमाहूय स्वसम्मुखं संस्थापितपटे चित्रे मूर्तो वा तत्प्रतिष्ठाप्य तत्पूजा विधेया। ततः परम् इष्टदेवसदृशमासनं विधाय धर्मकायप्राप्तिमार्गे षड्धर्मयुक्तचतुषोटिनिष्प्रपञ्चप्रभास्वरे स्थेयम्। षड्धर्माश्च - ( १ ) ग्राह्यग्राहकादीनां विकल्पानामभावः, ( २ ) निर्विकल्पस्य निराभासता, ( ३ ) सूक्ष्माण्वादिरूपाभावः, ( ४ ) सर्वनिमित्ताभावः, ( ५ ) सर्वविकल्परहिता शून्यता, या च अप्रसज्या सती प्रभस्वरा, ( ६ ) स्वस्वभावरतिसंवेद्यसमाधिश्च। एते षड्धर्मा एव धर्मकायस्य प्राप्तिमार्गाः सन्ति। 


२ . देवतत्त्वभावना 


देवतत्त्वं रूपकाय-प्राप्तिमार्गः उच्यते। एतस्य षड्भेदाः - यथा-शून्यदेवः, अक्षरदेवः , ध्वनिदेवः, रूपदेवः, मुद्रादेवः, निमित्तदेवश्च। 


( क ) शून्यदेवः ( तत्त्वदेवः ) - स्वचित्तेष्टपरमार्थाभिन्नबोधिचित्तं स्वभावशून्यमिति प्रतिपाद्य तदवस्थितिरेव देवतत्त्वभावनोच्यते। 


( ख ) अक्षरदेवः - साधकेन यः इष्टदेवः भावनीयस्तत्पूर्वं स्वशरीरं शून्याकाशे परिवर्त्य स्वचित्तचन्द्रमण्डले परिणतं विचिन्तनीयम् तत्स्वचित्तचन्द्रमण्डले तन्मन्त्रबीजं न्यस्य तदेकीभूय स्थितिरेवाक्षरदेवस्य भावना व्याह्रियते। 


( ग ) ध्वनिदेवः - स्वचित्तचन्द्रमण्डलस्य मध्ये सहसा मन्त्रबीजाद् ध्वनिर्गुञ्जति, इति मत्त्वा तत्र समाहितिरेव ध्वनिदेव- भावनाऽभिधीयते। 


( घ ) रूपदेवः- नभोमण्डले स्वचित्तं चन्द्रमण्डलसदृशं भावयित्वा तन्मध्ये यस्येष्टदेवस्य मन्त्रबीजस्य न्यासेन अक्षरदेवध्वनिदेवयोर्भावनाविधिना चित्तस्यैकाग्रयमभूत् तद्बीजमन्त्रात् पञ्चरश्मिपुंजः स्फ़ुरितः सन् तस्मिन् आराध्यदेव्यः दशाशासु विराजितबुद्धस्य बोधिसत्वानां च पूजार्चनं कुर्वन्ति, इत्येवं चिन्तनीयम्। तदनु प्रकाशपुञ्जो-नरक-प्रेत-तिर्यग्मनुष्यप्रभृतिषड्योनिपर्यन्तं प्रसृत्य निखिलप्राणिनां पापान् क्षिप्त्वा पुण्यसंभारेण तत्परिपूर्णतां व्यदधात्, एवं पौनः पुन्यं गम्भीरतया विचारणीयम्। तदनुबीजमन्त्रं स्वेष्टदेवे परिणतं विचिन्त्य एकाग्रतां कुर्यात्। 


( ङ) मुरादेवः - हस्तमुद्रया स्वोष्णीषललाटकण्ठादिषु स्पृष्टेषु सत्सु स्वयं समयमुद्रयाधिष्ठितो भवेत्, एवं भावनाविधानमेव मुद्रादेवस्य भावनोच्यते। 


( च ) निमित्तदेवः- साधकः यमिष्टदेवं स्वचित्तमण्डलमभिन्नं मत्त्वा समाहितवान् तत उपरि पृष्ठभूमौ सर्वभाजनं सत्वलोकश्च शुद्धाभासः। अर्थात् स्वेष्टदेवस्य स्थानं कायसामग्री चास्ति एवं भावना निमित्तदेवस्य भावना समभिधीयते । 


साधकेन भावनायां दक्षताप्राप्त्यै प्राणायामः अभ्यस्यते । प्राणायामशब्दः यद्यप्यनुत्तरतन्त्रे क्रियातन्त्रे चोपलभ्यते परं च विधेस्तु भिन्नत्वमेव। यथा गुह्यसमाजे प्राणवायुरस्ति, अपानं च तद् यत् प्राणेभ्यः दीर्घत्वं प्रददाति। अतः प्राणापानबन्धनम् तदवरोधश्च प्राणायामः वर्तते। 


कालचक्रे ललनायां रसनायां चलद्वायुमवरूध्य तन्मध्यमायां प्रवेशस्य प्रयास एव प्रायाम उचयते। अत्र प्राणापानयोः श्वासप्रश्वासयोः नियन्त्रणं संस्थाप्य तत्र विकल्पोद्भवावरोधो विधातव्यः। तदा तद्बाह्यगतिरेव रूध्यते। तदाभ्यन्तरभागः शुद्ध्यति। इष्टदेवाभासः प्रकटिभवति। प्राणायाम-विधान-कालस्यापि तन्त्रनये पार्थक्यमेव। अनुत्तरतन्त्रे निष्पन्नक्रमस्य भावनाकाले एव प्राणायाम- भावना क्रियते नान्यस्यामवस्थायाम् अत्र निमित्तदेवस्य भावनायां प्राणायामो विधीयते। प्राणायामप्रयोजनान्यपि पृथक् सन्ति। अनुत्तरतन्त्रे वायुमवधूत्यां प्रवेशयितुं प्राणायामो विधीयते। अत्र क्रियातन्त्रे तु केवलं विकल्पावरोधायेदं सम्पाद्यते। विकल्प-बन्धनाद् देवताभासः सुस्पष्टं प्रकटीभवति। प्राणायामविधौ चापि भेदः, अनुत्तरतन्त्रेऽवस्थितोष्णीषचक्रस्थितस्य पितृलब्धशुक्रस्य नाभिचक्रस्थितमातृलब्धशोणितस्य चोर्ध्वाधोगतिभ्यामुत्पन्नमहासुखस्य चानुभूत्या महाशून्यता साक्षात्क्रियते। अत्र विकल्पानवरोध्य देवभावनाम् एकाग्रचित्तेन गृहीत्वा आलम्बने स्थित्वा देवाभासोद्भवाय चित्तवृत्तेरैक्यं विधीयते। 


३. जपभावना 


जपस्य द्वौ विधी - ( क ) पूर्वकर्म ( ख ) प्रधानभावना। 


( क ) ध्यानोत्तरतन्त्रस्य व्याख्यानुसारेण स्नानादिना पवित्रीभूय स्वसमक्षमिष्टदेवमावाह्य पूजार्चनं बोधिचित्तोत्पादनमित्यादि पूर्वकर्मेत्युच्यते। 


( ख ) प्रधानभावनायां ध्यानोत्तरतन्त्रोक्तिमाश्रित्य चतुरवयवसहितः साधकः प्राणायामेन साकं जपं कुर्यात्। एतच्चतुरङ्गानि - आश्रयदेवः आश्रितबोधिचित्तम्, बीजमन्त्रात् सहसा समुत्पन्नो ध्वनिः, प्राणायामश्च। एतद्धि मन्त्रजपस्य अनिवार्यतत्त्वं च। 


आश्रयदेवादिभावना 


स्वसमक्षम् इष्टदेवस्य सुस्पष्टरूपस्य परिपूर्णरूपस्य च भावनाकरणम् आश्रयदेवः। आश्रयदेवस्य हृदये स्वचित्तमण्डलस्य भावनैव आश्रितबोधिचित्तमुच्यते। तदुपरि स्वेष्टदेवस्य मन्त्रबीजस्य सहजभावेन उच्चरितत्त्वस्य भावना ध्वनिबीजमन्त्रो निगद्यते। एतत्त्रितयावयवानां सुस्पष्टतया भावनां विधाय प्राणायामं विदध्यात्। अर्थात् वायुमवरोध्य स्वसमक्षं अङ्गत्रययुक्तेन आलम्बने स्थिरीभूय मनस्येव मन्त्रावृत्तिर्विधातव्या। मन्त्रजपावधौ स्वसमक्षं भावितेष्टदेवस्य हृदयेऽपि आत्मवन्मन्त्रोच्चारणं भवति, इत्येवं चिन्तयेत् यथासाध्यं च वायुमवरून्ध्यात्। 


वायुविसर्जनावधावात्मानम् इष्टदेवाभिन्नं मत्त्वा इष्टदेवाहङ्कारङ्कुर्यात्। मन्त्रजपावस्थायाम् इकारोकारादिलघुदीर्घमात्राणां च सुस्पष्टमुच्चारणं भवेत्। जापं जापं परिश्रान्तौ सत्यां विश्रमाय निर्विकल्पस्वतत्त्वे समाहितः स्यात्। विश्रामकालमतिरिच्य स्वसमक्षम् इष्टदेवालम्बने तावत् एकाग्रमनाः तिष्ठेत् यावच्च देवात्मनोरभिन्नानुभूतिर्न भवेत्। क्रियातन्त्रेऽस्मिन् स्वदेहे इष्टदेवाभावम्मन्यमानानां पद्धत्यनुसारं मन्त्र-जपविधिरयमस्ति। यैर्विद्वद्भिः क्रियातन्त्रे स्वदेहे देवकायस्य भावनाविधिः स्वीक्रियते तैरूपरि वर्णिताङ्गत्रययुक्तैर्भूत्वा स्वयमपि इष्टदेवे भावयित्वा प्राणायामकाले श्वासावधौ निजहृदयस्थाऽश्रयाश्रितबीजमन्त्रादिकं सर्वं प्रभामयं जातम् एवं विचिन्त्य नवद्वाराणि पिधाय मन्त्रबीजे मनः प्रवर्त्य जपोऽनुष्ठीयते। श्वासमुक्त्यवधौ प्रश्वासः स्वसमक्षं बहिः स्थितेष्टदेवस्य मण्डले प्रविष्टः एवं भाव्यते। 


४. ध्यानतत्त्वस्य भावना 


ध्यानतत्त्व- भावनायाः त्रयो भेदाः ( क ) अग्निस्थम् ( ध्यानम् ) ( ख ) ध्वनिस्थम् ( ध्यानम् ) ( ग ) ध्वन्यन्तः स्थम् ( ध्यानम् ) 


( क ) अग्निस्थध्यानम् - स्वसम्मुखं भावितेष्टदेवस्य हृदय-चन्द्र-मण्डलस्य मध्ये चतुर्दिक् दीपशिखेव अत्यन्तं शान्तमवच्छिन्नं बीजाक्षरं स्थितम्, इति विचार्य प्राणापानौ नियम्य यथासाध्यं श्वासमवरोध्य आलम्बने चित्तैकाग्य्रमेव अग्निस्थध्यानमुच्यते। एतेन शान्तिकर्मादिसिद्धौ साहाय्यमुपलभ्यते। 


( ख ) ध्वनिस्थध्यानम्- इष्टदेवं हृदयकमलचन्द्रमण्डले चतुर्दिक् अग्निपुञ्जेन सम बीजमन्त्रमलङ्कृतमेवं किञ्चित्क्षणं मनः प्रवर्त्य पश्येत्। ततः क्रमशः बीजाक्षर-लोपः ततश्च तस्मान्मन्त्रध्वनिरूत्पद्यते, एवं भावयित्वा पूर्ववत् प्राणायामं कृत्वा एकाग्रत्वं कुर्यात्। अत्र प्राणायामाभिप्रायः - सर्वच्छिद्रेषु प्रविष्टो वायुः प्राणाख्यस्तथा ततो निर्गतो वायुरपानाख्योऽर्थात् श्वासप्रश्वासाख्यौ वायू, तन्नियम्य सहसा चन्द्रमण्डलाद् उत्पद्यमानघण्टाध्वनि- समं मन्त्रध्वनिस्थितिरेव ध्वनिस्थं ध्यानं निगद्यते। 


( ग ) ध्वन्यन्तः स्थं ध्यानम् - एतदध्यानस्थित्या शब्दमन्त्रध्वनौ विचार्यमाणे सति उत्पत्तिस्थितिभंगनिरोधविरहिते निर्विकल्पस्वतत्त्वे समाहितत्त्वे सति अधिप्रज्ञाख्यं ज्ञानमुत्पद्यते यच्च मोक्षसर्वज्ञतयोरूपादानं भवति। 


वर्णितोऽयं साधनाविधिः प्रामुख्येण बुद्धगुह्यविरचितध्यानोत्तरतन्त्रटीकामाधारीकृत्य न्यरूपि। 


साधनाचर्या


सुबाहुपरिपृच्छासूत्रे वर्णितं यद् विधिपूर्वकं मन्त्रजपानन्तरं यदि मन्त्रसिद्धिः चिकीर्ष्येत तर्हि तेन साधनासिद्धिचर्या विधेया। अत्रेदं ध्येयं मन्त्रसाधको यदि बोधिचित्तोत्पादाभावे मन्त्रजपसंख्यां पूरयेत् तर्हि स श्रावकयानिप्रभृतीनां फ़लं तु लप्स्यते, परं च तेन वज्रधरपदं नावाप्स्यते। अतो मन्त्रयानिने बोधिचित्तोत्पादनमनिवार्य्यं भवति। 


क्रियातन्त्र-साधकः कुलानुसारं त्रिविधां सिद्धिमापद्यते। तथागतकुलात् शान्तिकर्म, पद्यकुलात् श्रेष्ठकर्म वज्रकुलाच्च तेन रौद्रकर्म प्राप्यते। पुनश्च कुलानामान्तरिकभेदेन प्रधानकुलात् शान्तिः अधिपतिकुलात् पुष्टिः क्रोध-क्रोधिनीकुलात् रौद्रकर्म सिद्ध्यति। स्वरूपगतः क्रियातन्त्री त्रिविधसिद्धिमवाप्नोति-उत्तमः क्रियातन्त्री विद्याधरपदं मध्यमश्च अभिज्ञादिपञ्चज्ञानानि कनिष्ठश्च क्रियातन्त्री सर्वशास्त्राणां सूक्ष्मज्ञानं लघिमादिकं - रस- रसायनत्वरितगमनवशीकरणमारणादिक्षुद्रसिद्धिं च प्राप्नोति। आश्रयादिसिद्ध्यनुसारेण क्रियातन्त्रिणः क्रमशः कायसिद्धिद्रव्यसिद्धिसंभोगसिद्धीनां भागिनो भवन्ति। 


एतत् सिद्धि- प्राप्त्यै मन्त्रजपसंख्यापूर्तो सत्यामेव साधनाचर्या विधातव्या, नान्यथा।


साधनाचर्याया नियमद्वयम्- सामान्यसाधनायां कालत्रये स्वेष्टदेवस्य सविधि पूजार्चनापापदेशनाभ्यर्थनापरिणामनादिकं सम्पादनीयम्। सूत्रान्तं च पठनीयम्। एवं साधनायां स्वसमक्षं स्थापितया मूर्त्या स्तूपादिना वा आभाप्रकटीकरणम्, साधनायां क्षुत्पिपासादीनामभावः शरीरस्फ़ूर्तिः स्वप्ने इष्टदेव-दर्शनमित्येतत् साधनासिद्धिलक्षणानि। एवं लक्षणेषूदितेषु स्वगुरूं पृष्ट्वा सिद्धिचर्याऽनुष्ठेया। 


विशेषसाधनायां खड्गादिकमादाय मन्त्रजपहोमादिकं कुर्यात्। खेचरादिशुद्धक्षेत्रं गत्वा अंजनादिकं संसेव्य चर्याः आचर्य्येरन्, तेन च विद्याधरपदं प्राप्तुं प्रयसनीयम्। स्वदेहस्य सूक्ष्मत्वं विधाय ईश्वरस्य अष्टौ गुणाः प्राप्तव्याः। 


सिद्धिचर्या 


क्रियातन्त्रस्य साधनाविधेः सिद्धिचर्यानुसारं चर्यां विधाय साधकः यथेच्छं सिद्धिं लब्धुमर्हति। उपर्युक्तं यद् बोधिचित्तोत्पादाभावे अनयैव साधनया श्रावकपदं लोकलोकोत्तर-सर्वविधहीनमध्यमाधमसिद्धींश्च प्राप्तुं पारयति। अतः उत्तमं परमपदं चोद्देश्यं भवेत्। क्रियातन्त्रसाधनोद्देश्यं क्षुद्रसिद्धिप्राप्तिर्न भवति। तत्तु बुद्धत्वावाप्तिरेव। 


क्रियातन्त्रसाधनानुसारेण बुद्धत्वप्राप्त्यै अष्टकल्पानां कल्पत्रयस्य वा कालो व्यत्येति। साधकस्य तीव्रप्रयासेन एकस्मिन् जन्मन्यपि परमपदप्राप्त्युक्तिस्तु मञ्जुश्रीमूलकल्पादिक्रियातन्त्रग्रन्थेषु विहिताऽस्ति। 


क्रियातन्त्रे पञ्च मार्गा दश भूमयश्च 


क्रियातन्त्रानुसारं पञ्चमार्गाणां दशभूमीनां च व्याख्याव्यवस्था इत्थम् -


१. क्रियातन्त्राभिषेकप्राप्त्यनन्तरं साधकोऽहं क्रियातन्त्रसाधनायाः सम्यक्सम्बोधिं प्राप्स्यामि 'इत्येतदकृत्रिमाभिलाषोत्पत्तिमारभ्य ध्वन्यन्तः स्थाध्यानभावनाबलेन शून्यताबोधकविपश्यनायाः साक्षात्कारपूर्ववर्तिमार्गः क्रियातन्त्रस्य संभारमार्गः उचयते। 


२. विपश्यनोत्पादमारभ्य शमथविपश्यनायुगलभावनया शून्यतासाक्षात्कारपूर्वावस्था मार्गश्च प्रयोगमार्गः समभिधीयते। 


३. विपश्यनासमाधिद्वारा शून्यतां साक्षात्कृत्य भावनामार्गेण प्रहेयधर्मस्य महाक्लेशावरणस्य स्थूलांशप्रतिपक्षोत्पत्तिमार्गः दर्शनमार्गः ( प्रमुदिता भूमिः ) उद्यते। 


४. भावनामार्गेण प्रहेयधर्ममहाक्लेशावरणस्य स्थूलांशप्रतिपक्षोत्पत्तिमारभ्य सूक्ष्मातिसूक्ष्मावरणाक्षयात् बुद्धत्वप्रापकवज्रासनाख्यसमाधेः पूर्वक्षणावस्था भावनामार्गः। विमला, प्रभाकरीप्रभृतयः  नवभूमयः सन्ति। भावनामार्गस्य प्रहेयं क्लेशावरणं ज्ञेयावरणं च। क्लेशावरणस्य स्थूलमध्यमसूक्ष्मभेदाः तद्वदेव मध्यमावरणस्य सूक्ष्मावरणस्य च क्रमेण त्रयस्त्रयो भेदाः एवं नवभेदाः भवन्ति ये च भूमि-प्रहेयधर्माः निगद्यन्ते। 


एतन्नवक्लेशावरणेषु स्वभूमिज्ञेयावरणेषु च नष्टेषु सत्सु क्रमशः साधकेन उपरितनभूमयो लभ्यन्ते। 


५. क्रियातन्त्रस्य सम्यक्सम्बोध्यवस्थैवाशैक्षमार्गः परमपदं चास्ति। 


उपसंहारः 


ज्ञानसमुच्चये क्रियातन्त्रसाधकायोक्तं - तत्र स्वदेहे देवकायस्य भावनाऽभावोऽस्ति। इमामुक्तिमाश्रित्य विद्वत्सु मतभेदो वर्तते। जोनङ् जे चुन- प्रभृतयोऽत्र स्वदेहे देवकायभावनाऽभावं स्वीकुर्वन्ति। आचार्य चोङ्खापाप्रभृतिविद्वद्भिः क्रियातन्त्रे स्वदेहे देवकायभावनापद्धतिः स्वीकृताऽस्ति। एतस्य च समर्थने नैकान्यागमवचांसि युक्तयश्च प्रादीयन्त। आचार्यकर्माठिनलस् प्रभृतिभिः क्रियातन्त्रसाधकस्य प्रधानाप्रधानेति स्तरद्वयमभिमतम् भणितञ्चापि प्रधानसाधकः स्वदेहे देवतां भावयति। अपरश्च स्वसम्मुखं देवतां भावयित्वा मन्त्रं जपति। अयमेव चरमपक्षः सुसङ्गतः प्रतीयते यतश्च क्रियातन्त्रस्य नैकेषु प्रामाणिकग्रन्थेषु स्वदेहे देवभावनायाः सत्त्वम् असत्त्वं वोभयं प्राचुर्येण लभ्यते। अत एकस्य विशिष्टमर्थं कृत्वा व्याख्यानं कियदुचितमिति दुःशकम्। सामान्यविचारेणापि प्रतीयते पारमितानयस्य वचनेनानेन -


बुद्धाश्च बोधिसत्वाश्च सर्वत्राव्याहतेक्षणाः। 

सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः।। 


'यः साधकोऽत्यभिलषति तत्सम्मुखं सदा शास्ताऽवतिष्ठते' एतदाशयं योऽत्यन्तमभिनिवेशपूर्वकं धारयति, क्रियातन्त्रविधौ तत्प्रवर्तनाय इष्टदेवं स्वसम्मुखमाहूय पूजार्चनाभावनायाः व्यवस्थाविधानमनुचितं न भवति। अन्यतश्च स्वदेहे देवभावनाऽत्यन्ताभावोऽप्यस्वीकार्यः यतश्च एवमभिमत्या पारमितानयाद् मन्त्रनयस्य किमपि वैशिष्ट्यं न स्यात्। रूपकायस्योपादानकारकाभावोऽपि स्यात् ततश्च अत्र फ़लस्य मार्गीकरणमपि न स्यात्। आर्य- असंगरचितमैत्रेयसाधनायां भिक्षुणीश्रीदेवीविरचितैकादशाननसाधनायां चन्द्रगोमिरचिततारासाधनायां स्वदेहे देवत्वं भावयितुं चोक्तम्। एतत्सर्वमप्यमान्यं स्यात्। अतः उपर्युक्तपद्धत्यवलोकनेन प्रतीयते क्रियातन्त्रे स्वदेहे- देवभावनाकरणाकरणयोः विधिद्वयमेव प्राप्यते कस्याप्येकस्य पक्षस्य न्यायसङ्गतिप्रतिपादनमपि नोचितं प्रतिभाति। विनेयजनयोग्यतानुसारेण भेदोऽयं जायते। 


भोटदेशे तन्त्रशास्त्रस्य प्रचारदृष्ट्या पूर्वकालिकशासने क्रियातन्त्रचर्यातन्त्रप्राधान्यमवर्तत। व्याख्या-साधनापद्धतिश्चापि मुख्यत आचार्यबुद्धगुह्यमेवानुकरोति। उत्तरकालिकशासने बाह्याभ्यन्तरसाधनायामुभययोगतन्त्रप्राधान्यमासीत्। 


दीपङ्करश्रीज्ञानेनापि बोधिपथप्रदीपस्य स्ववृत्तौ प्रतिपादितं सर्वा धारण्यः क्रियातन्त्रे संगृह्यन्ते। अतोऽयमत्र प्रश्नः - प्रायः धारणीसंग्रहेषु साधनाविधिर्न भवति। तत्साधना केन विधिना क्रियेत, ? एतत् समाधयता बुद्धगुह्येन सुबाहुपरिपृच्छासूत्रव्याख्यायामुच्येते निखिलक्रियातन्त्रसाधनां प्रवेशचर्या-प्रयोगचर्या-साधनासिद्धिचर्या-सिद्धिचर्याख्यचतुरङ्गेषु संगृह्य साधना करणीया। येषु ग्रन्थेषु समग्रविधिर्न प्रतिपादि- तस्तत्र ध्यानोत्तरतन्त्रसुसिद्धितन्त्रसुबाहु परिपृच्छासूत्रतन्त्राण्याधारीकृत्य चर्येत। प्राधान्येन गुह्यसामान्यतन्त्रे प्रवेशचर्या ध्यानोत्तरतन्त्रे प्रयोगचर्या, सुसिद्धितन्त्रे च साधनाचर्या प्रतिपादिता, चर्यालक्षणानि भेदाश्च सुबाहुपरिपृच्छासूत्रे न्यरूप्यन्त। 


गुह्यसामान्यतन्त्र-सुसिद्धितन्त्र-सुबाहुपरिपृच्छासूत्रध्यानोत्तरतन्त्रेषु क्रमशः पूर्ववर्तिगुह्यसामान्यतन्त्रं बृहत्कायं ध्यानोत्तरतन्त्रं च लघुकायग्रन्थरत्नम्। गुह्यसामान्यतन्त्रे अपरिपक्वपात्राणां परिपक्वतायै अभिषेकविधिर्निरदिश्यत। एतस्मिन् तथागतादिकुलानां पञ्चशताधिकैकसहस्रमण्डलानि निरूपितानि। क्रियातन्त्रस्य सर्वकुलानां मण्डलविषयेऽप्यत्र सूचना लभ्यते। एतदतिरिक्तं चर्यातन्त्रस्य योगस्यानुत्तरयोगतन्त्रस्य च मण्डलाभिषेकयोः प्रथमदिवसे सम्पत्स्यमानाधिवासमण्डलानां विधिरप्युलभ्यते। अस्मिन् एक एव सर्गः ( परिच्छेदः )। सुसिद्धितन्त्रे अष्टत्रिंशत् विधिक्रमाः संगृहीताः सन्ति। यथा ( १ ) गुह्यमन्त्रलक्षणक्रमः ( २ ) आचार्यलक्षणक्रमः ( ३ ) साधनालक्षणक्रमः ( ४ ) मन्त्रसेवकक्रमः ( ५ ) स्थानलक्षणक्रमः ( ६ ) विद्यामन्त्रविनेयक्रमः ( ७ ) पुष्पलक्षणक्रमः ( ८ ) गन्धलक्षणक्रमः ( ९ ) धूपलक्षणक्रमः ( १० ) आलोकलक्षणक्रमः ( ११ ) बलिविधिक्रमः ( १२ ) शान्तिपुष्टिवशिताचर्याविधिक्रमः ( १३ ) सिद्धिभेदलक्षणक्रमः ( १४ ) आह्वानविधिक्रमः ( १५ ) पूजाविधिक्रमः ( १६ ) रक्षाविधिक्रमः ( १७ ) जपविधिक्रमः , ( १८ ) देवसन्तुष्टिविधिक्रमः , ( १९ ) देवाभिषेकविधिक्रमः, ( २० ) अधिवासविधिक्रमः, ( २१ ) विद्यामन्त्रपरिग्रहणविधिक्रमः, ( २२ ) विद्यामन्त्रपरिपूर्णविधिक्रमः, ( २३ ) देवकान्त - ( अजस्) विधिक्रमः, ( २४ ) साधनाङ्गसञ्चयविधिक्रमः, ( २५ ) द्रव्यलक्षणविधिक्रमः, ( २६ ) द्रव्यपरिग्रहणविधिक्रमः, ( २७ ) द्रव्यपरिशोधनविधिक्रमः, ( २८ ) द्रव्यपरिमाणविधिक्रमः, ( २९) द्रव्याधिष्ठानविधिक्रमः, ( ३० ) साधनाकालविधिक्रमः , ( ३१ ) साधनायां प्रादुर्भूतलक्षणपरिचयविधिक्रमः, ( ३२ ) द्रव्याधिवासविधिक्रमः, ( ३३ ) तथागतकुलद्रव्यसाधनामण्डलविधिक्रमः, ( ३४ ) पद्यकुलद्रव्यसाधनामण्डलविधिक्रमः, ( ३५ ) वज्रकुलदूतिद्रव्यसाधनामण्डलविधिक्रमः, ( ३६ ) द्रव्यसाधनाविधिक्रमः, ( ३७ ) द्रव्यहरणांकुशविधिक्रमः, ( ३८ ) साधनोपायसंग्रहविधिक्रमश्च। एभिरेव तन्त्रमिदं सम्पद्यते। सुबाहुपरिपृच्छा सूत्रे गुह्यसामान्यतन्त्रानिर्दिष्टाभिषेकविधिः, सुसिद्धितन्त्रापूर्णाक्रियामन्त्रसाधनाविधिः, शान्तिपुष्टिरौद्रकर्माण्याधारीकृत्य सामान्यासामान्यसिद्ध्यवाप्तिविधयश्च स्पष्टीकृताः सन्ति। ग्रन्थोऽयमेकादशपरिच्छेदेषु विभक्तः। कथ्यते च यत् सुबाहुः वज्रपाणिरस्ति, अयं च एकजीवनानन्तरं बोधिपदप्रापको बोधिसत्त्वो वर्तते। तस्यैव नाम सुबाहुः। ध्यानोत्तरतन्त्रं हि महाक्रियातन्त्रोष्णीषतन्त्रस्यैकः अंशः अत एवेदमुत्तरतन्त्रमुच्यते। एतदत्र क्रियातन्त्रस्य दश तत्त्वानि प्रतिपादितानि। अत्र प्राणायामोऽपि व्यमर्शि ग्रन्थश्च त्रिपंचाशत् श्लोकेषु निबद्धोऽयम्। 


बुद्धगुह्यबोधिश्रेष्ठौ क्रियातन्त्रस्य महान्तावाचार्य्यौ मन्येते। बुद्धगुह्येन ध्यानोत्तरतन्त्रस्य सुबाहुपरिपृच्छासूत्रस्य च सारगर्भिता व्याख्या व्यधायि सूत्रस्य शब्दार्थयोः सामान्यरूपरेखा चाप्यलेखि। बोधिश्रेष्ठेन सुसिद्धितन्त्रे उपायोपसंग्रहाख्य ग्रन्थो व्यरच्यत। क्रियातन्त्रस्य वर्णितसाधनाविधीनां विस्तरेणावगमाय ग्रन्थोऽयमत्यन्तमुपयोगितामावहति। 


तृतीयः परिच्छेदः 


चर्यातन्त्रम् 


चर्यातन्त्राभ्युदयः 


दीपङ्करश्रीज्ञानेन बोधिपथप्रदीपस्य स्ववृत्तौ चर्यातन्त्रस्य वैरोचनाभिसम्बोधितन्त्र-वज्राण्यभिषेकतन्त्रप्रभृतीनि अष्टसहस्राणि तन्त्राणि प्रत्यपाद्यन्त। बुस्तोनोऽपि वैरोचनाभिसंबोधितन्त्रं मूलतन्त्रं, गुह्यश्रेष्ठतन्त्रमुत्तरतन्त्रं, वज्रपाण्य- भिषेकादितन्त्रग्रन्थत्रयञ्च चर्यातन्त्रान्तर्गतममन्यत। अन्यविद्वत्सु शाक्यसम्प्रदायस्य डोद्गोन-छोसग्यल-फ़गसपाप्रभृतयः क्रियातन्त्रे स्वदेहे देवकायभावनाऽभावम्मन्यन्ते। अत एव मञ्जुश्रीमूलकल्पमपि चर्यातन्त्रान्तर्गतं मन्यते। एतन्मतेन वैरोचनाभि- सम्बोधितन्त्रम् अचलमहाकल्पतन्त्रं, यमान्तकक्रोधविजयतन्त्रमपि चर्यातन्त्रमस्ति। अन्यविद्वद्गणेषु महापण्डितपुण्यकीर्तिप्रभृतिभिरचलमहाक्रोधराजतन्त्रनीलाम्बर-धरवज्रपालप्रभृतयः सप्त ग्रन्था अगण्यन्त। संक्षेपेण सनिदानं परिचयोऽत्र प्रस्तूयते-


( १ ) वैरोचनाभिसम्बोधितन्त्रम् 


सामान्यतस्तथागतमहावैरोचनः अकनिष्ठभुवने कालचतुष्टये धर्ममुपदिशति। यथासमयं निर्माणकायत्वेन सुमेरू-पर्वत-जम्बुद्वीपादिष्वाविर्भूय धर्ममुपदिशति। विशेषतश्च चर्यातन्त्रासाधारणवैरोचनाभिसंबोधितन्त्रस्य देशना भगवतः वैरोचनस्य कुसुमतलगर्भालङ्कारव्यूहाख्ये बुद्धतत्त्वप्राप्तिस्थाने कृता। एतत्सम्बन्धे वज्रपाण्य-भिषेकतन्त्रस्य निदानपरिवर्ते कथितं यदिदं क्षेत्रम् अनन्तसंसारधातुं निर्दिशति। एकसंसारधातावनन्तलोकधातवः संगृह्यन्ते। शतकोटिचतुर्दीप-शतकोटिसुमेरूपर्वत-शतकोटिमहासागर-सूर्यचन्द्रादयः सर्वेऽपि त्रिसाहस्रमहासाहस्रलोकाः कथ्यन्ते। इत्थं शतकोटिकुसुमतलगर्भालङ्कारः उच्यते। एवं शतकोटि-एकसन्तति-कुसुमतलगर्भा-लङ्कार उच्यते। अर्थात् भगवद्वैरोचनेन बुद्धत्वात्पूर्वं बोधिसत्त्वानां चर्यया परिशोधितं सम्पूर्णक्षेत्रमेव कुसुमतलगर्भालङ्कारव्यूहक्षेत्रम् एवोच्यते। यच्चाचिन्त्य-विपाकस्य सम्पन्नतयोद्भूतमस्ति। तत्क्षेत्रे यथाकाशे सूर्यप्रकाशे प्रसृते सति आकाश प्रकाशाभिन्नौ भवतस्तथैवाद्वयभावस्थितो महावैरोचनो बुद्धः सत्वेभ्यः कायसमतास्थितनामधर्मपर्यायं, वाक्समतास्थितनामधर्मपर्यायं चित्तसमतास्थितनामधर्मपर्यायं च दिशति। कायवाक्चित्तानामगाधत्वेन भगवतो वैरोचनस्य कायवाक्चित्तानि सर्वभूमिषु प्रवेशार्हाणि। इत्थमस्मिन्नेव क्षेत्रे वज्रपाणिना भगवान् वैरोचनः पृष्टस्तदास्य तन्त्रशास्त्रस्य सप्तस्कन्धेषु चतुर्विंशतिपरिवर्तेषु च विभङ्गं कृत्वा दिश्यते। 


तद्विवरणमित्थम्- ( १ ) बोधिचित्त-तदुत्पादविधिप्रतिपादकश्चित्तविभङ्ग-क्रमः ( २ ) महाकरूणया प्रेरितो मण्डलप्रवेशः अभिषेकविधिमन्त्रलक्षण-विघ्नोप-शमनविभङ्गक्रमः ( ३ ) सामान्यमन्त्रकोशविभङ्गक्रमः ( ४ ) लोकसिद्धिविभङ्गक्रमः ( ५ ) सिद्धिसाधनातत्त्वविभङ्गक्रमः ( ६ ) देवध्यानप्रतिपादनविभङ्गक्रमः ( ७ ) निर्लक्षणविभङ्गक्रमः ( ८ ) लोकोत्तरमन्त्रजपविभङ्गक्रमः ( ९ ) अक्षरचक्र-विभङ्गक्रमः ( १० ) मुद्राक्रमविभङ्गक्रमः ( ११ ) मन्त्रमण्डलप्रवेशविभङ्गक्रमः ( १२ ) मन्त्राष्टमुद्राविभङ्गक्रमः ( १३ ) विद्यामन्त्रव्रतविभङ्गक्रमः ( १४ ) बोधि-सत्वशिक्षोपायवान् विभङ्गक्रमः ( १५ ) आचार्यतत्त्वज्ञानविभङ्गक्रमः ( १६ ) अक्षरन्यासविभङ्गक्रमः ( १७ ) शताक्षरी-उद्भूतविभङ्गक्रमः ( १८ ) फ़लयोग-निर्दिष्टविभङ्गक्रमः ( १९ ) स्वतत्त्वसाधनाविभङ्गक्रमः ( २० ) शताक्षरीविधि-विभङ्गक्रमः ( २१ ) सम्यक्सम्बोधिस्वभावनिर्देशविभङ्गक्रमः ( २२ ) त्रिसमयचर्या-विभङ्गक्रमः ( २३ ) तथागतनिर्दिष्टविभङ्गक्रमः ( २४ ) मन्त्रानुसारं बोधिसत्वचर्या-विधिर्यथाक्रमविभङ्गश्च। 


बुस्तोनमहोदयेन षड्विंशोऽपि परिवर्तोऽगण्यत। बुद्धस्य पूर्वजन्मनि बोधिसत्वरूपेणोद्भवकाले ब्राह्यणैरग्निभेदविषये पृष्टे सति वेदप्रतिपादित-चतुश्चत्वारिंशदग्निभेदानां बुद्धत्वस्यावाप्त्या द्वादशाग्निषु पूर्वगमनेन होमविधिरपि गणितः। परं परिवर्तोऽयं सम्प्रत्युपलब्धदेगेतञ्जुराख्ये न विद्यते। वैरोचनाभि-सम्बोधितन्त्रं मूलतन्त्रमस्ति। अत्र मण्डलत्रयम्। मूलतन्त्रेणानेन साकं भोटभाषाया-मुपलब्धं गुह्यश्रेष्ठतन्त्रम् उत्तरतन्त्रमभिधीयते। अत्र सप्त परिवर्ताः यथा - ( १ ) शान्त्यादिचतुर्थकर्मार्थं शान्तिहोमः ( २ ) पुष्टिहोमविधिः ( ३ ) वशहोमविधिः ( ४ ) रौद्रचर्यासिद्ध्यर्थं होमः ( ५ ) स्वरव्यञ्जनाद्यक्षरप्रतिपादनपूर्वको भावनाविधिः ( ६ ) देवभावनातः पूर्वं कर्म-प्रायश्चित्तम् ( ७ ) महाकरूणोद्भूत्या सह गुह्यमण्डलं प्रविश्य तथागताधिष्ठितो विधिः। तन्त्रस्यास्य विषये बुस्तोनकथनानुसारमिदमपूर्णम् यतोऽस्य नाम्ना समुद्धृतान्यनेकानि वचांसि शास्त्रे प्रतिपाद्यन्ते। यानि समुपलब्धगुह्यतन्त्रे नोपलभ्यन्ते। 


( २ ) अचलमहाक्रोधराजतन्त्रम् एतद् देशनाविषये ग्रन्थेऽस्मिन्नेव कथितं भगवता वायुमण्डले विभिन्नरत्नैरलङ्कृतविमाने अनन्तव्यूहैः परिपूर्णे अनन्तपुण्येभ्यः समुत्पन्नसिंहासने स्थित्वा वज्रपाणिबोधिसत्वावलोकितेश्वरमैत्रेय-शारिपुत्र-मौद्-गल्यायनादिश्रावकैः परिपूर्णैः ब्रह्यविष्णुप्रभृतिभिः सह विहरता महाकरूणया प्रेरितेन सता चित्तेन एतत् तन्त्रमुपदिश्यते। 


( ३ ) नीलाम्बरवज्रपातालतन्त्रम् एतद्देशना भगवता सप्तपातालक्रमस्थित-नागलोके वज्रपाणिना सह विहरता स्वपादाभ्यां प्रकाशपुञ्जं संस्फ़ोर्य नाग-आनन्द-उपानन्दादिनृपान् नागांश्चावर्ज्य तद्दमनं विधाय तदभिषिच्य एतत्तन्त्रमदिश्यत। सप्त परिच्छेदा अत्र। यथा - ( १ ) निदानपरिवर्तः ( २ ) धनसाधनविघ्ननिवारणपरिवर्तः ( ३ ) निष्प्रतिकाररोगनिवारणपरिवर्तः ( ४ ) मण्डलपरिवर्तः। ( ५ ) यक्षसाधना-परिवर्तः ( ६ ) नागसाधनापरिवर्तः ( ७ ) कथापरिवर्तश्च। 


( ४ ) नीलाम्बरत्रिलोकविनयतन्त्रम् तन्त्रमिदं भगवता सुमेरूपर्वतस्य दक्षिण-लंकावतीत्याख्ये प्रासादे विहरताऽनन्तासुरेभ्यः देवेभ्यः वज्रपाणिप्रभृतिभ्यः समुपादिश्यत। अस्मिंश्च चत्वारः परिच्छेदाः ( १ ) निदानपरिच्छेदः ( २ ) पातालदमन-परिच्छेदः ( ३ ) मनुष्यलोकदमनपरिच्छेदः ( ४ ) आकाशलोकदमनपरिच्छेदश्च। 


निदानपरिच्छेदावलोकनात् प्रतीयते साधकः श्रद्धाभक्तिसाधनानां बलेन तत्त्वं साक्षात्कृत्य तथागतेन सह सरलसम्बन्धं स्थापयितुमर्हति। प्रश्नं कृत्वा तदाधारीकृत्य ग्रन्थं प्रणेतुं शक्नोति। चर्यातन्त्रस्य देशना सर्वकालेषु महावैरोचनेनाकारि । कुसुमतलगर्भालङ्कारव्यूहाद्यवलोकनात् सम्पूर्णं जगदेव तथागतदेशनाक्षेत्रं प्रतीयते। एतेन सुस्पष्टं भवति यज्जगतः कस्मिन्नपि कोणे केनापि साधकेन ध्यान-भावनायां कृतायां सत्यां तथागतः प्रकटीभूय तं दिशति। 


चर्यातन्त्रस्वरूपम् 


बाह्यस्नानादिशुद्ध्या सहेष्टदेवं भावयित्वाऽभ्यन्तरध्यानस्यापि चर्याविधायकः साधकः चर्यातन्त्रवान् कथ्यते। ज्ञानसमुच्चये चर्यातन्त्रस्वरूपं सुस्पष्टयता भगवताऽभाणि-षड्देवतत्त्वानां भावनाविधिना कायवाक्चित्तशुद्ध्यर्थं विभिन्नचर्याविधीनाम् अनुशीलनम् क्रियातन्त्रे वर्णितकर्ममुद्रादेव्या सह हास्यादिक्रियाभिः सुखानुभूतिपूर्वकं ध्यानं , चर्यातन्त्रमार्गस्वरूपमस्ति। 


चर्यातन्त्रे प्राधान्येन स्वकायं बुद्धकाये दृष्ट्वा कायाधिष्ठानं त्वरितं साधकः प्राप्नोति, मन्त्ररूपेण स्ववचांसि भावयित्वा वागधिष्ठानं निजचिते ज्ञानस्वरूपं भावयित्वा चित्ताधिष्ठानं च लभते। स्वयमपि देवरूपेण भावनया स्वदेहं प्रति अभिनिवेशमोहौ क्षीयेते, दिव्यगुणाः सौकर्य्येणोपलभ्यन्ते। अर्थात् फ़लस्य मार्गरूपेण भावनया पुण्यद्वय- परिपूर्तिर्भवति। पटचित्रादाविष्टदेवं भावयित्वा आराधनाद्यपेक्षया स्वदेहं देवकायरूपेण परिवर्त्य भावनाकरणाद् द्रुतं सम्भारद्वयं संचीयते। चर्या-तन्त्रेष्वयमेव विधिरूपादेशि। अतः सामान्यक्रियातन्त्रापेक्षयाऽयं विधिः श्रेष्ठोऽभिमन्यते। 


चर्यातन्त्रस्यान्तरिककुलभेदाः 


क्रियातन्त्रवदेव चर्यातन्त्रस्यापि त्रयो भेदाः - ( १ ) तथागतकुलम्, ( २ ) पद्यकुलम्, ( ३ ) वज्रकुलं च। कोङ्टुलरिनपोछेमहोदयस्य मतानुसारमेतत् कायवाक्-चित्ताख्ये त्रिकुलेऽपि विभाजयितुं शक्यम्। यथा च तथागतकुलं हि कायकुलं विद्यते, पद्यकुलं वाक्कुलं , वज्रकुलं चैव चित्तकुलमस्ति। एतदेव चर्यातन्त्र-द्वारमप्युच्यते। सामान्यतः सर्वे तथागताः कुलानि च तत्त्वतः अभिन्नान्येव, केवलमुपायवशेन विनेयजनाशयानुसारमेतानि विभिन्नरूपेषु आविर्भवन्ति। यथा चैकः साधकः भगवच्छाक्यमुनेः रूपाकृती चित्ते समालम्ब्य ध्यायते तथा रूपाकारं साक्षात्कुरूते। एवमेव सिंहलीयजनाः आत्मवद्देवमूर्तिं निर्मान्ति तथैव चीन-जापान-तिब्बतदेशीया आत्मरूपाकाररूपेणैव। एवं कायवाक्चित्तान्यपि तत्त्वतः अभिन्नान्येव। वज्रपाण्यभिषेकतन्त्रेऽपि यः कुलपुत्रः मण्डलं प्रविश्य मन्त्रचर्याङ्करोति तद् वागतिरिक्तम्मनो नास्ति मनसोऽतिरिक्ता वागपि न , कायातिरिक्ता वाग् नास्ति, वागतिरिक्तः कायोऽपि नास्ति। तेन विचारणीया वागेव मनोऽस्ति, मन एव देवरूपम्, देवरूपा चैव वागेवास्ति। एवमेतत्त्रयाभिन्नत्वम्मत्वा ध्यानानुष्ठानेन तच्छरीरम् इष्टदेवतारूपे मन्त्रवाचि, मनसि चित्ते च प्रतिष्ठास्यते। एतेन सुस्पष्टं यत् कायवाक्चित्तान्यपि, एकान्येव। 


चर्यातन्त्रेष्वपि क्रियातन्त्रवच्छान्तिपुष्टिरौद्रकर्मणां संसिद्ध्यै भागत्रये कुलं व्यभाजि। देवस्वरूपस्यात्र क्रियातन्त्रापेक्षया भिन्नत्वम्। यथा तथागतकुले वैरोचना-चलौ अक्षोभ्यो वा वज्रकुले च वज्रपाणिर्नीलाम्बरश्च स्वीकृताः सन्ति। पद्यकरपो कथयति- चर्यातन्त्रमपि प्रायः क्रियातन्त्रसदृशमेव। अतः क्रियातन्त्रमतिरिच्यास्मिन् कुलस्य पृथग् भेदा न भवन्ति। क्रियातन्त्रचर्यातन्त्रयोर्यद्यपि पञ्च कुलभेदाः कर्तुम् सम्भाव्यन्ते परं च तन्त्रद्वयस्य साधकसिद्धेः कुलत्रये संगृहीतत्त्वात् कुलस्य भेदत्रय-मेव युज्यते। डोगोनछोसज्ञल फ़गसपाख्यः आचार्यः सामान्यचर्यातन्त्रे तथागतकुल-ग्रन्थं वैरोचनाभिसम्बोधितन्त्रं, वज्रकुलग्रन्थं च वज्रपाण्यभिषेकतन्त्रत्वेनाभिमन्यते। एतेन कथ्यते पद्यकुलतन्त्रं तिब्बतीभाषायां नानूदितम्। पण्डितपुण्यकीर्तिमतेन हयग्रीवतन्त्रं पद्यकुलस्य ग्रन्थः यो हि तिब्बतीभाषायाम् अनूदितोऽभूत्। बुस्तोनः क्रियातन्त्रसमं चर्यातन्त्रमभिमन्यते अतश्चर्यातन्त्रं पृथग् व्याख्यायिन तेन। 


चर्यातन्त्रसाधनापद्धतिः 


चर्यातन्त्रसाधनविधिः श्रीबुद्धगुह्येन भागचतुष्टये विभज्यते ( १ ) प्रवेशचर्या ( २ ) योगचर्या ( ३ ) साधनासिद्धिः ( ४ ) सिद्धिचर्या च। 


१ . प्रवेशचर्या 


प्रवेशचर्यायाः पुनः द्वौ भेदौ- बाह्यप्रवेशः अभिषेकविधिर्वा, आभ्यन्तर-प्रवेशो हि समयसंवराणां पालनम्। अभिषेकविषये पश्चाद् वक्ष्यते विस्तरेण। अधुना चर्यातन्त्रसाधनायां केषामभिषेकाणां प्राप्तिरनिवार्य्या ? तत्सङ्केतः करिष्यते। ज्ञान-तिलकेऽप्युक्तं-चर्यातन्त्रसाधकेन क्रियातन्त्रस्य सर्वाभिषेकेषु वज्रघण्टानामाभिषेकाः प्राप्तव्याः अर्थात् जलपटवज्रघण्टानामाभिषेकाः प्राप्तव्याः भवन्ति। कलशाभिषेकतो दुर्गतिर्नश्यति। अयमभिषेकः भवचक्रबीजं प्रक्षालयति प्रथमप्रमुदिताभूमित आरभ्य धर्ममेघाख्यदशमभूमिपर्यन्तं साधकं सम्प्रेष्य बुद्धत्वं प्रापयति। पटाभिषेकाद् द्वात्रिंशद् लक्षणान्यशीत्यनुव्यञ्जनानि लभ्यन्ते घण्टाभिषेकात् षष्टिब्रह्यस्वराङ्गानां प्राप्तिर्भवति वज्राभिषेकाच्च यथावद्यावद्ज्ञानप्राप्तिमार्गस्य सोपानमुद्घटते। 


चर्यातन्त्राभिषेकप्राप्त्यै प्रपञ्चनिष्प्रपञ्चमण्डलयोर्व्यवस्था वरीवर्ति। प्रपञ्चमण्डले मृण्मयं निष्प्रपञ्चे च चित्तमण्डलं स्वीकृतमास्ते अभिषेकावाप्तिपूर्वं मण्डलप्रवेशकाले अभिषेकावाप्त्यनन्तरं तासु तिसृष्ववस्थासु त्रिविधसमयानां संवराणाञ्च पालनमावश्यकम्। समयसंवरविषये पश्चाद् विस्तरेण निरूपयिष्यते। अत्र च चर्यातन्त्र-साधकस्य सामान्यतोऽनिवार्यरूपेण पालनीयानां समयसंवराणां सङ्केतमात्रं निर्दिश्यते। 


अभिषेकप्राप्त्यै साधकः कायवाक्चित्तानीष्टदेवाय समर्पयति। ततश्च साधकोऽपि इष्टदेवस्य कुलिको भवति। तदा तेन कुलशिक्षानुसारेण कार्यं क्रियेत। अभिषेकप्राप्त्यनन्तरं साधकेन चर्यातन्त्रस्य यथार्थसाधनायां सलक्षणनिर्लक्षणरूप-देवयोगस्य भावना सततं करणीया भवति, अर्थात् साधकेन कालत्रये वज्रसत्व-रूपोऽहम्, इति विचार्य गम्भीरोदारसलक्षणनिर्लक्षणदेवयोगः भावनीयो जायते। सहैव च समयसंवराणां विनाशो मा भूत्, एतदर्थमपि सन्नद्धतया स्थेयम्। 


२. योगचर्या 


अस्या अपि भेदद्वयम्-सलक्षणयोगः निर्लक्षणयोगश्च । 


सलक्षणयोगस्यापि बाह्याभ्यन्तरचतुश्चतुरङ्गैर्युक्तौ द्वे विधी प्रत्यपाद्येताम्। पुनश्चतुरङ्गसाधनाविधेः द्वौ भेदौ भवतः। ( १ ) सामान्यसाधनाविधिः ( २ ) विशेष-साधनाविधिश्च। 


( क ) बाह्यसामान्यसाधनाविधिः 


क्रियातन्त्रवदेव शून्यदेव-अक्षरदेवरूपदेवादि-देवतत्त्वानां चत्वार्यङ्गानि- (१) आश्रितम् ( २ ) बोधिचित्तम् ( ३ ) ध्वनिमन्त्रबीजम् ( ४ ) प्राणायामश्च एतच्चतुष्टयेन भावना क्रियते। बाह्यभ्यन्तरस्नानादिना शुद्धीभूय रक्षाचक्रं च भावयित्वा स्वेष्टदेवमावाहयेत्। इष्टदेवस्य पूजार्चनाभ्यर्थनानन्तरं शून्यता-भावनमेव शून्यदेवो भण्यते। इष्टदेवमन्त्रबीजस्य भावनैव अक्षरदेवः। मन्त्रध्वनिना सह स्फ़ुरणसंहार-भावना हि ध्वनिदेवः, इष्टदेवरूपं रूपदेवः, इष्टदेवहृदयकमले आयुधादीनां भावना मुद्रादेवः, स्वदेहं च मन्त्रेणाधिष्ठाय देवरूपेण तद्धयानं लक्षणदेव उच्यते। एतत्षड्देवतत्त्वानां भावनाविधिः क्रियातन्त्रवदेव विद्यते। सामान्यविधिरयमुच्यते। 


( ख ) बाह्यविशेषसाधनाविधिः 


वैरोचनाभिसम्बोधितन्त्रे वज्रपाणिना तथागतवैरोचनः पृच्छ्यते- हे भगवन्। यः साधको देवरूपान्वितः सन् देवरूपं वावलम्ब्य चर्याङ्करोति, स त्वरितं देवरूपेण परिणमते। अतः देवरूपं मह्यं निर्दिश्यताम्। प्रत्युत्तरे साधु साधु प्रश्नोऽयं सुष्ठु। हे वज्रपाणे। शृणु, देवस्य स्वरूपत्रयम्-अक्षरम्मुद्रा रूपं च। अक्षरस्य पुनः भेदद्वयम् - शब्दबोधिचित्ते। मुद्राया अपि द्वौ भेदौ रूप्यरूपिणौ। रूपस्यापि पुनः - परिपूर्णशुद्धमशुद्धं च द्वौ। एवं भावनामयदेवस्य षड् भेदाः। इष्टदेवे निजहृदयकमले च संस्थितचन्रमण्दलबोधिचित्तम्, तदुपरि इष्टदेवमन्त्रबीजस्य भावनैव शब्ददेव-बोधिचित्तयोर्भावनाऽस्ति। चक्रवज्रादिकं हि रूपिमुद्रा, धर्मोदयश्च या शून्यता-बोधिका सा अरूपिमुद्रा। यन्निर्विकल्पं सर्वलक्षणरहितं तत् परिपूर्णशुद्धम्। यच्च लक्षणवर्णसंस्थानैर्युक्तं तदशुद्धमस्ति। देवस्यैतदन्तिमरूपद्वयस्य प्रयोजनम्- फ़लस्य सलक्षणरूपत्वं निर्लक्षणरूपत्वं च। 


( २ ) आभ्यन्तरसामान्यसाधनाविधिः 


वैरोचनाभिसंबोधितन्त्रे बोधिसत्त्ववज्रपाणिना गुह्यमन्त्रस्य साधना कथं क्रियेत एवं भगवति पृष्टे सति, भगवता एतान्येव चत्वार्यङ्गानि प्रतिपादयता सिद्ध्यर्थं दशलक्षमितमन्त्रजपो निर्दिश्यते। अतः पूर्वकर्मसामान्यविधिं समाप्य परमार्थ-बोधिचित्तस्वरूपेण संवृत्याभासचन्द्रमण्डलं ध्येयम्। तदुपरि बीजाक्षरं न्यसेत्, यच्च सहसा ध्वनिरूपेण संस्फ़ुरेत्। बीजाक्षरं चन्द्रमण्डलं च परिणतं सत् स्वदेहे देवरूपेण प्रकटिमिति विचारणीयम्। आदर्शे रूपप्रतिबिम्बनमिव आत्मवदेव स्वसमक्षं भावनीयम्, इष्टदेवस्य हृदयकमले स्थापितबीजाक्षरे मनो निधाय प्राणायामं विदध्यात्। प्राणायामाभिप्रायं बोधयित्वा वैरोचनाभिसम्बोधितन्त्रे निरूपितं प्राणाश्च वायुरपानं च स्मृतिरस्ति। शरीरे वायुप्रवेशमार्गं नियन्त्र्य मन्त्रे मनस एकाग्रत्वं हि स्मृतियुक्तः प्राणायामः। यावन्न देवाभासस्तावत् प्राणायामं कुर्वन् मन्त्रं जपेत्। 


आभ्यन्तरविशेषसाधनाविधिः 


स्वचन्द्रमण्डलबोधिचित्ते ' अ , आ, अं , आ ' इति चतुरक्षरेषु किमप्येकं भावनीयम्। ततश्च प्रकाशस्य स्फ़ुरणेन संहरणविधिना च स्वार्थपरार्थसिद्धिः ध्यातव्या। तदनन्तरं बीजाक्षरत्वेन परिणतस्य पीतवर्णस्य एकमुखस्य भुजयुगलस्य ध्यानमुद्रायाम् उष्णीषे पा च चक्रालंकृतद्वात्रिंशद्लक्षणाशीत्यनुव्यञ्जनैः परिपूर्ण-चीवराणि धारयमाणस्य श्वेतकमलचन्द्रमण्डलयोरूपरि विराजमानस्य बुद्धदेवस्यैव मम स्वरूपम्, इत्थमहङ्कारेण स्थेयम्। तदनु हृदयकमले पुनश्च चन्द्रमण्डले बीजाक्षरे वैरोचनस्य भावना करणीया। ततश्च तधृदयकमले चन्द्रमण्डलबीजमन्त्रे न्यस्य प्राणायामद्वारा मन्त्रं जपेत्। आभ्यन्तरचतुरङ्गसमन्वितः अयमेव मन्त्रजपविधिरूच्यते। 


निर्लक्षणसाधनाविधिः 


निर्लक्षणसाधनायाः द्वौ भेदौ ( क ) सामान्यम् ( ख ) विशेषश्च। 


( क ) सामान्यम् 


स्वहृदयकमले ( स्वयम् इष्टदेवं भावनाविषयीभूतं कृत्वा ) आयुधचक्रवज्रबीजाक्षरदिकं भावयित्वा प्राणायामकरणम्, ततश्च देवदव्योः परस्परम् ईक्षणं हसनात्मकं स्वरूपं ध्यात्वा राग-मार्गीकरणविधानेन सह विषये ( शून्यतायाम् ) स्थितिरेव सामान्यनिर्लक्षणसाधनाविधिरूच्यते। 


( ख ) विशेषः 


स्कन्धादिषु चतुष्कोटिवत्या-माध्यमिकयुक्त्या अजातानिरूद्धादिगुणसहितां चतुष्कोटिनिष्प्रपञ्चतां बुद्ध्वा तत्त्वे स्थितिरपेक्ष्यते। ये च सत्त्वा एतत्तथ्यादपरिचिता स्तथाऽनेनैव कारणेन नानादुःखानि अनुभवन्ति तान् दृष्ट्वा करूणया द्रवीभूतः सन् अनुग्रहीतुमिच्छेद् अर्थात् युक्तिभिः वस्तु-निःस्वभावतां प्रतिपाद्य प्रवर्तेत, तदनु च तत्त्वे यथासंभवं स्थितिः अन्ततः समाधेरूत्थितिः, पृष्ठलब्धौ सत्त्व-हितविधानम्, त्र्यङ्गयुक्तं भावनाकरणं हि निर्लक्षणभावना कथ्यते। वैरोचनाभिसम्बोधौ सलक्षणभावनापेक्षया निर्लक्षणभावना प्रबलतया प्रेरिता। यतश्च सलक्षणयोगात् सलक्षणसिद्धिर्लभ्यते। निर्लक्षणयोगाच्च सलक्षणनिर्लक्षणोभयसिद्धिरवाप्यते। 


सारांशः 


क्रियाचर्यातन्त्रयोः योगस्य चत्वारि महत्त्वाधायकान्यङ्गानि। देवशून्यतयोर्योगः प्राणायाममन्त्रजपयोश्च योगः। परमार्थतः शून्यताभावना संवृतितो देवरूपा च भावनैव धर्मकायसंभोगकायप्राप्तेः प्रधानमुपादानम्। मन्त्रजपे य इष्टदेवो भाव्येत, तदावाहनम् आत्मनश्च तद्रूपेण अधिष्ठानं भवेत्। प्राणायामयोगः उभययोगे दाद्र्यप्राप्युपायः। अत इदं सलक्षणनिर्लक्षणयोगयोः समानमनिवार्यं चाङ्गमस्ति। 


३. साधनासिद्धिचर्या 


मन्त्रजपस्य पूर्णतायां सत्यां साधकः साधारणासाधारणसिद्धीनां प्राप्त्यधिकारी भवति। साधारणसिद्धिप्राप्त्यै साधकः खड्गादिकमादाय मन्त्रं जपेत्। तेन च विद्याधरादिसिद्धयः प्राप्यन्ते। असाधारणसिद्ध्यवस्थायामन्तर्निहितक्षितिजल-पावकादिमण्डलानामाश्रये शक्तिपुष्टिरौद्रवश्यादिकर्मसु पूर्णत्वं लभते। प्रातिहार्याभिज्ञादिभिः स्वपरोभयहितं करोति। सिद्धेरयं मापदण्डः। एवं स्थित्यागमनपूर्वं साधना क्रियमाणा भवेत्। समान्यसाधनाकाले स्वप्न इष्टदेवाभासः इष्टदेवमण्डलस्य पूजार्चनं स्वप्नाद्यवेक्षणमपि साधनायाः शुभलक्षणं मन्यते। क्रमशः परिष्कृत्या साक्षाद् इष्टदेवस्य दर्शनेन सामान्यासामान्यसर्वविधसिद्धयः प्राप्यन्ते। एतत्सामान्यासामान्यसिद्धिभ्यः मन्त्रजपपूर्णताऽनन्तरं साधकस्य सिद्धिप्राप्तिस्तद्यथेच्छमालम्बते। 


४. सिद्धिचर्या 


सिद्धिचर्यया मृद्विन्द्रियो जनः अष्टकल्पेषु नूनमेव सम्यक्सम्बोधिं लभते। तीक्ष्णेन्द्रियः कल्पत्रये परमपदमवाप्नोति। साधकः प्राप्त्यभिलाषायामेकस्मिन् जीवनेऽपि परमपदं प्राप्तुमर्हति। 


उपसंहारः 


बुस्तोनमहाशयेनावोचि-क्रियाचर्यातन्त्रयोः साधनापद्धतिरेकविद्यासमाचास्ति। अतश्चर्यातन्त्रसाधनापद्धतिर्न विशदं विवेचिता तेन। पण्डितपुण्यकीर्ति-महोदयेनापि चर्यातन्त्रं समयसंवरतन्त्रग्रन्थं यावत् कुलभेदमात्रं च निरधारि। तन्मतेनापि साधनापद्धतिः क्रियातन्त्रसदृशी चैवास्ति। आचार्यचोङ्खापामहोदयेन संक्षेपेण चर्यातन्त्रसाधनापद्धतिर्विवेचिता। अत्र ज्ञेयकोशमाधारीकृत्य किञ्चिल्लिख्यते। 


क्रियातन्त्रवदेव चर्यातन्त्रमपि कुलानुसारेण तथागतकुलपद्यकुलवज्रकुलाख्ये भागत्रये विभज्यते। साधनापद्धतौ चतुरञ्गयुक्तभावनाविधिः यद्यपि क्रियातन्त्रसमान एव परं च चर्यातन्त्रस्य भावनाविधिः क्रियातन्त्रापेक्षया भृशं परिष्कृतोऽस्ति। नान्यथा क्रियातन्त्रात् पार्थक्यावश्यकत्वं स्यात्। यथा च क्रियातन्त्रे स्वदेहे देवकायस्य भावनायां सत्यामसत्यां मतभेदः किन्त्वत्र निर्विवादं स्वदेहे देवकायस्य भावना-विधेरावश्यकत्वं प्रत्यपादि। स्वसम्मुखं च ध्येय इष्टदेवे ज्ञानदेवमाहूय विलीनत्वस्यापि पद्धतिः प्राकाशि। साधनेयमेव सलक्षणदेवयोग-निर्लक्षणदेवयोगेति नाम्ना विज्ञायते या च क्रियातन्त्रापेक्षया सूक्ष्मा। सलक्षणदेवयोगस्य तात्पर्यन्तु स्वयम् इष्टदेवं भावयित्वा पूर्वोक्तचतुरवयवयुक्तं सत् मन्त्रजपविधानम्। 


अत्रैवं विज्ञेयं यत् साधकः स्वयम् इष्टदेवरूपेण कथं परिणतो भवेत्? यथा अस्माकं स्कन्धः यश्च पञ्चमहाभूतैर्विनिर्मितः नैकतत्त्वानां संघातमात्रः, पूर्वकर्मफ़लैः समुद्भूतः , स परमार्थप्रतिपादकयुक्तिभिर्यदाऽस्माभिः विश्लिष्यते तदा शून्यत्वं प्राप्यते। परं च तद् हेतुप्रत्ययानामुपलब्धौ निःस्वभावतयाऽपि आदर्शे प्रतिबिम्बिततत्त्वमिव प्रभवति। तथैव सर्वधर्मा अवगन्तव्याः। यथा शून्यतास्वरूपेण वस्तूनि आविर्भवन्ति तथा आत्मना देवत्वाविर्भावेन, गुरूप्रदत्ताभिषेकेण च इष्टदेवशक्त्यधिष्ठानादिना प्रतीत्यसमुत्पन्नविधिना साधकः इष्टदेवत्वेन प्रकटीभवति। अतः एतत् स्थितेः पूर्व इष्टदेवः एवं भावनीयो यदहमेवेष्टदेवः, इष्टदेवे अहमस्मि। एवम् इष्टदेवभावनया मन्त्रजपकार्यमेव अत्र सलक्षणयोगः उच्यते। निर्लक्षणयोगः सामान्येन धर्मकार्य-प्राप्त्युपादानकारकः। सलक्षणयोगावधौ भावितेष्टदेवोऽपि विश्लेषणीयः। विश्लेषणेन यथा रूपादिधर्माणां काऽपि सत्ता न तिष्ठति तथैवेष्टदेवकायसत्ताऽपि न तथा च स्वचित्तं कालत्रयरहितं सर्वलक्षणेषु निर्विकल्पस्थितिं प्राप्नोति, अयमेव निर्विकल्प-भावनाविधिरूद्यते। भावनाक्रमेऽपि कमलशीलेनेदमेव तथ्यं न्यरूपि। केचिद् विद्वांसः शून्यताबोधानन्तरं कृतदेवभावनां निर्लक्षणभावनां तदभावं तदभावं च सलक्षण-भावनां मन्वते। यथा शून्यतासाक्षात्करणानन्तरं तच्छून्यताबोधके चित्ते प्रबल-प्रज्ञोत्पत्या सहैव दानसम्पादनम्, परिक्रमणम्, वन्दनमित्यादि कर्माणि न शून्यता-बोधकानि, परं च शून्यताबोधपूर्णचित्तत्वात् तत्कर्मापि शून्यताप्रेरितमुच्यते। यथा बोधिचित्तमुत्पाद्य तत्क्षणमेव शून्यतायां समाहितत्वे सति समाहितावस्थायां बोधिचित्तप्रवाहास्तित्वमुररीक्रियते तथैवात्रापि शून्यताज्ञानस्य प्रवाहे देवभावना, निर्लक्षणदेवभावनाभिधीयते। एवं विधा व्यवस्था पारमितानये तु सम्भाव्यते परं च तन्त्रेषु न संभाव्यते। गुरूवराचार्य-छुलठिमोऽपि प्रज्ञोपायस्य युगनद्धस्वरूपं स्पष्टयन् कथयामास- 'यथा कस्याश्चिन्-मातुरेकाकिपुत्रस्य मृत्यौ अत्यन्तं दुःखमनुभूयते, तथापि सा तदनुभववेदनादिना सह सर्वामपि दिनचर्यां सम्पादयति तद्वदेव शून्यताप्रेरितदानादिसम्पादनम् पारमितानयस्य प्रज्ञोपायाद्वयावस्थोच्यते। 


अतः पारमितानयानुसारेण एवं व्याख्या नूनम्मान्या परं च वज्रयानानुसारेण अमान्यैव। यतश्च तन्त्रेषु देवस्वरूपस्य शून्यतायाश्च युगनद्धरूपमपेक्ष्यते। सांवृतिक-चित्ताभासस्य देवस्वरूपत्वम्, तच्छून्यता च परमार्था या चाद्वयैकाकारा, एक-रसाऽभिन्ना सती एकबुद्धिविषयिणी चास्ति। फ़लावस्थायां कायस्य लक्षणानुव्यञ्जनालङ्कृत आश्रयः ( देवकायः ) एवं च तदाश्रिता निरालम्बकरूणा च अद्वयभावे तथैव अवतिष्ठेते यथा च दीपकालोकौ। तथागतकायस्तस्य च निः- स्वभावताऽर्थात् प्रज्ञोपायाद्वयभावनैव निर्लक्षणदेवभावनाऽस्ति। अत्र व्याख्यातमद्वयं युगनद्धदेवश्च मनोमयः, मनसा निर्माय एतद् भाव्यते। परं च योगतन्त्रानुत्तरतन्त्रयोः पञ्चाभिसम्बोधिभिः प्राणायामेन चैतत् सूक्ष्मप्राणचित्तोपायेन समुत्पाद्य भाव्यते। एतद्भावनाद्वये महदन्तरं यच्चाग्रे वक्ष्यते तदिति। 


चतुर्थः परिच्छेदः 


योगतन्त्रम् 


योगतन्त्रस्याभ्युदयः 


१.तत्त्वसंग्रहः- पद्यवज्रतथागतेन तत्त्वसंग्रहस्य तन्त्रार्थावताराख्यटीकायां योगतन्त्रदेशनाविधिं स्पष्टयता समुल्लिख्यते - सामान्यतो भगवान् स्वपरार्थहेतुबोधि-चित्तोत्पादद्वारा आवरणानां क्षयात् पुण्यसंभारज्ञानसंभाराभ्यां परिपूर्णतया वज्रकायं प्राप्याकाशवत् सर्वतत्त्वेषु व्याप्तो निरालम्बनिर्विकल्पस्वरूपेणावतिष्ठते। ईदृश-स्थितावपि बोधिचर्यासंपादनकालिकसंस्काराणामर्थात्-प्राणिनां हिताय कृतायाः प्रतिज्ञायाः वशीभूतः सन् सम्भोगनिर्माणकायत्वेनाविर्भूय सत्वहितं विदधाति। तेन सत्त्वानामध्यादेशानुसारं क्रमशः युगपदुभयरूपेण धर्मः दिश्यते। 


शास्तुस्त्रीणि रूपाणि - धर्मकाय-संभोगकाय-निर्माणकायाख्यानि। धर्मोऽपि त्रिविधः हेतुयानं,बाह्ययानम्, आभ्यन्तरयानं च। पार्षदोऽपि त्रिविधः- प्रतीत्य-समुत्पन्नः प्रणिधानोत्पन्नो ज्ञानोत्पन्नश्च। धर्मदेशनास्थानान्यपि त्रीणि-नगरविमान-मण्डलप्रासादाख्यानि। लोकोऽपि त्रिविधः-पाताललोकः सत्त्वलोकः देवलोकश्च। 


महायोगतन्त्रतत्त्वसंग्रहस्य देशनां तथागतः संभोगकायद्वारा देवलोके चक्रे ततश्च क्रमशो जम्बुद्वीपे चकार। एतच्च तन्त्रसंग्रहकर्तुरधिष्ठानेन पुष्पितं विकसितं चाभूत्। तत्त्वसंग्रहारम्भे एतद्देशनाविषये ईदग्विवरणमुपलभ्यते। 


बुद्धगुह्येन तत्त्वसंग्रहस्य प्रथमभागमाश्रित्य ( वज्रधातुः ) एकः शोभनः वृहत्तन्त्रार्थावताराख्यो ग्रन्थः प्रणनायि। एतदादौ तत्त्वार्थं स्पष्टयताऽनेन तत्त्वसंग्रहस्य तानि सप्तत्रिंशत् तत्त्वाङ्गानि गणितानि। यथा - १ . हृदयम् , २ . मुद्रा, ३ . मन्त्रः, ४ . विद्या , ५ . अधिष्ठानम् , ६ . अभिषेकः , ७ . ध्यानम् , ८ . पूजा , ९ . स्वतत्त्वम् , १० . देवतत्त्वम् , ११. मण्डलम् , १२ . प्रज्ञा, १३ . उपायः, १४ . हेतुः, १५ . फ़लम् , १६. योगः , १७. अतियोगः, १८. महायोगः , १९ . गुह्ययोगः, २० . सर्वयोगः, २१ . जपः, २२. होमः, २३. व्रतम्, २४ . सिद्धिः, २५ . सिद्धिसाधना , २६. समाधिः, २७. बोधिचित्तम्, २८. शून्यताज्ञानम् , २९ . आदर्शज्ञानम् , ३०. समताज्ञानम् , ३१. प्रत्यवेक्षणज्ञानम् , ३२. कृत्यानुष्ठानज्ञानम् , ३३ . धर्मधातुविशुद्धज्ञानम् , ३४ . आकर्षणम्, ३५ . स्थापनम् , ३६ . बन्धनं , ३७ . वशीकरणं च। एते सप्तत्रिंशत्-साधनाविधयः सुसंगृहीताः। अतः तन्त्रस्यास्य तत्त्वसंग्रहनाम सार्थकं विद्यते। बुद्धगुह्यकथनं यत् - एतानि सप्तत्रिंशत् तत्त्वानि पुनः हृदयमुद्रामन्त्रेषु विद्यातत्त्वेषु च संग्रहीतुं शक्यन्ते। 


ग्रन्थस्यास्य चत्वारो भागाः १ . वज्रधातुभागः, २ . त्रिलोकविजयभागः, ३ . सकलजगद्-विनयभागः,  ४ . सर्वार्थसिद्धिभागश्च। 


प्रत्येकं भागे षड् मण्डलपटलानि। यथा - 


१ . वज्रधातुभागः - ( क ) वज्रधातुमण्डलम् ( ख ) वज्रगुह्यवज्रमण्डलम् ( ग ) वज्रज्ञानधर्ममण्डलम् ( घ ) वज्रकायकर्ममण्डलम् ( ङ ) चतुर्थमुद्रामण्डलं ( च ) एकमुद्रामण्डलं च। 


२. त्रिलोकविजयमण्डले- ( क ) त्रिलोकविजयमहामण्डलम् ( ख ) क्रोधगुह्यमुद्रामण्डलम् ( ग ) वज्रकुलधर्मज्ञानसमयमण्डलम् ( घ ) त्रिलोकविजयक्रममण्डलम् ( ङ ) त्रिलोकविजयचतुर्थमण्डलम् ( च ) एकमुद्रामण्डलं च। 


३ . सकलजगद्विनयभागः - ( क ) सकलजगद्विनयमहामुद्रामण्डलम् ( ख ) पद्यगुह्यमुद्रामण्डलम् ( ग ) ज्ञानमण्डलम् ( घ ) कर्ममण्डलम् ( ङ ) चतुर्थमुद्रामण्डलम् ( च ) सकलजगदेकमुद्रामण्डलम्। 


४. सर्वार्थसिद्धिभागः - ( क ) सर्वार्थसिद्धिमहामण्डलम् ( ख ) रत्नगुह्यमण्डलम् ( ग ) ज्ञानमण्डलम् ( घ ) कर्ममण्डलम् ( ङ ) चतुर्थमुद्रामण्डलम् ( च ) सर्वार्थसिद्धि-एकमुद्रामण्डलम्। 


उपर्युक्तानां षण्णां मण्डलानां व्यवस्थाऽनन्दगर्भविरचिततत्त्वसंग्रहटीकानुसारेण प्रदत्ताऽस्ति। तत्त्वसंग्रहस्य अतिबृहती सुन्दरी च टीकेयम्मन्यते। 


तत्त्वसंग्रहे सर्वप्रथमं निदानवस्तुनि ( परिवर्ते ) स्वार्थपरार्थोभयप्रयोजनान्वितं वैरोचनपदं चर्चितमास्ते। येन साधकः तत्पदप्राप्त्यै उत्कटेच्छां कुर्यात्। तदनु विशेषेण तत्पदप्राप्त्युपायेन साकं लौकिकलोकोत्तरसिद्धीनां प्राप्तिमार्गोऽपि समवर्ण्यत। यद्यपि तथागतशब्दप्रयोगः सर्वपञ्चतथागतकुलेषु भवति , यदा तथागतकुल-मात्रं प्रयुज्यते तदानीं वैरोचनकुलिकबोधिसत्त्वेभ्य एव भवति न तु चतुः कुलबोधि-सत्त्वेभ्यः। तन्त्रस्यास्य प्रथमाङ्गे तथागतकुलानां सम्बद्धमार्गः प्रतिपादितः तथैव द्वितीयेऽङ्गे वज्रकुलमर्थात् अक्षोभ्यकुलं तृतीये च पद्यकुलं चतुर्थे च सर्वप्राणिहेतुसिद्धिदं रत्नकुलं प्रत्यपाद्यत। अत्र कुलानि चत्वार्येव वर्णितानि। प्राणिनामर्थ-सम्पत्तिकर्तृ रत्नकुलं कार्यसम्पादकं कर्मकुलं अर्थात् अमोघसिद्धिः। एकेनैव रूपेण संगृहीता। तस्माद् भागचतुष्टये एव पञ्चकुलानि समाह्रियन्ते। 


