बौद्धधर्मे तथा पुराणेषु करुणा
Technical Details
बौद्धधर्मे तथा पुराणेषु करुणा
प्रथमोऽध्यायः
बौद्धधर्मस्य संक्षिप्ता रूपरेखा
अक्षरार्थतः, बुद्धदर्शनं नाम बुद्धोपदेशानां संकलनम्। बुद्धपदस्यार्थः सम्यक् ज्ञानी। पदमिदं तं जनं निर्दिशति येनाविष्कृतं धर्मवस्तु, येन प्रतिष्ठितं बुद्धदर्शनम्। अयं भावः- बुद्धस्य शिक्षणानि स्वभावसिद्धानि सत्यान्यन्तरेण न कानिचिद् वस्तूनि यानि बुद्धेन प्रकटीकृतानि च, न तु नवरूपतया सृष्टानि। तानि सत्यानि स्वत एव राजन्ते, बुद्धस्य जन्माभूत् न वेति। अथवा तेन सत्याना प्रकटनमभूत् न वेति विषये तेषां सत्यानामपेक्षा नास्ति।
तानि सत्यानि यथार्थत एव समभावापन्नानि तत्र न हितमस्ति, न वाहितम्, तानि उभयसामान्यानि। कस्याप्यधिकारे न तेषामवस्थानम्। तानि सर्वदा प्रकृत्यैव अवतिष्ठन्ते। न बुद्धस्य अथवा कस्यचिद्वा कल्पनया क्षमतया वा तानि जायन्ते। अस्याः शिक्षणपद्धतेरयमेव विशेषो यत् पद्धतिरियं नावेगमूला, अपि तु सर्व- मतीत्य वर्त्तते। परवर्त्तिनि समये बुद्धसंज्ञयाभिहितः अस्य धर्मस्य प्रवर्तक आत्यन्तिकतया ज्ञानसागरं ममन्थ, तथा च अन्तर्दृष्टिबलेन सम्यक् सम्पूर्णं ज्ञानरत्नं लेभे।
उपरिकथितं धर्मवस्तु तत्रभवता बुद्धेन महतायासेन प्रकटीकृतं तथा च चेतनवतां जीवानां कृते करुणया जगति प्रचारितम्; न तेनैतत् नवतया सृष्टम्। अपि तु नवतया समक्षं प्रकाशितमिति फलितार्थः। अत्र अस्यापि एकाधिकारो नास्ति। इदम् उदारं सर्वेषु जीवेषु सामान्यम् च।
अनुचिन्तनस्य च उपासनस्य च केन्द्रबिन्दुत्वेन अन्येषां धर्माणामिव बौद्धधर्मस्य आध्यात्मिकं शरणं विद्यते। परन्तु बौद्धानां पक्षे तच्छरणस्य कश्चित् विशेषो वर्तते योऽन्येषु धर्मेषु हि दुरापः। बौद्धधर्मे तच्छरणं रत्नत्रयमिति विदितं यत्र बुद्ध-धम्म-संघानां समावेशः परिलक्ष्यते। यतः बुद्धः कदापि ईश्वरप्रेषितो दूतो नासीत् अथवा नासीत् परब्रह्मरूपः, प्रत्युत स तदीयः शिष्यगणं इव सामान्यो जीव आसीत्। केवलं पृथक्तया निर्दिश्यन्ते तस्य चरित्रस्य मालिन्यमुक्तता, विशुद्धचित्तता, सम्यग् ज्ञानवत्ता, सर्वेषां कृते करुणा च। एभिर्गुणिः युक्ता तदीया स्वार्थशून्या मानवसेवा जगति दृढं प्रतिष्ठिता इदानीमपि राञ्जीवनरससमृद्धा संवृत्ता च।
वस्तुतः बुद्धेन प्रचारितो धर्मः तदीयप्रकाशकर्मविशेषः, न तु सृष्टिविशेषः। अत्र महत्तमस्य सत्यस्य प्रकाशो जातः अविद्यया यत् सत्यं मानवेषु अश्रूतपूर्वमासीत्। तस्य सत्यस्य आविष्करणादनन्तरं तद्बोधक्षमेषु जनेषु प्रचारमारेभे। अस्मिन्नर्थे वर्तमानो धर्मो हि बुद्धदेवस्य उपदेशः। स पालिधम्मविनये उल्लेखितः यस्याक्षरिकोऽर्थः आदर्शश्च आचारश्च। बुद्द्धदेवस्य तिरोभावात् परम् सम्यग् ज्ञानाय दम्मानुसारिभिर्बुद्धभक्तैः समये समये संगयानाभिधेया सभा आहूता। तथा च परवर्तिनि काले बुद्धस्योपदेशाः पिटकाख्यविभागत्रये विभक्ता अभवन् यथा विनयपिटकं सूत्तपिटकमभिधम्मपिटकं चेति यत्र, मनः समीक्षणमित्याख्या संगता जायते।
इदमुल्लेखनीय यत्, बुद्धस्य उपदेशानां धम्माभिधेयं संकलनं केवलं महत्त्वमस्य सत्यस्य उपलब्धये मूर्तिमत् प्रकाशनं नाम। इदं कस्यापि जनस्य संघं निर्मातुमर्हति, यत्र बुद्धधम्मयोः उपादानं युगपत् लक्ष्यते। अस्मादिदं तत्त्वं समायाति यत् रत्नत्रयमिति पदं कस्यापि विषयस्य प्रसंगेन द्विस्तरीयमर्थं सूचयति- एकत्र विग्रहपुस्तकवेषभूषाणां दर्शनीयं स्पर्शनीयं चोपस्थापनं प्रसज्यते। अन्यत्र च सूक्ष्मतराध्यात्मिकार्थवहं पदमिदं गुणं धर्मं सत्त्वं वा निर्दिशति यत्र तथाकथितानां त्रयाणां सम्मेलनं घटते। यद्यपि पूर्वतने व्याख्याने न्उनता आगता तथा स्थूलरूपता दृश्यते, तथापि व्याख्यानमिदं साधारणजनमानसेषु अपरिहार्यतां व्रजति यदेव अधिकतरमुत्कर्षमापन्नान् जनान् विशेषेण स्मारयति।
यदा वयं बुद्धविग्रहे श्रद्धां निवेदयामः तदा वयं परमं ज्ञानं, श्रुद्धतां करुणां च बुद्धगुणान् अनुस्मरामः। पुनश्च, संघादेशस्यास्तित्वं साधारणे शिष्यसमाजे बुद्धपदांकानुसारिणं साहसिकं व्यक्तिवृन्दं निर्दिशति यत्र च धर्मग्रन्थरूपी धम्मः साधारणानां जनानां सुखबोध्यतया धर्ममार्गे सोपानत्वेन तान् सर्वान् परिचालयति।
एवं बौद्धानां परमाश्रयभूतस्य रत्नत्रयस्य अयम् एव परमोत्कृष्टो गुणो यत् अयं परमार्थतः वेषव्रतनामानुमानरूपं वाह्यिकं कृच्छ्रतासाधनं भेदाभेदज्ञानं सीमावद्धत्वं च प्रथमत उपेक्षते, ततः परं च अतिक्रमते। यतः, यथार्थतः हि अनुबुद्धबोधकः बुद्धसदृश्श्च संघो नाम जीवत्काले सम्यग् ज्ञानलाभाय प्रयत्नवतां सर्वेषां कृते एव उन्मुक्तः यत्र न जनानां समाजस्वीकृता व्यवहारानुमोदिता च स्थितिः च गण्यते। एवं कश्चिद् बलकः बालिका वा कश्चित् साधारणो भक्तो वा भिक्षुर्वा एतदर्थकः संघो भवितुमर्हति तथा च स जनः विशुद्धिदेवरूपेण प्रत्यवेक्ष्यते।
बुद्धदेवस्य संक्षिप्ता जीवनकथा
सप्तनवत्यधिकपञ्चाशतयुक्तद्विसहस्रवर्षेभ्यः प्राक् भारतवर्षस्य उत्तरस्मिन् प्रदेशे सम्प्रति नेपालदेशस्य सीमान्तभागे शक्यनाभिधेया काचिज्जातिः कपिलवत्थुं राजधानीं विधाय इमं प्रदेशं शशास। शासनविधौ अभिजातानां प्रभावो दृश्यते यत्र शक्यनैः प्रतिष्ठिता काचित् सभा बभूव। अस्याः सभायाः पतिरासीत् शुद्धोदनः यः राजेति संज्ञया विदितः। तस्य महिषी आसीत् माया सिरिमहामाया वा। एतज्जनयुगलमेकदा वेसखाख्यचान्द्रमासस्य पूर्णिमायां तिथौ भारते तथा जगति विश्रुततमस्य तनयस्य जन्म ददौ। तस्याविर्भावो बभूव कस्मिंश्चित् कुञ्जकानने-मायादेव्या देवदहाभिधेयस्य स्वनगरस्य च कपिलवत्थुनगरस्य मध्यवर्त्तिनि स्थले। सिद्धार्थत्वात्तस्य नाम भभूव सिद्धार्थ इति। स राजतनयोचितैः सर्वकलाविज्ञानरूपैः मानसिकैः गुणैः सह शारीरिकशक्तिसौन्दर्यगुणैरपि उपेतः सन् कृति भभूव।
षोडशवर्षीये वयःक्रमकाले केषाञ्चिन्मते वा षड्विंशतिवर्षीये वयःक्रमकाले विद्वज्जनस्य योद्धृजनस्य च पक्षे यत् यत् शिक्षणीयं युज्यते, तत् तत् शिक्षणीयं सर्वं परिसमाप्य यशोधराभिधानां काञ्चिन्मनोरमां कन्यामुपयेमे या राहुलनामकस्य पुत्रस्य जन्म ददौ। तदा सिद्धार्थ आसीत् ऊनविंशतिवर्षीयो युवा। अयमेव तज्जीवनस्य परिवर्त्तनस्य कालः यदा तस्य हृदये करुणाया आह्वानमुत्तालतरं संजातम् तथा च तस्य चित्ते सर्वातिशायिज्ञानज्योतिः उद्भासिततरं संवृत्तम्। वशुवधरूपयागात् पापस्य व्यक्त्यन्तरप्राप्तिरूपबोधात् जातिभेदप्रथाजातभेदाभेदविचारात् च मनुष्याणां यानि दुःखानि कष्टानि च जायन्ते तैः सह जरारोगशोकमृत्युनिराशासञ्जातानि कायिकानि मानसिकानि च दुःखानि-यानि बुद्धिचित्ते सुप्तानि भभूवुः तानि प्रबुद्धतां जम्मुः। निरन्तरसत्यजिज्ञासा सिद्धार्थजीवनरहस्यानुसंधानायानुप्रेरयामास। यस्योत्तरम् इन्द्रियसुखमग्नजीवनयात्रया न लभ्यते इति बोधो बभूव सिद्धार्थस्य। सोऽदम्यमनोरथेन येनकेनापि महता मूल्येन तदुत्तरं ज्ञातुं प्रवृत्तः सन् तदुत्तरं प्राप, यत् स्वस्य परेषां च कृते महत् सहायकं जातम्। परेषां साहाय्यं चिकीर्षुः सिद्धार्थः प्रथमतः किञ्चित् साधयितुं यत्नवान् भविष्यति इति तेनावगतम्। ततः स इन्द्रियसुखैः वृथा कालक्षेपं कृत्वा दुःसाहसिकेन सिद्धान्तेनानुप्रेरितः सन् जीवनरहस्यसन्धानाय व्रती बभूव।
