Digital Sanskrit Buddhist Canon

वृत्तमालास्तुतिः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

।। वृत्तमालास्तुतिः।। 

।। वृत्तमालाविवृत्यन्विता।। 


ओं नमो मञ्जुश्रिये।। 


ज्ञानश्रीप्रभवां वृत्तमालामिव धियां निधेः। 

ज्ञानश्रीप्रभवां वृत्तमालां वयमुपास्महे।। 


इहायं प्रकर्षपारीणगुणगणज्ञानज्ञानश्रीमित्रो वृत्तमा न्त मार्यमञ्जुश्रियमभितुष्टूषुर्यतिशरीरसंज्ञाभिः स्वच्छन्दसो वृत्तभेदानपि प्रतिपिपादयिषुरादौ तावत्प्रतिपाद्यवृत्तानां सामान्येन प्रभेदप्रस्तावनामाह। 


वृत्तमित्यादि।। 


वृत्तं सममर्धसमं विषमं चेत्यामनन्ति वागीशः। 

त्रिविधं परार्थविधये समासतो व्यासतो ऽनन्तम्।। १।। 


वागीशो मञ्जुश्रियस्तव वृत्तं चरित्रमामनन्ति मन्यन्त उपदिशन्ति वा। मुनीन्द्रा इति शेषः। किंभूतं तदित्याह। समं तुल्यं शान्तरूपमित्यर्थः। अर्धसमं तक्रोधरूपम्। विषमं विकटक्रोधरूपम्। इतीत्थं संक्षेपेण त्रिप्रकारं चरितं तव कथयन्ति। विस्तरतस्त्वेकैकस्यानन्त्यादनन्तम्। किमर्थमित्याह। परार्थविधये परार्थकरणार्थम्।। 


वृत्तपक्षे तु वागीशः। पिङ्गलादयो मुनयः। वृत्तं पद्यभेदम्। समं वैश्वादि। अर्धसममुपचित्रादि। विषमं पदचतुरूर्ध्वादि। इतीत्थं त्रिविधं समासत आमनन्ति। अत्रापि समादीनां प्रत्येकमनन्तत्वादनन्तम्। तदुक्तम् 'अनन्तः पद्यमार्गो ऽयं विशेषः पाठशोभया' इति। परार्थविधय इति पूर्ववत्। अथवा परः प्रकृष्टो यो ऽर्थः। तस्य विधये प्रतिपादनार्थम्। वृत्तनिबद्धो ह्यर्थः सुप्रतिपदो भवति।। 


पुनः किंभूतं तद्वृत्तमित्याह। प्रतिनियतेत्यादि।। 


प्रतिनियताकृतिरूदं वरमुनिभर्यत्र नाम संगीतम्। 

छन्दः पदं च परमं स्फ़ुरति यथा विविधविन्यासैः।। २।। 


यत्र येषु वृत्तेषु प्रतिनियतास्वाकृतिषु मूर्तिषु रूदं प्रसिद्धं नाम वरमुनिभिर्बुद्धैः संगीतं संभूय गीतम्। स्थिरचक्रादिसंज्ञा संग्रन्थिता। यत्र च च्छन्दो ऽभिलाषः। स्फ़ुरति पश्यतामिति शेषः। पदं परममिति। प्रतिष्ठा च व्यवस्थितिश्च श्रेष्ठं स्फ़ुरति। कथं स्फ़ुरति। विविधा ये विन्यासाः सत्त्वानां रूचिसमारोपास्तदनतिक्रमैः। अस्तावस्य पाक्षिकत्वादिति भावः।। 


वृत्तपक्षे तु प्रतिनियतास्वाकृतिषु नियतगुरूलघुक्रमस्वरूपेषु। रूदं प्रसिद्धं नाम। वरमुनिभिः पिङ्गलादिभिः संगीतमिदं वैश्वमियं तनुमध्येत्यादि। यत्र च च्छन्दो गायत्र्यादि संज्ञेति। कथं विविधा ये विन्यासास्तत्र तत्र गायत्र्यादि संज्ञानिवेशास्तदनतिक्रमैः। पां चेति यतिः। तच्चोत्कृष्टं स्फ़ुरति। अत्रापि यथाविविधविन्यासै रिति योज्यम्। 'विश्रामोऽर्धे पदे भङ्गः पादांशे वक्ष्यतो यतिः' इति वचनात्। अथवा शुद्धविराडार्षभादावेकादिस्थानेषु भावात्। यतेर्यथा यादृशा ये विविधा विन्यासास्तैः। तद्वृत्तमामनन्तीति पूर्वेण संबन्धः। तत्र प्रतिनियताकृतीति सामान्येन शरीरस्य प्रस्तावना। नामसंगीतमिति संज्ञायाः। पदमिति यतेः। छन्दश्चेति च्छन्दसः। 


ननु हरिहरादिभ्यो गुणाहिक्ये भगवतस्तत्परिहारेण स्तुत्यर्हता।। तदेवं तद्गुणगौरवं कथमवगतमित्याह प्रतिरूपेत्यादि।। 


प्रतिरूपदर्शनादपि शक्याः सकलक्रमेण गुरूलघवः। 

विगणयितुं धीमद्भिः किमपरमत्रानुयोगेन।। ३।। 


प्रतिरूपाः प्रतिकृतयः। तद्दर्शनादपि। इमे गुरवो न केवलं निरूपणाद् गुणगौरवादिमे लघवो गुणलाघवादिति सकलक्रमेण सर्वप्रकारं विगणयितुं परिसंख्यातुं धीमद्भिः शक्यन्ते। तदुक्तम् 'रूपमहो यथेदमाह्लादि पटेऽपि हि नाथ तावकम्' इति। अतः किमपरं प्रयोजनमत्र स्तुतिप्रस्तावेऽनुयोगेन पर्यनुयोगेन कृतेन किम्। नान्यदित्यर्थः।। 


वृत्तपक्षे तु ननु पूर्वाचार्यप्रणीतभादिसंज्ञामन्तरेण कथं नियतगुरूलघुक्रमनिश्चय इत्याह। रूपाणि सूत्रश्र्लोकाः। तेषां प्रतिरूपाणि प्रस्ताराः। तद्दर्शनादपि। न केवलं भादिसंज्ञाद्वारेण। अतो भादिसंज्ञां विना कथं गुरूलघुक्रमनिर्णय इत्यत्र प्रश्नेन किं फलम्। भादिसंज्ञया ग्रन्थगौरवात् प्रतिपत्तिगौ रवाच्चेति भावः।। 


इदानीमस्य ग्रन्थस्य भङ्ग्या प्रवृत्तिप्रयोजनमुपदर्शयितुमाह। प्रभवत्वित्यादि।। 


प्रभवतु विभ्रमहतये विचिन्त्यमानं तदादराद्भवताम्। 

सुकृतिमुखाभिजनानां वाचां निजमेकमाभरणम्।। ४।। 


।। प्रस्तावना।। 


तद्भगवतो वृत्तम्। आदराद्विचिन्त्यमानमभ्यस्यमानं भवतां विभ्रमहतये विपर्यासप्रहाणाय प्रभवतु। श्रुतमय्या हि प्रज्ञया प्रथममवधार्य चिन्तामय्याभ्यस्यमानमभ्यासप्रकर्षाद्भगवद्वृत्तं विभ्रमसंभ्रंशाय भवति। किंभूतं तद्वृत्तमित्याह। सुकृतेति। सुकृतिमुखमभिजन उत्पत्तिस्थानं यासां तासां वाचां निजमनागन्तुकमसाधारणं वा। एकमन्याभावात् आभरणमलंकारः। उपवर्ण्यमानेन हि वागीशस्य वृत्तेन सुकृतिनां वचांस्यलंक्रियन्ते। तदनेन भगवतो वृत्तचिन्ता विपर्यासनिरासप्रयोजनिका। तद्वर्णनं च वाचां भूषणायालमिति भवतामपि सन्त स्तच्चिन्तावर्णनयोः प्रवृत्तिरूचितेति दृष्टादृष्टलक्षणं प्रवृत्तिप्रयोजनं प्रकाशितम्।। 


वृत्तपक्षे तु तत्समादिवृत्तं तात्पर्यतो विचिन्त्य मानं भवतां श्रोतॄणां विभ्रमहतये वृत्तविषयाज्ञानप्रहाणाय प्रभवतु। कथंभूतं तदित्याह। सुकृतेत्यादि। वृत्तं हि कविगिरामाभरणभूतम्। पादबद्ध त्वेन वाल्मीकिना प्रथममवतारितत्वादिति। प्रयोजनं पूर्ववदवगन्तव्यम्।। 


प्रस्तावनेति। अभिधास्यमानस्यार्थस्योपद्धात इत्यर्थः।। 


धीगीः श्रीणामिति।। 


धी-

गीः। 

श्री -

णाम्।। ५।। 


निजै-

कभूः। 

विभा-

तिया।। ६।। 


एकाक्षरस्योक्त नाम्नश्छन्दसः श्रीसंज्ञकमिदं वृत्तम्। यद्यपि षडक्षरादिभिरेव काव्यवर्तमनि व्यवहारो दृश्यते नैकाक्षरादिभिरसुन्दरत्वात्। तदुक्तं पद्यविवेके 


उक्तमत्युक्तकं मध्या प्रतिष्ठा सुप्रतिष्ठया। 

प्रायः प्रयोगबाह्यत्वादभव्यत्वाच्च नाश्रिताः।। 


तथा च जयदेवः 'गायत्रं छन्दसामाद्यम्' इति। रत्नाकरे च 'च्छन्दांसि विदुः षट्कैरारभ्यैकैक वृद्धिभिः पाः इति। इहापि वक्ष्यति गायत्रीव च्छन्दः स्वाद्या इति। पद्यालंकारे ऽपि 'गायत्र्यादीन्येव च्छन्दांसि दर्शितानि। ल


इह तु श्र्लोकबन्धान्तरेण च्छन्दोवृत्तनाम नोक्तम्। तथापि संभवमात्रेण निर्देशाददोषः। किं च प्रयोगो ऽप्यन्यत्र दृश्यते। यथा 


धीः श्रीः। तेस्ताम्।। 

सर्वैः कार्या। बुद्धे भक्तिः।। 

सौगतं मद्वलम्। 

सूदितं युक्तिभिः।। 

शीलैराद्याः सर्वे सत्त्वाः। 

सौख्योपेताः संपद्यन्ताम्।। 

सर्वविदाज्ञा योऽनुविधत्ते। 

तं च सदर्थाः के न भजन्ते।। 


रङ्गरचनायां च ' स्मृतिहेतवे पुरूषोत्तमः। भरतादिषुद्धरते लवम्' इति।। 


तत्र धीरत्रानास्रवा प्रज्ञा। गीरनवद्या वाक्। श्रीः लौकिकलोकोत्तरा संपत्तिः। तासां निजा स्वभावसिद्धा। एका अद्वितीया भूर्भूमिराश्रय उत्पत्तिस्थानं वा। सा नीलोत्पलपाणेर्मञ्जुश्रियो मूर्तिर्जयतीति वक्ष्यमाणेन संबन्धः।। 


निजैकभूर्विभाति येति व्द्यक्षरस्यात्युक्तनाम्नश्छन्दसः सुखं नाम वृत्तम्।। 


पुनः किंभूता सा मूर्तिरित्याह। तद्गुणाशंसिभिः सेव्यते चानिशमिति।। 


तद्गुणा-

शंसिभिः। 

सेव्यते 

चानिशम्।। ७   


त्र्यक्षरस्य मध्याभिधानस्य मृगी नामेदं वृत्तम्। 


न केवलं धीगीः श्रीणां निजैकभूः। तस्यास्तनोर्ये गुणा लक्षणानुव्यञ्जनादयस्तानाशंसितुमभिलषितुं शीलं येषां तैः। धीगीः श्रीगुणाशंसिभिर्वा सुरासुरादिषूगतैर्वा। सुरनरप्रधानैः सेव्यते चोपास्यते या तनुरिति योज्यम्।। 


किंभूतैस्तैरित्याह। समाश्रयस्खलन्मलैरिति। 


समाश्रय- 


स्खलन्मलैः। 

सुरासुरा-

दिषूद्गतैः।। ८।। 


समाश्रयो भगवदाश्रयणम्। तस्माद्धेतोः स्खलन्तो मला रागादयः क्लेशा येषां तैः। तदयमर्थः। यत एव ते सुरासुरादिप्रवरा भगवतस्तनुगुणमाशंसन्ति। तत एव तैः सा सेव्यते ऽनिशं तद्व शाच्च स्खलन्मलतया क्रमेण तद्गुणलाभिनो भवन्तीति। 


समाश्रयस्खलन्मलैः सुरासुरादिषूद्गतैरिति चतुरक्षरस्य प्रतिष्ठानाम्नो जया नाम वृत्तमेतत्।। 


पुनः किंभूतैरित्याह। नैकभवीयेत्यादि।। 


नैकभवीया-

भ्यासविवृद्धम्। 

बोधविशेषं 

साधु दधानैः।। ९।। 


इदं पञ्चाक्षरस्य सुप्रतिष्ठाख्यस्य पङ्क्तिनामधेयं वृत्तम्। उक्तादिसु प्रतिष्ठान्तस्य च्छन्दः पञ्चकस्यापरेऽपि वृत्तविशेषा राजेन दर्शिताः। तत्रैवावबोद्धव्याः। नैकभवो नखादित्वान्नलोपाभावः। तत्र भवो वृध्द्यादित्वाच्छः। नैकभवीयोऽभ्यासः। तेन विवृद्धो वृद्धिं गतो यः स बोध विशेषो विपर्यासादिदोषरहितः। तं साधु शोभनं दधानैः। एतेन भगवदाश्रयस्खलन्मलत्वे ऽपि तदुपदेशा भावेनानेक जन्मपरंपराभ्यास विवृद्धबुद्धिविशेषस्याभावान्नानल्पकल्पोप चितपुण्यज्ञानसंभूतभगवद्देहगुणविशेषलाभ इति प्रकाशयति।। 


पुनः कीदृशी सा तनुरित्याह। गीतेत्यादि।। 


गीता गायत्रीव च्छन्दः स्वाद्या सद्भिः। 

वृत्तं भावि श्रेयो यस्यां सद्वा वैश्वम्।। १०।। 


या सद्भिर्गीता। यथा गायत्री च्छन्दः सु मध्य आद्या तथा सापि च्छन्दसाभिलाषेण स्वाद्येव स्वाद्या आस्वानीया। अभिलाषवृत्तिरपि च्छन्दः शब्दो ऽस्ति। यथा च्छन्दसा हि वचसां प्रवृत्तिरिति। यस्यां च तनौ विश्वस्येदं वैश्वं श्रेयः। वृत्तं भूतम्। भावि भविष्यत्। सद्वा विद्यमानं च।। 


वृत्तपक्षे इयमाद्या गायत्री च्छन्दः सु यस्यामिदं वैश्वं वृत्तम्। गायत्री च्छन्दः स्वाद्यायस्यामिति शरणं यावदधिकृतं वेदितव्यम्।। 


नीलोत्पलपाणेरित्यादि योजितम्। 


नीलोत्पलपाणेर्लीलानिलयस्य। 

शास्तुर्जयतीयं मूर्तिस्तनुमध्या।। ११।। 


लीलानिलयो विलासभवनम्। तनु क्षामं मध्यं यस्याः सा तनुमध्या।। 


वृत्तपक्षे गायत्री च्छन्दः स्वाद्या यस्यामियं तनुमध्या नाम।। 


प्रसीदेत्यादि।। 


प्रसीद भगवन् विलोकय मनाक्। 

जडं जनमिमं त्वदेकशरणम्।। १२।। 


हे भगवन् प्रसीद प्रसन्नो भव। तादृशश्च मादृशि। जडमज्ञं जनं विलोकय। किंभूतम्। त्वदेकशरणम्। त्वमेकः शरणमाश्रयो यस्येति हेतुभावेन विशेषणम्।। 


वृत्तपक्षे गायत्री च्छन्दः स्वाद्या यस्यां शरणं नाम वृत्तम्।। 


जाज्वलीतीत्यादि।। 


जाज्वलीति शासनं त्वां समेत्य सौगतम्। 

सूर्यधाम दुःसहं सातिरेकमुष्णि हि।। १३।। 


त्वां समेत्य प्राप्य। सुगतस्येदं सौगतं शासनं प्रवचनं तदर्थो वा। जाज्वलीति अत्यर्थ ज्वलति। एदीप्यत इत्यर्थः। हिशब्दः सादृश्ये। यथा उष्णि उष्णसमये। 'उष दाहे'। आणादिकः पूशादित्वात् कनिन्। सूर्यधाम। अतिरेक  आधिक्यं तेन सह वर्तते सातिरेकमधिकं दुःसहं भवति। तत्र सूर्यतेजःस्थानीयं शासनम्। उष्णसमयकल्पो भगवान्। जाज्वलीतीति च सातिरेकदुःसहता सुचितैव।। 


वृत्तपक्षे उष्णिहि सप्ताक्षरे छन्दसिः सातिरेकम्। ऊर्ध्वगामिपर्यन्तमुष्णिहीत्यधिकारः। पद्यालंकारे 'जातौ बहुवचने उष्णिहम् ' इति निर्देशोऽन्तिमस्य गुरूत्वज्ञापनार्थः। इह तु समवृत्तप्रस्तावात् पादान्तरसाहचर्याद्गुरूत्वसंगतिः।। 


दधत्यपीत्यादि।। 


दधत्यपि निकामं कुमारललितानि। 

तनुस्तव जिनानां कुमार ललितैव।। १४।। 


कुमारललितानि शिशुचेष्टितानि तव तनुर्दधत्यपि निकाममत्यर्थं ललितैव मनोहरैव। हे जिनानां कुमार। लोके खलु प्रेक्षणे प्रेक्षापूर्वाणि बालविलसितानि न परितोषमावहन्ति। तव तु तनुस्तानि बिभ्रत्यपि परितोषकरीति विरोधाभासः। विनेयानुरोधेन तदाश्रयात्परिहारः। 


वृत्तपक्षे उष्णिहि कुमारललिता नाम।। 


जायत इत्यादि।। 


जायते जनराशेर्यामनुस्मरतोऽपि। 

निर्धुताहरभावमूर्ध्वगामि च रूपम्।। १५।। 


यां तव तनुमनुस्मरतोऽनुध्यायतो जनराशेः। निर्धुतो निःशेषेण धुतो ध्वस्तोऽधरभावो जातिगुणादिभिरधरता येन तथाभूतं रूपं स्वभावो जायते। न केवलम्। किं तूर्ध्वगामि च जातिगुणादिभिरेवोर्ध्वगमनशीलमुत्कृष्टपदवर्ती ति यावत्।। 


वृत्तपक्षे उष्णिहि ऊर्ध्वगामि वृत्तम्। अन्येषामुद्धता नाम।। 


पुनः किंभूता सा तनुरित्याह। यद्गुणेत्यादि।। 


यद्गुणस्तुतिविस्तरादस्तसङ्गमनुष्टुभि। 

धीरमेकमुदीरयन्त्युत्तमं पदमुद्गताः।। १६।। 


यस्यास्तनोर्गुणस्तुतिस्तस्या अस्तसङ्गं स्वार्थासक्तिरहितं यथा भवति तथा विस्तरणात् प्रथनात्। घीरं पण्डितमेकमद्वितीयमुदीरयन्ति कथयन्ति। के ते। उत्तममुत्कृष्टं पदमुद्गताः प्राप्ताः। बुद्धा इत्यर्थः। कस्मिन् विषये धीरमुदी रयन्तीत्याह। अनुष्टुभि। 'ष्टुभु स्तम्भे। अनेकार्थत्वादिह स्तुत्यर्थः। अनुरूपं स्तोभनमनुष्टुभ्। उपसर्गात् सुनोतीत्यादिना षत्वम्। य एव स्वसुखनिरपेक्षो मञ्जुघोषतनुगुणस्तुतीस्तनोति तमेवानुरूपस्तुतिविधौ विज्ञो ऽयमिति व्यपदिशन्ति मुनीन्द्रा इत्यर्थः। अथवा अस्तसङ्गमिति धीरमित्यस्य पद मित्यस्य वा समानाधिकरणम्।। 


वृत्तपक्षे ऽनुष्टुभि अष्टाक्षरे च्छन्दसि उत्तमं नाम। अनुष्टुभीत्यधिकारश्चित्रपदां यावत्।। पुनः किंरूपा तनुरित्याह। घोरेत्यादि।। 


घोरहतामसावरूद्धबुद्धिलोचनस्य। 

रत्नयष्टिदीपिकैव या समान्यभूज्जनस्य।। १७।। 


या तव तनुः। रत्नमयी यष्टिः सैव दीपिका सैव जनस्य समान्यभूत्। साधारणीभवति स्मेति च्व्यन्तः। किंभूतस्य जनस्य। तम एव तामसम्। मोह एव तामसं तत्त्वदर्शनविबन्धकत्वात्। घोरं यन्मोह तामसं तेनावरूद्धं बुद्धिलोचनं यस्य।। 


वृत्तपक्षेऽनुष्टुभि समानी नाम।। 


जगत्त्नयेत्यादि।। 


जगत्त्नयातिशायिनीं मुनीन्द्रसंपदं प्रति। 

स्फ़ुरन्त्यशेषनायक प्रमाणिकापि सैव नः।। १८।। 


किं च हे अशेषनायक। सैवोक्तरूपा तव तनुः नो ऽस्माकं प्रमाणं प्रमितिं करोतीति प्रमाणिका परिच्छेदिका। किं प्रति प्रमाणिका। जगत्त्नयमतिशयितुमतिभवितुं शीलं यस्यास्तथाभूतां मुनीन्द्राणां लोकोत्तरसंपत्तिं प्रति। कीदृशी सतीत्याह। स्फ़ुरन्ती दीप्यमाना। अन्यदपि हि प्रमाणं परिस्फ़ुरदेव परिच्छेदकं प्रमेयस्य। तथा भगवतो ऽपि तनुर्महापुरूषलक्षणैः परितः स्फ़ुरन्ती मुनीन्द्रसंपदः परिच्छेदिका। यत्राकृतिस्तत्र गुणा वसन्तीति न्यायात्।। 


वृत्तपक्षे ऽनुष्टुभि प्रमाणिका।। 


तीव्रेत्यादि।। 


तीव्रक्लेशप्लोषध्वंसप्रौदे वंशे संबुद्धानाम्। 

धत्ते भूषां भातीयं ते ऽम्भोदे यद्वद्विद्युन्माला।। १९।। 


इयं ते तनुः भाती दीप्यमाना सती भूषामलंकारं धत्ते करोति। कुत्र। संबुद्धानां वंशे। किंभूते। क्लेशैः कृतः प्लोषो दाहः। तीव्रो यः क्लेशप्लोषस्तस्य प्रध्वंसः। तत्र प्रौदे प्रगल्भे। किं यत्र रोचमानं यथा भूषां धत्त इत्याह। यथा विद्युन्माला सौदामनीदाम। अम्भोदो जलदोऽपि। तीव्रः क्लेशः क्लिष्टिः प्लोषश्च दाहः। तयोर्ध्वसे प्रौदः। मञ्जुनाथतनोरपि भासमानया विद्युन्मालया साम्यम्।। 


वृत्तपक्षे ऽनुष्टुभि विद्युन्माला।। 


केतनदण्डमित्यादि।। 


केतनदण्डं दधतोऽध्यापयितुं नीतिमिव। 

सद्गुरूलीला भवतो भाति जगन्माणवकम्।। २०।। 


भवतो मञ्जुश्रियः। सद्गुरूलीला सद्गुरोश्चेष्टा भाति। किंभूतस्य। केतनं चिह्नमुत्पलं तदेव दण्ड इव सनालत्वाद्दण्डस्तं दधत इति हेतुभावेन विशेषणम्। किं कर्तुम्। जगदेव माणवक इव। माणवको बटुर्बालो वा। तं धर्मनीतिमध्यापयितुं पाठयितुम्। उपाध्यायो ह्यनभियुक्तशिष्याणां भयोपदर्शनार्थं दण्डं धारयन्नध्यापयति।। 