मूलतन्त्रतत्त्वसंग्रहेन सहैव उत्तरतन्त्रम् उत्तरोत्तरतन्त्रमपि समुपलभ्यते। यस्मिन् चतुरङ्गेषु प्रतिपादितपरमपदप्राप्त्युपाया विस्तरेण व्याख्याताः। उत्तरोत्तरतन्त्रे विस्तरेण स्पष्टीकृतम्, यत् योगतन्त्रस्य ये साधकाः आभ्यन्तरयोगस्य साधनायाम-सामर्थ्यं बुध्यन्ते तेभ्यः जपपूजादिबाह्यचर्या विहिताः। मूलतन्त्रस्य चतुरङ्गेषु यल्लौकिकसिद्धिप्राप्तिमार्गस्य व्यवस्थाऽस्पष्टाऽपूर्णा च तदपि स्पष्टीकृत्यात्र पूरितम्। अत्र योगतन्त्रस्योपविभाग उत्तरतन्त्रसम्बन्धे प्रश्नोऽयं समुद्भवति किं योगतन्त्रस्य एकः पक्षः क्रियातन्त्रं कथयिष्यते। यतश्चायं बाह्यपवित्रतां ध्यायति जपादिकमपि करोति। एतदुत्तरमप्यस्ति- यत् सामान्यचतुस्तन्त्राणां स्थूलप्रस्थानात्मको भेदोऽस्ति परं चैतद् मिथः विरोधाभासोऽशक्यः। यथा गुह्यसमाजस्य विनेयजनं स्पष्टयता चन्द्रकीर्तिमहोदयेनोच्यते- यः साधकः उत्पत्तिक्रमपूर्णताप्राप्त्यनन्तरं साधारणसिद्धिं लब्धुं न प्रयसति निष्पन्नक्रमं भावयन् परमपदावाप्त्यै चैव प्रयतते ईदृशः साधकः रत्नसदृशं योग्यतापात्रमुच्यते। येन साधकेन उत्पत्तिक्रमे दाक्ष्यम् उपलभ्य साधारणसिद्धिप्राप्त्यै प्रयस्यते स अधमपुण्डरीकः आख्याय्यते। यथा चात्र प्रधानगणसाधकौ समुपलब्धौ स्तस्तथैव योगतन्त्रे चापि स्थितिः। 


पुनरत्र प्रश्नः समुदेति, तन्त्रस्य भागचतुष्टये एकस्मा एव साधकाय वैरोचनादेः परमपदप्राप्तिमार्गो वर्णितोऽस्ति विभिन्नचतुर्विधसाधकानां साध्यमार्गो वा वर्णितोऽस्ति? एतस्य सुस्पष्टमुत्तरं परमाद्यतन्त्रे इत्थं वर्णितं - पञ्चतथागतसाधना- विधायकेषु यस्मिन् त्रिविधं ( काममोहक्रोधाख्यं ) समानरूपेण विद्यते तेभ्यो महारागिभ्यश्च प्रथमभागोऽर्थात् धर्मधातुमण्डलम्, महाद्वेषिभ्यः द्वितीयभागोऽर्थात् त्रिलोकविजयमण्डलम्, महामोहिभ्यः तृतीयभागः सकलजगद्विनयमण्डलाख्यं, महाकृपणेभ्यः सर्वार्थसिद्धिमण्डलं च समुपादेशि। बुद्धगुह्याचार्येणापीदमेव प्रस्थानमुररीक्रियते। आचार्यकुनगा ञिङपो महोदयोऽपि सामान्यलघुतन्त्रे प्रायस्तादृशीमेव वार्ताम् अचकथत्-साधकः स्वयं किमपि निर्णयङ्कर्तुमसमर्थः सन् यथा यथा गुरूनुपलभ्य तेषामुपदेशाननुसरन् कदाचिद्रागयुक्तमध्वानं क्वचिद्द्वेषयुक्तमपि बाह्यशुद्धिप्रभृतिमपि धर्मं मत्वा चर्याः सम्पादयति तद्यथावन्मार्गे प्रवेशयितुं बुद्धेन योगतन्त्रमुपदिदिशे। यथा च ( १ ) योगतन्त्रस्य प्रथमभागे रागिणामनुग्रहाय देवानां वर्णाभरणपरिधानानि लोहितवर्णत्वेन दर्शयता प्राधान्येन रागिभ्यः साधनाविधिः प्रत्यपादि। ( २ ) द्वितीयभागे द्वेषप्रधानसाधकाननुग्रहीतुं भयानकरौद्रकृष्णवर्णे, देवरूपे साधनापद्धतिश्चावर्णयत। ( ३ ) सकलजगद्विनेयभागे मोहप्रधानसाधकानुग्रहाय देवानां श्वेतशान्तस्वभावपरिधानाभूषणादीनां श्वेतत्वं प्रदर्शितम्। ( ४ ) चतुर्थभागे समानरूपेण दोषत्रययुक्तसाधकाय देवानां वर्णोऽपि चित्र-विचित्रवर्णस्वभावे आभरणपरिधानान्यपि नैकप्रकारकाण्यदर्श्यन्त। बुस्तोनोऽपि एवमेव प्रत्यपादीत्।। 


आनन्दगर्भेण योगतन्त्रस्य एतद्भागचतुष्टयं स्वभावविपाकसंभोगनिर्माणकायेषु, आदर्शज्ञानसमताग़्यानप्रत्यवेक्षणज्ञानकृत्यानुष्ठानज्ञानेषु च बोधिचित्तदानपारमिताप्रज्ञापारमिता-वीर्यपारमितानां प्राधान्यं क्रमशः भागचतुष्टये सहैव संयोज्य व्याख्यायि। 


कुलानुसारेण १ . प्रथमभागीया देवास्तथागतस्य चन्द्रमण्डलहृदयादुत्पन्नाः २. द्वितीयभागस्य देवाः वज्रकुलिकाः। ३.तृतीयभागस्य पद्यकुलिकाः। भागस्यास्य सर्वदेवाः अवलोकितेश्वरस्य चित्तवज्रेण निर्मीयन्ते सर्वदेवानाञ्चायुधानि पद्यवज्रमालापद्यवज्रपटप्रभृतीनि भवन्ति। 


४. चतुर्थभागस्य सर्वे देवाः आकाशगर्भचित्तवज्रं व्याकुर्वाणाः, अत एव रत्नकुलिकाः कथ्यन्ते। यद्यपि देवाः स्वयं क्रोधरूपा भिन्नरूपा वा न भवन्ति यतश्च परमपदावस्था परमशान्तस्यैव भवति, केवलं विनेयजनाः प्रयोजनवशाद् विभिन्नरूपेणाविर्भवन्ति। यथा च तत्त्वसंग्रहे-


अहो महोपायमहं बुद्धानां करूणात्मनाम्। 

यत्सत्वार्थतया शान्ता रौद्रत्वमपि कुर्वते।। 


नायमेतदभिप्रायः यद् एकेन केनचित्साधकेन भागचतुष्टयस्य साधनानुष्ठानेनैव विशुद्धपदमवाप्स्यते परं च प्रत्येकं भागे क्वचिदेकसाधनापद्धत्यनुशीलनेनापि परमपदं प्राप्तुं शक्यते। 


योगतन्त्रस्य साधना ध्यानत्रयेणापि ( अधियोगध्यान-मण्डलराजाग्रध्यान-कर्मराजध्यानैः ) क्रियते। तत्त्वसंग्रहस्य प्रत्येकं भागे उत्तममध्यममन्दप्रकृतिक-साधकेभ्यस्तथैव विस्तृता मध्यमा संक्षिप्ता च साधनापद्धतिरूपदिष्टा। आनन्दगर्भः तत्त्वालोके अवर्णयत्-यः साधकः पद्यकुलस्य विस्तरेण साधनां चिकीर्षति , तस्मै पद्यकुलस्वभावमहामण्डलम्, धारणीमण्डलम्, धर्ममण्डलम्, कर्ममण्डलं च विद्यते। यो हि मध्यमां पद्धतिमभिप्रैति, तस्मै मुद्राचतुष्टयस्य व्यवस्था, यश्चातिसंक्षेपेण भावनामिच्छति तस्मै एकमुद्रामण्डलं देशितम्। 


तत्त्वसंग्रहे कर्ममुद्रादिचतुर्विधमुद्राः चतुर्भिः कुलैः सह संयोज्य व्याख्याताः। कायमहामुद्रा-वैरोचनकुलम्, चित्तसमयमुद्रा-अक्षोभ्यकुलम्, वाग् धर्ममुद्रा अमिताभकुलं चास्ते कृत्यं ( कर्म ) ज्ञानमुद्राऽस्ति यच्च रत्नकुलसंभवम्। विभाजनाधारोऽयं प्राधान्यमाश्रित्य वर्तते, अन्यथा तु बुद्धो गुह्यतन्त्रार्थावतारे कथयति-कायं बिना चित्तमसम्भवम्। चित्तं च बिना वागपि न सम्भवा। अतः सर्वकुलेषु चतस्रो मुद्राः सन्निहिताः सन्ति। 


सारतस्तु कथयितुं युज्यते तत्त्वसंग्रहस्यैकस्य भागस्य तदेकस्य वाङ्गस्य भागचतुष्टयस्य साधनामनुष्ठाय बोधिः प्राप्तुं शक्या। तेनैव विद्वद्भिस्तत्त्वसंग्रहस्य भागचतुष्टयं पृथक् कृत्वा स्वातन्त्र्येण टीका अक्रियन्त। एतेषु वज्रधातुभागे बुद्धगुह्यस्य तन्त्रार्थावतारः त्रैलोक्यविजये आनन्दगर्भस्य वृत्तिः भागचतुष्टये च संक्षेपविस्तरात्मविस्तरेच्छुकानां कृते सम्पूर्णग्रन्थं भागत्रये विभज्य संस्करणद्वये तत्त्वालोकाख्यव्याख्याः कृताः सन्ति। तत्त्वालोकव्याख्या तत्त्वसंग्रहस्य सर्वविशाला सुस्पष्टा च टीका मन्यते। 


२. वज्रशेखरतन्त्रम् 


बुस्तोनादिविदुषां मते वज्रशेखरतन्त्रं योगतन्त्रस्य व्याख्यातन्त्रमत्र च मूलतः चत्वारो मुख्याः परिच्छेदाः सन्ति। यथा - ( १ ) सर्वतथागतगुह्यसूत्रेश्वरनामपटलम् ( २ ) सर्वतथागतगुह्यतथागतकुलपटलम् ( ३ ) त्रिलोकविजयव्याख्यापटलम् ( ४ ) तथागतवज्रकुलतत्त्वव्याख्यापटलं च। षोडश तत्त्वानि व्याख्यातत्त्वविंशतिः , होमगुह्यव्याख्याप्रभृतयोऽनेके अवान्तरपरिच्छेदाः सन्ति। वज्रशेखरतन्त्रं हि व्याख्यातन्त्रं न प्रतीयते, यतश्च एतत् सर्वतथागतगुह्यसूत्रेश्वराख्यारम्भिकं पटलमुत्तरतन्त्रस्य व्याख्यानशैल्यनुसारं प्रश्नोत्तररूपेणोपलभ्यते। निर्विकल्पो धर्मार्थः कः ? पुनरत्र विकल्पप्रतिपादनाभिप्रायः कः ? साधनार्थः कः ? कथमुत्तरतन्त्रमिदम् ? किमुत्तरम् ? तन्त्रं किमुच्यते ? वज्रधरक्रोधश्च कः ? वज्रचण्डः कथं ? कतिविधं च तत् ? इत्यादिप्रश्नाः एकदैव संक्षेपेण पृष्टाः पुनश्च विस्तरेण पृष्टाः। ततश्च प्रश्नोत्तररूपेण यथा कतिविधः वज्रधरः ? एतदुत्तरे कथितं सर्वदिक्षु व्याप्तत्वात् धर्मधातोरनन्तत्वाद् वज्रधरस्याप्यानन्त्यम्। अस्मिन्नेव ग्रन्थे इदमुत्तरं कथम् ? तन्त्रं कथं ? एवं वाक्यावेक्षणात् प्रथमपटलमुत्तरतन्त्रम् उत्तरतन्त्रस्य देशनाशैल्यामुपदिष्टं व्याख्यातन्त्रं वा प्रतीयते। उत्तरतन्त्रस्य देशना निदानपरिवर्तोऽपि पृथक्त्वेन नास्ति। अत्रापि 'अथ राजा वज्रधरः ' इत्यतः ग्रन्थः समारभ्यत। एतेनेदमपि सिद्धं - तत्त्वसंग्रहस्य देशना-नन्तरं तन्मण्डले इदमप्युपदिष्टम्। पार्षद-प्रश्ने तदुत्तररूपेण उत्तरतन्त्रं दिश्यते भगवता, यथा च गुह्यसमाज-उत्तरतन्त्रम्। एवं प्रतीयते वज्रशेखरस्य प्रथमपटलमुत्तरतन्त्ररूपेण अवशिष्टश्च भागः व्याख्यातन्त्रत्वेनोपादेशि। 


३. त्रिलोकविजयमहाकल्पः 


वज्रपाणिराकाशमार्गादवतीर्य साष्टाङ्गं भगवन्तं वन्दते लोकस्थितक्रूरदुरात्मनां समयसंवरयोः स्थापनविधिमुपदेष्टं यदा निवेदयते तदा भगवान् सुमेरूगिरि-मणि-रत्नाग्राख्ये प्रासादे त्रिलोकविजयमहाकल्पस्य देशनावधौ अनन्तदेव-नाग-यक्ष-गन्धर्व-किन्नर-भूत-पिशाचादिभिः सह विहरन् कथयति-अस्मिन् त्रिलोक-विजयमहाकल्पे वज्रहुङ्कारनामकल्प-तथागतकल्प-वज्रमहाचक्रविधिविस्तार-कर्ममण्डलविधि-वज्रपाणिकल्प-अवलोकितेश्वरकल्प-गगनगर्भकल्प-गगनकोश-कल्प-कर्मप्रसरकल्प- विद्यामन्त्रमहाकल्प-कर्मसमूहकल्प-कर्मदूतीकल्प-सेवककल्प-कर्मवज्रसमूहमातृकल्प-कर्मवज्रीदूतीकल्प-कर्मसेवककल्पाख्याः विभागाः सन्ति। एतावन्मूलतन्त्रम्। तदनु ग्रन्थेऽस्मिन् वज्रपाणिना भगवान् पृष्टः तथागतः कथमुत्पद्यते? वज्रं कस्मादुत्पद्यते ? तदुत्तरेण भगवता यत्किमप्यभिहितं तदुत्तरतन्त्रमुच्यते। 


४. सर्वदुर्गतिपरिशोधनकल्पः 


तन्त्रस्यास्य देशना तथागतेन देवस्थानके नन्दनामकवने चक्रे। 


५. परमाद्यतन्त्रम् 


परमाद्यतन्त्रं कामधातोः परनिमित्तवशवर्तिनि देवराजप्रासादे बोधिसत्त्व-अवलोकितेश्वर-वज्रपाणि-मञ्जुश्री-आकाशगर्भप्रभृतिभ्यः समुपदिष्टम्। अस्मिन् तथागतकल्प-त्रिलोकविजयकल्प-मुष्टिकल्प-वज्रचक्रकल्प-आकाशगर्भकल्प-वज्र-यक्षकल्प-कुलसंग्रहकल्प-वज्रकुलमण्डलकल्प-महासुखवज्र-अमोघसमयकल्पा-ख्याः नव परिच्छेदा वर्तन्ते। 


६. वज्रगर्भालङ्कारतन्त्रम् 


तन्त्रस्यास्य देशना सर्वतथागतैरधिष्ठितानन्तबुद्धानां प्रादुर्भावस्थाने वैरोचन-हृदयप्रभास्वरविमान-तथागतस्थाने वज्रगर्भालङ्कारे अनन्तबोधिसत्त्वमहासत्त्वपरिषदि कृता। महामण्डलविधि-जलदेवमण्डलविधि-अग्निदेवमण्डलविधि-वायुदेव-मण्डलविधि-जातत्त्वविधि-स्रोतोविधि-तथागतकायसिद्धोपायिकाप्रभृतयोऽस्य प्रथमभागीया विषयाः। द्रव्यसाधनोपायिका-वाक्साधनोपायिका-मन्त्रसाधनोपायिका-सर्वाभास-उष्णीषसाधनोपायिका-क्लेशवज्रसाधनोपायिका-सर्वतथागतमुष्टिसाधनो-पायिका-सर्वतथागतोष्णीषसाधनोपायिका-श्वेतच्छत्रसाधनोपायिका-सर्वोष्णीष-साध-नोपायिका-मञ्जुश्रीसाधनोपायिका-जगदीश्वरसाधनोपायिका-वज्रधरसाधनोपायिका-मैत्रेयसाधनोपायिका-आकाशगर्भसाधनोपायिका-समन्तभद्रसाधनोपायिका-सागर-मतिसाधनोपायिका-रत्नसंभवसाधनोपायिकाप्रभृतयः इमा बुद्धस्य बोधिसत्वानां च साधनोपायिकाः सन्ति। यमान्तकसाधनोपायिका-क्रोधकणसाधनोपायिका-हयग्रीव-साधनोपायिकाभिः क्रोधमण्डलं सम्पद्यते। अनेन साकं बुद्धलोचनमुद्रासाधनोपायिका - पाण्डुरासाधनोपायिका-भृकुटिसाधनोपायिका-मामकीसाधनोपायिका-वज्र-मालामयी साधनोपायिका-चुन्दासाधनोपायिकादिभिर्मन्त्रतत्त्वैश्च गुह्यमण्डलं सम्पद्यते। एतदग्रे वज्ररत्नमण्डल-नाभिचक्र-धर्मचक्रमण्डल-गगनकोशमण्डल-वज्रजिनमण्डल-सुवज्रमण्डलप्रभृतयो नैके मण्डलविधयोऽपि प्रतिपादिताः। अत्रान्ते द्वात्रिंशल्लक्षणानामशीत्यनुव्यञ्जनानां नामावली तद्व्याख्यानं चाप्यकारि। 


७. कायवाक्चित्तगुह्यभूतालङ्कारतन्त्रम् 


योगतन्त्रसूच्यां तन्त्रमिदमपि बुस्तोनः अगणयत्। अस्य ज्ञानश्रेष्ठमण्डलं, गुह्यालङ्कारमहामण्डलं, कायवाक्चित्तगुह्याख्यं च भागत्रयमास्ते। 


८. आर्यगुह्यमणितिलकतन्त्रम् 


एतत्तन्त्रं भगवता अकनिष्ठभुवने देवराजगृहे निवसता बोधिसत्त्ववज्रपाणि-अवलोकितेश्वर-आकाशगर्भ-वज्रमुष्टिप्रभृतिभिः नवनवति ( ९९ ) बोधिसत्वैर्गुह्य-तिलकोपदेशाय निवेदने कृते सति समुपादिश्यत। एतस्मिन् वज्रतिलकप्रत्यवेक्षणदेवीतन्त्रविधि-सर्वतत्त्वरहस्यविधिविस्तारपरमतत्त्वरहस्यतिलकाख्याश्चत्वारो भागाः विद्यन्ते। 


९. पञ्चविंशतिप्रज्ञापारमितामुखम् 


एतद्देशनां भगवान् सुमेरूपर्वते देवदेवपुत्रासुरवायुदेवगरूडनागयक्षकिन्नर-राक्षसविद्याधर-भूतविनायकपिशाचप्रभृतिभिस्तथानन्तमातृसमूहेन च साकं विहरन् व्यदधात्। वज्रपाणिराकाशादवतीर्य भगवन्तं परिक्रम्योपविशति, तदानीं वज्रपाणिं गुह्याधिपतिनाम्ना सम्बोधयन् ' ॐ बोधिचित्तवज्रप्रज्ञापारमितामुख हूँ, ॐ समन्त-भद्रचर्याप्रज्ञापारमितामुख हूँ अम्-अक्षरेण प्रारभमाणः प्रज्ञापारमितां पञ्चविंशति-विशेषणैरलङ्कृत्य तन्मुखमर्थाद् मुक्तिद्वारं प्रतिपाद्यादिशत्। 


इत्थं योगतन्त्रस्य नैके ग्रन्थाः , ये च मूलतन्त्र-व्याख्यातन्त्र-उत्तरतन्त्र सभागीयतन्त्रनामभिः ज्ञायन्ते। डोगोनछोसज्ञलफ़गसपामहोदयेन खसमतन्त्रं सुप्रतिष्ठितन्त्रं चापि योगतन्त्रान्तर्गतमभिमतम्। 


योगतन्त्रस्य स्वरूपम् 


गम्भीरार्थपरमार्थसत्ये उदारार्थसंवृतिसत्येऽर्थात् गंभीरोदाराभासशून्याद्वय-स्वरूपे प्रतिष्ठापनेन योगतन्त्रमिदमुच्यते। योगतन्त्रे कायमुद्रया देहं, धर्ममुद्रया वाचं समयमुद्रया चित्तं, इष्टदेवस्य कर्ममुद्रया कृत्यानि च मुद्रयित्वा ध्यानभावनया तथतां परमपां च साधकः प्राप्नोति। बुस्तोनस्य कथनानुसारेण योगतन्त्रे बोधिप्राप्ति-विधेर्मार्गीकरणं भवति, यतः पञ्चाभिसम्बोधिभिर्देवभावना क्रियते। परञ्चात्रानुत्तर-तन्त्रवद् जन्म-मृत्युविषये समुत्पत्तिक्रमनिष्पन्नक्रमभावनाविधिर्न भवति। ज्ञान-समुच्चये योगतन्त्रस्वरूपं स्पष्टयता भगवताऽवोचि। विद्यादेवीभिः सह मण्डलस्थः सन् मण्डलतत्त्वादिदशतत्त्वानुशीलकः उभयतन्त्री योगतन्त्री वा निगद्यते। त्रिनय-प्रदीपेऽपि कथितं यदन्येभ्यः ( योगतन्त्रिभ्यः ) अद्वयतत्त्वभावनाऽत्यन्तं रोचते। ते बाह्यविभिन्नचर्याः चित्तविक्षेपकारणम्मन्यन्ते, अध्यात्मविषयं च प्रेरयन्ति। तेनैव ते चर्यातन्त्रिणः कथ्यन्ते। अत्र 'चर्यातन्त्री' इति शब्दाभिप्रायः 'योगतन्त्री' शब्देन ग्राह्यः। 


योगतन्त्रस्याभ्यन्तरभेदाः 


योगतन्त्रं कुलानुसारं पञ्चभागेषु विभज्यते। यथा- ( १ ) तथागतकुलं, ( २ ) वज्रकुलं , ( ३ ) रत्नकुलम्, ( ४ ) धर्मकुलम् , ( ५ ) कर्मकुलं च। विस्तरेण तु शतं भेदाः। प्रत्येकं कुलस्य तथागतकुलं, तथागतवज्रकुलं, तथागतरत्नकुलं, तथागत-धर्मकुलं तथागतकर्मकुलं च एवं पञ्च भवन्ति। प्रत्येकं पञ्चानां पञ्चविंशतिकुलानां पुनः हृदयमुद्रामन्त्रविद्यामन्त्रकुलभेदेन विभागे कृते सति शतं कुलानि जायन्ते। हृदयमुद्रामन्त्रादिकं स्पष्टयता तत्त्वसंग्रहे निगदितं - 


मनीषितविधानैस्तु सिध्यते तु मनीषितम्। 

समाधिसाधनो हृत्स्थः, हृदयस्तु तेन चोच्यते।। 


दुरतिक्रमो यथाभेद्यो राजमुद्राग्रशासनः। 

महात्मचिह्नविश्वस्तु, तथा मुद्रेति कीर्तिता।। २।। 


अनतिक्रम [ णीयो ] हि दुर्भेद्यो गुह्य एव च। 

मन्त्र्यते गुह्यसिद्धत्वं मन्त्रस्तेन निरूच्यते।। ३१।। 


अविद्याविप्रणाशाय वाग्विद्यो [ त्तम ] सिद्धये। 

विद्यते वेदनासिद्धिस्तेन विद्या प्रकीर्तिता।। १४१।। 


वज्रशेखरतन्त्रेऽपि कथितं- विषमयप्राणिभ्यः पापिभ्यश्च रक्षणत्वात् मुद्रेयमुच्यते। मन्त्रोच्चारणाद् दुष्टप्राणिनामुच्चाटनं क्लेशक्षयश्च भवति। मन्त्रबलेन साधकः बुद्धबोधिसत्वैश्चाधिष्ठितो भवति, अतोऽयम्मन्त्रः। विद्यारागादिदोषान् प्रहाय तत्त्वं साक्षात्कारयति। अत एव विद्या कथ्यते। धारणी सर्वधर्माश्रयाकुशलान् नाशयति कुश्लांश्च गृह्णाति, अतो धारणीयमुच्यते। 


पद्यकरपो कथयामास- हृदयं हि कायमुद्रा कायस्य केन्द्रं हृदयं विद्यते। महामुद्रायामेकाग्रत्वं ध्यानम्। हृदयस्थः सन् सिद्धिं प्राप्नोति। अतो हृदयमिदम्। इष्टदेवस्य हृदयरूपि बीजाक्षरमेव हृदयमुच्यते। तथागतचर्याणामनुकृतिः साधकेन विधेया भवति, तदतिक्रमणमसम्भवम्। अतः मुद्रेयमस्ति। मन्त्रो मनसो दोषं निवारयति अत एव मन्त्रोऽयम्। विद्यया अविद्यानाशो भवति, ज्ञानोदयः अत एव विद्येयमुच्यते। 


'हृदय' महामुद्राप्रधानस्य कायमण्डलत्वं मुद्रासमयमुद्राप्रधानस्य धारणीमण्डलं गुह्यमन्त्रधर्ममुद्राप्रधानस्य धर्ममण्डलत्वं विद्याकर्ममुद्राप्रधानस्य च कर्ममण्डलत्वमुच्यते। धारणीमण्डलस्याभिप्रायो हि देवीधारणीनामायुधरूपेण मण्डलन्यासः कर्ममण्डलतथागतातिरिक्तमनुचरदेवीनां न्यासश्च विधीयते। 


एते भेदाः संक्षेपेण प्रज्ञोपाययोः समाविशन्ति। बुस्तोनमहोदयेनाभिहितं - मन्त्रकुलाभिप्रायः उपायभूतपितृप्रधानं विद्यामन्त्रस्य ( प्रज्ञायाः ) मातृप्रधानकुलं चास्ति। एतद्द्वयमर्थात् प्रज्ञोपायौ अक्षरतत्त्वे विलीय स्मृतिसंप्रजन्याभ्यां युक्तेन चित्तं दूषणतया रक्षितुं शक्यते। अतः एकस्मिन् मन्त्रकुल एव सर्वकुलानि सम्मिलन्ति। अज्ञानस्य प्रतिपक्षिज्ञानोत्पन्नतया सर्वदोषक्षयः गुणावाप्तिश्च भवति। अतो विद्याकुलमप्युच्यते। 


ज्ञानश्रीविरचिते द्वयान्तनिवारणे चापि कथितं - पुरूषदेवो गुह्यमन्त्रः स्त्रीदेवश्च विद्यामन्त्रोऽस्ति। यन्मन्त्रः पितरि मातरि चोभयोः प्रयुज्यते स धारणीमन्त्रो निगद्यते। 


बुस्तोनमहाशयेन तथागतकुलं सुस्पष्टयताऽभाणि- सर्वतथागतप्रकृतिवज्रधातु-अधिगमज्ञानं , बोधिचित्तस्वरूपप्रकृतिपरिशुद्धधर्मधातुज्ञानमेव च वैरोचनकुलमर्थात् तथागतकुलमास्ते। सर्वतथागतानुज्ञानुरूपोपायस्वरूपं प्राणिनामिच्छानुसारं प्रकटित-मादर्शज्ञानमक्षोभ्यस्वभाववज्रकुलमस्ति। तथागतानां दानपारमितास्वरूपं सत्त्वानां मनोऽभिलाषपूरकं समताज्ञानं रत्नसम्भव रत्नकुलं विद्यते। तथागतानां प्रज्ञास्वरूप-प्रत्यवेक्षणज्ञानं पद्यकुलमस्ति, तथागतानां वीर्यस्वरूपसर्वसिद्धिः कृत्यानुष्ठानज्ञानस्वभावकर्मकुलमस्ति। 


योगतन्त्रेऽपि प्रज्ञा मातृतन्त्रमुपायो हि पितृतन्त्रं चास्ति। इत्थं कायवाक्चित्त-गुह्यालङ्कारव्यूहतन्त्रे चर्चितम्। बुस्तोनोऽपि लघुसामान्यतन्त्रे वक्ति- तत्त्वसंग्रहो ह्युपायतन्त्रम्। दशतत्त्वानि निरूपयति प्राधान्येनेदं अत इदं पितृतन्त्रम्। परमाद्यतन्त्रम् , पञ्चविंशतिप्रज्ञापारमितामुखादिग्रन्थाः प्रज्ञाप्रधानमातृतन्त्रान्तर्गताः। इत्थं योगतन्त्रेऽपि मातृपितृतन्त्राख्येति भागद्वयं कर्तुं शक्यते। एतत् तन्त्रद्वयस्वरूपम् अनुत्तरतन्त्राद् भिन्नम्। अत्राभासः शून्यमात्रम् यत्र चानुत्तरतन्त्रे महासुखशून्यत्त्वम्। आभास-शून्यताऽपि अत्र मनोनिर्मितमात्रम्। अनुत्तरतन्त्रे वायोः अवधूत्यां प्रवेशानन्तरम् उत्थापनविधिना युगनद्धकाये प्रकटनमेव आभासशून्यता चास्ति। सारांशस्तु योगतन्त्रे क्रियाचर्यातन्त्रयोरपेक्षया विस्तरेण सुस्पष्टरूपेण च पञ्चाभिसम्बोधिभावनया तथागत-कुल- क्रोधकुलवज्रकुलपद्यकुलादीनां स्वातन्त्र्येण साधनाविधिरूपादिश्यत। 


योगतन्त्रस्य साधनापद्धतिः 


योगतन्त्रसाधनायै सर्वप्रथमं पञ्चकुलेषु कस्याप्येककुलस्य मण्डलं प्रविश्य अभिषेको लभ्येत। अभिषेकसमये यस्मिन् देवे पुष्पं पतेत् स एव स्वेष्टदेवो निश्चेतव्यः। अभिषेकसमये सर्वप्रथमं कर्मकलशस्य जलेन स्नानीयम् तदनु इष्टदेव-कलशेनाभिषेको लभ्येत। तदा द्वितीयचरणे तथागतपञ्चकुलानां पटाभिषेकं तृतीय-चरणे वज्राभिषेकं चतुर्थचरणे च घण्टाभिषकं दत्त्वा साधकेन पुष्पं पातितं यदुपरि पतेत् तदिष्टदेवकुलानुसारं नामाभिषेको दीयते। ये च शिष्याभिषेकनाम्ना ज्ञायन्ते। ततश्च वज्राचार्याभिषेके अनागामि-अभिषेकगुह्याभिषेकानुज्ञाव्याकरणाश्वास-प्रशंसानामकाः षडभिषेकाः प्रदीयन्ते। एवं योगतन्त्रे साधकेन एकादशाभिषेकाः प्राप्तव्या भवन्ति। ज्ञानतिलकतन्त्रे एतद् विस्तरेण समुपबृंहितम्। यः साधकः तथागतकुलसंवरं न ग्रहीतुं पारयति, बोधिसत्वसंवरमात्रं च ग्रहीतुं पारयति तस्मै पञ्चशिष्याभिषेक एव दीयते। ये साधका बोधिसत्वसंवरं तथागतकुलसंग्रहं च ग्रहीतुं समर्थास्तेभ्यः वज्राचार्याभिषेकोऽपि प्रदेयः। एतदभिषेकप्राप्त्यनन्तरमेव साधकेन योगतन्त्रस्य निम्नः साधनाविधिरनुशीलनीयः। 


योगतन्त्रस्य त्रिध्यानचतुर्योगानां वा साधना चतुर्मुद्राभिः मुद्रयते। अतोऽत्र पूर्वं त्रिध्यानस्य मुद्राचतुष्टयस्य स्वरूपपरिचयः सामान्येन प्रस्तूयते। 


त्रिध्यानम् 


सामान्यतो योगतन्त्रस्योत्तमः साधकः त्रिध्यानेन योगतन्त्रप्रतिपादितसाधना-पद्धतिमनुशीलयति। त्रिध्यानविधिं स्पष्टयता भारतीय-उपाध्यायकुमारकलशेन वज्रधातुमण्डलार्थभावनापिण्डार्थाख्यग्रन्थेऽतिसंक्षेपेण त्रिध्यानभावनायास्तत्त्वं स्वरूपं च विवेचितम्। अत्र ( १ ) आदियोगः, २ . मण्डलराजाग्रः, ( ३ ) कर्मराजाग्राख्यश्चेति त्रिविधध्यानाभासः क्रियते। अत्र क्रमशः संक्षेपेण वर्णयामः। 


१. आदियोगः 


आदौ नैरात्म्यं भावयित्वा क्रमशः कृकाटिका ( काष्ठम् ) परिशोधन-विघ्नोत्सारण-स्थानरक्षा-मण्डलनिर्माण-पुष्पादिसमर्पण-वन्दना पाप-प्रायश्चित्त-पुण्यानुमोदन-अभ्यर्थना-चोदना-पूजाविंशति-स्वार्पण-परिणामना प्रणिधान-बोधि-चित्तोत्पाद-विंशतिसंवरग्रहणबोधिचित्तोत्कृष्टरूपोत्पादन- स्वभावमण्डल-निर्माण-मण्डल-भावितमण्डलप्रतिबिम्बितभावना-मुद्राबन्धनपर्यन्तं क्रिया संक्षेपेण पूर्य्यते। तदा वज्राजंलिलक्षणं तदधिष्ठानमन्त्रः वज्रावेशोत्पत्तिः , वज्रदृदीकरणं, सर्वदुर्गत्या-कर्षणं, पापनिवारणं मुद्रामोचनं तत्त्वनिरतिशयता, स्वहृदयवज्रे हृदयन्यासः, चन्द्रद्वयभावना वज्रभावना च विधीयते। साधको यदा परहिताय साधनामाचरति तदा तेनान्यमुद्राभावनम्, हृदयन्यासः, मुद्राहङ्कारः, पूर्वकथितमण्डले प्रवेशः, वज्रसत्त्वभावना, समयवज्रसत्त्वस्य अहङ्कारः ज्ञानमुद्रया मुद्रिताहङ्कारस्तेन चान्यचतुर्णामधिष्ठानम् , महामुद्राहृदयम्, मन्त्रजपः , स्वहृदये मण्डलभावना, मालां गृहीत्वा जपकरणम् , मण्डलप्रवेशः, मालां गृहीत्वा उष्णीषबन्धनं , मुखपटविमोचनं, मण्डलनिदर्शनं, दर्शनप्राप्तमण्डले दार्द्याप्तिः , पञ्चाभिषेकः प्रत्येकमण्डलशुद्ध्यधिष्ठानं प्रत्येकमण्डलद्वारा आत्माधिष्ठानं चेति द्विनवत्युत्तरपञ्चशतं योगानां साधना करणीया भवति। हृदयमण्डले एकीकरणं , स्वकाये चन्द्रमण्डलानां न्यासस्तदनु आकाशे चन्द्रमण्डलन्यासः, हृदयन्यासः , वज्रायुधादीनां न्यासश्चेत्येभिस्तथा तदहङ्कार-मण्डलोत्पन्नज्ञानतत्त्वाकर्षणालोकनादिभिरात्मनि विलीनत्वम्, वर्णाकारादिहृदय-मन्त्रेण दृदीकरणम्, तथागतप्रवेशः वज्रधातुं ध्यात्वा पञ्चतथागतैरधिष्ठानं चतुर्दिक्षु वज्रन्यासः, मुद्राचतुष्टयेन मुद्रणम्, सामान्यमन्त्रणेन सर्वमुद्राबन्धनम्, शताक्षरीधारण्या तद्दृदीकरणं, पुनरभिषेकप्राप्तिः, सहर्षं नृत्यलास्यादिना पूजावज्रघण्टा-दिकमादाय तत्त्वमन्त्रोच्चारणम्, त्रिशब्दगीतिगानं, निःस्वभावात्मकमन्त्रोच्चारणेन सह नैरात्म्यभावना, अचलप्रवेशः भाजनलोकविशुद्धिकरणम्, सामान्यपीठ-विशेषपीठ-सर्वार्थसिद्धि-ध्यानमरूपिणी भावना, अचलप्रवेशः तथागतैरूत्थापनम्, तद्दर्शनं , तद्-वन्दनं तदुपदेशः पञ्चाभिसम्बोधिश्च ( १ . प्रत्यवेक्षा अक्षोभ्यस्वरूपं २ . बोधिचित्तमुत्पाद्य दानपारमितारत्नसम्भवः ३ . वज्राविद्धामिताभः ४ . प्रज्ञापारमिता-सर्वतथागतकायादि-परमाणुवदवस्थितिः, ५ . वीर्यपारमिताऽर्थात् अमोघपाशः ५ . रूपस्य परिनिष्पन्नता ( तथागतस्वभाववैरोचनोऽस्ति ) वज्ररत्नाभिषेकः अनुज्ञादानं , सुमेरूपर्वते विमानमण्डलभावना, तथागतचतुष्टयद्वारा सर्वतः आवृत्य अवस्थिति-योगादि-योगध्यानं चास्ति। ( उपरिलिखिततत्त्वानीमानि आभ्यन्तरसाधनया सह सम्बद्धानीति तत्रैवोक्तम् ) आभ्यन्तर-आत्मस्नानम्,कायस्मृत्युपस्थानम्, जिह्वा-धिष्ठानं, वेदनास्मृत्युपस्थानम् हस्ताधिष्ठानं, चित्तस्मृत्युपस्थानं, विघ्नोत्सारणधर्म-स्मृत्युपस्थानं चास्ति। विघ्ननाशचित्तऋद्धिपादः , विघ्नबन्धनमीमांसाऋद्धिपादः, वन्दना-समुत्पन्नाकुशलधर्मत्यागः, पूर्वादिवन्दना, अनुत्पन्नस्योत्पादाभावः मण्डल-निर्माणेन पञ्चमण्डलद्वारवन्दना, अनुत्पन्नकुशलधर्मोत्पादनम् पापप्रायश्चित्तप्रभृति- विंशतिविधपूजा संवरप्राप्त्यवधिविधिः उत्पन्नकुशलधर्मरक्षा, एते सर्वे संभारमार्गाः सन्ति। 


प्रतिबिम्बभावनायोगादारभ्य महायोगपर्यन्तमार्गः प्रयोगमार्गो विद्यते। यस्मिन् वज्राञ्जलिवज्रवन्दना, वज्रावेशः वज्रदृदता दुर्गतिपरिशोधनं श्रद्धेन्द्रियं चास्ति। नैरात्म्यभावना वीर्येन्द्रिया, चन्द्रद्वयस्य भावना स्मृतीन्द्रिया, ज्ञानसत्वप्रवेशश्च प्रज्ञेन्द्रियोऽस्ति। हृदयमण्डले मण्डलन्यासः श्रद्धाबलमस्ति। मण्डलप्रवेशः वीर्यबल-मस्ति। मालाभिषेकः स्मृतिबलं, त्रिसमयगीतिः समाधिबलं, शून्यताभावना च प्रज्ञाबलमास्ते। प्रयोगमार्गोऽयमस्ति। 


अकनिष्ठभुवने सूक्ष्ममनोमयस्थितिः ध्यानबोधिपक्षाङ्गमस्ति। सुमेरूभावना वीर्यबोधिपक्षाङ्गम्। पीठभावना प्रीतिबोधपक्षाङ्गम्। सर्वतथागतगमनं प्रस्रब्धि-बोधिपक्षाङ्गमस्ति। तद्दर्शनं धर्मप्रविचयबोधिपक्षाङ्गम्। तदुपदेशः सम्यक्स्मृति-बोधिपक्षाङ्गम्, स्ववाग्-अचलध्यानस्य त्यागः उपेक्षाबोधिपक्षाङ्गम्। दर्शनमार्गोऽयं यद्धि प्रथमप्रमुदिताभूमिः उच्यते। 


प्रत्यवेक्षणा च सम्यग्दृष्टिः या द्वितीयविमलाभूमिरूच्यते। चित्तोत्पादः सम्यक्-संकल्पः यश्च प्रभाकरीभूमिरस्ति, वज्रात्मक भावना हि सम्यक्परिशुद्धवाक् अर्चिष्मतीभूमिः, सर्वतथागतप्रवेशः सम्यग्वृत्तिर्दुर्जयाभूमिः, रूपसिद्धिश्च सम्यग्-व्यायामः अभिमुखीभूमिः, अधिष्ठानं सम्यक्कर्मान्तं दूरङ्गमाभूमिश्चास्ति, अभिषेक-घोषवन्दने सम्यक्स्मृतिरचलाभूमिः, शताक्षरीधारणी द्वारा दृदता, सम्यक्समाधिश्च साधुमती भूमिः, पञ्चानुज्ञाप्राप्तिश्च धर्ममेघोच्यते। एतद्भूमयः भावनामार्गान्तर्गताः। 


२. मण्डलराजाग्रध्यानम् 


वज्रसदृशध्यानस्य पूर्वाङ्गं सम्पूरयितुं हेतुफ़लप्रज्ञप्त्या मण्डलराजाग्रध्याना-वस्था भवति। अर्थात् हेतोः फ़लत्वेन परिवर्तनावस्थेयम्। 


३. कर्मराजाग्रध्यानम् 


अत्र प्राणिनां कर्म-प्राधान्यं वर्तते अर्थात् एकादशभूमि-समन्तप्रभायां बुद्धभूमौ वा बुद्धकृत्यमेव कर्मराजाग्रध्यानमस्ति। 


उपाध्यायकुमारकलशेन आनन्दगर्भविरचिततत्त्वसंग्रहटीकाविषयस्य संक्षिप्तत्वं विहितमिति प्रतीयते। यतश्च तत्त्वसंग्रहस्य प्रथमभागे-वज्रधातुमण्डलटीकायां त्रिध्यानं व्याख्यायमानेन तेन कृकाटिका-परिशोधनाय कृकाटिकामध्ये स्रव्यमाण- 'ह्रीः ' अक्षरस्य विवेचनम् अष्टदलपादे विस्तरेण प-प्रथमतः षोडशपर्यन्तं योगध्यानान्तर्गतं षोडशतः ऊनविंशपर्यन्तं ( १६-१९ ) मण्डलराजाग्रव्याख्या स्फ़ुरण-संहरणविधिः, ऊनविंशतितो द्वाविंशतिपर्यन्तं कर्मराजाग्रविधिर्विवेचितोऽस्ति। एतद्व्याख्या-वलोकनेन प्रतीयते बुद्धत्वाप्तिप्रक्रिया आदियोगध्यानं विद्यते। यतः चात्र बाह्य-मण्डलनिर्माणपूजाविधि-अभिषेक-बोधिचित्तोत्पादप्रभृतीनि वर्णितानि। तत्रैवा-भ्यन्तररूपेण सप्तत्रिंशद्बोधिपक्षाननुशील्य दशभूमिप्राप्तिरादियोगत्वेन बुद्धत्वा-वाप्तिर्वज्रासनाख्यसमाध्यवस्था मण्डलराजाग्रत्वेन बुद्धत्वप्राप्त्यग्रिमकृत्यानि च कर्मराजाग्रत्वेन वर्णितानि। वज्रशेखराख्यग्रन्थानुसारं त्रिध्यानस्यादियोगे स्वयं साधकः अकनिष्ठभुवने पञ्चाभिसम्बोधिद्वारा बोधिं लभेत एवं ध्यायेत्। तदनु बोधिसत्वसभासदान् व्याकृत्य मण्डले न्यसेत्। द्वितीयध्यानं पार्षदस्य आत्मा-नश्चाभिन्नतां मत्वा प्राणिनां हितसाधनं कर्मराजाग्रध्यानमुच्यते। 


ज्ञेयकोशेऽपि कथितं - योगतन्त्रस्योत्तमेन साधकेन अकनिष्ठभुवने बुद्धत्वम-वाप्तुं मध्ये सुमेरूपर्वतादिं समुपगम्य अनुचरेभ्यो योगतन्त्रोपदेशः अन्ते च विनेयजन-पात्रतानुरूपं तान् विभिन्नकुलेषु प्रवेश्य तदनुग्रह-विधिः या क्रियते , स त्रिध्यान-विधिश्च कीर्त्यते। 


तत्त्वालोकेऽपि संक्षेपेणैकत्र त्रिध्यानं विवेचितम्। यथा-साधकः पद्यकुलं ध्यायेत्। देवभावना-महामुद्रा-ध्यानकूटागारपीठादीनां भावना आदियोगी विद्यते। तदनन्तरमन्यसमानदेवं व्याकृत्य न्यासकरणं द्वितीयं ध्यानम्। संहाराधिष्ठादीनि तृतीयध्याने समाविष्टानि। 


चतुर्योगः 


ये च साधका ईदृग् भावनामनुष्ठातुमसमर्थास्ते चतुर्योगद्वारा योगतन्त्रं साधयन्ति। एतन्नामानि- योगानुयोगसर्वयोगातियोगाख्यानि। यत्कुले साधकोऽभिषेकं प्राप्नोत् तत्कुलस्य देवभावना योगोऽस्ति तत्र ज्ञानदेवमावाह्य विलीनत्वमनुयोगः उच्यते। इष्टदेवस्य भाजनलोकस्य सम्पूर्णसत्त्वलोकस्य च स्वभावे भावनाविधानं सर्वयोगः, त्रियोगेन चैकाग्रताप्राप्तिरतियोग उच्यते। 


चतुर्मुद्राः 


त्रिध्यानेन चतुर्योगेन वा कयाचित्पद्धत्या वा योगतन्त्रं साधयेत् तच्चतुर्मुद्राभिः संमुद्रय भावयेत्। मुद्राभिर्मुद्रितकरणाभिप्रायबोधनविषये परमाद्यतन्त्रे कथितं-यो यया मुद्रया मुद्रयिष्यते सः तत्स्वभाव एव स्यात्। समयमुद्रया मुद्रिते समयदेवे ज्ञानमुद्रयाऽऽवाहितो विलीनश्च देव एव ज्ञानदेव उच्यते। 


चतुर्मुद्राभिः मुद्रितसाधनानुष्ठानेन विभिन्नज्ञानानि प्राप्यन्ते। यथा च सूत्रालङ्कारे रागपञ्चेन्द्रियपरावृत्त्या परमविभूतिप्राप्तिः प्रत्यपाद्यत। तथैवात्रापि बोध्यम्। ( १ ) कायमुद्रायोगेनालयविज्ञाने आगन्तुकभ्रान्ति- ( मलं ) विनाशस्तथा दर्शनज्ञानमाविर्भवति ( २ ) चित्तसमयमुद्रायोगेन क्लिष्टमनसः भ्रान्तिनिराकरणं तथा समताज्ञान मुत्पद्यते। ( ३ ) वाग्धर्ममुद्रायोगेन मनोविज्ञानागन्तुकमलं क्षीयते प्रत्यवेक्षणज्ञानं च प्रादुर्भवति। ( ४ ) कायवाक्चित्तैः कर्ममुद्रायोगेन पञ्चेन्द्रियागन्तुकमलक्षयः कृत्यानुष्ठानं चोदेति। ( ५ ) धर्मधातुज्ञानं सर्वप्रकृतिषु समानतयावतिष्ठते। 


योगतन्त्रसाधकः चतुर्मुद्राभिः मुद्रितो भूत्वा इष्टदेवं साधयति। अत्र मुद्राचतुष्टयस्य सामान्यपरिचयं, परिशोधनं परिशोध्यं फ़लप्राप्तिविधिं च प्रतिपादयता योगतन्त्रवर्णितमुद्राचतुष्टयस्वरूपं निरूपयिष्यते। 


मुद्राभिप्रायस्तु अनतिक्रमणमेव मुद्रा। तथागतोऽपि -


यथा राज्ञां स्वमुराभिर्मुद्र्यते राजशासनम्। 

महात्मना स्वमुद्रभिरामुद्र्यन्ते तथा जनाः।। 


कायवाक्चित्तवज्राणां प्रतिबिम्बप्रयोगतः। 

महात्मनां महामुद्रा इति विज्ञाय सिध्यति।। 


मुद्राभेदाः 


मुद्रायाः स्वरूपगताश्चत्वारो भेदाः- यथा महामुद्रा धर्ममुद्रा समयमुद्रा कर्ममुद्राश्च। मुद्रापरिशोध्या धर्मा अपि चत्वारः। यथा च पृथक्जनकायः वाक्चित्तं कर्म-मोहक्रोधौ मात्सर्यं क्षिति-अग्नि-जल-धातवश्च। महामुद्रया कायः धर्ममुद्रया वाक्, समयमुद्रया च चित्तं कर्ममुद्रया च कर्म परिशोध्यते। मार्गानुसारं मुद्राचतुष्टयस्य पुनः लक्ष्यार्थमुद्रा, लक्षितबाह्यमुद्रा लक्षिताभ्यन्तरमुद्राप्रभृतयस्त्र-यस्त्रयो भावात्मका भेदा जायन्ते। 


महामुद्रा 


वैरोचनादिदेवानां कायः एवं रूपाकृतिः लाक्षणिकमुद्राऽस्ति। तत्कायसदृशहस्तक्रिया बाह्यलक्षितमुद्रोच्यते। तत्काले स्वयं वैरोचनादिदेवानां रूपभावनाऽवस्थितिः आभ्यन्तरधर्ममुद्रा वर्तते। 


धर्ममुद्रा 


वैरोचनवाचः षष्टिः ब्रह्यस्वरा लाक्षणिकधर्ममुद्रात्वेनाभिधीयन्ते। स्वयं वैरोचनं भावयित्वा जिह्वाकृकाटिकादौ ह्रीः इत्यक्षरन्यासेन लक्षिता बाह्यधर्ममुद्राऽस्ति तत्प्रकाश्यमानवचनानामक्षररूपेणोदयः आभ्यन्तरधर्ममुद्रा कथ्यते। 


समयमुद्रा 


वैरोचनचित्तस्य निर्विकल्पज्ञानमेव वस्तुतः समयमुद्रा। तत्सदृशक्रियादिर्हि बाह्यसमयमुद्रा, तेनैव च साकं स्वयं वैरोचने भावितचित्तस्य ज्ञानरूपेणोदयः समयमुद्राऽभिधीयते। 


कर्ममुद्रा 


वैरोचनस्य कृत्यं वस्तुतः कर्ममुद्रोच्यते। स्वयम् इष्टदेववैरोचनस्य भावना-नन्तरं प्रभास्फ़ुरणसंहारादिविधीनामनुशीलनं बाह्यकर्ममुद्राऽस्ति। कृत्यस्यानाभोग-रूपेण विचरणं आभ्यन्तरकर्ममुद्रा निगद्यते। परिशोध्या महामुद्राऽपि चतुर्विधा-धर्मकाय-संभोगकाय-निर्माणकाय-स्वभावकायाख्या। 


मुद्रितविधिः 


मुद्राहेतुः, मुद्रितविधिः, सिद्धिहेतुः, आधिपत्यप्राप्तिश्चेति चत्वारो मुद्रित-विधयो भवन्ति। महामुद्राहेतुः वज्रमुष्टिः। कायवाक्चित्तवज्रसंग्रहरूपा एव वज्रमुष्टिः। स्वभावस्थितिर्महामुद्राया मुद्रितो विधिः। देवहृदयकमले पञ्चाङ्ग-वज्रभावना हि सिद्धिहेतुः , गम्भीरोदाराद्वययोगस्य भावनाऽऽधिपत्यहेतुरूच्यते। शब्दोच्चारो धर्ममुद्राऽस्ति। देवकृकाटिकायां 'ह्री' इत्यक्षरेण पद्यजिह्वयोः पञ्चाग्रवज्रं भावयित्वा मन्त्रोच्चारणं धर्ममुद्राया मुद्रितविधिः कीर्त्यते। धर्माक्षरवज्रं नाभिं परितो निविष्टम् एवं भावनं सिद्धिहेतुः। गम्भीरोदाराद्वयतत्त्वस्थो भूत्वा जिह्वां तालौ प्रवर्त्य नासाग्रे सूक्ष्मवज्रं भावयित्वा तदेकाग्रत्वं धर्ममुद्राधिपत्यप्राप्तिविधिः कथ्यते। 


वज्रजपश्च समयमुद्राहेतुः। वैरोचनरूपेणात्मनं परिवर्त्य श्वासप्रश्वासाभ्यां सह कुम्भकेऽद्वयतत्त्वध्यानमात्मनः इष्टदेवाहङ्कारेण सह तत्त्वसमाहितिरेव समयमुद्रायाः मुद्रितत्त्वमुच्यते। समाध्यनन्तरं तत्त्वज्ञानं पञ्चाग्रभावनाविषयीभूतं विधाय त्रिः मन्त्रोच्चारणं समयमुद्रासिद्धिहेतुरभिधीयते। तदनु स्वस्कन्धादिशून्यताप्रतिपादनाय युक्तिभिर्विश्लेषणमाधिपत्यप्राप्तिहेतुरूच्यते। 


तत्त्वार्थावतारे प्रतिपाद्यानुसारं कायं बिना वाक्, वाक्यं बिना कायश्चित्तञ्च बिना कायोऽपि न सम्भाव्यते। अतो यथा मुद्राचतुष्टस्य स्व-स्वमुद्रिता विधयस्तथैव एकैका मुद्राऽपि चतुर्मुद्राभिर्मुद्रणीया। 


कुलानुसारं तथागतकुलम्महामुद्रा, वज्रकुलं च समयमुद्रा, पद्यकुलं धर्ममुद्रा, मणिकुलं चार्थात् कर्मकुलं कर्ममुद्रा वर्तते। अक्षयकायनिर्मितिस्तथागतकुलाद् भवति। चित्तवज्रकुलेन यावद् यथावच्च ज्ञानमनुष्ठीयते। वाचा धर्मप्रवचनादिकं पद्यकुलमास्ते। विभिन्नकृत्यानां कर्ममुद्रात्वं मणिकुलत्वं चास्ति, यतः एतेन सत्त्वानां महद्धितं जायते। 


योगतन्त्रस्य साधनाविधिविशेषः


योगतन्त्रस्य साधनाविषये आनन्दगर्भेणाचार्येण साधकस्य समीपे अनिवार्य-रूपेण योग्यतासाध्यनिर्धारण-साध्योपादानकारक-साधनोपायादिषु किं किमपेक्ष्यते, एतद्वर्णयता साधनापद्धतिः स्पष्टीक्रियते - 


१. साधकयोग्यता 


स एव साधको, यस्मिन् प्रणिधानप्रस्थानाख्योभयबोधिचित्तमुत्पद्येते। एतदुभयविधचित्तस्य स्पष्टीकरणं बोधिचर्यावतारे इत्थं प्रत्यपादि-प्राणिमात्रे बोधिलाभेच्छा प्रणिधानचित्तं, तदर्थं च पारमिताचरणं प्रस्थानचित्तमुच्यते। एतदुभयविधिचित्त-समन्वितसाधकस्य तन्त्रशास्त्रं प्रत्यनवच्छिन्ना श्रद्धा तथागतपद-प्राप्त्यै प्रतिपादितशिक्षामनुष्ठातुं लालसा मार्गदर्शकगुरूं शास्तारं च प्रति द्रदिष्ठो विश्वासश्चापेक्ष्यते । वज्रेश्वरेणाप्यवोचि गृहस्थेनापि तत्सर्वशीलानि पालनीयानि यानि प्रव्रजितेभ्योऽपरिहार्याणि सन्ति। 


२ . साध्य-निर्धारणम् 


सर्वावरणरहितः गुणपूर्णः कायचतुष्टसम्पन्नो वैरोचन एव योगतन्त्रस्य साध्योऽस्ति। आनन्दगर्भेण तत्त्वसंग्रहस्य कोषालङ्काराख्यटीकायां समभाणि- तथागतवज्रस्कन्धात्मकवैरोचनो लघुवैरोचनो धर्मधातुमयमाद्यन्तरहितं निरावरणतत्त्वं महावैरोचनोऽस्ति। 


३. उपादानम् 


आद्यन्तरहितबोधिचित्तसमन्तभद्रप्रकृतिप्रभास्वरप्रत्यवेक्षणालक्षणदेवमन्त्राऽऽधारविशुद्धतत्त्वानि वैरोचनप्राप्त्युपादानकारकाणि। 


४. साधना 


सेवा साधनेति भेदद्वयं साधनायाः। सेवायाः पुनः उपायप्रज्ञेऽथ वा सलक्षणनिर्लक्षणाख्यौ भे क्रियेते। 


५. उपायोऽथ वा सलक्षणयोगः 


त्रिध्यानं चतुर्विधयोगो वा चतुर्मुद्राभिर्मुद्रितः कुलमण्डलभावना स्थूल-सलक्षणयोगभावनोच्यते। स्थूलयोगे दार्द्यप्राप्त्यनन्तरं साधकः-सूक्ष्मसलक्षणयोगं भावयति। सूक्ष्मसलक्षणयोगस्य भावनायां त्रिध्याने चतुर्योगेषु वा केनाप्येकेन विधिनेष्टदेवो भाव्यते। जिह्वां तालौ प्रवर्त्य इष्टदेववर्णसदृशं तिलोपमसूक्ष्मस्वरूपं नाभिमध्ये ध्याय्यते। प्रश्वासेन सह सूक्ष्मवज्रं शनैः नाभिक्षेत्रादुत्थाप्य घ्राणछिद्राद् बहिर्निष्कासनकाले उपरिश्वासं निरोध्य स्मृतिसंप्रजन्यसमन्विताः साधकाश्चित्तं तद्वज्रस्वरूपस्थं विधाय यथासंभवं ध्यायन्ति। तत्त्वसंग्रहेऽपि -


जिह्वां तालुगतां कृत्वा, नासिकाग्रन्तु चिन्तयेत्। 

सूक्ष्मवज्रसुखस्पर्शाद्, भवेच्चित्तं समाहितम्।। 


चित्तस्य घ्राणाग्रभागस्थितत्वाद् वायुचित्ते शाम्यतः। निखिलकाये सुखमनुभूयते। कायप्रस्रब्धिरियमेवोच्यते। काये वायुसंचारप्रवाहेण समरसतागमनेन वाय्वाश्रितचित्तेऽपि सहसा स्थैर्य्यमायाति या च चित्तप्रस्रब्धिरूच्यते। तत्पश्चाद् यथेच्छं चित्तानुकूल्यार्हतायै साधकः प्रतिदिवसमभ्यासेन विशिष्टध्यानोत्पादनाय प्रश्वासकाले नासिकाग्रे अनन्तसूक्ष्मवज्राणि संस्फ़ार्य त्रिलोकं व्याप्नोति। श्वासावधौ च पुनः नाभिक्षेत्रे संहृत्य स्थैर्य्यं विधातुं शक्नोति। ध्यानेऽस्मिन् विषये तत्त्व-संग्रहेऽपि -


सूक्ष्मवज्रसुखस्पर्शनिमित्तं जायते यदा। 

स्फ़ारयेत् तन्निमित्तन्तु, तच्चित्तं सर्वतः स्फ़रेत्।। 


यथेच्छं स्फ़रणाच्चित्तं त्रैधातुकमपि स्फ़रेत्।

पुनस्तु संहरेत् तत्तु यावन्नासाग्रमागतम्।।


ततः प्रभृति यत्किंचिद् भावयेत् सुसमाहितः। 

सर्वं चैव दृदीकुर्यात् समाधिज्ञानकल्पितम्।। 


तत्त्वलोके सलक्षणयोगस्य आदिमध्यान्तसाधनाभेदेन दशतत्त्वैर्युक्तः साधकः स्यात्। यथा- १. रूपारूपिमण्डलम् , २ . बाह्यभ्यन्तरमन्त्रः ३. चतुर्मुद्राभिर्मुद्रितत्त्वम्, ४ . स्थानयोगरक्षे, ५ . ज्ञानसत्वानां संहार आवाहनं च। ६ . वज्रशब्देन मनसा च मन्त्रजपः, ७. त्रिध्यानादिभावना, ८. मण्डलपूजादिबाह्याभ्यन्तरहोमः, ९ . मुद्रामोचनमुपसंहारश्च , १०. पूजाऽनन्तरं विसर्जनं च , सलक्षणयोगस्य दश तत्त्वानीमानि सन्ति। 


प्रज्ञा- ( निर्लक्षणयोग ) भावना 


सामान्यप्रज्ञायाः (चित्ततत्त्वस्य ) साक्षात्काराय स्वसंवेद्यज्ञानस्थितिरेव निर्लक्षणयोगो व्याह्रियते। विशेषयोगतन्त्रपद्धत्यनुसारं तत्त्वसंग्रहे चापि -


अ-अक्षरप्रवेशेन, सर्वाक्षरविजानना। 

स्ववक्त्रं परवक्त्रं तु भावयन् सिद्धिमाप्नुयाद्।। 


सलक्षणयोगे पूर्णदक्षतयाऽपि यथावद्यावज्ज्ञानयोर्बोधोऽधिप्रज्ञां निर्लक्षणयोगं वा बिना न सम्भाव्यते। निर्लक्षणयोगे हृदयमुद्रा-गुह्यमन्त्रधारणीप्रभृतिकं प्रज्ञया विश्लिष्य निष्प्रपञ्चता प्रतिपाद्यते। नामसङ्गीतेर्निम्नवचनेऽपि वार्तेयं स्पष्टीकृता। 'अ' इत्यस्यार्थोऽनुत्पन्नोऽस्ति। अत एव ' अ ' इत्यादि स्वराद् व्यञ्जनाच्चोत्पन्नं सर्वबीजाक्षरम् आधारदेशविरहितं नैरात्म्यं शून्यं चास्ति। अक्षरेषु सर्वश्रेष्ठस्य प्रथमस्य अकार इत्यस्योत्पत्तिः किञ्चिदङ्गसहयोगं बिना जायते। यथा -


महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः। 

अकारः सर्ववर्णाग्रयो महार्थः परमाक्षरः।। 


अकारो महाप्राणान्निर्गच्छति यश्च शून्यतावबोधकः। तदेवं सर्वबीजाक्षराणि। अत्र वक्त्रमुखाभिप्रायस्तु प्रवेशद्वारम्, अतः साधकः स्वयमपि त्रिविमोक्ष-मुखाच्छून्यतायां प्रविष्ट उच्यते स्वसम्मुखं भावितेष्टदेवस्यापि मण्डले तद्वत्प्रवेशं स्वयं ध्यायेत्। तत्त्वसंग्रहस्योत्तरतन्त्रे चापि -


प्रज्ञा नैर्वेधिकी नाम समाधिरिति कीर्तिता। 

तया तु मुद्राः सिध्यन्ते, भावयन् सिध्यति क्षणात्।। 


अर्थात् प्रज्ञा, नैर्वेधिकी अस्ति। इदमनुत्पन्नं नैरात्म्यदर्शनम्, निःस्वभाताबोधा-आभासशून्यस्थितिरेव निर्लक्षणयोगः निगद्यते। निर्लक्षणयोगभावनयैव द्रुतं सिद्धिर्लभ्यते। यथा तत्रैवोक्तम् -


विद्यामन्त्रं विशेषाणां विशेषो न हि विद्यते। 

प्रज्ञया भावयन्नेवमाशु सिद्धिर्धुवा भवेत्।। 


निखिलकथनसारस्तु - उभययोगविधौ सनिमित्तयोगेनैकाग्रता-ध्यानं सिध्यति निर्लक्षणानिमित्तध्यानेन नैर्वैधिकप्रज्ञया प्रत्यवेक्षणात्मकध्यानेन विपश्यनया उभय-युगनद्धध्यानेन च युगनद्धफ़लं लभ्यते। 


सामान्यजपविधिः विशेषसिद्धिसाधनाक्रमस्च 


जपविधिः 


त्रिध्याने चतुर्योगेषु वा किञ्चिदेकपद्धत्या इष्टदेवभावनानन्तरं सिद्ध्यर्थं जपोऽनुष्ठीयते। सामान्यतः जपस्य भेदद्वयम् - वज्रजपः शब्दजपश्च। सिद्धबारावा-महोदयेन जपस्य षड्भेदाः प्रत्यपाद्यन्त। १. श्वासप्रश्वासयोर्ध्यानावधानं बिना चित्तस्य अ-अक्षरे केन्द्रीकरणं निरोधजपोऽस्ति। २.श्वासे अं प्रश्वासे हूँ ' आः ' इत्यक्षरसहितवायोः पूरकरेचककुम्भकादिविधानं वज्रजपोऽभिधीयते। ३ . हृदयकमले इष्टवमन्त्रस्य बीजाक्षरं भावयित्वा तद्रश्मिपुंजस्य स्फ़ुरणं संहरणं च कृत्वा तथागतानां पूजां प्राणिहितं च विदधत् यः साधकस्तस्य भावनाविधानं स्फ़ुरण-संहरणजपः उच्यते। ४. मनसि एव जपकरणम्। ५.ध्वनिं बिना तालुजिह्वौष्ठबलेन जपानुष्ठानम्। ६. सामान्यध्वनिना साकं शब्दमात्राः ध्यात्वा जपविधानम्। जपस्यैतत् षड्रूपाणि। 


तत्त्वसंग्रहे जपभेदा निम्नाः 


नातिस्यन्दित-जिह्वाग्रदन्तोष्ठद्वयसंयुता। 

साधयेत् सर्वकल्पान् तु वज्रवाक्स्वरवर्जिता।। 


मेघधूलित-हूं-कारक्रोधगम्भीरवाक् स्थिरा। 

क्रोधस्फ़ुटा महावज्रं वज्रक्रोधवाक्साधनम्।। 


अनुच्छ्वासं सूक्ष्मश्वासं सूक्ष्मवाचा सुसंस्फ़ुटम्। 

सिध्यन्ते सर्वजापानि, समाधिज्ञानगर्भया।। 


वज्रजपः 


स्वयमिष्टदेवभावनानन्तरं स्वोपमेष्टदेवं स्वसमक्षं भावयेत्। प्राणायामं च विदध्यात्। वायु-प्रश्वासे सम्मुखेष्टदेवे चित्तं स्थापयेत्। श्वासे स्वदेहकायभावित-देवकाययोरभिन्नत्वं भावयेत्। अन्तर्वायुनिरोधकाले मनसि मन्त्रजपः क्रियते, अयमेव संवृतिसलक्षणयुक्तः वज्रजपोऽभिधीयते। स्वयं साधको देवमन्त्रप्रभृतयः सर्वेऽपि धर्मशून्यगगनवत् परिशुद्धाः, एवं मत्वा यथासाध्यं शून्यतायां वायुं निरोध्य तिष्ठेत्। वायुमुक्तिकाले इष्टदेवलक्षणमात्रं स्मरेत्। पुनः श्वासावधौ परमार्थस्थितो भूत्वा वज्र-जपानुष्ठानं परमार्थवज्रजपः कथ्यते। जपविधिरयं तीव्रेन्द्रियसाधकस्य , लोकोत्तरसिद्धिरेतेनावाप्यते। 


शब्दजपः 


मृद्विन्द्रियः साधकः शब्दजपमनुकरोति। यथा साधकः स्वेष्टदेवासनं विधाय वामहस्ते स्वेष्टदेवायुधं धारयित्वा दक्षिणहस्तेन कुलानुसारं मालां धृत्वा कुलमन्त्र-जपविधिमनुसृत्य सुस्पष्टं जपति, स च शब्दजपो व्याह्रियते। एतस्मिन् लघुदीर्घादिमात्रां पूर्णतः ध्यात्वा जपोऽनुष्ठयो भवति। एतेन द्रव्यखेचरविद्यादीनि सिध्यन्ति। 


विशेषसिद्धिचर्या 


समाधि-जपविधि-होमेतिविधित्रयेण सिद्धिश्चर्य्यते। सेवायां विशेषसूक्ष्म-वज्रध्याने च दार्द्यप्राप्त्यनन्तरमेव लोकलोकोत्तरसिद्धीनां लाभाय चर्या विधीयते। लोकसिद्धिसाधनाविधिमाश्रित्य तत्त्वसङ्ग्रहे चापि -


वज्रबिम्बं निधिस्थं तु , हृदये परिभावयेत्। 

भावयन् भूमिसंस्थानि, निधानानि स पश्यति। 

वज्रबिम्बं समालिख्य , गगने परिभावयेत्। 

पतेद्यत्र तु पश्येत निधिं तत्र विनिर्दिशेत्। 


स्वहृदयकमले निधिकलशं तदुपरि चन्द्रमण्डलं, तदुपरि च पञ्चाङ्गवज्रं भावयित्वा वज्रनिधिस्तावद् जपनीयो यावच्च स्पर्शदर्शनादिलक्षणं प्रकटितं न स्यात्। अथवात्मनि विश्ववज्रम् आकाशे चापि वज्रं भावयित्वा जपानुष्ठानेन वज्रपतनाभासः यत्र स्यात्तत्रैव निधिर्लप्स्यते, एवं विज्ञेयम्। तथैव जलोपरि प्रचलनसिद्ध्यै जलस्रोतसि किञ्चिच्छान्तस्थाने वा महत्पात्रे जलं प्रपूर्य तत्परिपश्यता वज्रजलस्य जपो विधेयः जलं च वज्रत्वेन परवर्तितमिति चिन्तनीयम्। शनैः शनैः जलं वज्रसदृशमाभासिष्यते। तदनु योगी यदैव जलं जिगमिषेत् तावत् समाधौ समाहित्य गत्यवाप्तिसामर्थ्यं लब्धुमर्हति। सर्वतथागततत्त्वसङ्ग्रहेऽपि -


वज्रावेशे समुत्पन्ने वज्रबिम्बमयं जलम्। 

भावयेद् यस्तु योगीन्द्रो, जलस्योपरि चङ्क्रमेत्।। 


लोकोत्तरसिद्ध्यै स्वयं पञ्चतथागतेषु किमप्येकं भावयित्वा 'वज्रधातु हूँ ' इत्युच्चारयन् आकाशः तथागतकायैर्व्याप्तः , इत्थं विचिन्त्य वायुश्वासकाले यथा सिकतायां जलं शुष्यति, तथैव सर्वतथागताः स्वहृदयकमले विलीनाः प्रश्वासे च पुनराकाशमण्डले व्याताः, एवं ध्यायेत्। एवं ध्यानेन साधको बुद्धरूपधारको बोधिसत्त्वो विद्यामन्त्रधरश्च भविष्यति। 


मृद्विन्द्रियो मध्येन्द्रियः वा साधकः क्रमशः जन्मत्रये षोडशजन्मसु वा महामुद्रासिद्धिमवाप्य पञ्चाभिसम्बोधिभिरकनिष्ठभुवने पञ्चज्ञानं साक्षात्कृत्य बोधिं लभते। तीव्रेन्द्रियजनः एकजन्मत्र्यपि योगतन्त्रसाधनया परमपदमवाप्तुमर्हति। 


उपसंहारः 


सामान्यतो 'मुद्रा' शब्दः सूत्रतन्त्रयोरूभयत्रोपलभ्यते। बौद्धपरम्परायां त्वेकेदृशी मुद्रा स्वीक्रियते यदीयं स्वरूपमित्थम् - १ . संस्कृतधर्मोऽनित्यः क्षणिकश्च २. आस्रवधर्मः दुःखम् ३ . सर्वधर्माणामात्मशून्यत्वं नैरात्म्यं च। ४ . निर्वाणं परम-शान्तम्। इमे अनतिक्रमणीयाश्चत्वारः। अतो मुद्रा नाम्नाऽलङ्कृता इमे। यः एतच्चतुर्मुद्राः मत्त्वा चलति, स बौद्ध इतरे चाबौद्धाः। अग्रे सूत्रेषु शून्यतादीनां मुद्रात्वेनाभिधानम्। यथा च सागरमतिपरिपृच्छासूत्रे कथितं - हे सागरमते! सर्वधर्मस्तु विमुक्तिमुद्रामुद्रितः अद्वयः परिशुद्धश्च सर्वधर्मो गगनवदभिन्नः अतः सर्वधर्मः समतया मुद्रितोऽस्ति अग्रे अहङ्कारस्य परिशुद्धत्वेन विमलमुद्राऽस्ति इत्थं विंशतिर्मुद्राः गणिताः। मैत्रेयपरिपृच्छासूत्रेऽपि- हे कुलपुत्र! सर्वधर्मेषु शून्यतास्वरूपमुराऽस्ति। रत्नदारिकपरिपृच्छायां कथितं सर्वधर्मस्वभावो गगनोपमः , एतल्लक्षणमेव मुद्रायाः। कदाचित् प्रज्ञापारमिता चापि मुद्रात्वेनाभिहिता। मञ्जुश्रीमूलकल्पे-


मध्यमाङ्गुलिसंश्लिष्टौ भवेदेकशिखा ध्रुवम्। 

एषा मुद्रा महामुद्रा, संबुद्धैस्तु प्रकाशिता॥ 


हस्तमुद्राश्चापि मुद्रारूपेण प्रतिपादिताः वैरोचनाभिसम्बोधितन्त्रे देवायुधायापि मुद्राशब्दः प्रयुक्तः। योगतन्त्रे स्वेष्टदेवकायसदृशं स्वयं भावनमेव महामुद्रा-प्रभृत्यश्चतस्रः मुद्रा अभिहिताः। यदुपरि संवर्णितम्। अनुत्तरतन्त्रेऽपि योगतन्त्रवदेव महामुद्रादिश्चतुर्मुद्राश्चर्चिताः परं च स्वरूपतो भिन्नत्वम्। यथा च हेवज्रतन्त्रे- वज्रम् अभेद्यं ज्ञानम् तेनानेन मुद्र्यते। मुद् हर्षः महासुखं जन्यते तेन हेतुना मुद्रेत्युच्यते। मुद्रार्थस्तत् तत्त्वं येन मुद् हर्षः अथवा महासुखमुत्पाद्यते। एतस्य चत्वारो भेदाः। तथा च नागार्जुनः चतुर्मुद्रोपदेशे -


कर्मज्ञानमहामुद्रा-समयाख्यः प्रभास्वरः। 

हेतुर्भाव्यास्तथा प्राप्यश्चतुर्धा चाविनश्वरः।। 


एतस्यानुत्तरतन्त्रे नैकविधा व्याख्यास्सन्ति। तत्र च प्रायः कर्मोत्पन्ना स्त्रीकर्ममुद्रा मनोमयकाल्पनिकमुद्रा च ज्ञानमुद्रा। सर्वाकारवरोपेतशून्यता हि महामुरोच्यते अक्षरसुखात्मकप्रकृत्याऽभिसम्बोधिलक्षणप्रभास्वरतत्त्वं च समयमुद्रा। हेतोः कर्ममुद्रात्वं, साधनस्य ज्ञानमुद्रात्वं, साध्यस्य महामुद्रात्वम्, अनाभोगावस्थायाश्च समयमुद्रात्वं वोच्यते। एवं मुद्राशब्द एकस्मिन्नपि तत्स्वरूपभिन्नत्वं दृश्यते। 


त्रिध्यानशब्दस्य योगानुत्तरतन्त्रयोः प्राचुर्येण प्रयोगोऽवलोक्यते। उभयत्रादियोगः स्वार्थाय मण्डलराजाग्रं कर्मराजाग्रं च परार्थाय भाव्यते। तथैव चतुर्योगप्रयोगोऽपि पितृतन्त्रग्रन्थेषु लक्ष्यते। शब्दस्य साम्ये सत्यपि भावदृष्ट्याऽनुत्तरतन्त्रस्योत्कृष्टत्वम्। यतो ह्यनुत्तरयोगतन्त्र उत्पत्तिक्रमभावनेष्टदेवभावना वा प्रज्ञोपाययुगनद्धरूपेणोत्थाप्यते। चन्द्रबीजाक्षरायुधानि तु पञ्चाभिसम्बोधिना भाव्यन्ते। यावदालिङ्गनं सीमितं योगतन्त्रे रागमार्गीकरणम्। परं चानुत्तरयोगतन्त्रे समापत्तिद्वयान्तं प्रादर्शि मार्गीकरणविधिः। अनुत्तरयोगतन्त्रसाधनाविधिरग्रे वक्ष्यते। एतदुभयतन्त्रस्य साधनाङ्गाभिधानसाम्यात् तदुभयमेकत्रैवाभिमन्यते नैकैर्विद्वद्भिः। 