ततः सुगभीरेणाध्ययनेन अविदलया निष्ठया च दीर्घं दुःसाध्यं च वर्षषट्कं व्याप्य स्वार्थशून्यायां जीवनजिज्ञासायामात्मोत्सर्गं चकार। अयमेव महासन्न्यास इत्यत्रातिशयोक्तिर्नास्ति।
अवशेषे पञ्चत्रिशंत्तमवयःक्रमकाले परमश्रेयोलाभाय उपयोगिनोः निरन्तरचेष्टाभ्रमयोः कालचक्रमतिक्रम्य निर्वाणाख्यावस्थामुपालभ्य जीवनरहस्यस्य सन्तोषजनकमुत्तरं प्राप्य सिद्धमनोरथो बभूव। एवं स सम्यक् ज्ञानी अथवा बुद्ध इति विश्रुतः सञ्जातः। बुद्धत्वप्राप्तिरियं तस्य जन्मनः पञ्चत्रिंशत्तमे वर्ष् चान्द्रमासस्य वेसखस्य पूर्णिमायां तिथौ एव संवृत्ता बभूव। ततः प्रभृति स चिरकांङ्क्षितपरमसत्यस्य सुखं विभज्य साधारणेभ्यः जनेभ्यः समर्पयितुमात्मानमुत्ससर्ज। बुद्धत्वलाभात् प्राक् तेन यादृशी कृच्छ्रता स्वीकृता तादृशीं कृच्छ्रतामंगीकर्तुं धम्मस्य माहात्म्यम्पलब्धुं च समर्थेषु परिचितजनेषु स्वेच्छया धम्मं प्रचारयितुं भारं जग्राह।
इयमेव विशिष्टविशुद्धिफला परमप्रज्ञासंजाता महती करुणा यया स इतरेषु क्षेत्रेषु आन्तर्जातिकख्यातिमज्जनाधिष्ठितपदापेक्षया उच्चतरं तथा चिरन्तरं पूजनीयं पदमुत्तरकालेऽलंचकार। यतः, राजपुत्रा भिक्षोपजीविनश्च, धनिनो निर्धनाश्च, स्वास्थ्यवन्तःऽलंचकार। यतः, राजपुत्रा भिक्षोपजीविनश्च, धनिनो निर्धनाश्च, स्वास्थ्यवन्तः स्वास्थ्यहीनाश्च- इति सर्वैर्जनैः सह तस्य सम्बन्ध आसीत् ये तस्य वाणीं निश्चितं श्रोष्यन्ति अथवा उपलब्धुं यतिष्यन्ते। तन्निकटे वहिरंगाकारविषयकं कृत्रिमचिन्तनसंक्रान्तं किमपि पार्थक्यं नासीत्। ततः, बोधिलाभात् परं वा पूर्वं वा बुद्धदेवस्य जीवनकथा तदीयकार्येभ्यः पृथक्भूतेति न गण्यते। निःस्वार्थसेवाप्रसंगे सहनसंकल्पविचारप्रसंगे च दृष्टान्तमूलकगुणराजित्वेन उभयमेव सहायकतां व्रजिष्यति।
बुद्धस्य समये यदि अस्माकं जन्माभविष्यत् तर्हि वयमद्रक्ष्याम नृपसचिवसैनिकसार्थवाहकलाविद्भिः च विभिन्नवृत्तिजीविभिरनिर्दिष्टैश्च गृहस्थैः सा जीवनस्य समस्यामालोचयन्तो बुद्धश्च तत्शिष्याश्च भारतवर्षस्य ग्रामेषु परिभ्रमन्तीति। अर्थात् भारतस्य ग्रामाद् ग्रामान्तरे भ्रमणकाले बुद्धदेवः सर्वदा साधारणानां कृषिजीविनां संस्पर्शे स्थित्वा, तस्मै प्रदत्तं कमपि प्रकारमाहारं गृहीत्वा व्यक्तिगतालापे निरतस्तिष्ठति तथा च स्वीयवक्तव्यमुपस्थापयति उपदेशं प्रयच्छति च।
अन्तर्निहितोऽभिप्रायायो हि समग्रमानवसमाजस्य सुखमूलकस्तथा च सर्वजीवकुलस्य संतोषसम्पादकः। अत्र व्यक्तिगतचित्तशान्तेः तात्क्षणिकं लक्ष्यमपि न्यूनत्वेन न विचार्यम्।
यातु, अंगुत्तरनिकायस्य चतुक्कनिपाते कथितेभ्यो बुद्धवचनेभ्यो बुद्धस्य शिक्षणरीतिरवगम्यते। तथा हि - 'तत्त्वोपलब्ध्यर्थ मे धर्मप्रचार इष्यते। नायं कदापि अनुपलब्धये। युक्तिज्योतिषैव मे धर्मप्रचारः। न मे तत्त्वं युक्तिहीनतां व्रजति। सचमत्कारो मे धर्मोपदेशः, नायं तु चमत्काररहितः।'
समग्रमानवानां कल्याणायैव बुद्धस्योपदेशः कल्पितः न च स विशिष्टस्य कस्यापि दलस्य सम्प्रदायस्य वा मध्ये सीमित आसीत्। ततः विविधासु अवस्थासु विविधाआं नराणां प्रयोजनस्यानुसारेण आचरणस्य बहुविधां क्रमा व्यवस्थापिताः। तेषां मूलभूता नीतिश्च सन्न्यासिषु च साधारणेषु च प्रयुज्या। अशुभेच्छावृथाहंकारादीनपगुणान् प्रति प्रवणतां जेतुं कश्चिद् बौद्धो ध्यानयोगेन दयाकरुणास्निग्धसुखितासमवृत्तितानां शक्तिमनुभूय व्यवहरेत्।
संक्षेपतः, बुद्धस्योपदेशेषु द्वौ विभागौ तिष्ठतः। प्रथमतः लौकिकोऽपरतश्चालौकिकं। पालिभाषया यथाक्रमं लौकिकः 'लौकुत्तरं' इति कथ्यते। उन्नततरं पुनर्जन्माथवा जीवनं कामयमानानां जनानां कृते 'लौकिक' उपदेशः 'लोकुत्तर'स्तु जागतिकं सुखं पुनर्जन्म वा अतीव नगण्यमिति मन्यमानानां, निर्वाणं लिप्सूनां मनुष्याणां कृते कल्पितः।
तथापि अन्तिमविश्लेषणतोऽयमेव बोधो जायते यत् उभौ विभागौ केवलं बाह्यतः पार्थक्यमापन्नौ, परन्तु यथार्थतः प्रयोजनीयाभिप्रायसाधनाय उभावेव काञ्चित् समतां वहतः। दुःखनिवृत्तिरेव उभयत्र लक्ष्यभूता। प्रथमे क्षेत्रेऽशतो द्वितीयो च क्षेत्रे समग्रत इति द्वयो पार्थक्यम्। अर्थात् प्रथमे क्षेत्रे दुःखस्य किञ्जिन्मात्रमवशिष्यते द्वितीये तु दुःखस्य मूले ध्वस्ततं गते परिपूर्णा दुःखनिवृत्तिर्जायते। अस्य दृष्टान्तो दृश्यते अंगुत्तरनिकायस्य चतुक्कनिपाते। तत्र बुद्धेनोक्तम् हे भिक्षव, इदं शुद्धं नीवनं नराणां वञ्चनाय नेष्यते न वा तेषां श्रद्धाया लाभाय, न तत् धनाय यशसे च, नवीनाचार्यरूपेण नूतनसंस्कारकरूपेण वा परिचयः अस्य नाभिप्रायरूपेण इष्टः, लक्ष्यविज्ञापनमपि नाभिप्रेतम्। तत्स्थले, विशुद्धं जीवनमात्मसंयमं त्यागं वैराग्यं निर्वाणं च लक्ष्यीकरोति इति।
बुद्धदेवः पञ्चचत्वारिंशद्वर्षैः तदीयं धर्ममुपदिदेश। स धर्मः सर्वेषु मानवेषु उन्मुक्तः। तत्र जातिवर्णपदवयोलिंगरूपानुमानानां विशेषो न गण्यते-इति भिक्षवस्तथा साधारणा जनाः सर्वे बुद्धभक्ता सुष्ठु जानन्ति।
आपातदृष्टितः, बुद्धस्य उपदेशा बहुविधा विस्तीर्णाश्च। तथापि ते भागत्रयेण विभाज्यते। तथा हि कल्याणकरणाय, अकल्याणहरणाय, चित्तशुद्धिसाधनाय च। तत्कालीनावस्था जटिलासीत्। लोकाश्चासन् तथाकथितेषु विश्वासेषु आचरणेषु च निमग्नाः। तदर्थं तैः सह विचक्षणमाचरणं प्रयोजनीयमासीत्। अग्रेसरप्रचारणकर्मग्रहणकाले बुद्धस्य प्रचारणरीतिः एवं रूपासीत्।
१. परिवर्तनम्:- परिवर्तनमुखीनत्वं बुद्धोपदेशानामन्यतमं लक्षणमासीत्। तत्काले सामान्येन या धारणा स्वीकृतिर्वा प्रचलिता आसीत् तस्याः सामग्रिकं चामूलं च परिवर्तनमस्याभिप्रायत्वेन कीर्त्तितम्। तथा हि - 'अत्तकिलमथनुयोगा'भिधानमात्मनिग्रहकर्म बुद्धेनास्वीकृतम्, तत्र मध्यमार्गावलम्बनस्य उपदेशो विहितः। सारनाथे प्रदत्तो धम्मचक्कपवत्तनसुत्तादिर्धर्मोपदेशोऽत्रानुसंधेयः।
२. संस्कारो वा पुनर्व्याख्यानम् वाः- अस्थायियुक्तेर्नवेन उपायेन पुनर्व्याख्यानेन वा आंशिकं परिवर्त्तनमिष्यते। अर्थात् लक्ष्योपयोगी नूतनोऽर्थः प्रदीयते। तथा हि, हिन्दुधर्मानुसारतः, अयमेव नियमो यत् कश्चिज्जनो गंगास्नानात् पापमुक्तो भवितुमर्हति। बुद्धेनात्र नूतनोऽर्थः संयोजितः। इदं वचनं रूपकार्थेन व्याख्याय बुद्धो दर्शयमास तस्य धर्मे कश्चिज्जनो नीतिनदीस्नानात् पापान्मुक्तो भवितुं शक्नोति इति।
३. पुनर्विधानम्:- धर्मोपदेशस्य पूर्वोक्तप्रकारद्वयेन बुद्धदेवः तत्काले स्वामिविवेकानन्दादिभारतीयविद्वज्जनगण इव हिन्दुधर्मस्य विश्रुतसंस्काररूपेण परिचित्तोऽभविष्यत्। किन्तु किञ्चिन्नूतनत्ववत् पुनर्विधानार्थमेव बौद्धधर्मो यथार्थतः नूतनधर्मरूपेण गौरवस्य यशसश्च अधिकारी बभूव। 'चत्वारि आर्यसत्यानि' इति तत्त्वमत्रोत्कृष्टमुदाहरणम्। इदं धम्मचक्कपवत्तनसुत्तस्य प्रथमोपदेशस्य मुख्यं वस्तु।
मानवता
बौद्धधर्मस्यैकं प्रधानं व्यैशिष्ट्यमुल्लेखार्हतां याति। तथा हि, जीवनस्यास्मिन् काले मानवजीवनं निर्वाणलाभाय प्रकृष्टः समय इति बौद्धधर्मो मन्यते। मनुष्यः यत् सञ्चिनोति तस्याधिकारी। ततः स आत्मसञ्चितकर्मफलभागीति बौद्धधर्मस्याभिमतम्। परमेश्वानुग्रहलाभाय कल्याणकर्म कर्तव्यमिति धारणा कुत्रापि नास्ति। अत्रैव जातिवर्णसम्प्रदायनिर्विशेषेण मानवाधिकाराणां स्वाधीनतायाश्च प्रतिष्ठा युक्तिद्वारा समर्थ्यते। यो जनो हत्याकर्माथवा चौर्यकर्म वापराधकर्म साधयति स बुद्धेन दोषीति गण्यते। स आत्मानं बौद्धं वदतु न वेति विषये गणना नास्ति। तथा च अपराधमूलककर्मकरणात् सोऽवश्यमेव दुःखभाक् भविष्यति। तत्र धर्मस्वीकारस्य आवश्यकता नगण्या। तद्वत्, यो जनः शुभं कर्म करोति सोऽवश्यमेव शुभविकाकं भुङ्क्ते। स बौद्धो भवतु न वेति विषयो नगण्य एव। न कापि शक्तिः सत्ता वा या सञ्चितशुभफलप्राप्तौ बाधां जनयति। आत्मभाग्यनिर्माणे आत्मनिर्धारणस्य च मानवीयसाम्यस्य च एतादृशी मत्तरा भावना नान्यैः कैश्चित्तत्वैरुद्घोषिता।