वृत्तपक्षेऽनुष्टुभि माणवकम्।। 


त्रिजगत इत्यादि।। 


त्रिजगतो निजगतिं प्रथयतः पृथुधियः। 

करतलं तव चलत्किसलयं तुलयति।। २१।। 


तव पृथुधियः कर एव करतलम्, भूतलवत्। तच्चलत्किसलयं तुलयति। तद्वदित्यर्थः। किंभूतस्य। त्रिजगतस्त्रैधातुकस्य। निजां शुभाशुभकर्मादिक्षिप्तां देवादिगतिं निजस्वभावं वा प्रथयतः कथयतः। धर्मदेशनासमये भावाभिव्यक्त्यभिनयेन पाणेश्चलनाच्चलत्पल्लवेन साम्यमुक्तम्।। 


वृत्तपक्षेऽनुष्टुभि किसलयम्।। 


साधिगम मित्यादि।। 


साधिगमं समकालं तत्त्वरसेषु विधत्ते। 

विश्वमधीश्वर चित्रं चित्रपदा तव वाणी।। २२।। 


हे अधीश्वर तव वाणी भारती। चित्राणि नानाप्रकाराणि पदानि यस्याः सा तथाभूता सती। विश्वं सर्वं विनेयजनं सममेककालं तत्त्वे रसेषु परमार्थरस विषये साधिगमं सप्रतिवेधं विधत्ते यत्तच्चित्र माश्चर्यम्। भगवतः खल्वभिन्नापि भारती विनेयानामाशयभेदेन भिद्यमाना नानापदव्यञ्जनैः चर धमाधत्ते।। 


वृत्तपक्षेऽनुष्टुभि चित्रपदा।। 


बृहत्यामित्यादि।। 


बृहत्यां विभूत्यां त एके पदन्यासमासादयन्ति। 

क्षणं यत्र ते लब्धलक्ष्यः कटाक्षोऽपि विश्रान्तिमेति।। २३।। 


यत्र येषु। ते तव। लब्धलक्ष्यः सन् कटाक्षोऽपि। न केवलं वचनादि। क्षणं विश्रान्तिमेति विश्राम्यति। त एवैके त्वत्कटाक्षपातपूता बृहत्यां महत्यां विभूत्यां चक्रवर्त्यादिसंपदि पदन्यासमासादयन्ति प्रतिष्ठां लभन्त इति यावत्।। 


वृत्तपक्षे बृहत्यां नवाक्षरे च्छन्दसि कटाक्षो नामापूर्वम्। बृहत्यामिति मुद्रापर्यन्तमधिक्रियते। 


त्वॠशैवेत्यादि।। 


त्वदॄशैव परिमलनाद् भव्यतामियमुपगता। 

भाति भूमिरिव जनता संतताहितहलमुखी।। २४।। 


किं च त्वच्चक्षुषैव परिमलनात् परिचयात् कारणात्। इयं जनता जनसमूहः। भव्यतां शान्तिफ़लभाजनतामुपगता सती संतताहितहलमुखी भूमिरिव भाति। संततं निरन्तरमाहितं हलस्य मुखं यथा तथा। यथा खलु सततहलमुखप्रहता भूमिर्भाविफ़लनिष्पत्तौ योग्या तद्वदुक्तरूपापि जनतेत्यर्थः।। 


वृत्तपक्षे बृहत्यां हलमुकी।। 


ननु भगवन्नयनारिमलनमात्रेण जनताभिमतफ़लनिष्पादनयोग्या। न हि हलपरिकर्ममात्रादसति सलिलसेक बीजवपनादौ भूमिरपि सस्यप्रभूतिहेतुः प्रतीयते। तत् कथं तस्या भव्यतावगतिरि त्याह। वरदेत्यादि।। 


वरद सा हि संजन्यते परिणतिस्तयास्यां यतः। 

वचनबीजमुप्तं त्वया फ़लति शान्तिरूपं फ़लम्।। २५।। 


हे वरद। तया त्वदृशा परिमलितया सा कापि परिणतिः प्रतिसर्गमुप चीयमानपुण्यसंभारादिभिर्विशिष्टात्मभावावस्था पाथः सेकादिभिरिव भूम्याः। हिर्यस्मात्। संजन्यते संतत्या निष्पाद्यते। यतः परिणतिपरंपरायाः। अस्यां जनतायाम्। सामर्थ्यमवधार्य त्वया वचनमेव बीजमुप्तम्। शान्तिः संक्लेशोप शमस्तल्लक्षणं फ़लं फ़लति निष्पादयति। सलिलावसेकादिपरिकर्मितायां भुवि बीजमुप्तं सस्यमिव।। 


वृत्तपक्षे बृहत्यां रूपं नाम।। 


कलयितुमित्यादि।। 


कलयितुमिह कः शक्तस्तव खलु चरितानीश। 

सतमसि समये तोये भुजगशिशुसृतानीव।। २६।। 


हे ईश। इह जगति तव चरितानि खलु निश्चितं कोऽर्वाग्दर्शी कलयितुं ज्ञातुमीशः शक्तः। कुत्र किं यथेत्याह। सतमसि सान्धकारे समये। यथा भुजगशिशोः सृतानि गमनानि। सलिले सर्पस्यापि विचरितानि न लक्ष्यन्ते प्रागेव तच्छिशोः। तत्रापि सावतमससमये। तथा च तव चरितानीत्यर्थः।। 


वृत्तपक्षे बृहत्यां भुजगशिशुसृता।। 


भवादृशोऽपि तर्हि भगवच्चरितापरिचयेन मौन मेवोचितमित्याह। किंत्वित्यादि।। 


किंतूदस्यति धरियध्वसी त्वत्कीर्तिश्रुतिजन्मानन्दः। 

स्वप्रौदिप्रतिपत्तिन्यस्तां लोकस्याननमुद्रामीश।। २७।। 


तथापि हे ईश त्वत्कीर्तेः श्रुतिराकर्णनम्। तज्जन्मा आनन्दो हर्षः। लोकस्य मादृशो जनस्य। आननमुद्रां चरितविषये मौनमुदस्यति क्षिपति। किंभूताम्। स्वस्यात्मनः। प्रौदिः प्रागल्भ्यम्। तत्प्रतिपत्त्या न्यस्तां निवेशिताम्। यद्यसावात्मज्ञतया स्वप्रौदिं प्रतिपन्नवान्नहमस्मिन्विषये समर्थ इति तदा धैर्यमधिष्ठाय तिष्ठतोऽस्यानन्दो ऽपि कथमाननमुद्रामुदसितुमीश इत्याह धैर्यध्वस्रीति।। 


वृत्तपक्षे तु बृहत्यां मुद्रा नाम।। 


श्रीत्यादि।। 


श्रीनिकेत लीलाचतुरं ते प्राप्तपार विद्याचरणानाम्। 

भाति वर्ष्म बुद्धात्मजपङ्क्तौ यद्वदम्बुजन्मस्वरविन्दम्।। २८।। 


हे श्रियां निकेत निवास। पुनः संबोध्यते। प्राप्तमधिगतं पारं पर्यन्तो येन। केषाम्। विद्याश्चरणानि च तेषाम्। विद्याचरणान्यार्याष्टाङ्गो मार्गः। सम्यग्दृष्टिर्विद्या शेषाण्यङ्गानि चरणानि। न ह्यपश्यन्नचरणो वा गन्तुं समर्थ इति। तिस्रो वा शिक्षा विद्याचरणानि। अधिप्रज्ञं शिक्षा विद्या। अधिशीलमधिचित्तं च चरणानि। प्रज्ञायाः पूर्वपरिकर्मरूपत्वात् पुनश्चरणं चरणमिति कृत्वा विद्यायास्तु पूर्वग्रहणम्। तत्परिशुध्द्या शीलसमाधिपरिशुद्धितः। तया हि प्रज्ञाचक्षुषैव पश्यंस्ताभ्यां शीलसमाधिभ्यां चरणाभ्यामिव गच्छन् गन्तव्यमनुप्राप्नोतीति विद्याचरणशब्देन तिस्रः शिक्षा निर्दिश्यन्ते। तव वर्ष्म वपुः। बुद्धात्मजानां बोधिसत्त्वानां पङ्क्तौ पर्षन्मण्डले भाति। किंभूतम्। लीलया विलासेन चतुरं मनोहरम्। कुत्र यथा किं भातीत्याह। यथा अम्बुजन्मसु कुमुदोत्पलादिष्वरविन्दं महोत्पलम्। एतेनार्यमञ्जुश्रियः श्रीनिकेतत्वेन प्राप्तविद्याचरण पारत्वेन च लीलाचतुरस्य वपुषोऽपरबोधिसत्त्वापेक्षयोत्कर्ष उक्तः। अरविन्दस्यापि श्रीनिकेततया लीलायां च केलिविषये चतुरतया जलजन्मान्तरापेक्षमुत्कृष्टत्वं स्फ़ुटमेव।। 


वृत्तपक्षे दशाक्षरे च्छन्दसि पङ्क्तौ अरविन्दं नामापूर्वम्। चतुर्णामन्तश्चतुरन्तः। तत्र लीला भङ्गिर्यतिरिति यावत्। पङ्क्तावित्यधिकारो वलयं यावत्।। 


त्वामित्यादि।। 


त्वामुद्गीतकुलोदयशैलं प्रज्ञालोकमुपायरथस्थम्। 

वन्दे जाडयविखण्दनशौण्डं त्रैलोकीनलिनीसवितारम्।। २९।। 


त्वां वन्दे इति संबन्धः। किंभूतम्। त्रयो लोका स्त्रैलोकी। चातुर्वर्ण्यादित्वेन ष्यञि स्त्रियां षिल्लक्षणो ङीष् सामग्रीवत्। सैव नलिनी। तस्याः सवितेव सविता प्रकाशकत्वात्। उद्गीतं ख्यातं यत् कुलम्। बोधिसत्त्ववंशः ब्राह्यणादिवंशो वा। तत्रैव परार्थं जन्मसंदर्शनादुदयशैल इव यस्य। आलोको रश्मिः। प्रज्ञैवालोको यस्य। उपायो बोधिसत्त्वानां सर्वसत्त्वापरित्यागाशयाद्यनेकप्रकारः। स एव रथः संसारभ्रमणश्रमविनोदहेतुत्वात्। तदुक्तम् 


बोधिसत्त्वरथं प्राप्य सर्वदुष्खश्रमापहम्। 

एवं सुखात् सुखं गच्छन् को विषीदेत् सचेतनः।। इति। 


तदेव रूपकालंकारेणादित्यसाधर्म्यमभिधाय भगवतः स्वार्थसंपत् प्रदर्शिता। परार्थसंपदमावेदयन्नाह। जाड्यं जगदज्ञानम्। तस्य विशेषेण खण्डनम्। तत्र शौण्डः शक्तः। सूर्यपक्षे जाड्यं शैत्यम्।। 


वृत्तपक्षे पङ्क्तौ नलिनी। अदो ऽप्यपूर्वम्।। 


बुद्धेत्यादि।। 


बुद्धसुतानामभ्युदयोर्वी भाति भृशं भूत्या तव नाथ। 

शैलविशेषस्येव शिखाभू रूक्मवती रत्नाङ्कुरकान्त्या।। ३०।। 


हे नाथ। बोधिसत्त्वानामभ्युदयस्य गुणविभूतेरूर्वी आश्रयता मुदितादिभूमिर्ज्ञानविशेषावस्थालक्षणा। तव गुणसंपत्त्या भृशमत्यर्थं भाति। कस्य यथा किं केन कीदृग् भाती त्याह। रूक्मं स्वर्णम्। यथा शैलविशेषस्य सुमेरोः काञ्चनमयी शिखरभूमी रत्नाङ्कुराणां कान्त्यात्यर्थं शोभते। तद्वत्।। 


वृत्तपक्षे पङ्क्तौ रूक्मवती। केषांचिन्मते चम्पकमालेयम्।। 


निःशेष इत्यादि।। 


निःशेषस्तव विजयध्वानं तन्वन् भ्राम्यति भुवनोद्योत। 

सानन्दः कृतिनिवहः स्वामिन् विष्वग्घोषणपणवो यद्वत्।। ३१।। 


भुवनोद्योत स्वामिन्निति संबोधनद्वयम्। यथा राजादेर्विजयशब्दं विस्तारयन् घोषणपटहः परितो भ्राम्यति तथा तवापि घोषणपणव इव कृतिजन इति। शेषं सुबोधम्।। 


वृत्तपक्षे पङ्क्तौ पणवः।। 


वात्यादि।। 


वादिव्रातप्रवरशिरोऽज्ज श्रीधाम्नस्ते गुणमधुयोगात्। 

धीमन् धिरानपि मदयन्ती त्रैलोकीवाग् विलसति मत्ता।। ३२।। 


वादिव्रातानां वावृन्दानां ये प्रवराः श्रेष्ठा। तेषां शिरोऽब्ज। वादिव्रातानां वा प्रवरशिरोऽब्ज। शिरः स्वब्जमिवाब्जमुत्कृष्टत्वेन मण्डन भूतत्वात्॥ शिरोमणिवदिति संबोधनीयम्। तव श्रीधास्रो गुणा एव महूनि। तद्योगात् संबन्धतश्च तद्वाचकत्वेन त्रैलोकीवाक् स्वयं मत्ता सती धीरानपि त्वद्गुणाख्याने निरूद्योगानपि मदयन्ती उत्सुकयन्ती विलसति। अब्जस्यापि श्रीधाम्नो मधुयोगान्मत्ता भृङ्गादिमाला धीरानपि मदयन्ती विलसति।। 


वृत्तपक्षे पङ्क्तौ मत्ता नाम।। 


विश्वेत्यादि।। 


विश्वचक्रवर्तिनां जिनानां वंशभूषणे त्वयि स्फ़ुटैव। 

म्लायतीव सा कुमारताख्या या मयूरसारिणीष्यते तु।। ३३।। 


या पुनः स्फ़ुटैव व्यक्तरूपैव मयूरेण सर्तुं शीलं यस्य तस्मिन् कार्त्तिकेये कुमारताया आख्या प्रसिद्धिरिष्यते सा विश्वचक्रवर्तिनामधिपतीनां जिनानां वंशभूषणे त्वयि कुमारे सति म्लायतीव। यतस्त्वं बहूनां त्रैलोक्यचक्रवर्तिनां वंशभूषणभूतः कुमारः। स चैकस्यैव कामधात्वीश्वरस्य शम्भोः। अतस्त्वयि तस्य कुमारताख्या म्लायतीवेत्यर्थः।। 


वृत्तपक्षे पङ्क्तौ मयूरसारिणी।। 


नानेत्यादि।। 


नानारत्नमरीचिमालिनी प्रोन्मीलन्निजकान्तिसंपदा। 

प्रत्यङ्गं तव भूषणावली नीता शुद्धविराद्दराभवम्।। ३४।। 


तव भूषणावली पराभवं नीता प्रापिता। किंभूता। नानारत्नानां मरीचिमाला यस्या अस्ति। व्रीह्यादित्वादिनिः। कया। प्रत्यङ्गं प्रोन्मीलयन्ती या नवकुमारदशाभाविनी कान्तिसंपत् तया। हे शुद्धविराडिति संबोधनं हेतुभावेन। विशेषेण राजत इति विराट्। यस्मात्त्वं शुद्धो निर्भूषणो विशेषेण राजस इति।। 


वृत्तपक्षे पङ्क्तौ शुद्धविराट्।। 


पात्वित्यादि।। 


पातु जगत्तव तत्त्वनयाख्यानविधौ करवल्गितकम्। 

वादिपते व्यतिघट्टनतो वल्गुनिनादचलद्वलयम्।। ३५।। 


हे वादिपते। तव करयोर्वल्गितकमीषच्चलनं जगत् पातु। कुत्र तदित्याह। तत्त्वनयस्य परमार्थवर्त्मन आख्यानकरणकाले। किंभूतम्। व्यतिघट्टनतो व्याख्यानमुद्राबन्धेनान्योन्यसंपर्कात्। वल्गुनिनादं चलद्वलयं कङ्कणं यत्र।। 


वृत्तपक्षे पङ्कतु वलयं नामापूर्वम्।। 


रूपमित्यादि।। 


रूपं ते गुणगणमथ कीर्तिं संवीक्ष्याखिलमिदमतिशायि। 

बिभ्राणं निजविषयविरामं मन्दं त्रिष्टुभि जगदुपजातम्।। ३६।। 


इदं तवाखिलं रूपमतिशायि संवीक्ष्य। अथशब्द इदमखिलमतिशायीति प्रत्येकाभिसंबन्धनार्थः। तेनेममखिलमतिशायिनं गुणगणं तथेमामखिलामतिशायिनीं कीर्ति संवीक्ष्य। जगन्निजरूपगुणकीर्तिविषये विरामं धिङ् नो रूपादिकमित्यनभिरतिं बिभ्रत् सत्। तिसृणां रूपगुणकीर्तीनामात्मीयानां स्तुभ् स्तुतिः। सुषामादित्वात् षत्वम्। तस्यां मन्दमुपजातम्।। 


वृत्तपक्षे एकादशाक्षरे च्छन्दसि त्रिष्टुभि विषयविरामं बिभ्रदुपजातं नाम। विषयाश्च पञ्च। तैश्च पञ्चमं स्थानमुपलक्ष्यते। एवमुत्तरत्रापि द्रष्टव्यम्। पञ्चमे यतिरित्यर्थः। इतः पूर्ववृत्तानां पादान्त एवोत्सर्गसिद्धा यतिर्नान्यत्र विशेषविधानाभावात्। एतदारभ्य पादान्ते तावत् सर्वत्र। विशेषविधौ तु व्याख्यास्यामः। त्रिष्टुभीत्यधिकार उपजातिपर्यन्तम्।। 


तनुरित्यादि।। 


तनुरतनुदयाद्रवोपमस्फ़ुरानुपमकान्तिसंततिः। 

जनयति भवतो न कस्य वा मुदमधिप समन्तभद्रिका।। ३७।। 


हे अधिप। भवतस्तनुः समन्तं भद्रं कल्याणं यस्यास्तथाभूता कस्य वा न मुदं जनयति। सर्वस्यैव जनयतीत्यर्थः। कीदृशी पुनः। अतनुर्घना या दया तद्द्रवेणोपमा यस्यास्तादृशी स्फ़ुरन्ती अन्येनानुपमा कान्तिसन्ततिर्यस्याः सा तथा। भगवतो देहस्य द्युतिप्रवाहः करूणाया अन्तर्व्याप्य बहिः स्रवन्त्या द्रव इव लक्ष्यत इत्यर्थः।। 


वृत्तपक्षे त्रिष्टुभि भद्रिका नाम।। 


शरदित्यादि।। 


शरदमृतकरकरश्रेणीसमहिमगतमलगौरीयम्। 

गुणसमुदितिरिव मुक्ताली विलसति हृदि भवतो वृत्ता।। ३८।। 


यथा भवतो गुणानां प्रज्ञादयादीनां समुदितिः संहतिर्हृदि विलसति तथा मुक्तावल्यपि। कीदृशी गुणसमुदितिः। वृत्ता सच्चरित्रा वर्तुलमुक्तायोगान्मुक्तावलीव। तथा शरदमृतकरस्य शरच्चन्द्रस्य या करश्रेणी। तया समा तुल्या हिमा शीतला। गतमलत्वादेव गौरी विशदा च।। 


वृत्तपक्षे त्रिष्टुभि वृत्ता नाम।। 


गीयमानेत्यादि।। 


गीयमानसुमनः सुमनस्वज्जातिकीर्तिविजयेव तवेयम्। 

भाति दूरततसौरभलोभस्वागतालिपटलक्कणितेन।। ३९।। 


स्फ़ारामोदा मधुनिधिरधिकं चूर्णं चातुः सममिवदधती। 

नीलाब्जश्रीर्दलसुखशयनासंपर्याप्तभ्रमरविलसिता।। ४०।। 


पद्यद्वयम्। तव नीलाब्जश्रीर्भाति। किंभूता। सुमनसां मध्ये सुष्ठु मनस्वती मनस्विनी। परिमलादिगुणेनोन्नता या जातिः पुष्पजातिर्जातिपुष्पं वा तस्याः कीर्तिस्तस्या विजयः पराजयः। स गीयमानो यस्याः सा तथा। साक्षात्ताद्गानाभावादिवशब्दः। केन गीयमान इत्याह। दूरं ततं विततं यत् सौरभं तेन स्वागताया अलिमालायाः क्कणितेन। सापेक्षत्वे ऽपि गमकत्वात् समासः।। 


वृत्तपक्षे त्रिष्टुभि स्वागता।। 


पुनः किंरूपा नीलाब्जश्रीरित्याह। स्फ़ारामोदेत्यादिना पदद्वयं व्यक्तम्।। 


अधिकं चूर्णं परागं दधती। कीदृशम्। चतुः समं कुङ्कुमादि। तस्येदं चातुः समम्। चूर्णमित्यत्रापि योज्यम्। तदिवाधिकं भातीति पूर्वेणैव वा संबन्धः। शय्यते ऽस्मिन्निति शयनम्। दलं पत्त्रम्। तदेव सुखं शयनम्। तत्र दले वा सुखेन शयनम्। तेन असंपर्याप्तमपरिपूर्णम्। अभिलाषाविच्छेदात्। भ्रमराणां विलसितं यस्यां सा तथा।। 


वृत्तपक्षे त्रिष्टुभि भ्रमरविलसिता। चत्वारश्च ते समाश्च वर्णास्तेषु भवम्। चतुर्षु वा समं तदेव चातुःसमं चूर्णनं भङ्गं बिभ्रती भ्रमरविलसिता। तथा च पद्यालंकारे 'वेदच्छेदे भ्रमरविलसिता' इति ।।


रूपेत्यादि।। 


रूपरसायनभावनया ते वासव एव परं बहुमान्यः। 

येन चिराय निरस्तनिमेषं लब्धमदोधकमम्बकजातम्।। ४१।। 


तव रूपमेव रसायनमिव रसायनं नयनपुष्टिहेतुत्वात्। तस्य भावनया अभ्यासेन। हेतौ करणे वा तृतीया। इन्द्र एव बहु यथा भवति तथा मान्यः श्र्लाध्यः। बहुषु वा मान्यः। कथं स एवेत्याह। येन वासवेन येन वा करणेन तदा तेन वासवेनेति गम्यम्। निरस्तनिमेषमनिमिषम्। अम्बकजातं लोचनकदम्बकं प्राप्तम्। किंभूतम्। चिराय चिरकालम्। अद इदं रूपरसायनं धयति पिबतीति आतोऽनुपसर्गात् कः। अदोधम्। स्वार्थे कनि अदोधकम्। यस्मादनिमिषेणाक्ष्णां तु सहस्रेण चिरं त्वद्रुपरसायनं पिबति ततो वासव एव बहुमान्यो नान्य इत्यर्थः।। 


वृत्तपक्षे त्रिष्टुभि दोधकम्।। 


भक्त्येत्यादि।। 


भक्त्यानतरत्नकिरीटचक्रैराबद्धकराञ्जलिभिः प्रहृष्टैः। 

धन्यैः सुचिरं चरणद्वयी ते वीतान्यविधेयमुपस्थितेयम्।। ४२।। 


भक्त्या आ समन्तान्नतानां रत्नमयानां किरीटानां चक्रं समूहो येषाम्। तथाबद्धः करयोरञ्जलिः संपुटो यैः करिकलभवत्। तैर्हन्यैरेव ते चरणद्वयी सुचिरमुपस्थिता पर्युपासिता। अन्येषामभाजनत्वात्। वीतान्यविधेयं त्यक्तान्यकार्यम्।। 