अनुत्तरतन्त्रेष्वपि त्रिध्यानशब्दः प्रयुज्यते। योगतन्त्राद्धि तद्भिन्नत्वमेव। अभिधानसाम्यात् भारते परम्पराद्वयं प्रावर्तत। एका बङ्गप्रान्ते जगद्दलमहाविहारस्यापरा हि मध्यदेशस्य। शाक्यसम्प्रदायस्य 'जमगोन अमस् जब्स' इत्यस्याभिमते जगद्ददलनृपः प्रकाशचन्द्रो यो हि वज्रसत्त्व- - निर्माणकाय उच्यते तच्छिष्य आनन्दगर्भस्ताराद्वारा व्याकृत आसीत्। नृपप्रकाशचन्द्रानुसारेण गुह्यसमाजमूलतन्त्रं वैरोचनमायाजालं च तत्त्वसङ्ग्रहन्यायदिशा रक्षाचक्रादिदशतत्त्वैर्मुद्राचतुष्टयेन च सम्मुद्र्य व्याख्याय्यते। आनन्दगर्भमतानुसारेण बोधिं प्राप्य सप्तदिनानन्तरं तथागतेन तत्त्वसङ्ग्रहोऽदिश्यत। तदनूपदिष्टमातृतन्त्रे बुद्धकपालस्य पितृतन्त्रे गुह्यसमाजस्य मायाजालादीनां च व्याख्या तन्त्रत्वेन विहिता। पूर्वभारतीयैर्बुधैस्तन्त्रस्य क्रिया-चर्या-योगाख्यो भेदो मन्यते। चर्यातन्त्रात्परवर्तितन्त्राणि योगतन्त्र एव संगृह्यन्ते। योगानुत्तरतन्त्रयोरेकत्वम्। नामसङ्गीत्यादिव्याख्या मञ्जुश्रीप्रभृतिभिरेतद्दिशैव क्रियते। तत्रैव जमगोन अमस् जब्साभिमतेनोत्तरभारतीयविद्वांसो नृपाश्च तन्त्रेषु कालचक्रतन्त्रस्य श्रेष्ठत्वमङ्गीकुर्वन्ति हेवज्रचक्रसंवरगुह्यसमाजादीनि व्याख्यान्ति कालचक्रपद्धत्या चेति। 


पञ्चमः परिच्छेदः 


अनुत्तरतन्त्रम् 


अनुत्तरतन्त्रस्याभ्युदयः 


पितृतन्त्र-मातृतन्त्र-अद्वयतन्त्ररूपेण अनुत्तरतन्त्रस्य भेदत्रयमस्ति। अत्र क्रमशः पितृतन्त्रस्याभ्युदयं विचारयामः। 


पितृतन्त्रस्याभ्युदयः 


तत्र पितृतन्त्रं विनेयजनानामनुग्रहार्थं राग-द्वेषमोहादीनां प्राधान्यात् भेदत्रये विभज्यते। रागिणां कृते गुह्यसमाजः, द्वेषप्रधानस्य कृते यमारितन्त्रं तथा मोहप्रधानाय च नामसंगीतिश्चोपादेशि। 


गुह्यसमाजोऽयं पितृतन्त्रस्य प्रधानग्रन्थः। मूलतन्त्रस्य श्लोकसंख्या २५ सहस्रं तथा संग्रहमूलतन्त्रस्य १८०० श्लोकसंख्या स्वीकृता। या च १८ परिच्छेदेषु प्रायोजिता, संग्रहतन्त्रस्य यदा कदा मूलतन्त्रत्वेनाभिहितं यतो हि १८ तमे परिच्छेदे उत्तरतन्त्रे संग्रहतन्त्रस्य प्रश्नानुत्थाप्य तद्-व्याख्या कृतास्ति, प्रायः क्रियते चापि। आचार्यसेरतोगपादस्य कथनमस्ति यद् गुह्यसमाजः सामान्यतः सर्वतन्त्राणां मूलमस्तीति, यतो ह्यत्र क्रियातन्त्रादि-निम्नाङ्किततन्त्रत्रये समागत-सनिमित्त-सदसद्योग-द्वारा प्राप्तव्यसिद्धेर्मार्गोऽपि समुपलभ्यते। अतोऽयं समाजत्वेनाभिहितः। १८ तमपरिच्छेदस्योत्तरतन्त्रत्वाभिप्रायं स्पष्टीकुर्वता तत्रैवोक्तं यदयं गुह्यसमाजोऽप्यस्तीति, यतो हि तन्त्रस्यास्य देशना तस्मिन्नेव विमानमण्डले तथाऽनुचरदेवानां मध्ये तदेव क्रमेण कृता विद्यते। 


तथ्यतो गुह्यसमाजस्याऽवगतिस्तदैव भवेत् यदा तद् व्याख्यातन्त्राणां सम्यग्रूपेणाध्ययनं स्यात्। अस्य व्याख्यातन्त्रषट्कमस्ति-यथा-गुह्यसमाज-स्याष्टादशपरिच्छेदः , चतुर्देवी परिपृच्छा सन्धिव्याकरणनिर्देशः वज्रमाला, ज्ञानवज्रसमुच्चयस्तथा भोटभाषायामनुपलब्धो देवेन्द्र परिच्छेदश्च। 


अष्टादशपरिच्छेदे उत्तरतन्त्रं गुह्यसमाजस्य प्रतिपरिच्छेदं प्रश्नोत्तररूपेण समादधद् व्याख्याति। चतुर्देवीपरिपृच्छातन्त्रं प्राणायामविधीन् प्रकाशयत् रहस्यं स्पष्टं निर्दिशति। सन्धिव्याकरणनिर्देशतन्त्रं गुह्यसमाजे समागतयोर्वज्रजापोतन्नक्रमयोर्नि-हितार्थाभिप्रायं स्पष्टयति। वज्रमालातन्त्रं मृत्यु-जन्म-अन्तराभव-नाडी-वायुतिलक-अभिषेकविधेः २० प्रबन्धानाम् उत्पत्तिक्रमस्य त्रिध्यान-चतुर्योग-४९ तत्त्वानां, ३२ देवानां नियतार्थं 'अ' आदि ४० अक्षराणां व्याख्याद्वारा निदानपरिवर्तद्वारा च तन्त्रस्य सम्पूर्णाङ्गानि संगृह्य स्पष्टव्याख्यां करोति। ज्ञानसमुच्चयतन्त्रं गुह्यसमाजस्या-भिधेयसालङ्काराणां तथा - माया-काय-साधना विधीनां च स्पष्टनिर्देशं करोति। 


दगपोटशीनमग्यलस्य कथनमस्ति यद् गुह्यसमाजे ३२ देवानाम् अस्पष्टव्याख्या विद्यते, वज्रमाला तां व्याख्यां स्पष्टयतीति। उत्पन्नक्रमसम्बद्धे मूलतन्त्रे २० विधयोऽप्यपूर्णास्तानपि प्रपूरयति। ज्ञानसमुच्चयः गुह्यसमाजमूलतन्त्रस्य शब्दान् सप्तालङ्कारैरलङ्कृत्य तद्व्याख्यां करोति। सन्धिव्याकरणं च मूलस्य रहस्याभिप्रायं स्पष्टीकृत्य व्याख्याति। एषां ग्रन्थानां संक्षिप्तपरिचयोऽत्र प्रस्तूयते-


गुह्यसमाजः 


अस्य तन्त्रस्य देशनासम्बन्धे पूर्वमुक्तम्। अत्र १७ पटलानि सन्ति। अष्टाशं पटलमुत्तरतन्त्रत्वेन स्वीकृतमस्ति। बुस्तोनमहोदयोऽभिधेयेन सह संयोज्य एषां पटलानां गणनां कृतवान् यथा - १ . निदानप्रतिपादनपूर्वकोत्पत्तिनिष्पन्नक्रम-योर्निर्देशः, २. उत्पन्नक्रमबोधिचित्तनिर्देशः, ३ . परिशुद्धदेवयोगः, ४ . चित्तमण्डलेऽभिषेकविधेर्निदेशः , ५ . योगचर्या, ६ . काय-वाक्-चित्ताधिष्ठानम्, ७ . योगचर्यायाविस्तारः , ८ . गुह्याभिषेकः, ९ . अद्भुतव्याकरणनिर्देशः , १०. सिद्ध्यभिमुखबाह्याभ्यन्तरदेवहृदयचोदना, ११. मन्त्रदेवज्ञानदेवयोरूत्पत्तिः, १२. महामुद्रापरिशीलनम्, १३. आभ्यन्तरप्रवृत्तकर्मसमूहः, १४.मन्त्रप्रवृत्तकर्मसमूहः, १५. मायासदृशध्यानम् १६. कायवज्रमण्डलातिरिक्तो मृण्मयमण्डलविस्तारविधिः, १७. समयसंवरयोः प्रधाननिर्देशश्चेति। १८. अष्टादशं पटलमुत्तरतन्त्रमस्ति। एतन्मैत्रेयादिबोधिसत्त्वैः पृष्टः तथागतः साधु साध्विति ब्रुवन् उत्तररूपेणोपदिष्टवान्। सिद्धथगनपादमतानुसारमत्र ५४ प्रश्नानां भव्यकीर्तिमतानुसारं ७२ प्रश्नानां तथा विश्वमित्ररचितश्रीगुह्यसमाजतन्त्रोपदेशसागरकणमतानुसारं ५६ प्रश्नानामुत्तरे बोधिसत्त्वानां सन्देहस्य निराकरणं जातम्। विश्वमित्रानन्दगर्भौ तत्त्वसंग्रहमनु समस्ततन्त्रशास्त्राणि उत्तरतन्त्रत्त्वेनोपदिष्टानीति स्वीकुरूतः। 


वज्रमालादिव्याख्यातन्त्राणां देशना आचार्य-अलंकलशमतानुसारं विभिन्नस्थलेषु जाता। औडियानोत्तरपर्वते वज्रसत्त्वः दशक्रोधरूपेण प्रकटीभूय दश दिक्पालान् विनेयान् कर्तुं १२ सहस्रश्लोकात्मिकाया-बृहद्वज्रमालायास्तथा लघुवज्रमालाया उपदेशं कृतवान्। सन्धिव्याकरणतन्त्रस्य हिमालये देवीभिः कृतायां प्रार्थनायां चतुर्देवीपरिपृच्छातन्त्रस्य वैपुल्यपर्वते ज्ञानवज्रसमुच्चयस्य च गङ्गातटे उपदेशो जातः। अत्र व्याख्यातन्त्राणां संक्षिप्तपरिचयो निरूप्यते-


वज्रमाला 


वज्रमालाख्यो निष्पन्नक्रमाङ्ग-प्रकाशकः सर्वतो महत्वपूर्णो बृहद् ग्रन्थश्च स्वीक्रियते। चक्रपाणिना पृष्टेन भगवता उत्तररूपेण ६८ परिच्छेदेषु विभक्तस्यास्य तन्त्रस्य देशना कृता। १. निदानपरिवर्तः , २ . आचार्यशिष्ययोः परीक्षाद्वारा अभिषेकविधिः , ३ . वज्रमालानाम्नोऽर्थः १०८ वायूनां नामानि, स्थितिः संचारविधिस्तथा वज्रमालाशब्दस्य भेदः ४. समाजशब्दस्य व्याख्या, ५ . शून्यताशब्दस्यार्थः, ६ . वायुतिलक-भेदः, ७ . वज्रजापयोगस्तथैतद्द्वारा परमपदस्य प्राप्तिविधिः, ७. नादशब्दस्य व्याख्या, ८ . गुह्यार्थभगशब्दस्य धर्मधातुत्वेन व्याख्या, ९ . संवरः समयश्च, १०. भक्ष्यपेयादिसमयानां नीतार्थे व्याख्या, ११. मन्त्रतत्त्वस्य व्याख्या, १२. वायुतत्त्वं, वायुगणनाद्वारा जपविधिः, वायुकृत्यानि, वायु-तत्त्वानां निर्देशनं च १३. चतुरभिषेकाणाम् अर्थस्तथा महामुद्राशब्दस्य व्याख्या, १४. नाडीशून्यता, पद्य-वायु-हृदय-वज्रपद्ययोगः, १५. गुह्यमन्त्रतत्त्वम्, १६ . वायोराश्रयेण क्षणे क्षणे प्राणानां विलयोदयदर्शनादमित- वायूनां प्राप्त्युपायः, १७. चतुर्नाडीचक्राणां समूहे नाडीनां संख्या तथा तन्नामानि, १८-३२. प्रमुखनाडीषु समस्तनाडीनां संग्रहः, १९. विपाकादिचतुर्धर्माणां निर्देशः, २०. चतुरानन्दानां लक्षणं भेदश्च २१. मन्त्रतिलक-वायुतिलक-द्रव्यतिलकानां भावनाविधिरेव भेदः २२. अं आः, हूँ इति अक्षरत्रये नाडी-वायु-विकल्पानां भावनाविधिरर्थात् काय-वाक्-चित्तानां हृदयरूपेण व्याख्या, २३. गुह्यनासाग्र-नाभिनासाग्र-मुखनासाग्रादीनां तथा पञ्चवायूनां वर्णनं तेषां संचारविधिरेवं द्रव्य-मन्त्र-तिलकानां भावनाविधिश्च, २४. शून्यताशब्दस्य व्याख्या, २५. कायस्कन्ध-आयतनानां धातूनां च देवतात्वेन निर्देशः लक्षणं च २६. चतुर्नाडीचक्रेषु स्थितानां देवीनां नामानि क्रमश्च, २७. नाडीनां देवीरूपत्वेन प्रतिपादनं, तासामुदयास्तयोर्योगिकविधिः २८. षड्नाडीचक्रसमूहद्वारा महासुखस्य कल्पितविधिस्तथाऽऽनन्दानां लक्षणम्, २९ . नाडीषु शुक्रशोणित-वायूनामावेशविधिस्तासां लक्षणं च, ३०. प्रमुखनाडित्रयस्य कृत्यम्, ३१. दशवायुभिः विष्णोर्दशावतारवच्छरीरस्योत्पत्तिविधिः, ३२. वायुनोत्पत्तिमनु क्रमशो वायुव्ययेन सह प्राणक्षयः, ३३. चाण्डाल्याग्निद्वारा समस्तडाकिनीनां संग्रहः ३४. उत्पत्ति-निष्पन्नक्रमाभ्यां विकल्पस्य निरोधविधिः अर्थात् विकल्पवायोश्छेदस्य लक्षणम् , ३५. निर्विकल्पवायोः स्वाधिष्ठाने निर्देशो निर्विकल्पलक्षणम्, ३६.वायोर्भावनया नाडी-चक्रस्यास्तनिरूपणम्, ३७. चतुर्नाडीचक्र-अग्निचक्रवायुचक्रैश्च सह षट्चक्राणां भावना, ३८. चतुर्थाभिषेकस्यार्थ-स्फ़ुटीकरणम् गुह्यपदस्य निर्देशः, ३९. धर्मधातोर्व्याख्या, ४०. वज्रस्यार्थः, ४१. एककुलात् १०० कुलानामुत्पत्तिस्तथा तेषामेकस्मिन् कुले विलयः ४२. चतुर्मुद्रा, कर्ममुद्रायाः षड्भेदस्तथा तेषामेकस्मिन् कुले विलयः महामुद्राया भेदः, ४३. स्कन्धायतनयोर्लक्षणम्, ४४. महामुद्राया भेदाः, ४५. नाडीषु वायोराश्रितत्वाद् उत्पद्यमानानामष्टानुभूतीनां स्पष्टीकरणम्, ४६. अहंशब्दस्य व्याख्या, ४७. अष्टादशशून्यतायाः लक्षणम्, ४८. वायुतत्त्वस्य शून्यतायां भावनाकरणात् वज्रमालोत्पत्तिः, ४९.रात्रिन्दिनस्य विस्तृतव्याख्या, ५०. आलोकालोकभासयोर्जाति-कालनिर्देशस्तथा तद्विस्तृतव्याख्या, ५१. सीमान्तरोदय-लक्षण-व्याख्या, ५२. विंशतिविधिः, ५३. विंशतिविधेः कार्यकरणस्य प्रतिपादनम्, ५४. बाह्यपूजायाः परित्यागं विधायाध्यात्मपूजाविधेः प्रतिपादनम्, ५५. नाड्या देव्यां निर्देशस्तथा देवीनां लक्षणम्, ५६. एवं शब्दस्य व्याख्या, ५७. निदानपरिवर्ते समागतानां, ४० अक्षराणामेकैकशो व्याख्या, ५८. अध्यात्महोमविधिः, ५९. अमृतगुटिकासधनाविधिस्तथा पञ्चामृतभक्षणविधिश्च, ६०. गणचक्रविधिसंकेतः, संकेतप्रत्युत्तरविधिश्च, ६१. वाणीसंकेतः गुह्यशब्दस्य प्रतिपादनं च, ६२. आचार्यकायेन सम्पूर्ण-काय-वाक्चित्तमण्डलनिर्देशः, ६३. बुद्धधर्मसंघलक्षणम्, ६४. शिष्यचर्या शान्त्यादीनां कर्मणां च फ़लनिर्देशः, ६५. चतुःक्रोध - देवमालानां सेवनेन कर्मणः साध्नाविधिः, ६६. पञ्चाभिज्ञा-साधनाविधिः ६७. प्रभास्वर-युगनद्धस्य साधनया काय-मण्डल-देवानां परिशुद्धिविधिः। ६८. अन्ते बोधिसत्त्वस्यानुत्तरादिभगवतः स्तुतिः। अत्रैव वज्रमालातन्त्रस्य समाप्तिर्जायते। 


चतुर्देवीपरिपृच्छातन्त्रम् 


अस्य प्रारम्भे 'एवं मया श्रुतम् ' इति नास्ति, यतो हि मूलतन्त्रस्य देशनया सहैव व्याख्यातन्त्रत्वेनोपदिष्टम् १. अत्र लोचनाद्वारा भगवतः कायोत्पत्तिविधौ पृष्टे सति उत्तरे सूक्ष्ममन्त्रतत्त्वयोगद्वारा कायनिष्पत्तिविधिरभिहितः। अयं लोचना-परिपृच्छापरिच्छेदोऽस्ति। २ . मामकीदेवी-द्वारा तिलकबोधिचित्तस्य गमनागमनविधौ पृष्टे सति तत्स्पष्टीकृतः मामकीपरिपृच्छापरिच्छेदोऽभिहितः। ३. शुक्र-शोणिताभिन्न-तिलकसंग्रहे अर्थात् धातुसंग्रहे पञ्चस्कन्धस्य निष्पन्नविधिं स्पष्टी-कुर्वता यत्र पञ्चतथागतानां प्रतिपादनं कृतमस्ति, यो हि पाण्डरीपरिपृच्छा-परिच्छेदोऽभिधीयते। ४. तारादेवी-द्वारा बोधिचित्ततः कायोत्पत्तिविधौ पृष्टे सति बोधिचित्तसाधना, कायादिमण्डलानां भेदत्रयम्, आभ्यन्तरहोमः आभ्यन्तरपूजादीनां कायादिमण्डलानां भेदत्रयम्, आभ्यन्तरहोमः आभ्यन्तरपूजादिश्चोपादेशि। यदुपश्रुत्य चस्रो देव्यः प्राभस्वरपदमाप्नुवन्ति। तासां समस्तसन्देहा निवर्तन्ते। इत्थमयं चतुर्थपरिच्छेदः तारापरिपृच्छापरिच्छेदोऽभिधीयते। 


ज्ञानवज्रसमुच्चयतन्त्रम् 


अत्रापि निदानस्योल्लेखो न कृतः। मैत्रेयादिबोधिसत्त्वद्वारा कृतायां प्रार्थनायां त्रिचित्तरहस्य-सामान्यार्थ-पर्यन्तार्थ-षट्कोटिव्याख्या-तन्त्रनाम-कृत-आवर्तन-विधि-साध्य-साधना-सप्तालङ्काराणां देशना कृता विद्यते। बुस्तोनमहोदयस्य कथनमस्ति यदिदं बृहद्ज्ञानवज्र-समुच्चयस्याङ्गमात्रमस्ति पूर्णन्त्वप्राप्यमस्ति। 


श्रीवज्रगर्भालङ्कारः 


अत्र १६ परिच्छेदाः सन्ति। यथा-१. बोधिचित्तप्रकृतेः सर्वधर्मिषु व्याप्तिस्तथा वज्रडाकिन्यधिष्ठानम्, २. मन्त्रः, ३. मृण्मयमण्डलं निर्माय पूजा-अर्पणा द्वारा शिष्यस्य मण्डल-प्रवेशविधिस्तथा रेखाचित्रमण्डलपरिच्छेदः ४. चतुरभिषेक-विधिस्तथाभिषेकगुणाः ५. मण्डलाभिसमयनिर्देशः, ६. योगसाधना, त्रियोगभेदस्तथा बोधिचित्तभावनाद्वारा ज्ञानसम्पादनविधिः, ७ . काय-वाक्-चित्तसमयानां निर्देशः, ८. उष्णीषाभिसमयः, ९. वज्रगर्भालङ्कारतन्त्रनामव्याख्याद्वारा त्रिज्ञाननिर्देशः, १०.क्रोधदेवयोगात् शत्रुनाशविधिः, ११. तन्त्राणां संख्या ( तन्त्रशास्त्राणां भेदाः) १२. पञ्चतथागतकुलानां समयः, आदिकर्मिकसमयः चतस्रो मूलापत्तयः, स्थूलपत्तयश्च, भक्ष्यसमयः प्रयोजनवशादुपदिष्टान्यसमयः उच्चस्तरीययोगीनां कृते निर्दिष्टसमयस्तथा सम्वरश्च। १३. महावेतालीसाधना, १४. गुरोर्भेदस्तस्य सेवनविधिस्तथा गुण-सहितस्य प्रज्ञालक्षणस्य परीक्षा, १५. प्रभास्वरप्रकटीकरणविधिः सर्वचर्यापरिच्छेदः १६. उत्पत्तिक्रमेण सम्बद्धं त्रिध्यानं, पञ्चाभिसम्बोधिः, निष्पन्नक्रमः त्रिशून्यता, आलोकः आलोकाभासस्तथाऽऽभासलब्धस्य विषयः, बाह्याभ्यन्तराणि दशतत्त्वानि, तथा च योगसाधनाविधेः प्रतिपादनम्। अन्ते पार्षदद्वारा साधु साध्विति सहर्षोद्धोषेण ग्रन्थसमाप्तिर्जायते। बुस्तोनमहोदय एनं गुह्यसमाजस्य व्याख्यातन्त्रमिति कथयति, यतो ह्यत्र मन्त्रज्ञानाभ्यां कायोत्पत्तिर्विस्तरेण प्राकाशि। 


कृष्णयमारितन्त्रम् 


मनीषिणः कृष्णमारितन्त्रं वैरोचनकुलस्य देव इत्यामनन्ति। महाकृष्णपादा अकनिष्ठभुवने अस्य देशनां स्वीकुर्वन्ति। आचार्यश्रीधरस्य कथनमस्ति यद् धर्मधातुविमानमण्डले स्थिरीभूय निर्वाणावाप्तिसमये मारादिभिर्विघ्न उत्पादिते महामारविजयसमाधिस्थः कृष्णयमारिरूपेण प्रकटीभूय वज्रपाण्येऽस्य तन्त्रस्य देशनां कृतवानकथयच्च त्वमपि एवमेव कृष्णयमारिरूपेण प्रकटीभूय विघ्नं विनाशयेत्युक्त्वा स बृहद् कृष्णयमारितन्त्रमुपदिष्टवान् पुनश्च वज्रपाणिरपि १३ देवसमूहमण्डलदेवतादियुतस्य कृष्णयमारिसंग्रहतन्त्रस्य देशनां कृतवान्। अत्र १८ पटलानि सन्ति-तद्यथा-१. अभिसमयपटलम्, २ . मण्डललेखनपटलम्, ३ . कर्मयोगपटलम्, ४. चतुःकर्मयोगपटलम्, ५. वज्रानुपूर्वं यन्त्रलेखनक्रमपटलम्, ६. वलिविधिपटलन्तथा यन्त्र-तन्त्र न्यासविधिपटलम्, ७. आकर्षणादिपटलम्, ८. रक्षाचक्र- देव्यधिष्थान-मण्डल-प्रवेशादिहोमपटलम्, ९. यमारिभीमो नाम पटलम्, १०. वेतालसाधनाऽनुस्मृतिपटलम्, ११. चर्यालक्षणं- मुद्रासाधनोपायिकादिचर्या-समयपटलम्, १२. सर्वोपायिकविशेषकनामपटलम्, १३. सिद्धिनिर्णयपटलम्, १४. मञ्जुश्रीवज्रसाधनापटलम्, १५. अनङ्गवज्रपटलम्, १६. हेरूकसाधनापटलम्, १७. उत्पत्तिक्रमस्य चतुर्योग-निष्पन्नक्रमबोधिचित्तपटलम्, १८. पटलमिदं कथा-पटलनाम्नाऽवगम्यते। तन्त्रमिदं मूलसंस्कृते सारनाथस्थितदुर्लभबौद्धग्रन्थशोधानुभागेन केन्द्रीय- उच्चतिब्बतीशिक्षासंस्थानस्य प्रकाशितमस्ति। कृष्णयमारितन्त्रे अनेक-पञ्जिकास्तथा टीकाः सन्ति। यत्र श्रीधरस्य पञ्जिकासहलोकः, रत्नाकरशान्तिपादस्य पञ्जिकारत्नप्रदीपः रत्नावलिपद्यपाण्योश्च पञ्जिकाः प्रमुखाः सन्ति। यमारितन्त्रस्य साधना बौद्धेतरेऽपि प्राप्यते। 


नामसङ्गीतिः 


नामसङ्गीतौ मन्त्रविन्यासं परिहाय पूर्णाः १६५ श्लोकाः सन्ति। तिब्बती-भाषायामनुशंसाऽपि पद्ये कृता, किन्तु संस्कृते गद्य एव प्राप्ता भवति। नामसङ्गीतिः १३ भागेषु विभक्ता। यथा- अध्येषणा १६ श्लोकेषु, प्रतिवचनं ६, षट्कुलाऽवलोकनम्, २. मायाजालाभिसम्बोधिः, ३. वज्रधातुमण्डलम् १४, सुविशुद्धधर्मधातुमण्डलम् २५, आदर्शज्ञानम् १०, प्रत्यवेक्षणज्ञानम् ४१, सुविशुद्धधर्मधातुमण्डलम् २५, आदर्शज्ञानम् १०, प्रत्यवेक्षणज्ञानम् ४१, समताज्ञानम् २४, कृत्यानुष्ठानज्ञानम् १५, पञ्चतथागतज्ञानस्तुतिश्च ५, तथा चान्ते मन्त्रविन्यासः- अनुशंसा-अनुमोदनादीनि ४ श्लोकेषु प्रतिबद्धानि सन्ति। कोङ्टुल रिनपोछे महोदयस्य मतमस्ति यद् मायाजालाभिसम्बोधेः श्लोकत्रयम् एव मूलतन्त्रमस्ति। अन्ये शेषाः श्लोकाः तद्व्याख्यारूपेण प्रतिपादिताः सन्ति। 


नामसङ्गीतितन्त्रस्य विद्वद्भिर्विभिन्नपरम्परासु व्याख्या कृता। बोधिसत्त्वेन कालचक्रपरम्परायां, लीलावज्रेण अनुत्तरपितृतन्त्रपरम्परायां, मञ्जुश्रीकीर्तिमञ्जुश्री मित्राभ्यां योगतन्त्रपरम्परायामस्य व्याख्या कृता। तिब्बते सर्वप्रथममस्य महाननुवादो रत्नभद्रेण कृतः तदनन्तरं महानुवादोऽनेकशो जातः। तिब्बते स्मृतिज्ञानत आरभ्य ङोग धर्मवज्रपर्यन्तमस्य योगतन्त्रे व्याख्यायाः परम्परा समागता आसीत्। मैत्रीपादतो मरपाधर्ममतिं यावद् अनुत्तरतन्त्रे प्राप्ता व्याख्यापरम्परा तिब्बतेऽद्यापि विद्यमानाऽस्ति। अस्यानेकटीकोपटीकाः परिष्कराग्रन्थाः सन्ति। यत्र रविश्रीमहोदयस्य अमृतकणिकानाम आर्यनामसङ्गीतिटिप्पणी विद्यते। अनुपमरक्षितस्यामृत-बिन्दुप्रत्यालोकवृत्तिः, राज्ञः पुण्डरीकस्य नामसङ्गीतेष्टीका विमलप्रभा, विलासवज्रस्य नाममन्त्रार्थविलोकिनी, मञ्जुश्रीकीर्तेः नामसङ्गीतिटीका, अवधूतीपादस्य वृत्तिः स्मृतिज्ञानस्य नामसङ्गीतिलक्षभाष्यम्, चन्द्रगोमिनः महाटीका, डोम्बीहेरूकस्य वृत्तिः , विमलमित्रस्यार्थप्रकाशकरणदीपादयश्च प्रमुखाः सन्ति। तंग्युरे नामसङ्गीतेः न्यूनतः ५० ग्रन्थाः समुपलभ्यन्ते। 


मातृतन्त्रस्याभ्युदयः 


मातृतन्त्रस्याप्यनेके आगमग्रन्था उपलभ्यन्ते। तेष्वत्र केषांचिन्महत्त्वपूर्णग्रन्थानां परिचयो दास्यते, येन मातृतन्त्रा ( प्रज्ञातन्त्रस्य ) भ्युदयः तथा तदभिधेयश्च प्रकाशितौ स्याताम्। 


सामान्यतोऽभिधानोत्तरतन्त्रकथनानुसारं योगोत्तरतन्त्रे षट्कुलानां व्याख्या समुपलभ्यते। यथा-हेरूक-वैरोचन-वज्रतूर्य-पद्यनर्तेश्वर-अश्वश्रेष्ठ-वज्रधरादयश्च। एषां षट्कुलानां स्वीयः स्वीयः स्वतन्त्रग्रन्थोऽस्ति। सर्वबुद्धसमयोग-डाकिनीजाल-संवरतन्त्रे षट्कुलीयविषयाणां समानरूपेण व्याख्या लभ्यन्ते। अतः कतिपयैर्मनीषिभिरयं प्रज्ञातन्त्रस्य प्रधानग्रन्थः स्वीकृतः। यद्यपि शास्ताऽनन्तकल्पपूर्वमेव सम्बोधिं लेभे किन्तु करूणया प्रेरितो भूत्वा अस्य भद्रकल्पस्यारम्भे वज्रधरः स्थावरजंगमो-भयविशुद्धिकरणस्याभिप्रायतो निर्माणकाये प्रकटीभूय अस्य तन्त्रस्य सुयोग्यान् देशयितुं सुमेरूपर्वते मण्डलनिर्माणं विधाय ४२ कल्पेषु २१०० श्लोकेषु देशनां कृतवान्। अस्यैव संग्रहतन्त्रे १० कल्पसमन्वितानां, उत्तरतन्त्रे ७ कल्पसमन्वितानां तथोत्तरोत्तरतन्त्रे ५ कल्पसमन्वितानां ग्रन्थानामपि क्रमश उपदेशः कृतः। अत्रेदानीं मूलतन्त्रस्योपलब्धिर्न जायते। 


१० कल्पसमन्विते संग्रहन्तन्त्रे निम्नाङ्किता विषयाः सन्ति। १. विषयिज्ञानविषयधर्मधात्वोरनुसारं दर्शनस्य प्रतिपादनम् सामान्यविशेषचर्य्ये-प्रतिबिम्बक्रमद्वारा मण्डल-अभिषेकसलक्षणनिर्लक्षणध्यानम्, फ़लम्, बुद्धकुलम्, बुद्ध-निराभोगलक्षणम् तधेतुगुणसमूहसाधना, स्वकाय-भिन्नदेव-भावनाविरोधः, यानभेदो महाहितं तथागतानां कृत्यादिविषयाः प्रथमकल्पे समुपवर्णिताः सन्ति। २ . द्वितीयकल्पे-सामान्यदर्शनलक्षणं, बोधिविधिः तधेतुचर्या, दर्शनबोध-गुणः साधना-गुणः, मार्गप्रवेश-आधारः वज्रसत्वयोगश्च एते विषयाः प्रतिपादिताः सन्ति। ३. तृतीयकल्पे-साधना-सामान्यलक्षणम्, साधनार्थसाधनोपायः, सेवादिसाधनाया-श्चतुरङ्गानि वज्रसमयश्च एते विषयाः निरूपिताः सन्ति। ४. चतुर्थकल्पे-चर्या-सामान्यलक्षणम्, स्वार्थ-चर्या, परार्थ-चर्या, चर्याफ़लम्, मार्गधर्मफ़लयोः प्राप्त्यनन्तरं कृत्यादिविषयाः वर्णिताः, सन्ति। ५. पञ्चमकल्पे वज्रतत्त्व-वैरोचन-हेरूक-पद्यनर्त्येश्वर-वज्रतूर्य-हयग्रीवादीनामुच्छ्वाससंग्रहस्तथा तद्विस्तृतकथेतिहास एवम् अनुयायिनां साधनाध्यानयोर्गुणकथा वर्णिता। ६. षष्ठकल्पे- गणचक्रव्याख्या- स्वीकृतिः, देवलक्षणम्, पुण्यसंभारमण्डलम्, ज्ञानसंभारमण्डलं-प्रवेशविधिः शिष्य-कर्मक्रमः, मण्डलप्रवेशविधिः, अभिषेकः, सामान्यकृत्यलक्षणम् समयसंवरादयो निरूपिताः। ७. सप्तमकल्पे-प्रतिबिम्बमण्डलस्य सारांशः, ऐच्छिकं स्थानम्, मण्डलविधिः मण्डलप्रवेशकर्म, प्रवेशानन्तरमभिषेकप्राप्तिः मण्डले स्थापयितव्यानां द्रव्याणां सम्बन्धसामान्यलक्षण-निर्देशेन साधकस्य स्वमण्डलमुद्राणामवगतिः, एते विषयाः सन्ति प्रतिपादिताः। ८. अष्टमकल्पे-संग्रह-वन्दना-द्वारपूजा-सर्वपूजा-समयोग-समयकल्पादयो निरूपिताः सन्ति। ९. नवमकल्पे-महामुद्राद्वारा मुद्रण-विधिः समयमुद्रानिर्देशः स्वाधिष्ठानम्, चतुर्योगानां पूर्वकर्म, विभिन्नयोगाः दृष्टिबन्धः, विभिन्ननृत्यम्, गीतिः-प्रतिसेना-साधनाविधिः तथा विभिन्ना २७ विधयोऽत्र समुपबृंहिताः सन्ति। १०. दशमकल्पे व्याख्या-प्रतिज्ञा-मण्डलभावनाद्वारसाधना-फ़लादीनां प्रतिपादनेन सह ग्रन्थस्य समाप्तिर्भवति। 


हेरूककुलम् 


हेरूककुलिकतन्त्रेषु चक्रसंवर-हेवज्र-बुद्धकपाल-महामाया रिगि-अरिलि-द्वयादि तन्त्रपञ्चकादीनि समाहितानि। 


चक्रसंवरः 


चक्रसंवरतन्त्रस्य देशनां धान्यकटके स्वयं शास्ता चक्रसंवररूपेण प्रकटीभूय चकार। अस्य देशनासम्बन्धे विद्वत्स्वनेकमतमतान्तरं समागतमस्ति। बुस्तोनेन सामान्यतन्त्रे सविस्तरमस्य वर्णनं कृतम्। हेरूकमूलतन्त्रे ५१ परिच्छेदाः सन्ति। अस्य प्रारम्भे 'एवं मया श्रुतम् ' नास्ति। लावापाद एवम् उत्तरतन्त्रं स्वीकरोति अत एव ' एव मया श्रुतम् ' नास्ति। आचार्यजिनभद्रमतानुसारं भगवान् कदापि न महापरिनिर्वाणमाप्नोति। अत एवं मया श्रुतमित्यस्यावश्यकता नास्ति। ग्रन्थस्यास्याभिधेयः परिच्छेदानुसारं निम्नाङ्कितो विद्यते -


१. तन्त्रप्रयोजनम्, कुलपूजा, बोधिसत्त्वपूजा, पापप्रायश्चित्तत्तो योग-साधना, समय-रक्षा, अमृत-भक्षणम्, अमृतपानम्, समापत्तियोगः, तद्भूतसुखस्य प्रशंसा, मण्डल-लेखनम्, मण्डलप्रवेशादिश्च। २. मण्डललेखनं, पूजानिर्देशश्च, ३. शिष्यस्य मण्डलावतारणम्, अभिषेकस्तद्गुणश्च , ४ . २४ योगानां माता-पितृ देवयोर्न्यासविधिः, ५. मूलतन्त्रव्यञ्जनसमुच्चयः, ६. षड्वीरकवचमन्त्रसमुच्चयः, ७. मूलतन्त्रस्य स्वराक्षरसमुच्चयः, ८. मूलमन्त्रस्वरसमुच्चयः, उपहृदयम्, षड्वीरकवचमन्त्रसमुच्चयश्च, ९. मूलमन्त्रस्तत् ५० कर्माणि च, १०. कायत्रयस्य लक्षणं साधना-विधिश्च, ११. सप्तजन्मलक्षणन्तद्भक्षणगुणश्च, १२. उपहृदयकर्मसमूहः, १३.षड्वीरकवचकर्मसमुच्चयः, १४. चक्रसंवरगर्दभमुखसाधनाविधिः, १५. एकैकस्याक्षरस्य संकेतः, १६. सप्तकुलदेवीनां कुलभेदः षड्योगिनीनां भेदो लक्षणं च , १७. चक्रत्रयस्य योगिनीनां सप्तभागेषु संग्रहस्तेषां लक्षणं च , १८. डाकिनीनां लक्षणनिरूपणम्, १९. लामाकुलस्य लक्षणं तन्मुद्रामुद्रोत्तरे च, २०. हस्तसंकेतः, २१. कायांगनिर्देश-संकेतः संकेतोत्तरञ्च, २२. हस्ताङ्गुलीद्वारा क्रियमाणमुद्रा, २३. योगिनीलक्षणम्, २४. वाक्संकेतः, २५. मूलमन्त्रः , २६. शिष्यपरीक्षा, २७. चर्या-व्रत-पूजा-बलि- विधयश्च, २८. आभ्यन्तरहोमः, २९. दूतीलक्षणम्, उष्णताप्राप्तिबलम्, ३०. चतुर्मुखदेवस्य मन्त्रसमुच्चयः, ३१. भक्ष्य-होम-बलिविधिः हस्ताधिष्ठानं च, ३२. मांसमय-द्रव्यसाधना, वेतालसाधना च, ३३.गुह्यपूजा, ३४. दूतीहोमविधिः कर्मविधिश्च, ३५. प्रज्ञोपायः अद्वयसाधना च , ३६. तत्त्वपूजा, ३७. अध्यात्मवशीकरण-विधि, ३८. योगिनीसाधना, स्थलादिः, ३९. तत्त्वचोदनं, ह ह अट्टहासविधिश्च, ४०. राजकुलादिपञ्चकुलानां वशीकरणं महामुद्रासेवनविधिश्च, ४१.द्वादशाङ्गकर्म-साधनोपायिका, २४. अक्षराणां मण्डलन्यासविधिश्च, ४२. मुद्रायां ससमापत्ति-महामुद्रादिः, ४३. मूलमन्त्रः हृदयम् उपहृदयम् विशेषोपहृदयम् तप्ताक्षरद्वारा कर्मसाधनाविधिश्च, ४४. सप्ताक्षराणि षड्योगिनीनां कर्मसमूहविधिश्च, ४५. षड्योगिनीमन्त्रकर्मसमूहः समयसिद्धेः व्याकरणविधिश्च, ४६. पञ्चाक्षरकर्मसमूहविधिः, ४७. योगिनीहृदयकर्मसमूहः , ४८. हृदयमन्त्रस्य गुणसहितव्याख्या, ४९. सप्तजन्मसु गृहीतमांसस्याश्रय- सिद्धिसाधनाविधिः, ५०, द्रव्यद्वारा सहोमप्रसरकर्मसाधनोपायिका, ५१. उत्पत्तिक्रमस्य १४ तत्त्वानि तथा तन्त्रमहत्त्वस्य निर्देशः इति विषयनिरूपणेन ग्रन्थस्य समाप्तिः कृता। 


हेवज्रतन्त्रम् 


हेवज्रतन्त्रमपि मातृतन्त्रस्यैकः प्रमुखो ग्रन्थोऽस्ति। अस्याभ्यन्तरीयाः सप्तभेदाः सन्ति। यथा - ( क ) मूलतन्त्रम्, ( ख ) संग्रहतन्त्रम्, ( ग ) उत्तरतन्त्रम्, ( घ ) उत्तरोत्तरतन्त्रम्, ( ङ) व्याख्यातन्त्रम् ( च ) हृदयतन्त्रम् , ( छ ) फ़लतन्त्रञ्च। हेवज्रमर्थात् मातृतन्त्रं सम्यक्तयाऽवगन्तुम् एषां सप्ततन्त्राणामध्ययनमपेक्षितं भवति। अत्र एषु ग्रन्थेषु प्रतिपादितविषयाणां परिचयं प्रकाशयता विषयवस्तु प्रकाशयिष्यते। 


आचार्यकामधेनोर्मतानुसारं हेवज्रस्य देशना, निर्वाणानन्तरं वज्रगर्भनैरात्म्या-नेकलोकलोकोत्तरसत्त्वानां कृते कृता। बृहन्मूलतन्त्रं  त्वज्ञातम्। द्वितीये ३२ कल्पाः सन्ति। १ . वज्रगर्भाभिसम्बोधिकल्पराजः, २ . मायाकल्पः, ३. वज्रनृत्यकल्पः, ४.विभिन्नकल्पः, ५. वज्रकल्पः, ६.महावज्रकल्पः, ७. अचलकल्पः, ८.धारणीकल्पः, ९. डाकिनीकुरूकुल्लाकल्पः, १०. महाभैरवकल्पः, ११. वैरोचनकल्पः, १२. सिद्धिकल्पः, १३. ताराकल्पः, १४. चक्रपाणिकल्पः, १५. तेजः कल्पः, १६. नैरात्म्यकल्पः, १७. यमान्तककल्पः, १८. हुंकृतकल्पः, १९. प्रतिसराकल्पः, २०. होमकल्पः, २१. प्रतिष्ठानकल्पः, २२. महामण्डलकल्पः, २३. बलिकल्पः, २४. समन्तकल्पः, २५. अभिसमयकल्पः, २६. मुद्राकल्पः, २७. मुद्राभेदकल्पः, २८. नागकल्पः, २९. नृत्येश्वरकल्पः, ३०. वज्रपाणिकल्पः, ३१. योगिकल्पः, ३२. योगिनीकल्पश्चेति। 


केचन विद्वांसः कल्पद्वये उपलब्धस्य वर्तमानहेवज्रतन्त्रस्य वज्रगर्भाभि-सम्बोधिः प्रथमः कल्पस्तथा द्वितीयो मायाकल्पश्चेति स्वीकुर्वते। अन्ये केचन विद्वांसोऽन्तिमौ योगिकल्पयोगिनीकल्पौ तथा भवभद्रोदयौ ३२ कल्पातिरिक्तं बृहन्मूलतन्त्रतो विनिर्गतं हेवज्रं स्वतन्त्रग्रन्थत्वेन स्वीकुर्वन्ति। वर्तमानसमये कल्पद्वये तथा २५ पटलेषूपलब्धो हेवज्रः मध्यममूलतन्त्रस्यांगभूतः। अस्य प्रथमकल्पे ११ पटलानि सन्ति। तद्यथा- १. कुलपटलम्, २. मन्त्राटलम्, ३. देवपटलम्, ४. देवाभिषेकपटलम्, ५. तत्त्वपटलम्, ६. चर्यापटलम्, ७. होमपटलम्, ८. योगिनीचक्रपटलम्, ९. विशुद्धिपटलम्, १०. अभिषेकपटलम्, ११. वज्रगर्भाभिसम्बोधिपटलम्। 


द्वितीयकल्पे १२ पटलानि सन्ति। यथा- १. होमनिर्णयपटलम्, २. सिद्धिनिर्णयपटलम्, ३. निदानसन्ध्याभाषापटलम्, ४. संवरभेदबलैविधिः मुद्रादिपटलं च ५. अभ्युदयपटलम्, ६. विधानपटलम्, ७. भोजनपटलम्, ८. विनेयपटलम्, ९.मन्त्रोद्धारपटलम्, १०. जपपटलम्, ११. सहजार्थपटलम्, १२. उत्तराभिषेक-समापत्ति-मन्त्रनिर्देशादिपटलम् एभिर्विषयैः चेति द्वितीयमायाकल्पः सम्पद्यते। 


डाकिनीवज्रपञ्जरः 


अस्य प्रारम्भे 'एवं मया श्रुतम्' न प्रयुज्यते यतो ह्येतस्य बृहन्मूलतन्त्रानन्तरमुपदिष्टत्वात्। अत्र १५ परिच्छेदाः सन्ति। यथा- १. मन्त्रोपायविशेषता, २. प्रतिकुलानां स्वपूजाविधिः, महाबलानुसारं वृष्ट्यादिविधिश्च, ३. सर्वभूतबलिविधिः नामाभिषेकानुसारं नामभेदश्च, ४. मूलतन्त्रीयकल्पानां वृष्ट्यादिविधिश्च, ३. सर्वभूतबलिविधिः नामाभिषेकानुसारं नामभेदश्च, ४. मूलतन्त्रीयकल्पानां संख्या मूलतन्त्रतः संग्रहतन्त्रस्य संग्रहविधिश्च, ५.संग्रहतन्त्रे संगृहीतकरणस्य प्रयोजनम्, साधनास्थलम्, अनुचरदेवानां वर्णः, प्रमुखायुधानि, डाकिनीशब्दस्य निरूक्तिः, मातृतन्त्रस्याभिप्रायः नैरात्म्यमण्डलम्, विद्याभिषेकविधिः, उत्पत्तिक्रमस्य त्रिध्यानविधिश्च, ६. सूक्ष्मयोगविधिः, वज्रकायः, तत्त्वभावनाप्रकाशः ७. उत्पत्तिक्रमिकषडङ्गानां मन्त्रः, चतुरभिषेकाणामभिप्रायः, भक्ष्यसमयः पञ्चकुलीयभावनाया गुणः, विशुद्धदेवनिर्देशश्च, ८. स्रवितगीतिचोदनम् काय-वाक्-चित्त-आयतन-अधिष्ठानानां भाव्नागुणः, वज्रतारामण्डल-साधनोपायिका, प्रज्ञापारमिता-साधनोपायिका, होमविषयादि-निर्देशश्च, ९. सुप्रतिष्ठानं कीलयोगादिः १०. अभिज्ञासाधना, ११. चतुःकर्मद्वारा-सारार्थविधिः, १२. साध्नास्थलम्, बृहदभिसमयः नैरात्म्यमण्डलं च, १३. पितृमातृतन्त्रयोर्भेदः पितुः- मातुस्तथाऽन्यतन्त्राणां भेदः बुद्धशासनस्य निरूपणम्, समयनिर्देशश्च, १४. विद्याधर-कज्जलकर्ममुद्रादीनां सेवनविधिः स्वाधिष्ठानक्रमस्य गुणः उत्पत्तिक्रमभावनाया अभिप्रायः बुद्धत्वादीनां प्रतिपादनम्, बोधिचित्तं शरप्रक्षेपयोगः वाद्ययोगः, पूजाविधिः नृत्यम् सामूहिकपूजाविधिः होमगुणाः वज्रपद्याधिष्ठानं, मुद्रायोग-गुणः, नृत्यपादबन्धः हस्तबन्धः गीतिगानविधिश्च, १५. हेरूककुरूकुल्लाद्योः साधनोपायिका, निदानव्यवस्था, मुनि-मञ्जुश्री-चतुर्धारा जम्भल-तारा-चुन्दा-महाकालादीनां साधना, अभिषेकः, मूलापत्तिभेदः समयनिर्देशस्तथाऽन्ते पार्षदद्वारा भगवतः स्तुतिश्च। 


श्रीमहामुद्रातिलकम् 


अत्रापि 'एवं मया श्रुतम् ' इति नास्ति। यतो ह्यस्य देशना मूलतन्त्रस्य पञ्चलक्षश्लोकात्मकमध्यममूलतन्त्रस्यानन्तरं तस्मिन्नेव मण्डले गुह्यवज्रयोगिनीतन्त्रस्य महामुद्रातिलकद्वारा मुद्रणार्थं कृताऽऽसीत्। अत्र २७ परिच्छेदाः सन्ति। यथा १. ५४ तान्त्रिकहेतूनां परिच्छेदाः, २. आचारशिष्ययोः, परीक्षा आभिषेकश्च, ३. षड्योगानां लक्षणं षट्चक्राणां स्वरूपं च , ४. षट्चक्रेषु स्थितानां नाडीनां संख्या-नाम-स्थितयश्च, ५.प्राण-रात्रि-दिवा-मध्यान्तर-अस्त-उदयादीनां विधिः, ६. आलि-काल्योरूद्भवः काललक्षणं, त्रिचित्त-प्रभास्वर-धर्मधातूनां विधिः, ६.आलि-काल्योरूद्भवः काललक्षणं, त्रिचित्त-प्रभास्वर-धर्मधातूनां निर्देशश्च, ७. अहं शब्दस्य व्युत्पत्तिः, ८. मातृतन्त्रस्य निदानं, गुह्यचतुरानन्दाः, पञ्चकुलानां लक्षणं च , ९. षड्लङ्काराः मुद्रासङ्केतः मुद्रापूजाविधिश्च, १० . मण्डल-देवी-बाह्याभ्यन्तरपीठ-श्मशानानि तत्पूजाविधिश्च, ११. आभ्यन्तरपरमार्थहोमः, १२. पञ्चामृतरसपानम्, १३.योगिनीमेलापकस्थाने प्रयोगार्हगुह्यशब्दः वाक्सङ्केतश्च, १४. हस्तमुद्रा, १५. वर्णगन्धलक्षणादिभिर्दूतीकुलपरीक्षा, १६. ३२. देवमण्डलानामुत्पत्तिक्रमः, निष्पन्नक्रमः, चण्डालीभावनया चतुरानन्दानाम् उत्पत्तिविधिः तिलकलक्षणम्, क्रमद्वयस्य भावना-विधिः, १७. तिलकज्ञानयोः स्थानम्, मूलचर्यादिः, १८. बोधिचित्तस्य स्थिरतायै ध्याननिर्देशः, १९. अभिषेकज्ञानम् आलि-कालि-कार्यकारणं नाडीतिलकानन्दानां प्रतिपादनं च। २०. योगेश्वरचर्या, २१. घटचक्रबीजमन्त्रयोः समुच्चयः २२. पञ्चामृतभक्षणं, चर्या, २३. बलिविधिश्च, गणचक्रविधिश्च, २४. प्राणायामः, मनोमयजपः प्रकृतिजपश्च, २५.चतुर्योगानां ३२ नाडीग्रन्थीनां च निर्देशः, २६. रहस्यमन्त्रस्य प्रकटीकरणम्, २७. महामुद्रा, सप्तजन्म-सेवनद्वारा साधनाविधिश्च, २८. प्राणायामः मनोमयजपः प्रकृतिजपश्च, २९. महामुद्राऽवबोधस्योपायः चतुष्पीठार्थस्य स्पष्टनिरूपणं च। 


श्रीज्ञानगर्भमहायोगतन्त्रम् 


देवीभिः कृते प्रश्ने शास्ता तन्त्रस्यास्योपदेशं सुमेरूपर्वते चक्रे। अत्र चतुः परिच्छेदाः सन्ति। प्रथमे-आनन्द-परमानन्द-विरमानन्द-सहजानन्दानामर्थं स्पष्टी-कृतवान्। द्वितीयपरिच्छेदे-महामुद्रातिलके समागताया महामुद्रायाः प्राप्ति-उपाय-प्रसङ्गतः चतुरभिषेकाणां प्राप्तिः, आलोक-आलोकाभास-तथ्यज्ञान-प्रभास्वराणा-मर्थात् महामुद्राप्राप्तिविधिरभिहितः, तृतीयपरिच्छेदे-चतुरभिषेकेषु मण्डलभेदस्य प्राप्तिविधिरहितः चतुरभिषेकाणां मण्डलभेदः, आचार्यलक्षणम्, शिष्य-प्रवेशः अभिषेकमण्डलयोरर्थः प्रकटीऋतोऽस्ति। चतुर्थपरिच्छेदे-मण्डलाभिसमयं तन्मन्त्र-समुच्चयोपायं तथा सद्गुणान् स्पष्टीकृत्य शास्ताऽन्तर्हितो जातः। 


ज्ञानतिलकमहायोगिनीतन्त्रम् 


१. शास्ता वज्रयोषिद्भगं प्रविश्य बोधिसत्वदेवेन्द्रं सम्बोध्याश्रयनाडीम् आश्रितवायोर्वस्तुस्थिरत्वं तथा १६ अर्धयामानामुदयास्तयोः स्थितिं व्यक्तवान्। २. त्रितत्त्वात्मक- परमचन्द्रसुखस्य महामुद्रापक्षस्य च निर्देशः, ३. ३२ नाडीनां नामानि, तन्त्रक्रमानुसारमभिषेकविधिभेदः, दक्षिणार्पणम्, ४. रक्षाचक्र-भावनाविधिः, ५. मन्त्रसमुच्चयः, ६. बाह्याऽभ्यन्तरयज्ञविधिः, ७. पूजागीत्योरर्थनिर्देशः, ८. चतुः कर्मानुसारं चतुर्धा होमविधिः, ९. गणचक्रविधिः महाबलियोगलक्षणम्, गुह्यशब्दहस्तमुद्रापरिच्छेदश्च, १०. अष्टाननस्य १६ भुजयुक्तस्य हेरूकस्य मण्डलम्, अभिसमयादिश्च, ११. मन्त्रजापक्रमः यज्ञः, मण्डलम् उत्पत्तिक्रमः पीठार्थः नाडीचक्रम्, तत्वार्थपरिच्छेदश्च, १२. १६ अर्थयामेषु तिलकस्य विलयोपभोगौ, अधिकृतक्रमः वाक्संकेतश्च, १३. अभिषेकभेदः चतुरानन्दानां भेदः, अभिषेकनिरूक्तिः अभिषेकविधिश्च, १४. होमस्य नीतार्थः, विभिन्नपूजा, आभ्यन्तरहोमविधिश्च, १५. बलिनीतार्थः, १६. आलोकाभासादित्रिसत्त्वानां सविस्तरनिर्देशः १७. अष्टानां श्मशानानां नीतार्थः आभ्यन्तरध्यानोपगमः, १८. ज्ञानतिलकस्य परिमाणपीठम् १६ भूमीनां निर्देशश्च, १९. गुरूशिष्ययोः परीक्षा, २०. मूलतन्त्रादीनां क्रमः तन्त्रस्य निरूक्तिश्च, २१. भगवतीमहामुद्रायाः स्वरूपनिर्देशः २२. गुह्यार्थसहजज्ञानस्य निर्देशः, २३. आयुधमण्डललेखनविध्यादिः, २४. चतुरभिषेकमण्डलस्य भेदः, चतुरभिषेकाणां विधिः आयुधमण्डललेखनविधिश्च, २५. चतुरानन्दानां स्वरूपम् तदुत्पत्तिविधौ विस्तृतप्रकाशश्च, २६. तत्त्वसंग्रहः, २७. हेरूकनिर्देशः, २८. चक्रपाणिव्याकरणम्, तद्द्वारातन्त्रव्याख्या तन्त्रसंग्रहकर्तुः रूपे आगन्तुं भविष्यवाणी, वज्रपाणेः स्वरूपस्य विस्तरश्च, २९. पार्षदस्य शास्तुः प्रशंसा च, ३०. आभ्यन्तर षड्विज्ञान-प्रशंसा चेति विषयान् प्रदर्श्य ग्रन्थः सम्पद्यते। ३१. सिद्धिनिर्देशतिलकनामतन्त्रं हृदयतन्त्रमभिधीयते, यच्च तिब्बतीभाषायामनुपलब्धम्। 


श्रीतत्त्वप्रदीपः


शास्ता प्रज्ञापारमितानामभगे स्थिरीभूय वज्रधारणीश्वरं निदानशब्दस्यार्थात् 'एवं मया श्रुतम् ' इत्यस्य नीतार्थव्याख्यामुक्त्वा क्रमशः ज्ञानतिलके समागतानां २२ तत्त्वानां भूमीश्वर-चर्याकाल-अभिषेकभेद-अचिन्त्यज्ञान-अभिषेकार्थ-आभासादि चतुर्ज्ञानानां प्रकृत्यादेश्च वर्णनं करोति। 


बुद्धकपालः 


बुद्धकपालस्य देशना चक्रपाणिना निवेदिता प्रज्ञापारमिता करोति। अत्र १४ परिच्छेदाः सन्ति। १. तन्त्रनाम-सिद्धिसंग्रहः, ज्ञानावेशः, निदानं-चैतद्विषयैः प्रथमपरिच्छेदः समाप्तिं भजते। २. श्रवणार्थोपदेशः भस्मसेवनेन विभिन्नकर्मयोगस्य प्रतिपादनम्। ३. हेरूकस्य नवदेवमण्डलानामुत्पत्तिः अभिषेकविधिश्च, ४. सारिकायोगः, मण्डलानां लेखनं, शिष्यावतारणा, अभिषेकः सारिकायोगविस्तारविधिश्च। ५. द्रव्यरसायनं, वाक्सङ्केतः, ( छोमा ) भद्रौषध्यादिः, ६. प्रज्ञाधर्मोदयमण्डले शिष्यस्याभिषेकमण्डलविसर्जनम्। ७. हेरूकेन सह २५ देवमण्डलानां लेखनं तदुत्पत्तिविधिश्च, ८. चतुःकर्मणां होमविधिः, ९. चर्यापरिच्छेदः, १०. पारसविधिः बन्ध्यातः सन्तानो-त्पत्त्यादिः, ११. गरूडमण्डललेखनं, शिष्याभिषेकद्वारा विद्याधरपदस्य प्रज्ञप्तिविधिः, १२. अंजनखड्गादिभिर्विभिन्नकर्मसाधनं, १३. मुद्राऽऽनन्दाभ्यां चित्तशुद्धिः, १४. वज्रपाणिपार्षदानां मातुः स्तुतिरितिविषयनिरूपणेन मन्त्रजाप-वज्रजाप-प्रज्ञामातृ-देव्यभ्यर्थनादिविधिना च सह तन्त्रमिदं समाप्तिं गच्छति। 


महामायतन्त्रम् 


अस्य प्रारम्भे ' एवं मया श्रुत'मिति नास्ति, यतो हि अनुत्तरमहायान-परम्परानुसारं भगवतो महापरिनिर्वाणस्य प्राप्तेरमान्यत्वात्। भगवान् लोके सततं स्थितोऽस्ति। अतः संग्रहकर्त्रा ग्रन्थोऽयं संगृहीतो नास्ति। इत्थं केषांचिद् विदुषां मान्यता विद्यते। तिब्बतीयाः केचन विद्वांसः महामायायाः प्रथमं मङ्गलाचरणीयं श्लोकद्वयं गुरूकुकुरीपादेन रचितमित्यामनन्ति। अत्र परिच्छेदत्रयमस्ति। प्रथमपरिच्छेदे- महामायायास्तत्त्वनिर्देशपूर्वकं तत् प्रकृतिपार्थिवफ़लपर्यन्तफ़लानां विशेषमार्गस्य च निरूपणम्, आलि-कालि इत्यादि मन्त्रः धर्मयोगः गुटिकासाधनं, शुक्राकृष्टिः , पिण्डाकृष्टिः चन्द्रपानादेर्गुणः सिद्धिलक्षणादीनां निर्देशः कृतोऽस्ति। द्वितीय परिच्छेदे व्याख्यायाः प्रतिज्ञाकरणानन्तरं वज्रजापः त्रियोगगुणः, अधिकार-प्राप्तिः शुक्राकृष्टिः हयग्रीवद्वारा रक्ताकृष्टिः, सूर्य-चन्द्र-सम्पुटसंस्थानयोगस्याभ्यासः, अमृतद्वारा गुह्याभिषेक- निर्देशपटलं च वर्तते। तृतीयारिच्छेदे- अमृतगुटिका, साधनोपायिका च , देवीद्वारा गीतिचोदनं समापत्तिभावनाया गुणश्चेति विषयाणां तथा गुह्योपचर्यादीनां निरूपणेन सह तृतीयपरिच्छेदो विरमति। 


रिगिरलितन्त्रम् 


शास्ता रिगिरूपे स्थितो भूत्वा आरलिना पीठोपपीठादीनां विषये कृते प्रश्ने पीठ-मण्डलदेव-न्यासविध्यादीनां देशनां करोति। यश्च प्रथमारलियोगपरिच्छेदोऽस्ति। द्वितीयपरिच्छेदे-मण्डलपरिसरे नरकलोकस्य लेखनं न्यासकरणस्य प्रयोजनं, वृष्टिविधिः कृष्टावृष्टिविधिः, स्वरक्षा चेति विषयाणाम् अभिषेकक्रमाद्युत्पत्तिक्रमिकावयवानां निर्देशेन सह सर्वकर्मसंग्रहनिदानपरिवर्तनामको द्वितीयपरिच्छेदः पूर्णो भवति। तृतीयपरिच्छेदे-पीठादीनां स्वशरीरे न्यासकरणस्य संकेतितं 'एवं मया श्र्तम्' इत्यस्य व्याख्या चतुर्भूतप्रतिपादनं, तेषां संकेतादि-परिच्छेदः, ४. देवन्यासः स्वदेहस्य बुद्धरूपत्वेन प्रतिपानं च , ५. पवित्रखाद्यादीनां निर्माणं चेति हृदयोपहृदयसमयाभिषेकयोर्लक्षणनिर्देशादिना ग्रन्थसमाप्तिर्भवति। 


वज्रारलिनामतन्त्रम् 


१. शास्ता पारमितानामके भगे प्रतिष्ठाय वज्रपाणये देवाभिसमयं देशयते। यश्च प्रथमपरिच्छेदस्याभिधेयोऽस्ति। अत्र १० परिच्छेदाः सन्ति। २. पार्षदैः बलिमधिकृत्य प्रश्ने कृते बलिविधिपरिच्छेदः ३. समयः-संवरः अभिषेकहोमः मण्डललेखनविधिपरिच्छेदः ४. अभिज्ञासाधनोपायिकापरिच्छेदः ५. वज्रपूजापरिच्छेदः ६. समय-गुरूशिष्यलक्षणपरिच्छेदः ७. चर्यावेतालसाधनोपायिका-परिच्छेदः ८. पार्षदद्वारा परमपदं प्राप्य लीलाचर्यापरिच्छेदः ९. तन्त्रगुणश्चेति विषयेण प्रशंसायोगविधिनिर्देशेन च सह ग्रन्थः सम्पन्नो भवति। केचन विद्वांस एतद् हेवज्रस्य सभागीयतन्त्रमुररीकुर्वते। 


वैरोचनकुलम् 


चतुष्पीठतन्त्रं वैरोचनकुलस्य मूलतन्त्रमस्ति। अत्र पीठचतुष्टयं १६ परिच्छेदाश्च सन्ति। अस्य देशना सर्वज्ञेन सुमेरूपर्वते कृता। अत्र ' एवं मया श्रुतं ' इति नायाति। यतो ह्ययं मूलद्वादशसाहस्रिकायाः संग्रहतन्त्रग्रन्थोऽस्ति। स्वपीठः परपीठः योगपीठगुह्यपीठादिश्च ग्रन्थस्यास्याभिधेयोऽस्ति। प्रत्येकं पीठे चत्वारः परिच्छेदाः सन्ति। १. वज्रपाणिना तन्त्रदेशनार्थं विनयः, शास्त्रा श्रवणार्थं चाप्रमादेन वायुतत्त्वं, वायुपरीक्षया लग्न (कालयोग) निष्क्रमणार्थं ज्योतिषशास्त्रम्, (कालयोगेन) लग्नेन फ़लितज्योतिषशास्त्रम्, लग्नोत्पत्तिपरीक्षाविधिः लग्नेन सिद्धिपरीक्षा, लग्नसंज्ञा, अहोरात्रघटिकासंख्या चेति विषयाणां शुभाशुभनिर्णयादिविषयाणां च प्रतिपादनं स्वपीठस्य प्रथमपरिच्छेदे वर्तते। २. मृत्युवंचना-रक्षाचक्रम्, नागविष-चिकित्सा, वृष्ट्युत्पादनं, दूतीलक्षणादिविषयाणां विवेचनं द्वितीयपरिच्छेदे वर्तते। ३. उत्पत्तिक्रमस्य प्रारम्भिको धर्मः , सर्वधर्माणां शून्यताभावना, सिद्धिलक्षण-परीक्षा, देवभावना-विध्यादीनां निरूपणं तृतीयपरिच्छेदे वर्तते। ४.देवयोगः देवबीजन्यासः ज्ञान्डाकिनी-भावना,सूक्ष्मयोगः, मन्त्रजापश्चेतैः मुद्रादाभिश्च प्रथमपीठः सम्पद्यते। द्वितीयपीठे- १. शिष्यपरीक्षा, २. जपहोमविधिः, ३. मुद्रासहिता ज्ञानडाकिनी देवसाधनोपायिका, बलिलक्षणं पूजा विंशत्याः क्षेत्रपालपूजाविधिः, गुह्यपूजा, अनुत्तरपूजा, मंगलगीतिः, प्रणिधानं देवविसर्जनं च। ४. पञ्चमांस-पञ्चामृता-धिष्ठानम्, आलि-कालिप्रज्ञोपाययोगः, पञ्चांकुश-अधिष्ठान-बलिः योगिनीसाधनाया वाङ्मुद्रयोः संकेतश्च तृतीयपाठे विद्यते। १. वज्रः, घण्टा, माला ज्ञानतत्त्वं पञ्च जगत्तत्त्वानि च योगपीठस्य प्रथमपरिच्छेदे वर्तन्ते। २. ताराचक्रसाधनोपायिका, चतुर्धारा-विस्तारः, ज्ञानडाकिनीप्रज्ञावृत्तिः वैरोचनसाधनोपायिका, ३. ज्ञानावेशः उच्चाटनम्, आकर्षणम्, बन्धनादिः शान्तिकर्मयोगश्च। ४. वज्रघण्टातत्त्वम्, प्रज्ञोपायप्रयोगः, कर्मानुसारं मुद्राभेदः, प्रग़्योपायस्य पार्थक्यात् सिद्धिप्राप्तेः अभावनिर्देशः, विषयचर्या, प्रशंसा, डाकिनीक्रोधादीनां कर्मसमूहश्च। चतुर्थपाठे १.गुरूगणः तल्लक्षणक्रिययोः क्रमः शिष्यमण्डलावतरणाभिषेकः, समयनिर्देशश्च प्रथमपरिच्छेदस्य विषयः २. निर्लक्षणध्यानं तत्साधनोपायिका, कुम्भकयोगद्वारा अमृतपानं, गुह्यहोमादिश्च द्वितीयपरिच्छेदे वर्तते। ३. कायभूतलक्षणं तेषां विज्ञाने लयविधिः, वायुयोगसंक्रमणोपदेशः  आभ्यन्तरकर्मयोगनामकस्तृतीयः परिच्छेऽस्ति। ४. चण्डालीयोगः अनुभूतिलक्षणं, विशुद्धदेवः, साधनास्थलरसायनाद्युपायानाम् अनुकरणार्थं कृतायां प्रेरणायां पार्षदेन ज्ञानमुपलभ्य गीतिघोषकरणमन्ते तन्त्रशास्त्र-ग्रहण-गुणं प्रकटयन् ग्रन्थोऽयं समाप्तिं भजते। 


वज्रसूर्यकुलम् 


वज्रामृततन्त्रमिदं वज्रसूर्यकुलस्य मुख्यो ग्रन्थोऽस्ति। अत्र ११ परिच्छेदाः सन्ति। १. वज्रामृतध्यानं, मण्डललेखनविधिः भावनाविधिः, गुह्यमण्डलनिर्देशश्च प्रथमपरिच्छेदे निर्दिष्टः २. तत्त्वज्ञानयोगविस्तारविधिश्च द्वितीयपरिच्छेदे निरूपितः ३. मन्त्रसमुच्चयस्तृतीयपरिच्छेदे वर्तते। ४. होमविधिश्चतुर्थपरिच्छेदे निर्दिष्टः, ५. अंजानादियोगविधिः पञ्चमपरिच्छेदे निरूपितः, ६. हूँकारमण्डलोपायः, ७. गीति-नृत्य-अभिषेकतत्त्वानि च सप्तमपरिच्छेदे निरदिश्यन्त। ८. हेरूकमण्डलस्य निरूपणमष्टमपरिच्छेदे कृतम्। ९. अमृतकुण्डलीमण्डलस्य निर्देशः नवमपरिच्छेदे विहितः, १०. वेतालसाधनोपायिका दशमपरिच्छेदे प्रदर्शिता ११. पञ्चामृतसाधनया सह महातन्त्रोपतन्त्रसंग्रहादेर्निर्देशः कृतोऽस्ति एकादशपरिच्छेदे। 


पद्यनर्तेश्वरकुलम् 


कुललोकनाथ- पञ्चदशक नाम आम्नाये तन्त्रस्य महत्त्वम्, मन्त्रसमुच्चयोपायः, जपोपायः, मन्त्रतत्त्वस्य व्याख्या, तिलकयोगः सूक्ष्मयोगः गुणस्य व्याख्या, सहजानन्दस्वरूपं, लोकेश्वरपदप्राप्तिः चतुस्साधनाङ्गानां सगुणतत्वव्याख्या, शान्ति-आकर्षण-उच्चाटनादिविभिन्नकर्मसाधनोपायिका, वज्रजापः, तिलकयोगः मारणयोगः चण्डालीयोगस्तथा देवतत्त्वयोगव्याख्यादयोऽस्य ग्रन्थस्याभिधेयाः सन्ति। 


परमाश्वकुलम् 


नमस्तारे- सगुणैकविंशतिस्तोत्रस्य रविगुप्तादिभिर्विद्वद्भिः अनुत्तरतन्त्रस्य साधना-पद्धत्यनुसारं व्याख्या कृता। मण्डले मृण्मयकायमण्डलयोर्व्यवस्था कृता। वज्रकालमहाकालादितन्त्राणि बुस्तोनोऽस्मिन्नेव कुले स्थापितवान्। 


वज्रधरकुलम् 


यथालब्धखसमतन्त्रे पञ्च परिच्छेदाः सन्ति। १. वज्रधरस्य स्वरूपम्, देवतत्त्वसमयश्च, २. चित्तोत्पत्तिद्वारा चित्तमण्डलम्, ३. वाग्द्वारा वाङ्मण्डलम्, ४. कायोत्पत्तिद्वारा कायमण्डलम्, ५. अन्यतन्त्रैः सहोक्ताभिधेयस्य सामान्यतः स्पष्टीकरणं कृतमस्ति। 


अद्वयतन्त्रस्याभ्युदयः 


कालचक्रतन्त्रम्-कालचक्रस्य देशनां शास्ता स्वयं कालचक्ररूपे प्रकटीभूय धान्यकटके आकर्षीत्। कालचक्रस्य मूलतन्त्रमनुपलब्धम्। केचनांशा उद्धरणेषूपलभ्यन्ते। तन्त्रसंग्रहोऽयं पञ्चपटलेषु विभज्यते। यथा- धातुपटलम्, अध्यात्मपटलम्, अभिषेकपटलम्, साधनापटलम्, ज्ञानपटलं चेति। एषु पञ्चपटलेषु अनेके विषयाः सन्ति संगृहीताः। ये २५ शीर्षकेषु विभक्ताः। 


१. धातुपटलम् 


धातुपटले १६९ श्लोकाः सन्ति। प्रथमश्लोके तन्त्रनिदानस्य निर्देशः कृतः। द्वितीयश्लोके कालचक्र-व्याख्यानार्थं प्रतिज्ञा स्वीकारोक्तिश्च विद्यते। तृतीयश्लोके तन्त्ररहस्यार्थ-महाशून्य-पञ्चाक्षरषडक्षरादीनां संकेतो विहितः। एभिः पद्यैः कालतन्त्राभिधेयस्य सारांशः संगृहीतः। अन्यैः श्लोकैः पटलैश्च एतेषां श्लोकानामेव विस्तृतव्याख्या कृता। लोकधातुपटले संग्रहचतुष्टयमस्ति। १. लोकधातुसंग्रहेण लोकधातोर्नीतार्थः २. जगद्भवसंग्रहेण जगत्परिमाणम्, ३. ज्योतिषसंग्रहेण नक्षत्र- ज्यौतिषं ग्रह- नक्षत्राणाम् आकाशे गमनविधिः ४. स्वरोदयेन यन्त्रसंग्रहेण च फ़लितज्योतिषकुशलाकुशलपरीक्षा-शत्रुनाशविधिः - चक्रवर्तिना म्लेच्छधर्मोत्सादनमेतैः - पञ्चकद्वीपस्य द्वादशभागेषु चक्रवर्तिराज- आगमनादिनिर्देशेन च सह प्रथमपटलस्य समाप्तिर्जायते। 


अध्यात्मपटलम् 


प्रथमश्लोकः अभ्यर्थनाव्याख्ययोः स्वीकारोक्तेः वर्तते। १ . पटलेऽस्मिन् १८० श्लोकाः सप्तसंग्रहसमूहश्चास्ति। काय-वाक्चित्तोद्भवदुःख-समुदय-निरोध-मार्ग-निर्देशसंग्रहादिभिः गर्भावस्थायां शुक्र-शोणितयोर्मेलनादारभ्य बुद्धिप्राप्तिं यावत् कायस्य सम्पन्नताविधिः २. समुदयसत्यसंग्रहेण सम्पन्नकाये नाडीवायु-तिलकानां यथास्थितिविधिः, ३. चक्रवर्ति-म्लेच्छ-कालचक्र-कुलसन्तत्यादयः। उद्भूतसंग्रहेण काये बाह्याभ्यन्तरपरधर्माणाम् अभिन्नतायाः पूर्णनिर्देशः ४. नाडी-उच्छेद ( क्षय ) मृत्युलक्षणसंग्रहेण सम्पन्नकायस्य मृत्यु-सूचना निर्देशः ५. जगदुत्पादनिरोधहेतुभूतम् एकक्षणलक्षणं ६. कालचक्रनिर्देशसंग्रहेण मृत्यु-निर्देशः रसायनादिः। नियतबालसन्ततिसंग्रहेण मृत्युलक्षणं मृत्युहेतुं च ज्ञात्वा मृत्योरूपर्युत्थानस्य विधिः। ७. स्वपरदर्शनयोर्मीमांसया सम्यङ्मार्गे प्रवेशविधिश्चेति द्वितीयाध्यात्मपटले न्यरूप्यन्त। 


अभिषेकपटलम् 


प्रथमः श्लोकः पूर्वपटलानुसारेण अभ्यर्थनाया व्याख्यानोक्तेश्च वर्तते। अत्र सप्त संग्रहाः सन्ति। १. आचार्यादि-सर्वकर्मप्रसर-साधनोपायलक्षणसंग्रहेणाचार्य-शिष्ययोर्लक्षणम्, २. आचार्येण परार्थसाधनार्थं सर्वकर्मप्रसरस्य लक्षणमवबोध्य शिष्यसंग्रहकरणम् भूमिग्रहणविधिश्च। ३. मण्डललेखनविधिसंग्रहेण भूमिं गृहीत्वा मण्डललेखनविधिः , ४. मण्डलाभिषेकसंग्रहेण लिखितमण्डले बालशिष्यप्रवेशः सप्ताभिषेकविधिश्च। ५. प्रतिष्ठान-गणचक्रविधिना, योगचर्यासंग्रहेणाभिषिक्तशिष्य-स्याचार्यत्वे प्रतिष्ठितत्त्वम्, काय-वाक्-चित्तनामके आश्रयत्रये प्रतिष्ठितत्त्वं च। ६. उत्तराभिषेकः गणचक्रम्, मुद्रा, दृष्टिः विसर्जनम्। ७. वीरोत्सवसंग्रहेण आवश्यक-मुद्रा-दृष्टि-अभिषेकादीनि ततो मण्डलविसर्जनवीरोत्सवनिर्देशाभ्यां सह पटलमिदं सम्पन्नतामाप्नोति। 