बोधिलाभात् परम् बुद्धदेवेन पञ्चचत्वारिंशद्वर्षाणि अतिवाहितानि। तदा स भारते सर्वत्र परिवभ्राम, सर्वजातिधर्मावलम्बिजनांश्च उपदिदेश। तत्र घटिकाचतुष्टयं व्याप्य केवलं विश्रममन्तरेण अवशिष्टविंशतिघटिकाकालेन तस्य क्लान्तिविहिना निःस्वार्था च मानवसेवा अबाधिता आसीत्। अस्मात् कारणात् तस्योपदेशाः एतादृशं विविधत्वं विशालत्वं भजन्ते येन केषाञ्चिन्मते, ते उपदेशा नाम चतुरशीतिविषया इति कथ्यते। ते च शीर्षत्रयेण विभाज्यन्ते। तथा हि -
१. विनयोपदेशाः - वाक्संयमाय कायिककर्मनियन्त्रणाय च आचरणस्य नियमा नाम। एते भिक्षूणां साधारणानां शिष्याणां कृते उपयुक्ताः।
२. सुत्तसंज्ञका उपदेशाः - मनःसंयमार्थम् आचाररीतिं निर्दिशन्ति। एते अत्यग्रवर्त्तिनां प्रार्थमिके क्रमे उपयुज्यन्ते।
३. अभिधम्माभिधेया उपदेशाः - अधिविद्यामधिकृत्य वर्तन्ते। तत्र कस्यापि जनस्य, जीवस्य, वस्तुनो वा उल्लेखो नास्ति।
इदं विभागत्रयं विशेषेण त्रिपिटकमिति परिचीयते। इदमेव बौद्धानां पवित्र धर्मपुस्तकं नाम। ये समग्रविषयाणां पारं गन्तुं न शक्नुवन्ति तेषां कृते तु बुद्धोपदेशानां संक्षिप्ततमो निष्कर्षः दृश्यते भिक्षूणां उद्दिश्य ओवदपातिमोक्खाभिधाने माधीयसम्बोधने। तथा हि -
'अहितं न कृत्वा हितं कर्तुं यतस्व, चित्तस्य शुद्धितां च साधय इति।'
मानवजीवनं शरीरं चित्तं चेति मुख्यवस्तुद्वयेन निर्मितमिति सर्वेषां विदितम्। तत्र शरीरं नाम दृश्यं स्पृश्यं वाह्यतः भौतिकं तथा च तुलनात आपाततो वा स्थायितरं वस्तु। चित्तं तु अभौतिकं सूक्ष्मं वस्तु तथा चादृश्यमस्पृश्यं च। इदमधिकतरं दोलायमानम् अनियन्त्रणयोग्यमिति प्रतीयते। किन्तु विनयेन नियमेन च इदं मनः अल्पतरं दोलायमानं तथा चाधिकतरं दृढं जायते। अत एव मनःसंयमस्य आत्मप्रभुत्वस्य चर्चापद्धतौ बुद्धानुशासनानां प्रथमः क्रमो विधीयते।
बुद्धानुशासनानि बौद्धधर्मस्य मूलभूतानि एव शान्तिं शृंखलां च विदधति। तेषां बहुविधत्वं बहुक्रमत्वं च दृश्यते। तेषु पञ्चकं साधारणानां बौद्धानां नियताचरणाय सम्भवपरतया निर्दिश्यते। उपोसथसंज्ञकमष्टकम् अनुष्ठानविशेषेषु साधारणानां बौद्धानां पालनाय। नूतनेभ्योऽनुशासनदशकमुल्लिख्यते। किन्तु सप्तविंशत्यधिकद्विशतसंख्यकानि अनुशासनानि नीत्वा पातिमोक्खाभिधानो यो बुणस्तिष्ठति स भिक्षूणां तथा बौद्धसन्न्यासिनां कृते विहितः।
प्रबलोऽपराधः सामान्येन द्विविधः। यथा शारीरिकश्च वाचिकश्च। वधादयो व्यक्तिगतापराधाः, चौर्य्यकर्मादयो धनापराधाः, परस्त्रीगमनादिरूपाः स्त्रीपुरुषापराधाः शारीरिकेषु अपराधेषु अन्तर्भूताः। मिथ्याकथनं मुख्यतः वाचिकपापमिति जायते। एतादृशानि पापानि मूलतः संमोहाज्जायन्ते। मद्यादिरूपाणि मदजनकभेषजानि एव मोहस्य प्रधानानि कारणानि। एतानि अहितसाधकानि भेषजानि चित्तं जडयन्ति। तस्मान्मनुष्य आत्मेन्द्रियनियन्त्रणाद् भ्रष्टो भवति। अस्य प्रतिषेधाय मूलनीतिगता काचित् पद्धतिर्मुनिभिरुल्लिखिता। इयमिह निषेधात्मककर्मपञ्चके दृश्यते -
१. जीवजनानामहितकरणाद् वधाच्च निवृत्तिः।
२. चोरकर्मणो निवृत्तिः।
३. नीतिगर्हितस्त्रीपुरुषसंसर्गान्निवृत्तिः।
४. मिथ्याकथनाद् वा वञ्चनाद्वा निवृत्तिः।
५. मद्याहिफेनादिग्रहणान् निवृत्तिः।
उक्तेषु पञ्चसु प्रत्येकं शिक्ख्यापदमिति विनयनक्रम इति वाभिधीयते। एते दोषाः सामान्येन साकल्येन च पञ्चानुशासनानीति संज्ञया परिचिताः। सर्वेषु जनेषु मंगलसाधनाय निरापत्ताविधानाय च एतान्यनुशासनानि सूत्ररूपेण विरचितानि। तेषां पालनं च न केवलं भक्तिपक्षेऽपि तु तत्सपर्कितसर्वजनपक्षे सुखशान्तिविधायकम्।
किञ्चिच्चिन्तनं दर्शयति यत् मूलभूता एते पञ्च उपदेशाः सकलसभ्यदेशानां मूलभूता व्यवहारा इव सममानसम्पन्नाः। केषाञ्चिन्मते एतेषां पालनेन नेतिवाचकं फलं जायते। तेन च देशसोन्नतिः बाधते। एतेषां परित्यागोऽपि स्वतः सिद्धतत्त्वरूपेण देशस्य प्रगतिं साधयति। तथा हि - हत्याप्रतिहिंसादिप्रकारव्यवहारशून्यता प्रकारान्तरेण देशं शान्तिसमृद्धिमन्तं करोति।
तथापि बौद्धधर्मः न कदापि उपदेशानां नेतिवाचकाचारैः सन्तोषमाप्नोति। स धर्म इतिवाचकं कर्मपञ्चकमपि आनुषंगिकतया उपदिशति, तथा च सदाचाराणां सम्पूर्णां सूचीं स्थापयति। तथा हि -
१. प्रेमसहिता दया करुणा च।
२. यथार्थवृत्तिग्रहणे धीरता।
३. दाम्पत्यजीवने सन्तोषः।
४. सत्यवादिता।
५. सावधानता।
एभिः प्रकारैः समाजे वा देशे न्यायः एवेयम् शान्तिश्च स्थाप्यन्ते।
पार्थिवेषु क्षेत्रेषु बहुविधं प्रशासनं प्रचलितम् अस्ति। तथा हि - अभिजाततन्त्रं राजतन्त्रं गणतन्त्रम् इत्यादि। तथापि बौद्धधर्मे प्रशासनस्य प्रसरः प्रागुक्तप्रशासनाद्यपेक्षया व्यापकतरं तात्पर्यं वहति, यतः सर्वाः शासनस्य व्यवस्था देशानां स्वकीयप्रयत्नाय कल्पन्ते। किन्तु बौद्धधर्मस्य परिसरः सामग्रिकतया मानवजातिमावृणोति। अयं विषयः स्वप्रशासनस्य संकेतं करोति यच्छासनं पापजाता लज्जा कुकर्मफलाशङ्का चेति धर्मद्वयेनावाप्यते। परिणामत इदं जगत् यथार्थतः पतनाद् रक्षितं भवति।
साफल्यं खलु सर्वस्य जनस्य लक्ष्यम्। किन्तु केवलं कति नराः लक्ष्यं प्राप्नुवन्ति अन्ये तु नेति यथार्थं तथ्यम्। एतद्दोषस्य प्रतिविधानार्थं बुद्धेन नीतिचतुष्टयं विहितम्। तथा हि- छन्दोनीतिः - करणीयविषयकरणस्य सानन्दमौत्सुक्यम्। विरियनीतिः - धीरता संकल्पितकर्मसाधनस्य इच्छाशक्तिः। चित्तनीतिः यस्यार्थोऽध्यवसायः, भीतिप्रदासु विपत्सु समस्यासु सतीषु अपि कर्मसाधनाय भयहीनः साहसः। विमनसनीतिः अनुध्यानं वा। एषा नीतिः कस्यापि कार्यस्य हिताहितपक्षनिर्णयस्य तथा भ्रमापचयदूरिकरणस्य क्षमता। एते सर्वे गुणा मनोयोगस्याग्रहस्य चोद्बोधनाय प्रसिद्धाः। किन्तु एते प्रायशः अवहेलिता विस्मृताश्च जायन्ते। तदर्थं जना अभीष्टं लक्ष्यं यातुं न शक्नुवन्ति।
प्रयोजनसम्पर्कितावस्थासु कार्यसाधनार्थी जनः कार्यस्य पक्षे विपक्षे वा आदेशनिषेधरूपेण किञ्चित् उपदिश्यते। तथा हि निषेधपक्षे मद्यपानासक्तिः, अहितकरभेषजस्य निर्माणे ग्रहणे च अभ्यासः, द्यूतक्रीडा, असत्स्त्रीपुरुषाचारे प्रश्रयः, असद्भिः जनैः सह मित्रता, आलस्यपरायणता, अनुपयुक्तस्थानागमनं च तिष्ठन्ति। (अट्ठकनिपात अंगुत्तरनिकाय)। अर्थनीतिसम्मतनिरापत्तायै एतादृशाचरेणेभ्यः निवृत्तिः अवश्यमेव कार्या। अन्यथा सञ्चितधनस्य दुःसहा हानिर्भवति। सम्भावनामयस्य कस्यापि जनस्य सम्भावना च बाधते।
प्रागुक्ताचारानन्तरेण अधोवर्णिता इतिवाचका गतिशीला आचारा अपि उपदेशत्वेन प्रदीयन्ते। तथा हि - आध्ययने श्रमः, व्यवसायकृषिविद्यादानादिसदुपायैः धनार्जनम्। ततः अर्जितधनस्य रक्षायै कौशलम्, अर्थात् चौर्यकर्मतो हानितो वा रक्षा विधाय आपच्छून्यस्थाने धनानां स्थापनम्। धार्मिकैर्जनैः सह संगतिः ये यथायथं सदाचरणार्थं साहाय्यं करिष्यन्ति। तथा च धनजीवनयोः समृद्धौ निश्चितत्वं जायते। आयानुसारतो व्यवव्यवस्था - यत्र यथायथं दीर्घकालीना अर्थनीतिसम्मता योजना सूच्यते। एभिः सह वर्तन्ते - भविष्यदर्थं विपत्कालीनव्यवहारार्थं वा आयांशविशेषस्य सञ्चयः, प्रयोजनकाले साहाय्यप्रार्थिने साहाय्यम्, आर्थनीतिनिरापत्तार्थं विनियोगः च।