वृत्तपक्षे त्रिष्टुभि उपस्थिता।। 


किमित्यादि।। 


किमिन्द्रविभवैर्ब्रह्यश्रिया वा ततोऽप्यतिशयिन्या संपदा किम्। 

प्रसिध्यति धियो ऽधीश प्रकामं त्वदङ्घ्रिकमलस्योपस्थितं चेत्।। ४३।। 


हे धियोऽहिश। यदि त्वदङ्घ्रिकमलस्योपस्थितमुपस्थानं सिध्यति तदा किं प्रयोजनमिन्द्रस्य विभवैः समृद्धिभिः। ब्रह्यणः संपदा किम्। ततस्ताभ्यामतिशायिन्या आरूप्यसमापत्त्यादिसंपत्त्यापि किम्। न किंचित्। यतस्त्वच्चरणकमलाराधनेन बोधिरप्यधिगम्यत इति भावः।। 


वृत्तपक्षे त्रिष्टुभि उपस्थितम्।। 


त्वदित्यादि।। 


त्वत्संसेवाविमुखं जन्मदुर्गे कर्मक्लेशौ विवशं नाशमस्मिन्। 

संभूयालं नयतो ऽवश्यमुग्रौ वातोर्मी पोतमिवाम्भोधिमध्ये।। ४४।। 


जन्मैव दुर्गमस्मिन्। विवशं पराधीनम्। तव संसेवायां विमुखं जनम्। कर्म शुभाशुभम्। क्लेशो रागादिः। तावुग्रौ संभूय। अलमत्यर्थम्। अवश्यं नियमेन। नाशं नयत इति संबन्धः। कौ किं कुत्र यथा। वातश्चोर्मिश्च तौ यौ तं वहित्रमम्भोधिमध्ये यथा नाशं नयत इति। 


वृत्तपक्षे त्रिष्टुभि वातोर्मी नाम वृत्तम्। वातोर्मिमालेत्यन्ये। यतिं चाम्भोधाविच्छन्ति। तथा च कलिकालसर्वज्ञः 'मो वा स्रौ वा  यदि वातोर्मिमाला' इति। तथापि कुरूयैव पूर्वानुरोधात्तु दर्शितेति पद्यालंकारः।। 


दूरेत्यादि।। 


दूरदर्शिमनसामनागसां कापि विस्फ़ुरति चित्तसंततिः। 

निर्विरामतममाभवं भवत्पर्युपासनमनोरथोद्धता।। ४५।। 


अनागसो निर्दोषाः। अत एव ते दूरदर्शिमनसस्तेषां निर्विरामतमं मनागपि विच्छेदाभावात्। काप्यवाच्या चित्तसंततिर्विशेषेण स्फ़ुरति। किंभूता। आभवं भवपर्यन्तं यत् भवत्पर्युपासनं त्वदाराधनम्। तत्र मनोरथो ऽभिलाषस्तेनोद्धता। पृथग्जनत्वे ऽपि आयतिपथ्यदर्शिनस्तदात्वे च निष्पापाः। तेषामेव यथोक्ता चित्तसंततिः स्फ़ुरति नान्येषामित्यर्थः।। 


वृत्तपक्षे त्रिष्टुभि रथोद्धता।। 


च्छेद इत्यादि।। 


छेदे हृद्या विभ्रमाणां चतुर्णा तूर्णप्राप्तावार्यसत्यामृतानाम्। 

पुण्यावस्था त्वत्कटाक्षेक्षणे ऽपि प्रौदप्रज्ञाशालिनी काप्युदेति।। ४६।।


तव कटाक्षेक्षणे ऽपि पुण्यावस्थाभ्युदेति। जनस्येति शेषः। किंभूता। प्रौदया प्रज्ञया शालिनी समन्विता। 'शाली संबन्धितो ज्ञेय ' इत्यभिधानात्। पुनः किंभूता। चतुर्णां विभ्रमाणां विपर्यासानामनित्यानात्मदुःखाशुचिषु नित्यात्मसुखशुचि ग्रहस्वभावानां च्छेदे सति हृद्या। किमर्थं तेषां च्छेद इत्याह। आर्याणां यानि सत्यानि। दुःखसमुदयनिरोधमार्गलक्षणानि तेषां तूर्ण शीघ्रं प्राप्तिनिमित्तम्।। 


वृत्तपक्षे त्रिष्टुभि शालिनी। सा चतुर्णां च्छेदे भङ्गे हृद्या।। 


कीर्तिरित्यादि।। 


कीर्तिरर्तिकर्त्ततस्तव स्तवस्तोमसद्यनो ऽतिसद्यनोहृतः। 

सान्द्रचन्द्रचन्द्रिकार्द्रचन्दनश्येन्यलंकरोत्यलं दिशो दश।। ४७।। 


अर्तिः पीडा तत्कर्त्ततस्तव कीर्तिः। अलमत्यर्थम्। दश दिशो ऽलंकरोति। किंभूतस्य। स्तवस्तोमस्य स्तुतिनिचयस्य सद्यनः पात्रस्य। पुनः किंभूतस्य। अत्यर्थं सतां मनो हरतीत्यतिसद्यनोहृतः। विकल्पितत्वात् ञमभावाभावः। कीदृशी कीर्तिः। सान्द्रा या चन्द्रस्य चन्द्रिका ज्योत्स्ना आर्द्रं च चन्दनं तद्वत् श्येनी श्वेता। श्येत शब्दात् ङीप्रत्यये तकारस्य नत्वे रूपम्।। 


वृत्तपक्षे त्रिष्टुभि श्येनी।। 


त्वदित्यादि।। 


अभ्युद्गतानेकशिखाभिरूच्चैस्त्वत्संश्रयाद्दुस्त्यजसत्त्वदृष्टिः। 

प्रह्वस्रमन्वञ्चति शैलमूर्तिस्तीव्रेन्द्रवज्राहतिदारितेव।। ४८।। 


तव संश्रयाद्दुस्त्यजा सत्त्वदृष्टिरात्मदृष्टिः प्रध्वस्रमनुक्रमेणाञ्चति गच्छति। किंभूता। अनेकशिखाभिः विंशतिशिखरैरूच्चैरभ्युद्गता। यथा शैलस्य मूर्तिरनेकशिखरैरभ्युद्गतापि तीव्रा या इन्द्रवज्रेणाहतिस्तया दारिता सती प्रध्वस्रं गच्छति। तथा रूपमात्मा रूपवानात्मा रूपे आत्मा रूपमात्मनि। एवं वेदनादिषु। इत्थं विंशत्या शिखरैरून्नता भगवदाशयनैरात्म्य ज्ञानाशनिना नाशमन्वञ्चति।। 


वृत्तपक्षे त्रिष्टुभि इन्द्रवज्रा। 


विरूदेत्यादि।। 


विरूदधर्माधिपभावभव्यप्रतुङ्गसिंहासनसंनिषण्णम्। 

उपासते कान्तशिवाः शिवापत्युपेन्द्रवज्रायुधवेधसस्त्वाम्।। ४९।। 


शिवापतिश्च उपेन्द्रश्च वज्रायुश्च वेधाश्च ते त्वामुपा सते। किंभूताः। कान्तमिष्टं शिवं निर्वाणं येषां तथा सन्तः। किंभूतं त्वाम्। विरूदो वृद्धिं गतो यो धर्माधिपभावो धर्मैश्वर्यं तस्मिन् भव्यं योग्यं यत् प्रोत्तुङ्गमुच्चैः सिंहासनं तत्र संनिषण्णमुपविष्टम्।। 


वृत्तपक्षे त्रिष्टुभि उपेन्द्रवज्रा।। 


अनन्तरेत्यादि।। 


अनन्तरोद्भावितलक्षणाद्यौ पादौ भवेतामपि गोचरौ ते। 

यासां दृशः श्रव्ययतिप्रपञ्चौ धन्याः सुराणामुपजातयस्ताः।। ५०।। 


अनन्तरमुद्भावितानि यानि लक्षणानि किमिन्द्रविभवैरित्यादिना। अभ्युदयनिः श्रेयसहेतुत्वादीनि स्वरूपाणि। तैराद्यौ संपन्नौ। आनन्तर्यं चात्र सजातीयाव्यवधानात्। यथा ' विक्रमादित्यानन्तरं श्रीहर्षो राजा बभूव' इति। अथवा अनन्तरोद्भावितलक्षणेति भगवतः संबोधनम्। आदयता च पादयोर्लक्षणादिभिरेव। तथा श्रव्यः प्रवचनादौ यतिप्रपञ्चो गतिसंयमविस्तारो विक्षेपाभावाद्ययोः। तावेवंभूतौ तव पादौ यासां मनुष्यादिजातीनां दृशो ऽपि गोचरौ भवेतां ता जातयो धन्याः। सुराणां च उप समीपे वर्तन्त इति योज्यम्। देवादिगतेरासन्नीभावात्।। 


 वृत्तपक्षे ऽनन्तरोद्भाविताभ्यामिन्द्रवज्रोपेन्द्र वज्रालक्षणाभ्यामाद्यौ पादौ। तथाभूतौ च श्रव्ययतिप्रपञ्चौ यासां भवेताम्। पादान्त एवात्र यतिः प्रपञ्चश्च प्रतिपादं बहुषु भावात् भवेताम्। ता उपजातयश्चतुर्दश विज्ञेयाः। बहुवचननिर्देशात्। तेन त्रिष्टुभि चतुर्दशप्रकारा उपजातयो वृत्तानि। प्रायेणात्र शान्तिसूत्रसमस्याप्रकाराणि सूत्राणीति। क्कचित्त्विष्टिरप्यदृष्टैव।। 


असंशयमित्यादि।। 


असंशयं त्वामपरेषु सत्स्वपि प्रकामसर्वात्मगुणानुहारिषु। 

अनन्यसाधारणयाधियाधिपा उशन्ति वंशस्थमनङ्गजिष्णवः।। ५१।। 


आत्मनो बोधिसत्त्वानामेव ये सर्वे गुणाः प्रकाममत्यर्थ तैरनुहर्तुं शीलं येषाम्। आर्यमञ्जुश्रिय एव वा ये सर्वे गुणाः प्रज्ञावाह्याः प्रकामं ताननुहर्तुं शीलं येषाम्। तेष्वन्येषु बोधिसत्त्वेषु विद्यमानेष्वपि असंशयं निश्चयेन। अनङ्गस्य जयनशीला बुद्धा अधिपा बोधिसत्त्वानां नाथाः। वंशे बुद्धवंशे तिष्ठतीति वंशस्थं त्वामेव। उशन्ति वदन्ति। कया। धिया प्रज्ञया। कथंभूतयानन्यसाधारणया।। 


वृत्तपक्षे त्रिष्टुभीति निवृत्तम्। जगत्यामिति वक्ष्यमाणम्। तेन जगत्यामिति द्वादशाक्षरे च्छन्दसि वंशस्थं नाम।। 


बालेत्यादि।। 


बालकृतिं कान्त विचित्रभूषणं हेमाभमक्षोभ्यसनाथशेखरम्। 

वागीश्वरं वाङ्मतिमूर्तिभिर्नमे मौनीन्द्रवंशभरणोदयश्रियम्।। ५२।। 


वाङ्मतिमूर्तिभिरिति कायवाङ्मनोभिः। मुनीन्द्राणामयं मौनीन्द्रो वंशः। तस्याभरणभूता अभ्युदयश्रीर्यस्य। शेषं सुबोधम्।। 


वृत्तपक्षे जगत्यामिन्द्रवंशा नाम। वंशस्थस्यैवादिगुरूत्व इन्द्रवंशेत्यनयोर्भेदः।। 


अतिविस्तरैरित्यादि।। 


अतिविस्तरैरपि गिरां सुगिरो गुणपारमीयुरधिनाथ न ते। 

निजमोदमात्रजननीति नुतिः प्रमिताक्षरापि सुभगैव मम।। ५३।। 


हे अधिनाथ। ते तव गुणानां पारं पर्यन्तं गिरां विस्तरैरपि न ईयुर्न गताः। के। शोभना गीर्येषां ते सुगिरो मुनयः। तव तर्हि स्तुतिरनुचितेत्याह। प्रमितान्यक्षराणि यस्यां तादृश्यपि मम नुतिः सुभगैव शोभनैव। यस्य निजः स्तोतुरात्मनो हर्षः। स एव तन्मात्रं स्तुत्यगुणपर्यन्तागमनात्। सा जन्यते यया। 


वृत्तपक्षे जगत्यां प्रमिताक्षरा वृत्तम्।। 


दीप्यमानेत्यादि।। 


दीप्यमानाखिलालंकृतिश्र्लाघिनी पुण्यभाजां मुखाम्भोजलब्धोदया। 

भारती भारतीश स्वभावोज्ज्वला त्वामुपैति स्वयं सद्गुणस्रग्विणी।। ५४।। 


हे भारतीश। भारती सरस्वती स्वयं स्वयंवरे च त्वामुपैत्याश्रयति। किंभूता। स्वभावेनोज्ज्वला निस्तवचर्ण सात्। सन्तो ये गुणा भगवत एव तेषां स्रग्माला। सा यस्या अभिधेयत्वेनास्ति। मत्वर्थीयः स्रजो विनिः। तथा दीप्यमाना अखिला या अलंकृतयः काव्यालंकृतयस्ताभिः श्र्लाघा यस्याः। व्रीह्यादित्वादिनिः। पुनः किंभूता। पुण्यभाजां बोधिसत्त्वानां मुखाम्भोजाल्लब्ध उदय उत्पत्तिर्यया सा तथारूपिण्यपि सरस्वती दीप्यमानाखिलालंकारश्र्लाघिनी। पुण्यभाजां ब्रह्यणां मुखाम्भोजलब्धोदया स्वभावेन चोज्ज्वला। सर्वशुक्ला सरस्वतीति वचनात्। सन् शोभनो गुणः सूत्रं यस्यां तादृशी स्रगस्या अस्तीति स्रग्विणी। सापि त्वां स्वयमभ्युपैति श्रीपतिपरिहारेणेति वार्थः। 


वृत्तपक्षे जगत्यां स्रग्विणी।। 


भङ्गमित्यादि।। 


भङ्गं नीतास्ते पञ्चबाणस्य बाणाः शान्तो द्वेषाग्निर्मोहजाड्यं निरस्तम्। 

नाथ त्रैलोक्यानुग्रहव्यग्रमूर्ते संपत् संप्राप्ता वैश्वदेवी त्वयैव।। ५५।। 


हे नाथ। विश्वे च ते देवाश्च तेषामियं वैश्वदेवी संपत्त्वयैव संप्राप्ता नान्येन। कथमित्याह। यतस्त्वया पञ्चबाणस्य ते बाणा भङ्ग नीताः प्रापिताः। एतेन कामनिर्जयः कथितः। तथा त्वया शान्तो द्वेषाग्निः। कुतः। शान्त इत्यन्तर्भूतण्यर्थे रूपम्। मोहजाड्यं च निरस्तम्। अत्र च विनापि तेन चार्थो लभ्यते। शम्भुना पुनः काम एव जितः। ब्रह्यणा द्वेषः। रविणा जाड्यम्। त्वया तु सर्वेषामेषां संपत्तिरधिगतेति विशेषः। त्रैलोक्यानुग्रहव्यग्रमूर्ते इति हेतुभावेन विशेषणम्। न हि स्वयमसिद्धः परार्थ साधयितुमधीष्ट इति। अथवा यदि रागादयो भगवतः प्रहीणास्तदा त्वत्प्रेसत्त्वार्थ हानिरित्याह। त्रैलोक्येत्यादि। अनेन करूणया भवेऽवस्थानं सूचितम्। 


वृत्तपक्षे जगत्यां वैश्वदेवी। बाणाः पञ्च ते चात्र भङ्ग नीताः।। 


संपूर्णेत्यादि।। 


संपूर्णोऽन्तर्गुणगणरत्नैश्चित्रैरम्भोराशेर्यतिमतिधैर्याधत्से। 

संक्लेशाग्निप्रशमनसद्धर्माम्भोधारासारैर्जलधरमालालीलाम्।। ५६।। 


अन्तर्गता ये गुणास्त एव रत्नानि। तैश्चित्रैर्नानाप्रकारैराश्चर्यकरैर्वा संपूर्णः। गुणगणरत्नैर्वा। अन्तः संपूर्णः सन्। अतिधैर्याच्च अम्भोराशेः समुद्रस्य यतिं संयममाचारं धत्से। तथा जलधरमालाया लीलां धत्से इति योज्यम्। कैः। संक्लेश एवाग्निस्तं प्रशमयति। संप्रशम्यते वानयेति। सा चासौ सद्धर्माम्बुधारा च तस्या सवातास्तैः। वारिराशिरपि चित्रै रत्नैः संपूर्णो ऽतिधीरश्च। मेघमालापि धारासारैरग्निं शमयतीति साम्यम्।। 


वृत्तपक्षे ऽम्भोराशेर्यतिमति जगत्यां जलधरमाला धत्त इति संबन्धनीयम्। 


तवेत्यादि।। 


तव पुरः परमोत्तमसंमताः प्रतिभया विकलाः प्रतिवादिनः। 

सुलभमूकदशा बहु मन्वते द्रुतविलम्बितमप्युदितं वचः।। ५७।। 


हे परम तव पुरत उत्तमत्वेन संमता अपि प्रतिवादिनो बृहस्पत्यादयः। परमोत्तमेति वा संबोधनम्। उत्तमत्वेन संमता ये ते। द्रुतं वा विलम्बितं वा यदुच्चारितं वचः। क्रियाया विशेषणं वचसो वा। तदपि बहु मन्यन्ते। किंभूताः। सुलभा मूकदशा येषाम्। कथं ते तथेत्याह। प्रतिभया स्फ़ूर्त्या विकलाः। प्रतिभानरहितानां हि मूकतैवोचिता। तेऽपि यदि द्रुतं विलम्बितं वा वचनमुच्चारयन्ति। तदा तदपि बहु मन्यन्ते मृताद्वरं द्रुबलतेति न्यायात्। 


वृत्तपक्षे जगत्यां द्रुतविलम्बितम्।। 


त्रितयेत्यादि।। 


त्रितयमपि पवित्रयन्ती जगत् तुहिनकरकरावदातद्युतिः। 

प्रभवति भवतश्च कीर्तिश्चिरं सुरगिरिशिरसश्च मन्दाकिनी।। ५८।। 


त्रितयमपि जगत् पवित्रयन्ती भवतः कीर्तिः प्रभवति। सुरगिरेः शिरसश्च मन्दाकिनी स्वर्नदी प्रभवति। सा द्युतिधानान्तरमेरूशृङ्गे प्रभवति। पठ्यते मन्दाकिनीशब्दः स्वर्नद्याम्। पठितोऽपि कविसमये त्रिपथगापि या दृश्यते। तेन त्रितयमपि पवित्रयन्तीत्युक्तम्। किंभूता। भवतः कीर्तिर्मन्दाकिनी च। तुहिनकरकरवदवदाता द्युतिर्यस्याः सा तथा। भगवतश्च कनकाभत्वान्मेरूशिखरसाम्यम्।। 


वृत्तपक्षे जगत्यां मन्दाकिनी।। 


हरतीत्यादि।। 


हरति नितान्तमियं तव कीर्तिः कृतिहृदयानि दयानिजवास। 

प्रसवचयेन चितेव समन्ताद्दिशि दिशि कुन्दलता दलतालम्।। ५९।। 


यथा समन्ताद्दलता विकसता प्रसवचयेन पुष्पनिवहेन चिता व्याप्ता कुन्दलता। अलमत्यर्थम्। दिशि दिशि कृतिनां सुकृतिनां हृदयानि हरति। तथा हे दयानिवास। इयमनन्तरोदिता तव कीर्तिर्दिशि दिशि समन्तात् प्रसरन्ती पण्डितहृदयानि नितान्तं हरति।। 


वृत्तपक्षे जगत्यां कुन्दलता नामापूर्वम्।। 


दलयतीत्यादि।। 


दलयत्युपात्तशोभासमवायो जगतामघानि को ऽप्येष कृपाब्धिः। 

बहुबुद्धकोटिनिर्माणपटीयान् धृतधर्मधातुवागीश्वरलीलः।। ६०।। 


धृता धर्मधातुवागीश्वरस्य बुद्धस्य लीला येन स एष कोऽपि कृपासमुद्रः। जगतामघानि पापानि दलयति। किंभूतः। उपात्तः संभृतः शोभानां समवायो येन तथा। बहुबुद्धकोटीनां निर्माणं स्फ़रणं जननं वा। तत्र पटीयानत्यर्थं समर्थः। आर्यमञ्जुश्रियो देहादनेकबुद्धकोटीनां स्फ़रणात्तवाराधनेन च प्रादुर्भावात्तथाभिधानम्।। 


वृत्तपक्षे दलमर्ध पादानां तत्र यत्या प्राप्तः सन् शोभासमवायो येन स तथा। जगत्यां वागीश्वरलीलो नामापूर्वम्।। 


प्रविकिरतीत्यादि।। 


प्रविकिरतीव वियत्तरङ्गिणीतरलतरङ्गरूचां रूचां चयान्। 

विलसति शश्वदसिर्दशान्तरे तव यमुनाजलवीचिमेचकः।। ६१।। 


तव दशान्तरे मूर्त्यन्तरे ऽरपचनादौ शश्वद्विलसति सति। असिस्तव यमुनाजलवीचिवन्मेचकः श्यामः। रूचां चयान् तवैव कायकिरणनिकराणां कान्त्या प्रकर्षेण विकिरतीव च्छुरयतीव। कीदृशान्। वियत्तरङ्गिण्यास्तरलतरङ्गाणामिव रूक् कान्तिर्येषां तेषामपि विशदत्वात् विच्छिन्नविसारित्वाच्च। एतेन गङ्गायमुनासंभेदसाम्यमुपदर्शितम्। अथवा तव दशान्तरे यथोक्तरूचां चयान् प्रविकिरति सति। तत्रैवोक्तगुणो निस्त्रिंशः शश्वद्विलसतीति योजना।। 


वृत्तपक्षे जगत्यां यमुना नाम।। 


मन इत्यादि।। 


मनोहारिहारावलीरम्यमीदृक् क्क ते नाथ रूपं सुरूपाधिराज।

क्क तच्चातिदुर्दान्तसत्त्वप्रशान्त्यैस्फ़ुरद्भीमभूशाभुजङ्गप्रयातम्।। ६२।। 


हे नाथ। मनोहारिण्या हारावल्या रम्यं तव क्केदृशं रूपम्। सुरूपाधिराजेत्यनेन रूपाभिमानिविनयनार्थ तादृङ् महाराजलीलादिनिर्माणं दर्शितमिति दर्शयति। क्क चातिश यं दुर्दान्तसत्त्वानां प्रशमर्थं स्फ़ुरन्तश्चलन्तो भीमा भयानका भूषार्थं ये भुजङ्गास्तैः प्रयातमाश्रितं यमार्यादिरूपम्। अतिविस्मयकरं रूपद्वयं तवेत्यर्थः।। 