साधनापटलम् 


प्रथमः श्लोकः अभ्यर्थनाव्याख्यानार्थयोः स्वीकारोक्तिः। द्वितीयश्लोके- भगवतो विशुद्धिकायं समुपवर्ण्य पञ्चसंग्रहैस्तस्य साधनं विधाय तत्प्रकाशः कृतः। १. स्थान-रक्षा-पापप्रायश्चितादिसंग्रहेण साधनास्थलं ( स्थालं ) विघ्नरक्षा-पुण्यसम्पन्न-विधिश्च। २. उत्पत्तिक्रमः सम्वृत्तिसंग्रहेण शून्यतातो गर्भधारणविधिः उत्पत्तिक्रमः मण्डलराजाग्रश्च। ३. प्राण-देवोत्पत्तिसंग्रहाभ्यां गर्भाद् बहिर्निष्क्रमणम्, अर्थदुत्पत्तिक्रमीयसम्पन्नतायाः अङ्कानां प्रतिपादनम्। ४. उत्पत्तिनिष्पन्नक्रमाभ्याम् उत्पत्त्यनन्तरं १६ वर्षाऽऽयुषः सुखानुभूतिक्रमेण चित्तिज्ञानयोः सम्पन्नतार्थं तिलकः सूक्ष्मयोगश्च। ५. विभिन्नकर्मसंग्रहेण १६ वर्षीयाऽवस्थानन्तरं पुत्रपुत्र्योरूत्पादनवत् प्राणप्रतिबिम्बं विष्पाद्य विभिन्नकर्मणां साधनोपायिकायाः प्रतिपादनम् कृतमस्ति। 


ज्ञानपटलम् 


अत्र संग्रहचतुष्टयं विद्यते। प्रथमश्लोके अभ्यर्थनाव्याख्यानयोः स्वीकारोक्तिरस्ति। तदनन्तरं क्रमशः १. योगिनीतन्त्रादिनिर्माणसंग्रहे स्कन्ध-आयतन-समस्त-धातूंश्च निराकृत्य आश्रयाश्रितदेवमण्डलविधिर्वर्णितः। २. कायचतुष्टयादिविशुद्ध-नियतसंग्रहेण निरावरणस्य कायचतुष्टयस्य ज्ञानस्य चतुर्थाभिषेकाक्षरज्ञानयोः प्रतिपादनं विहितमस्ति। ४. विभिन्नविनयोपायसंग्रहेण बोधि- प्राप्त्यनन्तरं तत्त्वानां हितकरणविधिं लक्षयितुम् अनेकसामान्यासामान्यसाधनोपायिकानां प्रतिपादनं जातम्। अन्ते उपसंहाररूपेण श्लोकदशकमस्ति एषु कालचक्रस्य शास्तुर्गुणाः संग्रहत्त्वस्य संग्रहविधिश्चाभिहिताः। यश्च मूलतन्त्रतः संगृहीतो नास्ति। 


कोङ्टुलनामकेन भोटाचार्येण कालचक्रीयाभिधेयः व्यञ्जनानां शोधनार्थं ३२ संग्रहेषु तथाऽनुव्यञ्जनानां परिशोधनार्थं ८० स्थानेषु व्यभाजि। 


( क ) द्वात्रिंशत् संग्रहाः सन्ति निम्नाङ्किताः १. जगद्धातौ १० संग्रहाः सन्ति। दशाकारवशीकरणबीजस्य ( ह क्ष म ल व र यं ) शोधनार्थं समर्पिताः सन्ति। अचित्यलोकधातोः परिशोधनार्थं १० संग्रहाः सन्ति। एषु षट् संग्रहाः समान्यतन्त्र-अचिन्त्यलोकधातोः परिशोधनार्थं १० संग्रहाः सन्ति। एषु षट् संग्रहाः सामान्यतन्त्रव्याप्तेर्व्याख्या तथा शेषचतुः संग्रहैः व्याप्यतन्त्रार्थं बाह्यचक्रस्य व्याख्या कृता विद्यते। 


२. अध्यात्मपटले चतुर्महाभूत-सूर्य-चन्द्र-राहु-धातूनां परिशोधनार्थं षट्-संग्रहैरभिषेकपटलस्य प्रतिपादनं कृतमस्ति। 


३. साधनापटले पञ्चजिनकुलानां परिशोधनार्थं पञ्चसाधनासंग्रहेषु व्याख्या कृता। 


४. ज्ञानपटले चतुर्वज्रधर्माणां परिशुद्धये संग्रहचतुष्टयं समागतम्। यत्र प्रथमसंग्रहत्रये परकालचक्रस्यार्थात् कालचक्रदेवतत्त्विधेर्व्याख्या कृता। अन्तिमसंग्रहे बुद्धभूमि- परिशोधनं , तत्त्वार्थ-सम्पादनं, प्रणिधान-परिणामने चेतैर्विवेचनेन सह पञ्चमपटलं पूर्णतां गच्छति। इत्थं कालचक्रं ३२ संग्रहेषु विभक्तमस्ति।


( ख ) अशीतिर्ज्ञानानि प्रथमपटले द्वादशाङ्गप्रतीत्यसमुत्पादस्यानुलोमप्रति-लोमपरिशुद्धितः २४ स्थानानि, द्वितीयपटले षडिन्द्रियाणि- षड्विषयाः षट्-स्वभावश्चार्थात् १८ तत्त्वानां परिशुद्धये १८ स्थानानि, तृतीयपटले-१२ प्रारम्भिका-भिषेकाणां परिशुद्धये १२ स्थानानि, चतुर्थपटले सप्तोत्पत्तिस्थानानां परिशुद्धये सप्तस्थानानि, पञ्चमपटले २० अभिसम्बोधीनां प्रतिपादनार्थं २० स्थानानि अर्थात् ८० स्थानानां पुनश्च तदुपरि समस्तेषु ८२ स्थानेषु कालचक्रस्य प्रतिपादनं जातम्। संग्रहस्याभिप्रायोऽयं विद्यते यदत्र अन्येऽप्यल्पाल्पा विषयाः संगृहीताः सन्ति। 


श्रीकालचक्रोतरोत्तरतन्त्रनामकग्रन्थस्य संग्रहकर्ता मञ्जुश्रीर्वर्तते। अत्र १५७ श्लोकाः सन्ति। निदाननिर्देशानन्तरमत्र कुशलाकुशलयोर्निर्देशः समयानां च प्रतिपादनमभूत्। तदनन्तरं क्रमशः स्कन्धादीनां वास्तविकस्थितेः निर्देशं कुर्वता आत्मत्तत्वस्य प्रतिपादनं कृतमस्ति। द्वादशाङ्गप्रतीत्यसमुत्पादस्य स्थितिः कायचतुष्टयस्य लक्षणं, तन्त्रनिदानं, परिवर्तस्य व्याख्या, कुलभे-ध्यानभेद-षडङ्गयोग-पञ्चाभिज्ञा-षट्कुल-देहविशुद्धि- गुह्यसमाजपञ्चक्रमाणां व्याख्या, मार-अभिचर्यादिकस्य खण्डनं, विद्याधरसाधना, हीनदर्शनचर्यायाः खण्डनं, पुद्गल-दर्शनचर्या, देशधर्मकुधर्मयोः ( म्लेच्छधर्मयोः ) आविर्भावस्य व्याकरणम्, विभिन्न-धर्मसम्प्रदायानामाविर्भावस्य व्याकरणम्, कुलिकैर्म्लेच्छनाशः दुष्टशान्त्यर्थं दुश्चर्यया पीठतो निष्कासनम्, कुशलचर्या-गुणः बुद्धस्य महापरिनिर्वाणप्राप्तेरभिप्रायः, बुद्धद्वारा धर्मोपदेशाः तेषां मञ्जुश्रीमहोदयेन विहितसंग्रहश्चेति विषयाणां ग्रन्थेऽस्मिन् विशदनिरूपणं जातम्। 


गुह्यसमाजस्य परम्परासप्तकम् 


गुह्यसमाजस्याऽर्यदेशे सप्त प्रधानपरम्परा आसन्। तन्नामानि निम्नाङ्कितानि सन्ति। १. आर्य-आम्नायः २. ज्ञानपाद-आम्नायः ३. शान्तिपादपरम्परा, ४.ललितवज्रस्य परम्परा, ५. पण्डितस्मृतिज्ञानपरम्परा, ६. षड्द्वारपालपरम्परा, ७. आनन्दगर्भस्य परम्परा च। 


१. आर्याम्नायः 


ज्ञानडाकिनीद्वारा सरहपादस्योपदिष्टपरम्पराया नागार्जुन-आर्यदेव-चन्द्रकीर्त्यादयः प्रचारं प्रसारञ्च कृतवन्तः। अयम् आर्य-आम्नाय इत्यभिधीयते। आचार्यनागार्जुनेन गुह्यसमाजस्य मूलतन्त्रे समागतोत्पत्तिक्रमेण सम्बद्धानि समस्ततथ्यान्यादाय पिण्डीकृतसाधनोपायिकायाः रचना कृता। अत्र गुह्यसमाजस्य ३२ देवमण्डलानां भावना, त्रिध्यानमर्थात् आदियोगध्यानं, मण्डलराजग्रध्यानं, कर्मराजाग्रध्यानं च विधिना क्रियते। पिण्डीकृतसाधनोपायिकां देवं प्रभास्वरे विलीय पुनरूत्पन्नकरणस्य विधिरपूर्णोऽस्ति। तत्पूर्तये आचार्येण गुह्यसमाजमहा-योगतन्त्रोत्पादक्रमसाधनासूत्रमेलापकस्य रचना व्यधायि। निष्पन्नक्रमस्य सम्बन्धे पञ्चक्रमस्य बोधिचित्तविवरणस्य च तथा साधकस्य परिपक्वतार्थं अभिषेक-मण्डलाभ्यां सम्बद्धस्य विशंतिविधेः रचना कृता। विंशतिविधिर्नागबोधिना रचित इति केषांचिद् विदुषां मतमस्ति। नागार्जुनस्य मुख्यशिष्य आर्यदेवः गुह्यसमाजस्य निष्पन्नक्रमेण सम्बद्धम् एकादशपरिच्छेदात्मकं चर्यामेलापक प्रदीपनामकं ग्रन्थं रचितवान्। एतदतिरिक्तं चित्तविवेकान्निस्सृतं चित्तविशुद्धिकरणम्। मायाकाया-न्निस्सृतं स्वाधिष्ठानक्रमं तथा प्रभास्वरादौत्तरिकम् अभिसम्बोधि- क्रमोपदेशनामकं ग्रन्थमपि व्यरचयत्। 


सिद्धनागबोधिना पिण्डीकृतसाधनां परिशोध्यैः जन्म-मृत्यु अन्तराभवैः सह मेलयित्वा देवाधिष्ठानेन प्रभास्वरे प्रवेशविधिं कायमण्डलम् मण्डलराजाग्रस्य स्पष्टाङ्गानि प्रकाशयता उत्पत्तिक्रमे गुह्यसमाजव्यवस्थावली तथा निष्पन्नक्रमस्य प्रतिपादनार्थं कर्मान्तविभङ्गश्च प्राणायि। 


आचार्यराहुलधरश्रीमित्रेण युगलानन्दप्रकाशनामप्रक्रिया रचिता। यश्चार्य-आम्नायस्य मण्डलविधेः प्रामाणिकः पूर्णश्च ग्रन्थो विद्यते। विंशतिविधिना गुह्यसमाजस्याभिषेके दत्ते सति अग्रिमौ द्वौ अभिषेको अस्यैव ग्रन्थस्य सहायतया प्राप्तव्यौ भवतः। 


आचार्यशाक्यमित्रस्य नामतो गुह्यसमाजे केचित् स्वतंत्रग्रन्था नोपलभ्यन्ते किन्तु नागार्जुनरचितस्य पञ्चक्रमस्य द्वितीयक्रमेऽस्य नाम प्राप्यते। विषयेऽस्मिन् भोटदेशीयविद्वत्सु मतभेदोऽस्ति। यथा- नीलग्रन्थस्य ( ब्लू एनल्सस्य ) रचयिता गोसलो महोदयः ' ज्ञात्वा तमेवमुच्यन्ते ज्ञानिनो भवपञ्जरात् ' इत्यन्तं नागार्जुनस्य रचना शेषस्तु शाक्यमित्रस्य रचनेति स्वीकरोति। लक्ष्मींकर-रचितायां वैरोचननामपञ्चक्रमवृत्तौ शाक्यमित्रोऽयं नागार्जुन-शिष्येषु अतितीक्ष्णबुद्धिरासीत्। अतः प्रसन्नतावशाद् अनेन स्वीयग्रन्थस्य द्वितीयक्रमे निजशिष्यस्य नामोट्टङ्कितम् वज्रासनपादेनापि चायं ८४ सिद्धानां क्रमे ६४ तमे स्थाने स्थापितस्तथा जात्याऽयं काष्ठहरः एवं महायानीयनागार्जुनस्य शिष्य इति स्वीकृतम्। केषांचिद् विदुषां मतानुसारं शाक्यमित्रेति नागार्जुनस्यैव नाम विद्यते। 


चन्द्रकीर्तिना एषां पञ्चाचार्याणां विचारान् उत्पत्तिक्रम-निष्पन्नक्रमौ च षट्कोटि- चतुर्नयविधिनाऽलंकृत्य गुह्यसमाजे प्रदीपोद्यतन नामकस्य टीकाग्रन्थस्य रचना अकारि। अस्मिन्नेव क्रमे ( आम्नाये ) अभयाकरगुप्तेन पञ्चक्रममतिटीका चन्द्रप्रभा, वीर्यभद्रेण पञ्चक्रमपञ्जिका प्रमाणार्थनाम भव्यकीर्तिना पञ्चक्रमपञ्जिका, लीलावज्रेण पञ्चक्रमविवरणम्, समयवज्रेण पञ्चक्रमपञ्जिका, काश्मीरिकलक्ष्मींकरमहोदयेन पञ्चक्रमवृत्ति वैरोचननाम, तथा मुनिश्रीमहोदयेन पञ्चक्रममार्थयोगिनी मनोहरटिप्पणी रचिता। एतदतिरिक्तमपि आम्नायेऽस्मिन् अनेकसिद्धाचार्यैर्होम-पूजादिकमाश्रित्य पारिवारिक-ग्रन्थानां रचना कृता। संक्षेपत उत्पत्तिक्रमस्य ( त्रिध्यानस्य ) निष्पन्नक्रमस्य ( पञ्चक्रमस्य ) च भावनाकर्ता आम्नायः आर्य- आम्नायेत्यभिधीयते। 


बुस्तोनेनार्याम्नायस्य परम्परायाः ईदृशी गणना कृता-वज्रधरः बोधिसत्व-मतिरत्नम्, नागार्जुनः मतङ्गः , तिलोपादः, नाडपादः, धर्ममतिश्च। 


आचार्यज्ञानपाद-आम्नायः 


अनया परम्परया गुह्यसमाजस्य १७ परिच्छेदान् , मूलतन्त्रत्वेन १८ तमपरिच्छेदं ( उत्तरतन्त्रं ) वज्रगर्भालङ्कारञ्च व्याख्यातन्त्रत्वेनामनन्ति विद्वांसः। 


आचार्यज्ञानपादः मञ्जुश्रियो भविष्यवाणीमुपश्रुत्योक्तग्रन्थत्रयमवलम्ब्य गुह्यसमाजे १४ स्वतन्त्रग्रन्थान् विरचय्य तेषां विस्तृतव्याख्याम् अकार्षीत्। अयमेव ज्ञानपाद-आम्नायोऽभिधीयते। तस्य प्रमुखग्रन्थाः सन्ति- १. द्विक्रमतत्त्वभावना, २. समन्तभद्रनामसाधना, ३. चतुरङ्गसाधना समन्तभद्रनाम, ४.मुक्तितिलकनाम्, ५. आत्मसाधनावतारश्च , अस्य शिष्येषु दीपङ्करभद्रप्रशान्तमित्र-राहुलधरभद्र-वज्रमुखादयः प्रसिद्धाः सन्ति। नीलग्रन्थे ( ब्लू एनल्से ) अस्याः परम्पराया ईदृशी गणना कृता- दीपङ्करभद्रः। आनन्दगर्भः गगनपादः शान्तिपादः श्रद्धाकरः पद्यकरस्तथा तिब्बतस्य महानुवादकाचार्यः रत्नभद्रश्च। 


बुस्तोनमते-आचार्याणां क्रमः निम्नाङ्कित-


मञ्जुबोधः -अवधूतपादः-बुद्धश्रीज्ञानः दीपङ्कर-आनन्दगर्भः-जयवज्रः शान्ति-पादः- श्रद्धाकरः - पद्यकरः, रत्नभद्रश्च। अस्मिन्नाम्नाये उत्पत्तिक्रमस्य भावना , चतुः सेवाङ्गैः निष्पन्नक्रमस्य साधना, चतुश्चक्रेषु चतुस्तिलकभावना चतुरानन्दा-नामुत्पत्तिक्रमे क्रियते स्म। आम्नायेऽस्मिन् पितृतन्त्रे प्रधानेऽपि साधनापद्धति-स्तथाऽस्याभिषेकविधिर्मातृतन्त्रवद् विद्यते। 


३. शान्तिपादपरम्परा 


शान्तिपादः मूलतन्त्रोत्तरतन्त्रे मिश्रीकृत्य कुसुममञ्जरी-गुह्यसमाजनिबन्ध नामकस्य ग्रन्थस्य रचनां विधाय गुह्यसमाजस्य स्वतन्त्रपद्धत्या व्याख्यां चकार। अनेन आर्य-आम्नायस्याचार्यजिनपुत्रभूमिमिश्रतस्तथा ज्ञानपादपरम्परायाः आचार्य-भैषज्यतः गुह्यसमाजस्याध्ययनं कृतम्। किन्त्वनेनाम्नायद्वयेन भिन्नाया अक्षोभ्य-प्रधान२५ कुलमण्डलानां परम्परायाः स्थापना कृता दर्शनेऽपि माध्यमिकदर्शनापेक्षया विज्ञानवादिनः अनुसृताः। इत्थमियमेका स्वतन्त्रपरम्परा विद्यते। 


४. आचार्यललितवज्रस्य परम्परा


अस्य परम्परा गुह्यसमाजे निदानपरिवर्तस्य मातृतन्त्रस्यानुसारं व्याख्यां करोति। इत्थमियमप्येका स्वतन्त्रपरम्परात्वेन स्वीकृता। 


५. पण्डितस्मृतिज्ञानपरम्परा 


पण्डितस्मृतिज्ञानेन गुरूभद्रपादतो गुह्यसमाजस्याऽध्ययनं कृतन्तथाऽन्य-परम्परातो भिन्ना स्वतन्त्रा व्याख्या साधनापद्धतेश्च स्थापना कृता। अयं तिब्बतमपि गतवानासीत्। स्वयमनेन भोटभाषायां षडङ्गयोगव्याख्यादेरनुवादः कृतः। 


६. कालचक्रव्याख्यानुसारेण गुह्यसमाजपरम्परा 


नालन्दायाः नडपादादि-षड्द्वारपालानामागमनान्तरं शम्भलतः कालचक्र-स्यार्यदेशे प्रचारोऽभूत् प्रायेणानुत्तरतन्त्रस्य कालचक्र-पद्धत्या व्याख्या प्रारब्धा। एषु गुह्यसमाजः ९/१३/१९/२५/३२ तथा ३४ देवमण्डलानां स्थापनाविधिरास्ते। 


७. आनन्दगर्भपरम्परा 


वज्रतत्त्वस्वरूपात् जहोरराज्ञः प्रकाशचन्द्रात् आनन्दगर्भेणाष्टदश-तन्त्रस्याध्ययनं कॄतम्। इमे तारयाऽधिष्ठिता आसन्। अनेन गुह्यसमाजमूलतन्त्रं वैरोचनमायाजालमूलतन्त्रं व्याख्यातन्त्रं च योगतन्त्रीयतत्त्वसंग्रहस्य प्रथमधातुभागतः संयुक्तो रक्षाचक्रविधिस्तथा महामुद्रातः मुद्रयित्वा भावनाविधेरनुसरणं कुर्वता गुह्यसमाजस्य व्याख्या योगतन्त्रपद्धत्या कृता। एतदनुसारं गुह्यसमाजस्य देशना शास्तुर्निर्वाणात् सताहानन्तरं कृतासीत्। तदनन्तरं यावन्तस्तन्त्रशास्त्रस्योपदेशा जातास्ते सर्वे व्याख्यातन्त्रत्वेन स्वीक्रियन्ते। इत्थमार्यावर्ते गुह्यसमाजयोगतन्त्रसमावेशात् गुह्य्समाजस्य व्याख्याकरणस्य पाधत्या सह गुह्यसमाजस्य सप्त प्रमुखाः परम्पराः आसन्। 


ज्ञेयकोशे कोङ्टुलमहोदयेनार्यदेशे गुह्यसमाजस्य २४ परम्पराणां सत्ता स्वीकृता। तासु-महापद्यवज्र-अनङ्गवज्र-नागार्जुन-लीलावज्र-वज्रहास-त्रिकण्ठेश्वर-सुघोषरक्षित-बुद्धज्ञान-रत्नाकरशान्तिपाद-आनन्दगर्भादीनां परम्पराः प्रमुखाः आसन्। तिब्बते आभ्यः परम्पराभ्य आर्यनागार्जुन-ज्ञानपादशक्तिपाद-वज्रहास-पद्यवज्र आनन्दगर्भादीनां परम्पराः समागता आसन्। तासु आर्याम्नाय-ज्ञानपादयोः परम्परे प्रामुख्येणास्ताम्। 


कृष्णमारितन्त्रस्य परम्पर 


अस्य तन्त्रस्य प्रचारं प्रसारं च ज्ञेयकोशे कालपञ्चके विभज्य स्पष्टीकृतमेतत्। १. यदित्थम्-तृतीयसङ्गीतेः किञ्चित् समयानन्तरं कृष्णयमारितन्त्रस्य प्रचारो जातः। यश्च २०० बर्षं यावद् आसीत्। अयमेव सिद्धिकाल इत्युच्यते। २. विभिन्नचर्याणां प्राप्तिकालः ३०० बर्षं यावत् प्रचलितः। ३.अस्मिन् काले ( शासने ) अनेके-ऽन्तरायाः समापतिताः तत्रैवानेके सिद्धपुरूषा अपि प्रादुर्भूताः। यैश्च स्वीयतन्त्रबलेन जना आकर्षिताः। ब्राह्यणचाणक्यादयोऽस्मिन् काल एव प्रादुर्भूताः। कालयोऽयं ५०० वर्षं यावदासीत्। 


४. अत्र ललितवज्रात् कमलरक्षितं यावत् समयः समायाति यश्चोत्पत्तिक्रमस्य सिद्धेः ( चर्यायाः ) काल इत्युच्यते। 


५. अयमांशिकचर्याकालः स्वीक्रियते यश्च कमलरक्षितादारभ्य वर्तमानकालं यावत् स्वीक्रियते। 


सामान्यत उपर्युक्तकालेषु कृष्णयमारितन्त्रस्य प्रचारः प्रसारश्च जातः। तत्र सामान्यजनमध्येऽभिषेकस्य व्याख्यानस्य च सर्वप्रथमं श्रेयः आचार्यललितवज्रः मध्ये ज्ञानपादः अन्ते च ब्राह्यण आचार्यः श्रीधर आप्नोति। तत्र कृष्णयमारिरक्तयमारिभेदयोः तत्त्वत्रयस्योपदेशस्य च परम्परायाः समन्वयः विशेषतः आचार्यश्रीधरस्य रचनायामुलभ्यते, तथा तत एव भोटदेशे अस्याः परम्परायाः सूत्रपातो भवति। 


प्रायः भोटदेशेऽपि सम्राजा स्रोङ्चन गम्पो महोदयेन अस्या साधनोपायिकाया रचना कृता, या च तन्त्रस्य सवप्रथमो ग्रन्थः स्वीक्रियते। 


नीलग्रन्थेऽभिहितं यत् स्रोङ्चनरचितयमारितन्त्रस्य साधना अद्याप्युपलभ्यते। 


तारानाथेन कृष्णयमारितन्त्रं ललितवज्रेण जनसामान्ये आनीतम् इति स्वीकृतम्। 


हेवज्रस्य परम्पराद्वयम् 


सामान्यतस्तन्त्रशास्त्रस्य प्रधानपरम्पराद्वयमुपलभ्यते। दीर्घपरम्परा उपपरम्परा च , उपपरम्परा कर्णतन्त्रपरम्परात्वेन वक्तुं शक्या। यतो ह्यत्र साधकः कामपि पूर्वपरम्परां विनापि इष्टदेवस्य अर्थात् शास्तुः साक्षात्कारं कृत्वा पूर्णतस्तन्त्रशास्त्रं गृह्णाति। हेवज्रतन्त्रस्य एतादृक् परम्पराद्वयमुपलभ्यते। 


१. दीर्घपरम्परा 


प्रथमपरिच्छेदानुसारं हेवज्रतन्त्रस्य देशना तदा कृतासीत् यदा तथागतो वज्रासने ( बुद्धगयायां ) बोधिं लेभे तदा शास्ता हेरूककुलेऽष्टमुखस्य १६ भुजयुक्तस्य हेवज्रस्य रूपे उत्पद्यते। बोधिसत्ववज्रगर्भनैरात्म्याभ्यां कृतायां प्रार्थनायां विस्तृतमूलतन्त्रस्य गर्भं संगृह्य संग्रहतन्त्ररूपत्वेनास्य देशनां करोति। केचन विद्वांसोऽस्य देशना तुषितलोके जातेति मन्यन्ते। केचन धान्यकटके च मन्यन्ते। जम्बूद्वीपेऽस्य सर्वप्रथमः प्रचारः प्रसार्श्च केन कृतः सम्बन्धेऽस्मिन् नैकं मतमस्ति। दगपोटशीनमग्यलमहोदयस्य मतमस्ति यद् दक्षिणभारते अडिशिनृपो विसुकल्पः हेतुलक्षणयानस्य ( पारमितानयस्य ) प्रकाण्डपण्डित आसीदिति। यदा स सूत्रेषु काम-त्यागं बिना अर्थात् रागस्य वर्गीकरणविषये लिखितानि कतिपयसूत्रवचनानि अपश्यत् तथा तदवगन्तुम् उत्कटजिज्ञासया प्रणिधानमकरोत् तस्मिन् काले डाकिनीभिर्भविष्यवाणी कृता यद् एतद् अडियानज्ञानं डाकिनीभ्यः प्राप्तुं शक्यते। तदनुसारं सः अडियानमगात् तत्र तन्त्रसाधनां विधाय सिद्धिलाभमकरोत्। अयमेव सर्वप्रथमं ततः हेवज्रतन्त्रमानीतवान्। इयमेव दीर्घपरम्परेत्युच्यते। 


बुस्तोनोऽस्यां परम्परायां वज्रधर-वज्रडाकिनी-विरूपाद-डोम्बीपाद-ललित-वज्र-वीणापाद-गर्भपाद-पेण्डपाद दुर्जयचन्द्र-वीरवज्र-अक्षोभ्यवज्र-द्वेषवज्रा-चर्याणां क्रममस्थापयत्। 


२. उपपरम्परा कर्णतन्त्रपरम्परा वा 


तिब्बतीय- ङोगस्तोनस्य ( धर्मकायवज्रस्य ) मतानुसारं नागार्जुन एव सर्वप्रथमं हेवज्र-वज्रपञ्जर-चतुष्पीठादीन् तालपत्रे लिखित्वा अडियानत आनीतवानिति। स्मलुङ्पाद-नेपालीयाचार्यफ़लम्थीङपादयोर्मतमस्ति यत् सरोरूहः ( कुक्कुरीपादः) गुह्यचन्द्रतिलकात् सिद्धिमुपलभ्य अडियानतः हेवज्रतन्त्रमामन्त्रितवान्। तत्रानेकसाधनोपायिकाश्चारचयत्। मिस्तोन पुण्यध्वज-रम्पा-इत्यनुसारेण विरूपपादः ज्ञानडाकिनीभ्यः हेवज्रतन्त्रं व्याख्यातन्त्रेण सहोपलब्धवान् अस्मिन् विषये तेन स्वसंवेद्यनामक-निष्पन्नक्रमनिर्देशस्य रचना कृता। अनेन इन्द्रभूतिमाध्यमोऽप्य-नुगृहीतः। केषांचिद् विदुषां मतमस्ति यत् विरूपपादशिष्येण चर्यापदेन औगृहीत-सिद्धं डोम्बीपादपूर्वराजानं सेनरं दमयित्वा ततः अडियानं गत्वा ज्ञानडाकिनीनां परामर्शेन कुलुकुल्ला-आशलिद्वय-हेवज्रगर्भतन्त्राण्यानीतानि। तदुपरि तेन नैरात्म्य-साधना-सहजसिद्धीति ग्रन्थद्वयं रचितम्। तारानाथेन हेवज्रतन्त्रं कम्बलपादसरोरूहाभ्यामामन्त्रितमस्तीति स्वीकृतम्। 


ज्ञेयकोशानुसारं हेवज्रस्य भारतवर्षे अनेकपरम्परा आसन्। तासु सरोरूहवज्र-कृष्णसमयवज्र-दुर्जचन्द्र-रत्नाकर-नाडपाद-मैत्रीपादादीनां परम्पराः प्रमुखा आसन्। हेवज्रस्य टीकासु बोधिसत्त्ववज्रगर्भरचित- हेवज्रपिण्डार्थटीका, सरोरूहवज्रस्य पञ्जिका पद्यिनी, भवभद्रस्य हेवज्रव्याख्याविवरणम्, कृष्णपण्डितस्य पञ्जिकायोगरत्नमाला, दङदशस्य सुविशुद्धसम्पुटः, दुर्जयचन्द्रस्य पञ्जिका कौमुदी, सुकीर्तिभद्रस्य ( नाडपादस्य ) वज्रसारसंग्रहः कृष्णपादस्य पञ्जिकास्मृतिनिपातः पद्याङ्कुरवज्रस्य हेवज्रतन्त्रराज टीका, श्रीरत्नाकरशान्तिपादस्य पञ्जिकामुक्तावली, कामधेनोः पञ्जिकापद्योद्धरणादयश्च प्रसिद्धाः सन्ति। 


इत्थम् एतादृश्यः भारतवर्षे हेवज्रस्य अनेकपरम्परा आसन् किन्तु साधनापद्धतौ चक्रसंवरगुह्यसमाजसमाऽस्य पृथक् पृथक् स्वतन्त्रपरम्परा आसन्। 


चक्रसंवरस्य परम्परा 


भारतवर्षे चक्रसंवरतन्त्रानुसारं साधकस्य परिपक्वतार्थं मुक्त्यर्थं चानेक-साधनापरम्पराणां विकासो जातः। यथा-धर्मराजप्रकाशचन्द्रेण प्रचारितस्य चक्रसंवरस्य डाकार्णवाधृतपरम्परा सिद्धलुईपादीय-आम्नायानुसारं प्रधानीभूत ६२ देवकुलयुतानां व्युत्क्रमिक ( अक्रम ) पुद्गलानां साधनापद्धतिः। आचार्यकृष्णपादीय-आम्नायानुसारं ६२ चक्रसंवरीयदेवकुलानामाविर्भावविधिः। सिद्धवज्रपादीयचक्रसंवरस्य ६२ देवानाम् अत्यन्तगम्भीरकायमण्डलेन सह युगपत् ( ज़्हटिति ) भावनाकरणपद्धतिः। सिद्धलावापादीय-आम्नायानुसारं चक्रसंवरवज्रडाकार्णवपरम्परा। आचार्यनागार्जुनस्य ६२ देवानां साधनापरम्परा इन्द्रभूतेरपि ६२ देवानां साधनापरम्परा। मैत्रीपादस्य १३ एवकुलयुतस्य चक्रसंवरस्य साधनाविधिः आचार्यत्रिनेत्रेण सहजसप्तमतन्त्रमनुकृत्य निर्मिता साधनापद्धतिः। तिब्बते ७०० श्लोकात्मकस्य ५१ परिच्छेदसम्वलितस्य चक्रसंवरमूलतन्त्रस्यानुवादः सर्वप्रथमं रत्नभद्र ( मरदो धर्मेन्द्राभ्यां कृतस्तदनुसारं चक्रसंवरस्य परम्परात्रयं निम्नाङ्कितमस्ति। 


१. वज्रधरवज्रपाणि-ब्रह्यणसरहपाद-नागार्जुन-शबरीपाद-लुईपाद-धारिक-पाद-गन्धपाद-मण्डूक(मेदक) पाद-जालन्धरपाद-गुह्यपाद-विजयपाद-तिलोपाद-नाडपादादयः प्रथमपरम्परायां समायान्ति। परम्परेयं नेपालस्य ची-थेर-पादितः मरपा यावत् तिब्बते समागता। 


२. वज्रधर-वज्रवाराही-लुईपाद- डेङ्गीपाद-वज्रघण्टापाद- जालन्धरपाद-कृष्णपाद-कुशलनाथ-मण्डूक(मेदक) पाद-गुह्यपाद-विजयपाद-तिलोपाद-नाड-पादादयः द्वितीयपरम्परायां गण्यन्ते। परम्परेयं ङोगमाध्यमेन तिब्बते समायाता। 


३. वज्रधर-वज्रवाराही-कृष्णवाराही-कृष्णपाद-गुह्यपाद-विजयपाद-तिलोपाद-नाडपादादिभ्यः परम्परेयं तिब्बते समागत। 


नीलग्रन्थकारो गोस लोचावा महोदयः चक्रसंवरम् इत्थं स्वीकरोति-वज्रधरः वज्रपाणिः सरहः शबरीपादः लुईपादः दारिकपादः डोम्बीपादः वज्रघण्टापादः मेदकपादः जालन्धरपादः कृष्णाचार्यः - विजयपादः तिलोपादः नाडपादः शान्तिपादः मैत्रीपादः दीपंकरस्तथा तिब्बतस्य महाननुवादको रत्नभद्रश्च। 


तदग्रे तिब्बतस्य द्वितीयमरदो परम्परायां-बुद्धज्ञानडाकिनी लुईपाद-डेङ्गी-पाद-लावापाद-इन्द्रभूति-कचपाद-घण्टापाद-जालन्धरपाद-कृष्णपाद-कुशलन-तिलोपाद-नाडपाद-मनकश्रीज्ञानानि नेपालस्य भदन्तस्तथा तिब्बतस्य मरदो प्रभृतयः मन्ति। 


ज्ञेकोशे चक्रसंवरस्य २७ आम्नायानामस्तित्वं कथितम्। प्रायः सर्वा परम्परा तिब्बते समागता। भारतीयाः सर्वे सिद्धाः एतत्तन्त्रानुसारं सिद्धिमलभन्त। अतः साधनायाः अनेकपरम्पराः स्युरित्यत्र नास्ति सन्देहः। तेषु लुईपाद- घण्टापाद-कृष्णापादादयः प्रमुखाः सन्ति। एतदतिरिक्तं दारिकपाद-डोम्बीपाद-कनिष्ठ इन्द्रभूति-लंकाजिनभद्र-दुर्जयचन्द्र-पूर्वदिग्वतिलावापादः ( अर्थात् शून्यताध्यानं ) वज्रपाणेः उत्तरवर्ति-आम्नायो बलभद्र-ब्राह्यणरत्नवज्रादयो मूलतन्त्रोपरि स्वतन्त्ररूपेण व्याख्यानसाधनाप्राणाल्योः प्रशस्तमार्गं कृतवन्तः। एतदतिरिक्तं नागबोधेः विधिः, कलहंसकुमारस्य विधिः, सर्वदेवसमूहानां कृष्णवज्रे ध्यानकरणस्य धर्मपाद-विधिस्तथा पितृ-मातृ-देव-समानवर्णेऽन्यानुचरदेवानां विभिन्नरूपेण भावनार्थं घुण्डरीपादविधिरित्युच्यते। अन्येऽपि चडीपाद-नाडीपाद-धन्यपादानां विधयः। एतदतिरिच्य वीणापाद-अनन्तपाद-भद्रपाद-लडकपाद-कंकलपाद-जयानन्दादयो १५ विधयऽपि। सिद्धैः स्वतन्त्ररूपेण प्रतिपादिताः। एतदतिरिक्तं कालचक्रे व्याकृता बोधिवज्रस्य पद्धतिः मध्यभारते तु न , किन्तु द्रविडे अस्य पूर्णः प्रचारः प्रसारश्च जातोऽद्यापि लभ्यते च। 


बुस्तोनेन चक्रसंवरस्यैतादृशी परम्परा स्वीकृता-वज्रधरवज्रपाणि-सहर-नागार्जुन-शबरीपाद-लुईपाद-दारिकपाद-वज्रघण्टापाद-कुक्कुरीपाद-जालन्धर-पाद-कृष्णाचार्य-गुह्यपाद-विजयपाद-तिलोपाद-नाडपाद-अभयकीर्ति-वागीश्वर-प्रज्ञाकुट-तिब्बतीयमतिकीर्ति-अक्षोभ्यवज्रादयश्च। 


अतश्चक्रसंवरे बहुशो व्याख्याः साधनापद्धतयश्च सन्ति। तत्र मूलतन्त्रस्य बोधिसत्त्वचक्रपाणिना उत्तरार्द्धव्याख्यानामेकस्य ग्रन्थस्य रचनां विधायानुत्तरयोग-तन्त्रस्य गूदार्थतत्त्वानि कालचक्रसाधनापद्धतौ सम्मेल्य व्याख्या कृता। राज्ञा इन्द्रभूतिना मूलतन्त्रभिप्रायस्य मातृतन्त्रस्य सामान्यपद्धतिवत् ( सम्पुटतन्त्रवत्) व्याख्या कृता। आचार्यनक्षत्रचन्द्रेण योगिनीतः साक्षादुपदेशमुपश्रुत्य मूलतन्त्रीयाभिप्रायस्याभिधानोत्तरतन्त्रनामके ग्रन्थे उत्पत्तिक्रमवत् व्याख्यां कुर्वता 'चक्र-संवरोदयसाधनोपायिका - अमृततृषित' नामकस्य ग्रन्थस्य रचना कृता। तद्व्याख्या भव्यकीर्तिना कृता। पञ्जिकां व्याख्यां च मिश्रीकृत्य पुनस्तथागतरक्षितेनैषां व्याख्या कृता। एते सर्वे ग्रन्थाश्चक्रसंवरं मातृतन्त्रपद्धतिवद् व्याख्यान्ति। लावापाद देवगुप्त-सुमति कीर्त्यादिभिरपि परम्परायामस्यां चक्रसंवरस्य व्याख्याः विहिताः। एतदतिरिच्य तिब्बतीभाषायामनूदितचक्रसंवरस्य शब्दार्थप्रकाशः-अलाभचन्द्रस्य रत्न-गणनानामपञ्जिका, शाश्वतवज्रस्य संवरवॄत्यादयः प्रमुखाः सन्ति। 


इत्थं चक्रसंवरस्यानेकपरम्परा आम्नायानां साधनापद्धतयश्च प्रचलिता आसन्। प्रायशः ८४ सिद्धा अपि चक्रसंवरस्य साधनयैव सिद्धिं लब्धवन्तः। 


महामाया 


महामायातन्त्रस्य परम्परा


भारतवर्षे आचार्यविनयदत्त-रत्नाकर-शान्तिपादादिभ्योऽतिरिक्ता अन्या अप्यनेका महामायातन्त्रस्य परम्परा आसन्। तिब्बते महामायातन्त्रस्य सर्वप्रथमं प्रचारः प्रसारश्च नीलग्रन्थकारेण गोसलोमहोदयेन तथा दीपङ्करश्रीज्ञानेन भोट-भाषायामनूद्य कृतः, किन्तु सम्प्रति एतेषां परम्परा तत्र नोपलभ्यते। शान्तिभद्रादीनां परम्परापि भारते विद्यमाना आसीत् यस्यास्तिब्बतीयेन महतानुवादकेन मरपामहोदयेन ( धर्मपतिना ) श्रवणपरम्परया प्रचारः प्रसारश्च कृतः। 


बुस्तोनानुसारं महामायायाः परम्परा निम्नाङ्किता-वज्रधरडाकिनी-कुक्कुरी-पाद-सरोरूह-वज्रडोम्बीहेरूक,तिलोपाद-नाडपाद-ज्ञानभद्र-तिब्बतीयमहा-नुवादक-धर्ममत्यादयश्च। महामायातन्त्रीयटीकासु दुर्जयचन्द्रस्य पञ्जिका मायावती रत्नाकरशान्तिपादस्य गुणवती टीका कृष्णसमयवज्रस्य महामायातन्त्रस्मृतिवृत्ति- अलङ्कारपादस्य पञ्जिका धर्ममतेः महामायानिष्पन्नक्रमादयोः - अनङ्गवज्र-रत्नवज्रादीनामनेके साधनोपायिकादयो ग्रन्थाः प्रमुखाः सन्ति। 


चतुष्पीठस्य परम्परा


चतुष्पीठस्य भारतवर्षेऽनेकपरम्परा आसन्। चतुष्पीठमूलतन्त्रीयव्याख्याश्रिता स्थापिताऽऽर्यदेवपरम्परा तथा चतुष्पीठसंग्रहाधारिता भवभद्रपरम्पराऽऽसु मुख्या आसन्। इमा गयाधरडोगभीमहोदयाभ्यां तिब्बतीयभाषायामनूद्य प्राचार्यन्त। तत्र नरास्थिधारिणी- डाकिनीतः अभिषेकोपदेशौ प्राप्य मरपाधर्ममतिना तस्याः परम्परायाः प्रचारः प्रसारश्च कृतः। 


बुस्तोनेन चतुष्पीठस्य परम्परेत्थं स्वीकृता-वज्रधर-वज्रडाकिनी नागार्जुन-आर्यदेव-प्रज्ञाभद्र- नाडपादतिब्बतीयानुवादक-धर्ममत्यादिः। चतुष्पीठस्य टीकासु-भवद्रस्य श्रीचतुष्पीठतन्त्रराजस्मॄतिनिबन्धः कुशलवर्मणश्चतुष्पीठटीका आर्यदेवस्य गम्भीरार्थनिर्देशः एकद्रुमपञ्जिका, चतुष्पीठयोगतन्त्रसाधना, जगदानन्द-जीवभद्ररचित-श्रीवज्रचतुष्पीठसाधना चेति प्रमुखाः मताः। 


बुद्धकपालस्य परम्परा 


बुद्धकपालतन्त्रस्य सरहपादाभ्याकरयोः परम्पराद्वयं तिब्बते समागतम्। बुद्धकपालतन्त्रे सरहपादस्य पञ्जिकाज्ञानवती, साधनोपायिका अभयाकर-गुप्तस्याभयपद्धति नामकग्रन्थमतिरिच्य पद्यवज्रस्य तत्त्वचन्द्रिका नामिका पञ्जिकाऽपि तिब्बतीभाषानुवादसंवलितोपलभ्यते। 


कालचक्रस्य शम्भलपरम्परा 


भगवान् बुद्धः शम्भलस्य राज्ञे सुचन्द्राय कालचक्रस्योपदेशं कृतवान्। अनेनैव कालचक्रीयमूलतन्त्रं संगृह्यानुशंसा नामकं ग्रन्थं छन्दसि ६००० श्लोकेष्ःउ विरचय्य शम्भलदेशेऽस्य प्रचारः प्रसारश्च कृतः। 


भगवतः परिनिर्वाणस्य वर्षत्रयानन्तरमेव कालचक्रमहामण्डलं निर्माय राजा सुचन्द्रः परिनिर्वाणं प्राप्तवान्। पश्चादस्य परम्परायां देवेन्द्र-तेजस्वि-चन्द्रदत्त-देवेन्द्र-विरूप-देवेन्द्रवान् नामकाः षड् धर्मराजाः समागताः। एभिः सर्वैः मूलतन्त्रस्य व्याख्या कृता। ततः कुलिकवंशीयेषु २५ राजसु केचन समागताः केचन समागन्तार आसन्। तेषु सर्वप्रथमं मञ्जुघोषकीर्तिनाऽपि कालचक्रीयमूलतन्त्रस्यैव प्रचारः कृतः यथा सूर्यरथादिभिरृषिमुनिभिर्निवेदने कृते बृहन्मूलकालचक्रतन्त्रस्य संग्रहः स्रग्धराच्छन्दसि ३००० श्लोकेषु कृतस्तथा स्वीयवंशीयेन कुलिकपुण्डरीकेन ( १२००० ) द्वादशसाहस्रिका विमलप्रभा-व्याख्या रचिता। पुण्डरीकानन्तरं क्रमशः भद्र-विजय-मिश्रभद्र-रक्तपाणि-विष्णुगुप्त-सूर्यकीर्त्यादयो राजानोऽभवन्। अष्टमस्य सुदिव्यनामकस्य राज्ञः समये म्लेच्छधर्मस्य प्रादुर्भावो जात इत्युक्तम्। अस्य सविस्तरव्याख्या कालचक्रस्य विमलप्रभाटीकायामुपलभ्यते। सुदिव्यस्यानन्तरं कुलिकराज्ञां परम्परा निम्नाङ्किता विद्यते-सागरविजयः, सूर्यः, विरूपः, चन्द्रप्रभः, अनन्तः भूमिपालः, श्रीपालः सिंह, विक्रान्तः महाबलः अनिरूद्धः नरसिंहः, महेश्वरः, अनन्तः विजयश्चान्तिमः क्रोधचक्री चेति आगामिष्यन्ति। सर्वे १००-१०० वर्षं यावत् शासनं करिष्यन्ति।


कालचक्रमतानुसारं भोटदेशीयविदुषां मतमस्ति यद् राज्ञः सुदिव्यस्य समये म्लेच्छधर्मः आविर्भविष्यति क्रमशः। अन्तिमः क्रोधचक्री म्लेच्छान् समूलं विनाश्य सद्धर्मस्य प्रचारं करिष्यति तथा पुनः कृतयुगः समागमिष्यति। ज्योतिषा चार्याणां मतानुसारं बुद्धस्य परिनिर्वाणम् अद्यतो २८६७ वर्षेभ्यः पूर्वमेव जातमिति। सुचन्द्रेण मूलतन्त्रस्य संग्रहः २८६६ वर्षपूर्वमेव कृतोऽस्य परिनिर्वाणं २८६४ वर्षपूर्वमेव जातम्। कुलिकमञ्जुकीर्तिना संग्रहतन्त्रस्य पुनः संक्षेपः २२६४ वर्षपूर्वमेव कृतस्तथा म्लेच्छानां समयः १३६३ वर्षपूर्वमेवासीत्। १९८८ वर्षमाधारीकृत्य बुद्धस्य परिनिर्वाणं ७८८ ई पूर्वमभूत् तथा म्लेच्छानां प्रादुर्भावकालः ६२५ खिष्टवर्षसमीपे भवति अन्तिमः कुलिकराजः २२२१ वर्षसमीप आगमिष्यति। 


कालचक्रस्य आर्यदेशीयपरम्परा 


बुस्तोनानुसारं कालचक्रस्यार्यावर्ते प्रचारः राजत्रयस्य शासनकाले शम्भलदेशत आमन्त्रितेन चिलुपण्डितेन कृतः। नीलग्रन्थे गोएलोचावा महोदयेनोक्तं यत् सामान्यतः वज्रयानस्य ( जनसामान्ये ) प्रचारः प्रसारश्च पूर्वदिग्वासिनो राज्ञः प्रकाशचन्द्रस्य समये जातः। अनेन तथागतलोकसंग्रहादियोगतन्त्राणां व्याख्या कृता। तदनन्तरम् आचार्यनागार्जुनेन तच्छिष्यैश्च गुह्यसमाजपितृतन्त्रादीनां दक्षिणभारते व्याख्यानं कृतम्। तदनन्तरं लावापादेनोत्तरदिशि अडियानादितः योगिनीं ( मातृतन्त्रं ) आमन्त्र्य मध्यदेशे प्रचारः प्रसारश्च कृतः। ततः शम्भलतः कालचक्रमानीय चिलुपादादिभिरस्य प्रचारः कृतः। 


आचार्यचिलुपादोऽयं तस्मिन् काले पूर्वकालिकवर्तमानपञ्चप्रान्तेषु अडिविशे समुत्पन्नः। त्रिपिटिकाचार्यचिलुपण्डितोऽयं रत्नगिरि-विहार-विक्रमशिला-नालन्दा-दिषु उपलब्धान् समस्तग्रन्थान् अधीत्यैकस्मिन्नेव जीवने सम्बोधिसिद्धिदात्र्याः विशेषबोधिसत्त्ववृत्तेः ( कालचक्रस्य ) प्रचारप्रसारयोरिच्छां विधायेष्टदेवात् भविष्य-वाणीं प्राप्य रत्नव्यापारिभिः सहैव निवर्त्य मध्यदेशे ( आर्यावर्ते ) अस्य प्रचारं कृतवान्। 


केषांचिदन्येषां विदुषां मतानुसारं चिलुपण्डितः कस्यचिद् योगिनः पुत्रः स्वयं पित्रा सह शम्भलदेशमगात्। तत्रैवावलोकितेश्वरस्य निर्माणकायस्यैकस्य रूपवतो भिक्षोः दर्शनं चकार। तत्कृपातोऽयं १०० श्लोकस्मर्ता जातः। तदनन्तरमयं कालचक्रस्य सम्पूर्णव्याख्यां विमलप्रभां कण्ठस्थीकृत्य ततो निवृत्य च कटकराजसभायामुषित्वा विमलप्रभां लिपिबद्धां चकार। अस्य प्रमुखास्त्रयः शिष्या आसन् येष्वेकः सिद्धिप्राप्तो जिनाकरगुप्तः, द्वितीयः प्रकाण्डविद्वान् पिण्ड आचार्यस्तथा तृतीयः कालचक्र-परिज्ञाता आसीत्। विद्वान् पिण्डाचार्यः वारेन्द्रस्थान उत्पन्नं महाकालपादं शिष्यं चकार। अयं नाडपाद-समकालीनः। केषांचिद् विदुषां मतमस्ति यद् आचार्यमहाकालपादस्तारयाधिष्ठितः। अवलोकितेश्वरेण अस्मै मार्गनिर्देशं विधाय शम्भलेऽभिषिक्तिं च विधाय सम्पूर्णतया तस्यास्मा उपदेशः कृत इति। अनेनैव शम्भलतः कालचक्रम् आमन्त्रितम्। आचार्य कोङटुलरिनपोछे महोदयेनाप्युक्तं यत् महाकालपादः ( मञ्जुवज्रः ) आचार्यः चिलुपण्डितः पिण्ड आचार्यश्च एते त्रयः शम्भलं जग्मुः। ततः एभिः कालचक्रं पृथक् पृथक् आमन्त्रितम्। अतस्तत्रैकस्य द्वयोर्वा श्लोकयोरन्तरमायाति। आचार्यमहाकालपादस्य कनिष्ठकालपाद-सिंहध्वज-अनन्तादयः कतिपये प्रमुखशिष्या आसन्। कनिष्ठकालपादोऽयं पूर्वभारतीयः। बोधि- नालेन्द्रपादादिरस्य नाम पर्यायः। तिब्बतीयकालचक्र-आम्नायः रत्नाकरशान्तिपादमस्य शिष्य इति स्वीकरोति। अयं मगधे अदन्तपुरी- विहारस्याधिकार्यप्यासीत्। तदैव नालन्दां जगाम तथा तत्र तेनोक्तं यत् - यो जनः कालचक्रीयं कूटाक्षरं ( अचिन्त्यलोकधातुप्रतीकात्मकाक्षरं ) आदिबुद्धं न ज्ञास्यति स नामसंगीतिं सम्यक्तया बोद्धुं न समर्थ इति। इत्थमुक्ते सति तत्रत्यैराचार्यैः सह तस्य शास्त्रार्थो जातः। शास्त्रार्थे पराजिता नैके विद्वांसोऽस्य शिष्याः संजाताः। मञ्जुकीर्ति-अभयमहापुण्य-काश्मीरिकगंभीरवज्र-शान्तगुप्त-गुणरक्षितादयः तिब्बते सर्वप्रथमं कालचक्रस्य प्रचारकाः काश्मीरिक-आचार्यसोमनाथः , तिब्बतस्यैव खमसमीपे समुत्पन्नश्चमी ( बुद्धिकीर्तिः ) एते सर्वे अस्य प्रमुखशिष्या आसन्। 


तिब्बते कालचक्रस्य विभिन्नपरम्पराः गणयता आचार्य कोङ्टुलरिनपोछे महोदयेनाभिहितं यत् सर्वप्रथमं कालचक्रस्य प्रचारः प्रण्डितश्रीभरबोधिना ग्यीजोलोचावामहोदयेन मूल-वृत्त्योरनुवादेन कृतः। यश्चानुवादः ठोफ़ूलोचावादिपरम्परया एकः स्वतन्त्र आम्नायोऽभिधीयते। चमी बुद्धिकीर्तिना भारतीयाचार्य-कालपादतः कालचक्रं श्रुत्वा महावृत्तिविमलप्रभाया अनुवादः कृतः। ग्यलो आदितः परम्परितम् आम्नायममुञ्जनाः चमी आम्नायं कथयन्ति। 'रछोस रबे ' ( परधर्मेण ) नेपालीयपण्डितसमन्तश्रीतः अध्ययनं कृत्वा मूल-महावृत्त्योरनुवादं विधाय यस्य प्रचारः कृतः स ' र ' आम्नाय इत्युच्यते। डो लोचावा शेरप डगास महोदयेन ( प्रज्ञाकीर्तिना ) सोमनाथेन सह महावृत्त्योरनुवादः कृतः। डोतोन आकाशकुटादितः परम्परितोऽयम् आम्नाय डो आम्नाय इत्युच्यते। काश्मीरिकमहापण्डितशाक्यश्रीभद्रेण अर्हत् छग-चलधर्मभद्र-शाक्यपण्डितेभ्यः कालचक्रस्योपदेशः कृतः। एभिस्त्रिभिः स्वतन्त्रपरम्पराणां प्रचलनं कृतम्। पण्डितविभूतिचन्द्रणापि तिब्बतेऽनेकजनेभ्यः कालचक्रस्योपदेशः कृतः। इत्थं तिब्बतेऽपि कालचक्रस्यानेकपरम्पराः प्रावर्तन्त। तिब्बते कालचक्रस्यानेके अनुवादास्तथा तेषां परमपराः प्रचहलिता आसन्। तेषु काश्मीरिक-पण्डितसोमनाथडोप्रज्ञाकीर्तिभ्याम-नूदितविमलप्रभायास्तिब्बते सर्वाधिकः प्रचारः प्रसारश्च जातः। अस्मादेव प्रभात ( १०२७ ) वर्षस्य प्रारम्भो जातः। परम्परास्वास्वनेके सिद्धाचार्या अभवन् तेषु बुस्तोन ( महारत्नसिद्धः ) दोलवो पा ( प्रज्ञाध्वजादयः ) प्रमुखा आसन्। नीलग्रन्थे डो परम्परायाः गणना निम्नप्रकारा विद्यते-कुलिकराज्ञः आरभ्य महाकालपादकनिष्ठकालपाद-सोमनाथ-तिब्बतीय-रत्नरक्षित आकाशकुटादयश्च। 


' र ' आम्नाये कुलिराग़्यः चिलुपण्डित-पिण्डोपाद-महाकालपाद-कनिष्ठकालपाद- नेपालीय समन्तश्री-तैब्बत र छोतरज्ञानादयश्च। बुस्तोनेन र डो आम्नाययोर्गणना इत्थं कृता -


' र ' आम्नाये-शाक्यमुनि-सुचन्द्र-सूर्येश्वर-तेजस्वि सोमदत्त-सूर्येश्वर-विश्वमूर्ति-यशः ( यशः ) पुण्डरीकभद्र-विजय-सुमित्र-रक्तपाणि-विष्णुगुप्त-अर्ककीर्ति-सुभद्र-विजय-अजय-सूर्य-विश्वरूप-शशिप्रभा-अनन्त-महीपाल-श्रीपाल-विक्रम-महाबल-अनिरूद्ध-नरसिंह-महेश्वर-अनन्तविजयमहाचक्रिक्रोध-चिलु-पण्डित-पिण्डो आचार्य-महाकाल-चतुष्पाद-अल्पकालचक्रपाद-रत्नाकर-मञ्जुश्री-समन्तश्री ( नेपाल ) परधर्म ( तिब्बतीय ) ज्ञानसिंह-लक्षसिंह-अमोघवज्र-प्रज्ञासिंह-मानसिंह-वज्रध्वज-भद्र-हितसुख-बुस्तोनादयः। 


डो आम्नाये-महाकाल-अल्पकालचक्रपाद-सोमनाथ-तैब्बतरत्नरक्षित-खकूट-अक्षोभ्य-धर्मेश्वर-गगनांश-गगनध्वज-प्रज्ञाभाव-अमोघवज्र-प्रग़्यासिंह-वज्रध्वज-श्रीभद्र-बुस्तोनादयः ( रत्नसिद्धादयश्च )। 


अनुत्तरतन्त्रस्य स्वरूपं भेदश्च 


भोटदेशीयाचार्यैर्यथा स्पष्टरूपेण पितृतन्त्र-मातृतन्त्र-अद्वयतन्त्राणां स्वतन्त्र-रूपेण भेदान् कृत्वा व्याख्या कृता, भारतीयाचार्यैस्तथा नातिस्फ़ुटा विहिता किन्तु तत्तुल्यशब्दस्य प्रयोग उपलभ्यते। यथा वज्रपञ्जरे उक्तं यत् प्रज्ञापारमितामहामुद्रायोगः साधनोपायाश्च यस्मिन् तन्त्रे उपदिष्टाः तद् योगिनीतन्त्रं ( मातृतन्त्रम् ) विद्यते। बुद्धकपाले योगतन्त्रस्य संख्या षट्कोटिस्तथा योगिनीतन्त्रस्य संख्या १६ कोटिश्चा-भिहिता बुद्धकपालस्य अनुत्तरयोगिनीतन्त्रराजत्वमभिहितम्। वज्रगर्भालङ्कारे डाकिनीपितृतन्त्रं डाकिनीमातृतन्त्रं चान्तिममाम्नाय इत्यभिहितम्। गुह्यतत्त्वप्रकाशे उत्पत्तिक्रमनिष्पन्नक्रमयोर्भावना-प्राधान्याद् अनुत्तरतन्त्रोत्पत्तिभूतं प्रधानपितृतन्त्रं निष्पन्नक्रमप्रधानमातृतन्त्रम् इति भेदद्वयमुक्तम्। वज्रपञ्जरे भट्टारिकाभिः संगृहीत-तन्त्रम् डाकिनीमातृतन्त्रम् विद्यते। यत्रोपायभूतमहासुखस्य प्रधानता भवति। तत्रैवोक्तं यत् पुरूशविनेयजनानां कृते पितृतन्त्रस्य तथा स्त्रीविनेयजनानां कृते मातृतन्त्रस्य देशना जाता। हेवज्र-गुह्यकोश-वज्रामृतोद्भव-चक्रसंवर-वज्रपञ्जर-संवरोदयाश्चेति षट् मातृतन्त्रेषु चैतत् प्रकीर्तिताः। योगावतारे श्रद्धाकरवर्मणाऽनुत्तरतन्त्रस्य भेदद्वयं कृतम्-उपाययोगतन्त्रं प्रग़्यायोगतन्त्रञ्चेति। ते कथयन्ति यद् यत्रोदारगम्भीरतत्त्वानां प्रमुखरूपेणोपदेशो जातः तत् प्रज्ञातन्त्रमस्ति। यस्य विनेयजनः स्वमतवादी पुरूषश्च स्यात् तत् पितृदेवप्रधानोपायतन्त्रं, यस्य च विनेयजनः स्त्रीपरमतवादी स्यात् तत् मातृदेवप्रधानं प्रज्ञातन्त्रं विद्यते। यत्र स्कन्धायतनादेः परिशुद्ध्या देवभावना-प्रक्रिया प्रतिपादिता तद् उपायतन्त्रं यत्र च बोधिचित्तं विशुद्धं देवरूपे प्रकटितं दृश्यते, तत् प्रज्ञातन्त्रम्। एवमेव यत्र देवानां लोकानुरूपो निर्देशो जातः तद् उपायतन्त्रं तद् विपरीतो यत्र निर्देशो जातः तत् प्रज्ञातन्त्रमस्ति। 


बुस्तोनेन पितृ-मातृतन्त्रयोः स्वल्पान्तरमित्थं प्रकल्पितम्-


१. अनुत्तरयोगावतारानुसारं यत्रोपायः सविस्तरः प्रतिपादितः स्यात् तत् पितृतन्त्रं यत्र च सविस्तरं गम्भीरार्थस्य प्रतिपादनं जातं तत् मातृतन्त्रमस्ति। 


२. गुह्यतत्त्वप्रकाशानुसारम् उत्पत्तिक्रमस्य प्राधान्येन प्रतिपादयितृ तन्त्रं पितृतन्त्रं विद्यते। निष्पन्नक्रमस्य प्रधान्येन प्रतिपादकं मातृतन्त्रं निगद्यते। 


३. विमलप्रभानुसारं भूतान् क्रमशो लयीकृत्य वज्रभूमि-विधानमण्डला-देर्भावनाविधिः उपायश्च यत्राभिहितः तत् पितृतन्त्रं, भूतादारभ्य सुमेरूपर्वतपर्यन्तम् उद्गच्छतः साधकस्य विमानमण्डलभावनाविधेश्च प्रतिपादयितृ तन्त्रं प्रज्ञातन्त्रम् निगद्यते। 


४. समानानन-भुजयुतो युगनद्धकाय उपायः पितृतन्त्रस्य देवः यत्र मातापितृदेवयोराननभुजादिः भिन्नो भूत्वा युगनद्धकायरूपः स्यात् स मातृतन्त्रदेवोऽभिहितः। यत्र प्रधानमातृ-पितृयुगनद्धकायस्य भुजाननादिः समानः किन्तु अनुचरदेवानां युगनद्धकायेषु आननभुजादिर्भिन्नः स्यात् स च अद्वयतन्त्रस्य देवोऽस्ति। 


५. वज्रपञ्जरानुसारं यत्र तथागतः वज्रडाकिनीरूपः स्यात्तथाऽनुचरेषु मातृदेवीनां प्राधान्यं भवेत् तद् मातृतन्त्रम् इत्युच्यते देवःपञ्चतथागतकुलेषु प्रकटीभूतोऽनुचरेषु च पितृदेवानां प्राधान्यं भवेत्तदा तत् पितृतन्त्रमस्ति। 


६. यत्रासन-सिंहासने रत्ननिर्मिते स्याताम् तदुपरि रत्नालङ्कारचक्रा-दिभिर्विभूषितः क्रोध-प्रत्यालीदमुद्रयोः प्रकटितो देव एव उपायतन्त्रस्य देवो विद्यते। यत्र शवासनं कपालास्थिभिरलङ्कारैर्रत्नीकृतं हस्तेषु कर्तरी-कपाल-खड्ग-डमरूकादि-धारयिता व्याघ्रगजचर्मपरिधानो निर्वस्त्रो नग्नश्च देवो देवप्रज्ञामातृतन्त्रयोर्देवोऽभिहितः। 


७. यन्मण्डलमभितः श्मशानं स्यात् तत् मातृतन्त्रं तदभावश्च पितृतन्त्रम्। 


८. निष्पन्नक्रमिकप्रज्ञापारमिताया उदारमहोपायाभ्यां सह यत्र योगि वर्णितः तत् मातृतन्त्रं, यत्र च स्वाधिष्ठानाभिसम्बोधिक्रमयोः प्राधान्येन निरूपणं तत् पितृतन्त्रमस्ति। 


९. नाडीवाय्वोर्यत्र प्राधान्येन निरूपणं तत् मातृतन्त्रम् यत्र च वायोः प्राधान्येन निरूपणं तत् पितृतन्त्रमस्ति। 


१० . गुह्यसमाजानुसारं यत्र साधकस्य पञ्चस्कन्धविशुद्धपञ्चतथागतेषु परिणतस्य प्रक्रियोपदिष्टा तत् पितृतन्त्रम् यत्र च पञ्चधातून् परिशोध्य पञ्चदेवीत्वेन निरूपणस्य प्रक्रिया वर्णिता तत् मातृतन्त्रमस्ति। 


११. यत्र सूक्ष्मवायोः परिशुद्धितः पञ्चतथागतरूपे परिणत-साधना, तन्मातृ-तन्त्रमस्ति। 


१२. वज्रसत्त्व-चक्रधराभ्यां भट्टारिकाणां समूह उपदिष्टं तन्त्रं पितृतन्त्रम् यत्र च हरूक-वज्रडाकिनीभ्यामुपदिष्टं तन्त्रं तन्मातृतन्त्रमभिधीयते। 


१३. शास्तृ-वज्रधर-अनुचर-बुद्ध-बोधिसत्वानां मध्ये विनेयजनैर्निवेदने कृते कृतोपदेशः पितृतन्त्रं तथा मातृदेवीभिर्निवेदने कृते उपदिष्टं तन्त्रम् मातृतन्त्रम् इत्युच्यते। 


१४. विनेयजनानाश्रित्य यत्र पुरूषसमूहस्य प्राधान्यं तत् पितृतन्त्रम् यत्र च स्त्रीसमूहस्य प्राधान्यं तत् मातृतन्त्रमभिधीयते। 


इमे भेदा व्याप्तिरूपत्वेन स्वीकर्तुं न शक्यन्ते, केवलं तत्प्रधानाङ्गेषु प्रधानरूपत्वेन न्यूनाधिकभावाद् भेदाः कृताः सन्ति। 


भोटदेशीयो विद्वान् पद्यकरपो निष्पन्नक्रमस्य साधनाधारेणानुत्तरतन्त्रस्य भेदत्रयं व्यदधात्। पञ्चक्रमानुसारं यत्र निष्पन्नक्रमस्य भावना क्रियते तत् पितृतन्त्रं चतुर्मुद्राभिर्यत्र निष्पन्नक्रमस्य भावना स्यात् तत् मातृतन्त्रम्। यत्र च प्रत्याहारसमाध्यादिषडङ्गयोगैर्निष्पन्नक्रमसाधना भवेत् तद् अद्वयतन्त्रमस्ति। सिद्धगोदछङपादेनापि चक्रसंवरस्य व्याख्यायाम् इदमेवोक्तम्। 


खसडुब जे आद्याचार्यैरनुत्तरतन्त्रस्य पितृ-मातृभेदेन विभागद्वयं कृतम्, तथा गुह्यसमाज-कृष्णयमारितन्त्र-वैरोचनमायाजाल-अनुत्तरमायाजाल-वज्रसत्त्वमाया-जालादयः पितृतन्त्रे समायातास्तथा च मातृतन्त्रे चक्रसंवर-हेवज्र-कालचक्र-महामुद्रातिलक-महामाया-बुद्धकपालादयः समायान्तीति स्वीकृतम्। 


शाक्यसम्प्रदायाचार्यैः छोसग्यलफ़गसपामहोदयैरद्वयतन्त्रे-हेवज्र-हेवज्र-असामान्यव्याख्यातन्त्र-वज्रपञ्जर-सामान्यव्याख्यातन्त्रसम्पुटतन्त्र-ज्ञानतिलक-उत्तर-तन्त्र-ज्ञानगर्भयोगिनीतन्त्र-तत्त्वप्रदीप-गुह्यप्रदीप-महामुद्रातिलक-उत्तरोत्तरतन्त्र-नामसङ्गीति-कालचक्रादीनां गणना कृता। प्रज्ञातन्त्रे-चकसंवर-महामाया-बुद्धक- पालादीनाम् उपायतन्त्रे च गुह्यसमाज- वज्रमाला-कृष्णयमारितन्त्रादीनां समावेशः कृतः। 


जमगोन्-अमसजब्समहोदयेन महायोगतन्त्रस्य भेदत्रयं कृतम्। अस्य मतानुसारं पितृतन्त्र-गुह्यसमाज-मातृतन्त्रादयः सर्वे चक्रसंवरान्तर्गता एव सन्ति। अद्वयतन्त्रस्य पुनरपि आभ्यन्तरोदार-गम्भीरार्थविस्तारनामद्वयेन भेदद्वयं विधाय प्रथमे हेवज्रस्य द्वितीये कालचक्रस्य गणना कृता। कर्मायोनतनग्याछोमहोदयेन नेयार्थमात्रे पितृ-मातृ-अवयतन्त्राख्यं भेदत्रयं विधाय नीतार्थे समस्तानुत्तरतन्त्राणि अद्वय-तन्त्राण्येव इति स्वीकृतम्। तेषां मतमस्ति यद् उपाये पितृदेवोत्पत्तिक्रमस्य मन्त्रविधेश्च प्राधान्यं भवति। मातृतन्त्रे मातृदेव्या उत्पत्तिक्रमेण मन्त्रविधिना च सहानेकमहत्त्वपूर्णोपायानां गम्भीरता भवति। अतः पितृतन्त्रापेक्षया मातृतन्त्रमतिगहनम्। 


आचार्यसेरतोगपामहोदयानां मतानुसारं पितृ-मातृतन्त्रयोरभेद एव अद्वयतन्त्रम् विद्यते। अर्थात् अद्वयतन्त्रमिदं नास्ति किञ्चित् स्वतन्त्रन्तन्त्रम्। पितृतन्त्र-उपायतन्त्र-डाकिनीमातृतन्त्र-योगिनीतन्त्रादीनि ह्येतानि नामपर्यायाणि सन्ति। प्रथममिदं पितृतन्त्रमभिधीयते, यतो हि बुद्धस्य रूपकायस्येदमुपादानकारकं बीजतुल्यं च। तन्त्रमिदं प्रज्ञोपायायोरूपायोऽर्थात् आभासपक्षोऽस्ति। द्वितीयतन्त्रं मातृतन्त्रमभिधीयते यतो हीदं मातृसदृशं प्रज्ञातन्त्रं प्रधानतः परमार्थसत्येनाभिन्नमहासुखज्ञानफ़ले धर्मकायस्योपादानमस्ति प्रज्ञोपाययोः प्रज्ञापक्षोऽस्ति। पारमितानये उक्तं यत् ( शून्यतायाः ) प्रज्ञापारमितायाः विभिन्नोपायेषु मिलितेषु विभिन्नप्रकाराणां फ़लानां देवकायस्य ( उपायस्य ) मातृसदृशमहासुखशून्यताऽभिन्नत्वे सति युगनद्धत्वमुपलभ्यते लोकेऽपि पितृवत् पुत्रकुलं निर्धारितं भवति। 


सारांशः 


पूर्णप्रकरणस्य सारांशोऽयमास्ति यत्-भोटाचार्येरनुत्तरतन्त्रमिदं पितृ-मातृ-अद्वयतन्त्रत्वेन स्वीकृतम् एतन्नामतन्त्रम्। भारतीयाचार्याणां मतानुसारं तन्त्रमिदम् इत्थं स्पष्टरूपेण त्रिधा विभज्य व्याख्यातं स्यादिति न कुत्रापि प्रतीयते। वज्रगर्भालङ्कारे डाकिनीमातृडाकिनीपितृतन्त्रद्वयम् अन्तिमं स्वीकृतमस्ति। अतस्तन्त्रद्वयस्याधारं स्वीकृत्य भोटदेशीयाचार्यैः पितृ-मातृ-अद्वयरूपेण भेदाः कृताः इति प्रतीयते। अन्यथा स्वतन्त्ररूपेण अद्वयतन्त्रमेकमेवास्तु। कालचक्रे समागतं प्रग़्योपायतन्त्रद्वयमपि स्वतन्त्रतन्त्रत्वेन स्वीकर्तुं न शक्यते, यतो हि केवलं प्रज्ञायां प्रतिपादितायाम् उपायहीनत्वाद् युगनद्धकायस्य प्राप्तिरसम्भवा। तद्वदुपायमात्रेणापि। यैश्च गुह्यसमाजादिः पितृतन्त्रीयग्रन्थोऽभिहितस्तेषामपि मतानुसारं तत्रापि प्रज्ञोपायद्वयस्याभिन्नरूपेण व्याख्या साधनापद्धतिश्चायाति। यथा -


प्रज्ञोपाय-समापत्तिः योग इत्यभिधीयते। 

यो निःस्वभावतः प्रज्ञा उपायो भावलक्षणम्।। 


हेवज्रो मातृतन्त्रस्य ग्रन्थोऽभिधीयते। तत्रापि ( मातृ-पितृतन्त्रयोः) अद्वयभावनार्थं कथितम्। यथा-


हेकारेण महाकल्पा वज्रं प्रज्ञा च गण्यते। 

प्रज्ञोपायात्मकं तन्त्रं तन्मे निगदितं शृणु।। 


इत्थं समस्तानुत्तरतन्त्रं प्रज्ञोपाययुगनद्धस्यैव व्याख्यां करोति। स्वतन्त्रत्वेन पृथक् पृथक् नास्ति। विशेषप्रयोजनान्यादाय भिन्नं भिन्नं नाम दत्तमस्ति। साधनाऽवसरे मातृतन्त्रीयसाधकाः महासुखं शून्यतां वाधिकं साधयन्ति। यथा-वज्रपञ्जरस्य १३ तमे परिच्छेदे उक्तं यत् प्रज्ञापारमितोपायो योगिनितन्त्रमस्तीति। महामुद्रायाः प्रयोगं विधायात्र योगिनः प्रविशन्ति। अत इदं योगिनीतन्त्रमभिहितम्। अर्थात् मातृतन्त्रे चण्डाल्यादेर्भावनां प्रधानरूपेण कृत्वा उष्णीषकमलात् शुक्रस्य अधः क्षरणे जाते पुनश्चोर्ध्वगतौ चतुरानन्दस्य चतुःशून्यतायाश्च साक्षात्कारं विधाय महासुखशून्यतायां दार्द्यमुपलभ्य महासुखज्ञानस्याधारभूतेन पञ्चरश्मियुतेन वायुना संवृतिमायाकाये उत्थापितस्य प्रक्रिया मातृतन्त्रे हेवज्रे वा प्रधानरूपेन निर्दिष्टा विद्यते। सहजप्रग़्यापारमितायाः धर्मकायप्रापिकया महासुखशून्यतयाऽभिन्नरूपेन योगो भवति। अयं शून्यतापक्षे प्रज्ञाया अंशः। अतः प्रज्ञेयं ' माता ' इत्युच्यते। पितृतन्त्रगुह्यसमाजादौ डाकार्णवतन्त्रानुसारं योगिनां कृते प्रभास्वरमायाकायादिसिद्धिभिः युगनद्धकायस्य प्राप्तिविधिरभिहितः। अर्थात् प्रभास्वरस्योदयस्थाने हृदयकमले क्रमशो वायुर्विलीनतामुपगच्छन्ननुलोमक्रमे प्रतिलोमक्रमे च चतुःशून्यतायाः बोधं कृत्वा आलोकालोकाभासोपलब्ध्यनन्तरं प्रभास्वरस्य साक्षात्कारं करोति तथा च प्रभास्वरस्याधारभूतेन पञ्चरश्मियुतेन वायुना संवृतिमायाकाये उत्थापनं जायते। पितृतन्त्रमिदं गुह्यसमाजोऽस्ति। तदुत्पन्नक्रमसम्बद्धा व्याख्या पञ्चक्रमे नागार्जुनेन सविस्तरं कृता। विधिरयं पितृतन्त्रीयविधिरित्युच्यते। 


यद्यपि तन्त्रत्रयमेतद् अद्वयतत्त्वमेव प्रतिपादयते तथा च भावनिष्पत्तौ सर्वत्र अद्वयस्य समानतया किन्तु साधनाविधौ सूक्ष्मप्राण-वायु-तिलकयोगानां प्राधान्यमेवं प्रभास्वर-मयाकाय-महासुखस्वरूपे तथा मायाकायस्य साधनाभेदाद् एतद् ग्रन्थत्रये सूक्ष्मान्तरमवलोक्यते। 