एषु आचरणेषु सम्यक् पालितेषु मनुष्यो निश्चितमनर्थकार्थकृच्छ्रतातो मुक्तो भवितुमर्हति अन्यथा मूलगताभ्यो नीतिभ्यो विच्युतो जनः परिणामे ध्वस्तता यास्यति इति यथायथं तथ्यम्। अन्यत्रापि अर्जितधनरक्षणकौशलं सगुरुत्वमुल्लिख्यते, यत्र बुद्धेन सम्पन्नपरिवारविनाशकारणानि विवृतानि। तथा हि -
१. परिवारस्य प्रधानो विनाशं गच्छति - तस्य कारणानि मत्तताजनकवस्तुग्रहणम्, रात्रिभ्रमणम्, प्रायश उत्सवादिषु योगदानम्, द्उतक्रीडासक्तिः, असच्चरित्रैः जनैः मित्रता, कर्मणोऽलसता।
२. हृतवस्तुनि अमनोयोगिता।
३. जीर्णस्य ध्वंसप्राप्तस्य वस्तुनः न पुनर्निमाणम्।
४. जीविकायामर्थव्यये च परिमितिहीनता तथा यत्नशून्यता।
५. गृहकर्मसु असच्चरित्रस्य जनस्य नियुक्तिः।
वैपरीत्येन, सम्पन्नपरिवारे समृद्धिलाभस्य कारणान्यध आलोचितानि।
सदुपायैरर्जितस्य धनस्य यथायथं प्रयोगः कर्तव्यः। अन्यथा तद्धनं हितापेक्षया अधिकतरमहितं साधयति। धनप्रयोगस्य यथार्थमुपाया बुद्धेन संकेतिताः। तथा हि -
१. धनं प्रयोक्तव्यं गृहप्रधानस्य स्वस्य च पितृमातृसन्तानस्वामिस्त्री भृत्यमित्रादीनां सर्वेषाम् आनन्दार्थम्। पदारूपं सामर्थ्यानुरूपं तत्र धनं विभज्य दातव्यम्।
२. आपत्कालीनविषयाय धनस्य सञ्चयः कर्तव्यः।
३. विविधं क्रममनुसृत्य दानं सरणीयम्। यथा -
बन्धुजनाय, मृतजनाय (पुण्यार्थम्), राज्ञे, देशाय च, (करार्थम् चिकित्सालयाद्यर्थम् च) देवताभ्यः, (तीर्थस्थानादीनामुन्नयनार्थम्) सतां सन्न्यासिनां साहाय्यार्थम् च।
अर्जितधनस्य विभागे कौशलस्याभावः अनर्थकमपचयं सृजति वृथा च हानिमानयन्ति। तदर्थं गार्हस्थ्यव्यापारे अर्थविषये च बहुविधाः समस्याः पुनः पुनः वर्धन्ते
द्वितीयोऽध्यायः
धर्मत्वेन बौद्धधर्मः
धर्मत्वेन बौद्धधर्ममधिकृत्य विचारात् प्रागस्माभिः संक्षेपेण कः धर्मः, किंच स साधयति, समाजजीवने भक्तिजीवने च स किं लक्ष्यमभियाति इत्यादयः प्रश्नाः समाधानीयाः।
धर्मो नाम मनुष्यस्य साकाङ्क्षसंकल्पस्य परिणामः। स अन्तर्निहितकष्टजयाय, विशेषतः मानसिकस्य आध्यात्मिकस्य च सुखस्य लाभाय। कालक्रमेण विविधस्तरीयविकाशमतिक्रम्य यत् कौशलं ज्ञानं सञ्चिते यश्च भावः विश्वासः च सञ्चितौ तानि सर्वाणि चिन्त्यन्तेऽत्र धर्मे।
यद्यपि नर आदिमजनतः वहुदूरमतिक्रम्य आगतः, तथापि मनस्तत्त्वसम्मतत्वात् शारीरतत्तसम्मत्वाच्च नरस्य मध्ये आदिमजनस्य धारा एकादिक्रमेण वहति इति यथार्थं वचनम्। आदिमप्रवृत्तिशीलता साधारण्येन तस्मिन् मनुस्ये न तिष्ठति। मनुष्ये सभ्ये सति सा पश्चात् त्यज्यते।
अपि च, मनुष्यो यदाभिमुखं गच्छति, तदा स नवमूल्यं प्रति धावति, नवायां दशायामात्मानमभ्यस्तं करोति, आदिमावेगादीनां संशोधनं करोति। किन्तु शिशुर्यथा बालपरिवेष्टनवसनस्य मध्ये लालितो भवति, तथैव मनुष्याः कदापि न आदिमप्रवृत्तितः मुक्तोभवितुमर्हति। अत एव, विशेषतो धर्मस्य व्यापारे सर्वप्रकारैः सञ्चितैः गुणज्ञानभावप्रत्ययादिभिः सह नरस्य मध्ये आदिमो नरः अधुनापि प्रतिवसति। एवं सति प्राचीनो धर्मो यादृश आवेगमूल आसीत् न तादृशो युक्तिनिर्भरः। तथापि, कालावसाने सति अधिकतराभिज्ञतासञ्चयने कृते च प्रागुक्तभावप्रत्ययाः क्रमशः परोक्तादिभिः परिवर्तिता भवन्ति, यावन्न समय आयाति यदा एवं प्रकारेणागतं ज्ञानं प्रवृत्त्यादिकं परिशुध्य संपूर्णीकृत्य च विकाशस्य चरमतां प्राप्नोति।
आदिमे युगे शासनव्यवस्था कुलपतिशासितासीत्। वह्नीश्वरीयप्राणवादे सार्वजनीनो विश्वासो जातः। अयं विश्वासो भूतानां तथा प्राकृतिकानां विषयाणां मानवीकरणेन अज्ञतात्मकभयादेव सञ्जातः। तथा हि - आद्यो नरः सार्वविधभौतबलानां कृपाया मध्ये आत्मानं पश्यति स्म। भौतबलानि तस्य बोधगम्यानि नासन्। अपि च, वज्रविद्युद्भूकम्पजलप्रलयाः तन्नियन्त्राधीना न स्थिताः। तेषां विषयाणां पश्चात् अवश्यमेव काचिच्छक्तिः कश्चिच्छक्तिमान् वा वर्तते इति तस्य धारणा अजायत। भयंकरेषु वस्तुषु वर्त्तमानस्य कस्यचिज्जनस्य भावना परवर्तिकाले ईश्वरस्य धाराणायां रूपं जग्राह। किन्तु प्रत्येकं व्यापारे कारकत्वेन केवलमेकमीश्वरमादिमो नरः नाचिन्तयत्, परन्तु वहून् ईश्वरान् सोऽचिन्तयत् ये पृथिव्या एकैकं विभागमधिकुर्वन्ति परवर्तिकाले एतद्धारणात एकेश्वरतत्त्वं वह्वीश्वरतत्त्वं चेति मतद्वयं सृष्ठमभवत्।
कालक्रमेण मानवसमाजो विशालतरः सञ्जातः। कुलपतितन्त्रेण तच्छासनमसम्भवतां गतम्। तदा सामग्रिकशक्तिमता केनचित् नियन्त्रकेण जनेन प्रयोजनमनुभूतम्। शासनव्यवस्थायां क्रमशः सम्पूर्णराजतन्त्रमुखि परिपर्तनं दृष्टम् - यत्र राजा वा सम्राट् वा शासकत्वेन प्रतिष्ठोऽभवत्। तच्छासनभूभागः राष्ट्रनाम्ना परिचितः। नागरिकाश्च सम्मिलितभावेन जातिरित्यभिधानेन विदिताः। अनेन सह धर्मीयो व्यापारोऽपि अनुसृतः। वह्वीश्वराणां धारणा संख्यया न्यूनतां प्राप्ता। फलतः समग्रशक्तिमतः कस्यचित् दिव्यस्य रूपस्याविर्भावोऽभूत्। अयं रूपवान् व्यक्तिवेशेषः स्वर्गभूमौ विश्वस्य पितेति अभिहितः। सः अद्वितीयपरमशक्तिधररूपेण परमेश्वरः सन् सर्वेषां पूजितः।
ततः परमपि, मानवीयज्ञानमधिकतरं प्रसार्य्य व्यक्तिगतात्मप्रत्ययमूलमभूत् - तत्र परमेश्वरस्य धारण तादृशं गुरुत्वं न प्राप। मानवभाग्यमसहायत्वात् परमेश्वराधीनं वा तदिच्छावशम् इति एकच्छत्रभावना नूतनं तात्पर्य्यं जग्राह। तत्र पुरुषस्य भाग्यं दिव्याधीनं न स्थित्वा मानवेच्छाधीनं जातम्। एवंप्रकारेण धर्मः स्थूलतः द्विविधः गण्यते। तथा हि -
१. आस्तिक्यवादः - तत्रान्तर्भावितौ ईश्वरवादो वह्वीश्वरवादश्च। अर्थात् हिन्दुधर्मः, खृष्टानधर्मः, मुसलिमधर्मः इत्यादयः।
२. नास्तिक्यवादः - कस्यापि परमेश्वरसंज्ञकस्य पूजात्र न विहिता। बौद्धधर्मो यथार्थतो नास्तिक्यवादसमृद्धो धर्मः।
धर्मो बाह्यतः धर्मसापेक्षविश्वासाचारैः संश्लिष्यते किन्तु प्रधानतः स धर्मः सामाजिकः - एवंविद्यो धर्मः प्रत्येकं मानवसमाजे सामान्यतो दृश्यते।
इदानीं काले प्रतिष्ठितेषु समाजेषु राजनीति-शिक्षानीति-धननीत्यादिसम्मताः विविधा व्यवस्था अन्तरेणापि धर्मो समग्रसमाजव्यवस्थायां गुरुत्ववहसंस्थारूपेण स्वीकृतः। तथापि धर्मो न प्रशासनसदृशः व्यवहारपर्यायो वा। तत्र क्षमतास्वतन्त्रीकरणं क्षमतानियन्त्रणं च संश्लिष्टवस्तुत्वेन निर्दिष्टे। अयं नापि आर्थनीतिकप्रतिष्ठानेन तुल्यः यत्र उत्पादनभोगसम्भाराकाङ्क्षादयः संश्लिष्यन्ते। अपि चायं न परिवारेण समानः संबन्धः स्थाप्यते नियम्यते च।
पश्चिमदेशीयैः विद्वद्भिः ‘धर्मो केनचित् अति’ - इत्यनेन संश्लिष्यते इति लक्ष्यते। त‘दति’ना सह मानवस्य सम्बन्धं रचयति धर्मः। सः ‘अति’संज्ञकसत्तायाः वस्तुगतं तातपर्यं धर्मेण साध्यते। अयं धर्मस्तेनैव संवध्यते, यो मानवानां सीमितत्त्वमतिक्रम्य वर्तते।
संक्षेपेण, धर्मः मानवाकाङ्क्षाणाम् उत्कृष्टतमप्रतिमूर्त्तित्वेन, नीतिबोधस्याश्रयत्वेन, जनशृंखलायाः व्यक्तिगतशान्तेश्च मुखत्वेन सामाजिकनियन्त्रणस्य उपायत्वेन, महत्त्याः सभ्यतायाः फलत्वेन च विशिष्टताम् अधिकरोति।
अधुना समयोऽयमुत्तराय - किं नाम धर्मः साधयति ? मानवजीवने तथा समाजजीवने समग्रतः स किं लक्ष्यं परिपूरयति ?