वृत्तपक्षे जगत्यां भुजङ्गप्रयातम्।। 


अविरलेत्यादि।। 


अविरलमौक्तिकप्रकरभूषा हरति न कस्य चित्तमियमीश। 

सुरूचिरमल्लिकासमयसेव्यप्रतिनवमालिनीव तव मूर्तिः।। ६३।। 


हे ईश। सुष्ठु रूचिरा मल्लिकायाः समये यौवनदशायां सेव्या प्रतिनवा अभिनवा या माला यद् वा सुरूचिरा मल्लिका काले सेव्या या प्रतिनवा माला मल्लिकाया एव सा यस्या अस्ति मूर्तेः। सैव तवेयं मूर्तिः कस्य न चित्तं हरति। सर्वस्यैव हरतीत्यर्थः। किंभूता। अविरलेन मौक्तिकप्रकरेण। स एव वा भूशा यस्याः सा।। 


वृत्तपक्षे जगत्यां नवमालिनी।। 


तवेत्यादि।। 


तव नाथ परं यदि कान्तिसुधाजलधौ श्रममुज्ज़्हति ज़्हात्कृतिनि। 

शुभरूपनिरूपणलम्पटकं परितो ऽटकमङ्ग जगन्नयनम्।। ६४।। 


अङ्गशब्दः संबुद्धौ। हे नाथ। जगन्नयनं तव कान्तिरेव सुधाजलधिस्तरिमञ्ज़्हात्कृतिनि श्रममायासं परमुज्ज़्हति। नान्यत्र। समुद्रोऽपि हि वेलापरंपरया ज़्हात्कारवान्। भगवानप्यनवरतनित्यलावण्यलहरीभिः। किंभूतं जगन्नयनम्। शुभं मनोहरं रूपं तस्य निरूपणे लम्पटकं सत् परितः समन्तादटतीत्यर्थः। तदेवाटकम्। अत एवास्य श्रमः। अन्योऽपि हि चिरभ्रमणपरिश्रान्तः समुद्रादिमहाजलाशये श्रममपनयति।। 


वृत्तपक्षे जगत्यां तोटकम्।। 


वरदेत्यादि।। 


वरद विरतिभाञ्जि व्यक्तमङ्गान्यतिभव भविता नोऽवश्यमेव। 

तव वचनसुधायाः पानपात्रं श्रवणयुगपुटो ऽयं प्रीतिहेतुः।। ६५।। 


हे वरद। अतिभव भवमतिक्रान्त। नो ऽस्माकमङ्गानि हस्तपादादीनि। व्यक्तं विरतिमनभिरतिं भजन्ते। सुखहेतवो न भवन्तीत्यर्थः। श्रवणयोर्युगं तस्य पुटः। स पुनरवश्यमेव नः प्रीतिहेतुर्भविष्यति। कथम्। तव वचनसुधायाः पानपात्रं यस्मात्।। 


वृत्तपक्षे जगत्यां पुटो नाम। अत्र चाङ्गान्यष्ट विरतिभाञ्जि।। 


वृण इत्यादि।। 


वृणे वरमिमं त्वदेकमतुलप्रभाव भवतान्न मादृशजनः।  

भवन्तमपि यः श्रयञ्छमसुधारसेषु विरतिर्जडोद्धतगतिः।। ६६ ।। 


हे अतुलप्रभाव। त्वत्त्वत्तः सकाशादेकं वरं वृणे याचे। कं वरं याचसीत्याह। मादृशो जनो न कश्चिद् भवतान्नोत्पद्यताम्। कीदृशः। यो भवन्तमपि वागीश्वरं श्रयञ्जडा मन्दा उद्धता विक्षिप्ता गतिर्मतिर्यस्य स तथाभूतः सन्। विगता रतिरभिलाषो यस्य तथा भवति। कस्मिन् विषये। शमाः शान्तयस्ता एव सुधारसास्तेषु। 


वृत्तपक्षे जगत्यां जलोद्धतगतिर्नाम। तत्र च रसेषु षट्सु विरतिः।। 


त्वदित्यादि।। 


त्वत्प्रसादसमुदीर्णशुभवशादष्टभेदि सुखमेव कृतिजनः। 

लोचनोत्सवविधासु तनुभृतां चन्द्र वर्त्म समुपैति भवभिदाम्।। ६७।। 


हे तनुभृतां लोचनोत्सवविधासु नयनानन्दकृतिषु चन्द्र। तव प्रसादेन समुदीर्णं समृद्धं यच्छुभं तत्सामर्थ्यात् कृतिजनः सुखमेवाकष्टेनैव भवभिदामार्याणां वर्त्म मार्गं समुपैति प्राप्नोति। कीदृशम्। अष्टभेदि। आर्याष्टाङ्गलक्षणम्।। 


वृत्तपक्षे जगत्यां चन्द्रवर्त्म नाम। तच्चाष्टभेदि अष्टमयतिकमित्यर्थः।। 


सुखेत्यादि।। 


सुखदुःखातिशयादिहेतुजातैरविलुप्तस्मृतयो भवन्ति भव्याः। 

तव पादाश्रयलब्धबुद्धिसाराः सकलायामपि वादिराज गत्याम्।। ६८।। 


हे वादिराज। सुखं च दुःखं च तयोरतिशय आदिर्येषां सुखमाद्यादीनां तेषां हेतु जातैरपि। अविलुप्ता स्मृतिर्येषां ते भव्याः। सकलायामपि देवादिगतौ वर्तमानास्तथा भवन्ति। ननु लोको निरतिशयसुखादिहेतुमासाद्य विनष्टस्मृतिर्भवति। तत्कथमिदमुच्यत इत्याह। तव पादाश्रयेण लब्धो बुद्धेः सारो बलं यैस्ते तथाभूता यस्मात्। अथवा सकलायां वादिराजानां गतौ सर्वविवादव्यवहारे। शेषं समानम्।। 


वृत्तपक्षे जगत्यां कला नामापूर्वम्। इत ऊर्ध्वं जगत्यामिति नानुवर्तते।। 


तवेत्यादि।। 


तव चरणपरिचरणरूचीनां किमपि सुखमुदयति कृतिरूपम्। 

निखिलमलपटलविगमदीप्रप्रथिम गुणमहितमति जगत्याम्।। ६९।। 


तव चरणयोः परिचरणे परीष्टौ रूचिर्येषां तेषां सुखं यथा भवति तथा किमप्यद्भुतं कृतिनां रूपं स्वरूपं कृतित्वमुदयति जगत्याम्। कथमद्भुतमित्याह। निखिलस्य मलपटलस्य विगमाद्दीप्रो दीपनशीलः प्रथिमा पृथुत्वं येषाम्। तद्गुणैर्वक्तृत्वादिभिर्महती मतिरवबोधविशेषो यत्र तत्तथा। अथवा निखिलमलपटलविगमदीप्रं च तत्प्रथिमगुणेन महितमति चेति कर्मधारयः।। 


वृत्तपक्षेऽतिजगत्यां त्रयोदशाक्षरे च्छन्दसि महितं नाम।। 


कलेत्यादि।। 


कलधौतकान्तवपुरूत्तमलीलः पटुभारतीवरटया वरिवस्यः।

इह मञ्जुघोष इति वः प्रथितो ऽव्याज्जिनमानसैकनलिनीकलहंसः।। ७०।। 


इह जगति मञ्जुघोष इति प्रथितः ख्यातो जिनमानसमेवैका उत्कृष्टा या नलिनी तत्र कलहंस इव कलहंसो वो युष्मान् अव्यात्। किंभूतः। कलधौतं स्वर्णं तद्वत् कान्तं वपुर्यस्य। तथा च रभसः कलधौतं स्वर्णे रूप्ये इति। पट्वी या भारती सैव वरटा हंसीति तया सततानुगमात्। वरिवस्यः परिचार्यः। नलिन्यां कलप्रधानोऽपि हंस इह जगति मञ्जुर्घोषो ऽस्येति मञ्जुघोष इति प्रथितः। पटुवाणीलक्षितया वरटया सेव्यः। उत्तमचेष्टः कलधौतं रूप्यं तद्वत् शुद्धवपुश्च भवति।। 


वृत्तपक्षे ऽतिजगत्यां कलहंसो नाम। अस्य चिरन्तनं भ्रमरीत्यपि नाम।। 


विच्छेद इत्यादि।। 


विच्छेदस्त्रिषु यदि दुःसहेष्वमीषु क्लेशेषु स्फ़ुटमणुशो ऽपि दुष्करः स्यात्। 

प्राप्येत क्क नु खलु नाथ मूर्तिरीदृक् त्रैलोक्ये नयनमनः प्रहर्षिणीह।। ७१।। 


हे नाथ। अमीषु रागद्वेषमोहेषु त्रिषु दुःसहेषु क्लेशेषु स्फ़ुटं व्यक्तं यो विच्छेदो विगमः स यदि दुष्करः स्यात्। अणुशोऽपीति। स्थूलप्रचाराणां तावद्विच्छेदस्य दुष्करत्व ईदृग्मूर्तिर्न प्राप्यते। अणुशो ऽपि सूक्ष्मप्रचाराणामपि यदि विच्छेदो दुष्करः कर्तुमशक्यः स्यात्तदेह त्रैलोक्ये ईदृग्भगवतो मूर्तिः क्क नु खलु प्राप्येत नैव प्राप्येतेत्यर्थः। कीदृशी। नयनं च मनश्च ते प्रहर्षयितुं शीलं यस्याः सा तथा। तदुक्तम् 'मूर्तिरेव तवाचष्टे भगवन् वीतरागताम् ' इत्यादि।। 


वृत्तपक्षेऽतिजगत्यां विच्छेदस्त्रिषु यदि स्यात्तदा प्रहर्षिणी।। 


पयोनिधावित्यादि।। 


पयोनिधौ विरतिमपां विधाय च स्फ़ुरन्महाकिरणकलापरत्नधौ। 

भवादृशां वपुषि च कान्तिसंततिः समीक्ष्यते यदि रूचिरेयमीदृशी।। ७२।। 


इयमीदृशी रूचिरा कान्तेः संततिर्भवादृशां महाबोधिसत्त्वानामेव वपुषि परमीक्ष्यते। अपां विरतिं विगमं विधाय यदि कदाचित्तस्मिन्। कल्पितोपमेयं 'उभौ यदि व्योम्नि पृथक्प्रवाहौ' इत्यादि।। 


वृत्तपक्षे ऽतिजगत्यां पयोनिधौ विरतिं विधाय इयमीदृशी रूचिरा समीक्ष्यते।। 


मन्द्रेत्यादि।। 


मन्द्रध्वानैर्यामृतधारास्त्वयि रम्या मुञ्चत्युच्चैर्विस्फ़ुरति प्रीणितभव्ये। 

नाथान्वेति व्यक्ततयात्यन्तमनोज्ञं वर्षाम्भोदं सैव यतिर्मत्तमयूरम्।। ७३।। 


हे नाथ। मन्द्रध्वानैः गम्भीरनिर्घोषैरमृतधाराः प्रवचनप्रवाहान् मनोहर मुच्चैस्त्वयि मुञ्चति। अत एव प्रीणितभव्ये या यतिश्चरितं विस्फ़ुरति सैव यतिर्वर्षा म्भोदं व्यक्ततया स्फ़ुटमन्वेति। अत्यन्तमनोज्ञत्वात्। प्रावृषेण्यस्य मन्द्रध्वानैरमृतधारामोचनं सूचितम्। मत्ता मयूरा यस्मात्। तत्त्वेन प्रीणितभव्यत्वम्।। 


वृत्तपक्षे रूचिराया या यतिरनन्तरोक्ता चतुर्थे सैवातिजगत्यां मत्तमयूरं वृत्तमन्वेति।। 


जयतीत्यादि।। 


जयतीयमुत्पलतरोरनुत्तरत्रिजगत्प्रमोदजनने मधाविव। 

त्वयि नेत्रकान्तकुसुमोद्गता लता मधुमत्तभृङ्गरवमञ्जुभाषिणी।। ७४।। 


त्वयि त्रिजगतां प्रमोदस्य जनने जनननिमित्तं जनके वा। मधाविव वसन्त इव वर्तमानस्योत्पलतरोः केतनेन्दीवरवृक्षस्य लता शाखा जयति। कीदृशी। त्रिजगतो नेत्राणां कान्तं यत्कुसुमं तेनोद्गता। तथा मधुमत्तानां भृङ्गाणां रवेण मञ्जु भाषितुं शीलं यस्याः सा तथा। मधुसमयोऽपि त्रिजगत्प्रमोदजननः। तत्र चोत्पलतरोः शाखा नेत्रकमनीयसुमनोभिरूल्लसिता तन्मकरन्दपानमत्तमधुकरज़्हांकारैः मनोहरव्याहारिणीव भवति।। 


वृत्तपक्षे ऽतिजगत्यां मञ्जुभाषिणी।  इयं तु पूर्वं कुसुमोद्गता नाम। अत एवात्र द्वयमुपात्तम्।। 


सर्वेत्यादि।। 


सर्वातिशायिगुणनिर्भरलब्धमोदैर्विद्वन्मधुव्रतकुलैरूपगीयमानम्। 

मन्यामहे जिननयाभरणं तवैव वृत्तं वसन्ततिलकं नवचूतमेव।। ७५।। 


यथा नवचूतं वसन्तस्य तिलकमलंकारभूतं तथा तवैव वृत्तं चरित्रं जिननयस्याभरणं मन्यामहे। किंभूतम्। विद्वांस एव मधुव्रतास्तेषां कुलैरूपगीयमानमुत्कीर्त्यमानम्। किंभूतैः। सर्वातिशायिनस्तवैव ये गुणास्तैर्निर्भरं लब्धो मोदो यैः। चूतमपि सर्वातिशायिभिर्निजैः सौरभादि गुणैर्निर्भरलब्धमोदानि यानि महुव्रतकुलानि तैर्वन्दिवृन्दैरिवोपगीयमानम्। एव इवार्थे। तथा चाजयः 'एवौपम्ये ऽवधारणे' इति।। 


वृत्तपक्षे शक्करीभूषणेति वक्ष्यते।। 


संमुखेत्यादि।। 


संमुखवलन्मुखमृगाधिपतिपृष्ठारूदमतिगाददयमभ्युदयकन्दम्। 

सुन्दरिमबन्धुरितहेमहिमपादं वादिकुलदैवतममन्दमभिवन्दे।। ७६।। 


वादिकुलदैवत ममन्दं यथा भवति तथा अभिवन्दे। किंभूतम्। भगवत एव संमुखं वलन् मुखं यस्य तस्य मृगाहिपतेः पृष्ठारूदमतिगाददयमतिशयितकृपम्। अभ्युदयस्य विभूतेः कन्दं मूलम्। तथा सुन्दरिमा सौन्दर्यम्। तेन बन्धुरितावधरितौ हेमहिमपादौ येन। वर्णस्य सौन्दर्येण हेम बन्धुरितं कान्तेश्च हिमपादश्चन्द्र इत्यर्थः।। 


अत्रापि वृत्तपक्षे शक्करीभूषणं दैवतं वृत्तम्। केचिदिदं सिंहललितमाहुः। तथा च जयदेवः 'सिंहललितं च कथितं भजसनोगौ ' इति ।। 


प्रशमितेत्यादि।। 


प्रशमितसकलप्रपञ्चनिरावृतिप्रसरदमलधीसमाधिसुधाजुषः। 

दमयति भवतो हताहितविक्रमा मुनियतिरपराजिता भुवनत्रयम्।। ७७।। 


भवतो मुनेर्यतिर्मुनिजनोचितः संयमः। अपरैर्बाह्यमुनिभिरजिता भुवनत्रयं दमयति विनयति। किंभूता। हतोऽहितानां मा राणां विक्रमो यया। किंभूतस्य भगवतः। प्रशमितः प्रशमं नीतः सकलः प्रपञ्चो ग्राह्यग्राहकादि विकल्पो यः। यच्च निरावृति आवरणाभावः। ताभ्यां यथासंख्यं प्रसरन्तावमलौ यौ धीसमाधी तावेव सुधा तां जुषमाणस्य।। 


वृत्तपक्षे शक्करीभूषणा अपराजिता। सा च मुनियतिः। मुनयः सप्त।। 


प्रतिभयेत्यादि।। 


प्रतिभयवपुषामकरूणचरितप्रशमनविधये क्कचिदपि कृपया। 

तव भुजपरिघावलिरतिविषमा विलसति विविधप्रहरणकलिका।। ७८।। 


तव क्कचिद्वज्रभैरवाद्यवस्थाविशेषे भुजपरिघाणां दोर्दण्डानामावलिः संहतिरतिविषमा विलसति। किंभूता। विविधानि प्रहरणानि कलयतीति ण्वुल् तादृशी। किमर्थम्। प्रतिभयं भयंकरं वपुर्येषामकरूणं यच्चरितं तस्य कृपया प्रशमनविधये।। 


वृत्तपक्षे शक्करीभूषणा प्रहरणकलिका। अन्येषां प्रहरणकलिता। सप्तमे च यतिः। तथा च शान्तयः 'प्रहरणकलिता ननविननवितैः ' इति। जयदेवे तु यतिर्नास्ति। यत्सूत्रं 'प्रहरणकलिता च ननभनलगैः ' इति।। 


श्रेय इत्यादि।। 


श्रेयः संभोगं विषयविरतिमव्यग्रां मारप्रध्वंसं त्रिभुवनहितसंपत्तिम्। 

दुष्प्रापाहार्यं पदमभिलषतां तच्च त्वभक्तेरन्या वरद न दिगसंबाधा।। ७९।। 


श्रेयः पुण्यं तत्प्रभवश्चक्रवर्त्यादिसंभोगः। तच्छब्दः प्रत्येकमभिसंबध्यते। तेन तं श्रेयः संभोगमभिलषतां प्रजानाम्। हे वरद त्वद्भक्तेर्नान्या दिगसंबाधा। नान्यो मार्गः प्रतिपक्षासंकटः। लौकिकीं संपत्तिमुक्त्वा लोकोत्तरामाह। तां च विषयेभ्यो रूपादिभ्यः पञ्चकामगुणेभ्यो विरतिमभिलषतां श्रावकगोत्राणां न केवलम्। तं च मारप्रध्वंसम्। तथा बोधिसत्त्वानां त्रिभुवनहितस्य संपत्तिर्लाभस्ताम्। तच्च पदं यत दुष्मापमसंहार्य चाभिलषताम्। त्वद्भक्तेर्नान्या दिगसंबाधेति सर्वत्र योज्यम्। 


वृत्तपक्षे विषयाः पञ्च। तेषु विरतिमभिलषतां कवीनां शक्करीभूषणा असंबाधा नाम।। 


भवत इत्यादि।। 


भवतः कलां किमपि संयतैरिन्द्रियैः क्कचिदादरस्तिमितधीर्यदि ध्यायति। 

अचिरात् स्वयं वरयतीयमेनं जनं वसुधा ध्रुवं जलधिशक्करीभूषणा।। ८०।। 


यदि कश्चित्ः संयतैरिन्द्रियैः क्कचिद्गिरिगुहादिप्रदेशे। आदरेण स्तिमिता विक्षेपाभावान्निश्चला धीर्यस्य तथाभूतः सन् भवतः कलाम् अचलाद्यवस्थां ध्यायति। किमपीति क्रियाविशेषणम्। तदा अचिरात् ध्रुवं निश्चितमेनं जनं वसुधा स्वयमप्रार्थिता वरयति स्वयंवरत्वेनोपतिष्ठत इति यावत्। किंभूता। जलधिः शक्करीव शक्करी मेखला सा भूषणं यस्याः। ' शक्करी मेखलाच्छन्दः ' इति रभसः।। 


वृत्तपक्षे शक्करीच्छन्दोभेदं भूषयतीति शक्करीभूषणा वसुधा। सा च इन्द्रियैः पञ्चभिः संयतैरासादितपाठोपरतिभिरूपलक्षिता।। 


स्वेदेत्यादि।। 


स्वेदपूरविलसत्पुलकोच्छ्वसितैस्त्रुटत् कञ्चुकं दधति निर्धतुमप्यमरस्त्रियः। 

कान्तिकम्रमिव ते समितावतिशक्करी बन्धसारमुरूकम्पमनङ्गविजृम्भितम्।। ८१।। 


ते तव समितौ सदसि। अमरस्त्रियो ऽनङ्गविजृम्भितं दधति। किंभूतम्। त्रुटत्कञ्चुकं यत्र। कैः। स्वेपूरेण विलसन्ति कमनीयानि पुलकानामुच्छ्वसितान्युद्भेदास्तैः। तथातिक्रान्तं शक्करीबन्धस्य सारं बलमुरूकम्पं च। पुनः किंभूतम्। ते त्वया निर्धतुमपि तासामेव कान्त्या कम्रमिव। यत् किल निःशेषेण ध्वस्तं तत् कान्तं न भवतीतीवशब्दः। अथवा तवैव कान्त्या कम्रमिव। उभयानुरागे हि मन्मथविचेष्टितस्य कम्रता। भगवतश्च विरक्तत्वादमरयोषित एव भगवत्कान्तिसंदर्शनात् कम्रमिव तद्विभ्रति।। 


वृत्तपक्षे ऽतिशक्कर्या पञ्चाशाक्षरेण च्छन्दसा यो बन्धस्तेन सारमुत्कृष्टमनङ्गविजृम्भितं नाम। अतिशक्करीबन्धसारमित्यधिकारो गुणमणिनिकरं यावत्।। 


अनुपमेत्यादि।। 


अनुपमरमणीया भङ्गिरङ्गेषु यस्या हरति रतिमुदाराशेषरूपान्तरेषु। 

जयति तनुरखण्डाखण्डलेष्वासलक्ष्मी विजयपरमधामव्यामरूग्मालिनीयम्।। ८२।। 


यस्या भगवत्तनोरङ्गेषु अवयवेष्वनुपमत्वेन रमणीया भङ्गिर्भक्तिः कर्त्री उदाराणि महान्ति भगवत एव यान्यशेषाणि यमार्यादिरूपाणि हरिहरा दिरूपविशेषा वा। तेभ्यः सकाशाद्रतिं हरति। रेणात्रैवाभिरतेः। सेयं महाराजलीलादितनुर्जयति। किंभूता। अखण्डा या आखण्डलेष्वासस्य शक्रधनुषो लक्ष्मीस्तस्या विजयस्तस्य यत् परमं धाम स्थानं तस्य व्यामा चासौ रूक् च व्यामप्रभा तन्माला यस्या अस्ति सा तथा। भगवतो विश्वक्सहजव्यामप्रभत्वात्। सा च प्रभा पञ्चवर्णा।। 


वृत्तपक्षे ऽतिशक्करीबन्धसारमिति लिङ्गविपरिणामेनात्र संबन्धात्। अतिशक्करीबन्धसारा मालिनीयं जयति। 


अविकलेत्यादि।। 


अविकलतालशालिकलकाकलीकल व्यतिकरवल्लकीवलितचारूपञ्चमा। 

भणति मुदा प्रतीष्टजिनभार भारती स्वमहिमकामिनी तव सभासु मद्रकम्।। ८३।। 


प्रतीष्टो ऽनुमतो जिनस्य भारः परार्थभारो येन स संबोध्यते। स्वमहिमानं तव निजं महत्त्वम्। कामयते अजा नोयतेऽतः सा भारती तव सभासु मद्रकं रागविशेषं भणति। किंभूता। अविकलः समस्तालस्तेन शाली कलो ऽव्यक्तमधुरो यस्याः सा काकली। सामान्यविशेषभावाद्भेदः। सैव रवस्तेन व्यतिकरा मिश्रा वा वल्लकी वीणा तया वलितं चारू पञ्चमं स्थानं यया सा।। 