अनुत्तरतन्त्रस्य क्रमद्वयम् 


पारमितानये परमार्थसत्यं-संवृतिसत्यं चाविरोधि मिथः संवृतिसत्यं स्वस्वरूपानुसारं परमार्थसत्यं पुष्णाति। यतो हि संवृत्तिसत्यम् उच्छेदस्य निषेधं करोति, परमार्थसत्यं शाश्वतस्य च। अथवा परमार्थसत्यं स्वभावसत्तायाः निषेधं कृत्वा सापेक्षताम् अर्थात् संवृतिसत्यं बोधयति तथाऽन्यतः संवृतिसत्यस्याश्रयेणैव परमार्थस्य बोधो भवति अतः सत्यद्वयम् अग्नि-तदुष्णतातुल्यं धमधर्मिरूपेणास्ति। पारमितानयेऽस्य सत्यद्वयस्य यत् स्थानमस्ति तदेव स्थानं वज्रयाने क्रमद्वयस्यास्ति। हेवज्रतन्त्रे उक्तम्-


क्रमद्वयं समाश्रित्य वज्रिणां धर्मदेश्ना।

उत्पत्तिमात्रं कथितमुत्पन्नं कथयाम्यहम्।। 


समाजोत्तरतन्त्रेऽप्युक्तम् -


क्रमद्वयमुपाश्रित्य वज्रिणां तत्र देशना।

क्रममौत्पत्तिकं चैव क्रममौत्पन्नकं तथा।। 


वज्रपञ्जरे क्रमद्वयस्य प्रयोजनं स्पष्टीकुर्वन् भगवानवोचद् यथा-सामान्यविकल्प-प्रहाणार्थमुत्पत्तिक्रमस्य तथा शुद्धविकल्पस्याथवा प्रणीतदेवरूपं प्रत्यभिनिवेश-प्रहाणार्थं उत्पन्नक्रमस्य भावना क्रियते। हेवज्रेऽप्युक्तम् -


उत्पत्तिक्रमयोगेन प्रपञ्चं भावयेद् व्रती। 

प्रपञ्चं स्वप्नवत् कृत्वा प्रपञ्चैर्निष्प्रपञ्चयेत्।। 


सामान्यतः कल्पनया आश्रयाश्रितमण्डलस्यार्थात् आदर्शे प्रतिबिम्बितरूपवत् निःस्वभावदेवदेवीनिमण्डलस्य भावनाकरणमुत्पत्तिक्रमोऽस्ति। हेवज्रस्य टीकायां योगरत्नमालायामपि एवमेवार्थः कृतोऽस्ति। 


दगपोटशीनमग्यलेनापि कथितं यत् तत्त्वोत्पत्तिवदासनायुधबीजादिभिः देवाकारेऽपि मुख-भुजादेः कल्पनां कृत्वा देवतामण्डलयोर्भावनाकरणमुत्पत्तिक्रमः। तथा मृत्युकाले भूतानां संहारक्रमवद् उत्पत्तिक्रमीयदेवानां वर्ण-संस्थानादिकं बिन्दौ परिवर्तितं विधाय बिन्दुमपि क्रमशः नादे नादमपि निरुद्ध्य निष्प्रपञ्चगगनवदद्वये स्थितकरणं निष्पन्नक्रमोऽस्ति। हेवज्रतन्त्रटीकायोगरत्नावल्यामप्युक्तं- उत्पन्नं स्वाभाविकमेव रूपम्। तदेव तत्त्वारूपेणाधिमुच्यते भाव्यते यस्मिन् योगे स उत्पन्न- क्रमः। 


तत्रैतद् वचमपि उद्धृतमस्ति-


श्रुतं सहजमित्युक्तं द्विधा भेदेन भेदितम्। 

सांवृतं देवताकारमुत्पत्तिक्रमपक्षतः।। 


विवृतिसुखरूपं तु निष्पन्नक्रमपक्षतः। 

सत्यद्वयं समाश्रित्य बुद्धानां धर्मदेशना।। 


गुह्यसमाजस्य टीका प्रदीपोद्यतने उत्पत्तिनिष्पन्नक्रमयोर्नेयार्थनीतार्थत्वं निर्दिश्य प्रथमः कल्पितः स च द्वितीयनिष्पन्नक्रमस्य साधनत्वेनाभिहितः। कल्पितसाधनानिष्पन्नक्रमौ स्पष्टं कुर्वता आचार्यचोङ्खापामहोदयेनोक्तं यत् यद्यपि साधनाद्वयं स्व-स्व उपायक्रमस्याश्रयमादाय देवकाये निष्पद्यते किन्तु कल्पितसाधनायाः ( उत्पत्तिक्रमे ) साधकः स्वर-व्यञ्जनाक्षरैः सूर्यचन्द्रायुधादिषु परिणतो भूत्वा स्वयम् इष्टदेवं कल्पनया निष्पादयति। निष्पन्नक्रमे-स्वरव्यञ्जनाक्षरादेर्लक्ष्यार्थः बोधिचित्तम्। श्वेतरक्तवायुं च अवधूतीनाड्यां प्रवेश्य- तथाऽऽलोक-आलोकाभासलब्धज्ञानादीनामभिमुखे संजाते सूक्ष्मप्राणचित्तेन मायाकाये उत्थापितो भवति। अतः कल्पिताकल्पितभेदात् तद्भूतदेवकायस्यापि रूपद्वयमस्ति। वज्रयानभूमिमार्गव्यवस्थायाम् आचार्यसेरतोगपा महोदयः संक्षेपेण वक्ति यत् यो हि साधको भावनाबलेन वायुं मध्यमानाड्यां प्रवेशयितुं न शक्नोति तथा स्वकार्यनिष्पन्नक्रमसन्ततेः परिपक्वतार्थं जन्म-मृत्यु-अन्तराभवसदृशबुद्ध्यादिभि ( विकल्पादिभि)नूतनां प्रज्ञप्तिं कृत्वा भावनां करोति स उत्पत्तिक्रमोऽस्ति। कृत्रिमयोग-प्रज्ञप्तियोग-प्रथमयोग-परिपाचकयोगादिरस्यैव नामान्तरमस्ति। 


भावनाबलेन वायोर्मध्यमायां प्रवेशानन्तरं तत्रैव तस्य स्थितिविलीनताभ्याम् उद्भूतः शैक्षिकसन्ततियोगो निष्पन्नक्रमो वर्तते। अकृत्रिमयोग-अप्रज्ञप्तियोग-द्वितीय-क्रमयोग-मुक्तियोगादिरस्यैव नामपर्यायोऽस्ति। क्रमद्वयभावनायां साधकाः सम्पूर्ण-ब्रह्याण्डं देवी-देवतारूपेण परिणाम्य भावयन्ति। यथा- वसन्ततिलकटीकारहस्य-दीपिकायामभिहितम्। 'पञ्चबुद्धात्मकः सर्वत्रयोऽयम्' तत्रैव - नरा वज्रधराकारा योषितो वज्रयोषितः ' सर्वसत्त्वानां काय-वाक्-चित्तव्यवहारात्त्रिकुलगुह्यमादिः समायातः। गुह्यसमाजेऽप्युक्तम्-


पञ्चस्कन्धाः समासेन पञ्चबद्धाः प्रकीर्तिताः। 

वज्रायतनान्येव बोधितत्त्वाग्र्यमण्डलम्।। इति। 


तत्रैव सर्वभूतानां देवीरूपत्वेन कल्पना कृता विद्यते -


पृथिवी लोचनाख्याता अब्धातुर्मामकी स्मृता। 

पाण्डराख्या भवेत्तेजो वायुस्तारा प्रकीर्तिता।। 

खवज्रधातुसमयः सैव वज्रधरः स्मृतः।। 


इत्थं सम्पूर्णस्थावरजङ्गमात्मकं जगत् देव-देव्योः परिणतीभूय भावनाकरणेन सामान्यवस्तूनि प्रति आत्मधारणस्य अथवा सामान्यविकल्पस्य प्रहाणं जायते। यश्चोत्पत्तिक्रमोऽस्ति। पुनर्देव-देवीरूपेऽभिनिवेशः स्याच्चेत् सोऽपि पूर्ववत् बन्धनाय क्षमते। अस्यां स्थितौ बन्धनं लौहशृङ्खलया स्वर्णशृङ्खलया वा भवेत्, बन्धने द्वयमपि समानम्। अतस्तदभिनिवेशप्रहाणार्थं निष्पन्नक्रमस्य भावना आवश्यिकी भवति। निष्पन्नक्रमस्य भावनाविधिं स्पष्टयता पञ्चक्रमेऽभिहितम्-

पिण्डग्रहाक्रमेणैव तथा चैवानुभेदतः। 

शिरसः पादतो वापि यावद् हृदयमागतः।। 


भूतकोटिं विशेद् योगी पिण्डग्राह इति स्मृतः। 

स्थावरं जङ्गमं चैव पूर्वं कृत्वा प्रभास्वरम्। 

पश्चात् कुर्यात् तथात्मानम् अनुभेदक्रमो ह्ययम्।। 


अर्थात् सम्पूर्णस्थावरजङ्गमात्मकस्य जगतः प्रभास्वरे विलीनतया तत्त्वे स्थितिरेव सामान्यनिष्पन्नक्रमविधिरित्युच्यते। यथा-संवृतिसत्यस्याश्रयं बिना परमार्थसत्यस्य साक्षात्कारत्वं न सम्भाव्यते। अथवा संवृतिसत्यमेव परमार्थसत्यबोधोपायः। तद्वत् निष्पन्नक्रमबोधार्थमुत्पत्तिक्रमस्य पूर्वगतिरनिवार्या। यथा पञ्चक्रमेऽभिहितम्-


उत्पत्तिक्रमसंस्थानां निष्पन्नक्रमकाक्षणाम्। 

उपायश्चैव सम्बुद्धैः सोपानमिव निर्मितः।। 


आर्यदेवेनापि चर्यामेलापकप्रदीपे उक्तं यत्- आदिकार्मिकतत्त्वानां तदर्थे ( निष्पन्नक्रमे) प्रवेशार्थं भगवान् बुद्ध उपायकौशलत्वेनोत्पत्तिक्रमं सोपानमिव प्रतिपादितवान्। पूर्वप्रपञ्चयुक्तयोगं भावयित्वा सामान्यविकल्पस्य परिशोधनं क्रियते पुनश्च विकल्पितरूपस्य विश्लेषणं विधाय निर्विकल्पभावनयाऽभिनिवेशस्य परिहारं कृत्वा बोधिः लभ्यते। 


क्रमद्वयस्य भावनां विचारयता दगपो दशीनमग्यलमहोदयेन सामान्यतन्त्रनामके ग्रन्थे कथितं यत्, नागार्जुनस्याधिका अनुयायिन उत्पत्तिक्रमे बुद्धत्व लाभानन्तरं निष्पन्नक्रमस्य भावनां कुर्वन्ति। तत्रैव पद्यवज्र-अजितचन्द्रादयः प्रथमयामे उत्पत्तिक्रमस्य तथा द्वितीययामे निष्पन्नक्रमस्य भावनां कर्तुं कथयन्ति। भोटिदेशीयविदुषां मतमस्ति यद् यथा पक्षिणां उड्डयनार्थं पक्षद्वयस्यावश्यकता भवति तद्वद् उत्पत्ति-निष्पत्तिक्रमयोर्भावना युगपत् क्रियते। पुष्प-गन्धयोस्तुल्या क्रमद्वयस्य स्थितिरस्ति। अता एषां मतेन क्रमद्वयस्य युगपद् भावना करणीया। हेवज्रेऽपि इदमेव वाक्यमुक्तम्-


उत्पन्नक्रमयोगोऽयं सुखं महासुखं मतम्। 

उत्पन्नभावनाहीनो उत्पत्त्या किं प्रयोजनम्।। 


देहाभावे कुतः सौख्यं वक्तुं ( चापि ) न शक्यते। 

व्याप्यव्यापकरूपेण सुखेन व्यापितं जगत्।। 


यथा पुष्पाश्रितं गन्धं पुष्पाभावान्न गम्यते। 

तथा समाध्यभावेन सौख्यं नैवोपलभ्यते।। 


परं च अस्याः पद्धत्या अनुकरणं स एव साधकः कर्तुं शक्नोति यः परिपक्वस्तीव्रेन्द्रियसम्पन्नश्च स्यात्। सर्वविनेयजनेभ्यो नोपयुक्तोऽयं मार्गः। यथा वज्रगर्भव्याख्यातन्त्रे बुद्धेनोक्तम् - अनन्तविकल्पजालैर्बद्धानां सत्त्वानां त्रिजगद्दुःखतो निवृत्त्यर्थं तदभिरूचियोग्यतयोरनुसारं शास्त्रेषु क्रमद्वयान्तर्गतानेकोपायानां ( विधीनां ) उपदेशः कृतः। यो विकल्पवासनयाधिको ग्रस्तस्तत्कृते विकल्पस्वरूपपूजामण्डलनिर्माणादिविधिभिरूत्पन्नक्रमस्य देशना कृता। यथा कर्षणखननादिभिः क्षेत्रं समृद्धं क्रियते तद्वत् साधके परिपक्वे जाते स निष्पन्नक्रमभावनार्थं प्रेर्यते यदा साधको वास्तविकनिष्पन्नक्रमयोगे आरूदो भवति तदा स विकल्पेन प्रज्ञप्तनिर्मितोत्पत्तिक्रमभावनां त्यजेत्। 


डाकार्णवतन्त्रेऽप्युक्तं - वास्तविकयोगाधिगमार्थं कृत्रिमध्यानभावना करणीया। कृत्रिममन्त्राद्यावृत्या साधकोऽकृत्रिमयोगे स्थितो भवति। यदा साधकोऽकृत्रिमयोगे स्थातुं शक्नोति तदा तेन कृत्रिमध्यानभावना त्यक्तव्या। यथा-नदीपारे कृते नावः आवश्यकता न भवति नावं तत्रैव जनास्त्यजन्ति तद्वत् निष्पन्नकमेणाकृत्रिमभावे स्थिते सति कृत्रिमदेवयोगभावना त्यज्यते। गुह्यादिसिद्धावप्युक्तम्-


उत्पन्नक्रमयोगेन त्यक्त्वा सर्वप्रयत्नतः। 

उत्पत्तिविस्तरं दूरमादिकार्मिकभावनाम्।।


तन्त्रसद्भावमाश्रित्य सिद्धिसंदे(दो) हलक्षणम्। 

विहाय विस्तरं सर्वं भावनायान्तरायिकम्।। 


वसन्ततिलकेऽपीत्थमेवोक्तम्-


कृत्रिमं मण्डलं त्यक्त्वा कृत्रिमं होमकर्म च। 

कृत्रिमां भावनां चापि कृत्रिमं जपमेव च। 


कृत्रिमं सर्वमित्यादि स्वभावयोगरूपतः। 

कृत्रिमा प्रक्रिया बाह्यस्वरूपप्रतिपत्तये। 

स्वरूपप्रतिपत्तौ तु प्रक्रिया नैव कारणम्।। 


यथा पारार्थिभिः कैश्चित् कोलो वा सुप्रयुज्यते। 

त्यज्यते पारमागम्य प्रक्रियाऽपि तथैव सा।। 


डाकार्णवतन्त्रे मण्डलादि कर्म यच्च कृत्रिमचित्तेन निर्मीयतेत् तद् बाह्यचर्येत्यभिधीयते। इयमादिकर्मिभ्य उपदिष्टा अनया लौकिकी सिद्धिर्लभ्यते। अलौकिक्याः असाधारणसिद्धेरूपलब्धिर्न जायते। गुह्यसमाजोत्तरतन्त्रेऽपि सेवोपसेवादिचतुर्वज्रयोगैः सामान्यसिद्धेस्तथा प्रत्याहारध्यानादि षडञ्गयोगैरसामान्यसिद्धेरूपलब्धिरभिहिता-


एभिर्वज्रचतुष्केण सेवासामान्यसाधनम्। 

उत्तमे ज्ञानामृते चैव कार्यं योगषडङ्गतः।। 


सेवा षडङ्गयोगेन कृत्वा साधनमुत्तमम्। 

साधयेदथवा नैव जायते सिद्धिरूत्तमा।। 


हेवज्रस्य व्याख्यातन्त्रे वज्रगर्भतन्त्रे भगवान् वक्ति यद् यथा कोद्रवबीजतः शलिफ़लस्योत्पत्तिर्न जायते तद्वत् विकल्पबीजत उत्पन्नं फ़लमपि सविकल्पं स्यात् भगवान् सम्पुटतन्त्रे वक्ति-


विकल्पो हि महामोहः संसारोदधिपातकः। 

निर्विकल्पसमाधिस्थो भाति खमिव निर्मलः।। 


अस्य व्याख्यां कुर्वन् बुस्तोनमहोदयो वक्ति यत् परित्याज्यो हि विकल्पः। अयं द्विधा भवति- १. सामान्यावधारणा या च दुर्विकल्पेत्युच्यते, २ . देवादेरवधारणा या च ( उत्पत्तिक्रम) भद्रविकल्पेत्युच्यते। द्वितीयः प्रथमस्य प्रतिषेधः भद्रविकल्पश्च निष्पन्नक्रम-निर्विकल्पज्ञानेन त्यज्यते। 


किं तर्हि उत्पत्तिक्रमस्त्याज्यः? प्रज्ञप्तिमात्रेण विकल्पेन च निर्मितत्वात्। यदि त्याज्यस्तर्हि युगनद्धचक्रधरस्य प्राप्तिः कथम् भवेत्? यतो हि प्रज्ञोपायाद्वयस्य भावनां कृत्वा फ़लावस्थायां युगनद्धस्य प्राप्तिर्भवेत्। न केवलमेतदेव, बोधिथप्रदीप उपायं बिना प्रज्ञा, प्रज्ञां बिना उपायस्तु बन्धनमभिधीयते। विमलकीर्तिनिर्देशसूत्रे इदमेव वाक्यमुक्तम्। 


हेवज्रेऽपि वज्रगर्भेण प्रश्ने कृते सति यत् निष्पत्तिक्रमभावनयैव महासुखस्य प्राप्तिः स्याच्चेत् तर्हि उत्पत्तिक्रमस्य किमावश्यकत्वम् इति ? प्रश्नस्यास्योत्तरे भगवानाह- देहाभावे कुतः सुखम् ? अयं पुष्पाश्रितो गन्धवदभिन्नरूपः। अत उत्पत्तिक्रमं बिना नास्ति सम्भवो निष्पन्नक्रमस्य। पुनरप्यत्र प्रश्नः समापतति यत् किं तर्हि बन्धनवत् उत्पत्तिस्त्याज्येत्यभिहितम्। विकल्पः कृत्रिमश्चायमित्युक्त्वा तदवहेलना कृता ? 


सामान्योत्पत्तिक्रमस्तु विषयवस्तूनि प्रत्यभिनिवेशप्रहाणस्य प्रतिपक्ष उच्यते। तन्त्रस्य साधकैः नूतनसंसारोपलब्धिवत् स्थावरजङ्गमात्मकं जगत् स्वरूपं परिवर्त्य देव-देवीनां भावनालोकस्यापि मण्डलस्वरूपभावानां करणीया भवति। येन तस्य सामान्यदृष्टिर्विषयाऽवधारणे पर्वर्तते। तन्त्रशास्त्रस्येयमेवैका महत्त्वपूर्णविशेषता विद्यते यद् अत्र विकल्पस्य विकल्पेन प्रहाणं रागस्य रागेण नाशः क्रियते। 


हेवज्रतन्त्रे उक्तम् -


येनैव विषखण्डेन म्रियन्ते सर्वजन्तवः। 

तेनैव विषतत्त्वज्ञो विषेण स्फ़ोटयेद् विषम्।। 


यथा वातगृहीतस्य माषभक्ष्यं प्रदीयते। 

वातेन हन्यते वातो विपरीतौषधिकल्पनात्।। 


भवः शुद्धो भवेनैव विकल्पः प्रतिकल्पितः। 

कर्णे तोयं यथा विष्टं प्रतितोयेन कृष्यते।। 


तथा भवविकल्पोऽपि आकारैः शोध्यते खलु। 

यथापावकदग्धाश्च स्विद्यन्ते वह्निना पुनः। 

तथा रागाग्निदग्धाश्च स्विद्यन्ते रागविह्नना।। 


एतद् व्याख्यायमानः कोङटुलरिनपोछे वक्ति सामान्यविकल्पस्य निरोधार्थं देवयोगोऽत्यन्तमहत्त्वमावहति। यथा कमपि शत्रुं प्रति अयमस्माकं मित्रमित्यवबुध्य पौनः पुन्येन विचारे कृते शत्रुता क्षीयते। 


प्रमाणवार्तिकेऽप्युक्तम् -


तस्माद् भूतमभूतं वा यद् यदेवाति भाव्यते। 

भावनापरिनिष्पत्तौ तत् स्फ़ुटाकल्पधीफ़लम्।। 


कामशोकभयोन्माद-चौरस्वप्नाद्युपप्लुताः। 

अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव।। 


मन्त्रनये दुःखम् आर्यसत्यमेव ( स्थावरजङ्गमं ) परिवर्त्य भावना क्रियते। पारमितानये च तद्धेतु-समुदय-सत्यादेः निरोधस्य प्रयासः क्रियते। कार्यावरोधात् स्वयं कारणमवरूध्यते तद्वद् रागमपि जानीयात्। पारमितानयवद् रागस्य प्रत्यक्षाऽनुपस्थितौ पारमार्थिकयुक्तिभिः रागस्य शून्यतायां प्रतिपादनेन पुनः रागस्योत्पत्तिनिरोधे महान् प्रयासः करणीयो भवति। एतद्विपरीतं मन्त्रनये प्रतिपक्षः राग उत्पाद्यते। एतद्रागे उत्पन्ने सामान्यचैतसिको रागः स्वस्मिन्नेव लीयते। अस्यामवस्थायां ससम्प्रजन्यं निष्प्रपञ्चशून्यतायां प्रविशेच्चेद् रागो रागो न भूत्वा महारागे शून्यतास्वरूपं महासुखं जायते। इदमेव कारणमस्ति यत् तन्त्रसाधकान् रागानुसारं चतुःस्तरेषु विभज्य भगवान् बुद्धः सम्पुटतन्त्रे क्रिया-चर्या-योग-अनुत्तरयोगैः रागमार्गीकरणं देशितवान्। 


हासदर्शनपाण्याप्तिः स तु तन्त्रे व्यवस्थितः। 

रागश्चैव विरागश्च चर्वयित्वा घुणः स्थितः।।


यदि पुनर्वयं तस्मिन्नेव भद्रविकल्पेऽभिनिवेशं कुर्याम तदप्युचितं नास्ति। अतः परमार्थं प्रतिपादयता नागार्जुनेन तथागतचतुरार्यसत्यानि विश्लष्य शून्यता प्रतिपादिता, तद्वत् सामान्यनिष्पन्नक्रमे स्वमतं विवृण्वता विकल्प-प्रहाणे स्वकीयाभिमतं प्रकटितम् इति प्रतीयते। अन्यथा रूपकाये उपादानहेतोरूत्पत्तिक्रमस्य स्थितिरेव न भवेत्, अवस्थायामस्यां निष्पन्नक्रमस्य स्थितिरपि केवलं निषेधात्मिका न भूत्वा महासुखस्वरूपा पर्युदासविधिरूपा जायताम्। कर्मजप्राणवायोः अवधूत्यां कृते प्रवेशे यच्च सूक्ष्मवायुना ज्ञानकाये उत्थापनं भवति तद् विशिष्टोत्पत्तिक्रमस्यैव रूपमित्यभिधीयते, चतुष्कोटिनिष्प्रपञ्चे जातेऽपि यद्धि महासुखस्वरूपमस्ति। संक्षेपतः स्पष्टरूपेणास्माभिर्वक्तुं शक्यते यत् स्थूलमनोमयदेवरूपं क्रिया- चर्यादितन्त्रेषु निहितं तेन तत्तुल्यरूपमेव त्याज्यमस्ति न सम्पूर्णोत्पत्तिक्रमस्त्याज्यः। दगपो टशीनमग्यलमहोदयेनापि इदमेवोक्तं यद् विशिष्टनिष्पन्नक्रमस्योत्पत्तौ सत्यामुत्पत्तिक्रमस्य यश्च निषेधो जातः तत्तदनन्तरं विकपेन नियतभावनाया निषेधो जातः न खल्वाभासस्वरूपदेवचक्रस्य। पञ्चक्रमेऽपि नागार्जुनेन स्वाधिष्ठानक्रमे कथितम्-


स्वाधिष्ठानक्रमो येन साधकेन न लभ्यते। 

सूत्रान्तन्त्रकल्पेषु वृथा तस्य परिश्रमः।। 


स्वाधिष्ठानसमाधिश्च प्रभास्वरपदं तथा। 

सत्यद्वयमिति ख्यातं फ़लहेतुविशेषतः।। 


अर्थादुत्पत्तिक्रमे समागतेन विधिना कल्पनया वा प्रज्ञप्तिं कृत्वा देवभावना अवश्यमेव परित्याज्या, किन्त्वत्रोक्तस्य स्वाधिष्ठानक्रमस्य देवभावना न परित्याज्या यतो हि यद् बोधं बिना सम्बोधेः प्राप्तिरेवासम्भवी। देवरूपभावनां बिना संवृतेर्ह्रासो भविष्यति, केवलं परमार्थतत्त्वमेवावशिष्यते, यतो हि परमपदेन युगनद्धेन भाव्यम्। यथा नागार्जुनेनोक्तम्-


उत्पत्तिक्रम एकोऽयम् उत्पन्नक्रम इत्यपि। 

एकत्वं तु द्वयोर्यत्र युगनद्धस्तदुच्यते।। 


वायोरवधूतीनाड्यां प्रवेश-स्थिति-उत्थापनादिभिरूर्भूतकाय एवात्र रूपकायोऽस्ति यश्चोत्पत्तिक्रमस्य फ़लमस्ति। अतोऽत्र कार्यमेव कारणत्वेन नाम दत्तमिति प्रतीयते। अवधूत्यां वायुप्रवेशेन उत्थापितरूपकल्पनया च प्रज्ञप्तरूपं न सत् प्रभास्वरूपकायोऽस्ति। अयमग्निस्तदुष्णता तथा पुष्पं तत्सुगन्धिसदृशोऽस्ति। यश्च भिन्नाभिन्नोऽपि विद्यते। रूपोऽयं प्रभास्वरेण सह तद्वत् स्थीयते यथा वृक्षस्तच्छाया च। अतोऽयं युगनद्धकायोऽस्ति। अयं रूपकायो हि सम्भोग-कायोऽस्ति। पञ्चक्रमे। उक्तमस्ति-


इयमेव हि संलभ्या मायानिर्देशलक्षणा।

मायेव सम्वृते सत्यं कायसम्भोग एव सः।। 


अतः सम्भोगकायस्य हेतुभूतां रूपदेवतां मायावद् मत्वा साधकैर्मन्त्रमुद्रामण्डलादीनां मायावदाचरणं सदा करणीयम्। अत्रोक्तं-


मन्त्रमुद्राप्रयोगं च मण्ड(ला) दि निरूपणम्। 

बलिहोमक्रियां सर्वां कुर्यान्मायोपमां सदा।। 


अर्थात् यावदवधूत्यां प्राणवयोः प्रवेशस्थित्योरनन्तरं सूक्ष्मप्राणचित्तं देवकाये उत्थापितं न स्यात् तावदेव विकल्पेन निर्माय उत्पत्तिक्रमस्य भावना करणीया। स्थितिमिमामुपलभ्य पश्चात् पुनर्विस्तारे मण्डल-विमानादि-उतत्तिक्रमस्य भावनाकरणं निरर्थकमेवास्ति। अपरतः सूक्ष्मप्राणवायोर्देवकायस्य युगनद्धकाये उत्थापन मेव निष्पन्नक्रमो विद्यते। अतोऽस्माभिर्वक्तुं शक्यते यद् अस्या अवस्थायाः प्राप्त्यनन्तरं पुनर्विस्तारे मण्डल-विमानादि-उत्पत्तिक्रमस्य भावनाकरणं निरर्थकमस्ति। अन्यतश्च सूक्ष्मप्राणवायोर्देवकायस्य युगनद्धे उत्थापनमेव निष्पन्नक्रमोऽस्ति। अतोऽस्माभिर्वक्तुं शक्यते। यदस्या अवस्थायाः प्राप्त्यनन्तरं उत्पत्तिक्रमस्य भावना तद्वत् त्याज्या यथा नदीपारङ्गतो यात्री नावं परित्यजति। एतदेवोचितमस्ति। 


अस्य पूर्णप्रसङ्गस्याभिप्रायोऽयमस्ति यद् उपायस्वरूपतः कृता कृत्रिमदेवभावनैव त्याज्या, उपायेनोद्भूतदेवरूपभावना नो त्याज्येति, यथा वसन्ततिलकस्य टीकायां रहस्यदीपिकायाम् उक्तम्-


उपेये सति हे हेयास्तानुपायान् प्रचक्षते। 


उत्पत्तिक्रम इति नाम्नैवेदं ज्ञायते यद् इयं कल्पित-प्रज्ञप्त-बुद्धया च नवनिर्मिता भावना विद्यते, या च त्याज्या, एतदेव न , निर्विकल्पस्य भावनापि त्याज्या, अर्थात् केवलं विकल्पनिर्विकल्पज्ञानाभ्यां परमपदस्य प्राप्तिरसम्भवा। यतो हि केवलशून्यतायां स्थितिरपि एकोऽन्तोऽस्ति पुनश्च तत्रैव विकल्पेन देवभावनायामभिनिवेशः स्यात्तदा तदपि दुःखस्य कारणं भविष्यति, यथा सामान्याभिनिवेशेन भवति। यतो हीयं ( तथता ) वास्तविकतयाऽसंस्पृष्टा तिष्ठति या च कष्टप्रदैव वर्तते यथा मार्गावस्थायां शून्यतां ( तथतां ) ज्ञात्वा सम्वृतौ जीवनं वास्तविकं जीवनमुच्यते। तद्वत् फ़लावस्थायामपि निर्विकल्पमात्रे स्थीयेत चेत् प्राणिनां हितं कथं सम्भवेत्। अतो युगनद्धश्च स्याद् अकृत्रिमश्च स्यादस्य सम्यग्ज्ञानमनिवार्यमस्ति। इदं तदैव सम्भवं स्यात् यदा ज्ञानकाययोरभिन्नतायामर्थात् साधकः अद्वयतत्त्वतः काये उत्थापितो भवेत्। अस्मामवस्थायां विकल्पस्य कापि सत्ता न तिष्ठति। विकल्पस्तु तत्रैव सम्भवो यत्र विषयिविषययोर्व्यापारः स्यात्। अतो मन्त्रनयस्येयमेव विशेषता विद्यते यत् यत्र काय एव मनः, मनश्चैव कायोऽस्ति काय एव वाक् चास्ते विषय-विषय्यादेः पृथक्-पृथक् सत्ता नास्ति। साधको यावदस्याः स्थितेः सम्यग्बोधं नोपलभेत तावदस्य दर्शनस्य वास्तविकतां नावगच्छेत्। अत एव वसन्ततिलके कथितम् -


निर्विकल्पान्न बुद्धत्वं सविकल्पाच्च नो तथा। 

सुविशुद्धपरिज्ञानाद् भवेदेव मनीषिणाम्।। 


स्फ़ुटत्वेन मन्त्रनयस्योपासनायाम् उत्पत्तिक्रमनिष्पन्नक्रमयोः समप्राधान्यभावेन उपयोगिता वर्तते। 


पितृतन्त्रे सामान्योत्पत्तिक्रमः 


अनुत्तरतन्त्र उत्पत्तिक्रमस्य सामान्यविधिः 


अनुत्तरतन्त्रान्तर्गतानां-पितृतन्त्र-मातृतन्त्र-अद्वयतन्त्राणां भेदेनोत्पत्तिक्रमस्य भावनायां केषांचिन्नाम्नां भिन्नता समागता। तन्निम्नं विद्यते-


( क ) पितृतन्त्रम्


गुह्यसमाजोऽयं पितृतन्त्रस्य प्रधानग्रन्थो मन्यते। अत्रोत्पत्तिक्रमे सेवादिभेदचतुष्टयेनोत्पन्नक्रमस्य भावनाविधिरभिहितः। गुह्यसमाजोत्तरतन्त्रे उक्तमस्ति-


चतुर्विधमुपायस्तु बोधिवज्रेषु वर्णितः। 

योगतन्त्रेषु सर्वेषु शस्यते योगिना सदा।। 


एषां चतुर्णां योगानां ( उपायानां ) नामानि दत्तानि तत्रैव-


सेवाविधानं प्रथमं द्वितीयमुपसाधनम्। 

साधनन्तु तृतीयं वै महासाधनं चतुर्थकम्।। 


उत्पत्तिक्रमस्य सेवोपसाधनसाधनमहासाधनभेदात् साधनचतुष्टयमस्ति। उत्पत्तिनिष्पन्नक्रमयोर्भेदात् सेवाऽपि द्विधा। 


समाजोत्तरतन्त्रेऽभिहितं यत् -


सामान्योत्तमभेदेन सेवा तु द्विविधा भवेत्। 

वज्रचतुष्केण सामान्यमुत्तमं ज्ञानामृतेन च।। 


चतुस्साधनानां व्याख्यां कुर्वता चन्द्रकीर्तिना ' सेव्यते मुमुक्षुभिरभ्यस्यत इति सेवा। किं तत् ? परिशुद्धदेवतामूर्तिः सा ज्ञानामृतेनैव षड्ङ्गयोगेनैव कर्तव्या निष्पाद्या' इति उक्त्वा सेवायाः निष्पन्नक्रमस्य भावनाविधिः स्पष्टीकृतः। उत्पत्तिक्रमे सेवाया अभिप्रायस्तथतायाम् एवं बोधिचित्ते समाहितिरित्यभिहितम्। मूलतन्त्रे उक्तमस्ति-


सेवासमाधिसंयोगं भावयेद् बोधिमुत्तमम्।। 


अस्य व्याख्यां कुर्वता चन्द्रकीर्तिनोक्तम् - 'सेव्यते आलम्ब्यत इति सेवा तथता सैव समयः भूभागादीनां संयोजनं निष्पादनं सेवासमयसंयोगं प्रथमाङ्गम्' अस्य भावं स्फ़ोरयता प्रदीपोद्योतनटीकायां भव्यकीर्तिनोक्तम्- शून्यताभावना ज्ञानभूमेः तथा परमार्थमण्डलस्य भावनैव सेवा विद्यते। 


आचार्यचोङ्खापामहोदयेनाप्युक्तम्-बोधिचित्तशून्यतायामालम्बनकरणमेव सेवा विद्यते तत्रैकाग्रता स्थितिश्च समाधिः। आचार्यबोधिश्रेष्ठवचनमुद्धृत्योक्तं यत् तत्त्वं हि बोधिस्तद्भावनाकरणं सेवा वर्तते। विमान-भावनादिः सेवायाः अङ्गमस्ति। आचार्यदगपोटशीनमग्यलमहोदयेनापि सेवां स्पष्टयोक्तं यत् सर्वशून्यतायां तत्परिवर्त्य- भावनाकरणादारभ्य विमान-आसनादिं यावद् भावनाकरणं सेवेत्यभिधीयते। 


उपसाधनम् 


गुह्यसमाजे उक्तमस्ति- ' उपसाधनसिद्ध्यग्रे वज्रायतनविचारणम्। ' अस्य व्याख्यायां प्रदीपोद्योतने उक्तम् ' शून्यतालम्बनं सूर्याद्यालम्बनमुपसाधनम्। तदेव मन्त्रविन्यासपर्यन्तं सम्भवतीत्युपसाधनसंभवो द्वितीयः '। शून्यताया भावनां कुर्वता साधकेन सूर्यमण्डल-चन्द्रमण्डलबीजाक्षरादीनां क्रमशो न्यासं विधाय तत्परिणत्या महामुद्राकाय-निष्पन्नकरणमुपसाधनमस्ति। निष्पन्नक्रमस्योच्चावस्थायां सूक्ष्मप्राणचित्तेन उत्थापितो यश्च संभोगकायरूपत्वेनोत्पद्यते स शुद्धनिष्पन्नज्ञानकाय इत्युच्यते। उत्पत्तिक्रमेऽयमशुद्धकाय इत्युच्यते मन्त्रेणोत्थापितनिष्पन्नकायत्वात्। गुह्यसमाजपञ्जिकाकृष्णयमारितन्त्रादिषु समागतेषु चतुर्योगेषु तृतीयातियोगं यावत्साधना- उपसाधनायां संगृहीता विद्यते। ' उपसाधनसिद्ध्यग्रे वज्रायतनविचारणम् ' इति मूलतन्त्रस्य शाब्दिकमर्थं कुर्वता प्रदीपोद्योतने उक्तम्। उप समीपे साध्यं निष्पाद्यते इति कृत्वा, सिद्धिः महामुद्रासिद्धिस्तस्या अग्राआदिभूताः प्रणवादयो मन्त्राः यस्मिन् तदुपसाधनसिद्ध्यग्रं विन्यस्तसमस्तमन्त्राक्षरं महामुद्रारूपं यस्मिन् वज्रवैरोचनादिसप्तपर्यन्तास्तेषामायतनानि रूपस्कन्धादयस्तेषां तृतीयव्यवस्थातिक्रमेण निर्नीर्य कार्यकारणपरिज्ञानविचारणा साध्यते अधिष्ठानायाराध्यते तेन तत्साधनचोदनम्। 


अन्यग्रन्थेषु पञ्चाभिसम्बोधिभ्य आरभ्य आयतनाधिष्ठानं यावद् या साधना सोपसाधनेत्युच्यते। अत्रायतनाधिष्ठानस्याभिप्रायोऽस्ति कायमण्डले बीजाक्षरस्य देवतादीनां वा न्यासकरणम्। 


साधनम् 


गुह्यसमाजस्य मूलतन्त्रेऽभिहितम्-


साधने चोदनं प्रोक्तं मन्त्राधिपतिभावनम्। 


अस्य व्याख्यां कुर्वता चन्द्रकीर्तिनोक्तं यत् ' साधनोपस्थानायार्थः अध्येषणं साधनार्थः समयः समेति गच्छति इति समयः। समाधिसत्त्वो ज्ञानसत्वश्च साधनार्थश्च समयश्च तृतीयम् ' मन्त्राधिपतिना अंकारादिना काय-वाक्-चित्ता-नामाधिष्ठितार्थं त्रिवज्रं चोदयित्वा स्वेन सहाभिन्ने एकरसे चर्यासमये स्थितिस्साधना विद्यते। अस्य ( काय-वाक्-चित्त) त्रिवज्रेणाभिन्नतया तथा समयसत्व-ज्ञानसत्वमन्त्राधिपतिसत्वानां सिद्ध्या साधनमिदमुच्यते। 


महासाधनम् 


महासाधनकालेषु बिम्बत्वं मन्त्रवज्रिणः। 

मुकुटेऽधिपतिं ध्यात्वा सिध्यते ज्ञानवज्रिणः। 


मन्त्रवज्री अर्थात् साधकः स्वयं साधनायां समागतक्रमानुसारम् अधिदेववज्रपद्याभिसमापत्ति ' वज्रधृग्' आदिना स्वदेहे ३२ देवान् महामुद्रारूपे उत्पादयति तथा स्वयमधिदेवशिरसि वज्रधरादेस्तथा स्वशरीरे न्यासितदेवानां शिरसि वैरोचनादेस्तथा स्वशरीरे न्यासितदेवानां शिरसि वैरोचनादेर्भावनां कुर्वन् तेभ्योऽभिषेकं प्राप्य महामुद्राकायस्य सिद्धिर्जातेति भावनां करोति। एतादृशी भावनैव महासाधनमित्युच्यते। यथा प्रदीपोद्योतने उक्तम्। 


संक्षेपत इमानि सेवादिचतुर्योगसाधनानि स्पष्टीकुर्वता आचार्यदगपोकुशीनमग्यलमहोदयेनोक्तम् यत् सर्वधर्मशून्यतायां परिवर्तनं विधाय विमान-आसनं यावत् यो भावनाविधिः स एव सेवायोगोऽस्ति। प्रधानदेवताया भावानां कृत्वा आयतनाधिष्ठानं यावत् यः क्रमः स उपसेवायोगोऽस्ति। काय-वाक्-चित्त ( त्रिवज्रे ) त्रये अभिन्नाधिष्ठानकरणं यावत् यो विधिः स साधनयोगोऽस्ति, अभिषेकस्तुत्यादीनां योगो महासाधनमस्ति। सेवादिचतुर्योगेषु प्रथमे त्रयः स्वार्थसिद्धियोगा अन्तिमस्तु परार्थसिद्धियोगः इत्युच्यते। एवमेव त्रिध्याने प्रथमत्रियोगः आदियोगध्यानमित्युच्यते, अन्तिमो महासाधनयोगो मण्डलराजाग्रे ( कर्मराजाग्रे ) सम्मिलितो भवति। 


त्रिध्यानं स्फ़ोरयता आचार्य कोङ्टुलमहोदयेनोक्तं यत् मण्डलस्य प्रधाननिर्मातुर्युगनद्धकायस्य अन्यद्ध्यानद्वयस्य निष्पन्नतायाः पूर्वं भावनाकरणादयम् 'आदि' रित्युच्यते तथा प्रज्ञोपायस्याद्वययोगे जाते योग इत्युच्यते। इत्थं त्रिध्यानात् पूर्वं आदियोगध्याने विमानमण्डलात् प्रधानयुगनद्धकायस्य भावनां यावत् विधिः सम्मिलितो भवति। युगनद्धकाये बोधिचित्तेन मन्त्रदेवं न्यस्य मण्डलस्य परिनिष्पन्नतां यावत् यो योगः तद् द्वितीयमण्डलराजग्रध्यानमित्युच्यते। तदनन्तरं देवक्षेत्रपरिशुद्धिप्रभृतिकं देवतुल्य-कृत्यकरणं च अन्तिमं कर्मराजाग्रध्यानमित्युच्यते। 


कृष्णयमारितन्त्रानुसारम् उत्पत्तिक्रमस्य भावना चतुर्योगविधिना क्रियते -


प्रथमं भावयेद् योगमनुयोगं द्वितीयकम्। 

अतियोगं तृतीयन्तु महायोगं चतुर्थकम्।। 


चतुर्योगानां स्थितिं निरूपयता तत्रैवोक्तम् -


वज्रसत्त्वस्य निष्पत्तिर्योग इत्यभिधीयते। 

तन्निष्यन्दोदयो देव अनुयोगः प्रगीयते।। 


निष्पत्तिः सर्वचक्रस्य अतियोगो विभावितः। 

दिव्यचक्ष्वाद्यधिष्ठानं कायवाक्चित्तमेव च।। 


ज्ञानचक्रप्रवेशश्च अमृतस्वादुमेव च। 

महापूजा स्तृतिश्चापि महायोग इति स्मृतः।। 


कृष्णयमारितन्त्रस्य पञ्जिकायां रत्नमालायां योगानुयोगातियोगमहायोगान् स्पष्टयता वनरत्नेनैषां सविस्तरं विवेचनं कृतम् -


योगः 


सप्तविधानुत्तरपूजात आरभ्य पञ्चाभिधानेन वज्रतत्त्वस्य निष्पत्तिपर्यन्तो विधिरेव योग इत्युच्यते। 


अनुयोगः 


पञ्चाभिसम्बोधिना कृष्णयमारिस्वरूपस्य श्वेतवर्णस्य, मुखत्रयस्य मध्ये श्वेतस्य, दक्षिणे कृष्णस्य वामे लोहितवर्णस्य, चन्द्रमण्डलोपरिस्थितस्य, वज्रतन्त्रस्य भावनाकरणानन्तरम् अनुयोगोऽयं वाराहीलोहितवर्णेन सह समाहितोऽस्ति। एतादृश्या भावनाया अनन्तरं तत् स्वहृदयकमले 'हं' अक्षरेण स्फ़ुरितकरणं, कृष्णयमारिमण्डलमाकृष्य मुखे प्रवेशकरणं, रागानुरागाभ्यां द्रवीभूतेन ( स्रवितेन ) वज्रमार्गेण देवीकमले प्रवेशकरणं, बोधिचित्तेन मण्डलोत्पत्तिकरणं तथा मण्डले बीजाक्षराणां न्यासकरणं यावद् यो विधिः स अनुयोगविधिरित्युच्यते। 


अतियोगः 


अनुयोगानन्तरम् आभ्यन्तरक्रमेणार्थात् न्यासितबीजाक्षरैर्देवोत्थापनं क्रियते। यथा- 'क्षे' अक्षरेण मोहस्य कृष्णयारेश्च तस्य 'म' अक्षरेण कृष्णयमार्यादेरूत्थापनम् अतियोगोऽस्ति। 


महायोगः 


वज्रसत्त्व-निष्पत्तिः बीजाक्षर-न्यासः तद्बीजैरिष्टदेवस्य प्राकटयम् सम्पूर्णप्रधानदेवः अनुचरदेवादिभिर्मण्डलस्य परिपूर्णता, सम्पन्नदेवानां चक्षुःप्राणजिह्वादीनामधिष्ठितकरणम्, इष्तदेवस्य हृदयकमलेन पञ्चरश्मिमयस्य 'हूँ' अक्षरस्य स्फ़ुरितकरणम्, तथागतानां पूजां कृत्वा तेषामभिषेकार्थमामन्त्रितकरणम्, तेभ्योऽभिषेकप्राप्तिकरणम्, ज्ञानचक्रस्याकर्षणम् -


रागवज्रस्वभावस्त्वं रागधर्माकरः प्रभुः। 

सर्वघोषवराग्राग्र वाग्वज्र नमोऽस्तु ते।। 


आदिवचनैस्तुतिकरणं, अमृतास्वादकरणं चादिर्महायोग इत्युच्यते। कृष्णयमारितन्त्रीये सप्तदशे पटलेऽस्य योगचतुष्टयस्य सविस्तरं व्याख्या कृता। 


संक्षेपतो योगचतुष्टयं स्फ़ोरयता आचार्य दगपो टशीनमग्यलमहोदयेनोक्तं यत् आश्रयविमानभावनात आरभ्य हेतुवज्रधरं ( वज्रसत्त्वं ) यावद् या भावना तद्योगोऽस्ति। तदनन्तरम् ( कार्य ) फ़लवज्रधरोत्पत्तिं यावद् या भावना तदनुयोगोऽस्ति। सम्पूर्णमण्डलोत्पत्तेर्भावनाऽतियोगोऽस्ति। काय-वाक्-चित्त-अधिष्ठान-पूजा स्तुत्या- दीनां च विधिर्महायोगोऽस्ति। 


अत्रैतदवगमनमतीवावश्यकमस्ति यत् तन्त्रे- मण्डलप्रधानदेवता-अनुचर-देवता-बीजाक्षरादयः सर्वे एकस्वभावस्यार्थात् सन्ततेः भवन्ति। अन्यल्लक्षणन्नास्ति । अतः स्पष्टशब्देषु अस्माभिर्वक्तुं शक्यते यत्- सम्पूर्णा देवी-देवता, बीजाक्षरादयः स्वचित्तस्य ( निजचित्तस्य ) वज्रसत्वस्यैव विस्तृतं रूपमस्ति। 


उत्पत्तिक्रमस्य चत्वार्यङ्गानि 


मातृतन्त्रस्य प्रधानहेवज्रतन्त्रेऽङ्गचतुष्टयैरूत्पत्तिक्रमस्य भावनाविधिर्नास्ति -


प्रथमं शून्यताबोधिं द्वितीयं बीजसंग्रहः।

तृतीयं बीजनिष्पत्तिश्चतुर्थं न्यासमक्षरम्।। 


अर्थात् पितृतन्त्रे समागतसेवादिवद् अत्रापि सर्वधर्माः शून्यताप्रभास्वरबोधिचित्ते परिवर्तयितव्याः अयमुत्पत्तिक्रमिकभावनाया आधारोऽस्ति। तत् प्रभास्वरचित्तस्य ( स्वभावस्य ) मध्ये यस्मिन्निष्टदेवे निजोत्थापनं करणीयं स्यात्, तद् बीजाक्षरस्य यथा हेरूकार्थं ' हूँ' अक्षरस्य भावनां विधाय प्रकाश-स्फ़ुरण-संहरणविधेरनुकरणं कृत्वाऽत्र्ह वा पञ्चाभिसम्बोधि-क्रिययेष्टदेवे उत्थापनमथवाऽनुकरणीयमेव द्वितीयाङ्गमस्ति। बीजाक्षरस्य स्फ़ुरणसंहारयोरथ वा पञ्चाभिसम्बोधेः परिपूर्णतायामिष्टदेव-प्रतिबिम्बस्य परिपूर्णभावना बिम्बनिष्पत्तिनामकं तृतीयमङ्गमस्ति। केवलं बीजाक्षरेणेष्टदेवे समुत्थापिते जाते इदमुपपादकबहूत्पन्नत्वमभिधीयते। इष्टदेवस्यायतनत्रिध्यानेऽक्षरन्यासेनाधिष्ठिते विधायाभिषेकादेरूपलब्धिश्चतुर्थमङ्गमुच्यते। सम्पुटतन्त्रेऽपि क्रमोऽयं समागतः -


पुनरपि शून्यताबोधिं द्वितीये बीजसंग्रहम्। 

तृतीये बिम्बनिष्पत्तिश्चतुर्थे न्यासमक्षरम्।। 


एतदतिरिक्तं शून्यता ( बोधिचित्त ) भावनानन्तरं पञ्चाभिसम्बोधिना वज्रसत्वस्य भावनाविधिरभिहितोऽस्ति। 


स्थितालिचन्द्ररूपेण कालिरूपेण भास्करः। 

चन्द्रसूर्यद्वयोर्मेला गौर्य्यादयः प्रकीर्तिताः।। 


आदर्शज्ञानवांश्चन्द्रः समतावांस्तु भास्करः। 

बीजे चिह्नं स्वदेहस्थं प्रत्यवेक्षणमुच्यते।। 


सर्वैरेकमनुष्ठानं बिम्बनिष्पत्तिशुद्धितः। 

आकारं भावयेदित्थं विधानैः कथितैर्बुधः। 

आलिकालिसमायोगे वज्रसत्त्वस्य विष्टरः।। 


हेवज्रतन्त्रीयप्रथमकल्पस्य देवतापटले विषयोऽयं सविस्तरमुपवर्णितः। 


वज्रपञ्जरे षडङ्गैरूत्पत्तिक्रमस्य भावनाविधिरभिहितोऽस्ति। प्रभास्वरशून्यतया विशुद्धरूपस्कन्धेन विमानोत्पत्तिर्वैरोचनकुलाङ्गमस्ति। पञ्चाभिसम्बोध्याश्रितसमयचक्रस्य ( देवताया) भावना वज्रसत्वकुलाङ्गमस्ति। अष्टविद्यादेवीभ्योऽक्षोभ्यस्वरूपजलाभिषेककुलाङ्गमस्ति। वाग्वज्रसन्तुष्ट्यर्थं अमृतास्वादपद्यकुलाङ्गमस्ति। मण्डलीयसमस्तदेव- स्तुतिकरणं च रत्नकुलाङ्गमस्ति। गुह्यसमाजेऽप्यभिहितमस्ति-


पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः। 


अस्य व्याख्यां कुर्वता चन्द्रकीर्तिनाऽन्भिहितम् यत् यः साधकोऽद्वयतत्त्वमनवगम्य स्वभिन्नस्तथागतो बोधिसत्वो वास्ति इति स्वीकृत्याभिनिवेशवशात् तत्प्राप्तिमभिलषति तस्यास्याभिनिवेशस्य प्रहाणार्थमभिहितं यत् स स्वत एव सर्वमस्ति, स्वयमेवात्मदेवोऽस्ति स्वपञ्चस्कन्ध एव पञ्चतथागतरूपो विद्यते। तदतिरिक्तं बाह्य- ग्राह्य साध्य-हेतु बोधिसत्व-क्षितिगर्भादिषु किमपि तथागतो नास्ति। यच्च तथागतकुलादेर्विधानमस्ति तत्सर्वं वैरोचनादिषु एषु पञ्चबुद्धेषु सन्निहितं विद्यते। 


पञ्चतथागत-स्वीयरूपादिः पञ्चस्कन्ध एवास्ति नान्यत् किमपि बाह्यम्। तद्द्वयं त्रिधातु-बाह्यान् क्षिति-जल-पावकादींश्च पश्यामस्तत्सर्वं वैरोचनतुल्यचित्तस्यैव-विस्तारो विद्यते। यश्च लोचनादिः देवीत्वेनाभिधीयते। इत्थं वैरोचनादि-पञ्चस्कन्धः ( पञ्चतथागतः ) उपायस्वरूपविषयिप्रभास्वर। एषां स्थितिरद्वयभावे विद्यते। एतदेवात्मतत्त्वमस्ति, वज्रसत्त्वं वैरोचनादिश्च विद्यते। सम्पुटोद्भवतन्त्रेऽप्येवमेवोक्तमस्ति -


देहादन्यत्र बुद्धत्वमज्ञानेनावृतं मतम्। 

स्वदेहस्य महाज्ञानं सर्वं संकल्पवर्जितम्।। 


व्यावृत्यनुसारं केवलं नामैव भिन्नं तत्त्वन्तु एकमेवास्ति। अत्र वैरोचन एव रूपस्कन्ध, इत्युच्यते। रूपस्य तात्पर्यमत्र प्रभास्वरेण विद्यते, यश्चान्यत् कुलानामाश्रयोऽस्ति। अयं कायचित्तद्वयस्याधारोऽस्ति। वसन्ततिलकेऽप्युक्तं यत् सम्पूर्णं ( धातु-आयतन-स्कन्धादि) अर्थात् समस्तं चराचरं जगत् आत्मदेवस्य रूपमस्ति। यथा रूपबुद्धो वैरोचनो विद्यते, वज्रसूर्यो वेदनाऽस्ति। संस्कारः पद्यनर्तेश्वरोऽस्ति। वज्रडाकार्णवतन्त्रेऽपीदमेवोक्तम्-


मायाजाले योगत्रयस्य विधिरभिहितः-


योगस्तु त्रिविधो ज्ञेयोऽधिष्ठानः परिकल्पितः। 

निष्पन्नो चित्तबिम्बस्य योगो बुद्धैस्तु वर्णितः।। 


अधिष्ठानमात्राहंकारयोगोऽधिष्ठान उच्यते। 

बोधिचित्त-विशुद्धिस्तु मंत्रबीजोदयो महान्।। 


क्रमनिष्पन्नबिम्बस्तु मुद्रागणैस्तु कल्पितः। 

तत् कल्पितेति कथितो योगः कल्पित उच्यते।। 


सर्वाकारवरोपेतः स्फ़रेत् संहारकारकः। 

ज़्हटिति ज्ञाननिष्पन्नो योगो निष्पन्न उच्यते।। इति। 


अत्र वर्णितस्य अधिष्ठानयोग-परिकल्पितयोग-निष्पन्नक्रमादिनामकस्य योग-त्रयस्य आचार्यकोङ्टुलमहोदयेन परिकल्पित-अधिष्ठान-परिनिष्पन्न इति क्रमः स्थापितः। अनेनैतद् योगत्रये उत्पत्तिक्रम-निष्पन्नक्रम-विधिद्वयं स्पष्टयतोक्तं यत् १. शून्यताज्ञानेन बीजाक्षरम् आयुधादिनोत्पन्नमुख-भुजवान् देवोत्पत्तिक्रमः देवयोग इत्युच्यते। हृदयकमलस्थितं बीजाक्षरं तिलकेन प्रकाशस्फ़ुरेणं संहरणादिकं सनिमित्तनिष्पन्नक्रमोऽस्ति। २. मन्त्रं शून्यतामहासुखेऽधिष्ठितं विधाये तेन ज़्हटिति रूपेण देवमण्डलस्य भावना उत्पत्तिक्रमोऽस्ति। वायुमन्त्रयोरभिन्नस्वरूपे ज़्हटिति च देवरूपीयभावनायाः परित्यागं कृत्वा चित्तविवेकादीनां परीक्षाऽकरणस्थितिः निष्पन्नक्रमोऽस्ति। ३. मुख-भुजवद् युगनद्धमहाकायानामथवा मुखभुजादीनां परित्यागं विधाय प्रभास्वरमहासुखे स्थितिः परिनिष्पन्नक्रमयोगो विद्यते। एतद् योगत्रये निष्पन्नक्रमीयभावनाविधेः पञ्चक्रमोऽपि सम्मेल्यते। महामायातन्त्रे संस्थानमन्त्र- धर्मनामकं योगत्रयं वर्णितमस्ति। वज्रसत्त्वनिष्पत्तेरनन्तरं मण्डल-राजाग्रं यावद् यो विधिः स संस्थानयोग इत्युच्यते। कर्मराजाग्रमण्डलं-मन्त्रयोगो-धर्मयोगश्च निष्पन्नक्रमयोग इत्युच्यते। अर्थात् सूक्ष्मतिलकयोगो धर्मयोगोऽस्ति। पूर्णनिष्पन्नक्रमेण सहापि संयोज्योऽयम्। यथा- १ . संस्थानयोगः ज़्हटिति देवभावना अर्थात् कायविवेकोऽस्ति। २ . मन्त्रयोगो वज्रजापः अर्थात् वाग् विवेकोऽस्ति। ३. धर्मयोगप्रभास्वरे प्रवेशस्थित्या उत्थापनेन च मायाकाय-प्रभास्वरयुगनद्धयोर्भावनाविधिरस्ति। 


वज्रमालादिषु केषुचित्तन्त्रेषु त्रिध्यानेनादियोगध्यान-मण्दलराजाग्रध्यानकर्मराजाग्रध्यानैरूत्पत्तिक्रमस्य भावनाविधिरभिहितः। एतत्स्पष्टयता आचार्यसेरतोगपा महोदयेनोक्तं यत् शून्यताभावनाद् आरभ्य स्वयं मण्डलचक्रे युगनद्धरूपकायं यावद् या भावना तदादियोगध्यानमस्ति। समापत्त्या बोधिचित्तेन मण्डलं निर्माय तत्र मन्त्रदेवन्यासं कृत्वा देवानामुत्पत्तिकरणं मण्डलराजाग्रध्यानमस्ति। इष्टदेवस्य ( तथागतानां ) कृत्यसदृशकर्मकरणं कर्मराजाग्रध्यानमित्युच्यते। अभिधानोत्तरतन्त्रे योगचतुष्टयं वर्णितमस्ति। 


योगातिमहायोगज्ञानयोगविधिक्रमम्।

बिन्दुयोगविधानज्ञः सूक्ष्मयोगश्च दृश्यते।। 


कालचक्रेऽपि योगचतुष्टयेनोत्पत्तिक्रमस्य भावनाविधिर्वर्णितः। यथा- मण्डलराजाग्रः सेवायोगोऽस्ति, कर्मराजाग्रः उपसेवायोगोऽस्ति तिलकस्य परिनिष्पन्नता तिलकयोगोऽस्ति तथा महासुखस्य परिनिष्पन्नता सूक्ष्मयोगोऽस्ति। इत्थं मातृतन्त्र-पितृतन्त्र-अद्वयतन्त्रेषु यद्यपि क्रमिकविधीनां क्रमनाम्नोरनेकभेदा दृश्यन्ते किन्तु एषु परस्परं विरोधाभासो नास्ति। केनापि विधिनाऽनुत्तरतन्त्रीयोत्पत्तिक्रमस्य भावना कर्तुं शक्यते। बुस्तोनः कथयति यत् यः साधकः संक्षेपतः अनुत्तरतन्त्रीयोत्पत्तिक्रमस्य- भावनां कर्तुमिच्छति स हेवज्रे कथितयोगचतुष्टयेन यश्च साधको मध्यविस्तारविधिना सविस्तरं भावना कर्तुमिच्छति सः गुह्यसमाजे समागतेन प्रकृत्यात्मकेन चतुः सेवाद्युपायेनाथवा कालचक्रे समागतेन मण्डलराजाग्रादियोगचतुष्टयेन कर्तुं शक्नोति तत्रैव तेनेदमप्युक्तं यद् उत्पत्तिक्रमे प्रकारद्वयं भवति एकस्तु इष्टदेवस्य भावनाकरणमपरस्तु विमानमण्डल-मन्त्रदेवी-देवता अनुचरादिभिस्सहोत्पत्तिक्रमस्य भावना। 


उतत्तिक्रमिकभावनाया अनिवार्ययोग्यता वातावरणं च 


साधकानां कृते सामान्यसामान्यमार्गद्वयस्य सम्यक्पूर्वाभ्यास आवश्यकः। विशेषतो यस्येष्टदेवस्य साधना करणीया स्यात् तस्याभिषेकप्रापकास्तत् समयसंवरयोश्च यथावत्पालकश्चेत् स एवोत्पत्तिक्रमीयभावनाकरणस्याधिकारी भवति। मण्डलप्रवेशाभावे समयच्युते सति साधनाया गुह्यविधीनज्ञात्वा यावती साधना स्यात् सिद्धिस्त्वसम्भवा एवास्ति। 


स्थानम् 


आदिकार्मिकः पूर्वं शोभनं स्थानं गत्वा साधनां कुर्यात्। यत्र कीदृशोऽ सांसारिको विक्षेपः साधनां न दूषयेत् प्रभावयेद् वा। महद्गुरूभिरधिष्ठितेषु स्थानेषु तीर्थेषु च कृता साधना विशेषफ़लवती भवति। गुह्यसमाजमूलतन्त्रेऽप्युक्तमस्ति -


महाटवीप्रदेशेषु विजनेषु महत्सु च। 

गिरिगह्वरकुंजेषु सदा सिद्धिरवाप्यते। 


अभिधानोत्तरतन्त्रेऽप्युक्तमस्ति यत्- गिरिकन्दरासु-पर्वतशिखरेषु-महानदीतटे-सागरकूले-एकवृक्षे-पवित्रस्थाने-श्मशाने-शिवालये-देवालये-स्तूपे-चतुष्पथे च साधनाकरणात् शीघ्रं सिद्धिर्लभ्यते। 


हेवज्रेऽप्युक्तमस्ति -


प्रथमाभ्यासकालस्य स्थानं वै कल्पितं शुभम्। 

यत्रस्थः सिध्यते मन्त्रो एकचित्तः समाहितः।। 

स्वगृहेषु निशाकाले सिद्धोऽहमति चेतसा।। 


आदिकार्मिकैः कुत्र चिन्मनोरमस्थानस्योपलब्धिर्न स्याच्चेत् तदा सर्वेषु परिवारेषु सुप्तेषु गृहस्यैकान्तकोणेऽपि साधना करणीया। 


२. पितृतन्त्रे विशेषोत्पत्तिक्रमस्य भावनाविधिः 


अयं भागत्रये विभाजयितुं शक्यते ( क ) उत्पत्तिक्रमस्य पूर्वकर्म, ( ख ) मौलोत्पत्तिक्रमस्य साधनाविधिः, ( ग ) मध्यान्तरयोगश्च। प्रथमस्य पुनर्भेदत्रयमस्ति। १ . विघ्नशमनार्थं बलिपूजा, २ . कार्यसिद्ध्यर्थं पुण्यद्वयस्य संचयः, ३ . सम्भावितविघ्नरक्षार्थं रक्षाचक्रस्य भावनाविधिश्च। 


१. साधनायां ( बाधा ) विघ्नो न समापतेत् तदर्थं बलिविधिः करणीयः। हेवज्रेऽभिहितं यत् नैरात्म्येन सत्वार्थं विघ्नतो रक्षाविध्यर्थञ्च प्रश्ने कृते भगवानाह-


तत्र पृच्छति नैरात्म्ये सत्वार्थाय महाबलिम्। 

एवंकारे समासीनो वज्रसत्वो दिशेद् बलिम्।। 

सत्त्वानां प्राणरक्षायै विघ्नाद् विनायकादपि।। 


तत्रैवाग्रे- अनेन बलिना यदि सर्वभूतानां पूजां प्रकुर्वन्ति शुभाय योगिनः वश्याभिचार-पुष्टि-उच्चाटन-मारणादिषु दक्षतायै बलिपूजा वर्णिता विद्यते। 


२. कस्यापि कार्यस्य सिद्ध्यै जनेन पुण्यवता भाव्यम्। भाग्यवत एव सर्वाणि कार्याणि सिद्ध्यन्ति। भाग्याभावे कार्यसम्पन्नताऽसम्भवा। एतदपि सत्यं यद् भागयहेतुः स्वहस्ते भवति, तन्निर्मीयते। बौद्धेषु प्रारब्धसिद्धिः पुण्यसंभारसंचयात् ज्ञानसम्भारसंचयाच्च भवति। पुण्यसंभारं प्रकटयता भगवता हेवज्रे उक्तम् -


प्रथमं भावयेन्मैत्रीं द्वितीये करूणां तथा। 

तृतीये भावयेन्मोदमुपेक्षां सर्वशेषतः।। 


चतुर्ब्रह्यविहारः वन्दनादिः सप्तांग-अनुत्तरपूजा च पुण्यसंभारोऽस्ति। 


ज्ञानसम्भारं स्पष्टयता दगपोटशीनमग्यल महोदयनोक्तं यत् ' अं ' सर्वे धर्माः स्वभावशुद्धाः स्वभावशुद्धोऽहम् ' इत्यस्योच्चारणेन विषयिविषयाद्वैतस्य भावना करणीया। ॐ त्रिकायात्मकोऽस्ति। स्वभावस्य तात्पर्यं ग्राह्य-ग्राहकाणां सर्वधर्माणां प्रकृत्या विशुद्धता-शून्यता-भावनाथवा शून्यता विद्यते। विषयविषयिज्ञानमद्वयाभिन्नं प्रकृत्यात्मकमस्ति यच्चानादितः सर्वरपञ्चरहितमनुत्पन्नमस्ति। एतादृशीं स्मृतिं कुर्वन् अद्वयस्य भावना करणीया। दीपंकरश्रीज्ञानेनाप्युक्तं यत् - 'अं स्वभाव ' आदि मन्त्रं वारत्रयमुच्चार्य तदर्थस्मरणेन शून्यता-बोधकरणे सामर्थ्योपलब्धिः शून्यतायाः पौनः पुन्यस्मृतिस्तत्र दृदताप्राप्तिः तथा - ज्ञानसम्भारस्य संचयः आश्रयाश्रित-देवता-मण्डलादिः एतत् सर्वं शून्यतायाः व्याकृतरूपमस्ति। एतादृशी दृदभावना करणीया। 


३. रक्षाचक्रस्य भावना 


सामान्यरक्षाचक्रभावनायां साधको यस्मिन् स्थाने साधनां करोति तत्स्थानं विश्वजरेण निर्मितभूमिः विश्ववज्रेण निर्मितपरिसरोऽस्ति, ईदृग्ध्यानं करोति। हेवज्रे उक्तमस्ति -


रेफ़ेण सूर्यं विभाव्य तस्मिन् रवौ हूँ भवविश्ववज्रम्। 

तेनैव वज्रेण विभावयेच्च प्रकारकं पञ्चरबन्धनं च।। 


विशेषरक्षाचक्रे दशारयुतस्य चक्रस्य भावना करणीया तथा प्रत्यरं मध्ये हयग्रीव- यमान्तक-चलादिदशक्रोधदेवानां भावनां विधाय तद् विघ्ननाशस्य आज्ञा दातव्या। अनया विशेषतया असमान्यं रक्षचक्रमिदम् आज्ञाचक्रमिति कथयन्ति जनाः। 


मौलोत्पत्तिक्रमस्तु भागत्रये विभज्यते- उत्पत्तिक्रमस्य विधिः तस्य परिशोध्यः जपभावनयोर्भेदश्च। प्रथमे आश्रयविमानस्योत्पत्तिविधिः आश्रित- देवस्योत्पत्तिविधिः - उत्पत्तिक्रमस्य सम्पन्नविधिश्च गण्यते। 


आश्रयविमानोत्पत्तिविधिः 


विमानस्याभिप्रायोऽस्ति यत्रानन्तासंख्यबोधिसत्वा विहरेयुः। आश्रयविमानोत्पत्तिक्रमीयभावनायाः प्रयोजनत्रयमस्ति आधारा( आश्रया ) ऽवस्थायां जागतिक समस्तवस्तूनामुपमोगक्षमता, मार्गावस्थायां मायाद्व्याकायस्याश्रयः विमानं निर्माय पुण्यपरिपक्वतायाः सामर्थ्यप्राप्तिः फ़लाऽवस्थायां ज्ञानभासमण्डलीयसिद्धेः सोपानस्थापनमर्थात् स्वयं बोधिप्राप्त्यनन्तरम् उपभोगस्थानस्य संस्कारश्च। 


आश्रयविमानभावानापूर्वं ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहम् इत्युच्चार्य सम्पूर्णं जगत् शून्यतायां परिवर्तितं विधातव्यम्। मन्त्रस्यास्यार्थः शास्त्रेष्वित्थमभिहितः। अम् अ उ म एभिरक्षरैर्निष्पन्नोऽस्ति यश्च काय-वाक्-चित्तानां बोधकः। शून्यता, सर्वधर्मस्वभाव-हेतुप्रत्ययादिभी रहिता विद्यते। अर्थात् सर्वधर्मस्वभावतः हेतुतः प्रत्ययतश्च रहिता, शून्यो हेतुः प्रत्ययानुत्पन्नोऽस्ति। ज्ञानशून्यता-अनिमित्ताप्रणिहितलक्षणशून्यतायां समस्तचित्तस्य बोधिका। वज्रो विषयशून्यविषयिज्ञानयोरभिन्नरूपोऽस्ति। यश्च विषयनाशरूप आद्यन्तरहितः स्थितः। अस्य स्वभाव आगन्तुकमलैर्विरहितः परिशुद्धस्वभावकश्च 'अहम्' इति स्वभावशुद्धोऽस्ति। मनोमयरूपे अथवा कल्पनामात्रेण ईदृगवगमनमस्यार्थो नास्ति अपि तु आभ्यन्तररतिचेतनस्वरूपे स्थितो भवति। यश्चैकः परमात्यन्तशान्त्यवस्था विद्यते। यथा बोधिचर्यावतारे उक्तमस्ति-


यदा न भावो नाभावो मतेः सन्तिष्ठते पुरः। 

तदान्यगत्यभावेन निरालम्बा प्रशाम्यति।। 


अनेनेदमपि स्पष्टीभवति यत् वयमनादिकालतो भवचक्रपतिता भूत्वा वस्तूनां समीचीनां स्थितिमज्ञात्वा ' अहं ममादः ' प्रत्यभिनिवेशतोऽभ्यस्ता भवामोऽतोऽस्माकं शून्यताया वज्रज्ञानात्मक-प्रभास्वरस्य ज्ञानं न भवेत् साधको भूत्वा आत्मग्रहे आसक्तो भवेत् अतः पूर्वं माध्यमिककारिकायां समागताभिरनेकयुक्तिभिः शून्यतानैरात्म्ययोः अर्थात् 'नाहं' ' नास्ति मम ' इत्यस्य दाद्र्येन ध्यानभावनाऽवश्यमेव करणीया। यतो हि 'नाहं' 'नास्ति मम' भावनेयम् अहं मम इत्यनयोः साक्षात् प्रतिपक्षरूपा। अतः पूर्वं साधकैः किमपि नास्तीति भावना अत्यावश्यकी करणीया। एतद् बोधे जाते योऽपि विकल्पस्याथवा चित्तस्य बाह्यो वेगः अतः सोऽपि त्याज्यः। यथा -


किञ्चिन्नास्तीति चाभ्यासात्पश्चात् सापि प्रहीयते। 


यदा भावनाया विश्लेषणं करिष्यामस्तदा तत् स्वभावो नोपलप्स्यते निः स्वभावो निरालम्बनश्च भविष्यति तर्हि पुनर्निरालम्बनस्य बोधोऽपि आलम्बनाऽभावे निषेधो नश्यति। बोधिचर्यावतारे उक्तमस्ति- 


यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते। 

तदा निराश्रयोऽभावः कथं तिष्ठेन्मतेः पुरः।। 


तस्मिन् काले परमशान्तनिर्द्वन्द्वचतुष्कोटिविनिर्मुक्तज्ञानस्योदयो भविष्यति। यथावद् ज्ञातायामवस्थायामस्यां तन्त्रे समागताश्रयदेवानां भावनया साधको युगनद्धप्राप्तेरधिकारी भवेत् अन्यथोत्पत्तिक्रमः सर्वः काल्पनिको भविष्यति। इदमेव कारणमस्ति यत् साधकस्तन्त्रे स्वभावं मुद्रितं करोति तथा प्रभास्वरसम्प्रजन्येन युक्तो भवति। चित्तेन काये मुद्रिते सति कायश्चित्तरूपो जायते। यथा विमलप्रभायां ज्ञानज्ञेयैकमूर्तये इत्युक्तम्। चित्तमपि कायेन मुद्रितं क्रियते। हेतुं फ़लेन मुद्रयित्वा सम्भोगकाये साधक उत्थापितो भवति। फ़लमपि हेतुना मुद्रयते। यथा नामसङ्गीतावभिहितम् ' अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः ' तद्वत् तन्त्रशास्त्रेषु यत्र स्वयं हेवज्रादिदेवतासु उत्थापितारिक्त अक्षोभ्यादिनाऽभिषेकप्राप्तिरूक्ता तत् स्वभावतः स्वभावस्य मुद्रणम् उच्यते। सम्पूर्णत्रिलोकधातुः प्रभास्वरचित्तस्य विस्तारोऽस्ति। अतो यावन्तो रूपकायदयो विद्यन्ते तत्सर्वं चित्तारिक्तं नान्यत् किञ्चित्। अत एव रूपस्तु वैरोचन इत्युक्तः। भूम्यादिः लोचनादिदेवीरूपः। ईर्ष्यामात्सर्यादीन् ईष्यावज्रित्वेनाभिधाय स्वभावतः स्वभावस्य मुद्रणायाभिहितम्। रक्षाचक्रविमानमण्डलादिः कूटागाररूपः विश्वचक्रं वज्रश्च यो परिसररूपः ते सर्वे चित्ते उत्पद्यन्ते। अनेन सिद्ध्यति यत् एतत् सर्वं चित्तज्ञानाय विद्यते। परमार्थे साधक-साध्य-साधनादिरथवा पूज्यपूजकपूजादिसामग्री, तत्र सर्वत्रैकत्वप्रदर्शनं तथा संवृतौ एतत् कथनमस्ति यत् वृक्षस्य यावन्तो भागाः पृथ्वीतो बहिः तावन्तो भागा आभ्यन्तरीयाः सन्ति। पृथ्वीगर्भस्थिते वृक्षजडभावे तस्य बहिः नास्ति किञ्चिदस्तित्वं तद्वत् बहिष्ठा यावन्तो रंग-रूप-आकारादयः तत्सर्वं जडतुल्यचित्तस्यैव विस्तारो विद्यते। 


प्रायः समस्तानुत्तरतन्त्रग्रन्थेषु उत्पत्तिक्रमस्य विमानभावना धर्मोदयेन भूतोच्छेदनपर्यायाभ्यां क्रियते। धर्मोदयाऽभ्यन्तरे भूतानविलीय विश्वपद्यविश्ववज्रयोरूपरि विमानभावनाऽथवा भूतानामुपरि क्रमशः सुमेरोस्तदुपरि विश्वपद्यवज्रयोः तन्मध्ये विमानस्य च भावना क्रियते। विमानदेवयोरैक्योत्पन्नकरणस्य विधिर्नास्ति। विमानस्योत्पत्तिः ' भ्रूँ' आदि बीजाक्षरैर्वज्रभावनया वैरोचनादिस्रवितविधिना च क्रियते। कृष्णयमारितन्त्रीयरत्नावलीटीकायां विमानमण्डलस्य भावनाविधिर्निम्नाङ्कितः -