समग्रसमाजव्यवस्थानिर्माणक्षेत्रेषु धर्मः खलु गुरुत्ववहसामाजिकेषु संस्थानेषु अन्यतम इति कथ्यते। समाजो नाम सामाजिकानां संस्थानानां गतिशीलः समताविधायकः। तानि संस्थानानि व्यवहारसम्मतत्वेन वाध्यतामूलकत्वेन च आदर्शभूतानि कानिचित् कार्याणि स्थापयन्ति। संस्थानानामेतन्मिश्रणं समग्रतः समाजव्यवस्थां रचयति - यत्र प्रत्येकं भागः अन्येषामुपरि निर्भरशीलः, तत्र यदि परिवर्त्तनं भवति, तर्हि तत् परिवर्तनं समग्रसमाजव्यवस्थायां प्रभावं वितनोति।
एवंभूतासु स्थितिषु, धर्मः संस्थानत्वेन परिणतं मानवानां व्यवहारमन्तरेण न कश्चिद् भिन्नो विषयः। समग्रसमाजव्यवस्थाया अंगरूपेण कस्यचित् सामाजिकसंस्थानस्य कानीद्व्यक्तानि तथा सुप्तानि कार्याणि सन्ति। ततः, समग्रतः समाजव्यवस्थायां साम्यविधायकत्वेन कस्यचिद् धर्मीयसंस्थानस्य कानि कानि स्पृष्टानि सुप्तानि अ कर्याणि सन्ति ? सामान्यत उच्यते यत्, धर्मः मनुष्यस्य नैतिकतायै कल्पते। स सकलमूल्यवन्मानसिकवृत्तिं प्रवर्धयति। तथा हि - ऐतिह्याय श्रद्धा, परिवेशेन एकता, समस्यासंकुलसंग्रामे तथा मृत्युसम्भावनायां साहसो विश्वासश्च, धर्मो नरेभ्यः तत् सामर्थ्यं ददाति येन नरा दुरदृष्टमभिमुखीकर्तुं समाधातुं च शक्नुवन्ति। अपि च, धर्मोऽस्माकं ज्ञानमतिक्रम्य निर्दिष्टतां समर्पयति, मानवीयसंबन्धातिरिक्ततां निरापत्तां विदधाति।
किन्तु विशेषत उच्यते यत् धर्मः कर्यक्षेत्रे सम्प्रदायेन सह व्यक्तिं समीकरोति, अनिश्चये तां धारयति, अशाशून्यतायां सान्त्वना ददाति, सामाजिकलक्ष्यसाधने युक्तस्तिष्ठति, नैतिकतां वर्धयति, अपि च, धर्मो व्यक्तिजनाय परिचयस्य उपकरणानि ददाति। अयं धर्मः सामाजिकनियन्त्रणविधानेन, प्रतिष्ठितमूललक्ष्यवर्धनेन, दोषरागविजयोपायप्रदानेन समाजस्य ऐक्यं स्थायित्वं च विधातुं यतते। अयं सिद्धादेशभूमैकामपि सम्पादयितुमर्हति, तथा च, समाजविशेषेऽयं धर्मः व्यवस्थारहितात्मकं ध्वंसमूलकं च प्रभावं विस्तारयति।
व्यक्तिपक्षे समाजपक्षे च धर्मस्य अवदानमितिवाचकं नेतिवाचकं वा भवति। तदवदानं निरवच्छिन्नमस्तित्वं रक्षति अथवा अवाञ्च्छितविषयदूरीकरणाय भूमिकां गृह्णाति, तथा हि - यदा धर्म इन्द्रियनिग्रहाय उद्धतकर्मपद्धतिसंयमनाय च उपायत्वेन कार्यं करोति, तदा स धर्मः ध्वंसात्मकं कर्म साधयतीत्युच्यते। इदं नेतिवाचकं कर्म। प्रत्युत, धर्मो यदा सामाजिकनियन्त्रणां साधयन् प्रतिष्ठितमूल्यलक्ष्याणि परिपोषयन् समाजस्य ऐक्यविधानाय स्थायित्वस्थापनाय च सहायतां विदधाति तदा स धर्मो निरवच्छिन्नमस्तित्वं रक्षितुं सत्यर्थकं कर्म सम्पादयति।
अभ्यासवशात् मनुष्यः स्वार्थकेन्द्रिकः। स शिक्षितः संस्कृतिमान् सामाजिकपदधारी च सन्नपि प्रायेण कामद्वेषादिभिरभिभूतो भवति। अपि च, तत्त्वतः बुद्धिजीवि सन्नपि मनुष्यः प्रकृत्यानुभवशीलो जीवः। सचेतनमनसो रूपद्वयमिदं मनुष्यस्य नियमने अंशं गृह्णाति यदैव दुष्टा प्रवृत्तिः नियन्त्रणम् लभते, तदैव प्रायेण दृश्यते मनुष्य आत्मना बाधितोऽपि दुष्कर्मकरणाय चालितो भवति। इदं तथ्यं अधः प्रकृतौ खलीनरूपेण केनचिद् वस्तुना प्रयोजनं प्रसूते। इदं निभृते स्थानेऽपि मनुष्यं दुष्ठपथान्निवारयति। यत्रेदं मनुष्यमतिक्रम्य याति तत्र नियमा विरच्यन्ते।
अत्रोल्लेखनीयं यत्, शिक्षा सर्वदा सदाचारस्य दयालुहृदयस्य वा प्रत्ययं न निर्दिशति। शिक्षा कदापि वा प्रवञ्चकेन जनेनापव्यवह्रियते। स धर्मनिरपेक्षशिक्षया शिक्षितः सन् अपरान् जनान् कौशलेन अभिभूतान् करोति। इदमेव मनुष्यसृष्टानां दुःखकस्टानां प्रधानं कारणम्। अनेन सह प्राकृतिकं दुःखमस्त्येव। अत एव, यदेवास्य भवतु नाम, धर्मस्य उपदेशानां निर्मलविश्वासेन हार्दिकव्यवहारेण च व्यक्तौ तथा समाजे स्थायि सुखं स्थायिनी च शान्तिः सम्भवतः। सीमितार्थेन समजातीयमानसेषु, व्यापकार्थेन च समग्रमानवजातिषु इदं प्रयुज्यते। अस्मादेव कारणात् यथार्थानामा कोऽपि धर्मः सर्वदा तदनुगामिनां मूलत्वेन तथा पूर्वकांङ्क्षितत्वेन नैतिकं जीवनं परिचालयति।
अत्रापरस्तर्कः समुदेति यत्, धर्ममनपेक्ष्यापि नैतिकं जीवनं सम्भवति, यत इदं परिमितसुस्थितदशाया जायते इति दृश्यते। यत्र धर्मोपदेशानां कार्यकारिता न तिष्ठति। समग्रव्यापारबोधाय विषयोऽयं विवेचनार्हतां वज्रति।
वस्तुतः नैतिकं जीवनं न किञ्चित्, किन्तु धर्मनियमानां फलम्। ते नियमा मानवमनःप्रकृतिं गभीरतरं प्रविश्य सर्वेषां मानवानाम् उपकाराय धर्ममुपदिशन्ति। किन्तु प्रकृतप्रभवोपेक्षणेऽस्माकं प्रवणतास्ति। तथा च सिद्धान्तः क्रियते यत् धर्मः केवलम् ऐहिकशिक्षायाः परिणाम।
सम्पूर्णं नैतिकं जीवनं युक्तिनिर्भरधर्मात् सञ्जातम्, यत्र राष्ट्रीयव्यवहारारोपितपुरुषापेक्षया अन्यः कश्चित् पुरुषः श्रद्धाया महत्तरबोधेन उद्बुद्धः भवितुमर्हति। अत्र केवलो धर्मः नैतिकजीवनस्य मानमुन्नमयितुमलम्। शिक्षाविदः अर्थनीतिविदश्च तत् स्वप्नेऽपि न पश्यन्ति।
अस्मिन् व्यापारे धर्मः प्रशान्ता शक्तिः या आञानुवर्तनमादिशति, अन्येषु सदिच्छामनुप्रेरयति, दृढीकृतां स्वार्थपरतां च दूरीकरोति। एष धर्मो मानवचरित्रस्य एतावत् गभीरम् प्रविष्टो यत् न कोऽपि मनुष्यसृष्टव्यवहारविधिः तद्वत्समुन्नतिशिखरं गन्तुं कामयते।
एवं धर्मस्य साहाय्येनैव व्यवहारसूत्रं स्थापयितुं शक्यते। अपि च, संघवद्धजीवरूपेण मनुष्यः स्वत एवापि धर्मप्रवणो जीवः, अन्यथा च यथार्थतो मनुष्याभिधयाभिहितो नाभविष्यत्।
बौद्धधर्मस्य मूलभूता नीतिः सम्भवत आर्यसत्यचतुष्टये लक्ष्यते। एतानि सत्यानि विश्वप्रकृतेः मानवप्रकृतेर्वा केनचिन्निर्दिष्टेन बोधेन सह युज्यन्ते। आर्यसत्यत्रयं सत्तायाः तथ्यत्वेन दुःखं, कारणत्वेन तत्त्वम्, संयमत्वेन पद्धतिं च अतिनिर्बन्धेन कथयति। इयं पद्धतिः चतुर्थे आर्यसत्ये अष्टांगिकमार्गेषु वर्धते। अयमेव दुःखान्मुक्तेः उपायः, यो निर्वाणस्य चिरस्थितिशीलदशालाभेन सम्भवति। अयं केनचन नरेणानुसृतस्य नैतिकस्य तथाध्यात्मिकस्यानुशीलनस्य मार्गत्वेन धर्मरूपं बौद्धतत्त्वमुपस्थापयति।
सर्वे भारतीया धर्माः प्राग्भारतीयकालीनस्य बोधविशेषस्य प्रभुत्वं स्वीकुर्वन्ति। वैदिके वा प्राचीनपारसिके वा वाङ्मये विध्यर्थकेन शब्देनायं प्रकाशितः।
इदमेव मतं यत्, सर्वाणि वस्तूनि सत्त्वानि च तेषां कृते उपदिष्टं कंचन मार्गमनुसरन्ति अनुसरेयुर्वा। अयं मार्गः सत्तावतो विश्वस्य यथायथस्वभावनिर्माणयोः उपरि प्रतिष्ठितो वर्तते, येन सूर्यो यथासमयमुदेति, ऋतव आवर्तन्ते, प्रत्येकं पृथगंशः स्वीयकर्तव्यं सम्पादयति। समाजेषु व्यक्तिसंघस्य निर्माणे विकाशे च एतादृशस्य बोधस्य सम्भाव्यता अतिप्राचीनकाले अवश्यमेव समुदिता। कस्याश्चिदुपजातेः सदस्यः स्वस्य वा परेषां वा कृते हितकराणि कार्याणि निर्दिष्टैरुपायैः साधयेत्। कति अन्यानि कर्याणि च निषिद्धानि। परवर्त्तिवैदिककालात् धर्मरूपेण प्रकाशितामिमां धारणां पश्यामः यत्र मनुष्यकृतकर्मणां प्रत्येकं रूपं संश्लिष्टमासीत्। अत्र नीतिः अन्तर्भाविता व्यापकतरभावेण।