वृत्तपक्षेऽतिशक्करीबन्धसारा कामिनी। रत्नाकरे समुद्रकम्।। 


जयतीत्यादि।। 


जयति नाथ जगज्जयकुञ्जरनिश्चलीकरणशृङ्खलजालनिभाङ्गदभूषितः। 

भुजतरूस्तव दुर्गतिमार्गमहार्गलः प्रमदमन्मथनिर्मथनः सुगतप्रियः।। ८४।। 


हे नाथ तव अवस्थाविशेषे दुर्गतिमार्गमहार्गलो भुज एव तरूः सज्जनविश्रामभूतत्वात् जयति। 'अर्गलं त्रिषु ' इति रभसः। किंभूतः। जगज्जय एव कुञ्जरः। स निश्चलीक्रियते येन। एवंभूतं शृङ्खलजालं यत्तन्निभमङ्गदं केयूरं तेन भूषितः। तथा प्रकृष्टो मदो यस्य स चासौ मन्मथश्च तस्य निर्मथनः। अत एव सुगतानां प्रियः।। 


वृत्तपक्षे इहापि विभक्तिविपरिणामेन संबन्धादतिशक्करीबन्धसारः सुगतप्रियो नाम। पद्यालंकारे 'वृषभ इत्यधुना गदितः सुगतप्रियः '। सूत्रव्याख्यायां वरबुधैरिति रत्नाकरपादैरिति चिन्त्यम्। तैरस्य वृत्तस्य च्छन्दः शास्त्रे ऽनभिधानात्। अधुना गदित प्रश्र्लेषाद्वालेयम्।। 


तवेत्यादि।। 


भवशिरसि महितगुणमहिमभुवं व्यपगतसकलमलशुचिमधिपते। 

तव वरविजयसमुपचितयशसः श्रियमनुहरति हि शरदि शशिकला।। ८५।। 


हे अधिपते। तव वराणां सुरश्रेष्ठानां विजयेन समुपचितं यद्यशस्तस्य श्रियम्। हिशब्दो ऽवधारणे। शरदि शशिकलैवानुहरति। किंभूताम्। भवशिरसि संसारमस्तके महितो गुणमहिमा तवैव यस्माद्भवतीति ताम्। तथा व्यपगतसकलमलत्वेन शुचिम्। शशिकलापि भवस्य महेश्वरस्य शिरसि वर्तमाना महितगुणमहिम्नो भूराश्रयः। कलात्वेन व्यपगतसकल कलङ्कमलशुचिश्च। अतस्तया तदनुहरणम्।। 


वृत्तपक्षेऽतिशक्करीबन्धसारा शशिकला।। 


पट्वित्यादि।। 


पटुपरिमलमिलितमधुकरयुवभ्रमसहशितिसुगतसमुचितसुखा। 

विलसति तव शिरसि रसलयवती स्रगियममरपतियुवतिविरचिता ।। ८६।। 


तव शिरसि अमरपतियुवतिविरचिता स्रगियं विलसति। रसस्य मकरन्दस्य लयः श्र्लेषस्तद्वती। किंभूता। पटुपरिमलमिलितस्य मधुकरयूनो भ्रमं सहते यः शितिसुगतो ऽक्षोभ्यस्तस्य समुचितं वर्धितं सुखं यया। तस्यैव साक्षात्तत्र सुपरिमल योगात् सा तथा। तादृशी च स्रक् मधुकरयूनो भ्रममभिभवति।। 


वृत्तपक्षे ऽतिशक्करीबन्धसारा स्रगियं विलसति। सा च रसेषु षट्सु लयो भङ्गस्तद्वती।। नेत्यादि।। 


न यतिपदमयसि यदतिदयधियः प्रथयसि जगति च परहितकृतिनः। 

जनयति हिमचयरूचिरिति भवतो वियदुपहतनिजमणि गुणनिकरः।। ८७।। 


अतिक्रान्ता दयां धीर्येषां तान् प्रति यद्यस्मात्। न यतीनां शान्तरूपाणां पदमयसि गच्छसि सौम्यस्वभावं विहाय क्रोधरूपेण दमयस्येवेति भावः। यच्च परहिते कृतिनः प्रज्ञावतो जगति प्रथयसि विस्तारयसि। इतिस्तस्मात् हिमचयरूचिर्भवतो गुणानां निकरो वियदाकाशं जनयति। कीदृशम्। उपहतस्त्वद्गुणरत्ननिकरैर्मलिनीकरणान्निजो मणिः सूर्यो यस्य तत्तथा।। 


वृत्तपक्षे ऽतिशक्करीबन्धसारो मणिगुणनिकरः। अयो लोहमष्टधा प्रसिद्धम्। तत्र पदं यतिः।। 


अतीत्यादि।। 


अतिरतिकरकथ कथमिव समियादविरतनवनवनव तव परमैः। 

गुणगणपरिमितिमुदधिषु यतिभिः सुयतिभिरगणितगुण मणिनिकरः।। ८८।। 


अतिरतिकरी कथा यस्य। अविरतो विच्छेदाभावात्। नवनवोऽन्यान्यः। नवः स्तुतिर्यस्य। तथागणिता गुणा यस्येति त्रयमपि संबोधनपदम्। कैरगणिता इत्याह। परमैर्यतिभिः। किंभूतैः। शोभना यतिः संयमो येषां तैः। तव गुणगणस्य परिमितिमुदधिषु वर्तमानो मणिनिकरः कथमिव समियात् समेतु। अपरिमाणत्वाद्गुणानां नैवासादयतीत्यर्थः।। 


वृत्तपक्षेऽतिशक्करीबन्धसारो गुणमणिनिकरः। उदधिष्विति बहुवचननिर्देशात् एकशेषाद्वा प्रतिचतुष्कं यति लक्षितो द्रष्टव्यः। तथा पद्यालंकारः 'जलधिषु जलधिषु गुणमणिनिकरः ' इति। पूर्वस्मादस्य यतिमात्रेण भेदः। पाठशोभया तु तस्य जित्वरत्वम्। अतिशक्करीबन्धसारमिति निवृत्तम्।। १५।। 


जयतीत्यादि।। 


जयति तव तनुरियमुरूतरकरूण निखिलजगदुचितपरिभुगवनिरिव। 

शिशुमतिकलितसकलजनबहुविधविमतिलडितविधिभिरचलधृतिरिह।। ८९।। 


हे उरूतरकरूण। तवेयं तनुरिह जयति। किं बत निखिलस्य जगत उचिता परिभुक् परिभोगस्तस्या अवनि तद्वत्। तथाचलाधृतिर्धैर्यं यस्याः। कैरचला। शिशुरल्पा मतिस्तया कलितो यः सकलो जनस्तस्य बहुविधं विमतेर्विप्रतिपत्तेर्ललितं यत्तस्य विधिभिः।। 


वृत्तपक्षेऽष्टाविति वक्ष्यति। अष्टौ षोशाक्षरे च्छन्दसि अचलधृतिर्नाम। परेषां मात्रासमकजातावेतौदाहरणम्।। 


प्रतीत्यादि।। 


प्रति जडधियमिह समधिकगुरूदय मृदुमतिरपि तव शुभमयसमुदय। 

करतलविनिहितकुवलय कलयति जिनकुलकुवलयमविषमभरमिति।। ९०।। 


जडधियं प्रति लक्ष्यीकृत्य समधिकगुर्वी दया यस्य तस्यामन्त्रणम्। शुभमयः शुभहेतुकः समुदयो यस्य। तथा करतले विनिहितं कुवलयमिन्दीवरं येन। एतदपि द्वयमामन्त्रणपदम्। इह जगति मृदुमतिरपि जनो जिनकुवलयं मुदितादिभूवलयं तवाविषमभरमदुर्वहभरमिति कलयति। यतस्त्वं करतलविनिहितकुवलय इति शब्दच्छलः।। 


वृत्तपक्षे ऽष्टौ कुवलयमपूर्वम्। तच्च डलयोरैक्यात् जलधिं प्रति यमो यतिरस्यास्तीति तथा।। 


व्योमेत्यादि।। 


व्योमविकीर्णकीर्तिमदपरिमलकलनाभङ्गुरतुङ्गवादिमदकलकरिनिकरम्। 

विश्ववनोदरेऽत्र रवयतिजितजलदं नाथ दधास्युदारमृषभगजविलसितम्।। ९१।। 


हे नाथ। ऋषभः श्रेष्ठः। स चासौ गजश्च। ऋषभशब्दो भद्र श्रेष्ठपर्यायः। तथा च 'आर्षभं सिंहनादं नदामि' इति प्रयोगः। न भूपमानमन् यथा गजर्षभेति स्यात्। तस्य विलसितमुदारमत्र विश्वनोदरे दधासि। किंभूतम्। व्योम्नि विकीर्णा कीर्तिरेव मदपरिमलस्य कलनया आघ्राणेन भङ्गुरस्तुङ्गवादिमदकलकरिनिकरो यस्मात्। गन्धगजस्य हि मदगन्धमाघ्रायान्ये मत्ता अपि करिणो लक्ष्यन्ते। पुनः किंभूतम्। रवो गर्जितम्। तत्र यतिः प्रयत्न इक्कस्यादिभ्यः। तया जितो जलदो येन।। 


वृत्तपक्षे ऽष्टौ ऋषभगजविलसितम्। रवाः स्वरास्ते च सप्त तत्र यतिर्यस्य तत्तथाः।। क इत्यादि।। 


कस्त्वयि बद्धवर्मणि जगद्धितधानधिया निर्विहतप्रतिज्ञ परितापकणः क्क चन। 

मारवधूजनस्य कमनीयकपोलतले यन्नवपत्त्रभङ्गरचनालस एव करः।। ९२।। 


जगद्धितस्य धानमाधानम् तद्धितधानधिया बद्धवर्मणि बद्धवीर्यसंनाहे त्वयि क्क चन परार्थविषये परितापस्य कणो लवोऽपि। तस्य मम हितत्वात्। अत एव निर्विहतप्रतिज्ञेत्यामन्त्रणम्। निर्निषेधेऽत्र। अविहतप्रतिज्ञत्वमेव। कुतः। यद् यस्मान्मारवधूजनस्य कमनीयकपोलतले नवा या पत्त्रभङ्गरचना तत्रालस एव करो वर्तते मारस्य जितत्वात्।। 


वृत्तपक्षे ऽष्टौ पत्त्र भङ्गरचना नामापूर्वम्।। 


निरूपमेत्यादि।। 


निरूपमरम्यरूप जिनजातदृश्वनो ऽष्टौ मदयति तेऽधिकं विधुतशोक लोकपालान्। 

सदुपधिपुण्डरीकनखराजिराजितेयं विरचितपञ्चचीररूचिरा कुमारलीला।। ९३।। 


हे निरूपमरम्यरूप। विधुतशोक। ते तव जिनजातदृश्वनः सुगतसमूहं दृष्टवत इयं कुमारी लीलाष्टौ लोकपालान्मदयति हर्षयति। अधिकमत्यर्थम्। जिनजात दृश्वनोऽपि कुमारली लेयमतिरूचिरेत्यत्यर्थमदहेतुः। कीदृशी। विरचितपञ्चचीरत्वेन रूचिरा। पुनः किंभूता। सन् शोभन उपधिरूपाधिरिह स्वर्ण यस्याः। सा चासौ पुण्डरीकस्य व्याघ्रस्य नखराजिश्चेति ताभ्यां राजितेति। 


वृत्तपक्षे ऽष्टौ कुमारलीला नाम। अष्टावितीत ऊर्ध्वं नाधिक्रियते।। 


गुणानामित्यादि।। 


गुणानामत्यष्टिः कथमिह ममेवास्तु जगतामिति च्छन्दः स्वैरं परिणतिमवापत्तव तथा। 

यथा त्वय्येवास्मिन् परमरसभेदप्रणयनी समुद्भूता भूतिर्निखिलसुखशाखाशिखरिणी।। ९४।। 


इह जगति। मम या गुणानाम त्यष्टिरतिव्याप्तिः। सैव जगतामाशिषे कथमस्त्विति। च्छन्दो ऽभिलाषस्तव स्वैरं शनैः परिणतिं परिपाकं तथावापत् अगमत् यथास्मिन् जगति निखिलानां सुखानां शाखा पारमिता तस्याः शिखरं पर्यन्तस्तद्वती गुणानां विभूतिः त्वय्येव भगवति समुद्भूता। परार्थपरत्वेन स्वार्थसंपद्विशेषावाहकत्वात् प्रणिधिप्रस्थानयोर्द्वयोः। किंभूता। परमस्य रसभेदस्य शृङ्गारादिरसविशेषस्य प्रणयनी।। 


वृत्तपक्षे ऽत्यष्टिः सप्तदशाक्षरं च्छन्दस्तथा परिणतिमवापद्यथा शिखरिणी समुद्भूता। सा च रसाः षट् तत्र प्रभेदो भङ्गस्तत्प्रणयनी। अत्यष्टिच्छन्दस्तथा परिणतिमवापद्यथा समुद्भूतेति मन्दाक्रान्तापर्यन्तमधिकृतं वेदितव्यम्। 


जयतीत्यादि।। 


जयत्यमरमन्दिरोपलविशालवक्षः स्थलः स्थलीकमलकाननप्रतिमपादकन्दप्रभः। 

प्रभाकरशताधिकप्रकटतेजसालंकृतः कृतान्तमदमर्दनस्त्रिभवनाथपृथ्वीधरः।। ९५।। 


त्रिभवनाथा बुद्धास्तेषां पृथव्यो मुदितादिभूमयस्ताधरतीति तथा। स जयति। किंभूतः। अमरमन्दिरं मेरूः। तदुपलवद्विशालं वक्षः स्थलं यस्य। एतेन हेमाभत्वमपि सूचितम्। तथा स्थलीकमलकाननप्रतिमापादकन्दप्रभा यस्य। कमलान्यपि कन्दादुद्भवन्ति प्रभापि पादकन्दादुद्यती शोणत्वाद्विततत्वाच्च कमलवनेनोपमीयते। प्रभाकरशतं बहव आदित्याः। तदधिकेन तेजसालंकृतः। सूर्यसहस्रातिरेकप्रभत्वात्। कृतान्तमदमर्दनत्वेन मृत्युमारजय उक्तः।। 


वृत्तपक्षे ऽत्यष्टिच्छन्द स्तथा परिणतिमवापद्यथा पृथ्वी वृत्तभेदः समुद्भूता। स च वृत्तभेदो मदा मदनास्ते चाष्टौ तत्र मर्दनं छेदो यस्य तथा। पृथ्वीविशेषणत्वे तु मामर्दनेति स्यात्।। 


विमोहेत्यादि।। 


विमोहबलान्धकारपटलावनद्वैर्मुधा रसातलगुहातिशायिभवसंकटेषु स्थितम्। 

त्वदङ्घ्रिकमलाश्रयोत्सवसुखं न चेदादृतं चिरस्य जिनवंशभास्कर कुमार मारैर्जितम्।। ९६।। 


हे जिनवंशभास्कर बुद्धवंशालोककर। कुमार। विमोहबहलान्धकारपटलावनद्धैः प्राणिभिः। त्वदङ्घ्रि कमलाश्रयोत्सवलक्षणं सुखं चेद्यदि नादृतम्। तदा रसातलं पातालं तदेव गुहा अनालोकत्वात्। तदतिशायिषु भवसंकटेषु मुधा निष्फ़लं स्थितम्। तदा च चिरस्य मारैर्जितं जीयते।। 


वृत्तपक्षे ऽत्यष्टिच्छन्दस्तथा परिणतिमवापद्यथा रमेति पृथिवी समुद्भूता। पूर्वा पृथ्वी इयं च पॄथिवी यतिरहिता चेति भेदः।। 


कल्पशतोपपादितमहाफ़लमिव विहितं चञ्चलमेतदायुरधिप त्वदवनतिपरैः। 

भूषणभव्यभावगमितं श्रितगुरूकरूणादिग्यतिवंश पत्त्रपतितं कमिव जलरूहः ।। ९७।। 


एतदतिचञ्चलमायुस्त्वदवनतिपरैर्विहितम्। किमिव। कल्पशतेनोपपादितं संपादितं यन्महाफ़लं तदिव। यथा जलरूहः पद्यस्य पत्त्रे पतितं कं पानीयं चञ्चलमपि भूषणभव्यभावं दे गमयतीति तथोक्तमाश्रयविशेषात्। तदुक्तम् 'तयोमम्बुजपत्त्रस्थं धत्ते मुक्ताफ़लश्रियम् ' इति। तद्वदायुरपि। गुर्वी करूणा यत्र दिशि मार्गे सा तथा। श्रिता गुरूकरूणा दिक् यैर्यतिभिर्मुनिभिस्तेषां वंशः। इतः श्रितगुरूकरूणादिग्यतिवंशो येनैतत् संबोधनपदमधिपेति च।। 


वृत्तपक्षे ऽत्यष्टिश्च्छन्दस्तथा परिणतिमवापद्यथा वंशपत्त्रपतितं समुद्भूतमिति लिङ्गविपरिणामेन संबन्धात्। तच्च दिक्षु दशसु यतिरस्येति दिग्यति।। 


तवेत्यादि।। 


तव गुणविस्तरप्रणयपूतवचोविभवं वरद स एक एव सुमुखो मुखमावहति। 

मधुमयसामधाम यजुषा सजुषानुगतं श्रवणसुधाभिमानभवनर्क्कुटकं च विधिः।। ९८।। 


हे वरद। तव गुणानां प्रणयेन परिचयेन पूतो वचोविभवो यस्य तादृड्मुखं स एवैको विधिरावहति नान्यः। अत एव सुमुखः। ननु त्रयीपरिचयादेव तस्य सुमुखत्वमस्तीत्याह। मधुमयस्य गानमाधुर्यात्। साम्नो वेदविशेषस्य धाम स्थानमपि। अप्यर्थस्य चस्य प्रत्येकाभिसंबन्धात्। तथानुगतमपि। केन। यजुषा। किंभूतेन। सजुषा प्रीतिकरेण। तथा श्रवणसुधा रूपेणाभिमननमभिमानस्तस्य भवनम्। क्क चित् श्रवणसुधाभिधानेति पाठः। तत्रापि श्रवणसुधेत्यभिधानस्य भवनमभिधेयत्वेनाश्रयः। तादृशामृचां कुटमिव कुटम्। स्वार्थे कः। ' कुटनिपावस्त्री' इत्यमरः। घट इवाधार इत्यर्थः। एवंभूतमपि मुखं सुमुखतया तदा आवहति यदा त्वद्गुणविस्तरप्रणयेन पूतं वचोविभवं भवति।। 


वृत्तपक्षे ऽत्यष्टिश्च्छन्दस्तथा परिणतिमवापद्यथा नर्कुटकं समुद्भूतम्।। 


त्रिभुवनेत्यादि।। 


त्रिभुवनसंमदप्रदजिनव्यवसायमधौ स्फ़ुटसहकारतामहितमीहितमीश तव। 

प्रवचनमञ्जरीस्रुतशमामृतपानमुदाभृत यतिषट्पदं कलकणत्कृतिकोकिलकम्।। ९९।। 


हे ईश। त्रिभुवनस्य संमदप्रदो यो जिनस्य व्यवसायो बोधिसत्त्वावस्थायां जगदुद्धरणोद्यमः स एव मधुर्वसन्तः। तद्विषये सहकरणं सहकारः। स स्फ़ुटो यस्य तद्भावस्तत्त्वं सहकारता। तया महितं तवेहितं चेष्टितं कर्तु यतिषट्पामभृत पुष्टवत्। तथा कलं क्कणन् कृतिजन एव कोकिलः। स्वार्थिकः कन्। तमप्यभृत। उभयत्र जातावेकवचनम्। कयाभृत। प्रवचनमञ्जर्याः स्रुतस्य स्यन्दितस्य शमामृतस्य तस्य पानात् या मुत् तया। आर्यमञ्जुघोषस्य हीच्छाप्रतिबद्धबोधः चेष्टितमशेषबुद्धानां हेत्ववस्थायां जगदुद्धरणस्य सहकारिभावं भजदभिवर्धमानं क्रमेण तानभिसंबुद्धीकृत्य तद्धर्म देशनानिष्यन्दनिर्वाणसुधास्वादप्रीत्या यतिजनश्रावकान् कृतिनश्च बोधिसत्त्वान् बिभर्ति। तथा त्रिजगत्प्रमोदप्रदे ऽपि मधौ विकसच्चूततरूशालितया चेष्टितमुचितमलीनां कलक्कणत्काराणां कोकिलानामभिनवोद्भिन्नमञ्जरीनिर्यन्मकरन्दपानानन्देनैव तान् बिभर्ति नान्यथा विघातैकरसत्वाच्छमस्य।। 


वृत्तपक्षेऽत्यष्टिश्छन्दस्तथा परिणतिमवापद्यथा कोकिलकं समुद्भूतम्। तच्च यतयश्च षट् च तत्र पदं यतिर्यस्य तथा।। 


क्क चिद् इत्यादि।। 


क्क चिदपि भवद्भीत्या भूरिप्रवादिमदद्विपोद्दलन सुगतस्वान्तक्ष्माभृद्गभीरगुहागृह। 

त्रिभवनवनाधीश क्रीडारसार्णवसंयता द्रवति हरिणीवारं मारप्रचण्डमहाचमूः।। १००।। 


वनेऽधीशो वनाधीशः। सामान्यशब्दत्वे ऽप्यत्र सिंहाभिधानं मदद्विपोद्दलनतया क्ष्माभृद्गम्भीरगुहागृहाहिवासात् हरिणीविद्रावणाच्च। भगवानपि त्रिभवने वनाधीश इव वनाधीशः। सुगतानां स्वान्तं मनः। तत्क्ष्माभृद्गम्भीरगुहा सैव गृहं यस्य। भूरिवादि मदद्विपानामुद्दलनश्च। त्रयमेतदामन्त्रणपदम्। क्कचिदप्यवस्थाभेदे भवतो भीत्या मारस्य प्रचण्डमहाचमूररं शीघ्रं हरिणीव द्रवति पलायते। किंभूता। क्रीडारस एव विस्तरत्वादर्णवस्तत्र संयता तदायत्तेत्यर्थः।। 


वृत्तपक्षेऽत्यष्टिश्छन्दस्तथा परिणतिमवापत् यथा हरिणी समुद्भूता। सा च रसेषु षट्सु अर्णवेषु च चतुर्षु संयता यतियुक्ता।। 


दुर्दान्तानामित्यादि।। 


दुर्दान्तानां दमनविधये क्कापि कारूण्यवेगाद् धत्से मूर्तिं चरणशिखया ख्यातविक्रान्त यस्याः। 

त्रैलोकीयं श्रुतिरसभिदाक्रन्दनादैकवृत्तिर्मन्दाक्रान्ता व्रजति विलयं नाथ न स्वास्थ्यमाशु।। १०१।। 


हे नाथ ख्यातविक्रान्त। दुर्दान्तानां दमनविधये क्कापि विषये कारूण्यस्य वेगादुद्रेकान्मूर्ति धत्से यस्याश्चरण शिखया इयं त्रैलोकी मन्दमप्याक्रान्ता सती विलयं विशेषेण लीनतां व्रजति मज्जतीति यावत्। तथा सती न आशु स्वास्थ्यं व्रजतीति योज्यम्। किंभूता। श्रुतिरसं श्रवणाभिलाषं भिनत्तीति क्किप्। स चासावाक्रन्दनादश्च। तत्रैका वृत्तिः प्रवृत्तिर्यस्याः। 


वृत्तपक्षे ऽत्यष्टिश्छन्दस्तथा परिणतिमवापत् यथा मन्दाक्रान्ता समुद्भूता। श्रुतिर्वेदाश्चत्वारो रसाः षट्। तत्र भिद्भेदो यस्याः सा तथा। इत ऊर्ध्वमत्यष्टिर्नाधिक्रियते।। 


शोभेत्यादि। 


शोभासंपत्तिः शिरसि गुरूणैकेन सैवोपजाता या स्यात्कल्पद्रोः शुभफ़लनिभं बिभ्रतो भद्रकुम्भम्। 