ॐ शून्यता ज्ञानवज्रस्वभावात्मकोऽहमिति मन्त्रमुच्चार्य आकाशसमं चित्तं कृत्वा -


रेफ़ेण सूर्यं पुरतो विभाव्य तस्मिन् रवौ हूँभवविश्ववज्रम्। 

तेनैव वज्रेण विभावयेत् च प्रकारकं पञ्चरबन्धनं च।। 


तेन भूमिवाडं च तदभ्यन्तरावस्थितविश्ववज्रस्योपरि स्थितावकाशत्मकाकाशे कृष्णयङ्कारजवायुमण्डलं धनुराकारं कृष्णं कोटिद्वये चलत्पताकाद्वयान्वितं तदुपरि रक्तरं कारेणाग्निमण्डलं त्रिकोणं रक्तं कोणेषु च रेफ़ाङ्क्तितम्। तदुपरि सितवंकारेण जलमण्डलं घण्टाङ्कं सितमधोमुखं तदुपरि पीतालंकारेण चतुरस्रं पृथ्वीमण्डलं पीतं कोणेषु त्रिशूकवज्राङ्कितं विभाव्य ज़्हटिति वायुमण्डलादिसर्वपरिणामेन कूटागारं द्विपुरं विश्वदलकमलस्योपरि यथास्वं स्थितचन्द्रसूर्यासनं चतुरस्रं अष्टस्तम्भोपशोभितं चतुस्तोरणभूषितम्। हारार्धहारघण्टापताकादिसहितं सर्वसम्पूर्णलक्षणं ध्यात्वा आदि अभिधानोत्तरतन्त्रेऽपि एवमेव समागतम्। गुह्यसमाजोत्तरतन्त्रेऽप्युक्तम् -


योजनशतविस्तारं भावयेत् चक्रमण्डलम्। 

कुलानान्तु प्रकुर्वीत सदाध्यानविचक्षणः।। 


पद्यं वज्रं तथा खड्गं उत्पलं भावयेद् बुधः। 

योजनकोटिविस्तारं चतुरस्रं सुशोभनम्।। 


हेवज्रतन्त्रे विमानं परितः श्मशानलेखनार्थभिहितम्-श्मशानाष्टकेनापि श्मशानाङ्गारकैस्तथा।। सम्वरोदयतन्त्रेऽपि विमानमण्डलाद्वहिरष्टश्मशान-भावनाऽभिहिता अष्टौ श्मशानानि सन्ति -


वज्रपञ्जरमध्ये तु श्मशानाष्टकभूषितम्। 

चण्डोग्रं गह्वरं चैव वज्रज्वालाकराङ्कितम्।। 


अट्टाट्टहास ऐशान्यां लक्ष्मीवनहुताशनम्। 

घोरान्धकारे नैरृत्यां वायव्यां किलिकिलारवः।। 


हेवज्रसाधनवज्र प्रदीपटिप्पण्यां सरोरूहवज्रे अष्टश्मशानानां स्थितिर्निम्नाङ्किता -


१. पूर्वे चण्डोग्रं नाम महाश्मशानः शिरीषवृक्षे गजमुखो महर्द्धिकः सितः। इन्द्रो दिक्पतिर्गैरः सहस्राक्षः शुक्लऐरावतासनासीनः। वासुकिर्नागराजः पीतो गर्जितो मेघो विश्वर्णः सुमेरूपर्वताश्चमूरलमयः सितवज्रो नाम चैत्यश्वेतः २. दक्षिणे करङ्कभीषणं नाम महाश्मशानं। अश्वत्थवृक्षे महिषमुखो महर्द्धिकः कृष्णः। यमो दिक्पालो महिषारूदः कृष्णः पद्यो नागसितः। अवित्तको मेघो विश्ववर्णः। मलयपर्वतो गौरः। पिशुनवज्रो नाम चैत्यः कृष्णः। ३. पश्चिमे ज्वालाकुलनाम महाश्मशानम्। अशोकवृक्षे मकराननो महर्द्धिकः श्वेतः। वरूणो दिक् पतिः सितः कर्कोटको नागो रक्तः। घोरो मेघः विश्ववर्णः। कैलासपर्वतः सितः। संज्ञावज्रो नाम चैत्यः सितः। ४. उत्तरे गह्वरं नाम महाश्मशानम्। अश्वत्थवृक्षे मनुष्यमुखो महर्द्धिकः गौरः। कुबेरः दिक्पतिः। गौरो नरवाहनः। तक्षको नागः, कृष्णः। घूर्णितो मेघः। विश्ववर्णः मन्दरपर्वतः। श्यामः चित्तवज्रो नाम चैत्यः गौरः। ऐशान्यां लक्ष्मीवनं नाम महाश्मशानं वटवृक्षे गोमुखो महर्द्धिकः सितः। महेश्वरो दिक्पतिः सितो गोवाहनः। शंखपालनागः पीतः। चण्डो मेघः विश्ववर्णः। माहेन्द्रपर्वतः कृष्णः। चित्तवज्रो नाम चैत्यश्वेतः। आग्नेय्याम् अट्टाट्टहासो नाम महाश्मशानम्। करंजवृक्षे च्छागाननो महर्द्धिकः। रक्तहुताशनो दिक्पतिः। रक्तः छागासनः। महापद्यो नागः श्यामः। 


घनो मेघः विश्ववर्णः। गन्धमादनपर्वतः पीतः कायवज्रो नाम रक्तचैत्यः। नैरृत्यां घोरान्धकारो नाम महाश्मशानम्। लतापर्कटीवृक्षे शवमुखो महर्द्धिकः कृष्णः। राक्षसो दिक्पतिः खासनः कृष्णः। अनन्तो नागः, पाण्डुरः। पूरणो मेघः विश्ववर्णः हेमपर्वतः श्वेतः। रत्नवज्रो नाम चैत्यवृक्षः। वायव्यां किलिकिलारवनाम महाश्मशानं। पार्थिववृक्षे गजाननो नाम महर्द्धिकः श्यामः। मारूतो दिक्पतिः श्यामो मृगारूदः। कुलिको नागः कुर्बुरः। वर्षणमेघो विश्ववर्णः। श्रीपर्वतो नीलः। धर्मवज्रो नाम चैत्यः श्यामः। 


एषु श्मशानेषु साधकैर्वेतालस्य-श्मशान-चंक्रमण शयन-अवस्थित्यादिचर्या-चतुष्टयं करणीयम्। अतो मण्डलं परितः श्मशानलेखनस्य प्रयोजनमस्ति। 


आश्रितदेवोत्पत्तिविधिः 


देवोत्पत्तेः प्रधानविधिद्वयमस्ति। पञ्चाभिसम्बोधिना देवोत्पत्तिः चतुर्गीतिभिः संचोदनेनोत्पत्तिश्च। पञ्चाभिसम्बोधिनोत्पत्तिक्रमस्य भावनाविधिः सम्पुटतम्त्रीयनैरात्म्यसाधनापटलानुसारं कृष्णयमारितन्त्रस्य टीकारत्नावल्याः १७ पटलानुसारं चोक्तप्रायम्। अत्र तत्स्वरूपं कथयता उत्पत्तिक्रमस्य प्रक्रिया स्पष्टीकरिष्यते। सम्पुटतन्त्रेऽभिहितम्- स्थितालिश्चन्द्ररूपेण कालिरूपेण भास्करः ( ३/३) एतदनुसारं सर्वप्रथमं साधकस्य शून्यताबोधिचित्ते स्थितिरावश्यिकी। तदनन्तरमालेरर्थात् १६ स्वराणां भावनां विधाय तत् चन्द्रे परिणेयम् अत्र चन्द्रः शुक्रबोधकः। सम्पुटतन्त्रकृष्णयमारितन्त्रयोः स्वरं द्विगुणीकृत्यैकां दक्षिणतः आवर्तननामिकां द्वितीयां वामतो निवर्तनं ( परिक्रमां ) कुर्वता तद्भावना करणीया। स्वरं द्विगुणीकृत्य भावनाकरणस्याभिप्रायोऽयं विद्यते यदयं ३२ लक्षणबोधकोऽस्ति हेवज्रे उक्तमस्ति-


शुक्राकारो भवेद् भगवान् तत्सुखं कामिनी स्मृतम्। 


अत्र प्रज्ञोपायभेदात् १६ स्वराः ३२ भवन्ति। आलिस्तु सम्पूर्णशरिरे शुक्रादिषु १६ स्वररूपेण स्थिता भवति। शुक्लपक्षे शरीरस्य वामत ऊर्ध्वं विस्तारं लभमाना क्रमशः पादाङ्गुष्ठे ' अ ' रूपे जङ्घायां 'आ' रूपे उरसि ' इ ' रूपे योनौ ' ई' रूपे नाभौ 'उ' रूपे हृदये 'ऊकारादिरूपे स्थिताऽस्ति। 


संवरोदयतन्त्रे उक्तमस्ति-


तथैव कृष्णप्रतिपदम् आरभ्य यावद् अमावासी। 

तावत् संक्रमणं भवेत् वामे चन्द्र आलिः सूक्ष्मस्वभावः।। 


हेवज्रेऽपि तथागतस्य ३२ लक्षणानि ८० व्यञ्जनानि शुक्र-रक्तयोरूपे काये विद्यमानानि सन्तीति, यथोक्तम्-


द्वांत्रिंशल्लक्षणी शास्ता अशीतिर्व्यञ्जनी प्रभुः। 

योषिद्भगे सुखावत्यां शुक्रनाम्ना व्यवस्थितः।। 


आम्नायमञ्जर्यामभिहितमस्ति यत् शुक्रसुखाभ्यां व्यापृतानि १६ अङ्गानि येषामुपरि निर्देशः कृतः तत्स्थानद्वये शुक्लकृष्णपक्षभेदाभ्यां भिन्नतया स्वराणां द्विगुणिता भावना क्रियते। 


चन्द्रमण्डलोपरि कालिरूपेण भास्करः उपव्यञ्जनानां रूपे ड ध य र ल व इति षडक्षराणि संमेल्य ४० व्यञ्जनानां रक्तवर्णे भावना क्रियते। ३४ अक्षरेषु यानि षडक्षराणि संयोज्यन्ते तत्र मतभेदो दृश्यते। कृष्णयमारितन्त्रीयटीका-रत्नावल्यां'त द ध व य ल ' सम्मेल्यन्ते। व्यञ्जनानि द्विगुणितानि विधाय ८० निर्माणस्याभिप्रायो हि ८० अनुव्यञ्जनानां स्पष्टीकरणम्। यानि च शरीरे शोणितरूपेण स्थितानि। तदनु चन्द्रसूर्ययोर्मध्ये बीजाक्षरेषु आयुधस्य भावना करणीया। शान्तिपादेन हेवज्रीय- साधनोपायिकायां पितामात्रोर्द्विविधायुधभावनां कर्तुमुक्तम्। प्रायः समस्तसाधनासु एकस्यैवायुधस्य भावनया रश्मिस्फ़ुरणसंहरणविधयोरनुकरणानन्तरम् आयुधवज्रसत्त्वस्याथ वा यस्य कस्यापि भावना कर्तव्या, तत्र परिणतेन भाव्यम्। पञ्चाभिसम्बोधिना भावनाकरणात् शून्यता-चन्द्रमण्डल-सूर्यमण्डल-आयुधादीनि यावत् भावना वज्रसत्वीयभावनेत्युच्यते। पञ्चमाभिसम्बोधिवज्रसत्त्वे परिनिष्पन्नता फ़लवज्रसत्त्व इत्युच्यते। 


चतुर्गीतिसंचोदनेन वज्रसत्त्वस्य भावनां यदि कुर्याच्चेत् पञ्चाभिसम्बोधिना वज्रसत्त्वस्य निष्पन्नतायै वज्रसत्त्वे ( माता-पित्रोः) तथा तद्वज्रसत्त्वे-युगनद्धकाये अन्तराभवसत्त्वसदृशेषु अं आः हूँ एषु त्रि बीजाक्षरेषु प्रविश्य तदुत्थापितो वज्रसत्त्व एव हेतुवज्रसत्त्व इत्युच्यते। हेतुवज्रसत्त्वस्योत्पत्तौ पञ्चाभिसम्बोधिना निष्पन्नायां सत्यां चर्चिकादिदेव्यः गीतिना प्राणिनां हितार्थं तदुत्थापनाय प्रेरयन्ति। चर्चिकादेवीनामभिप्रायो हि बुद्धैः पूर्वं पुण्यसञ्चयकाले मैत्र्यादिचतुर्ब्रह्यविहार-नैरात्म्यभावानादेश्च बलेन प्रेरितैः भूत्वा प्राणिनां हितार्थमनुरागयुक्तदेवताया उत्पादनमस्ति। गीतिना सम्प्रैर्य देवतोत्थापनं जरायुजपरिशोधनविधिना उत्पत्तिक्रमस्य भावनया क्रियते। 


हेतुवज्रसत्त्वस्य फ़लवज्रसत्त्वे आगमनविधेः परिशोधनेन सह संयोजयेत् चेत् मनुष्यजातेर्जन्मग्रहणार्थं कुशलकर्म कर्तव्यमेव। कुशलकर्मसम्पन्नतायै वज्रसत्वस्य कृते चतुब्रह्यविहार-रक्षाचक्र-गणपूजादिपूर्वकर्ममार्गः संभारमार्गश्च विद्यते। शून्यता-भावना मृत्युसदृश्येव। या चाधिमुक्तिचर्याभूमितुल्या। नूतनजन्मार्थं प्रतिसंध्युन्मुखचित्तावस्था प्रयोगमार्गस्यान्तिमचरणाग्रमधर्मोऽस्ति। प्रतिसन्धिकरणमेवं गर्भप्रवेशग्रहणं प्रथम ( दर्शनमार्ग ) प्रमुदिताभूमितुल्यं विद्यते। आमासनवकं वृद्धिप्राप्तिर्नवभावनायोगस्य अनुगमनतुल्याऽस्ति। उत्पन्नत्वं सम्बोधिप्राप्तिकरणमस्ति। क्रियेयं पुत्रप्राप्त्या सन्तानोत्पत्तिसदृशी। एतदेव फ़लवज्रसत्त्वस्वरूपमस्ति। एतत्सर्वं फ़लवज्रसत्वस्य बाह्यचर्या विद्यते। मैत्री-करूणादिचतुर्ब्रह्यविहाराणां रक्षाचक्रादीनां स्थितिश्च पूर्वकर्माणि स्वीकृता विद्यते। चतुश्चर्चिकादीनां गीतय उपमातुल्याश्चतुर्ब्रह्याविहारस्तूपमेयस्वरूपोऽस्ति। एतदभ्यासेनाभ्यन्तरचर्यासु चतुर्भूतैर्तिलकस्य बोधिचित्तस्य वा विस्तारो क्रियते। वज्रसत्वः युगनद्धस्य हेतुर्यश्च अन्तराभवस्य सत्वो मन्यते। एतानि बीजाक्षराणि उष्णीषे गुह्ये वा बोधिचित्तरूपेषु ॐ आः हूँ इत्यत्र प्रविश्य तस्मिन् युगनद्धकाये करूणामनुरागं च जनयन्ति तथा तेभ्यः प्रधानदेवस्य ( फ़लस्य ) वज्रसत्वस्योत्पत्तिर्जायते। इत्थं पुनर्विलीय भावनाकरणम् उत्पत्तिक्रमस्य वास्तविकी स्थितिरर्थात् सत्त्वानामुत्पन्नविधेः सम्यगवबोधनम् अभ्यासकरणं तु हेतुवज्रसत्वफ़लवज्रसत्वयोर्महासुखस्वरूपमवगन्तुं विद्यते। भूयो भूयो विलीनत्वं समुत्पादश्च तथा उत्पत्तिक्षणभङ्गप्रक्रियाऽवबोधनं तथताऽवबोधनं चैतत्प्रक्रियालक्ष्यं प्रतीयते।


सम्वरोदयतन्त्रेऽप्युक्तमस्ति यज्जन्म उत्पत्तिक्रमो विद्यते। यथा -


जन्मोत्पत्तिक्रमं ज्ञात्वा सम्यक्बुद्धत्वमाप्नुयात्। 

एतत् स्कन्धपरिज्ञानं कथितं तत्त्ववादिना।। 


उत्पत्तिक्रमानुसारं साधकस्य मार्गाऽवबोधः 


उत्पत्तिक्रमिकभावनानुसारम् आचार्यकोङ्टुलमहोदयेन साधकानां भेदचतुष्टयं कृतम्। १. आदिकर्मिकः, २.स्वल्पज्ञानावेशः, ३. ज्ञानेऽल्पाधिकारः, ४.ज्ञाने सम्यगधिकारश्च। 


१. आदिकर्मिकसाधकः प्रारम्भे सेवादिचतुःसाधनैः साधनासमये एकस्मिन् क्षणे सम्पूर्णस्थूलदेवानां भावनाकरणेऽसमर्थो भवति। अतः क्रमशः देवमण्डलं भावयन् बुद्धबिम्बमिति वज्रसत्त्वम् वज्रिणमिति चतुर्गीतिसंचोदनया अभिमतदेवतारूपं प्रधानं तदेवाह इत्यादि-चर्चिकाद्या इति। पूर्वं नैरात्म्यादयो भावितास्ता एव बोद्धव्या- इति। गीतप्रयोजनाख्यानायाह। यथेत्यादि अयमर्थः करूनारागचित्तेन विलीनस्यानन्तरं संचोदना तदनु तारकसंक्रान्ति-बोधिचित्तं विशेदिति-बोद्धव्यम्। साधक आदिकर्मिक इत्युच्यते। 


२. स्वल्पज्ञानावेशः- स्थूलदेवमण्डलानां भावनाकरणे समर्थोऽपि साधकोऽयमायतनिकदेवानामेकस्मिन् क्षणेऽसमर्थत्वात् स्वल्पज्ञानावेशस्तरीयः इत्युच्यते। 


३. ज्ञाने स्वल्पाधिकारलाभिसाधकः- अयम् आयतनिकदेवानामेकस्मिन् क्षणे भावनाकरणे योग्यतामाप्नोति। अत्र यावन्मात्रोत्पत्तिक्रमस्यैव भावना भवति। तदनन्तरं साधकेन उत्पत्ति-उत्पन्नक्रमद्वयं संयोज्य ध्यानं करणीयं भवति। तदा साधके सूक्ष्मतिकमध्ये मण्डलानां स्फ़ुरणसंहरणयोः सामर्थ्यमायाति। अत्र साधकस्य प्रयासेन याममध्यान्तरयोरैक्यमायाति तथापि साधकोऽनन्तकर्मसंचये असंख्यरूपेष्वनन्तकर्मसु प्रवेशे च योग्यताप्राप्तौ असमर्थो भवति। अत्रैव साधको ज्ञाने लब्धाल्पाधिकारो मन्यते। 


४. ज्ञाने सम्यगधिकारलाभिसाधकः- एतस्यैकैकस्मिन् क्षणेऽनन्तध्यानस्य स्पष्टाभासो भवति। स्मरणमात्रेणायमनन्तसत्त्वानां हितं कर्तुं शक्नोति। इयमुत्पत्तिक्रमस्य चरमोत्कृष्टाऽवस्था विद्यते। अवस्थायामस्यां साधको निष्पन्नक्रमस्योष्म मार्गेऽपि गच्छति। 


साधकस्य भेदचतुष्टयं भट्टारक-आनन्दमतिनाऽप्युक्तम् यत् साधकैः स्व स्वसाधनोपाये समागतोत्पत्तिक्रमस्य विधिना भावना करणीयेति। एतेषां मते एकस्मिन् क्षणे समस्तमण्डलानां भावनाकरणे असमर्थसाधक आदिकर्मिकोऽस्ति। विमाने तथा तत्र न्यासितस्थूलदेवानां भावनाकरणेऽसमर्थोऽपि साधक आयतनदेवानां हृदयादिकस्य स्पष्टभावनाकरणे समर्थसाधको द्वितीयः। प्रथमद्वितीयसाधकयोर्भावनाविधौ भेदो भवति। प्रथमः सम्पूर्णमण्डलस्य क्रमशो भावनां करोति द्वितीयश्च स्थूलदेवस्यैकस्मिन् क्षणे ध्यानं करोति सूक्ष्मायतनिकदेवानां क्रमशो भावनां करोति च। तृतीयसाधको न केवलं स्थूलदेवानामपि तु सूक्ष्मदेवानामपि एकस्मिन् क्षणे ध्यानं करोति। तृतीयस्थाने गतस्य साधकस्योत्पत्तिनिष्पन्नक्रमयोरद्वयभावः समायाति। तदनन्तरं साधकस्य याममध्यान्तरयोर्ध्यानमपि अभिन्नं भवति। अस्यामवस्थायां साधकेन एकस्मिन् दिने वारमेकं सम्पूर्णोत्पत्तिविधेः ( अभिसमयस्य ) पाठः करणीयो भवति, न तु प्रतिभानम्। इमामवस्थां लब्धवतोऽपि साधकस्य कृते उत्पत्तिक्रमीयान्तिमपदस्य प्राप्तिर्न भवति। चतुर्थस्थाने लब्धे सति साधक उत्पत्तिक्रमे पूर्णतां प्राप्य निष्पन्नक्रमेऽपि निष्णातो भवति। संवरोदयतन्त्रेऽप्युक्तमस्ति-


उत्पत्तिं मृदुमध्यो योगी ध्यायाद् मण्डलभावना। 

अधिमात्रो ज़्हटिताकारं मण्डलं चित्तमात्रतः।। 

ज़्हटिताकारयोगेन उत्पन्नक्रमभावना।। 


अर्थात् मृदु मध्येन्द्रियदेवमण्डलयोश्च क्रमशः भावनां करोति तथा निष्पन्नक्रमस्य भावनायामपि देवकायस्य भावनां ज़्हटिति एव विदधाति। उक्तश्लोकस्य व्याख्यां कुर्वता आचार्यसेरतोगपामहोदयेनोक्तमस्ति यद् अयमेकस्यैव साधकस्योत्पत्तिक्रमिकभावनाया विकासक्रमो विद्यते। प्रथमचरणे साधकः स्थूलदेवमण्डलस्य क्रमशः भावनां करोति स मृदुः वर्तते द्वितीयचरणेऽर्थात् किञ्चित् अभ्यासे जाते स्थूलदेवमण्डलस्यैकस्मिन् क्षणे तथा सूक्ष्मदेवमण्डलस्य क्रमशः भावनां करोति, स मध्यो वर्तते। तृतीयावस्थायां स्थूल-सूक्ष्मसमस्तदेवमण्डलस्यैकस्मिन् क्षणे भावनां करोति तथा निष्पन्नक्रमस्य साधकोऽपि देव-भावनां ज़्हटिति एव सम्पादयति। 


निष्पन्नक्रमस्य सामान्यपरिचयः 


निष्पन्नक्रमस्याधारो बोधिचित्तम्-तन्त्रशास्त्रे बोधिचित्तनिजचित्ततन्त्रसूक्ष्मप्राणचित्तादिषु नामपर्यायत्वेन बोधिचित्ते बोधेश्च चित्ते महदन्तरं भवति। बोधिचित्तन्तु सर्वसत्ववर्तिपरं च बोधेश्चित्तं तन्त्रम्। यतो ह्ययं चैतसिको धर्मः यश्चागन्तुकः। अयमेव श्रावकयान-प्रत्येकबुद्धयानाभ्यां बोधिसत्वं पृथक् करोति। बोधेश्चित्ते समुत्पन्ने सति साधको साधको बोधिसत्त्वो भवति, बोधिसत्वयानी च कथ्यते। एतद्वोधिचित्तलक्षणं स्पष्टयता हरिभद्रेण कथितम् -


चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता। 


परार्थसिद्धये बोध्यभिलाष एव बोधेश्चित्तम्। परार्थकामना तदर्थं च सम्यक्सम्बोधिकामनेति चैतसिको धर्मः, यतश्चित्तन्तु सामान्यभावेन सर्वधर्मेषु समभावेन आलम्बते। यत्र च कामना किञ्चिद् धर्मविशेषालम्बना। अतो बोधिचित्तेन चैतसिकेन भवितुं शक्यते न तु चित्तेन। अतः उभयकामना चित्तसंज्ञयाख्यातुं शक्या यतश्च एतत् कामनाद्वये यावत् तीव्रत्वं स्यात् तावदेव साधको बोधि-समीप्यं प्राप्स्यति, ततो बोधिचित्तं च विकसिष्यति। शास्त्रेषु बोधिचित्तस्य द्वौ भेदौ समाख्यातौ- १. संवृतिबोधिचित्तम्, २. परमार्थबोधिचित्तं च। संवृतिबोधिचित्तस्य स्वरूपतो भेदद्वयम्। तथा हि बोधिचर्यावतारे-


तद् बोधिचित्तं द्विविधं विज्ञातव्यं समासतः। 

बोधिप्रणिधिचित्तं च , बोधिप्रस्थानमेव च।। 


प्राणिमात्राय बोधिचित्तकामना तु प्रणिधानचित्तं, तदर्थं च दशपारमिता-चर्या च प्रस्थानचित्तं वर्तते। एतद्भेदद्वयं तत्रैवोपमया वर्णितमित्थम्-


गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते। 

तथा भेदोऽनयोर्ज्ञेयो याथासंख्येन पण्डितैः।। 


वज्रयाने यद्बोधिचित्तावधारणा तत्र बोधिश्चित्तमपि तु बोधिचित्तमेव यत् साधनामूलकं तत्त्वमेव नापि तु साध्यमूलकमप्यस्ति। गुह्यसमाजे तन्त्रस्वरूपम् आश्रयमार्गफ़लभेदास्तु निरूपिताः। ( फ़ल ) असंहार्याश्रय एव मार्गः मार्ग एव फ़लम् अवस्थामात्रं भेदश्च। तदेव बोधिचित्तमपि। गुह्यसमाजे बोधिचित्तस्वरूपविषये प्रतिपादितं यत् शून्यताकरूणयोरभिन्नरूपमेव बोधिचित्तमास्ते। 


शून्यता 


पारमितानये शून्यतायाः बाह्यशून्यता-आभ्यन्तरशून्यता-बाह्याभ्यन्तरोभय-शून्यता-परमार्थशून्यताप्रभृतयो विंशतिर्भेदा व्यधीयन्त। युक्तिभिर्धर्मेषु विश्लेषितेषु सत्सु निःस्वभावताऽन्ततस्तेषामवतिष्ठते। धर्मि-भेदेन शून्यता-भेदाश्चापि भवन्ति। पारमितानय-विदाः शून्यतास्वरूपं किञ्चित् प्रसज्यनिषेधात्मकं मन्यन्ते। केचिच्च पर्युदासप्रभास्वरस्वरूपम् मन्यन्ते। परञ्च वज्रयाने शून्यता निष्प्रपञ्चता पर्युदासस्वरूपैव प्रतीयते। यतश्च पितृतन्त्रीयग्रन्थेषु आलोकादिना तृतीयेन प्रभास्वराख्यचतुर्थज्ञानेन च क्रमेण शून्यतायाः शून्यातिशून्यमहाशून्यसर्वशून्याख्यभेदचतुष्टयस्य साक्षात्कारः सममन्यत। प्रथमालोकज्ञाने शून्यतासाक्षात्कारनन्तरं रागसम्बद्धानां चत्वारिंशद् विकल्पानां क्षयः द्वितीयालोकाभासज्ञानेन चातिशून्यताबोधे सति त्रिंशत् विकल्पानां क्षयः आलोकोपलब्धिज्ञानेन चातिशून्यताबोधकाले मोहसम्बद्धानां सप्तविकल्पानां क्षयो भवति। एतत्त्रितयज्ञानेन शून्यताबोधे सूक्ष्मं द्वैतमवशिष्यते। चरमप्रभास्वरज्ञानद्वारा सर्वशून्यताबोधे जात सत्येव अद्वयपरमार्थः साक्षात्क्रियते। अपरतस्तु मातृतन्त्रे प्रतिपादितं यत् चतुर्विषय्यानन्दैः क्रमेण शून्यताचतुष्टयी साक्षात्क्रियते। इयं चावस्था विपाकादिक्षणचतुष्टये विभज्यते। एतेनेदमेव सुस्पष्टं यत् प्रभास्वरचित्ते विकल्पातिसूक्ष्मरूपेषु विलीनेषु सत्सु प्रभास्वरस्याद्वयावस्थैव चरमावस्था या च पर्युदासस्वरूपैव भवितुं शक्या, एतदेव वज्रयानस्य शून्यतास्वरूपम्। परं चेदमपि नूनं ज्ञेयं यदस्य विष्प्रपञ्चतायां पारमितानयवज्रयानयोश्चान्तरं न भवति। 


कालचक्र-सेकोपदेशादि-अद्वयतन्त्रग्रन्थेषु शून्यता सर्वकारावरोपेता समभिहिता। शून्यता च रूपं यतो हि वायोर्मध्यमावस्थितौ मरीचिधूमखद्योतदीपादयः आविर्भवन्ति। एते च सर्वे कालचक्रदेवरूपेण समुद्भवन्ति। विषयशून्यता स्वरूपप्रभास्वरस्य बलादुत्पन्नत्वात् प्रभास्वरभिन्नत्वेन वर्तते। अतः प्रभास्वरत्वमत्र परमार्थम् विषयरूपेण देवकायसंवृतिरूपं च। संवृतिरूपे स्वभावतः प्रभास्वरादभिन्नत्वम्। अपरतश्चाक्षरसुखमपि संवृतिरतिपरं कथयितुं शक्यं, यतश्चेदं कर्ममुद्राज्ञानमुद्रादीनां सेवनादुत्पन्नमभिमुखञ्चाभवत्। किमपि स्यात्, परञ्च मायाकायप्रभास्वरयोर्युगनद्धरूपमेव फ़लं वर्तते। करूणा-प्रभास्वराक्षरसुखादीनि पर्यायाणि। 


करूणा 


पारमितानये यथा शून्यता शून्यमात्रन्तथैव करूणा करूणामात्रमेव। बुद्धकपालतन्त्रे पारमितानय-शून्यता इत्थं प्रतिपादिता-ज्ञानाभावे शून्यता सन्ततिरहित-गृहस्थेन समाना। वस्तुतस्तु शून्यताकरूणयोरद्वयभावोऽपेक्ष्यते यतः करूणा अक्षरसुखञ्च नाम्ना पर्यायभूतम्। महासुखेन करूणया वा शून्यतायां प्रकटितायां सत्यामेव सा प्राणिहितं विदधाति। करूणैव महारागः। महारागशून्यतयोरभिन्नत्वमेव वज्रयानस्य करूणारूपं वर्तते। शून्यताकरूणयोरद्वयस्वभावभूतबोधिचित्तस्यावबोधाय पारमितानयमन्त्रनययोश्चानेके उपायाः संवर्णिताः। तत्र चानुत्तरतन्त्रेषूपदिष्टनाडीवायुतिलकानां मर्मावबोधनमेव सर्वश्रेष्ठ उपायः। अतोऽत्रैतत्त्रितयं ( तत्त्वं ) निरूप्यते। 


वज्रदेहम् 


पितृतन्त्र-मातृतन्त्राद्वयतन्त्राणां निष्पन्नक्रमस्य भावनाविधिषु नैकानि मतमतान्तराणि परं च यत्र संवृति-स्वाधिष्ठानक्रम-परमार्थप्रभास्वराणामभिन्नरूपयुगनद्धस्य प्राप्त्युपायलक्ष्यन्त्वत्र समानम्। तत्रैव निष्पन्नक्रमसाधनाधारीभूतवज्रदेह-नाडीवायुतिलकादिषु अधिकारप्राप्तिरपि समरूपेण मान्या। कस्तावद् वज्रदेहः ? षट्त्रिंशत् स्कन्धसमूह एव वज्रदेहः। 


इदं कामधातावेव सम्भाव्यते न तु रूपधात्वरूपधातुषु। यतो हि रूपधातौ आकाशवाय्वग्निक्षितिजलधातवः किञ्चिन्मात्रमेवावतिष्ठन्ते। अतः अनुत्तरतन्त्रस्य साधकः कामधातुसत्त्व एव भवितुमर्हति न तु रूपारूपधात्वोः यतश्च कामधातावेव षड्त्रिंशत् स्कन्धैः षड्धातुभिश्च पूर्णं तत्पूर्णत्वं सम्भाव्यते। संवरोदयतन्त्रे षड्धातुविषये-


त्वङ्मांसकं च रक्तं च मातृजम् इति कथ्यते। 

स्नायुमज्जा च शुक्रं च, पितृजम् इति कथ्यते।। 

एवं षट् कुशिकं पिण्डवज्रसत्ववचो यथा।। 


त्वङ्मांसरक्तस्नायुमज्जाशुक्रेति षडधातुसम्पन्नोऽयं कायो निष्पन्नक्रमस्य परिशोध्यमास्ते। एतत् समलनिर्माणकायोऽप्युच्यते। 


नाडी 


यथा पटतन्तुसमूहस्तथैवास्मदीयशरीरमपि नाडी-जालसमूहः। संवरोदयतन्त्रे शरीरान्तः द्विसप्ततिसहस्रनाडीनां स्थितिर्निरूपिता। तत्र चोष्णीषे द्विपञ्चाशद् नाडीनां समूहः कण्ठचक्रे च षोडश हृदयकमले अष्टौ, नाभिकमले चतुष्षष्टिः नाड्यः प्रमुखाः। संवरोदयतन्त्रेऽपि-


अथातः सम्प्रवक्ष्यामि नाडीचक्रं यथाक्रमम्। 

द्वासप्ततिसहस्राणि नाडी देहानुगा भवेत्। 

नाडिका उपनाडीनां तासां स्थानं समाश्रितः। 

विंशोत्तरशतं नाम नाडीप्राधान्यमुच्यते।। 


पुनः नखदन्तशरीरसंवर्द्धिकाः उष्णीषादि-चतुर्विंशतिर्नाड्योऽपि प्रमुखतां भजन्ते। तत्रैवोक्तं-


नाडी स्थानं च पीठं च , चतुर्विंशत्प्रमाणतः। 

तेषां मध्ये त्रयो नाड्यः आश्रयन्ति च सर्वगाः।। 


एतदत्र अवधूती- ललना-रसनाप्रभृतयः तिस्रः मुख्यनाड्यः। 


अवधूती 


अवधूती-मध्यमा-ब्रह्यदण्ड-राहु-शंखिनीति पर्यायभूतानि। केचन आचार्या अवधूतीनाडीं काल्पनिकीं अतिसूक्ष्मां च मन्यन्ते। क्वचित् सर्वशरीरव्यापिकावधूती नाडीति वर्ण्यते क्वचितु उष्णीषादारभ्य पृष्ठास्थिपर्यन्तं नाभिक्षेत्रात् चतुरङ्गलमधः कुत्रचित् गुह्येन्द्रियाग्रं पादतालपर्यन्तं च अवधूती भवतीति चर्चितम्। नाडीचक्रसंख्याऽपि क्वचित् चतुस्त्रिः वा चोपलभ्यते। 


रङ्जुङ्दोर्जेमहोदयस्य मतन्तु यथा ज्ञानस्य मूलं मध्यमा तथैव भावमूलमपिमहाप्राणनाडी। उच्यते च, चतुर्विंशतिसहस्रमिताश्चन्द्राः शुक्रवाहिनी नाडी ललना च चतुर्विंशतिसहस्रमिताः सूर्याः शोणितवाहिनी नाडी रसनोच्यते। चतुर्विंशतिवायुवाहिनी नाडी मध्यमाऽस्ति। हेवज्रे अवधूतीत्थं वर्णिता -


अवधूती मध्यदेशे ग्राह्यग्राहकवर्जिता। 


सर्वधर्माणामन्तिमा सत्ता चतुष्कोटिनिष्प्रपञ्चप्रभास्वरतैव। विकल्पान् विगलय्य मध्यमायां प्रवेशः स्थितिलाभमात्रमेव च मध्यनाडी कथयितुमशक्या? तथैव ललनारसने द्वैतभावत्वेन कथयितुमशक्यते। किं वस्तुतः अस्मच्छरीरे सूक्ष्मरूपेण नाडी स्थिता ? चेन्मध्यमा नाडीचक्रप्रभृतयः नाड्यः वर्णनानुरूपास्तर्हि एतद्भावनामात्रम् इष्टदेवे स्वशरीरं परिणत्यनन्तरमेव क्रियते ? यच्च विचारणीयम्। परञ्च संवरोदयतन्त्र- हेवज्रतन्त्र-सम्पुटोद्भवतन्त्र-कालचक्रतन्त्र-वज्रवाराहीरहस्य-तन्त्र-ज्ञानोदयतन्त्रप्रभृतिषु ललनारसनावधूतीनाडीनां स्वरूपमित्थं स्पष्टीकृतम् -


रसनाललनानाड्यौ 


अवधूत्या दक्षिणतो रसना, वामतश्च ललनेति द्वे नाड्यौ नाभितः चतुरङ्गुलमधः विश्लिष्य नाभिप्रदेशे हृदयाशय ( गुर्दा ) महानाड्या सम्बद्धे भवतः। इतोऽग्रे पुनः हृदयस्य दक्षिणतो रसना वामतश्च ललना सम्बद्धे भवतः। ततश्च कर्णपुरस्याधोभागे हृदयस्य महानाडीतः संयुक्ते कण्ठचक्रे सन्निपततः। कूकाटिकानाडीतो भूत्वा कर्णस्याधोभागीयछिद्रतो भूत्वा वृक्षनाड्या सह मस्तिष्के सत्यौ मूर्ध्नः ब्रह्यरन्ध्रेण संयुक्ते। एवं नाडीद्वयं सर्वेन्द्रियद्वारेषु व्याप्तम्। विशेषतश्च नासिकायाः छिद्रद्वये इमे नाड्यौ ऊर्ध्वशिखरे भवतः। अधोभागे नाडीत्रय-संयोगेन निर्मितचतुष्पथेन विश्लिष्य दक्षिणनाडी रसनायाः निम्नशिखरेण स्त्रीगर्भशयस्थरक्तस्य स्रावं पुरूषस्त्रियोः मलसंधारणं त्यागकृत्यं च सम्पादयति। ललनारसनयोः स्वरूपविषये हेवज्रतन्त्र-पञ्जिकारत्नावलि सम्पुटोदयतन्त्र-संवरोदयतन्त्र प्रभृतिषु कथितं-ललना शुक्रवाहिनी, रसना च रक्तवाहिनी। ललनारसने उष्णीषचक्रादारभ्य गुह्येन्द्रियचक्रपर्यन्तम् अवधूत्या आलिङ्गिते भवतः। 


वायुः 


गुह्यसमाजस्य व्याख्यातन्त्रवज्रमालायाः द्वादशपटले अष्टोत्तरैकशतं वायवो वर्णिताः। तेषु प्राणापानोदानसमानव्यानाख्या वायुप्रमुखाः एवं च नागकूर्मकृकरदेवदत्तधनञ्जयाश्च अङ्गभूता वायवः उच्यन्ते। कालचक्रे एतादृशवायूनां कृत्यानीत्थं वर्णितानि -


प्राणोऽपानः समानः कमलवसुदले मारूतश्चाप्युदानो। 

व्यानो नागश्च कूर्मः सकृकरपवनो देवदत्तो धनञ्जयः।। 


इत्येते नाडिचक्रे दशविधपवनाः संस्थिताः कर्मभेदाः। 

शंखिन्यन्तं तिडाद्यं स्वहृदयकमलं नाभिचक्रं समस्तम्।। 


प्राणः प्राणं करोत्यर्क शशिपथगतस्त्वन्नपानं समस्तं। 

आपानो नेत्यधस्तात् सकलरसम्समं नेति काये समानः।। 


काये स्पन्दत्युदानोमुखकरचरणैर्गीतानाट्यङ्करोति। 

व्यानो व्याधिं करोति प्रकृतिगुणवशाद् गात्रभञ्गस्तथैव।। 


अस्मच्छरीरे महाप्राणवायुरेव सर्वान्यवायूनां मूलाधारः। एतदभावे जीवनमसम्भवम्। हृदयकमलस्थमिदम्। प्रतिदिवसमेकः स्वस्थपुरूषः द्विसहस्रोत्तरैकशतषट्शतं श्वासान् उच्छवासांश्च गृह्णाति। एतन्महाप्राणादेवोत्पन्नान्यवायूनां स्थानभेदं कृत्यभेदं च सुस्पष्टयता आर्यदेवनाप्यभिहितं - अपानश्च नाभेरधोभागे नाडीत्रयसमूहेन पिण्डीकृतस्थाने तिष्ठति। इदं च मलमूत्रशुक्रशोणितकषायरसादिधातून् विसर्जयति निःसरणं संकलनं च विदधाति। समानवायुः नाभिदेशो तिष्ठति। यथा माल्यकारः कूपजलेन वृक्षपादपान् सिञ्चति, तथैव सर्वान्नपचनं कषायरस-पार्थक्यं च विदधाति, सर्वरसान् नाडीस्थानं प्रापय्य शरीरं पोषयति। उदानवायुः कण्ठचक्रे अवतिष्ठते। अयं च मुक्त- पीत-पार्थक्यं सम्पादयति सङ्गीतचेष्टापि अनेनैव वायुना भवति। व्यानवायुश्च सर्वाङ्गे ग्रन्थिषु चावतिष्ठते। एतद्वायोस्तु मुख्यं कृत्यं देहे शक्तिप्रसारणाम्। विमलप्रभायामप्यस्य स्थानकृत्यानां वर्णनम् अवाप्यते। 


निम्नश्लोके अतिसंक्षेपेण एतस्थानानां वर्णनं लभ्यते -


हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः। 

उदानः कण्ठदेशस्थो, व्यानः सर्वशरिरगः।। 


नागकूर्मादि - अंगवायवः चर-विचर-सम्यक्चर-प्रचरनिचरादिनामभिरपि उच्यन्ते। पञ्चेन्द्रियज्ञानानि उत्पादयति। 


पञ्चक्रमेऽपि 


वायुना सूक्ष्मरूपेण ज्ञानं संमिश्रतां गतम्। 

निःसृत्येन्द्रियमार्गेभ्यो विषयानवलम्बते।। 


एतत्पञ्चाङ्गवायूनां स्थानकृत्यादीनि संक्षेपेणेत्थम्-नागवायुः दक्षिणबाहुमूलस्य नाडीदलं प्राप्य संचरते। एतन्नाड्याः शिखरमेकं चक्षुषि संयुनक्ति। रूपग्रहणं च कृत्यमस्य। कूर्मवायुः हृदयस्य पृष्ठभागस्थजयानाडीदलेन संचलति। एतदेव शिखरं कर्णयोर्निदधाति। एतद्वायोस्तु मुख्यकृत्यं शब्दग्रहणम् हस्तपादस्फ़ुरणमप्यस्यैव। कृकरवायुः वामबाहुमूलस्कन्धस्थितनाडीदलाम्बुषा संचरति। नासिकायामेको भागस्तिष्ठति। गन्धग्रहणं च मुख्यकृत्यम्। देवदत्तवायुः हृदयस्य वामदिशा ललनानाड्या मेषलग्ननाड्या च संचरति। एतच्छिखरमेकं जिह्वाग्रे तिष्ठति। रसादानं च मुख्यकृत्यम् जृम्भणं च। धनञ्जयवायुः वामस्तनस्य कुहूनाड्या संचरति। एतन्नाड्या शिखरम् उपजिह्वायाः मध्ये रोम्णश्च सर्वछिद्रेषु तिष्ठति। स्पर्शादानं च मुख्यकृत्यम् मृतशरीरेऽपि किञ्चित्कालं तिष्ठति। उपरि वर्णिता सर्ववायवः महाप्राणवायोरेवाङ्गभूताः। देशकृत्यभेदेन पृथक् नामानि दत्तानि। श्वास-प्रश्वासकाले एवं विहाय चतुर्वायवः नासिकायाः दक्षिणे वामे च पृथक् पृथक् छिद्रेभ्यः वहन्ति। व्याख्यातन्त्रवज्रमालायां पञ्चतथागत-पञ्चवर्ण-पञ्चधातुभिः सह एतद्वर्णनमित्थमकारि-


नासाग्रे सर्वपं नाम प्राणायामस्य कल्पना। 

प्राणायामस्थिताः पञ्चरश्मयो बुद्धभावतः।। 


ऊर्ध्वं प्राणाद् विनिष्क्रान्तौ वामदक्षिनद्वन्द्वतः। 

अधश्चेति चतुर्धा स्याद् बलो आध्यात्मिकः स्मृतः।। 


कण्ठहृद्नाभिगुह्याब्जे गत्यगती विनिर्दिशेत्। 

सर्वदेहानुगो वायुः सर्वचेष्टाप्रवर्तकः। 

वैरोचनस्वभावोऽसौ मृतकाया द्विनिश्चरेत्।। 


इत्थमत्र पञ्चप्रधानवायु-पञ्चाङ्गवायु-वर्णनेन साकम् इदं प्रत्यपादि-एतत्सर्वाणि एकस्यैव प्रधानप्राणवायोरङ्गानि। एतद्भावनाविधिः अग्रे वायुयोगेऽथवा चण्डालीयोगे कथयिष्यते। 


तिलकम् 


तिलकस्यार्थः महासुखं तद्धेतुश्च। भेदत्रयमस्य १. मूलनिष्प्रपञ्चतिलकम् , २ . भ्रान्त्यविद्यातिलकं, ३ . बन्धकारकद्रव्यम्, मन्त्रवायुतिलकं च। 


१. सहजज्ञानमेव मूलनिष्प्रपञ्चतिलकम्। चित्तधर्मता धर्मकायबोधिका। चित्तस्य प्रभास्वरतैव संभोगकायचिन्तनेनैतदाभासोऽपि जायते। यथा च सर्वधर्माणां स्वभावे-विश्लेषिते सति निःस्वभावशून्यताप्राप्तिः धर्मकायस्य लक्षणम्। प्रभास्वरे स्थिते सति बाह्याभ्यन्तरधूमखद्योतचन्द्रादीनामाभासः सर्वधर्माणां प्रभास्वरस्वरूपत्वं संभोगकायं लक्षयति। षडिन्द्रियैः स्वविषयाणामनिरूद्धस्वरूपग्रहणं निर्माणकायस्य लक्षणम्। 


२. निष्प्रपञ्चतिलकावस्थायां शुक्रशोणितवायुसंसर्गेण शुक्रं ग्राहकत्वेन शोणितं च ग्राह्यत्वेन समुत्पद्य विषय-विषयिभावं गृह्णाति, यच्च भ्रान्त्यविद्याजनितमस्ति, यतो हि एतद् स्वभावेनाद्वयं सदपि द्वैतं गृह्णाति। बन्धनकारकं द्रव्यं मन्त्रं वायुतिलकं च परिशोध्य- परिशोधकरूपेण विभज्य भेदषट्कं सम्पाद्यते। 


अविद्यासंस्कारविज्ञानैः परिकल्प्य वेदनासंस्कारसंज्ञाविज्ञानानि इति नामसु परिवर्त्य नामार्थोभयग्राहकं परिशोध्याधारमन्त्रतिलकं विद्यते। एतत्परिशोध्याधारनामार्थयोः देवभावनामन्त्रजपादिभिः परिशोधनं भवति। अत एव परिशोधकमन्त्र-तिलकमिदं निगद्यते। 


आलम्बनप्रत्ययाधिपतिप्रत्ययसमनन्तरप्रत्ययेति प्रत्ययत्रयेण परतन्त्रं चित्तं चञ्चलं भवति विषयानपि गृह्णाति। इदं वायुकृतपरिशोध्यं वायुतिलकम्। एतन्निरोधहेतुभूतं वायुयोगपरिशोधकं वायुतिलकम्। 


पञ्चेन्द्रियाणां विषयरूपेण प्रतिभासमानैः शब्दरूपस्कन्धादिभिः संगृहीतशुक्रशोणितं पञ्चधातुपरिशोध्यं द्रव्यतिलकम्। द्रव्यतिलकपरिशोधकेषु प्रतिपक्षतिलकेषु द्वादशरसाः, चतुर्विंशतिः कषायाश्चेति मिलित्वा षड्त्रिंशत्प्रमुखाश्च। पञ्चप्रधानवायुसंसर्गेण पञ्चतिलकानि, पञ्चाङ्गवायुसंसर्गेण ऊर्ध्वाधोभागस्थचन्द्रसूर्यगततिलकं च समेत्य द्वादशरसतिलकानि, चतुर्विशतिपीठस्थानेषु कषायतिलकञ्चावतिष्ठन्ते। यथा च संवरोदयतन्त्रे-


पुल्लिरमलये शिरसि नखदन्तवहास्थिता। 

जालन्धरशिखास्थाने केशरोमसमावहा। 

कुलता जानुद्वयोः स्थित्वा बालसिंहाववाहिनी।। 


एतदतिरिक्तं शरीरे यावत्यो नाड्यस्तासु कणे कणेऽपि द्रव्यतिलकं समाविशति। तत्र चानुत्तरतन्त्रयोगिनः साधनाकेन्द्रं मातृलब्धरक्ततिलकम्। यच्च नाभिक्षेत्राच्चतुरङ्गुलमधः ललनारसनयोर्मेलनस्थाने मध्यमानाड्याः अधोभागेऽप्लुता-कारस्थम् ऊर्ध्वोष्णीषकमलस्थं च विद्यते। ज्ञानोदयतन्त्रे चापि -


निर्माणचक्रमध्यस्था प्रज्ञावर्णाग्ररूपिणी। 

कर्ममारूतनिर्धूता ज्वलन्ती सहजात्मिका। 


विद्युच्छटा प्रतीकाशासुसूक्ष्मा विषतन्तुवत्। 

विभाव्योत्थापयेन्मन्त्री सद्गुरू उपदिशेत्।। 


सारतस्तु मध्यमानाडी- अनाहतवायु-निष्प्रपञ्चतिलकेति एतत्त्रयं कृत्य-वैभिन्यात् पृथक् निरूपितम्। तत्त्वतस्तु एतत्सर्वं निजचित्तं सहजज्ञानं प्रभास्वरा वा सन्ति। यच्चाद्यन्तरहितम्। एतन्नाडी एतदर्थमुच्यते यत् प्राणिनां महाप्राणाश्रयमिदम्। एतदभावे मध्यमाललनारसनाश्चेति नाडीनामुतत्तिरेवासम्भवा। एतस्मादेव शून्यस्वरूपमध्यमानाडी आलिङ्गितरसनाललनाप्रभृतयः प्रादुर्भवन्ति। एतदेवानाहतवायुरपि, यतश्च वायुश्चित्तेन सहाभिन्नो भवति। चित्तं चायन्तविरहितम्। शाश्वत्क्षयोच्छेदविरहिता इमाः। अतस्तदभिन्नो वायुरपि चित्तसदृशः। एतेनैवायमनाहतवायुरप्युच्यते। महामुरातिलकेऽभिहितं यत् प्रभास्वरचित्तेन सह पञ्चरश्मिवान् वायुरभिन्नरूपेन तिष्ठति। एतस्मादेव वाय्वग्निजलक्षितिप्रभृतयः क्रमेणोत्पद्यन्ते। 


पञ्चरश्मयः पञ्चभूतधातुवत् प्रतीयन्ते। प्रभास्वराद् अनाहतवायोश्चैव सृष्टिर्भवति। निष्प्रपञ्चप्रभास्वरेण सह वायोरभिन्नत्वेनैव तत्र गतिरायाति, गतेरेव जगत् सृजय्ते। अद्य वैज्ञानिकानाम् अणुपदार्थविश्लेषणावधौ ज्ञायते यत् तेऽपि प्रोटोन न्यूट्रोन-इलेक्ट्रोनतरङ्गेषु तदपि महाशून्यत्वेन प्राप्नुवन्ति। महाशून्यमिदमभावात्मकं न शक्यं यतः अभावात् कदापि भावोत्पत्तिर्न जाता। अतो महाशून्यचेतनाऽपीयं सूक्ष्मवायोरभिन्नाऽपि यतश्चैतस्यै गतिं प्रददाति जगच्चोत्पादयति। इत्थं जगत्प्रभास्वरश्चाभिन्न एव। एतदभावे तन्त्रशास्त्रावस्थितिरेवासम्भाव्या। नामसङ्गीतावपि-वायुरयं श्वास-प्रश्वास समय-घण्टा-दण्ड-लग्न-स्वरव्यञ्जनादिसर्वाक्षराणां स्रोतः समभिहितः। नैतावदेवापि तु सम्यक्सम्बोधिरपि अस्मादेव वायोरूत्पन्न इति वर्णितम्। अयमेतत्सर्वस्योत्सः अभिलापाश्रयश्च सन्नापि स्वयमनभिलाप्योऽनुत्पादश्च वरीवर्ति। 


तद्यथा भगवान् बुदधः सम्बुद्धोऽकारसम्भवः। 

अकारः सर्ववर्णग्य्रो महार्थः परमाक्षरः।। 


महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः। 

सर्वाभिलापहेत्वग्य्रः सर्ववाक् सुप्रभास्वरः।। 


वसन्ततिलकटीकारहस्यदीपिकायामपि ' अ ' इत्यक्षरानुशंसाविषये समभि-हितम्-अकार इत्यादि महार्थ इति आद्यनुत्पन्नतत्त्वसूचकत्वात्। वर्णनायक इति , अनेनैव तेषां प्राणित्वात्। ये च देहिनां साधकानां वा ये मन्त्रा वाक्यानि प्रमाणवादीनि वा तत एव जाता उत्पन्ना। एवं सर्व एव सत्त्वा मन्त्रपरायणाः स्वभावेनेति स्थितम्। यावद् अभिन्नस्वरूपोक्तत्रयस्य वस्तुस्थितिः सम्यग् न ज्ञास्यते तावद् निष्पन्नक्रमसाधना न सम्भाव्यते। अत एव संक्षेपेणैतत्परिचयः प्रादायि। 


पितृतन्त्रस्य निष्पन्नक्रमः 


निष्पन्नक्रमभावनायां पितृतन्त्र-मातृतन्त्र-अद्वयतन्त्राणां भेदेन भावनाविधावपि काचिद् भिन्नताऽवलोक्यते। पितृतन्त्रे विनेयजनानां कुलभेदेनापि पुनः साधनायां अल्पाधिका भेदा दृश्यन्ते। यद्यपि पितृतन्त्रप्रधानग्रन्थस्य गुह्यसमाजस्य नैके साधना-विधयः परम्पराश्च, तेषु नागार्जुनस्य आर्य-आम्नायः ज्ञानपाद-आम्नायश्च प्रमुख-तमोऽस्ति। 


आर्य-आम्नायः 


एतदाम्नायानुसारं गुह्यसमाजमूलतन्त्रस्य षष्ठपरिच्छेदे-


मन्त्रनिध्यप्तिकायेन, वाचा मनसि चोदितः। 

साधयेत् प्रवरां सिद्धिं, मनः सन्तोषणप्रियाम्।। 


एतत् श्लोकमाधारीकृत्य ' मन्त्रनिध्यप्ति' इत्यतः वाग्विवेकस्य कायतः वज्रजापसाधनायाः आधारीभूतनिर्माणकायः गृह्यते। अतः एतेन कायविवेकः कायद्वारा च वज्रजापं विधाय वाग्विवेकप्राप्त्या हृदयस्थवज्रसत्वस्य चोदनेन योगि-चित्तसन्ततौ प्रवर-इत्यादिचतुःसिद्धयो लभ्यन्ते। प्रवरवज्रजापेन परिवर्तनं चित्त- विवेकोऽस्ति। सिद्धिश्च स्वाधिष्ठानम्। मनस्सन्तोषश्च मायाकायस्य परिशुद्धिः परमार्थप्रभास्वरा। प्रियमिति युगनद्धवज्रधरकायः। चर्यामेलापे आर्यदेवः निष्पन्नक्रमं क्रमषट्के सन्निहितम्मन्यते। आचार्यनागार्जुनः गुह्यसमाजीयव्याख्यातन्त्रवज्रमालायाः वचनमुधृत्य निखिलानुत्तरतन्त्रस्य निष्पन्नक्रमसाधनां पञ्चक्रमेषु संगृह्णाति। उत्पत्तिक्रमे च पृथक् पिण्डार्थं रचयामास। स तु कायविवेक-वज्रजापवाग्विवेकयोः कांश्चिदंशानपि उत्पत्तिक्रमाङ्गत्वेन मन्यते। अतो निष्पन्नक्रमे वाग्विवेकक्रमः चित्तविवेकक्रमः, स्वाधिष्ठानं संवृतिसत्यं, मायाकायक्रमः, अभिसम्बोधि-परमार्थप्रभास्वरक्रमः , अद्वयज्ञानं चार्थात् युगनद्धसत्यद्वयक्रमश्चैते पञ्चक्रमा गण्यन्ते। पञ्चक्रमेऽप्युक्तम् -


वायुतत्त्वानुपूर्वेण मन्त्रतत्त्वं समाविशेत्। 

मन्त्रनिध्याप्तिमागम्य, वज्रजापः सुशिक्ष्यते।। 


वज्रजापस्थितो मन्त्री चित्तनिध्यप्तिमाप्नुयात्। 

मायोपमसमाधिस्थो भूतकोट्यां समाविशेत्।। 


भूतकोटेः समुत्तिष्ठन्नद्वयज्ञानमाप्नुयात्। 

युगनद्धसमाधिस्थो, न किञ्चिच्छिक्षते पुनः।। 


चन्द्रकीर्तिप्रभृतिविद्वांसः अनुत्तरतन्त्रस्य उत्पत्तिक्रम-निष्पन्नक्रमेति द्वयं पञ्चक्रमसंगृहीतम्मत्वा कायविवेकेन सहैव वाग्विवेकं वज्रजापक्रमं चापि चित्ता-लम्बनस्य चित्तविवेकस्यैव च पूर्वावस्थाम्मन्यन्ते। एतन्मतेन निष्पन्नक्रममूलसाधनायां चित्तविवेकस्यैव प्रथमस्थानं वर्तते। अत्र च वज्रजापश्चित्तविवेके संगृह्यते। इत्थमत्र उत्पत्तिक्रम-चित्तविवेकक्रम-संवृतिमायाकायक्रम-परमार्थप्रभास्वरक्रम-युगनद्ध-सत्यद्वयक्रमेति पञ्चक्रमाः। 


मुनिदत्त- अभयाकरगुप्तादिमतेन चित्तालम्बनसाधनाया आधारः वज्रजापः अतः चित्तविवेकापेक्षया वज्रजापवाग्विवेकस्यात्र प्रामुख्यम्। अतश्चित्तविवेकस्य स्थाने वाग्विवेकाय स्थानं प्रदत्तम्। एतदसमानतामूले विस्तारसंग्रहयोः प्रवृत्ति-मात्रतैव। वस्तुतोऽत्र अभिमतसिद्धान्तस्य अविरोधित्वम्। अपरतश्च निष्पन्नक्रम-साधना षडङ्गयोगेऽपि संगृह्यते। मूलतन्त्रस्य द्वादशपरिच्छेदे ' अथ वज्रचतुष्कोणे सेवाकार्या दृदव्रतैः ' इति विषये उत्तरतन्त्रे वर्णितं -


सेवा षडङ्गयोगेन कृत्वा साधनमुत्तमम्। 

साधयेदन्यथा नैव जायते सिद्धिरूत्तमा। 


प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा। 

अनुस्मृतिः समाधिश्च षडङ्गो योग उच्यते। 


स्वरूपतः इमे षड्योगा अपि पञ्चक्रमे संगृह्यन्ते। यथा कायविवेके प्रत्याहार-ध्याने, वाग्विवेके प्राणायामः प्रभास्वरे च धारणायुगनद्धे अनुस्मृतिः समाधिश्च। क्रमोऽपि नियत एतेषां, यतो हि पूर्वसाधनाभावे आनुपूर्वेण नोत्पद्यन्ते। यथा च अशैक्षिकयुगनद्धस्य प्राप्त्यै शैक्षिकयुगनद्धस्य पूर्वस्थितिरपेक्ष्यते। तथैव शैक्षिक-युगनद्धप्राप्त्यै मायाकायः परमार्थप्रभास्वरश्चापेक्ष्येते। चतुर्थपरमार्थप्रभास्वरस्य प्राप्त्यै साधकः अनन्तपुण्यभाग् भवेत्। शून्यतायाः साक्षात्कारस्तु सामान्यमायाकायपरिग़्यानन्तरमेव जायते। अतो मायाकायवाप्तिस्त्वपेक्ष्यते। एतत् प्राप्तुं मृत्युकालसदृशं वायुं हृदयकमलस्थे अनाहतबिन्दौ विलीय उपमाप्रभास्वरप्राप्तिं कुर्यात्। एतदर्थं प्राणायामेन वज्रजापेन च हृदयकमलस्य नाडीग्रन्थिर्भेद्या। एतदर्थं सूक्ष्मकायविवेक-योगद्वारा अवधूतेरधोभागस्थे नाडीचक्रे वायुसंग्रहादिविधेः। पूर्वाभ्यासः अपेक्ष्यते। निष्पन्नक्रमस्य कायविवेकप्राप्त्यै सम्पूर्णोत्पत्तिक्रमाभ्यासोऽपेक्ष्यते। इत्थं पूर्वसाधनाऽभावे उत्तरोत्तरं साधनासिद्धिर्न सम्भाव्यते। 


पञ्चक्रमस्य कायविवेकादि-भावनाविधिना लक्षणभेद-व्युत्पत्ति-साधनाविधि-भिः अवगतेरूदगतौ परिवर्तनविधिप्रभृतिभेदैः पञ्चभागेषु विभज्यते। 


कायविवेकः 


विकल्पेनानुत्पन्नो महासुखशून्यस्वभावे मनसि समुदितो देवकाय एव कायविवेकः। 


शतकुलमुद्रितकायविवेक-पञ्चकुलमुद्रितकायविवेक-त्रिकुलमुद्रितमहागुह्य एककुलमुद्रितेति चतुर्विधः, कायविवेकः स्वरूपगतसमाहितपृष्ठलब्धयोर्भेदेन द्विविधः। पञ्चस्कन्ध-धातुचतुष्टय-षडिन्द्रिय-पञ्चविषयाणामाभ्यन्तरभेदप्रभृतिभिश्शतं भेदा भवन्ति। यथा च पञ्चस्कन्धमाश्रित्य कायविवेकविषये गुह्यसमाजे मूलतन्त्रे प्रत्यपादि -


पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः।। 


पुनः स्कन्धस्य बाह्याभ्यन्तरलघुदीर्घाकारश्वेतरक्तप्रभृतिवर्णभेदेन एकस्कन्धस्यापि पञ्च भेदा भवन्ति। वेदनास्कधादेरपि सुखदुःखोपेक्षावातपित्तादिभेदैः पञ्च भेदाः क्रियन्ते। चतुर्धातुस्वरूपकायविवेकप्रतिपादनप्रसङ्गे तत्रैवोक्तम् -


पृथ्वी लोचना ख्याता अब्धातुर्मामकी स्मृता। 

पाण्डराख्या भवेत्तेजो, वायुस्तारा प्रकीर्तिता।। 


पृथिवीधातोरपि केशास्थिरोमनखादिभेदान् विधाय देवीरूपं भावयितुं संकीर्तितम्। तथैव संज्ञासंस्कारादिस्कन्धाः अग्न्यब्धातुप्रभृतयोऽपि अवगन्तव्याः। षडिन्द्रिय-कायविवेकभावनाविधिप्रतिपादनावसरे गुह्यसमाजे -


वज्रायतनान्येव बोधिसत्वाग्य्रमण्डलमिति।। 


कायविवेकाधारभूतेषु षडिन्द्रियेषु, चक्षुषः क्षितिगर्भत्वं, कर्णस्य वज्रपाणित्वं नासाया आकाशगर्भत्वं जिह्वाया लोकेश्वरत्वं कायधातु-सर्वावरणविष्कम्भक-त्रिज्ञानसमूहस्य मनसो वा मञ्जुश्रीरित्याख्यम्। इत्थं षडिन्द्रियाणि बोधिसत्त्वरूपाणि सन्ति। तत्रैव पञ्चविषयाणां कायविवेकभावना स्पष्टीकृता। यथा -


स्पर्शशब्दादिभिर्मन्त्री देवतां भावयेत् सदा। 


अर्थात् रूपवज्रि- शब्दवज्रि- गन्धवज्रि-स्पर्शवज्रिप्रभृतीनां भावनैव विषयकायविवेकः। इत्थं स्कन्धधात्वादिषु प्रत्येकस्य पञ्चभेदैः शतं कुलानि भवन्ति। अतः उत्तरतन्त्रे ' परं शतधा कुलमिति ' प्रतिपादितम्। संग्रहे सति पञ्चविंशतौ-त्रिषु-एकस्मिन्नपि संगृह्यन्ते। तत्रैव 'तत्त्वं पञ्चकुलं प्रोक्तं त्रिकुलं गुह्यमुच्यते ' इति वर्णितम्। एकस्मिन् कुले निहतत्वं देवानां महद्रहस्यात्मकम्। कायस्यास्य प्रति कणे कणे कायं वा पूर्णतः परिणतं कृत्वा वज्रधररूपेणावलोकनमेव कायविवेकः। 


व्युत्पत्तिः 


कायस्तु समूहबोधकश्शब्दः यत्र शरीरमांसास्थिरूधिरादिनैकधर्माणां समूहस्तत्रैव चित्तमपि पूर्वपरादिक्षणानां समूहः। अतोऽयं काय उच्यते। सामान्यकायदृष्ट्या उपरिलिखितदेवसमूहस्य भावनया सामान्याभासः अभिनिवेश-क्षयश्च भवति। अतोऽयं विवेकः समभिहितः। इत्थं शास्त्रेषु कायविवेकव्युत्पत्तिर्न्यरूप्यत। 


साधना 


कायविवेकसाधकः वैरोचन-धर्मासनं विधायोपविशेत्। एतदासने १ . पादौ वज्रासने, २. हस्तौ समाहितमुद्रायां, ३. कशेरूका ( पृष्ठास्थि ) सारल्ये, ४. प्रसृतं वक्षः, ५.कण्ठः किञ्चिदवनतः, ६. जिह्वा तालुं स्पृशन्ती, ७. अष्ठौ विवृतौ, ८ . चक्षुषी च नासिकाप्रदेशेन समक्षं पश्येताम्, इमाः सप्त स्थितयः वैरोचनस्य सप्त धर्मासनानि। वज्रासनकरणेन अपानवायुः स्वाधिकृतो भवति। समाहितमुद्रायां संस्थितस्य नाभौ प्रभावितायां सत्यामग्निश्शान्तो भवति, कशेरूकायाः ऋजुतया व्यानवायुरधिक्रियते, भुजयोः सरलतया वक्षसश्च प्रसृतत्वेन प्राणवायुरधिकृतो भवति। कण्ठे अवनते सति जिह्वायाश्च तालुं प्रत्यभिमुखत्वाद् उदानवायुः वशीभवति। अत्र वज्रासनमनुष्ठाय चित्तमवधूत्याः अधोभागस्थमणिचक्रस्य मध्ये आयुधे सूक्ष्मतिलके वा एकाग्रत्वेन विदध्यात्। एवं करणेन वायुचित्तयोः प्रवेश-साम्येन एतदभिन्नत्वेन च सर्ववायवोऽपि अवधूतेरधोभागस्थे नाडीचक्रे संगृह्यन्ते। वायुश्च क्रमेण मध्यमायां प्रविश्य लाभं प्राप्नोति। परिणामतः नासिकायाः छिद्रद्वयेन वायुः समानतया वहति। मध्यमानाड्यां वायौ स्थिते सति श्वास-प्रश्वासा अवरूध्यन्ते। मरीचिप्रभृतिलक्षणानि चाविर्भवन्ति। 


अवगतेरूद्गतिक्रमे परिवर्तन-विधिः 


वायोः मध्यमायां प्रवेशस्थिति-समुत्थापनादिना-ॐ आः हूँ इति त्र्यक्षरेण स्वघोषस्वरूपवज्रजापाश्रयणेन हृदयस्य ऊर्ध्वाधोभागस्थनाडीचक्रेषु शिथिलेषु सत्सु उपर्य्यधः स्थिताः सर्ववायवः अवधूतौ विलीयन्ते। तदा आलोकज्ञानमुदेति। तदवस्थायां कायविवेक-वाग्-विवेकयोः परिवर्तनं जायते। 


वाग्विवेकः 


प्राणायाममाश्रित्य वायुमन्त्रयोरभिन्नयोगेन ग्राह्यग्राहकविकल्पनाशकशैक्षिकसन्ततियोगस्तु वायुविवेकः। वायुस्वरूपं मन्त्र-नियतार्थञ्च बुद्ध्वा प्राणवायुसहित- प्रमुखवायूनां मध्यमायां प्रवेशस्थितिस्तदुत्थापितो योग एव वाग्विवेकः। एतधृदयनासिकाग्रे अनाहततिलकभावना मुखनासिकाग्रे च रश्मितिलकभावना, गुह्यनासिकाग्रे तु द्रव्यतिलकभावना चेति स्थानभेदेन वाग्विवेकस्य भेदत्रयम्। 


साधना 


हृदयनासिकायां सूक्ष्मतिलकभावनावधौ हृदयाष्टदलनाडीचक्रस्य बहिः आलोकबोधकद्वादशक्षराणि श्वेतवर्णे, मध्ये च माक्षरं हित्वा आलोकाभास-बोधकव्यञ्जनानि रक्तवर्णे, ऋ लृ प्रभृति चतुःस्वरान् कृष्णवर्णे भावयेत्। सर्वाक्षराणि तिलकेन विभूष्य तन्मध्ये स्थितानाहततिलकहृस्वाकारे चित्तस्वरूपेण अवतिष्ठेत। अनाहतबिन्दुसहितमक्षरमण्डलमेव चित्तम्, एवम् एकाग्रतां विधाय प्राणायामङ्कुर्यात्। मन्त्रतिलकदृदताप्राप्त्यनन्तरं मुखनासिकाग्रे अनाहततिलकं भावयेत् प्राणायामद्वारा वज्रं जपेत्। तदानीम् त्र्यक्षरघोषः स्वयमेव उदेति, एवं मनसा शृण्वन् वज्रजपङ्कुर्यात्। 


मुखनासिकाग्रे पूर्ववर्तिप्राणायामविधिद्वयेन यो वायुः हृदयकमले संग्रहीतुमशक्योऽभवत् तस्य हठयोगबलेन अवधूत्या अधोनासिकायां सूक्ष्मतिलकालम्बनं भावनं च विधाय प्राणायामद्वारा संग्रहीतुं शक्यते। सारांशतस्तु वज्रजापस्य प्रमुखसाधनायां पञ्चज्ञानमयश्वासन् पिण्डरूपेण नासिकायामवस्थाप्य प्राणायामो विधीयते। एतदेव प्रधानकृत्यम्। स्थानभेदेनास्य भावना नैकस्थानेषु क्रियते। इत्थं वाग्विवेकः प्राणायामस्यैवाङ्गभूतः। एतत् साहाय्येन ललनारसनयोः प्रवहमानः कर्मवायुर्मध्यमायां प्रविशति। 


गुह्यसमाजोत्तरतन्त्रे चापि 


पञ्चज्ञानमयं श्वासं पञ्चभूतस्वभावकम्। 

निश्चार्य पिण्डरूपेण नासिकाग्रे तु कल्पयेत्। 

पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम्।। 


हृदये अनाहतबिन्दौ चित्तस्थित्या क्षितिजलाग्निप्रभृतिधातवः क्रमशः विलीयन्त एव। अन्ते च चित्तमप्यद्वये अवतिष्ठते। तद्बलेन मरीचिधूम-दीपक-शिखा-स्वच्छाकाशादीनाम् इव लक्षणानि समुत्पद्यन्ते।। 


अवगतेरूद्गतिपरिवर्तनविधिः 


बाह्याभ्यन्तरमुद्रावज्रजापाद्युपायानां साहाय्येन हृदयनाडीचक्रग्रन्थिषु समुद्घटितासु सम्पूर्णो व्यानवायुः हृदयकमलस्थानाहतबिन्दौ विलीयते तदाऽऽलोकज्ञानं प्रकाशते वाग्विवेकः चित्तविवेके सङ्क्रमते। 


चित्तविवेकः 


बाह्यमुद्रायाः आभ्यन्तरप्राणायामस्य च बलेन मूलसहिताः समेऽपि दशवायवो हृदयस्थानाहतबिन्दौ तथैव तिष्ठन्ति यथा च मृत्युकाले धातवो विलीयन्ते। एतत्स्थितौ आलोकज्ञानमुदेति, अयमेव शैक्षिकसन्ततियोग एव चित्तविवेकः। अथवा नाडीचक्रस्य सर्वविकल्पवायून् भावनाबलेन अनाहतबिन्दौ विलीय तिलकदृदता महासुखे च चित्तस्थितिरेव चित्तविवेकः। चित्तविवेकसाधना चित्तविवेकस्य वास्तविकावस्था चैतद् भेदद्वयमेवास्य। 


साधना 


सामान्यावस्थायाम् आलोकादिज्ञानत्रयस्योदयः समापत्त्यवस्थायां सुषुप्त्यवस्थायामचेतनावस्थायां च जायते। मार्गाचरणे वज्रजापे तृतीयप्रज्ञाज्ञानाभिषेके इदं साक्षात्क्रियते। चित्तविवेकसिद्धिः प्रयोगमार्गस्य धर्माग्रभूमिप्राप्तिश्चैककालिकी। कैश्चिद् विद्वद्भिश्चित्तविवेकसाधनायां मुद्रासेवनमनिवार्यत्वेन प्रतिपादितम्। तैः पञ्चक्रमस्य वचनमिदमुद्ध्रियते-


सर्वासामेव मायानां स्त्रीमायैव विशिष्यते। 

ज्ञानत्रयप्रभेदोऽयं स्फ़ुटमत्रैव लक्ष्यते।। 


अर्थात् चित्तविवेकस्याभ्यन्तरसाधनायां वज्रजापं बाह्यमुद्रां च संसेव्य आलोकादीनि साक्षात्करणीयानि भवन्ति। किमालोकादिज्ञानम् ? एतत्परिज्ञान-मावश्यकम्, नान्यथा साधना सम्भाव्यते। संक्षेपेणेदं प्रस्तूयते। तथा च पञ्चक्रमे-


संवित्तिमात्रकं ज्ञानमाकाशवदलक्षणम्। 

किन्तु तस्य प्रभेदोऽस्ति, संध्यारात्रिदिवात्मना। 

आलोकालोकाभासौ च तथाऽलोकोपलब्धकम्।। 


यद्यपि स्वसंवेद्यज्ञानमेवैकमात्रं ज्ञानं, यत्साक्षात्कृत्य तत्र स्थेयमस्माभिः। एतदवगमनमेकत्र सरलन्तत्रैवापरस्तु दुष्करमपि यतश्च एतत्प्रभास्वरस्वसंवेद्य-ज्ञानानवगमनादेव इदमवच्छिन्नं शृंखलाबद्धं भवचक्रं प्रचलति। प्राणी दुःखी अशान्तश्च वर्तते। अत्रैतत् साक्षात्काराय साधनावस्थायां प्रकटिष्यमाण-लक्षणान्या-धारीकृत्य भेदाः अकारिषत। परिशोध्येन साकं संयोज्य तद्व्याख्यानेन च विषयोऽयं सुस्पष्टीभवति। यथा उत्पादसंवित्तिः उत्पत्तिक्रमश्चास्ते तथैव मृत्युः परमार्थश्च निष्पन्नक्रमे मन्यते। यथोक्तमुपरि यत् सामान्यावस्थायां आलोकादिज्ञानत्रयं मृत्युकाले स्वयमेव प्रकटयन्ति। तत्कथं ?  सामान्यतः आदौ प्राण्युत्पत्तिः पञ्चभूताश्रयेण जायते अन्ते चैत्भूतानां विसर्जनेन नश्यत्यपि। मृत्युकाले समुदितलक्षणानां विषये साधकैरित्थं प्रत्यपादि-क्षित्यादिधातुषु विलीनेषु सत्सु शरीराभा समाप्तिं याति, समानवायोः क्षीणतया भोजनम् आत्मसात् न भवति। शरीरं सर्वतः ऊष्णं शनैश्शनैः क्षीयते। प्राणवायौ क्षीणे सति चक्षुर्दोर्बल्याद् विषयान् द्रष्टुं नार्हति। अपानवायोः क्षीणतायां ( नष्टे ) मलमूत्रादिकमवरूद्धं भवति। व्यानवायौ क्षीणे सति-अंग-प्रत्यङ्गान्यचेतनानि जायन्ते। उदानवायौ नष्टे सति श्वास-लाघवं प्रश्वास-दीर्घत्वं च भवति। तदनुक्रमशो नाडीचक्रं नङ्क्ष्यति, क्षितेर्जलधातौ विलीनत्वात् शरीरं पूर्वापेक्षया जीर्णत्वमुपयाति कण्ठः शिरः पादौ च शरीरमुत्थापयितुमसमर्था भविष्यन्ति। हस्तेन वस्तुग्रहणासामर्थ्यं भविष्यति। मृत्युशय्यास्थो जनः विहारायोपर्य्युत्थापयितुं वक्ष्यति। चित्तमरीचकाभासो। भविष्यति। एतदग्रे हृदयनाडीचक्रं क्षेष्यति, जलधातोरग्निधातौ लयो भविष्यति। मुखजिह्वादिकं प्रशुष्य कृष्णत्व-मुपयास्यति। सः स्वयं स्वनासाग्रं दुष्टुमसमर्थो भविष्यति। तदानीमाभ्यन्तरचित्ते धूमाभासः तदनु च कण्ठनाडीचक्र-विनाशः अग्निघातोर्वायुधातौ लयश्च सम्पत्स्यते। मुखनासिकाभ्यां शीतलो वायुश्चलिष्यति, अन्त ऊष्मा शरीराद् बहिर्निस्सरिष्यति। एतदवस्थायामन्तः खद्योतसमः आभासः, बहिर्वस्तुपरिज्ञाने च असामर्थ्यं स्यात्। ततश्च गुह्यनाडिचक्रं नङ्क्ष्यति, वायुश्च विज्ञाने विलेष्यति। तदानीं बाह्यलक्षणं दीर्घश्वासप्रश्वासरूपेण प्रकटिष्यति बहिश्च प्रश्वासो भूयान् श्वासश्च लघुर्भविष्यति। खरखरध्वनिर्भविष्यति। आभ्यन्तरे प्रदीपप्रज्वलनमिवाभासः ज्ञास्यते, इत्थं पञ्चप्रधानवायुभिः सह अङ्गवायुरपि विज्ञाने विलेष्यति, इन्द्रियाणि च कार्यं कर्तुम् असामर्थ्यमुपयास्यन्ति। बाह्यस्थूलधातूनां लयविधिरयम्। ततश्चाभ्यन्तरसूक्ष्मयोर्लयः। अयमेव त्रिज्ञानस्य लयकालः, एतत्क्रमः स्वरूपञ्चेत्थम् -