अयं शास्त्रोक्तो विषयः बुद्धकालस्य प्राग् बुद्धकालस्य वा ब्राह्मणयागीयसाहित्येषु दृश्यते। यत्र अतिसूक्ष्मव्यापारोऽपि उपदिष्टः यज्ञवेदिषु व्यवहृतानाम् इष्टकानामाकृतिं संख्यां चापि अपरित्याज्यः। आदिसूत्रस्य सखण्डज्ञानेन यत् ज्ञायते, तत्र अयं व्यापरः सर्वाणि अन्यकर्माणि समावृत्य इव यज्ञीयानां तथा शास्त्रोक्तानामनुष्ठानानां विधानं ददाति। अयमेव पुरोहितानां धर्मः यैः यागा नियन्त्रिता योद्धृणां गृहस्थानां शूद्राणां च स्वस्वधर्मः व्याख्यातः।
किन्तु खृष्टपूर्वष्ठशतके प्रतिवादाः समुत्थिता अभवन्, न धर्मस्य विपक्षे, अपि तु ब्राह्मणवर्णेन गृहीतस्य कर्त्तव्यविषयकस्याभिमतस्य विपक्षे। तदभिमतवेम समाजस्य अपरेषु विभागेषु धर्मत्वेन घोषितम् ब्राह्मण्यधर्मस्तदापि भारतवर्षस्य सम्पूर्णपूर्वप्रान्तम् नोपगतः, बुद्धतत्त्वस्य स्वालयेऽपि सम्भवतः नूतन एव विरोधस्य तथा प्रत्यभियोगस्य सम्भुखीनोऽभवत्। तत्र क्षत्रियवर्णावलम्ब्निनां शाक्यानामभियोग एव सुविदितः। यद्यपि च ब्राह्मणैः सह संलापेसु आचरणेषु च अश्रद्धा न दृश्यते, तथापि तेषामभिमतानि समालोच्यन्ते प्रत्याख्यायन्ते च। बौद्धधर्मे अयं न कोऽपि विशेषः, न हि कोऽपि सन्देहावसरः यत् अपरे ये अब्राहाणां आचार्याः सन्न्यासिनश्च पृथिवीं परित्यज्य गताः तान् अधिकृत्य रचितानि उपाख्यानानि यथार्थवस्थामुपन्यस्यन्ति। एते आचार्याः प्रतिष्ठितधर्ममतस्य विरोधितां चक्रुः, नूतनं च दर्शनं ससृजुः। तत्र सत्ताविषयकानि तत्त्वानि, मुक्तिलाभस्य उपायाश्च सन्ति। शुद्धसुखवादात् वस्तुवादात् चारभ्य आत्मनिग्रहस्य चरमं रूपमपि तत्र वैशद्येन वर्णितम्। तत्कालीने बोद्धधर्मे अपरे द्वे धारणे आस्ताम् - प्रथमतः कर्मवादः, द्वितीयतश्च संसारतत्त्वं पुनर्जन्मवादो वा। दुःखपापयोः चिरन्तनविवादे एते द्वे एव भारतीये प्रतिवचने। कश्चित् जनः पापं करोति, आपातदृष्ट्या तस्य फलं न प्राप्नोति, तर्हि तत् पापाय स परजन्मनि दण्डं लप्स्यते। कति तत्त्वानि पापं दोषं च इति वाचकं सत्यमिति गृह्णाति। इदं मतं बौद्धार्हतां कथाभिः आत्मपक्षं समर्थयति - ये मृतजानानां भाग्यानि द्रष्टुं शक्नुवन्ति। तथा च, ये जनास्तेषां भाग्यं वक्तुम् अपरजगतः प्रत्यागताः तेषां भाग्यानि अपि प्रत्यक्षीकर्तुं समर्थाः। एवमिदं जगत् तदेव स्थानं यत्र हितार्थं कर्ममार्गानुसरणं प्रयोजनीयम्। अत्र कश्चिज्जनो निश्चितं जानीयात् यत्, स एकदा तत्कृतपापाय दण्डियो भविष्यति।
एतदर्थं स जानीयात् - को धर्मोऽनुसरणीयः, का वा विश्वस्य यथार्थं प्रकृतिः, इति, यत् तस्य कर्मपथं प्रभावितं करोति। प्रतिद्वन्द्विसिद्धाचार्यैः प्रकृतः पन्था आविष्कृत इति प्रत्ययः प्रतिष्ठितः।
नीतिगतया दिशा बौद्धदर्शनं पाश्चात्यदेशेषु सुविश्रुतम्। अनयैव च दिशा अस्य दर्शनस्य स्थापयितुः महत्त्वं तथा मूलत्वं परिलक्ष्यते। इदं विवेचितं प्रचलितमतानां परित्यागाय संशोधनाय वा ऐतिहासिके विकाशे, अथवा अपरैः दर्शनैः सह सम्पर्के, यानि मानवताधर्मिनैतिकादर्शानां निर्दिष्टां प्रगतिं सूचयन्ति। अत्र न केवलं सन्न्यासिजीवनविधिरस्ति, अपि तु साधारणानां जनानाम् यो विधिः प्रात्यहिकजीवने सर्वेषु कर्त्तव्येषु प्रयुज्यते। सन्न्यासिक्षेत्रे यो जनो वर्तमाने जीवने निर्वाणरूपं परमं पुरुषार्थं लब्धुमिच्छति तस्य पक्षे नैतिका नियमाः तस्य धर्मानुशीलनस्य अवश्यकर्तव्याङ्गविशेषाः। प्रश्नातीतमेवेदं तथ्यं यत्, बुद्धः स्वप्रत्यक्षीकृतां सर्वोत्तमां नीतिशिक्षां जग्राह। प्रत्येकं दर्शनं तस्य पूर्वाधिकारिभ्यः प्रकाशते, बुद्धश्च स्वयं पूर्वतननीतिमार्गच्युतान् ब्राह्मणान् निन्दन् वर्णितः। उपदेशदानकाले बुद्ध उवाच - पृथिव्यां बहवो ब्रह्मरूपा जनास्तिष्ठन्ति ये नूतनोपदेशं ग्रहीतुमुन्मुखा आसन्। तेषां समीपे सप्रमाण ऐशोन्मेषः साधितः यस्मै तेषां नैतिका स्वभावा अभिलषन्ति। अपि च, चिरन्तरधम्मत्वेन ऐशोन्मेषो वस्तुस्वभावपक्षे सहजातः। बुद्धेन तद्वस्तु पुनराविष्कृतं यत् प्रायेण विलुप्तमासीत्।
विशिष्टलक्षणद्वयं बौद्धनीतिविज्ञानाय पृथक् मर्यादां ददौ। प्रथमतः साधारणानां जनानां कृते व्यावहारिकं तथा कार्यकरं दर्शनम्। द्वितीयतः, प्रचलितेन विश्वासेन विधिना वा सम्पादितानि निपुणानि कार्याणि आध्यात्मिकतया नवां मात्रां लभन्ते स्म। अपि च, एषु कार्येषु नैतिकं तात्पर्यं प्रतिफलितम्। कूटदन्तेन विप्रेणालोचनायां बुद्ध उवाच - कश्चित् प्राचीनः राजा महायज्ञं कर्त्तुमियेष। परिशेषे स तं यज्ञं कर्तुं तस्य गृहपुरोहितेन उत्साहितो बभूव - यत्र षण्ड-छाग-कुक्कुट-शूकरादि-प्राणिवधो नाभूत्, कोऽपि वृक्षो न छिन्नः यज्ञीयस्तम्भाय। आच्छादनाय तृणानि न छिन्नानि, दासा भृत्याश्च न ताडिताः, किन्तु ते रोदनं तथा दण्डभयं न कृत्वा तेषां कर्माणि चक्रुः।
कूटदन्तः पप्रच्छ - को यागः अस्मात् यज्ञात् प्रसिद्धतरः, अथवा महत्तरं फलं ददाति इति। बुद्ध उवाच - धार्मिकाय सन्न्यासिने भिक्षाया दानं खलु महान् यज्ञः। तस्मान्महत्तरो यागश्चतुर्गुणं दानम्, तस्मात् महत्तरं बुद्धशरणम्, तस्मादपि महत्तरं विदुषां वाक्येषु प्रत्ययपरायणत्वम् इति।
तत्र पञ्च नैतिका विधयः सन्ति, साधरणजनैरपि पालनीयाः। तथा हि - हत्यापरिहारः, अदत्तस्याग्रहणम्, कामादिव्यसनत्यागः, मिथ्याभाषणपरिहारः, मत्तताजनकात् द्रव्यात् विरतिश्च।
सिङ्गालकोपदेशे बुद्धस्तथा वर्णितो यथा स दिग्भागषट्कपूजनरतं कञ्चित् गृहस्थं ददर्श (प्रधाना दिशः, अधश्च ऊर्द्ध्वं च)। स वदति तस्य पिता तं तत्करणाय आदिदेश। बुद्धस्तमेतत्करणाय न निनिन्द। किन्तु स केवलमुवाच - तेन प्रकारेण दिशः न पूजयितव्या इति। स निर्दिशति पापकर्मचतुष्टयम्। तथा हि वधः, चुरकर्म, कामादिषु प्रश्रयः, मिथ्याकथनं चेति। स निर्दिशति दोषकरणस्य चत्वारि क्षेत्राणि। तथाहिपक्षपातित्वम्, घृणा, मूर्खता, भीतिश्चेति। अपि च, धनलाभस्य षट् उपायास्तेषु च षट् विपदः, बन्धुवच्छत्रुचतुष्टयम्, चत्वारि यथार्थमित्राणि च।
यथार्थशिष्यः पूर्वां दिशं पितराविति मन्यमानः पूजयति। स वदति - ‘अहं ताभ्यां पालितः, अहं तौ पालयिष्यामि, अहं तौ सेविष्ये, अहं संसारं पोषयिष्यामि, अहं च गतेभ्यः आत्मभ्यश्च हविः दास्यामि’ इति, पितरौ च पञ्चप्रकारैः तस्मै प्रतिदास्यतः एवम् अन्यासु दिक्षु द्रष्टव्यम्। आचार्येषु कर्तव्यं साधयित्वा स दक्षिणां दिशं पूजयति। स पत्न्यां विश्वस्तः सन् तस्याश्च भवणेन पश्चिमां दिशं पूजयति। स मित्रप्रेम्णा उत्तरां दिशं पूजयति। तथा च, अधःदेशं दासेभ्यः भृत्येभ्यश्च, ऊर्ध्वदेशं च सन्न्यासिनां विप्राणां च यत्नेन। इदं साधारणबौद्धस्य समग्रं कर्त्तव्यमिति कथितम्। किन्तु इदं साधारणेभ्यः जनेभ्योऽपि समग्रकर्त्तव्याद् अतिदूरे वर्तते। नीतिसम्मतं कर्म ऐहिके तथा पारलौकिके जीवने सुखरूपाय पुरस्काराय कल्पते। इदं सुदृढं शिक्ष्यते। किन्तु इदं न मुक्तये, आत्यन्तिकनिवृत्तये यत्राखिलं वस्तु क्षणिकम्। अतश्च दुःखपूर्णम्। सामान्यो जनोऽपि चतुस्तरीयमार्गमनुसरति। अयं मार्गोऽनुशीलनस्य, अयं तत्क्षणात् सुकर्मणां पुरस्कारे अन्तिमसुखान्वेषणलक्ष्यादुपरि तमुन्नमयति। चतुस्तरीयमार्गव्यवस्था परवर्त्तिषु कृतिषु दरीदृश्यते। यद्यपि इयं मूलानुशासनेऽस्ति, तथापि अत्र किल प्राचीनोपदेशस्य पुनर्वर्गीकरणं लक्ष्यते। साधारणा जनाः प्रायेण प्रथमस्तरत्रयलाभाय दृश्यन्ते।