व्याख्यान प्रेङ्खत्करकररूहोद्भासिनी भाति भर्तुर्दोर्वल्ली चेयं कुसुमितलता वेल्लितेवानिलेन।। १०२।। 


या स्याच्छो भासंपत्तिः कल्पद्रोः कल्पवृक्षस्य। किंभूतस्य। शुभफ़लनिभं सर्वसत्त्वसाधारणपुण्यफ़लप्रायं शिरसि भद्रकुम्भं विभ्रतः। सैव भर्तुर्मञ्जुश्रियः शिरसि स्थितेन गुरूणा अक्षोभ्येणोपजाता भवति। भर्तुः कल्पतरूकल्पस्येयं दोर्वल्ली अनिलेन वेल्लिता कम्पिता कुसुमितलतेव भाति। कथम्। व्याख्यानेन प्रेङ्खन्ती चासौ करसंबन्धिनः कररूहा नखास्तैरूद्भासिनी च। यस्मात् विशेषणयोरपि विशेष्यमपेक्ष्य विशेषणविशेष्यभावविवक्षायां समासः।। 


वृत्तपक्षे यैव मन्दाक्रान्ता या यत्यादिः शोभासंपत्तिः सैव शिरसि आदौ एकेन गुरूणा कृतेनोपजाता यस्यामियं कुसुमितलतावेल्लिता धृतौ वक्ष्यमाणायामष्टादशाक्षरे च्छन्दसि।। वृत्तमित्यादि।। 


वृत्तमेतदशेषबुद्धकुलाकलङ्ककलानिधेराहितं हृदि चेन्महाजड हारहारितवानसि। 

जिह्वया प्रणयीति चेद्धनसारसारमदेन किं कर्णपूरमकारि चेत् खलु खण्डितं मणिकुण्डलम्।। १०३।। 


अशेषबुद्धकुलस्याह्लाददानादिभिरकलङ्ककलानिधेर्भगवत एतदुक्तं वक्ष्यमाणं च वृत्तं हृदि चेत् आहित मारोपितम्। वक्ष्यमाणेनेतिना संबन्धादित्यतः। हे महाजड मुक्ताहार हारितवानसि। अस्यैव परमनिर्वृतिहेतुत्वेन महाशीतलस्यापि भवतो हारोऽहार्येवेत्यर्थः। जिह्वया प्रणयि चेत् कृतम्। इ घनः सारोऽस्य घनसारः कर्पूरसारमदेन किम्। न किंचित्। अस्यैव सुस्वादत्वात्। कर्णपूरम्। कर्णभूषणमकारि चेत्। अत्रापीतियोगात्। अतः खलु निश्चितं मणिमयकुण्डलं खण्डितं जितम्। एतस्यैव श्रोत्र भूषणभूतत्वात्।। 


वृत्तपक्षे धृतौ कर्णपूरं नाम दृष्टलक्ष्यमेव।। 


उपचितेत्यादि। 


उपचितपुण्यसंचय शचीकरतलसुखदैः परिचरणैरतृप्तिगमिव स्वमसममहिमन्। 

मणिमयपादपीठफ़लकं स्फ़ुटयति भवतः कलिततमालपत्त्रमलिकान्नमति शतधृतौ।। १०४।। 


हे उपचितपुण्यसंचय। असममहिमन्। भवतो मणिमयं पाद पीठफ़लकम्। शचीकरतलेन क्रियमाणत्वात् सुखदैरपि शचीकरतलस्य वा सुखदैः परिचरणैः परीष्टिभिरतृप्तिगमिवातृप्तमिव यत्तदधुना नमति शतधृतौ शतमखे अलिकाल्ललाटात् सकाशात्। तद्वा प्राप्यं कलितं तमालस्य तापिञ्छस्य तिलकीकृतं पत्त्रं येन। तत्तादृशं स्वमात्मानं स्फ़ुटयति। तृप्तं प्रकाशयतीति यावत्। भो/भाक्षभुजो ऽपि कमनीयकामिनीकरतलविहितैः सुखहेतुभिरपि परिवेशादिभिस्तर्पितस्यापि ललाटतिलकमेव तृप्तिमावेदयते। तथा भगवतो ऽप्युपचितपुण्यसंभारस्यासममहिम्न स्तादृङ्मणिमयपादासनं शचीनाम्नो योषितः करतलसु खदै रूपस्थानैर्नैव तृप्तिमाविष्करोति। यदा तु नमतः क्रतूनां शतस्य कर्तुर्ललाटादुत्तमाङ्गात् संक्रान्ततमालपत्त्रं स्यात्तदाविष्क्रिया।। 


वृत्तपक्षे तमालपत्रमपूर्वं स्फ़ुटयति। कुत्र। भवा रूद्रा एकादश तेषु भवतः। धृताविति निवृत्तम्।। 


परार्थ इत्यादि।। 


परार्थे स्थास्नूनामतिधृतिमतामीश विश्वानुकम्पामुखोन्मीलन्नानारसरसपदाकर्ण्यावेदयामि। 

दशां तामाधेहि क्षणमपि गुरो पावनीं पावनानां समन्तध्वान्तानि प्रहरसि यया मेऽघविस्फ़ूर्जितानि।। १०५।। 


हे परार्थे स्थास्नूनामतिधृतिमतां बोधिसत्त्वानामीश। नानाप्रकारो रसो ऽभिलाषो येषु रसेषु ते। तथा विश्वानुकम्पैव मुखं द्वारं ते उन्मीलन्तो ये नानारसास्तेषां पद। इद मप्यामन्त्रणम्। आकर्णय शृणु। आवेदयामि। किमावेदयसीत्याह। हे गुरो पावनानां मध्ये पावनीं दशां तामपि क्षणमप्याधेहि। ययाघानां पापानां विस्फ़ूर्जितानि मे हरसि। किंभूतानि। समन्तं सर्व ध्वान्तं येभ्यस्तानि।। 


वृत्तपक्षे ऽतिधृतौ ऊन विंशत्यक्षरे च्छन्दसि सतां संमता मेघविस्फ़ूर्जिता। रसेषु रसेषु पां यतिर्यस्याः।। 


पायादित्यादि।। 


पायाद्वो वरबुद्धवंशजलधेर्वृद्धौ सुधादीधितिर्मञ्जुश्रीः परिभूतमन्मथकथः प्रज्ञाङ्गनासंगमे। 

भीमभ्रान्तिविभावरीपरिभवे विभ्रद्यतिं भास्वतो विश्वक्लेशकुरङ्गसङ्गरविधौ शार्दूलविक्रीडितम्।। १०६।। 


वरबुद्धवंशः। स एव विस्तरत्वादिना जलधिस्तस्य वृद्धौ सुधादीधितिर्मञ्जुश्रीर्वो युष्मान् पायात्। प्रज्ञा याद्वया धीः सैवाङ्गना तत्सङ्ग मेऽपि परिभूतमन्मथकथ इति विरोधाभासः। पुनः किंभूतः। आदित्यस्य यति माचारं बिभ्रत्। किंनिमित्तम्। भीमा भयावहा या भ्रान्तिरविद्या सैव विभावरी तस्याः परिभवे तथापि विश्वस्य विश्वे वा क्लेशास्त एव कुरञ्गास्तेषां सङ्गरविधौ शार्दूलस्य द्वीपिनो विक्रीडितं बिभ्रदिति संबन्धः।। 


वृत्तपक्षे लिङ्गविपरिणामेन संबन्धादतिधृतिमतं शार्दूलविक्रीडितम्। भास्वतो भास्वति द्वादशयतिं बिभ्रत्।। 


अन्तरित्यादि।। 


अन्तस्त्रासाङ्कुराभोत्पुलक तनुरूहैस्त्रैलोक्यविजयावस्थां ते वीक्ष्यं भग्नं सुरमुनिविसरैरूग्रग्रहनुदः। 

कारूण्यादुद्यतस्याप्यमलतरशरज्ज्योत्स्नापरिकरादिन्दोर्बिम्बादनर्घस्मितवसुवदनाशेषप्रियकृतौ।। १०७।। 


स्मितमेव वसु द्रव्यं यस्य तत्तथा। अनर्घं स्मितवसुवदनं यस्य तस्यामन्त्रणम्। कस्मात् सकाशात्तथा त्वमित्याह अमलेत्यादि। किंनिमित्तं तदित्याह। अशेषस्य सत्त्वनिकायस्य प्रियकृतौ। ते तव उग्रग्रहनुदस्त्रैलोक्य विजया याचलक्रोधाद्यवस्था तां त्रैलोक्यविजयरूपां वा वीक्ष्य भग्नम्। कैः सुरमुनिविसरैर्देवर्षिसंघैः। किंभूतैः। अन्तस्त्रासबीजस्याङ्कुराभा उत्पुलका हृषितास्तनुरूहा येषां तैः। कथंभूतस्य तव। कारूण्याज्जगदर्थमुद्यतस्यापि कृपयोद्युक्तस्य जगत्प्रीतिविधानार्थं स्मितमुखस्य चेयमवस्था विरोधिनीति चेन्न। आहत्य भयोपदर्शने पर्यन्ते निःश्रेयसावहनादिति।। 


वृत्तपक्षे कृतौ विंशत्यक्षरे च्छन्दसि सुवदना। तत्र च मुनीनां विसरैर्निवहैर्भग्नं भङ्गः प्रतिसप्तकं यतिरित्यर्थः। कृताविति वृत्तं यावधिकृतम्।। 


भयेत्यादि।। 


भयभग्नैरतिदूरतो विरहिणां पत्त्रैः श्रयायायताममराणां गुरूभक्तिनिर्भरमनोव्यक्तौ सहायोपमम्। 

गगनामेयरयं युगान्तजलदध्वानाहिकक्ष्वेडितं परितः खण्डितमारमस्तु जगतस्त्वत्सिंहविक्रीडितम्।। १०८।। 


तव सिंहस्य विक्रीडितं परितः खण्डितो मारो येन तादृशं जगतो ऽस्तु भवतु। किंभूतम्। भयेन भग्नैः पत्त्रैरित्यैरावणादिभिर्वाहनैर्विरहिणाम्। यतस्ते त्वदाश्रयायागच्छन्तः सुरा दूरादेव त्वत्सिंहविक्रीडितभयभ्रष्टवाहनाः। अतो भग्नाहंकारतया त्वय्यभिव्यक्त गुरूतरभक्तयः संवृत्ताः। ततस्तेषां भक्तिनिर्भरमनो ऽभिव्यक्तौ त्वत्सिंहविक्रीडितस्यैव साहाय्यम्। गुरौ वा वाहनादिपरिहारेणागमनाद्भक्ति निर्भरं मनो भवतीति तदभिव्यक्तिरूपोपदेशे तस्यैव सहकारितेत्यभिप्रायः।। 


वृत्तपक्षे कृतौ सिंहविक्रीडितम्। तच्च खण्डिता मारास्त्रयोदश यत्र तादृक्। नन्वष्टौ वस्वङ्गमदना इति पठ्यते। सत्यम्। किं तु प्रतिपदमारभ्य मदनत्रयोदशीं यावत् स्मराणामुदयो भवतीति त्रयोदशैवोक्ताः। यथा च पद्यालंकारे 'इदमीशनमतं कृतौ स्मरयति स्यात् सिंहविक्रीडितम् ' इत्यस्य व्याख्याने स्मरास्त्रयोदशेति। एतच्च वृत्तं शार्दूलविक्रीडितस्याद्यगुरोः स्थाने लघुद्वये सतीति भेदः।। 


व्याप्तेत्यादि।। 


व्याप्तविश्वया शरन्नभस्तलातिशुद्धया धियाधियात दुःसहार्तिविक्लवाप्रमेयसत्त्वधात्वधीनसत्कृपादय। 

संसृतौ च निर्वृतौ च शश्वदप्रतिष्ठ वादिनां वरिष्ठ वृत्तमीदृशं तु नामतोऽपि नापरस्य सिधिमभ्युपेति।। १०९।। 


हे व्याप्तविश्वया शरन्नभस्तलातिशुद्धया धियाधियात अध्याश्रित। दुःसहा आर्तिस्तया विक्लवो व्याकुलो यो ऽप्रमेयसत्त्वधातुस्तदधीना या सती कृपा तया आदय। संसृतौ संसारे। निर्वृतौ च निर्वाणे शश्वन्न विद्यते प्रतिष्ठा येषां ते च ते वादिनश्च तेषां वरिष्ठेतीदमपि द्वयमामन्त्रणम्। ईदृशमुक्तवक्ष्यमाणं भवतो वृत्तं नामतो ऽपि नाममात्रेणाप्यपरस्य सिद्धिं निश्चयं नाभ्युपैति।। 


वृत्तपक्षे कृतौ वृत्तं नाम। कृताविति निवृत्तम्।। २०।। 


तीव्रेत्यादि।। 


तीव्रतापविद्रुतायसच्छटासदृक्कटाक्षसंयमक्षणाधीनविश्वसंचयैश्चतुर्दिगीश्वरैः प्रकृत्युदञ्चितात्मभिः। 

स्फ़ारविभ्रमप्रपञ्चपञ्चपञ्चबाणजिष्णुभिर्दशात्मना सुन्दरीजनेन चातनोषि कामपि प्रकामविस्मयां श्रियम्।। ११०।। 


तीव्रतापेन विद्रुता या आयसी आयसस्य वा छटा तत्सदृशानां कटाक्षाणां संयमक्षणे ऽधीनो विश्वस्य संचयः सृष्टिर्येषां तैश्चतसृणां दिशामीश्वरैर्यमान्तकादिभिश्चतुर्भिः क्रोधैः करणभूतैः कामपि प्रकामविस्मयां श्रियमातनोषि। किंभूतैः। प्रकृत्यैव उदञ्चितो महत्त्वेनोत्थापित आत्मा तैः तथा। स्फ़ारो विभ्रमस्य भ्रान्तेर्विलासस्य वा प्रपञ्चो वैचित्र्यं तस्य पञ्चनं पञ्चो विस्तारणं यस्य। स चासौ पञ्चबाणश्च तस्य जिष्णुभिः। न केवलमेतैरेव। लोचनादयः पञ्च देव्यो वक्रादयः षट्चेति दशात्मना सुन्दरीजनेनापि उपलक्षणमेतन्माण्डलेयकथनम्। अन्येऽपि द्रष्टव्याः।। 


वृत्तपक्षे प्रकृतौ एकविंशत्यक्षरे च्छन्दस्युदञ्चिता सुन्दरी नाम।। 


उत्कीर्णेत्यादि।। 


उत्कीर्णोन्निद्रकुन्दप्रकरमिव दृशां चारूभङ्गैस्त्रिभागैः स्वेदस्रस्ताङ्गरागस्नपितमिव मुहुः कान्तकान्तिच्छटाभिः। 

व्याप्तं व्योम त्वदर्चारूचिभिरभिहताविद्य विद्याधरीभिः सौरभ्याकृष्टहृष्टक्कणदलिपटलोल्लासितस्रग्धराभिः।। १११।। 


स्रजामेव सौरभ्येणाकृष्टं पश्चादिष्टार्थलाभाद्धृष्टमत एव क्कणत् यदलिपटलं तेनोल्लासिताः स्रजः पूजार्थं धरन्तीति ताभिः। त्वदर्चारूचिभिर्विद्याधरीभिर्व्योम व्याप्तं सत् उत्कीर्ण उप्त ऊर्ध्व क्षिप्तो वा उन्निराणां कुन्दानां प्रकरो यत्र तदिवाभातीति गम्यम्। कैर्व्याप्तं तथाभाति। तासामेव दृशां त्रिभागैः कटाक्षैः स्फ़ुरण दृशैः चारूर्भङ्गो वलनं येषां तैः। तथा ताभिरेव विद्याधरीभिः कान्तकान्तिच्छटाभिर्व्योम व्याप्तम्। भगवद्दर्शनजनितसात्त्विकस्वेदवशात् स्रस्तेनाङ्गरागेण विलेपनेन स्नपितं मृषितमिवाभाति।। 


वृत्तपक्षे प्रकृत्युदञ्चिता स्रग्धरा। सा च चारूर्भङ्गो यतिर्येषां तैस्त्रिभिः भागैः प्रत्येकं सप्तकाक्षरैर्लक्षिता। प्रकृत्युदञ्चितेति निवृत्तम्।। 


आकृतीत्यादि।। 


आकृतिजन्मवृत्तविभवक्रमातिशयसंपदः सुखमियादीश दिगन्तगीतममलं यशश्च शरदिन्दुसुन्दरतरम्। 

गायति यस्त्वदाह्वयमयं सदैव भगवन्भवाध्वगजनो नूनमगम्यगौरव गिरां गुरो गुणसमुद्र मद्रकमिदम्।। ११२।। 


हे भगवन् ईश। गिरामगम्यगौरव गुरो गुणसमुद्र। यो भवाध्वगजन इदं त्वदाह्वयमयं त्वन्नामगर्भं मद्रकं रागविशेषं सदैव गायति सः। आकृतिश्च रूपम्। जन्म च देवादिजातिः। वृत्तं च सच्चरितम्। विभवश्च धनादि। क्रमश्च विक्रमः। एषामतिशयसंपद सुखं यथा भवति तथेयादासादयेत्। दिगन्ते गीतं शरदिन्दुसुन्दरतरत्वादेवामलं यशश्चेयात्।। 


वृत्तपक्षे आकृतौ द्वाविंशत्यक्षरे च्छन्दसि जन्म यस्य तन्मद्रकमिदं वृत्तम्। तच्च दिक्षु दशसु अन्तो विरामस्तेन गीतम्। आकृतिजन्मेति निवृत्तम्।। 


मध्वासारेत्यादि।। 


मध्वासारस्नातोद्भ्रान्तप्रबलमदमुखरमधुकरनिकरं प्रीतेरेकं लीलावासं विदितबलमपि मुनिहृदयविकृतौ। 

वागीशान त्वय्येकान्तं वसुविषयविरतिसमुपचितबलीः संभोगश्रीमत्ताक्रीडं वरद दिवि नियतमनुभवति।। ११३।। 


हे वागीशान। वरद। त्वयि एकान्तं वसुविषये विगता रतिर्यत्र समुपचयने तद्यथा भवति वसुविषये वादृष्टतया समुपचितो बलिः उपहारो येन स सुधीः। संभोगश्रीमत्तया क्रीडनं क्रीडं दिवि नियतमनुभवति। किंभूतम्। मधुनः सुधाया आसारेण स्नातस्तदनु उपरि भ्रान्तः प्रबलमदेन मुखरो मधुकराणां निकरो यस्मिन्। प्रीतेश्च एकमसाधारणं लीलावासम्। अत एव मुनीनां हृदयविकारायापि बलं यस्य विदितं तत्तथा। इह त्वयि सर्वस्वेन पूजाविधा नात् स्वर्गसुधापानक्रीडासुखमनुभवतीत्यर्थः ।। 


वृत्तपक्षे वसवो ऽष्टौ। विषयाः पञ्च। तेषु यतिर्यस्य तन्मत्ताक्रीडं विकृतौ त्रयोविंशत्यक्षरे च्छन्दसि।। 


मदेत्यादि।। 


मदगुरूगण्डगर्जितजितोन्नताम्बुदगजेन्द्रवृन्दमलिनं निशितसमस्तशस्त्रकिरणप्रभाम्बरपिनद्धात्तिनिवहम्। 

प्रवररथाधिरूदसुभटं बलं बलनिधे त्वदेकशरणं श्रयति नरं मनोहरयतिप्रवेशवशगोत्तमाश्वललितम्।। ११४।। 


हे बलानां स्थानास्थानज्ञानबलादीनां दशानां निधे। त्वदेकशरणं नरं बलं चतुरङ्गं श्रयति। कीदृशम्। मदेन गुरूगण्डानां गर्जितेन जितोन्नताम्बुदानां गजानां वृन्देन मलिनम्। तथा निशितसमस्तशस्त्रकिरणानां प्रभा विस्फ़ुरणं सैवाम्बरं वस्त्रं तेन पिनद्धः पत्तिनिवहो यत्र। क्कचित् प्रभास्वरेति पाठः। तत्र किरणैः प्रभास्वरादेव पिनद्धः पत्तिनिवहो यस्मिन् तत्तथा। प्रवररथाधिरूदसुभटं च। मनोहरा उचितानतिक्रमा च यति परमो येषाम्। तथा प्रकृष्टो वेशो येषामत एव ते सुशिक्षितत्वाद्वाहकवशगा उत्तमाः। जात्युत्कर्षादश्वास्तैर्लडितम्। 


वृत्तपक्षे हरा एकादश। तेषु यतिर्यस्य तदश्वललितं विकृतौ। विकृताविति निवृत्तम्।। २३।। 


प्रीतीत्यादि।। 


प्रीतिनिवासं कृतिभुवि विदितोदारवरप्रदवरिवसनं त्वां याःस्मरतीश प्रतिहतविमतिः संततमन्तिमपदमुदितेषु। 

यौवनलीलासचिवसमुदयत्पञ्चमकस्वरयतिरमणीया स्यादिह तन्वी हिमकरवदना तद्वशगा सह नरपतिलक्ष्म्या।। ११५।। 


हे ईश। कृतिनां बोधिसत्त्वानां भुवि मुदितादिभूमौ विदित। उदारवरप्रां वरिवसनमाराधनं यस्य। यतः उदि तेषु उक्तपदशालिषु मध्येऽन्तिमं पर्यन्तवर्ति पदं यस्य तथा भवानतस्तं त्वां प्रीतेर्निवासं यः प्रतिहतविमतिः संततं स्मरति तस्य पुंसो वशगा हिमकरवदना तन्वी संमता नरपतिलक्ष्म्या सह स्यात्। कीदृशी। यौवनेन या लीला सैव सचिवो यस्य स चासौ समुदयन्पञ्चमस्वरश्च तस्य यतिर्मूर्च्छा तया रमणीया युवती।। 


वृत्तपक्षे संस्कृतौ चतुर्विशत्यक्षरच्छन्दः सैव भूस्तत्र विदिता तन्वी। किंभूता। पञ्चमकं पञ्चमं स्थानं स्वराः सप्त। तेषु यतिः। तया रमणीया।। २४।। 


विश्वेत्यादि।। 


विश्वहितैकासङ्गसहान्तः करणकरण वसुपदमिव परमं योऽधिप गृह्णातीह तवाख्यां तमभिकृतिवसतिरपि भुवि सरसी। 

सिध्यति मज्जद्दिग्गजगण्डच्युतमदपरिमलसुरभितसलिला सारसंहसक्रोञ्चपदाङ्कोत्कनककमलवनरणदलिपटला।। ११६।। 


विश्वहिते एकमद्वितीयमासङ्गं सहते तदनुगुणत्वात् यत्तादृशमन्तः करणस्य करणं प्रवर्तनं यस्य तस्य संबोधनम्। तथा अधिपेति। यथा वसूनां द्रव्याणां पदमुत्पत्तिस्थानं किंचित्प्रसिद्धम्। तथा तवाख्याप्यभिमतादतिशयसिद्धिहेतुत्वात् वसुपदमिव परमम्। वसूनां पदमिव वाचकमिव इह जगति यो गृह्णाति तमभिलक्ष्यी कृत्य कृतिनां विबुधानां वसतिरपि सरसी भुवि सिध्यति। कीदृशी। मज्जद्दिग्गजगण्डच्युतमदपरिमलसुरभितसलिला। तथा सारसहंसक्रौञ्चपद मङ्को यत्र। तथा उद्गतेषु कनककमलवनेषु रणदलिपटलं यस्यां सैवंरूपा सरसी देवानामपि क्रीडाश्रयः।। 


वृत्तपक्षेऽभिकृतिः पञ्चविंशत्यक्षरं च्छन्दो वसतिर्यस्याः सा क्रौञ्चपदा। सा च करणानि च वसवश्च तेषु पदं विश्रामं गृह्णाति। करणानि पञ्च।। २५।। 