आलोकज्ञानम् 


सर्ववायवो हृदयकमलस्थचित्ते लीयन्ते। तदनु उष्णीषस्थं पितृलब्धं श्वेतशुक्रं मध्यमानाडीमार्गतो हृदयकमलं प्रविशति। तदानीं चित्ते शरदृतुचन्द्रप्रकाशेन प्रकीर्णाकाशवद् आभासते द्वेषसम्बद्धास्त्रस्त्रिंशद् विकल्पाः निरूध्यन्ते। तत्काले आलोकाभासातिरिक्तं नान्यः कश्चनाभासो भवति। आलोकाभासोऽयमेव यच्चालोकज्ञानशून्यतयोरद्वस्थितिः। 


आलोकाभासज्ञानम् 


मातुर्लब्धं रक्तं मध्यमानाड्या माध्यमेनाधोभागतः ऊर्ध्वं प्रति संवर्ध्य हृदयकमलं प्राप्नोति। तदा चित्ते सूर्यप्रकाशेन व्याप्ताकाशसमं रक्तं आलोकाभासज्ञानं समुदेति। यच्चातिशून्यतया सह अद्वयभावं स्थापयति। तदानीं चित्ते रक्तालोकाभासातिरिक्तं किमपि न भवति। इदमेवालोकाभासज्ञानम्। इदानीं रागसम्बद्धाः सर्वेऽपि चत्वारिंशद् विकल्पाः नश्यन्ति। 


आलोकोपलब्धज्ञानम् 


शुक्रशोणितयोरनाहतबिन्दौ ( प्रभास्वरे ) विलये सति प्रभास्वरस्य प्रभासमक्षं क्षणमेकं साधकस्य चित्ते विषयस्यास्पष्टः आभासो जायते। अस्यामवस्थायां चित्तमात्रस्यैवास्पष्ट आभासो भवति, महाशून्यतया च साकं तदद्वयभावं प्राप्नोति। इयमेव स्थितिरालोकोपलब्धज्ञानस्य। मोहसम्बद्धाः विकल्पा अस्यामवस्थायां निरूध्यन्ते। 


प्रभास्वरः 


उपरि वर्णिते त्रिज्ञानस्वरूपे तत्क्रमे च ज्ञानत्रयस्य सिधौ सत्यां प्रभास्वरपदोपलब्धिमार्गः उद्घटते। आलोकोपलब्धपदस्योपलब्धार्थः एव प्रभास्वरनैकट्याप्तिः। उपलब्धक्षणानन्तरं द्वितीयक्षणे प्रभास्वरज्ञानं विषय-विषयि-सर्वधर्मशून्यतयाद्वयं जायते। अयं मातृ-प्रभास्वरः तेन च कृतः प्रभास्वरपद-साक्षात्कारः मातृवद् वर्तते। साधकः स्वजीवनकाले मध्यमानाडी-सहायतया वायोः प्रवेशस्थित्युत्थापनादिकं कृत्वा त्रिज्ञानं प्रकाश्य तद्द्वारा शून्यतां साक्षात्कुरूते। स एव मृत्युकाले उदेष्यमाणलक्षणानि क्रमेण परिचिन्वन् धर्मकायस्थः भवति। अत्र शून्यतास्वरूपचित्ताधारो वायुरेव। आलोकस्य स्वाधारः वायुसहितशून्यत्वं वर्तते। इयमेव शून्यता। इदमेवाद्वयालोकज्ञानम्। तथैवालोकाभासाद्वयम्। प्रभास्वर-सर्वशून्याद्वयं प्रभास्वरज्ञानं विद्यते। प्रभास्वरोऽयं विषय-विषयिभेदेन द्विविधः सर्वशून्यता हि विषयप्रभास्वरः सर्वशून्यतायाः स्वविषयविधायकं ज्ञानं विषयि-प्रभास्वरो विद्यते। 


चित्तविवेकसाधनायाः बाह्याङ्गम्मुद्रा। मुद्राशब्दाभिप्रायस्तु हेवज्रतन्त्रे-


वज्रेण मुद्रयतेऽनेन मुद्रा तेनाभिधीयते।। 


मुद्रा च द्विविधा- १. कर्ममुद्रा, २ . ज्ञानमुद्रा च। 


यत्कर्मणोत्पन्नकेशस्तनादियुक्तता सा कर्ममुद्रा। ज्ञानमुद्रा च यद् ज्ञानमात्रेण निर्मिता स्यात्। आभ्यन्तरसाधनाङ्गं प्राणायाम एव, तदुपरि पिण्डक्रमस्य अनुभेदन- क्रमस्य च भावना क्रियते। पञ्चक्रमे एतत् स्पष्टीक्रियते-


प्राप्तोपदेशकः शिष्यो द्विधा योगम् अथाभ्यसेत्। 

पिण्डग्राहक्रमेणैव तथा चैवानुभेदतः।। 


शिरसः पादतो वापि यावद्धृदयम् आगतः। 

भूतकोटिं विशेद् योगी पिण्डग्राह इति स्मृतः।। 


स्थावरं जङ्गमं चैव पूर्वं कृत्वा प्रभास्वरम्। 

पश्चात् कुर्यात् तथात्मानम् अनुभेदक्रमो ह्ययम्।। 


श्वासवातो यथादर्शे लयं गच्छति सर्वतः। 

भूतकोटिं तथा योगी प्रविशेच्च मुहुर्मुहुः।। 


पिण्डक्रमभावनायां साधकः स्वयम् इष्टदेवं भावयति, तत्रेष्टदेवम् आशिरसः हृदयप्रभास्वरपर्यन्तं विलीयमानस्वरूपे ध्यायति। अनुभेदक्रमे देवभावनेच्छायां सत्यां पूर्वं बाह्यमण्दलमात्मशरीरे व्यस्तदेवेषु तत्राप्येकैकं हृदयस्थितचित्तप्रभास्वरे स्थावरं जंगमे जंगमं च क्रमशः स्वात्मनि, आत्मानं च स्वप्रभास्वरे तथैव लीनयते यथा च उष्णे ऋजीषे जलपातनेन जलं विलीनं सत् एकबिन्दौ मिलित्वा शुष्यति। प्रभास्वरे विलयप्रक्रियेयमनुभेदक्रमो वर्तते। यद्यप्ययं चतुर्थक्रमस्य साधनाविधिस्तथापि पद्धतिरियमत्रापि प्रयुज्यते। चित्तविवेकस्य साधनयाऽनया शून्यतायाः सामान्यार्थबोध एव जायते। प्रयोगमार्गस्य धर्माग्रमार्गस्य च अयमेवाभिसमयः। अतश्चित्तविवेकस्य प्रभास्वरता उपमाप्रभास्वरत्वेनाप्युच्यते। 


अपगतेरूद्गतिपरिवर्तनम् 


चित्तविवेकपर्यन्तम् निष्पन्नोपमाप्रभास्वरस्य कर्मवायुना स्पन्दनेन साधकः प्रतिलोमालोकोपलब्धौ तदुत्थापयति। कालोऽयं चित्तविवेकान्मायाकाये परिवर्तन-संक्रमणयोरूच्यते। हृदयकमलस्थमध्यनाडीसहितस्य सम्पूर्णनाडीचक्रस्य ग्रन्थिषूद्घटितासु सतीषु मायाकाये उत्थापनावस्थां यावत् सम्पूर्णप्रक्रिया चित्तविवेके मायाकाये च उत्थापिता जायते तदभ्यासक्रमो हि मायाकाय उच्यते। 


मायाकायः 


चित्तविवेकपर्यन्तावस्थायाम् उपमाप्रभास्वरः प्रकाशते। एतत्-सहकारि-प्रत्ययः सूक्ष्मप्राणवायुरस्ति। उपादानकारकं चित्तमस्ति, यच्च लक्षणानुव्यञ्जन-विभूषिते देवकाये उत्थापितं भवति, अयमेव मायाकाय उच्यते। अयमेवास्रवज्ञानकायः। समाहितमायाकाय- पृष्ठलब्धमायाकाय- स्वप्नमायाकाय-अन्तराभवमायाकायाख्याश्चत्वारो भेदा एतस्य। चित्तविवेकानन्तरमेव उपलब्धमायाकायः अभ्यासक्रमस्य मायाकायः पर्यन्तमायाकायश्चेति नाम्ना भेदत्रयमपि विधातुं शक्यते। 


व्युत्पत्तिः 


मायाकायादिद्वादशोपमालक्षितः आस्रवज्ञानकाय एव मायाकाय उच्यते। द्वादशोपमाः इमाः-


१.प्राणचित्तमात्रोत्पन्नत्वादयं मायोपमः, २. अयं सर्वव्याप्तः शशिप्रतिबिम्ब-सदृशः, ३. अयं मांसास्थिरूधिरादिरहित-प्रतिभाससदृशः, ४. प्रतिक्षणं सस्पन्दितो मरीचिसदृशः, ५.प्राणवायुसम्पन्नः स्थूलकायातिरिक्तः सूक्ष्मस्वप्नकाय-सदृशः, ६.विपाककायसम्बद्धः सन्नपि अन्यस्मिन् प्रतिभासमानः प्रतिश्रुतकायसदृशः, ७. कायोऽयं गन्धर्वनगरसदृशः, ८. एकस्मिन् सति अनेकेष्वाभासितेन्द्रजालसदृशः, ९.कायस्यास्य पञ्च वर्णाः अमिश्रिताः इन्द्रधनुषसदृशाश्च, १०. विपाककायो मेघसदृशः मायाकायश्च मेघमध्याद् आविर्भूता विद्युदिव वर्तते, ११. शून्यतास्वभावोऽयं जलाद् उत्थितविलीयमानबुद्बुद्समानः, १२. अङ्गप्रत्यङ्गयोः परिपूर्णतारूपादर्शे प्रतिबिम्बितवज्रधररूपोपमः। 


एतासूपमासु स्वप्नोपमाऽन्यापेक्षयोत्तमाऽभिमन्यते। यतो हि स्वजीवनस्य पञ्चविंशतिप्रतिशतं समयं जनः रात्रौ स्वप्नावलोकने एव यापयति। यथा च स्वप्नाय निद्राऽनिवार्या, तथैवात्र मायाकायस्योत्थापनाय विज्ञानपूर्वगमनमावश्यकम्। निद्रायां स्वप्नागमनं मायाकायसमम्। मायाकायस्य साधकः स्थूलकायेन सूक्ष्मकायं निर्माय विचरति। इयं तादृश्येव क्रिया यथा च स्वप्नावस्थायां स्थूलकायात् सूक्ष्मकायस्य पृथक् स्थितिः। 


स्वप्नानुसारं कायस्य रूपत्रयं विलोक्यते। १. कुशलाकुशलविपाकात् समुत्पन्नसुखदुःखवाहको विपाककायः २. विभिन्नसंस्कारवासनाभ्यः प्रभावितः प्रतिभासितः स्वप्नकायः ३. अशुद्धावस्थायां मनोमयकायः शुद्धावस्थायां च ज्ञानकायः, यश्च प्रभास्वराभिन्नस्तिष्ठति अयमेव निजकायः। एतत्त्रये मायाकाय-साधनाश्रयः स्वसन्ततिस्वभावस्थः सूक्ष्मनिजकाय एवास्ति। स्वप्नकायोऽपि मायाकायसाधनाधारो न भवितुमर्हति यतो ह्ययं कालिकः। अतः निजकायोऽर्थात् सूक्ष्मप्राणचित्तमेव मायाकायसाधनाश्रयम्। अस्यैव गृहसदृशः स्थूलकायः। मूलपञ्चवायुषु प्राणवायुरस्ति। प्राणवायुरपि स्थूलसूक्ष्मभेदाभ्यां द्विविधः। एकस्तु यस्य प्राणेषु समाप्तेषु मृत्युर्भवति स भवति द्वितीयश्च यः इन्द्रियानाश्रितः मनोविज्ञानाश्रितोऽस्ति, स प्राणाः। मृत्योरनन्तरम् अनेनैवान्तराभावे चोत्पादः। मार्गे साधनाबलेनैव अयमेव मायाकाय उत्थापितो भवति। यदा च कर्मक्लेशवशोऽयं जयते तदा भवचक्रे विभिन्नरूपेषु आविर्भूय प्राणी संसारचक्रे भ्रमति। एतन्मूलमपि एतदेव प्राणिचित्तम्। पञ्चक्रमेऽप्यभिहितम्-


अस्वतन्त्रं जगत्सर्वं स्वतन्त्रं नैव जायते। 

हेतुः प्रभास्वरं तस्य सर्वशून्यं प्रभास्वरम्।। 


येन चित्तेन बालाश्च, संसारे बन्धनं गताः। 

योगिनस्तेन चित्तेन सुगतानां गतिं गताः।। 


निखिलंजगत्सूक्ष्मप्राणचित्तादेवोत्पद्यते, न तु स्वस्वधर्मास्तित्वपरम्परया। सर्वहेतुः प्रभास्वरः यश्च महाशून्यस्वरूपः चित्तस्य पञ्चरश्मिवायोश्चाद्वयरूपम्। यथाजलं तस्य चार्द्रता अग्निस्तस्य चोष्णता। तान्त्रिकदर्शनस्य मर्मत्वं चित्तस्य सूक्ष्मवायोश्चाभिन्नतायाः प्रकाशितो मायाकाय एतदेव तन्त्रस्य रहस्यम्। एतदनुभावो गुरूमन्तरेण न कर्तुं पार्य्यते। 


अत्रेदं ज्ञेयं कायस्य रूपद्वयं स्थूलं सूक्ष्मं च। एतत्पुष्टिस्तु साधनां बिना सामान्यतः सूक्ष्मकायो मृत्युकाले भवति इति वार्तया भवति। जीवनकाले मायाकायं साधयित्वा साक्षात्करोति तर्हि अन्तराभवे त्रिज्ञानविलयानन्तरं संभोगकाये उत्थापितः सन् मुच्यते। यतः अन्तराभवस्य प्राणिकायः सूक्ष्मप्राणचित्तकाय एव भवति। अपरतश्च साधनाबलेन सर्ववायुषु अनाहते सत्सु मायाकायस्य साधनासिद्ध्यै कायद्वयज्ञानमावश्यकम्। अत्रेदं विचारणीयं यदा सूक्ष्मकाये साधकः उत्थापितो भवति तदा स्थूलकायात् तस्य सम्बन्ध-विच्छेदो भवति न वा ? केचन विवांसः विच्छेदममन्यन्त। केचिच्च विच्छेदं विनापि सूक्ष्मकाये उत्थापनमङ्गीकृतवन्तः। मतद्वयमप्युचितं भवेत्। किम् न सम्भाव्यते यावत् समाधिबलेन साधकः मायाकाये उत्थापितो भविष्यति तावत् स्थूलकायात् पृथक् स स्थास्यति। समाधिबले समाप्ते सति स पुनः स्थूलकाये परावर्तिष्यते। वस्तुतः साधकः यावत् परमार्थप्रभास्वरं प्रथमभूमिं च न प्राप्स्यति तावत् सूक्ष्मकायस्येच्छानुसारं स्थूलकायात् सम्पूर्णः सम्बन्ध-विच्छेदो भवेदिति न प्रतीयते। 


साधना 


सामान्यतो मायाकायसाधनासाधकेन चतुर्गुणैः सम्पन्नेन भाव्यम्। १. स उत्पत्तिक्रमस्य स्थूलसूक्ष्मोभयविध्योः दृदतां प्राप्नुयात् २. तन्त्रचतुष्टयार्थज्ञाता भवेत् ३. कायवाक्चित्तविवेकानां सम्यक् साधनां कुर्यात् ४. युगनद्धक्रमस्य भावनाभिलाषी भवेत्। मायाकायस्य साधना अतिगुह्यत्वेन रहस्यपूर्णतया च गुरूपदेशं बिना न सम्भाव्यते। एतदर्थमधिमुक्त्या सह -


शैषीर्यं नास्ति ते काये मासांस्थिरूधिरं न च। 

इन्द्रायुधमिवाकाशे कायं दर्शितवानसि।। 


तथा सर्वज्ञग़्यानसंदोह एवं पञ्चक्रोमपदिष्टपद्धत्या गुरूं संस्तुत्य मायाकायस्य रहस्यं ख्यापयितुं सः अभ्यर्थनीयः। मायाकायस्य को हेतुप्रत्ययः ? चित्तमात्रेण वायोरभावे चापि रूपं न सिध्यति, वायुमात्रे सति चित्ते असत्यपि ज्ञानं न सम्भाव्यते। भौतिकवादिवत् भूतेभ्य एव सर्ववस्तूत्पत्तिर्न मन्तुं शक्यते। अनुभवक्षेत्रे चित्तस्य रूपस्वीकृतिं बिना नेदं सम्भाव्यते। जडमात्राच्चेतनोत्पत्तावभिमतायां नैकत्वं कथं ? केन प्रकारेन ? इत्यादिप्रश्नवाचकानि चिह्नानि समुत्पद्यन्ते एतद्वैपरीत्ये यदि चेतनावादिनो भवेम तर्हि समक्षं यद्दृदवस्तुनः आघातेन पतामस्तस्यापलापः असम्भवः। एवं स्थितौ नामरूपस्यान्योन्याश्रिता सत्ताऽप्यभिन्नस्वरूपा कथं मन्येत ? बाह्यर्थघटपटादेः शुद्धचेतनास्वरूपस्य व्याख्या कथङ्कारं क्रियेत ? एतेषु च परस्परसम्बन्धः कथं सुस्थापितः स्यात् ? किं सर्वधर्मान् प्रभास्वरसूक्ष्मप्राणचित्तांशान् मत्वा वायुचेतनयोरल्पाधिकमनुपातं स्वीकुर्याम ? यथा च बाह्यार्थवादिवैभाषिकः सूक्ष्माणुमपि चतुर्भूतधातूनां संघातं मन्यते। एतत्स्थूलतया अग्निजलादिस्वरूपं भवति सूक्ष्मचेतनायाः च स्थूलाः पञ्चाशत् चैतसिकाः धर्मा-मैत्रीकरूणाक्रोधादीनि समुद्भवन्ति। एवं च तदन्योन्याश्रितं भवतीतीत्थम्मन्यते तदा तु वरम्, परञ्च केवलं शुद्धचेतनायाः विस्तारेऽभिमते सति सति रामश्यामादिजनविशेषाणां चित्तस्य कः सम्बन्धो भवितुमर्हति ? एकस्मिन् मुक्ते सति सर्वे कथन्न मुच्यन्ते ? एतत् पृथगस्तित्वमुररी-क्रियेत तर्हि शास्त्रग्रन्थेष्वागतानि सर्ववस्तूनि प्रभास्वराणि कथं स्युः ? बोधिप्राप्तौ जनो बुद्धत्वं लभते तर्हि सर्वज्ञत्वं कस्मात् तद्ज्ञानं सर्वज्ञेयान् कथं व्याप्नोति। यावज्ज्ञानस्य व्याप्तिस्तावदेव ज्ञानकायव्याप्तिरभिमता। कथमेतत् सेत्स्यति ? चेत् सर्वज्ञेयेषु प्राणिषु च न व्याप्नोति तर्हि सर्वविनेयजनानामध्याशयवासनेच्छादयः कथं ज्ञातुं शक्याः यद्येतत् न सम्भाव्यते तर्हि किमध्यात्मशास्त्रस्य लक्ष्यम् ? एतज्जीवनस्य शान्तिर्निर्द्वन्द्वता चैव लक्ष्यन्तर्हि काऽवश्यकता खल्वध्यात्मशास्त्रस्य ? क्वचिदपि मनोरमणेन मनसो निर्वन्द्वत्वं कर्तुं शक्यम्। तदा तु व्यस्ततैव महाध्यात्मं स्यात् ? इत्थमनेके प्रश्ना उद्भवितुमर्हन्ति। सूक्ष्मप्राणचित्तमेवैतत् समस्यानां समाधानम्। एतत्स्वरूपं गुरूं बिना नावगन्तुं शक्यते। अतः अस्माकं गुरूरेव शरणम्। 


पञ्चक्रमेऽपि-


स्वाधिष्ठानक्रमो नाम, संवृतेः सत्यदर्शनम्। 

गुरूपादप्रसादेन लभ्यते तच्च नान्यथा।। 


विशेषसाधना 


मायाकायस्य विशेषसाधनायाः आदिकर्मिकमायाकायविशुद्धमायाकाययुगनद्धमायाकायाख्यास्त्रयो भेदाः आदिकर्मिकसाधनेषु सर्वधर्मेषु विश्लेषितेषु सत्सु निःस्वभावहेतुना प्रत्ययेन चोत्पन्नहेतुप्रत्यययोरपि वज्रकणाद्युत्युक्तिभिः प्रतिपादनेनापि शून्यस्य च सिद्धिर्भवति। परञ्च संवृत्तावस्तित्वमेतेषाम्। यच्च प्रतीत्यसमुत्पादः। एवं संवृतौ वस्तूनां प्रतीत्यसमुत्पन्नस्वरूपधर्म एव मायाकायो विद्यते। उदाहरणैरेतद्-मायाकायः प्रतिपाद्यते। यथा च बाह्यार्थाभावेऽपि प्रकटितस्वप्नकायः प्रत्ययात् प्रकटिता प्रतिश्रुत्का, प्रतिबिम्बं च , जले बुदुबुदाख्येषु आभासितेषु निःस्वभावमरीचिं इन्द्रधनुषादिकं च विचार्य वस्तुनः कूटस्थता-स्थिरता-प्रभृतयः विचारणीयाः। आदिकर्मिकसाधकानामयमेव साधनाविधिः। स आदर्शसम्मुखं वज्रसत्वस्य लिखितां विपरीतां प्रतिकृतिं रक्षति। येनादर्शे तत् सरलं दृश्येत। तथैव एकमनसा पश्यन्तु, पञ्चक्रमे चापि -


रूपं च वेदना चैव संज्ञा संस्कार एव च। 

विज्ञानं पञ्चमं चैव, चत्वारो धातवस्तथा।। 


अक्षीणि विषयाश्चैव ज्ञानपञ्चकमेव च। 

अध्यात्मबाह्यतोऽभिन्नं सर्वं मायैव नान्यथा।। 

दर्पणप्रतिबिम्बेन, मायादेहं च लक्ष्यते।। 


इतोऽग्रे सर्वस्थावरजङ्गमानि, इष्टदेवस्य मन्त्रज्ञानलीलायां परिशोध्यन्ते। सामान्यतोऽयमेव विशुद्धमायाकायः। विशेषस्य विशुद्धमायाकायस्य च गौणप्रमुखौ द्वौ भेदौ यश्च तृतीयचित्तविवेकानन्तरं प्रकटितयुगनद्धकायस्य संवृत्यंशो मायाकायो विशुद्धमायाकायः। व्यवहारभेदेन केचिद् विद्वांसः प्रथमम् अशुद्धं द्वितीयं च विशुद्धमायाकायं मन्यन्ते। प्रथमस्य कृते आदर्शे प्रतिबिम्बितरूपमुदाहरन्ति द्वितीयं च निरावरणस्कन्धं मन्यन्ते। एतत्साधना चित्तविवेकेनैव हृदयस्थितानाहतबिन्दौ क्षित्यादिधातूनां संहारेण सार्धं त्रिज्ञानसहाय्येन सम्पाद्यते। उपमाप्रभास्वरात् प्रतिलोमतो मायाकाये उत्थिततत्त्वमेव युगनद्धमायाकायस्य साधना। 


अवगतेरूद्गतिपरिवर्तनम् 


बाह्याभ्यन्तरोपायानाश्रित्य मायाकायसाधनया साकं त्रिज्ञानसहितसहज-प्रभास्वरज्ञानेन सर्वशून्यतायाः प्रत्यक्षीकरणावधौ साधकस्यावस्था मायाकायात् चतुर्थक्रमस्य परमार्थप्रभास्वरे परिवर्तते। तदा साधको दर्शनमार्गे प्रविशति। 


प्रभास्वरः 


विषयिमहासुखज्ञानादेव विषयशून्यतायाः अभिन्नः सत्याभिसमयः एव शैक्षिकः सन्ततियोगः। इदमेव परमार्थप्रभास्वरस्यार्थात् चतुर्थक्रमप्रभास्वरस्य लक्षणम्। 


व्युत्पत्तिः 


सहजमहासुखज्ञानमेव परमार्थप्रभास्वरः। तदभिमुखीभवने सति संवृतेः अर्थात् अशेषद्वैताभासप्रपञ्चस्यान्तो जायते। इयमद्वयावस्थैव प्रभास्वरः। 


भेदः 


विषयिप्रभास्वर-विषयप्रभास्वरोपमाप्रभास्वरोपमेयप्रभास्वरप्रभृतयो नैके स्वरूपगता भेदा विधातुं शक्यन्ते। चित्तप्रकृतिः याऽदितः प्रभास्वरा सैव आश्रय-प्रभास्वरा। आभासश्चित्तं, चित्तं च स्वसंवेद्यं, स्वसंवेद्यं च महासुखमास्ते, महासुखं शून्यतया सार्धमभिन्नमस्ति। 


साधना 


एतत्साक्षात्कारः वायुयोगेन प्रकृतिस्थैर्येण च विधातुं शक्यते। एतदनुसारेण प्रभास्वरसाधनाया भेदद्वयं विधातुं शक्यम्। 


१. एतत्साक्षात्कृतिर्विचारमन्थनेनासम्भवा। यथा च पाण्डुरोगग्रस्तेन शंखादयः पीताः दृश्यन्ते परञ्च तद्वर्णः श्वेतः। लक्षशो बोधनेनापि पीतत्वं श्वेतत्वेन नावगम्यते। अतः एतद्रोगौषधिद्वारा एवं जनस्योपचारोऽपेक्ष्यते। आचार्यरङजुङ दोर्जेमहोदयोऽपि कथयति प्रभास्वरस्य साक्षात्कारो बुद्ध्या न सम्भाव्यते- यथा काष्ठे अग्निस्थितौ सत्यां काष्ठद्वयघर्षणेनापि तदुत्पादयितुं शक्यते। न तु तदतिसूक्ष्मखण्डेन। तथैव ललनारसनयोर्योगेन वायोरवधूत्यां प्रवेशेनैव प्रभास्वरः साक्षात्क्रियते। यस्य व्याख्यानं वज्रजापचित्तविवेकादिषु विहितम्। तद्वायुयोगस्यात्रापि अभ्यासो विधेयः। 


२. सप्रकृतिस्थप्रभास्वरस्य साक्षात्कारस्य द्वितीयः प्रकारः एतत्साधनायाः स्वभावितमायाकायस्य शिरसोऽधः पादतलादारभ्योपरि दक्षिणवामादिसर्वदिक्षु संहारेण साकं हृदयकमले चित्तस्थितिकरणं पिण्डध्यानमस्ति। यथा दर्पणे श्वासप्रवर्तने सति तत् क्रमशः बिन्दौ शून्ये च लीयते तथैवात्र ध्यातव्यम्। भाजनं सत्वलोके, सत्त्वलोकं च स्वप्रभामयकाये, प्रभामयकायं च पुनः पूर्ववत् संगृह्य प्रभास्वरे स्थितिकरणम् अनुभेदध्यानमुच्यते। चतुर्थदेवीपरिपृच्छाव्याख्यातन्त्रे एतद् वायुना सार्धं संयोज्य भावनां विधातुं समुक्तम्, यतश्च पिण्डध्यानकाले सर्ववायवो बोधिचित्तं च हृदये संग्राह्यानि भवन्ति, यदर्थं वायुयोगोऽप्यपेक्ष्यते। बोधिचित्ताभि-प्रायोऽत्र प्रभास्वरचित्तमेव। पुनः पुनरूभयध्यानभावनायाः परमार्थप्रभास्वरत्वमाविर्भवति। प्रतीयते यदाभ्यां स्थितौ परमार्थप्रभास्वरस्याश्रयकायोऽपि अविपाक-कायः सन् मायाकाय एव। मायाकायश्च विपाककायं परित्यज्य पृथगेवं न प्रतीयते। स एव कायः अवस्था च परमार्थप्रभास्वरं साक्षात्कुरूते। 


सहजावस्थायां प्रभास्वरस्य साक्षात्कारविधिः 


सर्वधर्मश्चित्तं, चित्तं चापि स्वात्मनि शून्यगगनवदेव। अतो गगनसमचित्तं प्रकृतिस्वरूपस्थं भवेत्। गुह्यसमाजे चोक्तम्-


स्वचित्तं चित्तनिध्यप्तौ सर्वधर्माः प्रतिष्ठिताः। 

खवज्रस्था ह्यमी धर्मा न धर्मा न च धर्मता।। 


चित्तं यदा स्वप्रकृतिरूपस्थः स्यात्तदा बाह्यरूपेण द्रक्ष्यमाण-सर्वधर्माणामा-भासमात्रतैव, न च तदानीं कोऽपि समारोपितो धर्मः। यथा कश्चिद् बालः चित्रविचित्रपुष्पवृक्षैः परिपूर्णे उद्याने शोभनतामशोभनतां च नावगच्छति। शबरीपादोऽपि यथा-सर्वनदीनां जलं सागरे निपत्य एकीभूतं जायते तथैव चित्तावलोकनेन सर्वप्रज्ञप्तिचित्तचैतसिकाः प्रभास्वरचित्ते शाम्यन्ति। तिलोपादोऽपि वक्ति- यथा- आकाशगङ्गावलोकने दृष्टिरेव निरूध्येत, तथैव स्वचित्तस्य प्रकृत्य-वस्थावलोकनेन सर्वविकल्पा अवरूद्धाः स्युः। नीहारमेघादयः आकाशे एवोत्पद्यन्ते तत्रैव च विश्राम्यन्ति तथैव विकल्पाः चैतसिकाश्चापि प्रभास्वरचित्ते समुत्पद्यन्ते तत्रैव शाम्यन्त्यपि। 


ज्ञानसिद्धावपि प्रत्यपादि- यथा साहसिकः कुक्कुरः पाषाणं परित्यज्य तत्प्रक्षेपकमनुधावति, तथैव विकल्पमनवलोक्य तदुत्सचित्तमन्वेषणीयम्। येन च कदापि पाषाणरूपिविकल्पस्य प्रक्षेपणं न भवेत्। यथा -


लोष्टश्च धावति क्षिप्ते नासौ प्रक्षेपकस्तथा। 

एवं चित्तेन यद् भाव्यं, तद् भवति न चित्तकम्।। 


सिद्धबिरवापादोऽप्यभिधत्ते वीचिरहितपरमशान्तसागरवद्, वायुरहितदीपशिखावद् उच्चाकाशे समुत्पतितगरूडवद् भूतकल्पनं भविष्यस्य च विचारं बिना केवलं वर्तमानज्ञानप्रकाशे स्थेयम्। एवं स्थित्या प्रभास्वरं स्वयमेवाविर्भवति। सरहपादोऽपि वक्तिचित्तचैतसिकयोर्व्यापारावरोधेन वायुर्निरूध्यते वायु-निरोधेन च प्रभास्वरं साक्षात्कृतं भविष्यति। 


एवमवलोक्यते यत् प्रभास्वरसाधनाया एकः सरलोऽपि पन्थाः। चेत् सर्वाध्यात्मिकचिन्तकैरयमेव मार्गः अन्वसरिष्यत तर्हि अद्यतनोऽयं समाजः अत्युन्नतिं प्राप्स्यत्। परं च दोषोऽयं जनस्य , यद् वस्तु सारल्येन लभ्यते तदवाप्तुं स नेच्छति। यत्काठिन्येन लभ्येत तदेव स्वोपलब्धिं मन्यते। यत्समीपवर्ति, तल्लाभाय न विचारयति। एतस्मादेव यत्सरलं जन्मजन्मान्तरात् स्वसहैवोत्पन्नं तत्समीपत्वाद्-नवलोकनेन भवचक्रमिदं दुःखशान्तिशृंखलाबद्धमास्ते। 


शङ्पाकर्ग्युदे महामुद्रामञ्जूषाख्यग्रन्थे समुक्तं यद् अबोधस्य चतुर्हेतवः १. अस्मच्चित्तं धर्मकायादभिन्नं, परञ्चात्यन्तसामीप्यात् तत् परिचेतुमशक्यम्। २. यद्यपीदं सर्वदोदयावस्थायामवतिष्ठते परञ्चास्यातिगम्भीरतया ज्ञातुमशक्यता। ३. एतत्साक्षात्काराय स्मरणं सम्प्रजन्यमात्रं चापेक्षितम्। परं चात्यन्तसारल्येन वयं तन्न विश्वसिमः। ४. त्रिकाये स्वयं प्रकटिते सत्यपि भद्रत्वाद् बुद्धिरेनं न गृह्णाति। आदित एवास्मच्चित्तमाभासशून्यमस्ति, धर्मकायोऽयमेव। आभासत्वं हि निर्माणकायस्य। युगनद्धः सम्भोगकायः, एतत्त्रिकायः। उपर्युक्तचतुर्दोषान् परिहृत्य प्रभास्वरः साक्षात्कर्तुं शक्यतेऽस्माभिः। 


ग़्येयकोशे चापि प्रोक्तं चित्तप्रभास्वराधिगमाय मनश्चक्ष्वादीन्द्रियाणां वायोश्च प्रकृतिस्थत्वेन ललनारसनयोः प्रवहन् वायुः मध्यमायां विलेष्यति। अतश्चित्तस्य शिथिलीकरणमनुत्तरोपदेशेष्वन्यतमम्। षडङ्गयोगे धारणाङ्गमपीदम्। रूपादिविषयाश्चक्ष्वादीन्द्रियाणि अत्र विलीय सम्यगन्तनिरोधप्रभास्वरेषु एकरसानि भूत्वाऽद्वयानि जायन्ते। 


गुह्यसमाजे चाप्युक्तम्-


निरोधवज्रगते चित्ते निमित्तमुपजायते। 

पञ्चधातुनिमित्तं तद्बोधिवज्रेण भाषितम्।। 


अवगतेरूद्गतिपरिवर्तनम् 


परमार्थप्रभास्वरं प्रतिलोम्नि आलोकोपलब्धौ प्रकटितायां चतुर्थपरमार्थ-प्रभास्वरक्रमादिदं युगनद्धक्रमे परिवर्तते। 


युगनद्धक्रमः 


अनाहतवज्रकायपरमार्थप्रभास्वराख्यसत्यद्वयस्याभिन्नम् एकरसज्ञानं युगनद्धक्रमस्य लक्षणम्। 


भेदः 


प्रहाणाभिधेयाभ्यामेतद्भेदद्वयं विधीयते। 


व्युत्पत्तिः 


परमार्थसंवृतेः युगनद्धरूपमिदम्। अतो युगनद्धक्रम उच्यते। पञ्चक्रमे चाप्यभिहितम्-


संवृतिं परमार्थं च पृथग् ज्ञात्वा विभागतः। 

सम्मीलनं भवेद् यत्र युगनद्धं तदुच्यते।। 


साधना 


साधनायाः प्रश्ने तु किमिदं नोचितं यद् आगमेषु ( बुद्धवचनेषु ) तु साधकानां तत्त्वदर्शनान्तरमुत्तरोत्तरमवस्थागुणादीनि वर्णितानि स्युः, परञ्च शास्त्रेषु प्रथमभूमि-प्राप्तिं यावदेवैतत् प्रतिपादितं स्यात्। यतो हि तत्त्वदर्शनस्य प्रथमभूमेश्च प्राप्त्यनन्तरं साधकः तथागतैः सम्बन्धं स्थापयति धर्मञ्च शृणोति। तेभ्यः शास्त्राणां विशिष्ट-प्रयोजनप्रतीतिर्न भवति। यतश्च स स्वनिराकरणं वज्रधरादिष्टदेवेभ्यः कर्तुमर्हति। अन्यतश्च ये निर्विकल्पज्ञानं न साक्षात्कृतवन्तस्तेषां स्वविकल्पेन निराकरणविधानमसञ्गतमेव। विकल्पेन निर्णयसीमा प्रयोगमार्गं यावदेव। परञ्च परम्परेयं निर्मिता यत् प्रथमभूमिमवाप्य निर्विकल्पस्थबोधिसत्वैः करिष्यमाणेष्वावरणेषु भूमिषु च पक्षविपक्षखण्डनेनापि प्रतिपाद्यते। एतत् कियदुचितमिदं विचारणीयमास्ते। 


युगनद्धोत्थापनसम्बन्धे आर्यदेवः चर्यामेलापके पञ्चप्रश्नान् उत्थाप्य तन्निराकरणं स्पष्टयति-


१. प्रथमं तावत् तृतीयक्रमस्यार्थात् चित्तविवेकानन्तरं मायाकायेन चतुर्थ-प्रभास्वरे साक्षात्कृते सति सास्रवमायाकायस्यान्तो भविष्यति न वा ? एतदुत्तरे सास्रवमायाकायान्तः स्वीकृतः चतुर्थक्रमानन्तरं अनास्रवप्राणवायोः युगनद्धकायः प्रकटिष्यति। 


२. मार्गगमनक्रमसम्बन्धे पृष्टे सति तत्रैव पञ्चमार्गाणां दश भूमीनां च सम्बन्धे विस्तरेण निर्दिष्टम्। 


३. भव्यावृत्तिः कदा सम्पत्स्यते ? तत्परिधिश्च कियान् ? एतदुत्तरन्तु-क्लेशस्य सवसनानाशे सति दर्शनमार्गप्राप्त्यनन्तरं भवो व्यावर्तते। मोक्षाभिप्रायः कः ? क्लेशावरणस्य समूलनाशः शैक्षिकयुगनद्धप्राप्तिश्च मोक्षः। 


५. मोक्षप्राप्तेः किं कारणम् ? एतत्कारणं हि समानरूपेण पारमितानय-मन्त्रनययोश्च दर्शनमार्गप्राप्तिः। परञ्च दर्शनमार्गस्वरूपगुणवत्तायामन्तरम्। यथा श्रावकयाने शून्यतासाक्षात्कारानन्तरमपि अर्हत् पदप्राप्तिं यावत् कर्मक्लेशाभ्यां भवोत्पत्तिर्न रूध्यते। पारमितानये दर्शनमार्गप्राप्तौ सत्यां शून्यतासाक्षात्कारेण प्रज्ञप्तात्मदृष्टिनाशात् कर्मक्लेशवशाद् भवे जन्मावरोधस्तु भवति परञ्च सहजात्मग्राह्यनाशो न जायते। मन्त्रनये तु प्रज्ञप्तसहजोभयात्मदृष्ट्योर्नाशः दर्शनमार्ग एव सम्पद्यते। एते च भेदाः विषयशून्यतायाः साक्षात्कर्त्रा विषयिज्ञानभेदाद् मन्यन्ते। परञ्चेदं विचारणीयं यत् किं विषयिज्ञानस्य तीव्रताविशेषतयोरनुरूपमेव विषयबोधो नापेक्ष्यते ? विषयिभेदे सति विषयस्वरूपादौ न भेदः ? किमिदं सम्भाव्यते ? किं विषयिज्ञानस्य निष्प्रपञ्चस्वरूपमेव शून्यता न विद्यते ? चित्ते ये गुणा उत्पद्यन्ते ते शून्यताज्ञानाद् नोत्पन्नाः ? दर्शनमार्गारूदसाधकानां गुणेषु यो ह्यल्पाधिको भावः स शून्यताज्ञानाद् न सञ्जातः ? एवं किं विषयविषयिणोर्गाम्भीर्व्यापकतास्पष्टतानां भेदकरणं नोचितम् ? यत्किमपि स्यात् प्रथमभूमेरनन्तरम् आस्रवो नश्यति अनास्रवज्ञानं चोत्पद्यते। इत एव कायचित्ताभिन्नत्वं जायते , अयं शैक्षिकः युगनद्धकायो मार्गोऽभिधीयते। परिष्कृतः सन्नयं क्रमेण अशैक्षिकयुगनद्धकायं प्राप्नोति। 


ज्ञानपादाम्नायः 


गुह्यसमाजस्य ज्ञानपादाम्नायानुसारं चतस्रो निष्पन्नक्रमभावना चतुरानन्दबोधैः क्रमचतुष्टये विधीयते। एतच्च ज्ञानपादेन मञ्जुश्रियः मुखागमद्वारा प्राप्तम्। ज्ञानपादेन मञ्जुश्रियः आदेशाद् मुक्तितिलकं व्यरचि यश्च ज्ञानपादाम्नायस्य निष्पन्नक्रमविधेराधारभूतो ग्रन्थः। एतदनुसारमुत्पत्तिक्रमे अक्षोभ्यप्रधानपञ्चकुलमण्डलानां भावनानन्तरं निष्पन्नक्रमे हृदये अनाहततिलकं मणिचक्रे गुह्यतिलकं, नासिकाग्रे निर्माणतिलकं च भावयित्वा क्रमेण आनन्दपरमानन्दादिचतुरानन्दानुभवेन सह निष्पन्नक्रमः साध्यते। 


साधनाविधिः 


हृदयकमले उत्पत्तिक्रमसदृशपद्धत्याऽनाहतबिन्दौ निखिलमण्डलं ध्यात्वा संग्रहसंहारविधिं चानुकृत्य तिलकैकाग्य्रप्राप्तिः प्रथमानन्दप्राप्तिविधिरस्ति। २. हृदयस्थतिलकं वायुयोगेन मणिचक्रे संमन्थ्य तत्रैव पूर्ववत् सम्पूर्णदेवमण्डलं भावयित्वा प्रधानदेवहृदयस्थं तिलकं च ध्यात्वा संग्रहसंहारध्यानानुशीलनादेव परमानन्दो लभ्यते। ३. ऊर्ध्वनासिकाग्रे निमित्ततिलकं ध्यात्वा वज्रजापादिवायुबलेन सूक्ष्मवायुतिलकमधिकृत्य सर्वधर्माणां मायोपमभावना विरमानन्दः। ४. प्रभास्वरस्य भावना विधीयते। पिण्डानुभेदध्यानयोगेन पुनः पुनरभ्यासेन च त्रिज्ञानलक्षणमरीचिधूमादीनि उत्पद्यन्ते। 


मातृतन्त्रनिष्पन्नक्रमः 


हेवज्र-चक्रसंवर-चतुष्पीठ-महामाया-बुद्धकपालप्रभृतयो मातृतन्त्रस्य ग्रन्थाः। नागार्जुनः पितृतन्त्रग्रन्थगुह्यसमाजमाधारीकृत्योत्पत्तिक्रमे पिण्डीकृतं निष्पन्नक्रमे च पञ्चक्रमं विलिख्य साधनायाः सुस्पष्टं विधिं प्रास्तावीत् इत्थं मातृतन्त्रग्रन्थेषु न विलिखितम्। मातृतन्त्रग्रन्था एव विस्तीर्णा प्रसृताश्च, तेषु कोऽपि ग्रन्थो विशिष्टमार्गेषु संग्रहीतुं दुःशक्यः। सिद्धैर्हेवज्रस्यैव नैकपद्धतिषु व्याख्या व्यधायि। यथा डोम्बीपादः अमृतसाधनायां वसन्ततिलकेन सह चण्डालीसाधनामनुष्ठातुं भृशं प्रैरित्। सरोरूह-पादेनापि उत्पत्तिक्रमे षड्वर्णयोगेन पुनश्च वर्णानामनुभेदनविधिना प्रभास्वरस्य साक्षात्कारायाभिहितम्। समयवज्रः सूक्ष्मतिलकं समकेतयत्। अयं पिण्डानुभेदन-ध्यानयोगयोः बलं दत्त्वा युगनद्धाविर्भूतविधिं ख्यापयति। हेवज्रादिमातृतन्त्राभिप्रायः षड्योगनाम्ना अभिज्ञायते। यस्य प्रचारं तिब्बदेशीयः अनुवादकः कर्ग्युदसम्प्रदाय-संस्थापकश्च मरपा धर्ममतिः कृतवान्। चण्डाली-मायाकाय-स्वप्न-प्रभास्वर-अन्तराभवसंक्रमणप्रभृतयः एव नाडपादस्य षड्योगाः। प्रायः भोटदेशीयं सम्प्रदाय-चतुष्टयमेतत् परम्परामनुसरति। संक्षेपेण परिचयः तत् प्रस्तूयते यतो ह्ययमेव प्राधान्येन मातृतन्त्रसाधनाविधिः। 


चण्डाली 


चण्दाल्येवानुत्तरतन्त्रस्य सारगर्भिता साधना। कथ्यते चापि चण्डाली ह्येतद् मार्गाधारशिला। एतद् विनाऽन्यानुत्तरसाधनाऽसम्भवैव। चण्डालीभावनायै कायचित्तयोर्वस्तुस्थितिर्विज्ञेया। कायसम्बन्धे उपर्युक्तं विस्तरेण। चित्तस्थितिबोधं बिना न साक्षात्कर्तुं शक्यते ततः। यथा च धेनोः शरीरे दुग्धन्तु भवति परञ्च शृङ्गाभ्यां दुग्धं दोग्धुं न शक्यते। स्तनेभ्य एव दुग्धं दुह्यते। हेवज्रेऽपि -


देहस्थं च महाज्ञानं सर्वसङ्कल्पवर्जितम्। 

व्यापकः सर्ववस्तूनां देहस्थोऽपि न देहजः।। 


प्रश्नः समुदेति महाज्ञानं शरीरस्थन्तु वर्तते परञ्च तत्प्रत्यक्षं कथं ? "सम्यग्वाग्" ग्रन्थे कथितं एवं कायस्य नाभिक्षेत्रे स्थितम्। नाडिचक्रभेदेन नाभेश्चत्वारो भेदाः। यथा उष्णीषकण्ठहृदयनाभिक्षेत्राणि। एतद् व्याख्यायमानः आचार्यङोतोनः वक्ति - जाग्रदवस्थायां चित्तराजो नाभौ तिष्ठति स्वप्ने च कण्ठचक्रे निद्रावस्थायां हृदये समापत्त्यवस्थायां चोष्णीषे भवति। जाग्रदवस्थायां चित्तं नाभिक्षेत्रे अनेकविकल्पाकारसंज्ञाभिः संकुलं भवति। स्वप्ने चित्तं कण्ठचक्रे वायुना स्पन्दिते अस्ति-नास्ति स्वरूपे तिष्ठति। समापत्त्यवस्थायां चित्तमुष्णीषे भवति। ततः एतद्व्यावृतत्त्वमति दुष्करम्। यतः रागतो मलिनमिदं चित्तं मलिनरूपेण अवतिष्ठते स्वनिर्मलस्वरूपं च विस्मरति। एतच्चतुरवस्था संक्रमणावस्था चोच्यते। एतच्चतुरवस्थासु चित्तस्थितिमवगम्य साधनाऽनुष्ठीयते। 


जाग्रदवस्थायां ललनारसनाऽवधूतीनां सङ्गमे अप्लुताकारज्ञानाग्निं प्रज्वाल्य चण्डाली-साधनया स्वप्ने कण्ठचक्रमाश्रित्य स्वप्न-साधनया निद्रायां प्रभास्वर-साधनया समापत्तावपि चण्डालीसाधनया च चित्तं परिशोध्यते। यतो हि अत्रेन्द्रियाणां विषयप्रवर्तनावसरे एकतस्तु समापत्तिः संक्रमते, अपरतश्च चण्डाली उष्णीषस्थानाद् बोधिचित्तं स्रावयति। इत्थं चण्डाली जाग्रत्समापत्युभयावस्थयोः परिशोधिका। चण्डालीसाधनया यद्यपि सर्वफ़लवाप्तिस्थापि प्रमुखतया धर्मकायं च प्रददातीयम्। स्वप्नसाधनया संभोगकायस्य मायाकायेन निर्माणकायस्य प्रभास्वरेण च महासुखकायस्य सिद्धिर्भवति। 


चण्डाली इत्यस्यार्थः 


स्कन्धायतनधातूनां सर्वधर्माणां च निराकर्त्री भक्षिका निर्विकल्पस्वरूपा सर्वजिनानां माता वज्रभट्टारिकैव चण्डाली वर्तते। हेवज्रतन्त्रटीकायां चन्डाली "चण्डा प्रज्ञा क्लेशोपक्लेशनिकृन्तने चण्डस्वभावत्वादालिवज्रसत्वः चण्डालीशब्देनोच्यते " इत्यादि कथितम्। 


भेदः 


एतच्चण्डाल्याश्चत्वारो भेदाः- १. अप्लुताकारज्ञानाग्निना प्रज्वलितोष्ण-चण्डाली, २. तिलकस्राविका महासुखचण्डाली, ३. वायोर्मध्यमानाड्यां प्रवेशात्परम् ऊर्ध्वगतिर्निविकल्पा चण्डाली, ४. प्रज्वलनेन चतुरानन्दप्रबोधिका युगनद्धभाव-प्रापिका फ़लचण्डाली। 


साधना 


चण्डाली साधनाया विधिद्वयं पूर्वकर्मविधिः मौलविधिश्च। 


पूर्वकर्मरूपेण नाडीवायुतिलकानि परिशुध्यन्ति। नाडीवायुतिलकानां परिशोधनाय विभिन्नयोगासनानां प्रविधानम्। तदग्रे शरीरं किञ्चिदिष्टदेवत्वेन भावयित्वा नाडीचक्राणि स्पष्टरूपेण ध्याय्यन्ते। अभ्यासाय मध्यमानाड्या अतिसूक्ष्मकेशसदृशीं स्थूलसुमेरूपर्वतसदृशीं भावनां विधाय नाडीचक्रज्ञानमवाप्यते। नाडीमार्गपरिशोधनाय ललनारसनाभ्यम् आलिकाल्योः क्रमशो नासिकाग्रतः प्रवेशस्य गुह्येन्द्रियात् निर्गमनस्य च ध्यानं क्रियते। वायुपरिशोधने वायुवर्णोपरि ध्यानं रेचक-पूरक-कुम्भकाख्यप्राणायामाश्च अभ्यस्यन्ते। शुक्रशोणितयो स्थितिं तद्वायुसम्बन्धादिकं य सम्यक् परिज्ञाय मौलचण्डाली साध्यते। 


मौलचण्डाली 


विपाककायेऽस्मिन् चण्डाली-भावना न विधीयते, परञ्चैतदर्थम् उत्पत्ति-क्रमविधिना भाविते कश्मिंश्चिदिष्टदेवे स्वपरिवर्तनं विधेयम्। अत्र च हेवज्रे आत्मानं परिवर्त्य पितृदेवोष्णीषकमलादारभ्य नाभेश्चतुरङ्गुलमधःस्थं नाडीचक्रं भाव्यते। हेवज्रतन्त्रस्य व्याख्यातन्त्रे सम्पुटोद्भवे भावनाविधिरित्थं वर्णितोऽस्ति। 


नाभिमध्ये स्थितं पद्यं चतुष्षष्टिदलान्वितम्। 

द्वात्रिंशदलं पङ्कजं मूर्द्धमध्ये व्यवस्थितम्।। 


कण्ठमध्यगतं चापि पद्य तु षोडशच्छदम्। 

हृदये तु तथा चैव पद्यमष्टदलं स्मृतम्।। 


चण्डालीभावना प्रायः हेवज्रवर्णितानुसारं हृस्वप्लुताकारस्य 'अ' इत्यस्य भावनामनुष्ठायैव क्रियते। 


अत्र पद्याकरपो इत्यस्यानुसारमुच्यते। स्वयं हेवज्रयुगनद्धभावना नाभिस्थ-चतुष्षष्टिदलीयकमलमध्ये कृष्णपीतरश्मिवत ऊर्ध्वमुखस्य बीजस्य 'अ' इत्यस्य हृदयस्थाष्टदलकमलमध्ये नीलवर्णवज्रराहुस्वभावस्य 'हूँ' इत्यस्य , चतुर्नाडीकमलेषु 'भ्रं आं ज्रीं खं ' इत्येतस्य , सीम्नश्चतुर्नाडीदलेषु अधोमुखेन' एवं मया ' इत्येतस्य च भावनाऽनुष्ठीयते। कण्ठस्थषोडशदलचक्रमध्ये रक्तवर्णसूर्यस्वभावस्य ॐ इत्येतस्य चतुर्दिक्षु रक्तवर्णाधोमुखतिलकनादेन विभूषितस्य 'हं ' इत्येतस्य भावना क्रियते। प्रश्वासकाले ( रेचक प्राणायामावसरे ) प्रतिवर्णात् पञ्चरश्मयो निःसृत्याखिलं जगद् व्याप्नुवन्ति, श्वासकाले च ( रेचकप्राणायामे ) सर्वप्रभामयो वायुस्तत्र विलीयते। कुम्भकप्राणायामावसरे सवर्णनाडीचक्राणि आदर्शप्रतिबिम्बनवत् सुस्पष्टं ध्येयानि। तदनु मातृदेवप्रभायां विलीने चन्द्रमसि ' अं ' इत्यस्मिन् ततश्च नाभिचक्रबीजे ' अं ' इत्यस्मिन् विलीय ज्ञानाग्निं प्रज्वालयति। अयमग्निः ऊर्ध्वं संवर्ध्य हृदयचक्रं प्राप्य पञ्चतथागतान् , पञ्चमामक्यादिकं ज्वालयति महासुखं स्रावयति। यथा च हेवज्रतन्त्रे -


चण्डाली ज्वलिता नाभौ, दहति पञ्च तथागतान्। 

दहति च लोचनादिर्दग्धेऽहं स्रवते शशी।। 


अभिध्यानोत्तरतन्त्रे चण्डाली ज्ञानाग्नित्वेन वज्रमालायामग्नित्वेन महामुद्रा-तिलके च कर्मवायुत्वेन चक्रसंवरे च तिलकत्वेनाभिहिता। संवृतौ तिलकमेव कथयितुं शक्यम् यस्य च अग्निवत् स्वरूपम्। चण्डाल्याः पूर्वकर्मणि नाभि-चक्राच्चतुरङ्गुलमधो ललना-रसना-मध्यमानाडीनां मेलनस्थाने ' अ ' प्लुताकारे चित्रैकाग्य्रं विधाय कुम्भकप्राणायामोऽनुष्ठीयते। 


अत्र प्रज्वलिताग्निवद् एतद् ध्यात्वा नाभौ पञ्चाशतशः कुम्भकं क्रियते। क्रमेणोर्ध्वगतिकः हृदयं कण्ठं चान्ततः उष्णीषं प्राप्नोति चाग्निः। उष्णीषं प्राप्य सम्पूर्णाङ्गप्रत्यङ्गानि ज्ञानाग्निना पूरितानि बोधिचित्तं च शुक्राभिन्नं भवति, अनास्रवमहासुखाभास इत्येवमेतद् ध्याय्यते। कालचक्रप्रभृत्यद्वयतन्त्रग्रन्थानुसारेण सम्पूर्णशरीरे अनास्रवसुखेन व्याप्ते सति शरीरस्थास्रवतिलकं नाशयति। यथा लौहस्थः पारदः लौहं प्रज्वाल्य नाशयति, तथैवानास्रवमहासुखमास्रवद्रव्यतिलकं ज्वालयित्वा नाशयति, साधकस्य षड्धातुविनिर्मितमिदं शरीरं इन्द्रधनुषसदृशं मायाकायं प्राप्नोति, शरीरेणानेनैव सम्भोगकायं च प्राप्नोति। 


नाभिचक्रात् क्रमशः ऊर्ध्वगतितः उष्णीषं यावत् पुनश्चोष्णीषचक्रान्नाभिचक्रं यावद् अधोगतेरभ्यास एवानन्द-परमानन्द-विरमानन्द-सहजानन्दानां प्राप्तिविधिः विद्यते। एवं ध्यानेन आनन्दचतुष्टयानुभूतिस्तदैव सम्भाव्यते यदा च सर्वप्राणवायवः चण्डालीसाधनाबलेन मध्यमां प्रविश्य अवतिष्ठरेन् यतश्च ज्ञानाग्निर्मध्यमान्तः प्रविशन् चक्रेषु प्रविश्य तद् भिनत्ति। सर्वनाड्यो मध्यमानाड्यां सर्ववायवः सूक्ष्मप्रणवायी, सर्वतिलकानि अनास्रवानाहततिलकयोः परिशुद्ध्यन्ति। 


गुह्येन्द्रियतो नाभिपर्यन्तं प्राप्तौ शून्यताबोधः विषय्यानन्दमहासुखं, नाभितो हृदयपर्यन्तं प्राप्तौ विषयातिशून्यविषयिविरमानन्दः कण्थादुष्णीषं यावत् प्राप्तिकाले विषयिसहजानन्दश्च लभ्यते। एतानि चत्वारि क्षणान्युच्यन्ते-विचित्रक्षणम्, विपाकक्षणम् विमर्दक्षणम्-विलक्षणक्षणञ्चेति। आनन्दस्तु विचित्रक्षणमुच्यते यतश्च बाह्यप्रत्ययमुद्राम् आभ्यन्तरप्रत्ययवायुयोगं चण्डालीयोगं वाश्रित्य एतत् साक्षात्क्रियते। इदं विचित्रसमूहमेलापकादुत्पन्नमत एव विचित्रक्षणं ख्याप्यते। 


द्वितीयन्तु विपाकक्षणम्, यतश्चात्र विचित्रक्षणात् नवप्रयासो नापेक्ष्यते। तृतीयस्तु विमर्दः। परिणामसिद्ध्यनन्तरं तत्परिपूर्णानन्दप्राप्त्यनन्तरमपीतोऽप्यधिकः कश्चन आनन्दो भविष्यति? एवं न प्रतीयते। अयमेव सर्वोत्तम आनन्दः, एवं विचारस्थितं योगी प्राप्नोति। अत एवेदं विमर्दक्षणमुच्यते। चतुर्थक्षणं, विलक्षणम्। निष्प्रपञ्चनिर्लक्षणबोधावस्थेयम्। अयमेव सहजानन्दः। हेवज्रे चतुःक्षणं बाह्यमुद्रया संयोजयितुं कथितमस्ति। पञ्चक्रमेऽपि चतुर्थपरमार्थप्रभास्वरप्राप्त्यवस्थेयमेव मन्त्रनयस्य च दर्शनमार्गोऽस्ति। चण्डलीसाधनायां समुत्पन्नगुणदोषाणां विस्तरेण प्रतिपादनं तिलोपा-सम्यग् वाग् कपे डछी जमपल पाअ द्वारा विरचिते चण्डालीभाव्नाविधौ पद्याकरपो-स्रेफ़ो इत्यत्र च कृतमास्ते। 


मायाकायः 


हेवज्रे प्रतिपादितम्-


आत्मा जीवं च सत्त्वं च कालः पुद्गल एव च। 

सर्वभास्वभावोऽसौ मायारूपी च संस्थितः।। 


सर्वधर्माणां मायावद् भावना करणीया। स्वरगतमायाकायस्यानेके भेदाः- पञ्चक्रमभावनाविध्यनुसारेण मायाकायोत्थापनाविधेर्भेदः। यथा पञ्चक्रमे त्रिज्ञाना-नन्तरम् उपमाप्रभास्वरेणोत्थापितं मायाकायम् अशुद्धमायाकायेन चतुर्थप्रभास्वर-वायुयोगेन च मध्यमानाड्यां प्रवेश्य सर्वशून्यत्वसाक्षात्कारानन्तरं प्रतिलोम्नि सूक्ष्मवायौ स्पन्दिते सति स विशुद्धमायाकायो निगद्यते। मातृतन्त्रे चण्डालीं ध्यात्वा वायुं मध्यमायां प्रवेश्य बोधिचित्तं स्रावयित्वा च चतुरानन्दैः शून्यतामवबुद्ध्य सहजानन्दानन्तरं मायाकायोत्थापनं जायते। अयमेव शुद्धमायाकाय उच्यते। अत्रोपमाप्रभास्वरेणोत्थपितमायाकायस्य साधनपद्धतिर्निष्पन्नक्रमेण नोपलभ्यते। परञ्चोत्पत्तिक्रमे एव भाजनलोकस्येष्टदेवमण्डले, सत्वलोकस्य इष्टदेवे, शब्दस्य च देवमन्त्ररूपेण, चित्तचित्तवृत्त्योरिष्टदेवे आभासः एव विशुद्धमायाकायः। 


प्रभास्वरानन्तरं प्रकटितयुगनद्धमायाकायस्य विशुद्धमायाकायस्य सर्वधर्माणां च मायस्वप्नवदवबोधः अशुद्धमहाकायः। पञ्चक्रमे परमार्थमनु शुद्धमायाकायात् पूर्वमपि उपमाप्रभास्वरादाविर्भूतः अशुद्धमायाकायः निष्पन्नक्रमो मन्यते। पितृतन्त्रे वायुं मध्यमायां प्रवेश्य त्रिज्ञानेन प्रभास्वरः साक्षात् क्रियते किन्तु मातृतन्त्रे वायोर्मध्यमायां प्रवेशस्तु मान्योऽस्ति परञ्चालम्बनरूपेण चण्डाल्याः 'एवं' बिन्दोर्वा ग्रहणेन पृथक् प्रभास्वरमायाकायादिभ्यः स्वतन्त्रक्रमस्य प्रतिपादनमपरिहार्यं नास्ति। एतत्साधनापद्धत्यनुसारेण साधनाकेन्द्रबिन्दुः स्वयं प्रभास्वरो भवति। तदपि चित्तस्य निद्राकालावस्थां सामान्यमायारूपं च त्वरितं विज्ञातुं पृथक् साधनाविधिरप्युपलभ्यते। 


स्वप्नः 


स्वप्ने चित्तराजः कण्ठचक्रे निवसति, अतः कण्ठचक्रे स्वप्नस्य साधना क्रियते। 


स्वप्न-स्वरूपम् 


विद्या शून्यसहजज्ञानमेव च स्वप्नः। गुह्यसमाजस्य प्रदीपोद्योतनटीकाया-मुक्तं - सर्वधर्मः प्रभास्वरः। स्वप्नावस्थायां जाग्रदवस्थायां वा सर्वं धर्मचित्त एव स्थितमस्ति। चित्ताद् भिन्नं नास्ति। अतः स्वप्नः विद्याशून्यसहजज्ञानत्वेनाभिहितः। यथा च -


तथैव धात्वायतनेन्द्रियादौ ज्ञानद्वये तत्र सुसंहतेऽस्मिन्। 

शून्ये महत्त्वे सति यः प्रसुप्तः स्वप्नं प्रपश्येत् खलु वातसंश्रयात्। 

सुप्ते प्रबुद्धे न च नान्यभेदः संकल्पयेत् स्वप्नफ़लाभिलाषी। 

स्वप्नोपमास्ते खलु सर्वधर्मा मृषामृषाश्चापि तयोरभावः।। 


विषयविषयिसर्वधर्माणामिदमेव प्रभास्वरत्वं यश्च जाग्रदवस्थायां बाह्यार्थे निद्रायां च वायुना स्पन्दनेन स्वप्नरूपेण अवलोक्यते। अतश्चित्तं स्वप्ने विज्ञातुं जाग्रदवस्थायां चण्डालीभावनावत् स्वप्न-साधना क्रियते। अत्र या स्वप्न-भावना सा चादिकर्मिकेभ्यः। चण्डालीमायाकाययोः दाक्ष्यमवाप्तुं जाग्रति स्वप्ने च समभावश्चैव भवति। अतो नावश्यकत्वं साधनायाः। 


साधना 


साधकः शयनकाले सम्पूर्णनाडीचक्रसंवलिते स्वदेहे इष्टदेवं भावयेत्। कण्ठचक्रे 'अः' इत्यक्षरे यश्च सर्वतथागतानां वाक्स्वरूपः पञ्चप्रभामयश्चास्ते, चित्तमेकाग्रीकृत्य स्वप्ने स्वप्नावबोधः, इति विचिन्त्य निद्रां प्राप्नुयात् येन च स्वप्नेऽपि स्वप्नो भवति इति परिज्ञातं भवेत्। यतश्च स्वप्नोऽपि चित्तस्यैव रूपम्। तथैव कण्ठचक्रे एव वज्रजापं भावयित्वा तच्च प्रभास्वरे समाहित्य निष्प्रपञ्चे समस्थितिरेव स्वप्नसाधनाऽस्ति। स्वप्ने स्वप्नो वर्तते इति परिज्ञाय यथा जाग्रद-वस्थायां ध्यानयोगादयः क्रियन्ते तथैव स्वप्नेऽपि भावनीयम्। एवं स्वप्नसाधना-यामभ्यस्तसाधकस्य कृते निशादिवसयोरन्तरं न भवति। स्वप्नसाधनाविषये संवरो-दयतन्त्रं वज्रडाकार्णावतन्त्रं च विशेषणावधेयम्। 


प्रभास्वरः 


मातृतन्त्रे प्रभास्वरसाधनाविधिः पितृतन्त्रसदृश एव यश्च पूर्वमभिहितोऽस्ति।  सामान्यतो नाडपादस्य षड्धर्मयोगः सर्वानुत्तरतन्त्राणां निष्पन्नक्रमसाधनायाः संग्रहरूपो मन्यते। एतस्मिन् मायाकायप्रभास्वरवायुयोगप्रभृतयः पितृतन्त्रगुह्यसमाजाद् गृहीताः। मातृतन्त्रहेवज्रचक्रसंवरैश्चण्डालीनाडीतिलके च क्रमेण व्यवस्थापिते स्तः। वज्रडाकार्णव-संवरोदयाभ्यां स्वप्नान्तराभवौ गृहीतौ सम्पुटोद्भवचतुष्पीठाभ्यां च संक्रमणमुद्धृतम्। अद्वयतन्त्रकालचक्रप्रभृतिभ्यश्चण्डाल्यां कर्ममुद्रायोगविधिरूदध्रियत। इत्थं सम्पूर्णानुत्तरतन्त्रस्य निष्पन्नक्रमसाधनाविधिरयमुच्यते। अत एव तिब्बतस्य सम्प्रदायचतुष्टयेन कथंचिद्रूपेण षड्योगसाधनाविधिः समुल्लिखितोऽस्ति। यद्यप्ययं निखिलानुत्तरतन्त्राणां साधनाविधिस्तथापि षड्योगकेन्द्रं मर्म वा चण्डालीयोग उच्यते यश्च मातृतन्त्रस्यासामान्यः साधनाविधिः। तेनैव विद्वद्भिरिदं प्राधान्येन मातृतन्त्रसाधनारूपेणाङ्गीकृतम्। पितृतन्त्रे वायुत्रिज्ञानपरमार्थप्रभास्वराणि विशेषेण विवेचितानि मातृतन्त्रे च चण्डालीचतुरानन्दादीनि विश्लेषितानि। एतावानेवानयोर्मिथो भेदः। 


साधना 


प्रभास्वरसाधना पिण्डानुभेदनाभ्यामत्रापि पितृतन्त्रवदेवानुमन्तव्या। अत्र निद्रायां प्रभास्वरसाक्षात्काराय स्वप्नसदृशः साधनाविधिः प्रत्यपाद्यत। यथा निद्रागमनपूर्वं शयनकाले सुषुप्तौ प्रभास्वरपरिज्ञानाय इष्टदेवं सम्प्राथ्यं स्वयमिष्टदेवे परिणतेन सता हृदयकमलस्य दलचतुष्टयस्य मध्ये श्यामवर्णे हूं पद्यदलेषु च नीलवर्णे 'अनुत्तरम्' इति चतुरक्षरं ध्येयम् यच्च पञ्चज्ञानं पञ्चबुद्धस्वरूपं चास्ते। श्वासेन वायुं निपीय कुम्भकं विधेयम्। प्रश्वासे पञ्चरश्मिभिः निखिलं ब्रह्याण्डं परिव्याप्तं पुनः श्वासावधौ एतन्मन्त्रेषु व्यलीयत इत्थं बहुशो ध्यातव्यम्। कदाचित् प्रश्वासकाले पञ्चरश्मिभिः सर्वभाजनलोकाः सत्त्वलोकाश्च व्याप्ताः श्वासकाले च एते सर्वे मन्त्राः मन्त्रमत्यधिकं प्रभामयं विदधतु, इत्येतादृशीभावना विधेया। मन्त्रस्य प्रत्येकमक्षरस्य अकारस्य ( अ-नु) नु इत्यस्मिन् वर्णे, तथैव क्रमेण नु-त, त-र, र-हु, हुं इत्यस्य नादे नादितिलके च विलयं कृत्वा तत्रैव समाहितेन भाव्यम्। इत्थं प्रभास्वरं भावयता निद्रामुपगत्य सुषुप्तौ तत्प्रवाहबलाभ्यां प्रभास्वरः साक्षात्कर्तुं शक्यते। 


अन्तराभवः 


सामान्यतः प्राणी अज्ञानाद् भ्रमित्वा भवचक्रादुपर्य्युत्थाय यावद् ज्ञानं न प्राप्तुर्महति तावान् कालः अन्तराभवस्य। एतस्य प्रकृत्युत्पत्ति-अन्तराभावः २. मृत्युदुः खान्तराभवः ३. धर्मधातु-अन्तराभावश्च इति भेदत्रयं विधातुं शक्यम्। वस्तुतस्तु त्रैकालिकसहजज्ञानस्याज्ञानमेव अन्तराभवः। अवस्थानुसारेण एतस्य नैके भेदा विधातुं शक्यन्ते, वायुस्पन्दनेन यानि विभिन्नरूपेषु समुत्पद्यन्ते। स्थुलतस्तु मृत्युजन्मनोर्मध्यमावस्थैवान्तराभव इत्युच्यते। 


अभिधर्मकोशेऽपि -


मृत्यूपपत्तिभवयोरन्तरा भवतीह यः। 


अन्तराभवसाधना षड्योगमार्गच्छेदिकाऽभिहिता। अन्तराभव एव युगनद्धकायस्य अर्थात् परमार्थप्रभास्वरस्य मायाकायस्य चाभिन्नरूपेण बोधि जायते। अतोऽयं मार्गच्छेदकोऽभिहितः। 


त्रिकायव्यवस्थया प्रतीयते यद्येकजीवन एव सम्यक्सम्बोधिः प्राप्तव्यः चेत्तर्हि स च अन्तराभव एव सम्भाव्यते न तु जीवितावस्थायाम्, यतश्च एतद्विपाककायस्य परित्यागं बिना प्रभास्वरस्य सूक्ष्ममायाकायस्य च युगनद्धरूपेण उत्थानं कदापि न सम्भाव्यते। भूतोत्पन्नमिदं शरीरं प्रभास्वरकायं न भवितुमर्हति। कारणन्त्वत्रेदमेव यत् पारमितायानिनः मन्त्रयानिनश्च बुद्धमकनिष्ठभुवने आदावेव बोधिप्राप्तम्मन्यन्ते। शाक्यमुनिप्रभृतिन्ते निर्माणकायत्वेनाङ्गीकुर्वन्ति परञ्चाद्वयतन्त्रकालचक्रे एतद्-विपाकशरीरस्यास्रवस्कन्धम् अनास्रवमहासुखतिलकद्वारा भक्षित्वा इन्द्रधनुषसदृश-नूतनशरीरावाप्तिमभिमन्यन्ते। अत्रान्तराभवेन सम्यक्सम्बोधिप्राप्तिर्न मन्यते। 


कालचक्रे समभिहितम्-


तस्मान् निःस्पन्दसौख्यं क्षणमिह सहजं धर्मधातुर्ददाति प्राणेनाकृष्य सर्वान् रसगतिषु गतान् क्लेशमारान् निहत्य। 

ऋद्धिं सर्वज्ञभूमिं त्रिभुवनगुरूतां योगिनां जन्मनीह मृत्युं मार्गप्रविष्टो व्रजति यदि तदा तद्ग्रहादन्यजात्या।। 


अर्थात् जीवनकाले परमपदं प्राप्तुं नाशक्नोत् तर्हि अपरजन्मनि किं प्राप्स्यति। 


मातृतन्त्रे अन्तराभवसाधनायाः स्वीयम्महत्त्वमास्ते यतो हि अवस्थेयमेव अत्यन्तं सूक्ष्मा बलशालिनी च भवति। यथा चाभिधर्मकोशेऽपि -


सजातिशुद्धदिव्याक्षिदृश्यकर्मर्द्धिवेगवान्। 

सकलाक्षो प्रतिघवाननिवर्त्यः सगन्धयुक्।। 


अनेनैव हेतुना युगनद्धकाये उत्थापनस्य सारल्यम्। 


साधना 


एतद्भेदत्रयम्-धर्मकायः सम्भोगकायः निर्माणकाय-मार्गीकरणं च। सामान्यान्तराभवसाधनायां साधको मृत्युकाले पञ्चस्कन्धधातुचतुष्टयस्य षडायतन-पञ्चविषयाणां पञ्चाश्रयज्ञानानां पञ्चविंशतितत्त्वानां लयविधौ उत्पत्स्यमानं लक्षणं पितृतन्त्रपद्धत्या परिज्ञेयम्। यथा हि रूपस्कन्धाश्रयिकादर्शज्ञान- क्षितिधातु-चक्षुरिन्द्रिय-रूपादिविषयाणां क्षयानन्तरमन्तश्चित्ते मरीचिप्रतिभासः बाह्यकायदीप्तिश्च विलुप्ताऽस्पष्टा च दृश्यते। 


धर्मकायस्य मार्गीकरणम् 


बाह्यस्थूलधातोराभ्यन्तरसूक्ष्मविकल्पानाञ्च क्षयानन्तरम् आलोकाऽलोकभासालोकोपलब्धीनामन्तरम् उष्णीषकमलात् पितृलब्धं श्वेतशुक्रं नाभिचक्रस्याधो मातृलब्धं रक्तं चोर्ध्वगतिं विदधत् हृदयकमले चैकरसं सम्भूय सर्वशून्येन सार्धं प्रभास्वरेणाद्वयं जायते। तत्क्षणं जीवनकाले कृतां तत्सदृशीं भावनामाश्रित्य तद्बलेन च परिज्ञाय तदवस्थितिरेव धर्मकायस्य एका स्थितिः। प्रभास्वरस्याद्वयरूपेण स्थितेयामवस्था प्रभास्वरमात्रा सह साधकपुत्रस्य मेलनमप्युच्यते। प्रकृतिस्थं निजचित्तं हि माता, साधनाबलेन च तत्परिज्ञाता पुत्रोऽस्ति। आश्रय एव मार्गः मार्ग एव च फ़लं यच्चासंहार्यमास्ते। अत्रेदं नूनं ज्ञेयं यथा आश्रयमार्गफ़लान्यवस्थाभेदेन पृथक् वर्तन्ते परञ्च तथता त्वेकैव तथैवास्यामवस्थायां धर्मकाय एव सम्भोगकायः सम्भोगकायश्चैव निर्माणाम्, अर्थात् मिथोऽभिन्नत्वमेव। नेदं बोध्यं यद् धर्मकाये स्थितत्वेन सम्भोगकायस्तत्र नापेक्ष्येत। यतो हि सम्भोगस्य न धर्मकायवत्वम्। सम्भोगकाय एव धर्मकाय उच्यते। अत्र कायज्ञानयोरद्वयत्वं ज्ञानमूर्तित्वेन। ज्ञानमेव तथागतः। तथागतस्यैव ज्ञानत्वम्। तदवस्थायां बोधिचित्तवान्-करूणावान् बहुरूपवान् वेति भेदा न योज्याः। इमा अवस्था धर्मकायस्य बोधिचित्तस्य करूणायाश्च निगद्यन्ते। तस्मादेव पूर्वं निष्पन्नक्रमस्य सामान्यार्थेऽपि प्रतिपादितं वज्रयाने बोधिचित्तं साधनामात्रमसत् साध्यत्वमापद्यते इदमेवौत्कृष्ट्यं वज्रयानस्य। 