प्रथमे स्थरे सतापन्नं नामकं प्रवाहं प्रविष्टः नरः बन्धनत्रयं नश्यति। तथा हि - स्थायिनि आत्मनि विश्वासः, संशयः प्रत्ययश्च सुकर्मानुष्ठानेषु। एवं च स दुःखात्मकपुनर्जन्मपात्रतातो मुक्तो भवति। ततः स सम्यक् ज्ञानाय कल्पते।
द्वितीये स्तरे बन्धनत्रयं विनश्य, इन्दियवृत्तिं संयम्य, विद्वेषं, मानसिकं मोहं च प्रशम्य, स एकदाप्रत्यावर्त्तनकारी भवति (एकदागामी), तदवस्थायां च उपरते तस्मिन् स सकृत् दुःखसमुत्सादनात् पूर्वम् इदं जगत् प्रत्यावर्तते।
तृतीयतः, निम्नस्तरीयबन्धनपञ्चकं विनश्य (विषयासत्त्या द्रोहेण च सह प्रागुक्तत्रयम्), स उच्चतरे जगति पुनर्जायते - यस्मात् पुनरागमनस्य सम्भाव्यता नास्ति। तत्र स निर्वाणं लभते।
एषु त्रिषु स्तरेषु सुकर्मसञ्चयस्य अभिप्रायो न तिष्ठति। नीतिशिक्षणमत्र प्रयोजनीयमङ्गम्। यत्र नीतिनिन्दितकर्मसाधनाय प्रकृता प्रवणता तिरोहिता भवति। विशेषतः, जगति कस्मैचित् स्थितिशीलाय रूपाय तृष्णा (तन्हा), तां प्रति प्रवणताया उच्छेदनम् अधिकं गुरुत्वपूर्णं लक्षणम्। बन्धनादिक्रमेण वर्गीकृता विभिन्नरूपा तृष्णा दुःखोद्भवस्य दुःखनिरोधस्य च ज्ञानेन विनष्टिं याति। ततः चतुर्थः स्तरः - अर्हतां स्तरः - उपस्थितो भवति। अस्यां दशायां दश्चित् जनो यदि इतोमध्ये इदं जगत् न त्यजति, तर्हि स स्वत एव असामान्यः जायते। स तृष्णाया मुक्तो भवति - यया साधारणः नरः कमनीयं पार्थिवं जीवनं वहति। ततः तृष्णामुक्तो जनः हृदयेन अन्तर्ज्ञानेन च मोक्षस्य बोधे वसति। अस्य परमानुभवस्य मार्गोऽष्टाङ्गिकः एव। तथा हि - सम्यग् दृष्टिः, सम्यक् संकल्पः, सम्यग् वाक्, सम्यक् कर्मान्तः, सम्यगाजीवः, सम्यग् व्यायामः, सम्यक् स्मृतिः, सम्यक् समाधिश्चेति।
अस्य विषयस्य इतिहाससम्मते विचारे अयमेव स्वाभाविकः प्रश्नः यत् वयम् विकासप्राप्ते दर्शने किं पश्यामः, याथातथ्येन बुद्धोपदिष्टे दर्शने वा किं तिष्ठति। भेदो न स्पष्टः। तथा हि - दीघस्य आद्येषु त्रयोदशसुत्तेषु शीलाख्या नीतिमाला वर्तते। इयं निःसंशयं सम्पादकेन संयुज्यते - येन आलोचनेषु गृहीता। तथापि इयं च तदालोचनेभ्यः प्राचीनतरा। इयं निःसन्देहेन साम्प्रतिकसम्पादितांशेभ्यः प्राचीनतरा। किन्तु आलोचनानां अन्येऽशाः सत्यमेव पुरातनाः। बहवः किल आदिमेषु शिक्षणेषु अन्तर्भूताः। अति भागाः सन्ति ये अयत्र प्रायशः दृश्यन्ते। ते इव सर्वे पुनरुक्तिमूलका अनुच्छेदा संयोजनकवलिता इति मतम्। तान्तरेण प्राचीनतमा अनुच्छेदा मूलं तत्वं निर्दिधन्ति - यत् शिष्यैः बुध्यते। आलोचनेषु संवादेषु वा अन्यतमस्य ग्रहणेन इदं दृश्यते यत् निर्दिष्टपर्याये सा शिक्षा कीदृशी आसीत्, ततश्च प्राचीनोपदेशस्य उद्धृतेः तथा पुनर्निमितेः प्रचेष्ठा विचार्यते। वस्तुतः संयोजनमूलका अंशा मूलं तत्त्वं संशोधयितुं न यतन्ते। अथवा ते न नूतनं किञ्चिदुपदिशान्ति, न वा कस्यापि विरोधितां कुर्वन्ति।
एषु संवादेषु सन्न्यासिग्रहणफलसुत्ते बौद्धधर्मोपदेशस्य पूर्णतमं तात्पर्यं लक्ष्यते। अयं संवादः नृपस्य अजातसत्तोः आख्याने प्रवेशं लभते - यः विरोधिसम्प्रदायषट्कस्य प्रधानानामनुसन्धानात् परं बुद्धस्यं समीपमुपगत इति कथ्यते। तत्र बुद्धस्योत्तरं बौद्धसन्न्यासिन उन्नतिं वर्णयति - यत्र सम्यग् ज्ञानलाभेन सह नीतिबोधस्य अन्तर्दृष्टौ समाधेश विभिन्नाः पर्याया वर्णिताः।
राजा बुद्धं पृच्छति - ‘भवान् किमिह जगति सन्न्यासिजीवनस्य फलं व्याख्यातुं शक्नोति ?’ कश्चिद्दासो गृहस्थो वा केवलं जगत्त्यागेन जयति इति सुफलं निर्दिशन् बुद्धः कस्यचिद् बुद्धस्य समुदयं वृत्तान्तं गृह्णाति। कश्चित् जनः तत्त्वं श्रुत्वा बुद्धे विश्वासं लभते। स पश्यति यत् स गृहे यथायथं धार्मिकं जीवनं वोढुं न शक्नोति। स च जगत् त्यजति। स नैतिकान् नियमान् पालयति, इन्द्रियप्रवृत्तिद्वारं रक्षति, मनस्वितां तथा जागरूकतां लब्ध्वा सन्तुष्टः तिष्ठति। एषु विभागेषु आद्यस्य विस्तृता व्याख्या शीलनामकेऽशे लब्ध्वा सन्तुष्टः तिष्ठति। एषु विभागेषु आद्यस्य विस्तृता व्याख्या शीलनामकेऽशे दीयते, योऽशः क्षुद्र-मध्य-महत्क्रमेण विभज्यते, यत्र च विषयाः संक्षेपेण उल्लिखिताः।
प्राथमिकनैतिकविधीनां प्रथमे भागे यतिः प्राणिनां वधं त्यजति यष्टिप्रयोगं छुरिकाप्रयोगं वा न करोति, दयावशात् सर्वेभ्यः प्राणिभ्यो हिताय करुणय वसति।
अदत्तवस्तुग्रहणं परित्यज्य स केवलं दत्तं वस्तु गृह्णाति इच्छति च, चौरकर्म न कृत्वा वसति।
व्यभिचारं परिहाय स सम्पूर्णशुद्धतायां वसति
मिथ्यात्वं परित्यज्य स सत्यं वदति। स सत्यवादी, विश्वासी, विश्वस्तः सन् जनेषु वाग्भ्रष्ठो न भवति।
अपवादं विहाय स तन्न वदति यद् एकत्र तेन श्रुतं किन्तु अन्यत्र कलहकारणम्। स विभागं शमयति, मित्रताम् अनुप्रेरयति, ऐक्ये हृष्यति, वदति तदेव येन ऐक्यं जायते।
कर्कशभाषापरित्यागात् तस्य वाक् दोषशून्या, मनोहारिणी मर्मस्पर्शिनी, मार्जितां जनचित्ताकर्षिका संवृत्ता।
अनर्थकवाक्यप्रयोगं न कृत्वा स यथायथं वदति, तत्त्वं नियमं च अनुसृत्य वदति। तस्य वाक्यं स्मृतियोग्यमुदात्तं स्पष्टं प्रसङ्गोचितं च।
ततः स सन्न्यासिजीवनोपयोगिनः परवर्त्तिनो बहून् नियमान् अनुसरति। स यथाकालं खादति, स नृत्यगीतादिं न पश्यति, मालां, गन्धद्रव्यं, भूषणानिं, उच्चां शय्यां न व्यवहरति। स स्वर्णं रौप्यं च न गृह्णाति, न च निर्दिष्टप्रकारं भोजनम्, दासजीवभूमिरूपां सम्पत्तिमपि न गृह्णाति। स मध्यस्थरूपेण कर्म न करोति, क्रये विक्रये च अंशं न गृह्णाति, तत्र च संश्लिष्टं किमपि दुष्टाचारं नावलम्बते।
मध्यनीतिमालायां सन्ति बीजांकुराहतिपरिहारः, भोज्यादिवस्तुसञ्चयत्यागः, कौतिकदृश्यावलोकनाद् विरतिः अपि च, प्राणियुद्धम्, प्रतियोगिता, क्रीडा इत्यादीनां प्रदर्शनात् विरामः, द्यूतादिभाग्यक्रीडात्यागः, देहसेवार्थविलासद्रव्यव्यवहारपरिहारश्च। स ग्राम्यभाषणे ग्राम्यकथायां च प्रश्रयं न दर्शयति, तत्त्वं गृहीत्वा न कलहायते, नृपादीनां दूतत्वं न करोति, अथवा न जिह्वानां वञ्चनामयधारणामयं अभ्यासं साधयति।
महानीतिमालायां बहुविधकलाचारसंस्काराणां परित्यागोऽन्तभूतः, येषामाचरणात् विप्रा विशेषेण अभियुक्ता आसन्। त्यक्तव्या विषया हि एवम् दैहिकलक्षणव्याख्या, अशुभलक्षणानां, स्वप्नां मूषिककृतचिह्नां विश्लेषणम्, विविधज्ञानुष्ठानम्, इन्द्रजालप्रदर्शनम्, वस्तुषु व्यक्तिषु जीवेषु च शुभलक्षणानां व्याख्या, युद्धजयविषये सिद्धादेशः, ज्योतिर्विज्ञानविषयं, दुर्भिक्षं, महामारं, शुभदिनं, मन्त्रप्रयोगं चाधिकृत्य भाविकथनम्।
बौद्धसन्न्यासिना सर्वप्रकारेन्द्रियसुखं त्यक्तव्यमिति कारणात् बौद्धनीतिशास्त्रं सन्यासधर्मीति कथ्यते। तथापि इदमुल्लेखनीयं यत्, आसु नीतिषु केवलं सुखविरतौ अतिन्यूनं गुरुत्वमर्प्यते। अन्यतश्च, यथाद्योपदेशे आत्मनिग्रहः सुदृढं निन्द्यते। अत्र किलापराधः स्यादिति बोधिलाभात् प्राक् बुद्धस्य भ्रान्ततपस्यायाः वर्णनायां द्योतितम्। नग्नसन्न्यासिनां सन्यासाचरणानां प्रत्यावर्त्तिनी सूची अपि अस्ति। यथा, दीघनिकायो, १.१६६, तुलनीयम् - अस्मिन् सुत्ते राइस डेभिड्स् कृता भूमिका, १.१०६.