ध्वान्तेत्यादि।। 


ध्वान्तध्वंसिन् माराराते हतवृजिन जिनतनयभूविभूषण मुत्कृतौ प्रौदोन्मीलल्लावण्यश्रीः स्थितिजनक गिरि भवभिदामुदारपराक्रम। 

त्वय्यारब्धावन्ध्याराधो विधुरयति वरद सुधियां विराजतया स्फ़ुरन् भोगासक्तोऽपीह स्वैरं विषमतमविषयतनुभृद्भुजङ्गविजृम्भितम्।। ११७।। 


हे ध्वान्तध्वंसिन्। माराराते हतवृजिन क्षतपाप। जिनतनयभूविभूषण। मुत्कृतौ प्रमोदजननेन प्रौदा उन्मीलन्ती लावण्यश्रीर्यस्येदमपि संबोधनम्। तथा भवभिदां बुद्धानां गिरि वाग्विषये स्थितिजनक सद्धर्मधूर्धर। उदारपराक्रम भगवन्। त्वय्यारब्धो ऽवन्ध्य आराध आराधनं येन स पुमान्। हे वरद स्वैरं स्वच्छन्दं विधुरयति दमयति। किम्। विषमतमा विनोपायं भुज्यमानत्वेनानिष्टावाहकत्वाद् विषया रूपादयो येषां ते च ते तनुभृतश्च त एव भयहेतुत्वाद्भुजङ्गास्तेषां विजृम्भितम्। किंभूतः। भोगेष्वासक्तोऽपि। सुधियां मध्ये विशेषेण राजत इति विराजता तया स्फ़ुरन् रे। वीनां पक्षिणां राजतया गरूडो ऽपि। अहीनां भोगेषु देहेष्वासक्तः। विषमतमं विषं याति श्रयति स चासौ तनुश्च तद्भृतो ये भुजङ्गास्तेषां विजृम्भितं विधुरयति।। 


वृत्तपक्षे उत्कृतौ षड्विशत्यक्षरे च्छन्दसि भुजङ्गविजृम्भितम्। तच्च गिरयो ऽष्टौ कुलपर्वता रूद्राश्चैकादश तेषु भिदा भङ्गेन लक्षितम्। नन्वन्यत्र सप्तैव कुलाचलाः राजः 'वसुकुल गिरिभिः स्यान्मालिनी नौ मयौ य ' इति। सत्यम्। इह त्वष्टौ द्रष्टव्याः। तथा चानर्घराघवः 'मूर्तीरष्ट महेश्वरस्य दलयन्नष्टौ कुलक्ष्माभृतः ' इति। रत्नाकरे 'वसुमदनदहनमुनिभिर्भुजङ्गविजृम्भितम् ' इत्यत्र वसुभिर्मदनैर्दहनैर्मुनिभिरस्येति विवरणं तल्लेखकप्रमादायातम्। मदनदहनो रूद्र एव हि तत्राभिमत राजः वसुमनसिजरिपुतुरगैर्भुजङ्गविजृम्भितम् इति।। 


तन्वदित्यादि।। 


तन्वत्सुस्फ़ुटमविरतममितममृतरसकणमिव परितोऽङ्गेषु प्रत्यालोचनसमुदयिनवरसरसपदमसदृशमतुलश्रीकम्। 

यत्कृच्छैरपि न सुलभमपरविविधसुकृतविधिभिरभियुक्तात्मा त्वत्सेवातरूफ़लमिह समनुभवति तदखिलविपदपवाहाख्यम्।। ११८।। 


आखिला विपदोऽपवहत्यधिक्रामत्यणि। अखिलविपदपवाहमाख्या यस्य तत् त्वत्सेवा तरूफ़लमिह जगत्यभियुक्तात्मा पुरुषो ऽनुभवति। किंभूतम्। यत्कृच्छैरपि कष्टसाध्यैरपि अपरैः सुकृतविधिभिर्न सुलभम्। अत एवासदृशमतुलश्रीकं च। पुनः किंभूतम्। आलोचनमालोचनं प्रति समुदयिनश्च ते नवरसाश्च शृङ्गारादयः। तेषु रसो ऽभिलाषो येषाम्। तेषां पदम्। अत एव सुष्ठु स्फ़ुटमविरतममितममृतरसकणमिवाङ्गेषु परितस्तन्वत्। सुधारसपृषद्भिः परितो ऽङ्गानि सिञ्चदिति यावत्। अथवाङ्गेषु परितः स्फ़ुटमविरतममितममृतरसकणमिव तन्वत्सु सत्सु। यथोक्तं तत् त्वत्सेवा तरूफ़लमनुभवतीत्यर्थः।। 


वृत्तपक्षे उत्कृतावपवाह इत्याख्या यस्य तद्धृत्त्म्। नव च रसाश्च तेषु पदं यस्य तत्तथा। इयता यतिशरीरसंज्ञोपेतैः सच्छन्दोभेदैर्भगवतः स्तुतिरूक्ता। इत ऊर्ध्वं दण्डकभेदैर्वक्तव्येति।। 


चपलेत्यादि।। 


चपलचरणपीडितागाधिपोपेतपातालतालूच्छलव्द्यालपालस्तुतं जयति जयति चारूकारूण्यकेलिस्फ़ुरत्प्पद्यनर्तेश्वराकारलीलायितम्। 

अनिभृत भुजदण्डषणप्रचण्डानिलोल्लासितः श्रान्तिशान्तिं तनोतीव ते प्रलयसमयशङ्कया यत्र लोकत्रयीदण्डकश्चण्डवृष्टिप्रयातोऽम्बुदः।। ११९।। 


पद्यनर्तेश्वरो मञ्जुवज्रस्याम्नायविशेषः। कारूण्यक्रीडया स्फ़ुरच्चारूपद्यनर्तेश्वराकारलीलायितं तव जयति जयतीति संभ्रम आभीक्ष्ण्ये वा द्विरूक्तिः। किंरूपम्। चपलचरणाभ्यां पीडितेन अगानामधिपेन मेरूणा तदुपरि नतेनात उपेतस्य पातालस्य भयात् तालुना उच्छलता व्यालपालेन भुजगपतिना स्तुतम्। यत्र पद्यनर्तेश्वराकारलीलायिते नृत्यत्वरया अनिभृतानां भुजदण्डानां षण्डेन संदोहेन उल्लासितश्चण्डया वृष्ठया प्रया ( ? ) तो ऽनुगतो ऽम्बुदस्ते ताण्डवश्रान्तेः शान्तिं तनोतीव। नृत्यतो हि श्रमो भवति स चानिलोल्लासितेन वर्षता पयोदेनापोह्यत इति भगवतोऽपि तथैवोत्प्रेक्ष्यते। कीदृशः। प्रलयसमयशङ्कया लोकत्रयीं दण्डयति पीडयति तथा। विनेयविशेषमनुजिघृक्षोः खलु भगवतः कृपाकेलिनिर्भरताण्डवारम्भे ऽत्यद्भुतोद्भटविकटभुजदण्डमण्डलप्रभवप्रभञ्जनजवैरूज्जृम्भितः ससंरम्भमम्भोभृदकाण्डप्रचण्डवारिधारान्धकारारब्धदुर्दिनः संवर्तः संवृत्त इति चेतसि त्रासमान्तन्वानः पीडयत्याहत्य जगत्त्रयं पर्यन्ते तु परहितैकपरिणाममधुर एव।। 


वृत्तपक्षे चण्डवृष्टिरपातो नाम प्रथमो दण्डकः। दीर्घत्वाद्दण्ड इव दण्डकः।। २७।। 


प्रतीत्यादि। 


प्रतिपदमिह जातशुद्धेः समाधेस्त्रयस्याक्षरस्याभिसंवर्धनादन्त्यरूपस्पृशः समधिगमवशाज्जयत्यार्यवर्यैः प्रभूतप्रमोदैः प्रगीतः प्रभावप्रकर्षस्तव। 

वरद यदनुमोदनावादसाराविणातृप्तचित्तैः सुरैर्वाद्यमाना न यान्ति श्रममपरिमपरमोपकारोत्तमर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खायः।। १२०।। 


हे वरद। अपरिमो ऽनुत्तरः परमोपकारस्तत्रोत्तमर्ण इवोत्तमर्णस्तस्य संबोधनम्। प्रभूतप्रमोदैरार्यवर्यैः प्रगीतस्तव प्रभावप्रकर्ष इह जगति जयति। कस्मात् स तथाभूतः। त्रयस्य शून्यानिमित्ताप्रणिहितलक्षणस्य समाधेः समधिगमवशात्। किंभूतस्य। प्रतिपदमभिसंवर्धनाज्जातशुद्धेः प्रहीणमलस्याक्षरस्याविचलस्य। अन्त्यरूप स्पृशः प्रकर्षपर्यन्तगतस्वभावस्य। यस्य च प्रगीतस्वभावस्यानुमोदनावादेन यत्साराविणं संभूय रवणं तत्रातृप्तचित्तैः सुरैर्वाद्यमानाः श्रमं विश्रामं न यान्ति। के। अर्णवस्य व्याला इव कार्ष्ण्यात् ये जीमूतास्तेषां मनोज्ञध्वनित्वेन लीलाकरा ये उद्दामशङ्खादयस्ते।। 


वृत्तपक्षे इह चण्डवृष्टिप्रपाते ऽन्त्यानां त्रयाणाम क्षराणां गुरूलघुक्रमेण यद्रूपं तत्स्पृशस्त्रयस्याक्षरस्य प्रतिपदं प्रतिपादमभिसंवर्धनात्। अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खायो ये ते दण्डकभेदाः श्रमं विश्रामं पर्यन्तं न यान्ति अपर्यन्ता इति यावत्। तत्रार्णस्ये दमेवोदाहरणम्। अर्णवादीनामूहितव्यानीति।। २७।। 


प्रविकचेत्यादि।। 


प्रविकचकनकपङ्केजसौभाग्यभागङ्ग दत्तेनभावाश्रितेभ्यस्तमः सुत्रिभुवनशमविधानार्थ निर्वाणनीवृत्तमालाकृतावात्तभक्ते भवारौ। 

दशबलतनयवर्गाग्रिमेण त्वया नाथ निर्माथिदुःखापहेन स्तुतेन प्रचित इति शुभराशिर्महान् यस्ततः स्ताज्जनौघे समृधिः समग्रेऽपि सैव।। १२१।। 


प्रविकचकन्कपङ्कजसौभाग्यभागङ्गं यस्य। इन आदित्यः। तमःसु अज्ञानतिमिरविषये तन्नाशार्थम्। आश्रितेभ्यो दत्तमिनत्वं येन। त्रिभुवनस्य शमो निर्वाणं तद्विधानार्थ निर्वाणनीवृन्निवरणं यस्य। तथा तमालाकृतौ श्यामे भवारौ भगवत्यक्षोभ्ये आत्ता भक्तिर्येन स तथा। चतुष्टयमिदमामन्त्रणम्। हे नाथ। दशबलतनयवर्गस्य बोधिसत्त्वगणस्याग्रिमेणादिमेन। निर्माथिदुःखापहेन त्वया। इति यथोक्तक्रमस्तुतेन यो मया महान् शुभराशिः प्रचितस्ततः शुभराशेर्भगवतो या समृद्धिः सैव जनौधे ऽपि समग्रे स्ताद्भवतु।। 


अपरोऽर्थः। मित्रपादानां गङ्गदत्त इति गृहस्थनाम। तत्पितुर्दशबल इति। तत्काल एव चैको णम्। दशबलतनयवर्गस्याग्रिमेण ज्येष्ठेन मया गङ्गदत्तेन निर्वाणं नयतीति निर्वाणनीर्वृत्तमालेयं कृता। इत्यतः प्रचितो यो महान्शुभराशिरित्यादि व्याख्यातार्थम्।। 


वृत्तपक्षे प्रचितो नाम। समृद्धिः सैवेति यैवान्त्याक्षरत्रयस्य चण्डवृष्टिप्रपाते संतत्या वृद्धिः सैव प्रचितेऽपि। केवलं मध्यलघुत्रय इह त्वादिलघुत्रयस्येति भेदः। तत्र चण्डवृष्टिप्रयात प्रचितस्येदमुदाहरणम्। 'अर्णप्रचितादीनामुन्नेयानि यथेष्टं वा नामानि' इति पद्यालंकारः। समग्रे सर्वत्र दण्डके न त्वत्रैव। तेन वक्ष्यमाणे ऽपि प्रवृत्ताख्ये प्रचितवदक्षरत्रयस्य वृद्धौ नामान्तरम्।। 


अहमित्यादि।। 


अहमपि तव पादपद्याभिसंराधनाधीनधीसंनिरूद्धान्तरध्वान्तजातः समधिगतसमस्तवस्तूत्करव्यापिनैसर्गिकस्वप्नमायामयाद्वैततत्त्वः। 

अकरूणकरूणाबलावार्यवीर्योदयारब्धनानाविधव्यापृतिध्वस्तमारस्त्रिजगति परमोपकारैककृत्यप्रवृत्तश्चरेयं जनो यावदेकोऽप्यमुक्तः।। १२२।। 


न केवलं जनौघे ऽपि सैव समृद्धिः स्तादहमपि त्रिभुवनस्य परमोपकार एवैकं कृत्यं तत्र प्रवृत्तश्चरेयं जन्मशितया तावद्यावदेकोऽपि सत्त्वो न मुक्त इत्यार्यमञ्जुश्रिय इव प्रणिधानं विधत्ते। किंभूतश्चरेयम्। तव पादपद्ययोरभि संबोधने ऽधीनया धिया सम्यग्निरूद्धमान्तरं ध्वान्तजातं यस्य। अत एव सम्यगधिगतं समस्तवस्तु विसरणशीलमबाधितत्वात् नैः सर्गिकं स्वप्नमायामयमद्वैत एव ग्राह्यग्राहकाभावादद्वैत तत्त्वं येन। अकरूणेषु या करूणा तस्या बलं चावार्यवीर्योदयश्च ताभ्यामारब्धया नानाविधया व्यापृत्या चर्यया ध्वस्ता मारा येन स तथा। अथवा अकरूणकरूणाबलेत्यामन्त्रणम्।। 


वृत्तपक्षे प्रवृत्तोऽयं नाम। प्रचिते प्रथमं षड् लघवस्तत आदिलघुकानि त्रिकाणि सप्त। इह  गुर्वन्तषल्लघुभ्य आदि लघुत्रयाणि सप्त। वृद्धिरूक्तैव।। 


स्फ़ारेत्यादि।। 


स्फ़ारफ़ुल्लस्थलाम्भोजनिर्भासभृत्पादपीठान्तविश्रान्तकान्तामरव्यालदैत्येन्द्रचूलोपलार्चिश्चयो दुःसहोद्दामदुःखानलग्रस्तपर्यस्तशक्तित्रिलोकीविशोकीक्रियानिर्विरामश्रमाश्चर्यचर्यानिधिः। 

शुद्धसंबुद्धवंशावतंसप्रकाशस्फ़ुरत्कीर्तिकीर्णान्तरालप्रसारः कुमारो जयत्येष वागीश्वरः सर्वदुर्वारमारप्रवीरध्वजिन्युद्धवध्वंसबद्धाभिरामासमप्रौदिनिर्व्यूदगादप्रतापोदयः।। १२३।। 


सर्वदुर्वारमारप्रवीराणां ध्वजिन्याः सेनाया उद्धवस्योत्सवस्य ध्वंसे या बद्धा अभिरामासमप्रौदिस्तस्या निर्व्यूदया गादो ऽत्यर्थतीव्रः प्रतापोदयो यस्य स एव वागीश्वरः कुमारो जयति। किंभूतः। स्फ़ारफ़ुल्लस्थलाम्भोजस्य निर्भासं सादृश्यं बिर्भति यत्पादपीठं तस्यान्ते विश्रान्तः कान्तो ऽमरेन्द्रव्याडेन्द्रदैत्येन्द्राणां चूडोपलस्य चूडारत्नस्यार्चिश्चयो यस्य स तथा। दुःसहोद्दामदुःखानलेन ग्रस्ता अत एव पर्यस्ता व्याकुला शक्तिर्यस्याः सा चासौ त्रिलोकी च तस्या विशोकीक्रियायां निर्विरामश्रमत्वादेवाश्चर्या या चर्या तस्या निधिः। शुद्धसंबुद्धवंशस्यावतंसो भूषणं तद्वत्प्रकाशते या स्फ़ुरन्ती कीर्तित्स्तया कीर्णो व्याप्तो ऽन्तरालप्रसारो येनासौ तथा।। 


वृत्तपक्षे द्वादशभिर्मध्यलघुत्रयैरयं प्रतापोदयो मन्तव्यः। अन्यत्रास्य मत्तमातङ्गलीलाकर इति नाम। इदमेव लक्ष्यं दृष्टम्। जयदेवेशनरत्नाकरेषु प्रवृत्तः प्रतापोदयश्च न स्तः।। 


प्रौदेत्यादि।। 


प्रौदवरवज्रवनिताङ्गपरिरम्भविलसत्पुलकजालकजगज्जयतनुत्रं सान्त्र सवसास्रमधुपानमदमुक्तविकटाट्टहसितत्रसदशेषसुरदैत्यम्। 

गादविनिगूददयविस्मयमयाप्रतिमरौद्रतनुमद्वयमहार्णवनिमग्नं शुद्धगुणधाम करूणाबलमुदारनवनाटयरसवल्ललितवृत्तमभिवन्दे।। १२४।। 


त्वां करूणाबलमभिवन्दे। किंभूतम्। विलसत्पुलकजालकं जगज्जये तनुत्रं संनाहो यस्य। इयता शृङ्गारवीरावुक्तौ। सान्त्रं वसासहितमस्रं तदेव मधु। तत्पानमदेन विमुक्तविकटाट्टहसितैस्त्रसदशेषसुरदैत्यजातं यस्य। अनेन बीभत्सहास्यभयानकाः। गादमत्यर्थं विनिगूदाश्र्लिष्टा दया विस्मयमयी आश्चर्यकरी अप्रतिमरौद्रा च तनुर्यस्य तम्। अनेन कारूण्यविस्मयरौद्राः। अद्वयं ग्राह्यग्राहकादि रहितं तत्त्वम्। तन्मये महार्णवे निमग्नम्। तथा शुद्धानां गुणानां दशबलादीनां धाम स्थानम्। अनेन शान्तः। अत एत उदारा नव नाट्यरसा यस्य सन्तीति मतुप्। तथाभूतं ललितं वृत्तं यस्य। कर्मधारयमत्वर्थीयाद्वहुव्रीहिरेवेष्टव्यो लाघवार्थमित्यस्य समासमत एवाभिमतत्वात्। व्यासवादिमते तु मत्वर्थीयो ऽपि। यथा ऽविसकिसलय च्छेदपाथेयवन्तः ' इति।। 


वृत्तपक्षे ललितवृत्तं नाम। अत्रादिगुरूलघुत्रयाणि सप्त गुरूद्वयं च। अस्य लक्षणमीशानेन दर्शितम्।। ३०।। 


।। इति दुष्करप्रभेदवृत्तमाला स्तुतिविवृतौ समवृत्तानि।। 


इदानीं यथोद्देशमर्धसमवृत्तैर्भगवतः स्तुतिमाह। इदमित्यादि।। 


इदमर्धमबालशशिप्रभं बालरविप्रभमादधदर्धम्। 

करूणावशवर्ति भवद्वपुः कस्य मनो न करोत्युपचित्रम्।। १२५।। 


करूणावशेन वर्तितुं शीलं यस्य तदिदं भवतो वपुः कस्यचित् द्रष्टुरूपचित्रं मनो न करोति। उपगतं चित्रमाश्चर्यम्। अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः। कथं तथा करोति यस्मादबालशशिप्रभ मर्ध मादधाति। बालरविप्रभं चार्धम्। अबालग्रहणेनात्यन्तधावल्यमुक्तम्। बालग्रहणेन लौहित्यम्। एतच्च नामसंगीतावाम्नायान्तरं द्रष्टव्यम्।। 


वृत्तपक्षे इदं यथोक्तं पूर्वार्धमिदं चापरार्धमादधदुप चित्रमर्धसमं वृत्तम्। इदमर्धमादधदर्धमित्यधिकारो विपरीताख्यानिकां यावत्। यत्र च लिङ्गान्तरं तत्र लिङ्गविपरिणामेन संबन्धनीयम्। अर्धयोरक्षरसाम्येऽपि लघुगुरूकृतो भेदः।। 


तत्त्वेत्यादि।। 


तत्त्वसुधारसतृप्तिविशेषात् सकलसमीहितसिद्धिवशाद्वा। 

त्वच्चरणानुभुवा भवितव्यं भवमथनश्रुत न द्रुतमध्या।। १२६।। 


भवस्य संसारस्य मथनं श्रुतं यस्य भवमथने वा श्रुतो विदितः। तस्यामन्त्रणम्। त्वच्चरणमाराधा नोऽनुभवति यस्तेन पुंसा। नास्ति धीर्यस्य तथा न भवितव्यम्। असुधिय इति निषेधादिह यणादेश एव। कथमध्या न भवितव्यं द्रुतं शीघ्रम्। तत्त्वसुधारसतृप्ति विशेषात् सकलसमीहितसिद्धिवशाद्वेत्युभयसंअदुक्ता। 'त्वच्चरणानुचरेण न भाव्यं भवमथनश्रुत न द्रुतमध्ये इति पद्यालंकारसूत्रम्। तत्र अध्या त्वच्चरणानु चरेण न न भाव्यमित्यर्थः।। 


वृत्तपक्षे यथोक्तमिदमर्धमादधती द्रुतमध्या।। 


किमित्यादि।। 


किमुशन्ति बुधा अधिकं विभो यदि जनीय तदीयतनुर्भवेत्। 

तव दृष्टिसुधारसधारया स्फ़ुरितहाररूचा हरिणपलुता।। १२७।। 


हे विभो जनीय जनेभ्यो हित। बुधाः किमधिकं उशन्ति कामयन्ते। न किंचित्। यदि तव दृष्टिसुधारसधारया स्फ़ुरितहाररूचा तदीया तेषां तनुर्हरिणी चासौ प्लुता चेति तादृशी भवति। हरिणशब्दो ऽत्र शुक्लपर्यायः। हारेणापि हृदि स्फ़ुरता तनुः विमला व्याप्ता च भवति।। 


वृत्तपक्षे हरिणप्लुता।। 


इयमित्यादि।। 


इयमुरूकरूणारसा मुखश्रीः समधिगता निजधीश्रियो रसेन। 

स्फ़ुरदधरदलातिहारिहेमाम्बुजकलिकेव विभाति पुष्पिताग्रा।। १२८।। 


तवेति वक्ष्यमाणेनाभिसंबन्धादियं तव मुखश्रीः पुष्पिताग्रा विकसितपर्यन्ता। अतिहारिहेमाम्बुजकलिकेव विभाति। यतो धर्मदेशनादिना स्फ़ुरदधरदला। तथा उरूकरूणारसा। बहलकारूण्यमकरन्दा निजधीश्रियो रसेनानुरागेण समधिगता संबद्धा। निजधीश्रियेति तु यदि पाठः स्यात्स्यादर्थस्य समीचीनता। कनकपङ्कजकलिकाप्युरूरसा श्रियो रसेनानुगता च भवति।। 


वृत्तपक्षे पुष्पिताग्रा औपच्छन्दसिकाप्रभेदः।। 


मुखमित्यादि।। 


मुखमिदमपरं तवोत्पलप्रकररूचामिव भाति संचयः। 

समुदितमिव कैरवश्रिया हरति मनोऽपरवक्रमीदृशम्।। १२९।। 


इदं तव दक्षिणं मुखं नीलत्वादुत्पलप्रकररूचां संचय इव भाति। अपरं च वामवक्रं शुक्लत्वात् कैरवस्य श्रियेव समुदितं समुत्पन्नमीदृशमतिसुन्दरं मनो हरति।। 