सम्भोगकायः 


चेत्साधकः धर्मकायस्थितो न भवितुमशक्नोत् तर्हि सः प्रभास्वरे समुत्थापितः सन् आलोकाभासनन्तरम् अन्तराभवसत्वे प्रकटिष्यति यश्च सूक्ष्मकाय उच्यते। तदानीं सम्पादितसाधनाबलेन सम्भोगकाये तथैवोत्थापितो भविष्यति यथा जलाद् मत्स्योऽपि उत्तिष्ठति। इत्थं सम्भोगकायतः उत्थापनमेव सम्भोगकायतो मुक्तिः। 


निर्माणकायः 


सम्भोगकाये उत्थापनं न स्यात्तर्हि प्राण्यन्तराभवसत्त्वो भविष्यति। सत्त्वस्यान्तराभवकालः न्यूनतः सप्तदिनानि अधिकाधिकम् ऊनपञ्चाशद्दिनानि। ऊनपञ्चाशद्दिनानन्तरं सत्वो नूनमेव जन्म लभते। अतो मृतकस्य श्राद्धादिकर्म ऊनपञ्चाशद्दिनानि यावदेव क्रियते। सत्वः पूर्वपुण्यबलेन सुखाव्तीप्रभृतिशुद्धे क्षेत्रे जन्म लभते यथेच्छं वा मातुर्गभं प्रविश्य जन्म लब्ध्वा क्रमेण सम्यक्सम्बोधिं प्राप्नोति। इयमेव निर्माणकायतो मुक्तिः। सारतस्तु धर्मकाय-सम्भोगकाय-निर्माणकायानां प्राप्तिविधिमत्र स्वजीवनकाले एव मृत्युकाले स्वजीवनस्य परिस्थित्या सार्धं तत् संयोज्य वायौ मध्यमानाड्यां प्रविष्टे सति प्रकटितानि लक्षणान्याधारीकृत्य धर्मकायस्य प्राप्तिविधेः पुनर्भावनमेव धर्मकायस्य मार्गीकरणमुच्यते। इत्थं त्रिकायस्य मार्गीकरणाय पूर्वं वास्तविके मृत्युकाले त्रिकायस्य प्रकटीकरणविधिः परिज्ञेयः। साधनाप्रयोजनं हि जीवनकाले मृत्युं परिज्ञाय जीवन्मुक्तिरेव कथ्यते। अत्र प्रश्नोऽपि सम्भाव्यते- मृत्युकाले एवं परिज्ञानं न सम्भविष्यति यतो हि मृत्युस्तु, एका तीव्रा निद्रावस्थाऽस्ति वस्तुतस्तु निजचित्तस्य प्रवाहमयसन्ततेः विभिन्ना अवस्थाः सन्ति। अतोऽन्तराभवेऽपि सम्भोगकाये यथेच्छं वा सुखावतीप्रभृतिक्षेत्रे जन्म सम्भाव्यते। यथाऽस्माभिर्बाल्ये स्मृताः श्लोकाः वार्द्धक्येऽपि स्मर्य्यन्ते, पुरा दुष्टं जनं स्थानं वा नैकवर्षानन्तरं वयं परिचिनुमः। यथा कुम्भकारस्य एकदा चालितं चक्रं सहसा स्वप्रवाहे भ्रमति कुम्भकारश्च घटान् निर्माति, तथैव साधकोऽपि मृत्युकाले उत्पद्यमानानि लक्षणानि परिज्ञायमानः मार्गीकरणस्य फ़लमवाप्तुमर्हति। 


संक्रमणम् 


संक्रमणमुत्क्रान्तिं वा सामान्यशब्देषु सततं प्रवाहयुक्तत्वेन गतिशीलत्वेन चाभिधातुं शक्नुमो वयम्। अतः प्रभास्वरचित्तस्य प्रवाहात्मकं क्षणिकत्वं दीपशिखावत् प्रतिक्षणं परिवर्तनशीलं च सदपि निरन्तरं गतिशीलमपि विद्यते। एवं सदपि तत् स्वप्रभास्वरस्वभावेऽनभिलाप्यं तथतात्मकं चापि जायते। तत्स्वरूप-परिज्ञानमेव अज्ञानाद् ज्ञाने संक्रमणम्। तथ्यन्त्वेकमेव, यथा महासागरमध्ये वायुयानेन उड्डयमानः खगः भ्रमित्वा तत्रैव परावर्तिष्यते तथैव वयं विभिन्नो-पायानाश्रित्य अन्ते च तस्मिन्नेव केन्द्रे स्थास्यामः। 


एतद्भेदविषये ग्रन्थेषु धर्मकाय-संक्रमणं, संभोगकाय-संक्रमणं, प्रमुखं बलवच्च संक्रमणं शुद्धक्षेत्रे च चित्तसंक्रमणं, परकायसंक्रमणं च इत्यादयः साधना-विधायः समुपलभ्यन्ते। त्रिकायादौ संक्रमणमन्तराभवसाधनान्तरगतं त्रिकायमार्गीकरणमेव। 


एषा संक्रमणसाधना विनेयजनाननुग्रहीतुं तांश्च सम्यग्मार्गे प्रवेशयितुं स्वयं परकायप्रवेशाय पार्थिवशुद्धक्षेत्रादौ संक्रमणाय च विद्यते। 


साधना 


उत्क्रान्तेः संक्रमणस्य च साधना सम्पुटोद्भवतन्त्रे अष्टमकल्पस्य तृतीयप्रकरणे विस्तरेण विवेचिता। संवरोदयतन्त्रस्य ऊनविंशतितमे मृत्युनिमित्तदर्शनोत्क्रान्ति-योगपटले मृत्युपूर्वाणि लक्षणानि दर्शयित्वा मृत्युकाले हृदयकमलस्थं निजचित्तं ( सूक्ष्मप्राणचित्तं ) मध्यमानाडीमार्गेण ऊर्ध्वगत्या उष्णीषतो बहिर्निष्कास्य शुद्धक्षेत्र-स्थामिताभबुद्धस्य स्वोष्णीषे भावितवज्रधरस्य वा चित्तेन साकं एकरसान्वयविधिः प्रत्यपाद्यत। 


मृत्युकाले तु संप्राप्तमुत्क्रान्तियोगमुत्तमम्। 

नवद्वारगतनाडीः पूरकेन तु पूरयेत्।। 


कुम्भकेन स्तम्भयेद् द्वारं, द्वाररन्ध्रविशोधनम्। 

रेचकेन रेचयेद् विश्वं प्रशान्तं शान्तमावहेत्।। 


इत्थं मृत्युकाले वायोरथवा बीजमन्त्रेभ्योऽन्यानि नेत्रकर्णमुखनासिकाप्रभृतीनि द्वाराणि पिधाय वायुवेगेन सार्धं चित्तमेव बीजस्थं विधाय ऊर्ध्वं प्रति अग्रेसार्य्य संक्रमणं क्रियते। चेच्छिद्रमन्यच्छिद्रेभ्यो निर्गच्छति तर्हि एवं मृत्युप्राप्तः साधको विभिन्नयोनिषु जन्मावाप्नोति। यथा च संवरोदयतन्त्रे-


उत्तमाधमभेदेन कथ्यते शृणु गुह्यक। 

नाभिः कामिकस्वर्गस्य बिन्दुना रूपदेहिनः।। 


ऊर्ध्वेनारूपधातुश्च शुभं तद्गतिभेदितम्। 

यक्षो भवति नासाभ्यां कर्णाभ्यां किन्नरस्तथा।। 


चक्षुर्भ्यां यदि गते देवि नरराजो भविष्यति। 

वक्त्रद्वारञ्च प्रेतानां मूत्रेण तिर्यचस्तथा।। 


अपाने नरकं यान्ति मोक्षाणां गतिरन्यथा। 

उतिक्रान्तिकालसम्प्राप्तमकाले देवघातनम् ।। 


अतो जीवनकाले साधकः स्वयमिष्टदेवं भावयित्वा वायुयोगेन सार्धं चित्तं ह्रीं इति बीजे संस्थाप्य तदुच्चारयन् मध्यमानाडीतः उष्णीषपर्यन्तं, पुनश्च 'क' इत्याकारे 'क' इत्युच्चारयन् हृदये नाडीचक्रमधः पर्यन्तमानीय स्थिरत्वं विदध्यात्। अयमेव संक्रमणस्य साधनाविधिः। 


साधकश्चित्तोत्क्रान्तौ दाक्ष्यमवाप्नुयात्तर्हि परकायेऽपि प्रवेष्टुमर्हत्ययम् जनान्तरस्य स्थूलशरीरे मृते सत्यपि चेत्तस्य आभ्यन्तरीयत्रिज्ञानं नष्टं न स्यात्तर्हि स्वसाधनाबलेन मृतकस्य चित्तं शुद्धक्षेत्रादिषु संक्रमयितुमर्हति। अत एवं साधकः इमां भावनां विनैव मोक्षमार्गं प्रत्यपादयत्। यतश्च मृतकस्य सूक्ष्मशरीरं सुखावतीप्रभृतिक्षेत्रेषु जन्मावाप्य ततः सम्यक्सम्बोधिमवाप्नोति। अत एव परार्थसाध्यमार्गोऽपि अभिहितोऽयम्। इत्थं नाडपादस्यायं षड्धर्मयोगः यद्यपि सर्वानुत्तरतन्त्राणां सारभूतस्थापि षड्योगसाधनायाः प्रमुखः आधारः चण्डालीयोग एवास्ति। अतोऽत्र मातृतन्त्रसाधनायमिदं प्रत्यपादि। 


अद्वयतन्त्रस्य ( कालचक्रस्य ) निष्पन्नक्रमसाधनाविधिः 


षडङ्गयोगस्य सामान्यपरिचयः 


सामान्यतः कालचक्र-निष्पन्नक्रमस्याधारोऽप्यन्यानुत्तरतन्त्रवद् वज्रदेह एवास्ति। नाडीषु प्रधानीभूता ललनारसनावधूतास्तिस्रः सूर्यचन्द्रराहु नाम्ना परिचीयन्ते। जलाग्न्याकाशेति त्रयं धातुमयम्। यच्च शुक्लरक्तश्यामवर्णेषु शुक्ररक्तवायूनां संचारं कुरूते। अत्र षट्चक्रवर्णनं लभ्यते। उष्णीषे चतुर्दलं नाडिचक्रं, ललाटे च षोडश दलानि कण्ठे द्वात्रिंशद् दलानि, हृदये अष्टदलं नाभौ चतुष्षष्टिफ़लानि गुह्यस्थानेषु च द्वात्रिंशद् नाडीदलचक्राणि वर्णितानि। 


काल्चक्रसाधना चतुःसेवया षडङ्गयोगपद्धत्या वा विधीयते। काल्चक्रे-


सेवा पञ्चामृताद्यैर्जलनिधिकुलिशैर्मन्त्रजापादिभिश्च। 

प्रत्याहारादिभिः स्यात् कुलिशकमलजेनामृतेनोपसिद्धिः। 

आनन्दाद्यैस्त्रिवज्राब्जसमरसगता भावना साधनं स्यात्। 

प्रग़्यासंग़्येऽच्युतं यद् भवति खलु महासाधनं सूक्ष्मयोगात्।। 


निष्पन्नक्रमसाधना षडङ्गयोगे  नियताऽस्ति यतो हि प्राप्यपदनि-कायवज्रवाग्-वज्रचित्तवज्राणि त्रीणि। प्रत्याहारः समाधिश्च यस्य कायस्य सिद्धिर्नाभूत् तस्य लक्षणानुव्यङ्जनैः सिद्धिं कारयति। प्राणायामधारणाभ्यां वाङ्मूलकारणीभूतं वायु-मधिकृत्य साधकः सर्वज्ञवाचं षष्टिब्रह्यस्वरं वा निष्पादयति। इत्थं योगस्य प्रत्यङ्गद्वयेन कायवज्र-वाग्वज्रचित्तवज्राण्युपलभ्यन्ते। आचार्यचोङ्खापामहोदयः षडङ्गयोगक्रमविधिं सुस्पष्टयन् अकथयत् फ़लमहासुखशून्यताभिन्नाद्वयरूपप्राप्तिः सजातीयहेतुनैव क्रियते, न तु विजातीयेन। अतः स्वतः शून्यरूपेणाभासितेष्टदेवस्य मातृपितृयुगनद्ध-रूपेण प्रकटितमातृदेवस्यानुरागपूर्णे स्वचित्ते स्थितिरेवाक्षारसुखप्राप्तिर्ध्यानयोगो वाऽस्ति। अनुस्मृतिसाधनाकाले चण्डाल्या बोधिचित्तं निगीर्य उष्णीषन्मणि-चक्रपर्यन्तं प्राप्त्या चतुरानन्दप्राप्तिर्भवति। एतदत्र चतुर्थाक्षरसुखसहजानन्द एव ध्यानमस्ति। तत्काले एव नाभौ चण्डाल्या प्रज्वलने योगी देवबिम्बं साक्षात्कुरूते तत्र चानुरागसुखमुत्पद्यते। अनुस्मृतिरियमेव। अनुस्मृत्युत्पत्यै धारणया मध्यमानाड्यां वायुमचलत्वेन संस्थाप्य चण्डाली प्रज्वालनीया। एवं वयोर्मध्यमानाड्या-मवस्थितिरेव धारणाऽभिधीयते। धारणावस्थाप्राप्त्यै प्राणायामेन ललनारसनयोः प्रवहन् वायुः मध्यमायां प्रवेष्टव्यो भवति, यश्च प्राणायामयोग इत्युच्यते। मध्यमानाड्याः परिचयः प्रत्याहारयोगविधिना अहर्निशि उदेष्यमाणैकादशलक्षणानां सिद्ध्यनन्तरमेव सम्भाव्यते। प्रत्याहारेणैकादशलक्षणेषु साक्षात्कृतेषु सत्सु समाधियोगेन तानि दार्द्यमवाप्नुवन्ति। इत्थं षडङ्गयोगक्रमो नियतोऽस्ति। कालचक्रे षडङ्गयोगक्रमः -


प्रत्याहारो दशानां विषयविष्ःअयिणामप्रवृत्तिः शरीरे। 

प्रज्ञा तर्को विचारो रतिरचलसुखं ध्यानमप्येकचित्तम्।

प्राणायामो द्विमार्गः स्खलनमपि भवेन्मध्यमे प्राणवेशो। 

बिन्दौ प्राणप्रवेशो ह्युभयगतिहतो धारणा चैकचित्तम्। 


चण्डाल्यालोकनं यद् भवति खलु तनौ चाम्बरेऽनुस्मृतिः स्यात् प्रज्ञोपायात्मकेनाक्षरणसुखवशाज्ज्ञानबिम्बे समाधिः। 

एतन्मृद्वादिभेदैस्त्रिविधमपि भवेत् साधनं विश्वभर्त्तुस्तिस्रो मुद्रास्त्रिमात्रास्त्रिविधगतिवशात् कर्मसंकल्पदिव्याः।। 


षडञ्गयोगस्य विशिष्टः परिचयः 


पूर्वमत्र षडङ्गयोगविधिः संक्षेपेण विवेचितोऽधुना च तद्विशिष्टः परिचयोऽत्र यथाक्रमं प्रस्तूयते। 


प्रत्याहारः 


अयम् अर्थस्वरूप-साधनाविधिफ़लाख्ये भागचतुष्टये विभक्तः। पृथग्जानां चक्षुरादिविज्ञानानि स्वस्वेन्द्रियद्वारैः रूपगन्धरसादिविषयेषु प्रवर्तन्ते यथा च मधुमक्षिकाः पुष्परसमनुभवन्ति। प्रत्याहारस्य 'प्रति' इत्येव शब्दः एकादशस्वर्थेषु प्रयुज्यते। परञ्चात्र निषेधार्थक एव। आहारशब्दस्तु त्यागार्थकः। पञ्चेन्द्रियाणां पञ्चविषयेभ्यः सम्बन्धं विच्छिद्य विज्ञाने तत्संहृत्य ज्ञानस्वभावात्मकपञ्चेन्द्रियाणां पञ्चप्रभास्वरस्वभावविषये प्रवेशीकरणमेव प्रत्याहारः। एतदभिप्रायोऽयं सामान्याभासं परिहाय ज्ञानाभासावस्थितिरेव प्रत्याहारोऽस्ति। 


गुह्यसमाजोत्तरतन्त्रे चोक्तम् 


दशानामिन्द्रियाणान्तु स्ववृत्तिस्थानान्तु सर्वतः। 

प्रत्याहारमिति प्रोक्तमाहारप्रतिपत्तये। 


वज्रपाणिः चक्रसंवरटीकायामाकाशलक्षणभावनामेव प्रत्याहारसाधनां प्रत्यपादीत्। 


निराभासस्य चित्तस्य स्थितिराकाशलक्षणा। 

आकाशभावनैवैषा, शून्यताभावना मता।। 


एतभ्यासाद् निर्विकल्पवायोर्मध्यमायां संग्रहस्य सामर्थ्यमायाति। 


साधनाविधिः 


कालचक्रतन्त्रे प्रत्याहारो जिनेन्द्रो भवति दशविधः 


एवं च -


प्रत्याहारो दशानां विषयविषयिणामप्रवृत्तिः शरीरे।

प्रत्याहारेण योगी विषयविरहितोऽधिष्ठ्यते सर्वमन्त्रैः 


इत्यादिवचोभिः प्रत्याहारसाधनाविधिः प्रत्यपाद्यत। संक्षेपेण विषयविषयिणोः रूपग्रहणादिसम्बन्धं विच्छिद्य चित्तस्य शून्यतायां प्रवर्तनमेव प्रत्याहारसाधना। यथा -


नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन। 

द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते।। 


एतद्वचनानुसारम् अपनेयप्रक्षेप्तव्याभ्यां राहित्यं सद् चित्ते यथाभूतस्थितिरेव प्रत्याहारसाधना। यथाऽथवा जनः स्वरूपमेवादर्शे पश्यति तथैव स्वचित्तरूप्यादर्शे इष्टदेवरूपं ध्यात्वा चित्तस्य बाह्यविषयप्रवर्तनादवरोधावस्थितिरेव प्रत्याहारसाधना। उक्तस्थितयोः क्रमशः रात्रेः धूमादिचत्वारः दिवसस्य च ज्वालादिषड्लक्षणानि प्रकटीभवन्ति। यथा कालचक्रे प्रतिपादितम्-


आकाशासक्तचित्तैरनिमिषनयनैर् वज्रमार्गं प्रविष्टैः 

शून्याद्धूमो मरीचिः प्रकटविमलखद्योत एव प्रदीपः।

ज्वालाचन्द्रार्कवज्राण्यपि परमकला दृश्यते बिन्दुकश्च 

तन्मध्ये बुद्धबिम्बं विषयविरहितानेकसम्भोगकायम्।। 


अत्रेदमपि प्रतिपादितं लक्षणमध्ये प्रतिबिम्बितः सम्भोगकायः किमपि बहिर्वस्तु नास्ति किन्तु स्वीयमेव चित्तम्। 


तस्यां सर्वज्ञबिम्बं पयसि रविरिवानाविलं विश्ववर्णम् 

सर्वाकारं स्वचित्तं विषयविरहितं नापरं चित्तमेव।। 


शून्यताया विषयादिलक्षणेषु प्रकटितेषु गुरूपदेशानुसारं देवप्रतिबिम्बं भाव्यते। एतेन च नाडीचक्रप्राणायामादीनि दार्द्यं प्राप्नुवन्ति अन्ते च क्रमशो बोधिचित्तमपि सुस्थिरं जायते तच्च महासुखाप्तिकारणं भवति। कालचक्रेऽप्युक्तम्-


शून्ये धूमादिमार्गं गुरूनियमवशाद् भावयेद् विश्वसीम्नो नाडीचक्रेषु तस्मात् स्थिरमपि कुरूते प्राणमापानवायुम्। 

पश्चादिन्दोर्निरोधं ग्रह इव कुरूते बोधिचित्तस्य योगी तस्माद्यत्किञ्चिदिष्टं कतिपयदिवसैः प्राप्यते जन्मनीह।। 


ध्यानम् 


आलम्बने चित्तस्थैर्य्यमेव ध्यानम्। ध्यानञ्च योगस्याधारभूतम्। एतत् सुदृदतया अन्याश्रिता योगा दृदीभवन्ति। प्रभास्वराभासितलक्षणेषु प्रज्ञाकल्पनाविवर्तरति-सुखात्मकैकाग्रतादीन्येव ध्यानस्य स्वरूपाणि। 


गुह्यसमाजोत्तरतन्त्रे चापि-


कल्पनं ध्यानमुच्येत तद्धयानं पञ्चधा भवेत्। 

वितर्कं च विचारं च , प्रीतिश्चैव सुखं तथा। 

चित्तस्यैकाग्रता चैव, पञ्चैते ध्यानसंग्रहाः।। 


कालचक्रेऽप्युक्तम्-


प्रज्ञा तर्को विचारो रतिरचलसुखं ध्यानमप्येकचित्तम्।। 


अर्थात् प्रभास्वरस्यैकादशलक्षणचिन्तनं प्रज्ञा। कल्पना भावान् गृह्णाति। अत्र च भावसंज्ञशून्यरूपलक्षणज्ञानं कल्पनाऽस्ति। शून्यस्वरूपलक्षणज्ञानस्य केवलं चित्तेन विचारणमेव नापितु तस्यानुभवोऽर्थात् विषयविषयिरहितनिश्चयात्म-कानुभवविधानमेव वितर्कः ( मीमांसा)। ध्यानानुप्राणिते सति बाह्यशरीरे आभ्यन्तरचित्ते च यः सुखानुभवः सा च प्रथमा रतिः ( प्रीतिः)। द्वितीयं सुखात्मकस्वरूपचित्तमेव ( अक्षरसुखं ) सुखमुच्यते। एतेन च प्रस्रब्धिर्लभ्यते। अत्र कालचक्रानुसारेण 'तन्मध्ये बुद्धबिम्बं विषयविरहितानेकसम्भोगकायम् ' एतेन च समाधेरसामान्यलक्षणभूतः सम्भोगकायः प्रादुर्भवति, पञ्चाभिज्ञादिज्ञानानि च प्राप्यन्ते। कालचक्रे-


पञ्चाभिज्ञानलाभी भवति नरपते ध्यानयोगेन शुधाः। 


प्राणायामः 


प्राणवायोरायामनिरोधादिकरणं विस्तारो वैव प्राणायामशब्दार्थः। प्राणवायोर्गत्यवरोधनेनामृतायुः ( दीर्घार्युः ) समवाप्यते सहैव च प्राणायामाद् महत्सुखमुपलभ्यते। 


कालचक्रे 


नागाद्यान् साधयित्वा प्रवरसुरनरा योगिना साधनीयाः। 

धूमाद्यान् साधयित्वा मरणभयकरा मध्यमा साधनीयाः।। 


प्राणाद्यान् साधयित्वा द्रवितशशधरा बिन्दवः साधनीयाः। 

सत्सौख्यं साधयित्वा सहजजिनतनुः सर्वगाः साधनीयाः।। 


प्रत्याहारेण समाधिना च शून्यतारूपिमहामुद्रायाः प्रतिभासनन्तरं प्राणायामेन मृत्युर्जीयते, वज्रदेहप्राप्तिश्च भवति। वज्रदेहे क्रमशः तिलकमधिकृत्य सहजसुखाप्तिरेव प्राणायामस्य मुख्यं प्रयोजनम्। वज्रदेहस्य दीर्घायुष्यस्य च प्राप्तिं बिना जीवनेऽस्मिन् परमपदमवाप्तुं न शक्यते। अतः पूर्वमपरिमितायुषः प्राप्तिर्विधेया। 


आदौ संरक्षणीया सकलजिनतनुर्मन्त्रिणां सिद्धिहेतोः 

कायाभावे न सिद्धिर्न च परमसुखं प्राप्यते जन्मनीह। 

तस्मात् कायार्थहेतोः प्रतिदिनसमये भावयेन्नाडियोगं 

काये सिद्धेऽन्यसिद्धिस्त्रिभुवननिलये किङ्करत्वं प्रयाति।। 


कायसंरक्षणार्थं प्राणायामानुष्ठानमावश्यकम्। कालचक्रेऽपि-


प्राणायामो द्विमार्गः स्खलनमपि भवेन्मध्यमे प्राणवेशः। 


वामदक्षिणयोर्ललनारसनयोर्मार्गो मध्यमामार्गे विलीयते। रसनायां प्रवहमानानां पृथ्व्याध्धातुनां पञ्चविषयाणां च विलीनत्वात् ते दशाकारा भवन्ति। सेकोद्देशटीकायाम्-


ललनापञ्चमण्डलधर्मिणो मध्यमाभिन्नाङ्गेन जप्तव्यः। 


कालचक्रे प्राणायामविधिः -


घ्राणे रन्ध्रद्वयेन त्वपि पिहितमुखे बाह्यवातः समस्तः 

प्राणेनाकृष्य वेगात् तडिदनलनिभो घट्टितोऽपानवायुः। 

कालेनाभ्यासयोगाद् व्रजति समरसं चन्द्रसूर्याग्निमध्ये 

अन्नाद्यं क्षुत्पिपासामपहरति तनौ चामरत्वं ददाति।। 


प्राणायामसाधनां पञ्चक्रमे चापि नागार्जुनः समाजोत्तरतन्त्रे 'चतुर्देवी परिपृच्छा व्याख्यातन्त्रे' वज्रमालादि तन्त्राणि समुद्धृत्य स्पष्टीकृतवान्। हेवज्रे संवरोदयतन्त्रे चापि प्राणायामसाधना विवेचिता। एतद्ग्रन्थाभिप्रायोऽयमेव यत् पञ्चप्रभामयवायून् द्वादशाङ्गुलाद् षोडशाङ्गुलपर्यन्तमाकृष्य नासिकाग्रे स्थापयेत्। नाभिक्षेत्रे श्वासस्थितौ सत्याम् अपनवायुं बलादुपरि समाकृष्य प्राणायामे चैकीकृत्य कुम्भकं विधेयम्। कुम्भकस्य दीर्घस्थितिरपेक्ष्यते। प्रश्वासो युगपद् न ग्राह्यः। किञ्चित् परित्यज्य तद्बन्धनं कार्य्यम्। पूर्णतः प्रश्वासपरित्यागात् कुम्भकं चिरकालं न स्थातुमर्हति। श्वासे ॐ कुम्भके च हूँ प्रश्वासे च आः इत्येतेषु चित्तमवधेयम्। अतः अं हूं आः इति प्राणायामस्याङ्गम्। क्वचित् कुम्भके आः प्रश्वासे हूं श्वासे च ॐ अथवा महामायातन्त्रे प्रश्वासे ॐ कुम्भके हूँ श्वासे च आः इत्येतेषु चित्तमवधेयं भवति। प्राणायामानुष्ठाने श्वासगतिः क्रमेण सूक्ष्मातिसूक्ष्मा जायते। श्वासप्रश्वासावधौ नासिकायां लघुवस्त्रस्थापनेन हस्तस्थापनेन वा स्वालम्बने स्मृतिस्तिष्ठति। मालामन्त्रोच्चारमन्तरेणायं विधिरप्युच्यते। 


सामान्यावस्थायामपि श्वासस्तीव्रतया ग्राह्यः प्रश्वासस्तु मन्दतयैव। प्राणायाम-साधनाविधिः कालचक्रे इत्थं सुस्पष्टीकृतोऽस्ति -


दृष्टे बिम्बे प्रकुर्यात् प्रतिदिनसमये प्राणवायोर्निरोधं 

यावद्वै भ्राम्यमाणं स्वतनुपरिवृतं दृश्यते रश्मिचक्रम्। 


षण्मासैः स्पर्शहीनं व्रजति समसुखं मार्गचित्तं यतीनां 

रागारागान्तमाद्यं क्षणमपि च विभोर्वधते श्वाससंख्यम्।। 


प्रत्याहारेण समाधिना च देवरूपप्रतिबिम्बनानन्तरं प्राणायामाभ्यासस्तावद् विधेयो यावच्च स्वशरीरान्तः प्रभामयं वायुचक्रं परिभ्रमत् सन्दृष्टं न स्यात्। एतदभ्यासेन प्राणायाममेलनेन चाग्नेरूत्पत्तिः सम्पूर्णे शरीरे सूक्ष्मनाडीनां तत्र च संचरितस्य वायोः शुक्रशोणितादीनां च सुस्पष्टं दर्शनं जायते। एवमाभासोद्भवानन्तरं षण्मासपर्यन्तं प्राणायामानुष्ठानेन शुक्रशोणितादीनि सुस्पष्टानि दृश्यन्ते , एतेन च शुक्रस्खलनमवरूध्यते। तदनु च इन्द्रियद्वयालिङ्गनं विनैव योगी अक्षरमहासुखमार्गेण शून्यतारूपेण प्रवेष्टुमर्हति। कालचक्रतन्त्रे-निगदितम्-


या शक्तिर्नाभिमध्याद् व्रजति परपदं द्वादशान्तं कलान्तं सा नाभौ संनिरूद्धा तडिदनलनिभा दण्डरूपोत्थिता च। 

चकाच्चक्रान्तरं वै मृदुलालितगतिश्चालिता मध्यानाड्यां यावच्चोष्णीषरन्ध्रे स्पृशति हठतया सूचिवद् बाह्यचर्म।। 


आपानं तत्र काले परमहठतया प्रेरयेदूर्ध्वमार्गे। 

उष्णीषं भेदयित्वा व्रजति वरपुरं वायुयुग्मे निरूद्धे।। 


एवं वज्रप्रभेदान्मनसि सविषयात् खेचरत्वं प्रयाति। 

पञ्चाभिज्ञास्वभावा भवति पुनरियं योगिनां विश्वमाता।। 


शक्तिरर्थात् प्राणवायुः पृथ्विधातुतः द्वादशाङ्गुलात्मके विस्तारे जलं ( धातुतः ) त्रयोदशाङ्गुलविस्तारे अग्निधातुः चतुर्दशाङ्गुलात्मके विस्तारे वायुधातुतः पञ्चदशाङ्गुलात्मकविस्तारे आकाशधातुश्च षोडशोङ्गुलमात्रं विस्तारे हुङ्कारस्वरूपं स्वनासिकामाध्यमेन ललनारसनयोः सकाशात् वहतोः प्राणापानयोर्मध्यमायां प्रविष्टयोः विद्युदिव निर्मला भवन्ति, नाभिचक्रात् क्रमशो हठयोगेन ऊर्ध्वगतिं कुर्वाणाः सर्वनाडीग्रन्थीन् संभेद्य उष्णीषपर्यन्तं प्राप्नुवन्ति। ततो बहिर्निर्गत्य साधकः परकायप्रवेश-खेचरादिशुद्धभूमिगमनप्रभृतिसिद्धीन् प्राप्तुमर्हति। नाडपादस्य षड्योगे एतत्संक्रमणोत्क्रमणत्वेन निगद्यते। ब्रह्यरन्ध्रं यावत् प्राप्त्यन्तरं साधकः पुनः महासुखं संस्राव्य अधोगतिं विदधानः मणिचक्रकेन्द्रं प्रविशति। कालचक्रतन्त्रे सुव्यक्तम् -


वातैः संघट्टमानैस्तडिदनलशिखा द्रावयेन्मूर्ध्नि चन्द्रं 

यो यो बिन्दुर्द्रुतोऽस्माद् गलहृदयगतो नाभिगुह्ये निरूद्धः। 


बिन्दोः स्पन्दद्रवं यत् कुलिशमणिगतं संनिरूद्धं ध्वजाग्रे 

प्रज्ञाज्ञानक्षणं तद् यदि ददति सुखं बिन्दुमालाच्युतेन।। 


ऊर्ध्वाधोगतयोरयं विधिरन्यग्रन्थेषु आनन्दचतुष्टयस्य क्षणचतुष्टयस्य च संज्ञयोपकृतोऽस्ति। ब्रह्यरन्ध्रात् प्राणवायुं बहिर्निष्कास्य साधको मृत्युमपि प्राप्तुमर्हति। अतस्तेनाधोगत्यूर्ध्वगत्योर्निरन्तरं अभ्यासो विधेयः। मातृतन्त्रे चण्डाली-साधनाविधिरयमेव। कालचक्रे-


प्रणायामः समन्तात् समसुखफ़लदो मस्तके यावदिष्टस्तस्मादूर्ध्वं ह्यनिष्टो मरणभयकरः स्कन्धनिर्नाशहेतुः।

उष्णीषं भेदयित्वा परमसुखपदे यो व्रजन् वै नियोज्यः स्कन्धाभावेऽपि योगी विशति समसुखं किन्तु लोके प्रसिद्धः।। 


मुद्रासेवनयापि साधनेयमनुष्ठीयते। विषयेऽस्मिन्नपि तत्रैव-


मध्ये प्राणप्रवेशः सरविशशिगतेर्बन्धनं सव्यवामे चित्तं मुद्राप्रसङ्गे परमसुखगतं वज्रसम्बोधनं च। 

पद्ये वज्रध्वनिर्वा स्वकरसलिलजोल्लालनं सौख्यहेतोर् बीजात्यागः ससौख्यौ मरणभयहरः श्रीगुरोर्वक्त्रमेतत्।। 


प्राणायामे सिद्धे सति बोधिसत्त्वैः साधकः पूजयिष्यते। बुद्धैर्व्याकृतः सन् महासिद्धिं लपस्यते। अत्र बोधिसत्त्वपदस्य नीतार्थः इन्द्रियाणि, अर्थात् देवचक्षुर्दिव्य-कर्णप्रभृतीनां सिद्धिः सम्पत्स्यते। कालचक्रे विषयेऽस्मिन्नपि-


तस्मान्निः स्पन्दसौख्यं क्षणमिह सहजं धर्मधातुर्ददाति। 

प्राणेनाकृष्य सर्वान् रसगतिषु गतान् क्लेशमारान् निहत्य। 

ऋद्धिं सर्वज्ञभूमिं त्रिभुवनगुरूतां योगिनां जन्मनीह। 

मृत्युं मार्गप्रविष्टो व्रजति यदि तदा तद्ग्रहादन्यजात्या।। 


धारणा 


यद्यपि धारणाशब्दो ग्राह्यग्राहकोभयार्थयोः प्रयुज्यते। परञ्चात्र धारणाभिप्रायः प्राणवायुतिलकयोर्बोधिचित्ते स्थिरीकरणम्। समान्यतः पञ्चसु चाथवा षड्नाडी-चक्रेषु वामदक्षिणयोः उपर्यधश्च प्रवहद्वायोः मध्यानाड्यां स्थिते तिलकेऽवस्थितिर्हि धारणाख्यं योगाङ्गमस्ति। वस्तुतो विशेषाभ्यासेन ललाटचक्रस्थतिलके प्राणस्थितिकरणमेव धारणा। 


सेकोद्देशटीकायमपि -


स्वमन्त्रं हृदये ध्यात्वा प्राणबिन्दुगते न्यसेत्। 

निरूद्धमतीन्द्रियं रत्नं धारयेद् धारणं स्मृतम्।। 


प्राणापानयोर्नाभिचक्रे संमिश्रणं यावत् हृदयद्यन्यचक्रेषु कुम्भकभावना न सम्भावय्ते। अतः प्राणायामद्वारा नाभिक्षेत्रे प्राणापानमेलनेन गुह्यलक्षणानामाविर्भावानन्तरमेव धारणा साधनीया। प्राणायामेन क्रमशः नाभिचक्रहृदयचक्रकण्ठचक्रेषु वायुं गमनागमनविरहितं कृत्वा ललाटस्थतिलके तद् विलयकरणमेव धारणा। 


कालचक्रतन्त्रेऽप्युक्तम्-


कृत्वा पर्यङ्कबन्धं विकसितवदनोऽन्योन्यदन्तं स्पृशेन्न आकृष्टो बाह्यवातस्तदमृतशैतो नाभिमध्ये प्रविष्टः। 

संतापं क्षुत्पिपासां हरति वरतनौ संनिरूद्धो विषं च श्वेतो बिन्दुर्ललाटे स्वपरिकरितो मुञ्चमानोऽमृतं च।। 


गुह्यसमाजोत्तरतन्त्रे चाप्युक्तम्-


स्वमन्त्रं हृदये ध्यात्वा प्राणबिन्दुगतं न्यसेत्। 

निरूद्ध्य चेन्द्रियरत्नं धारयन् धारणं स्मृतम्।। 


अनुस्मृतिः 


प्रत्याहाराङ्गद्वारा भावितं शून्यरूपं ध्यानाङ्गेन परिपोष्यते। प्राणायामेन नाडी-वायुतिलकानि नियन्त्र्य धारणया तिलकं मध्यमायां स्थिरीक्रियते। प्रत्याहारध्यानाभ्यां दृदीकृतं शून्यरूपमाकाशवद् तदनुस्मृतिकरणमेव अनुस्मृत्याख्यं योगाङ्गमास्ते। गुह्यसमाजोत्तरतन्त्रे-


विभाव्य यदनुस्मृत्या तदाकारं तु संस्मरेत्। 

अनुस्मृतिरियं ज्ञेया प्रतिभासोऽत्र जायते।। 


सेकोद्देशटीकायामपि मतमिदं सुस्पष्टीकृतम्- प्रत्याहारध्यानाभ्यां स्थिरी-कृत-त्रिधातुप्रतिभासात्मकसंवृतिसत्यस्य संस्फ़रणमर्थात् तस्य निखिलाकाशे व्याप्ति-विधानमेवानुस्मृतिः। बुस्तोनः अनुस्मृतिलक्षणं सुस्पष्टयन् अकथयत्- धारणाङ्गस्य साधनाबलेन नाभिक्षेत्रे चण्डालीं प्रज्वाल्य चण्डालीस्वभावे प्रतिबिम्बसदृश-निर्विकल्पत्रिधातुकात्मकस्वेष्टदेवस्य आभासस्थितिरेवानुस्मृतिः। 


काल्चक्रतन्त्रे चापि-


चण्डाल्यालोकनं यद् भवति खलु तनौ चाम्बरेऽनुस्मृतिः स्यात्। 


साधकस्येन्द्रियाणाम्मृदुमध्यमोत्तमभेदेनं भेदत्रयम्। सुमेरोः कणसदृशानन्त-महामुद्राभिः साकं समाहितत्वविधायकः उत्तमः ज्ञानात्मकमहामुद्रया सह मध्यमः कर्ममहामुद्रया सह समाहितः साधकश्च मृदुरस्ति। कालचक्रेऽपि -


एतन्मृद्वादिभेदैस्त्रिविधमपि भवेत् साधनं विश्वभर्तुस्। 

तिस्रो मुद्रास्त्रिमात्रास्त्रिविधगतिवशात् कर्मसंकल्पदिव्याः।। 


साधनास्थलं कालचक्रे इत्थं सुस्पष्टीकृतम् -


एता मुद्राश्चतस्रोऽक्षरसुखफ़लदा योगिना भावनीयाः।

सर्वस्मिन् सर्वकालं सुरतरतिगतैर्लोकमार्गः प्रयुक्तः। 

ग्रामारण्यश्मशानेऽशुचिशुचिनिलये वेश्मदेवालये च। 

वर्णावर्णाभिचारैस्तनुबलसुखदैरन्नपानादिभोगैः।। 


सामान्यतो यथा प्रत्याहाराङ्गेन कायवज्रसाधना विधीयते, ध्यानाङ्गेन तत्र दृदता प्राप्यते, प्राणायामेन च वायुं नियन्त्र्य वाग्वज्रसाधना क्रियते धारणया च तत्र दार्द्यं सम्पाद्यते तथैवानुस्मृत्या चित्तवज्रः साध्यते समाधिना च तद् दार्द्यं प्राप्य परमपदमवाप्यते। 


कालचक्रे पितृतन्त्रमातृतन्त्राभ्यां भिन्नं उष्णीषकण्ठहृदयेषु नाडीचक्रे च पृथक् पृथक् चतुर्बिन्दूनामस्तित्वमुररीकृतम्। एते बिन्दवः जाग्रदादिचतुरवस्थासु वायुना स्पन्दिताः सन्तः नानाभ्रमान् जनयन्ति। यथा जाग्रदवस्थायां ऊर्ध्वभागीयाः सर्ववायवः उष्णीषचक्रे, अधोभागीयाः सर्ववायवश्च नाभिचक्रे संगृह्यन्ते, विभिन्नाभासमात्रं भ्रान्त्याभासं चोत्पादयन्ति। स्वप्नावस्थायामपि ऊर्ध्ववायवः कण्ठचक्रे अधोभागीयाश्च गुह्येन्द्रिये संगृहीताः शब्दमात्रं वाग्भ्रान्तिं चोत्पादयन्ति। सुषुप्तौ ऊर्ध्वभागीयाः सर्ववायवः हृदयचक्रे अधोभागीयाश्च मणिचक्रे एकत्रीभूय निर्विकल्पा अस्फ़ुटाः सन्तो भ्रान्तिमुत्पादयन्ति। पुरूषस्त्रियोः समापत्यवस्थायाम् ऊर्ध्वभागीयाः सर्ववायवो नाभिचक्रे अधोवायवश्च गुह्येन्द्रियाग्रभागे संगृहीताः सुखानुभूतिं स्रावं चोत्पादयन्ति। एतत्परिशुद्ध्यैवाभासमात्रं शब्दमात्रं निर्विकल्पमात्रं सुखानुभूतीनां विस्तारेण क्रमशः कायवाक्चित्तानि ज्ञानवज्रश्च प्राप्यन्ते। अनुस्मृसाधना कर्ममुद्रा-ज्ञानमुद्रा-मुहामुद्राभिः सह समाहितत्वं विधाय चण्डालीयोगेनानुष्ठीयते। 


कालचक्रे-


वातैः संघट्टमानैस्तडिदनलशिखा द्रावयेन्मूर्ध्नि चक्रं यो यो बिन्दुर्द्रुतोऽस्माद् गलहृदयगतो नाभिगुह्ये निरूद्धः। 

बिन्दोः स्पन्दद्रवं यत् कुलिशमणिगतं संनिरूद्धं ध्वजाग्रे प्रज्ञाज्ञानक्षणं तद्यदि ददति सुखं बिन्दुमालाच्युतेन।। 


वायोर्मध्यमानाड्यां प्रवेशेन चण्डाली प्रज्वलति। त्रिविधः साधकः स्वसामर्थ्यानुसारेण मुद्रया सार्धं समाहितो भवति, प्रत्याहारध्यानाभ्यां भावितेष्टदेवा-नुस्मृतिं कुर्वाणः तन्महासुखादभिन्नतां स्थापयित्वा ध्यानं कुरूते। चक्रचतुष्टये यदा क्रमशः तिलकम् अवतिष्ठते तदा आनन्दपरमानन्दविरमानन्दसहजानन्दाक्षरसुख-प्राप्तिर्भवति। त्रिविधेन साधकेन स्वक्षमतानुरूपम् अक्षरसुखप्राप्तिरेवानुस्मृतिसाधना-विधिरूच्यते। उत्तमः साधकः स्वप्रज्ञप्तिधातुकात्मकमहामुद्रया साकं समाहितः सन् अनुस्मृतिं भावयति। 


कालचक्रेऽप्युक्तम् -


न ध्यानं मन्त्रजापः करणमपि महामण्डलान्यासनानि। 

होमो मन्त्रप्रतिष्ठा रजसि जिनकुलावाहनं प्रेषणं च। 

मुद्रासिद्धिं ददाति प्रवरविभुसुखं सर्वमुद्राप्रसङ्गे। 

तस्मात् तद् भावनीयं प्रतिदिनसमये योगिना मोक्षहेतोः।। 


मूर्च्छां निद्रां प्रविष्टं भवति नरपते निःस्वभावं स्वचित्तं। 

जाग्रायां सस्वभावं प्रकटयति न तत् प्राणिनां मोक्षमार्गम्। 

भावाभावैर्विभिन्नं न हि समसुखदं योगिनां चित्तवज्रम्। 

स्वप्रज्ञालिङ्गितं यत् सहजसुखगतं मोक्षदं तत् स्वचित्तम्।। 


सर्वविधकृत्रिमोपायान् परित्यज्य सहजसुखस्वरूपचित्तात्मकेष्टदेवं त्रिधातु-कायात्मकस्वप्रज्ञया आलिङ्ग्य चतुरानन्दानुभवं यः कुरूते, तस्योत्तमसाधकस्य स साधनाविधिः। मध्येन्द्रियः साधकः कालचक्रयुगनद्धदेवरूपेण भावनाङ्कुरूते तथा च ज्ञानमयमातापित्रोर्ललाटे चन्द्रमसि श्वेतवर्णे, ॐ कण्ठे सूर्योपरि रक्तवर्णे 'आः' चित्ते च राहोरूपरि कृष्णवर्णे हं नाभौ अग्नौ पीतवर्णे हो गुह्येन्द्रिये ज्ञानोपरि नीलवर्णे 'स्वा' शीर्षे चाकाशोपरि श्यामवर्णे 'हा' इत्यक्षराणि न्यस्ति। मध्येन्द्रिय- साधकस्यानुस्मृतिसाधनेयमेव। अधमेन्द्रियः साधकः चण्डालीयोगेन आनन्दचतुष्टयं साक्षात्कृत्य महासुखं चानुभूय तद्दार्द्यमवाप्तुमसमर्थोऽस्ति, अतस्तेन कर्ममुद्रा सेव्या भवति। 


कालचक्रे समुक्तम्-


सेव्याऽऽदौ कर्ममुद्रा जिनसहजसुखस्यास्य वृद्ध्यर्थहेतोः। 

मध्ये प्राणप्रवेशः सरविशशिगतेर्बन्धनं सव्यवामे चित्तं मुद्राप्रसङ्गे परमसुखगतं वज्रसम्बोधनं च। 

पद्ये वज्रध्वनिर्वा स्वकरसलिलजोल्लालनं सौख्यहेतोर् बीजात्यागः ससौख्यो मरणभयहरः श्रीगुरोर्वक्त्रमेतत्।। 


अतोऽयं साधकः कर्ममुद्रां संसेव्य वायुं च मध्यमामार्गे बद्ध्वा पुनर्मुद्रायोगेन आनन्दानुभूतिं प्राप्नोति। शुक्रं स्रवित्वा शिरसो ललाटपर्यन्तप्राप्तिरानन्दोऽस्ति। ललाटाच्च कण्ठं हृदयं च यावत्प्राप्तिः परमानन्दः ततश्च गुह्येन्द्रियं यावत् प्राप्तिर्विरमानन्दः तदग्रे च वज्रमणिपर्यन्तप्राप्तिः सहजानन्दोऽस्ति। तत्तत्स्थानेषु शुक्रगत्यवरोधनमेव महासुखप्राप्तिरर्थात् चित्तवज्रप्रातिसाधना वर्तते। 


समाधिः 


समस्थितिरेवं समधारणमेव समाधिः। ग्राह्यग्राहकविरहितविषयविषय्यभिन्न-स्वभावे अवस्थितिरेव समाध्यर्थः। समाधिभावना-प्रयोजनं महासुखविस्तारः। विपाककायं च धर्मधातौ परिशोध्य विषयविषय्यद्वयज्ञानकायस्य प्राप्तिकरणम्। प्रज्ञामहासुखस्य सर्वाकारवरोपेतज्ञानस्य च द्वैताभासरहितयुगनद्धानुभूतिरेव समाधेः स्वरूपम्। गुह्यसमाजोत्तरतन्त्रे चोक्तम्-


प्रज्ञोपायसमापत्या सर्वभावान् समासतः। 

संहृत्य पिण्डयोगेन बिम्बमध्ये विभावनम्। 

ज़्हटिति ज्ञाननिष्पत्तिः समाधिरिति संज्ञितः।। 


समाध्यनुस्मृतिभ्यां साक्षात्कृताक्षरसुखविस्तारो दृदताप्राप्तिश्च जायते। अतोऽनुस्मृतेः साधकानां भेदत्रयमिव समाधेरपि भेदत्रयं भवति। साधकः कर्ममुद्रा-ज्ञानमुद्रा-महामुद्राभिः सार्धं समापत्तौ स्थित्वा अनुस्मृतियोगेन साक्षात्कृताक्षर-सुखस्य विस्तारं लभते। यथा यथाक्षरसुखदृदताप्राप्तिस्तद्विस्तारश्च प्राप्यते तथा तथा सूक्ष्मविकल्पानां क्षयो जायते, अन्ते च साधकः अद्वयमाप्नोति। अस्मादेव चाशुद्धतिलकं क्षीयते विपाककायस्य च परिशुद्ध्या इदमेवं शरीरं इष्टदेवकालचक्रे ज्ञानमये परिवर्तते। समाधेः षडङ्गयोगस्य चेदमेव फ़लम्। समाधिरप्य्नुस्मृतिरिव त्रिविधा। अत्रापि कर्ममुद्रां संसेव्य ज्ञानमुद्रां च संसेव्य महामुद्रायां समाहित्य साधना क्रियते। अनुस्मृत्या यन्महासुखं साधकः प्राप्नोति तत्र समाधियोगेन दृदता प्राप्यते। कर्ममुद्रासेवनेन समाधिसाधनाविषये उत्तरकालचक्रे प्रतिपादितम्-


वर्षार्धे श्वेतकुष्ठं हरति वरतनौ मन्त्रिणां किं तदन्यत् प्रज्ञासङ्गे स्वचित्तं स्खलितमपि सदा प्राणवायोर्निरोधात्। 

सप्तयब्दां जरां वै हरति सपलितां चार्धवर्षप्रपूर्णे ( च द्विवर्षप्रपूर्णे ) मुद्रासिद्धिस्तदूर्ध्वं भवति कतिदिनैर्मार्गचित्तप्रसङ्गात्।। 


ज्ञानमुद्रासेवनस्य साधना साधनापटले इत्थं वर्णिता-


मुद्रा मायानुरूपा मनसि च गगने रूपवद् दर्पणे च त्रैलोक्यं भासयन्ती तडिदनिलनिभानेकरश्मीन् स्फ़ुरन्ती। 

बाह्ये देहेष्वभिन्ना विषयविरहिता मासमात्राम्बरस्था चित्तं चेतोमयाल्लिङ्गयति च जगतोऽनेकरूपस्य सैका।। 


महामुद्रया  साकं साधनाविधिरपि तत्रैवोपदिष्ट-


त्यक्त्वेमां कर्ममुद्रासकलुषहृदयां कल्पितां ज्ञानमुद्रां सम्यक्सम्बोधिहेतोर्जिनवरजननीं भावयेद् दिव्यमुद्राम्। 

निर्लेपां निर्विकारां खसमहततमां व्यापिनीं योगगम्यां कूटस्थां ज्ञातेजां भवकलुषहरां कालचक्रानुविद्धाम्।। 


समाध्यङ्गसाधनाविधिरनुस्मृतिसदृश एव। एतद् वैशिष्ट्यं यदत्रानुस्मृत्यङ्गेन परिज्ञाते युगनद्धतत्वे दृदता प्राप्तव्या। गुह्यसमाजे चाप्युक्तम् -


समाधिवासितामात्रे निरावरणवान् भवेत्। 


इत्थं षडङ्गयोगस्याङ्गत्रयं कायवाक्चित्तानि वज्रदेहं च प्रापयति। अङ्गत्रयञ्च तद्दार्द्य प्रापयति। शरीरेऽस्मिन् अद्वयतन्त्रसाधकः युगनद्धकालचक्रे परिणतः सन् परमपदे अवतिष्ठते। अमुमेवाद्वयतत्त्वसाधनाविधिमाधारीकृत्य वर्णितम्। उपर्युक्त-प्रमाणैरिदं स्पष्टं यत् बुस्तोनेन स्वयोगविधिसमर्थने कालचक्रतन्त्र-समाजोत्तरतन्त्र-सेकोद्देशटीकाश्च सर्वत्रोद्धृताः सन्ति। इत्थमत्र प्रधानतः बुस्तोन द्वारा प्रतिपादितं षडङ्गयोगविधिमाधारीकृत्य वर्णितम्। एतद्विस्तरस्तु कालचक्रटीकाविमलप्रभायाः साधनापटले ज्ञानपटले च व्यधीयत। 


षष्ठः परिच्छेदः 


अद्वयतन्त्रस्य विशिष्टं भोटपरम्पराद्वयम् 


( १ ) शमकपरम्परा 


एतत्परम्परायाः साधनापद्धतेः सूत्रपातः ः आर्यदेवेनाकारि, परञ्चास्याः प्रचारस्य श्रेयः सर्वप्रथमं दक्षिणभारतस्य विदर्भचरसिंहाख्यप्रान्तोत्पन्नस्य नरसिंहस्यैव ( जेदिम पाग्यगरवा ) जायते। अनेन चतुः पञ्चाशताधिकगुरूभ्यः शिक्षाऽलाभि। अयं च पञ्चशः तिब्बतं जगाम। १९६६ ख्रीष्टाब्दतः १९८७ ई० पर्यन्तं ( एकविंशतिवर्षाणि ) तिब्बतदेशे न्यवसत् तत्र चास्य धर्मप्रचारकेन्द्रं दीङ्रीप्रान्त एव। मृत्युकालेऽपि अयं दीङरीवासिनः सम्बोधयन् शतं श्लोकान् समुपादिशत्। यच्चातीव प्रेरणास्पदम्। 


शमकपरम्पराया द्वावाम्नायौ १. भारतीयशमकपरम्परा, २. भोटदेशीया योगिनीमचीगलबडोनपरम्परा। प्रथमा चात्रार्यदेवेनाधिष्ठिता। द्वितीया परम्परा योगिनीमचीगतः प्राचलत्। तिब्बतस्य लब्छीनामकस्थाने एतदुत्पन्नत्वात् स्वक्षेत्र-नाम्ना एतन्नाम लब्छीप्रदीपः ( मचीग लबडोन ) इत्यजायत। मचीगलबडोनः त्रयोविंशतिवर्षावस्थायां भारतस्य कोसलप्रदेशात् तिब्बतदेशं प्राप, आचार्यगुरूभद्रेण साकं विवाहितोऽभूत् यश्च बुद्धकपालसाधक आसीत्। अस्य विस्तृतः जीवन-परिचयः अष्टसप्ततिच्छेदकविवृत्तिनामके ग्रन्थे समुपलभ्यते। 


साधनाविधिः 


शमकपरम्पराऽऽधारग्रन्थः प्रज्ञापारमिताहृदयसूत्रम्। अत्र"तस्माद् ज्ञातव्यः प्रज्ञापारमितामहामन्त्रः विद्यामन्त्रः अनुत्तरमन्त्रः, असमसममन्त्रः सर्वदुःखप्रशमनमन्त्रः" इत्यस्मिन् प्रशमनशब्दस्यैव शमकपरम्परा सुस्थापिताऽभवत्। आर्यदेवः प्रज्ञापारमिताहृदयसूत्रमाधारीकृत्य पञ्चाशत्श्लोकेषु आर्यप्रज्ञापारमितोपदेशनामकारिकां विरचय्य शमकपरम्परां प्रचारयामास। अत्र च भावनाविधिविषये सुस्पष्टीकृतं- चक्षुरादीन्द्रियाणि बलाद् नावरोद्धव्यानि। विषये प्रत्यक्षप्रवृत्तिसदृशाग्रहं बिना निर्विकल्पस्वरूपेण स्थेयम्। अभिनिवेशरागद्वेषक्रोधादिमाराणां स्मृतिसम्प्रजन्य रूपिकुठारेण छेदनं कर्तव्यम्। प्रज्ञापारमिताप्राप्तिर्बहिर्न भवति सा तु भावाभावरहिता निर्लक्षणा प्रकृतिप्रभास्वरा स्वचित्तरूपैव। शून्यकाशो यावद्व्याप्तः तावदेव स्वचित्तं व्याप्य स्थापनीयम्। स्वचित्तस्य यथार्थ्यबोधे सति तत्तरङ्गरूपिरागद्वेषादिचैतसिकगुणानां प्रहाणस्यावश्यकता न भवति। ते च स्वयं निरूध्यन्ते। यथा प्राणेषु नाशितेषु सत्सु अन्येन्द्रियाणां नाशस्यावश्यकता न जायते। नामसङ्गीतावप्युक्तम्-


त्रिदुःखदुखशमनस्त्यन्तोऽनन्तस्त्रिमुक्तिगः। 

सर्वावरननिर्मुक्त आकाशसमतां गतः।। 


दुःखत्रयस्याभिघाताय शमनाय च निरावरणगगनसदृशे स्वचित्ते स्थेयम्। स्वरूपतः सकलजगतः आदितोऽनुत्पन्नप्रभास्वरस्वरूपत्वे सत्यपि अज्ञानरूपिवायुना भ्रमित्वा सत्त्वो दुःखभाग् भवति। अतः अज्ञानरूपिवायुप्रवाहं प्रभास्वरे विनिलीयाद्वयतत्त्वे समवस्थितिरेव शमकभावनायास्तत्त्वम्। योगिनीमचीगलबडोनः अचकथत् यच्छरीरं शवसमं मत्त्वा चित्तस्य निरावृत्तगगनसदृशस्थापनेनैव तत्त्वं साक्षात्क्रियते। 


शमकपरम्परायां तत्त्वसाधना पारमितानय-मन्त्रनय-सहजीयेतित्रितयपद्धत्या विधीयते। यथा बोधिसत्त्वमानिनः बोधिचित्तप्राबल्यं द्योतयन्ति तथा च तद्विचार-दृष्टि-व्यवहारादयो बोधिचित्तात् प्रेरिता भवन्ति, तथैव एतच्छमकपरम्परायामपि निर्द्वन्द्वनिर्विकल्पस्थितयोरावश्यकत्वं प्रेर्य्यते। साधनाङ्गे एते छेदकपद्धतिमनुसरन्ति। कश्च छेदकः ? छेदकाभिप्रायस्त्वात्मग्राहभेदनमर्थात् तत्परित्यागः। आत्मग्राह एव भवहेतुः। यतो ह्यहङ्कारभावनोदयेन सहसा मद्गृहमत्परिवारप्रभृत्यग्रहाणां विस्तारो भवति। तदर्थं विभिन्नकर्माणि कुरूते भवचक्रे च बध्यते। एतत्प्रतिपक्षे यत्र पारमितानये युक्तिप्रयोगेण निष्प्रपञ्चस्य प्रतिपादनं क्रियते तत्रैव मन्त्रनये स्थावरजङ्गमयोः रूपं परिवर्त्य उत्पत्तिनिष्पन्नक्रमौ भाव्येते। शमकपरम्परायाम् उभयपद्धत्योरनुशीलनं तु क्रियते, सहैव च स्वशरिरत्वचं स्वर्णदीपं हस्तापाद्याद्यङ्गानि जम्ब्वादिचतुर्द्वीपान् रूधिरम् अष्टगुणैर्युक्तं जलं मासं चाष्टमाङ्गलिकं चिह्नं पृष्ठास्थि सुमेरूपर्वतं चक्षुषी च सूर्यचन्द्रोपमे मत्त्वा भावनया एतान् सर्वानिष्टदेवाय समर्पयन्ति साधकाः। अनन्त-भवचक्रस्यैतत् शृङ्खलायाम् एवं कोऽपि प्राणी नावशिष्यते यः किञ्चिदयोनौ स्वयं मात्वं पित्वं च नालभत। सर्वेषां ऋणमस्मदुपरि भवति तत् ऋणराहितत्याय छेदक-परम्परासाधकः चेतनशरीरात् स्थूलशरीरमेतत् पृथक् कृत्वा प्राणिनामिच्छानुरूपं मांसरूधिरादीनास्रवानास्रवद्रव्येण भावयित्वा प्राणिभ्यः समर्पयति। छेदकपरम्परायाः साधकः श्मशानजलस्रोतो अन्यत्र वा गत्वा साधनाङ्कुरूते। शरीरं प्रत्यभिनिवेशस्य प्रहाणाय श्मशानं गत्वा स्वशरीरं मांसरूधिरयोः पिण्डरूपेण ध्यात्वा भूतप्रेतपिशाचादिभ्यः समर्पयति। सिद्धमिलारसपामहोदयः छेदकपरम्परां सुस्पष्टयन् कथयति-श्मशानैकान्तजलस्रोत आदिषु कृता साधना बाह्यछेदिका शरिराङ्गप्रत्यङ्गानां प्राणिभ्यो भोजनरूपेण समर्पणम्, आभ्यन्तरच्छेदिका साधना। आत्मग्राहस्य च समूलनाश एव परमार्थच्छेदकसाधनोच्यते। 


सारूपेणेदं वक्तुं शक्यं शत्रुर्बहिर्न भवति तत्तु स्वचित्तस्यैव शत्रुत्वम्। स्वान्तः विद्यमानरागद्वेषमोहादिकं प्रति शोभनाशोभनभावनैव मारः। तत्सर्वस्य नाशः सर्वस्य पूर्णतः ताटस्थ्येन निर्द्वन्द्वात्मकनिर्विकल्पात्मकतया दर्शनमेव सर्वसाधनानां लक्ष्यम्। शमकपरम्पराऽपि साधकम् एतद्दृष्टिं प्रति नयति। 


( २ ) ञिङ्मापरम्परा 


आर्यदेशं परित्यज्य श्रावकयान-प्रत्येकबुद्धयान्-बोधिसत्त्वयानानां ( पारमितायान-वज्रयान) अर्थात् बौद्धधर्मस्य सर्वयानानां विकासः चेत् कुत्रापि जातस्तर्हि स तिब्बतदेशे एव। तिब्बते सर्वप्रथमं बौद्धधर्मप्रवेशः सम्राट् स्रोङ्चनगोन्पोमहोदयस्य ( ६१५ ई ० ) समये समभूत्। परञ्चैकवर्षानन्तरं ग्लङ्परमा बुद्धशासनं व्यनाशयत्। तदा रत्नभद्रमरपाधर्ममत्यादयो नैके विद्यार्थिनः भारतवर्षमागत्य अध्ययनाध्यापनं च कृत्वा तत्र पुनः बौद्धधर्मं प्राचारयन्। इत्थं तिब्बतदेशे बौद्धधर्मस्य द्वे परम्परे प्रचलितेऽभूताम्। प्रथमपरम्परा पूर्वोदया ( ञिङ्मा) द्वितीया च परोदया ( सरमा) कथ्यते। द्वितीयपरम्परायां कर्ग्युदसाक्याकदमपागेलुगपानामकाश्चत्वारः सम्प्रदायाः व्यकसन्। 


पूर्वोदयसम्प्रदाये ( ञिङ्मा ) वज्रयानं प्रचारितम्। इत्थमनेके तन्त्रग्रन्थाः येषां केवलं ञिङ्मासम्प्रदाये प्रचलनमभवत् ये च ञिङ्माग्युदबुमनामके संग्रहे षट्चत्वारिंशद्ग्रन्थिषु ( ४६ ) समुपलभ्यन्ते। तेषु च सर्वधर्ममहाशान्ति-बोधिचित्त-कुलयराज-गर्भगुह्य- हेरूकलीलातन्त्र-ज्ञानगुह्यप्रदीपादीनां प्रामुख्यम्। कर्ग्युदसम्प्रदाये नैतेषां समावेशः। अतः ञिङ्मासम्प्रदायस्य तत्साहित्यस्य च परिचयप्रदानमावश्यकम्। 


सम्प्रदायेऽस्मिन् नैके सुविख्याता अनुवादका सिद्धपुरूषाश्च अभूवन्। विशेषेण अडियानेत्यस्याचार्यः पद्यसम्भवः महामहोपाध्यायः शान्तरक्षितश्च तिब्बतदेशीय-ठीस्रोङ्चनदेहुचन ( ८१५ ई ० ) राज्ञा तिब्बतदेशे समामन्त्रितौ। एतद्द्वयस्य मार्गदर्शने सम्राट् समयसनामकं विहारं निर्मितवान् अत्रैव च ( कंग्युर-तंग्युर) बुद्धवचनानि भोटभाषायामनूदितानि। शान्तरक्षितः यूनः प्रव्राज्य तिब्बतदेशे विनयशासनमकार्षीत्। आचार्यपद्यसम्भवः पञ्चविंशतिसंख्यकान् जेवङ ञेरङमहोदयादीन् वज्रयाने अभ्यषिंचत् ये चाग्रे सिद्धिमाप्नुवन्। तस्यामेव परम्परायां नैके साधका आचार्या गुप्तस्थानाद् धर्मशास्त्रग्रहीतारः अष्टोत्तरशतं सिद्धा आजग्मुः। एतदग्रे एतत्परम्परायां सर्वज्ञः लोडछेनपा समभूत्। अयं च सम्प्रदायमिममतिसमृद्धमकरोत्। विशेषेण साधनाप्राधान्यं प्रददातीयं परम्परा। तिब्बतदेशे सर्वाधिकाः सिद्धपुरूषाः एतस्मिन्नेव सम्प्रदाये समभवन्। 


ञिङ्मासम्प्रदाये नव यानानि मान्यानि - १. श्रावकयानम्, २. प्रत्येक-बुधयानम्, ३. बोधिसत्त्वयानं, ४. क्रियातन्त्रयानं, ५. उपाययानं, ६. योगतन्त्रयानं, ७.महायोगतन्त्रयानं, ८. अनुत्तरयोगतन्त्रयानं,९. अतियोगतन्त्रयानं च। अत्र संक्षेपेण एतानि यानानि विमृश्यन्ते येन च तिब्बतस्य एतत्प्राचीनपरम्परासाधना प्रकाशिता भवेत्। 


अत्रोक्तनवयानानां क्रमेण परिचयः प्रस्तूयते। समान्यतो यानशब्दार्थः आरोहणम्। अत्र प्रतिपादितानि यानानि क्रमशः अस्मान् ऊर्ध्वं नयन्ति। ततो यानमित्युच्यते। 


१. श्रावकयानम् 


धर्मात्मकौ ग्राह्यग्राहकौ परमार्थे निरूप्य स्वयं मोक्षप्राप्त्याशयेन अष्टविध-प्रातिमोक्षे एकप्रकारकं किमपि शीलं संगृह्य दुष्चर्यामपहाय समाधिना चित्तं कर्मयोग्यं विधाय चतुरार्यसत्यस्य षोडशाकारेण प्रज्ञाभावनया तत्साक्षात्कुरूते यस्तस्य फ़लरूपेण स्रोतापत्तेः अर्हत्पदप्राप्तिमार्गः श्रावकयानं निगद्यते। 


२. प्रत्येकबुद्धयानम् 


अत्र क्षणमात्रं विज्ञानं परमार्थे दृष्ट्वा षोडशाकारेषु चतुरार्यसत्यभावना श्रावयानेन समं विधीयते। परञ्चात्र तद्भावनया सार्धं गम्भीरप्रतीत्यसमुत्पादस्य समन्वयात्मिका भावना स्वपृथगेव वैशिष्ट्यमाधत्ते। इत्थं प्रत्येकबुद्धयाने फ़लरूपेण प्रत्येकबुद्धः अर्हत्पदं समवाप्य कायसंकेतैः धर्मं दिशति। 


३. बोधिसत्त्वयानम् 


एतद्यानस्य साधको निखिलधर्मेषु नैरात्म्यं निरूप्य परोपकारभावनायां दशपारमिताश्चतुःसंग्रहवस्तूनि च समाचर्य्य  निर्विकल्पसमाधिना शैक्षमार्गे सप्तत्रिंशद् (३७) बोधिपाक्षिकधर्मान् भावयित्वा अशैक्षमार्गमर्थात् समन्तप्रभाभूमिमवाप्नोति। 


४. क्रियातन्त्रयानम् 


एतत्साधकः कलशमुकुटाभिषेकात्परम् आत्मथतां परमार्थतः चतुष्कोटिरहितां विशुद्धां ज्ञात्वा देवतथातादिषट्तत्त्वैः स्वयं समयोत्पत्तिदेवस्य सम्मुखं ज्ञानदेवं समामन्त्र्य तत् स्वामिनः स्वयं च दासस्य रूपेण समालोकयति। शब्दचित्ताश्रयेषु प्रविश्य जपतथताम् अग्निस्थां, शब्दस्थां शब्दान्ततथतां च समाधौ भावयति। अयं प्राधान्येन बाह्यस्नानेन शुचिचर्यया च त्रिकुलवज्रधरभूमिं प्राप्नोति। 


५. उपाययानमर्थात् चर्यातन्त्रयानम् 


एतत्साधकः कलशमुकुटाभिषेकाभ्यां सह अष्टमङ्गलचिह्नं नामाभिषेकमपि गृह्णाति। दर्शनस्य ( योगतन्त्रस्य ) चर्यायाश्च ( क्रियातन्त्रस्य ) अनुसारेण आचार्य्य स्वयं समयोत्पत्तिदेवस्य सम्मुखं ज्ञानसत्त्वदेवे बन्धुं मित्रसमं मत्त्वा जपसमाधी च परिपोष्य चतुर्थकुलवज्रधरभूमिवाप्नोति। 


६. योगतन्त्रयानम् 


अत्र साधकः वज्रशिष्याभिषेकेण सहाचार्याभिषेकमपि गृह्णाति परमार्थतश्च अनिमित्तधर्मताधिष्ठानं संवृतिवज्रधातुदेवत्वेन दृष्ट्वा पञ्चाभिसम्बोधिभिः प्रतिहार्य्य-चतुष्टयेन च स्वयं देवभावनां विधाय ज्ञानसत्त्वदेवावाहनेन साकं तच्च स्वयमात्मनि विलीय चतुर्मुद्रायां बद्ध्वा पूजार्चनान्तरं विसर्जनं सम्पाद्य आन्तरिकसमाधि-चर्यायाः शुच्यादिबाह्यचर्यायाः सेवनेन फ़लरूपाकनिष्ठभूमौ परमपदं समवाप्नोति। 


७. महायोगतन्त्रयानम् 


एतदयानस्य साधकश्चतुर्विधाभिषेकेभ्यः संगृहीतानुशंसा-सामर्थ्यं गम्भीराभिषेकेणोपचित्य मौलदर्शने ( वास्तविकसाधनायां ) निखिलधर्मान् चित्तप्रभास्वर-शून्यताभिन्नमहाधर्मकाये बुद्ध्वा मार्गे उत्पत्तिक्रम-निष्पन्नक्रमयोर्गुह्याभिषेकं समवाप्य वायुतिलकस्य युगनद्धक्रमस्य चाभ्यासं कुर्वाणः एकस्मिन्नेव जन्मनि अनुत्तरबोधिं लभते। 


८. अतियोगतन्त्रयानम् 


साधकोऽत्र प्राधान्येन चतुर्थाभिषेकेणाभिषिच्यते। दर्शने समस्तभवान् निर्वाणधर्मांश्च आदिकालती बुद्धस्वभावे निरूप्य चित्तवर्गोपदेशनिहितचर्याश्च विदधाति। सर्वसाध्यनिषेधेभ्यः प्रहाणग्रहणेभ्यश्च उच्चतमः सन् स मार्गाचरणं कुर्वन् समन्तभद्रबुद्धपदमधिगच्छति। 


एतानि नव यानानि यदि मार्गावस्थान्तर्गतानि निर्धार्य्यन्ते तदा तु यानत्रय एव समाविशन्ति। १. हीनयानम् ( श्रावकयानम् ) , २. बोधिसत्त्वयानं, ३. मन्त्रयानं च। एतद् यानत्रयं अभिसमयस्योत्तरोत्तरवृद्ध्यै अपरिहार्य्यम्। एतद्विवरणमन्यत्र निरूपितम्। 


उपसंहारः 


वस्तुवादिविचारकानतिरिच्यान्यसर्वधर्मदर्शनानां विचारकाश्चेद् दार्शनिकानां ज़्हंज़्हावातेषु न निपतन्ति तर्हि तत्त्वविषये सर्वे स्थितिमेकां प्राप्नुवन्ति। यथा बौद्ध-विज्ञानवादिनः विश्वं स्वचित्तस्य विस्तारं मत्त्वा चित्तस्वरूपम्मन्यन्ते किमिदमेव चित्तं सृष्टिकर्तु नाभवत् ? माध्यमिकाः वस्तुतः सर्वतत्त्वानामेकातामङ्गीकुर्वन्ति किन्त-देव चित्तं सृष्टेराधारभूतं न सम्भाव्यते ? वज्रयाने तु स्वकाय एव सम्पूर्णब्रह्याण्डम्, चतुर्विंशातिपीठस्थानानां दशभूमीनां च व्यवस्थाऽपि एतस्मिन्नेव काये भवति यच्च स्वयमेव सृष्टिकारणं जायते। ईश्वरवादी हिन्दुर्वा क्रिश्चनः मुस्लिमो वा, सर्वेऽपि एतत् प्रभास्वरचित्तं यच्च चतुष्कोटिविनिर्मुक्तं निष्प्रपञ्चतत्त्वं वर्तते, तस्य भिन्ननामभिः एतस्यैव तत्त्वस्य व्याख्यां स्वपद्धत्या कुर्वन्ति। चित्तशमनावस्थायाम् अत्र कोऽपि भेदो न विधातुं शक्यते। तेनैव सर्वधर्मेषु सिद्धमहापुरूषाः समुपलभ्यन्ते इति दृश्यतेऽस्माभिः। 


अभिसमयालङ्कारे मैत्रेयनाथः प्रावोचत् -


नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन। 

द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते।। 


प्रत्येकं जनः स्वस्वयोग्यतया परिश्रमेण चोपलब्धविभिन्नतत्त्वानि निर्वहन् व्यवहारे ध्यानक्षेत्रे च श्लोकस्यास्यार्थानुसरणं विदध्यात्तर्हि सुखी भवितुमर्हति। जनः सुखी भवेत्तर्हि राष्ट्रं विश्वं चापि सुखि भवितुमर्हति। भविष्यं वर्तमानस्य फ़लं भवति। वर्तमाने शोभने सति भविष्यमपि समीचीनं भवति। नात्र संशितिलेशः चेज्जीवनमिदं सुखमयं एतत्क्रमश्च सुखमयो वर्तेत तह्र्यग्रे काऽवश्यकता निर्वाणस्य। 


आवश्यकं चेदमेव यदसीमितम् अखण्डम् अगोचरं च तत्त्वं, तत् स्वबुद्धिविषयं न कुर्यात् नापि च तत्र बाह्यव्यवस्थामाधारीकृत्य भेदं कुर्यात्। अखण्डतया समभावेन ताटस्थ्येन निर्विकल्पभावेन च प्रवर्तनादेव वज्रयानस्य वास्तविकं दर्शनं तत्त्वं च ज्ञातुं शक्यते, नान्यथा। वज्रयानीयपरम्परा विषयेऽस्मिन् चिरकालं प्रायतन्त प्रत्यक्षानुभूतिं चाकार्षुः। नैतावदेवापि तु जीवनेऽस्मिन्नेव स्थितिमिमामनुभूय निजचरमोत्कर्षसाधनाविधिं व्यकसिषुः। सम्प्रदायगतभेद-बुद्धिमपहाय निरपेक्षभावेन चेन्मूल्याङ्कनं विधीयेत तर्हि नूनमेव मानवहितं सेत्स्यत्यस्मात्। विश्वस्य भयावहस्थितावद्य तान्त्रिकदर्शनसाधनापद्धतेर्नितान्तावश्यकत्वं प्रतीयते। आशास्यते मया, यदेतं विषयं मानवो निजजीवने चरितार्थयिष्यति। ग्रन्थरचनाजन्यपुण्यानुभावेनापि प्राणिनः सम्यक्सम्बोधिं प्राप्नुयुरिति परिणामनां विदधामि। 


तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नम्।

यत्रापकारोऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि।। 


।। वङ्छुकदोर्जेनेगी भिक्षुणा प्रणीता भारतीयसंस्कृतपण्डितधर्मदत्तचतुर्वेदेन च सम्पादिता वज्रयानदर्शनमीमांसाख्या कृतिरियं परिपूर्णतामगात्।। 


।। शुभमस्तु सर्वजगताम्।। 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project