वृत्तपक्षेऽपरवक्रं वैतालीयप्रभेदः।। 


इदमित्यादि।। 


इदमर्धसमं समीक्ष्यते ते बत वृत्तं जयिनो जगत्त्रयस्य। 

क्कचिदर्थविधौ विधूतविश्वा शिशुलीला ललितापि यत्तवेयम्।। १३०।। 


तव जगत्त्रयजयिन इयं ललितापि शिशुलीला यद्य स्मात्। क्कचिदर्थविधौ परप्रयोजनसंपादननिमित्तं विधूतविश्वा रूपान्तरेण कम्पितजगत्त्रया भवति। अत इदं वृत्तमर्धसमं यस्य तथा समीक्ष्यते। बतशब्द आश्चर्ये।। 


वृत्तपक्षे शिशुलीला।। 


पदमित्यादि।। 


पदमेकमवेक्ष्य ते क्षणं प्रसभाक्रान्तजगत्त्रयीशिखम्। 

कथमस्तु न विश्वभारती निजदासीव तव प्रियंवदा।। १३१।। 


क्षणमेकस्मिन् क्षणे प्रभसं हठात्। आक्रान्ता जगत्त्रय्याः शिखा शिखरं ब्रह्याण्डं येन तादृशं ते तव पदमवेक्ष्य जितस्य एकपादतलाक्रान्तरूपस्य विश्वस्य भारती निजदासीवप्रियंवदा न कथमस्तु। भवत्येव। सापेक्षत्वे ऽपि गमकत्वात्समासः। त्रिविक्रमस्याप्युक्तरूपं पदमेकमवलोक्य सरस्वती चतुरानना नलिनवनराजहंसी दासीव प्रियंवदा संवृत्ता।। 


वृत्तपक्षे प्रियंवदा। वैतालीयप्रभेदः।। 


स्वरसेत्यादि।। 


स्वरसोपनतां शमशय्यां किं नु विधूय धियो ऽप्यतिदुर्गैः। 

अतिचित्रचरित्रशतैस्ते वेगवती करूणा यदि न स्यात्।। १३२।। 


यदि ते तव करूणा वेगवती दुःखार्ते जगति विश्वगाणुप्रचारा न भवेत्तदा शम एव शय्या शमे वा शयनम्। तां स्वरसोपनतां विधूय अतिचित्रचरित्र शतैस्ते किम्। प्रयोजनं नास्तीत्यर्थः। किंभूतैः। धियो ऽप्यतिदुर्गैः। मनोरथस्याप्यविषयैः। 


वृत्तपक्षे वेगवती नाम।। 


सर्वेत्यादि।। 


सर्वातिशयस्य धाम धाम्नः सर्वाङ्गीणसुलक्ष्यलक्षणश्रीः। 

लोकस्य गतापि हि स्मृतिं ते भद्रं भद्रविराट्तनुस्तनोति।। १३३।। 


भद्रेण विराज त इति भद्रविराट्ते तव तनुः सर्वस्य लोकस्य स्मृतिं गतापि स्मरणविषयभूतापि न केवलमेवंभूता भद्रं तनोति। किंभूता। हिशब्दो भिन्नक्रमे यस्मात्। सर्वातिशयस्य धाम्नस्तेजसो धाम। तथा सर्वाङ्गीणा सर्वावयवव्यापिका सुलक्ष्या सुव्यक्ता लक्षणानां श्रीः संपत्तिर्यस्याः।। 


वृत्तपक्षे भद्रविराट्।। 


परित इत्यादि।। 


परितः स्फ़ुरद्भिरभिरामैरंशुमयैः परार्थपरमार्थैः। 

पविपद्यखड्गमणिचक्रैः केतुमती विभाति तव मूर्तिः।। १३४।। 


परार्थ एव परमोऽर्थः प्रयोजनं येषां तैः पविपद्यखड्गमणिचक्रैरक्षोभ्यामिताभामोघसिद्धिरत्नसंभववैरोचनचिह्नैः केतुमती तव कीर्तिः पञ्चात्मिकसमाजमण्डले विभाति। किंभूतैः। परित इत्यादि सुगमम्।। 


वृत्तपक्षे केतुमती। 'केतुमती स्वरेषु चरमे ऽङ्गे' इति पद्यालंकारसूत्रादत्र प्रथमे पादे रसेषु चरमे स्वरेषु यतिरिष्टा। अन्यैस्तु ते यती न दर्शिते।। 


चैत्तेत्यादि।। 


चैत्तमात्र भावभाजि भाव्यते क्क परा परार्थसंपदीदृशी दयायाम्। 

सेयमेतदाकृतिच्छलादतो ऽवयवध्वनेर्मतुप्स्त्रिया समाभिधाना।। १३५।। 


चित्तस्य विशेषावस्था चैत्तम्। तदेव तन्मात्रम्। तद्भावस्तत्त्वम्। तद्भाजि चैत्तस्वभावायां दयायां दयाविषये ईदृशी सर्वाकारप्रवृत्ता परा परार्थसंपत् क्क संभाव्यते। तस्या अमूर्तत्वेन तादृक्परार्थसंपादनासामर्थ्यात्। अतः सेयं दयैषोक्त लक्षणा या भगवदाकृतिस्तदेव च्छलं ततः। अवयवध्वनेरवयवशब्दान्मतुप्। स एव स्त्री। स्त्रीप्रत्ययान्तावस्थापरिग्रहात्। तया अनुकरणमात्ररूपया सममभिधानं यस्या अनुकार्यरूपायाः। अवयववतीत्यर्थः।। 


वृत्तपक्षे यवध्वनेर्मतुप्स्त्रिया समाभिधाना यवमती। मादुपधायाश्च मतोर्वो ऽयवादिभ्य इति यवादिप्रतिषेधात् वत्वाभावः। ऋजुना क्रमेण संज्ञाप्रवेशो न निर्वहतीति पूर्वेषामेवैष वाक्यविन्यासः। अत इहैवोद्धार्यशब्दरूपवैषम्येऽपि श्र्लेषो ऽभिमतः। तत्र प्रियंवदावेगवती भद्रविराट्केतुमतीनां प्रत्येकमयुक्पादौ दशाक्षरौ युक्पादावेकादशाक्षरौ। द्रुतमध्याहरिणप्लुतापरवक्रशिशुलीलानामय्तुक्पादौ एकादशाक्षरौ युक्पादौ द्वादशाक्षरौ। पुष्पिताग्रायवमत्योरयुक्पादौ द्वादशाक्षरौ युक्पादौ त्रयोदशाक्षराविति द्रष्टव्यम्।। 


उदयदित्यादि।। 


उदयदरूणकिरणनिकरपरिकरकनकमयविमलहिमकरजयनी। 

जयति निखिलजगदभिरूचि कृतिपटुरतिभव तव तनुरियमतिरूचिरा।। १३६।। 


हे अतिभव तव तनुरियमतिरूचिरा सती निखिलजगदभिरूचिकृतौ पटुर्जयति। रूचिरत्वमेव कृतिः। उदयंश्चासौ अरूणाकिरणपरिकरो यः कनकमयः कनक विकारः हिमकरश्च तयोर्जयनी वर्णाह्लादकारित्वाभ्याम्। 


वृत्तपक्षेऽतिरूचिरा। अर्धार्ध इति एकत्रिंशदक्षरमखण्डमेवार्धम्। अर्धेन युक्तमर्धमर्धार्धं तस्मिन् सति। द्विवचनान्तत्वे तु एकशेषः स्यात्। अविहित चरणविभागत्वेनेयमतिरूचिरा परमतेऽर्धद्वयेनैव वेदितव्येत्यर्थः। एतन्मते तु प्रथमः पादः षोडशाक्षरो द्वितीयः पञ्चदशाक्षर इति चतुष्पदीयमति रूचिरा। तथा च पद्यालंकारसूत्रम् 'अचलधृतिरथ तिथिरपरमत इति यमविरतचरणयतिरतिरूचिरा इति।। 


त्रिभुवनेत्यादि।। 


त्रिभुवनदुरधिगमचरणपरिचरणगुरूविभवभगवदसितसुगतप्रतिकृतिसचिवविमलमणिनिचयखचितसुपरिघटनगुणवसतिः। 

निजनयगदनरवलयलवसमनुकृतिरसिकनिभसुरभिसुरसुमनः परिमलमिलदलिकुलकणितनिधिरधिगमजलद जयति तव शिखा।। १३७।। 


हे अधिगमजलद। तव शिखा चूडा जयति। कीदृशी। त्रिभुवनेन दुरधिगमं त्वदेकलभ्यत्वात्। चरणपरिचरणं यस्य। अत एव गुरूविभवः। तादृशस्यासितसुगतस्याक्षोभ्यस्य या प्रतिकृतिर्निर्माणकायः। तस्याः सचिवानां तादृशानां विमलमणीनां निचयेन खचितत्वात् सुपरिघटनलक्षणस्य वसतिः। तथा निजनयस्य बोधि सत्त्वनीतेर्यो गदनरवस्तस्य लयो ऽनुत्कटता तस्य लवः। तत्समनुकृतौ रसिकनिभं रसिकप्रायं च तत्। सुरसुरभिसुमनसां तदापीडचूडानाम्। परिमलेन मिलदलिकुलं च तस्य यत् क्कणितं गुञ्जितं तन्निधिः।। 


वृत्तपक्षे शिखा। तत्रायुक्पादयोः प्रत्येकं त्रिंशल्लघूनि गुर्वन्ते। युक्पादयोरष्टाविंशल्लघूनि गुरू चान्ते।। 


समुदयेत्यादि।। 


समुदयदिशि समुपनतरूचिषु विविधसमुदयकरणमभिदधती प्रशमसुखरसरसिकमतिषु निरूपमशमसुखपथकथनपृथुनिरतिः। 

अपरिमितसुकृतफ़लमधिप तव जयति सकलजिननयनयनगीरृजुमतिषु नियतमृजुरमृतकुट कुटिलमतिषु निरतिशयकुटिल पदा।। १३८।। 


हे अधिप। अमृतकुट प्रवचनाश्रय। जिननयस्य प्रकाशकत्वान्नयनभूता तव गीर्जयति। जिननयनयनेत्यमन्त्रणपदं वा। किंभूता। समुदय एव दिक् पुरूषार्थैकदेशत्वात्। तत्र समुपनतरूचिषु विनेयेषु विविधं समुदयस्य करणमुपायमभिदधती प्रशमसुखलक्षणे रसे रसिकमतिषु निरूपमस्य शमसुखपथस्य कथने पृथुनिरतिस्तत्परता यस्याः सा तथा। अपरिमितस्य सुकृतस्य पुण्यज्ञानसंभारस्य फ़लं निष्यन्दभूता। पुनः कीदृशी। ऋजुमतिषु सत्त्वेषु नियतमृजुरवक्रपदा कुटिलमतिषु तु निरतिशयकुटिलपदा।। 


वृत्तपक्षे कुटिलपदा। परेषां खञ्जेति मुख्यं नाम कुटिलपदाद्यु क्तया व्याख्यायते। तद्विपर्यय इति। शिखाया विपर्ययः। तेन तत्र यौ युक्पादौ ताविहा युक्पादौ यौ चायुक्पादौ तौ युक्पादौ।। 


आख्यनिकेत्यादि।। 


आख्यानिकेयं भवतो गुणानामिति स्तुवंस्त्वामभिमन्यते यः। 

नूनं स गण्डूषजलोपयोगान् मया निपीतोऽम्बुधिरित्यवेति।। १३९।। 


त्वां स्तुवन् भूतगुणैरभिव्याहरन् भवतो गुणानामियमाख्यानिका सामस्त्येनाख्यानमिति यो महान् मन्यते। नूनमित्यादि सुबोधम्।। 


वृत्तपक्षे आख्यानिका।। 


यद्याख्यानिका न भवति किं तर्हि भवतीत्याह। अपि त्वित्यादि।। 


अपि त्वशेषस्मरवैरिणामप्याख्येयताख्यातिमनाश्रितेषु। 

गुणेषु ते नाथ वृथाभिमानस्याख्यानिकासौ विपरीतपूर्वा।। १४०।। 


किं तु हे नाथ। अशेषाणां स्मरवैरिणां बुद्धानामाख्येयताख्यातिं निर्वचनीयताव्यपदेशमनाश्रितेषु गुणेषु या आख्यानिकासौ वृथाभिमानस्य मिथ्याभिमानिनो जनस्य विपरीतपूर्वा आख्यानिका। अनाख्याने ऽप्याख्यानाभिमानात्।। 


वृत्तपक्षे आख्यानिका विपरीतपूर्वा। आख्यानिकाद्वयमुपजातिप्रभेदः। चतुर्दशप्रकारासूपजातिषु द्वे अर्धसमे अन्या विषमाः। तत्रार्धसमे आख्यानिकाविपरीताख्यानिकाख्ये। एते च पद्यालंकारे उपजातिप्रस्ताव एव दर्शिते इति।। 


।। इति दुष्करप्रभेदवृत्तमालाविवृतावर्धसमवृत्तानि।। 


संप्रति यथोद्देशं विषम वृत्तौ भगवन्तं स्तौति। अष्टाभिरित्यादि।। 


अष्टाभिरक्षरैः पादो ऽसोदस्तद्गादमज्जनादनुवृद्धैः। 

गुणसागर सागरैरपूरिताङ्गुरीगर्तो विषमं दशान्तरे दयां पदचतुरूध्वं नयति भावम्।। १४१।। 


हे गुणसागर दशान्तरे वज्रभैरवादिदशायाम्। न  पूरितो ऽङ्गुरीणां गर्तो यस्य स तव पादो ऽसोदः सोदुमशक्यः। जातावेकवचनम्। पादा इत्यर्थः। कैः। अक्षरैरशोष्यैरष्टाभिः सागरैः। किंभूतैः। तस्य पादस्य गादमज्जनादनुवृद्धैरपि सुमेरूपरिवेष्टिकाः सप्त बाह्यश्च महौदधिरित्यष्टौ सागरा इति विषमं रूपं दयां तव भावमभिप्रायं नयति प्रापयति। किंभूतम्। पादाश्चत्वार ऊर्ध्वा यत्र।। 


वृत्तपक्षे पदचतुरूर्ध्वं नाम विषमं वृत्तम्। तत्र प्रथमः पादोऽष्टभिरक्षरैः। इत ऊर्ध्वमपरे पादाः सागरैश्चतुर्भिरक्षरैरनुक्रमेण वृद्धैर्ज्ञेयाः।। 


इतीत्यादि।। 


इति निगदितजातौ कृतविषमचरणरचनायाम्। 

लघुगुरूनियतिभृति भयमयति को न भवसि न यदि नियतमभिविधिवचनमनु पीडः।। १४२।। 


इत्यनन्तरोक्तप्रकारेण निगदितायां जातौ स्वभावविषमे तव को न भयमयति गच्छति। कीदृश्याम्। कृतविषमचरणरचनायाम्। विहितोर्ध्वाधः पादविन्यासायाम्। पुनः कीदृशि। लघुगुरूनियतिभृति। विनेया नुरोधात् क्कचिल्लाघवं च क्कचिद्गौरवं च बिभ्रत्याम्। इह तु गौरवमेवाभिप्रेतम्। सर्व एव भयमासादयति यदि त्वं नियतमभिविधिवचनमनु पीडो न भवसि। अभिविधिवच नमाङ्। तमनु तेन सह पीड आपीडः। समन्ताद्दयावान् यदि न भवसीत्यर्थः।। 


वृत्तपक्षे निगदितायां पदचतुरूर्ध्वजातौ कृतविषमचरणरचनायामेतच्छ्लोकप्रस्तारक्रमेण लघुगुरूनियमं दधत्यां सत्याम्। अभिविधिवचनमनु पीडो व्याख्यातार्थः। अत्रान्तिमद्वयद्वयं गुरू शेषं लघु। पद्यालंकारे तु पदचतुरूर्ध्वमनियत् ( ? ) पाठसौभाग्याभावादस्मात् पृथक् दर्शितम्। इह तु पूर्वाम्नायानुसारेणोक्तम्।। 


सुचिरेत्यादि।। 


सुचिरनिहितहितमति कन्दाङ्कुर इव तव भाति। 

विषमजनदमनघटितविकटमूर्तेस्त्रिपुरहरमुकुटमणिसदृशदशनकलिकेयम्।। १४३।। 


विषमजनदमनी घटिता विकटा मूर्तिर्येन तस्य तव। त्रिपुरहरस्य महेश्वरस्य मुकुटमणिः शशिकला तत्सदृशी दशनकलिकेयं भाति। अत्रापीडप्रथमादस्य द्वितीयत्वं द्वितीयस्य प्रथमत्वम्। शेषं पूर्ववत्।। 


प्रसरदित्यादि।। 


प्रसरदुरूदहनघनघोरच्छटमिव गगनतलमनवधि दधाना। 

प्रसभमभिमुखं ते प्रशमयति शमनमपि नयनवलनलवलीला।। १४४।। 


ते तवानन्तरोक्तरूपस्य नयनस्य यो वलनलवो मनागावर्जनं तस्य लीलाप्रसभमभिमुखागतं शमनमपि यममपि प्रशमयति। किंकुर्वाणा। प्रसरन्ती उरूदहनस्य घनत्वात् घोरा च्छटा यस्मिंस्तादृशमनवधि गगनं कटाक्षज्वालाजटिलत्वाद्दधाना। 


वृत्तपक्षे लवली। इहाप्यापीडप्रथमपादस्य तृतीयत्वम्। शेषं प्राग्वत्।। 


मृद्वित्यादि।। 


मृदुजनमनु पुनरियमेव प्रशमितसकलकटुकलुषविषराशिः। 

प्रतिमुहुरभिनवमतुलसुखनिधिमुपनयन्ती नियतममृतधारा।। १४५।। 


प्रशमितसकलकटुकलुषविषराशिरियमेव तव नयनवलनलवलीला। मृदुजनं पुनर्लक्ष्यी कृत्य नियतममृतस्य धारेव। किं कुर्वती। प्रतिमुहुः पुनरभिनवमतुलं सुखस्य निधिमाश्रयमुपनयन्ती। यथा विनेयाशयं करूणया निर्माणवैचित्र्यात्।। 


वृत्तपक्षे आपीडप्रथमपादस्यैव चतुर्थत्वे ऽमृत धारा।। 


।। पदचतुरूर्ध्वप्रभेदाः।। 


तडित्यादि।। 


तडितोज्ज्वलं जलदराशिमनिशमुदभारबन्धुरम्। 

घोरघनरसितमीश तनुः कृपया कुतोऽपि जयतीयमुगता॥  १४६।। 


हे ईश इयं तवानन्तरोदितरूपा तनुः कृपया कयाप्यनिर्वचनीयया निशमुद्गता जलदराशिं जयति। कीदृशम्। उज्ज्वलं तडिता। तथा उदकस्य भारो राशिः। भारे उदकस्योदभावः। तेन बन्धुरं नम्रम्। घोरघनरसितं च। एभिरूपमान गतैर्विशेषणैरूपमेयस्य भगवतो यथासंख्यं प्रहरणकिरणैरौज्ज्वल्यं श्यामत्व पीनत्वे प्रचण्डनिबिडाट्टहसितं च ध्वनितम्।। 


वृत्तपक्षे उद्गता। अत्र प्रथमद्वितीयपादौ प्रत्येकं दशाक्षरौ। तृतीयचतुर्थावेकादशत्रयोदशाक्षरौ। गुरूलघुनियमः प्रतिरूपप्रस्तारादवधार्यः।। 


अत इत्यादि।। 


अत एव दुष्करतराणि विलसितशतानि तन्वतः। 

ह्लादयत्यखिललोकमिदं पटुकीर्तिसौरभकमभुतं तव।। १४७।। 


अत एव करुणावशादेव अन्येषां दुष्करतराणि विलसितशतानि तन्वतस्तव। पटु स्फ़ुटं कीर्ते रिदम द्भुतं सौरभकं सौन्दर्यं परिमलो वाखिलं लोकमाह्लादयति। यशो हि शुभ्रं सुगन्धि चेति कविसमयः। 


सुगन्धयद्दिशः शुक्लमम्लानकुसुमं दिवः। 

भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः।। 


इति च माघः।। 


वृत्तपक्षे उद्गताया एव तृतीयपादस्यान्यथात्वे यथादर्शिते सौरभकम्।। 


भृकुटीत्यादि।। 


भृकुटीकटाक्षदशनेषु किमपि विकृतानि बिभ्रतः। 

दमयति तव भुवनानि वपुर्ललितं च किं तु विकटं यदीदृशम्।। १४८।। 


ललितं च मनोहरमपि तव वपुर्भुवनानि दमयति। ननु भयानकस्य भुवनदमनं युज्यत इत्याह। किं तु भृकुटीकटाक्षेण युक्तेषु दशनेषु विकृतानि। संबन्धिभेदाद्वहुवचनम्। किमपीति क्रियाविशेषणम्। विभ्रतस्तव यदीदृशमतो विकटम्।। 


वृत्तपक्षे उद्गताया एव तृतीयपादस्य यथादर्शितमन्यथात्वे ललितं नाम पूर्वेषां किं तु यदीदृशमतो नाम्ना विकटं युज्यते।। 


।। उद्गताभेदाः।। 


प्राग्भारेत्यादि।। 


प्राग्भारातिशयेऽपि तादृशे ऽद्भुतभीमे भुवनाहितहतये समं समन्तात्। 

मरूदनतिशयरयः प्रचुपितमपि तव न समेति सलीलम्।। १४९।। 


प्राग्भारः सुमेर्वादिपर्वतावनतशिखरभागस्तस्यातिशयः पर्यन्तस्तादृशे ऽप्यतिदुर्गत्वाद्भुतभीमे समन्तात् सर्वतो दिक्षु समं तुल्यकालं भुवनानामहितहतये यत्तव सलीलं प्रचुपितं मन्दगमनं तदपि। अनतिशयरयो महावेगो ऽपि मरून्न समेति। 


किं भूयो भगवन्भवन्तमाश्रयमाप्तः स्थिरभार मतुलमार्षभं दधानम्। 

तच्छुद्धविराड्विशेषणं ह्यपरविषमशिरसि पदं विनिधत्ते।। १५०।। 


आराध्येति भवन्तमाशयैकसमृव्द्या कुशलं यदमलमस्ति वर्धमानम्। 

तदिदमखिलमुदञ्चतु भुवनमुरूपदं त्वदभिमतमतिविविधवृत्तविशेषैः।। १५१।। 


अपि च प्रचयेन भूयसा कुशलस्यास्य निकामनिर्मलस्य। 

विगलतु सकलस्य देहिनो भवरजनीप्रभवान्धकारराशिः।। १५२।। 


।। सर्वविषमाणि।। 


किं च प्रौदप्रज्ञाप्रेयस्यालिङ्गेनानङ्गक्रीडम्। 

उडुपतिरूचिरनिचयमयमिववपुरनतिशयकरूणमिह वहदनुभवतु।। १५३।। 


।। अर्धविषमम्।। 


विचित्रवृत्तैरितिवर्णनेन यदाचितं चन्द्रकरामलं शुभम्। 

ततोऽस्तु लोकः परिमुक्तशोकः स्फ़ुरन्महासौख्यशिखासखीवरः।। १५४ ।। 


।। पादविषमम्।। 


।। आर्यमञ्जुघोषस्य दुष्करप्रभेदा वृत्तमालास्तुतिः समाप्ता।। 


।। कृतिरियं महापण्डितस्थविरज्ञानश्रीमित्रस्य।। 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project