अथ बुद्धेन समाधिफलं वर्णितम्। समाधिपदेन गूढध्यानापेक्षया अतिरिक्तं किञ्चित् बुध्यते। तदेवाध्यात्मिकमनुशीलनम् तथा मानसिकविनयनं यत् सम्यग् ज्ञानाय कल्पते एषु अन्यतमं खलु विषयैशेषे मनःसंयोगस्यानुशीलनम् येनेदमेकनिष्ठतयाधिकतरं समाहितं भवति। तथा च शारीरिकदशां याति यदा चेतनक्षेत्रं संकीर्णं तीव्रं च जायते। तस्मिन् क्षणे च तत् वाह्यिकप्रभावेभ्यो व्याकृत्तं भवति। अनेन सह पाश्चात्यगूढतत्त्वस्य तुलना पश्चात् वक्ष्यते।
बौद्धसन्न्यासी यत्र इन्द्रियपञ्चकादाशङ्कामनुभवति तत्रैव स संयतः सन् घनिष्ठं शरीरव्यापारं न लक्षयित्वा षष्ठेन इन्द्रियद्वारा मनसा इन्द्रियव्र्ऱ्इत्तिद्वारं रक्षतिं। एवं स लोभात् आशाहीनत्वाच्च रक्षितो भवति। मन्दचिन्ता तस्योपरि प्रभुत्वं न करोति। तथा च सोऽनल्पं सुखमनुभवति।
ततः सन्न्यासी स्मृतिं लभते। तथा च स किं करोति, याति, आयाति, पश्यति, आत्मानं तनोति, तस्य वसनं परिधत्ते, पात्रं गृह्णाति, एवं प्रात्यहिकजीवनस्य प्रत्येकं कर्मणि स पूर्णचैतन्यवान् तिष्ठति, यथा स यत्नहीनत्वात् अनुचितोपायेन कर्म न करोति। तदा स सन्तुष्टः सन् तेन सह तस्य वसनं भिक्षापात्रं च गृह्णाति यथा पक्षी गृह्णाति पक्षयुगलम्।
नैतिकता, जितेन्द्रियता, आचरणेषु एकनिष्ठता, सन्तुष्टचित्तता चेतिगुणचतुष्टयेन सन्न्यासी निर्जने स्थाने, वने, वृक्षस्याधः, पर्वते, पार्वत्त्यगुहायां समाधिक्षेत्रे वा वसति, ततः भोजनात् परं व्यत्यस्तपादोऽथ च दण्डवत् एकचित्ततया उपविशति। स लोभं त्यजति, लोभशून्यहृदयः सन् वसति। स तस्य चित्तं लोभात् विद्वेषात् च मुञ्चति, प्राणिनां मङ्गलाय करुणया उषित्वा स आलस्यात्, मोहात्, सन्देहात् च मुक्तो जायते। यदा स आत्मनि प्रतिबन्धकपञ्चकस्याभावं पश्यति, तदा उल्लासो जायते, उल्लासाज्जायते हर्षः। यदा मनः हर्षम् अनुभवति, तदा शरीरं सत् सुखायते, सुखायमानं मनश्च समाहितं जायते।
ततस्तिष्ठति समाधेः चतुर्णां पर्यायाणां वर्णना। ते विविधेषु विषयेषु ध्यानस्य पद्धतिवैविध्यात् जायन्ते। अत्र अस्माकं केवलं चेतनापरिणामवर्णनास्ति।
(१) इन्द्रियपरायणता च मन्दा चिन्ता चेत्याभ्यां मुक्तः सन् सन्न्यासी सहर्षसुखस्य प्रथमे पर्याये वर्तते। यत् सतर्कं सानुसन्धानं च तिष्ठति। यच्च रहस्यम्। तदा रहस्यहर्षसुखाभ्यां सन्न्यासी आप्लुतो भवति, तस्य शरीरं रोमाञ्चितं भवति। तस्य शरीरस्य न कोऽप्यंशः रहस्यहर्षसुखाभ्यामस्पृष्टः तिष्ठति।
(२) पुनश्च, तर्कानुसन्धानविरतौ सत्यां निर्दिष्टे लक्ष्ये समाहितमनसा आन्तरिकप्रशान्तदशायां स समाधिजहर्षसुखयोः द्वितीयं पर्यायं याति। तदा तर्कानुसन्धानयोरनुपस्थितिः दृश्यते। अस्यामवस्थायाम्, रहस्यहर्षसुखाभ्यां स आप्लुतो भवति, तस्य शरीरं रोमाञ्चितं भवति। तस्य शरीरस्य न कोऽप्यंशः अनेनास्पृष्टः तिष्ठति।
(३) पुनश्च, हर्षे द्वेषे च समवृत्तित्वात् स मनस्वी तथा चैतन्यवान् सन् सुखानुभवं करोति - एषावस्था समवृत्तितया मनस्वितया सुखेन चावस्थितिरिति बुद्धैः कथ्यते। अस्मिन् क्षणे स हर्षहीनसुखेन आप्लुतो भवति। तस्य शरीरं रोमाञ्चितं भवति। तत्र न किञ्चित् स्थानमस्पृष्टं तिष्ठति।
(४) पुनश्च, सुखं च दुःखं च विहाय हर्षविषादयोः तिरोभावात् प्राक् स दुःखसुखशून्यं समाधेः चतुर्थ पर्यायं प्राप्नोति। तत्र एकचित्तागता विशुद्धिः समवृत्तिता च तिष्ठतः। तदा स शरीरं रोमाञ्चितं कुर्वन्नास्ते। मनः तिष्ठति विशुद्धं स्वच्छं च। तस्य शरीरे न किञ्चित्तिष्ठति तेनास्पृष्तमिति।
सन्न्यासी एतदवधि तस्य चित्तं हृदयं च परिपुनीते। तथा च, प्रकृतसत्यानुभवं प्रति चालितः सन् यत्नेन विनयनं निर्वहति। एभिरनुशीलनैः सोऽलौकिकीं शक्तिम् अर्जयति।
स तस्य मनोयोगं ज्ञानं तथा अन्तर्दृष्टिं प्रति समाहितेन, प्रवित्रीकृतेन, शुद्धीकृतेन, कलङ्कमुक्तेन, दूषणशून्येन, मृदुना, कर्मोद्यतेन, दृढेन, अलङ्घ्येन मनसा प्रेरयति, तस्य बोधो जायते - इदं साकारं मे शरीरं, इदं भूतचतुष्टयेन निर्मितम्, पित्रा, मात्रा च उत्पन्नम्, दुग्धयवागूसमवायम्, घर्षण-पेषण-खण्डन-विलयनानामधीनम्, अत्र चैत्यन्यं मे वर्तते, अनेन इदं सीमितम् इति।
ततः स मानसं शरीरं स्रष्टुं तस्य मनोयोगं प्रेरयति। अस्य शरीरात् स मानसं शरीरं सृजति यस्य आकारोऽस्ति, अवयवाः सन्ति, वृत्तयोऽपि सन्ति।
स विविधैन्द्रजालिकशक्तीः (इद्धि) प्रति स्वीयमनःसंयोगं करोति। एक एव सन् बहुधा भवति। बहुधा सन् पुनः एको जायते। स निर्बाधं प्रचारपर्वतादीनतिक्रम्य गच्छति। पृथिव्या मध्यं तस्याश्च वहिः प्रविशति। शुष्के स्थले इव जले व्रजति। व्यत्यस्तपादः सन् वायुमध्यतः गच्छति। स स्वहस्ताभ्यां शक्तिमन्तं चन्द्रं सूर्यं च स्पृशति। ब्रह्मणः मण्दलम् उपगच्छति च।
शुचीकृतदिव्यकर्णेन स दूरे निकटे वा सर्वत्र दिव्यं मानुषं च शब्दं शृणोति।
स अन्येषां जीवानां मानसिकीं दशां बोद्धु शक्नोति।
प्राप्तान्त्यपर्यायत्रयं विद्येति (विज्जा) अभिधीयते
(१) सन्न्यासी तस्य पूर्वास्तित्वस्मरणाय मनःसंयोगं करोति। स जन्मनां सहस्राणि स्मरति, अस्तित्वमूलकानि बहूनि चक्राणि स्मरति च। स जानाति यत् अस्मिन् स्थाने स एतन्नामक एतज्जातिकश्चासीत्। प्रत्येकं जनमि तस्य एता अभिज्ञता अभवन्, जीवनकाल एतादृश आसीदिति च स जानाति।
(२) स सत्वानां मृत्योस्तथा पुनर्जन्मनः ज्ञानेऽपि मनःसंयोगं साधयति, दिव्यया शुचीकृतया च दृष्ट्या स नरकस्थान् पापिनः स्वर्गस्थान् धार्मिकान् च पश्यति, यथा प्रासादस्थः जनः तान् जनान् पश्यति ये निम्नस्थं गृहं प्रविशन्ति, तस्माच्च वहिः गच्छन्ति।
(३) ततः स ‘इदं दुःखम्’ ‘इदं दुःखकारणम्’ ‘इदं दुःखनिरोधः’ ‘इदं च दुःखनिरोधमार्गः’ इति। स यथायथं जानाति ‘एते आसवसः’ ‘अयमेवासवनिरोधमार्गः’। यदा स एवं जानाति एवं च पश्यति, तदा तस्य मनः तृष्णासवात्, आकाङ्क्षासवात्, अविद्यासवाच्च मुक्तं भवति। मुक्तेषु मुक्तस्य ज्ञानं भवति। सः अवगच्छति यत् पुनर्जन्म विनष्टम्, धर्मसम्मतं जीवनमारब्धम्। कर्तव्यं कृतम् अतिक्रान्तं विश्वातिरिक्तं किञ्चित् नास्ति।
इदं सामान्यतः स्वीक्रियते यत् अधुना या परिकल्पना दृश्यते, सा विस्तारं प्राप्नोति नैतिकदोषाणां तथा विविधसमाधिभेदानां सूच्यां किल संयोजनं साधितम्। तथापि य परिकल्पनाधुना वर्तते सा प्राचीनेव दृश्यते तत्र कति विकाशा न सन्ति, ये परवर्तिनीषु कृतिषु सन्ति यथा बुद्धघोषस्य विसुद्धमग्गे। तत्र ध्यानस्य चत्वारिंशत् पद्धतयः (कम्मट्ठान्) तिष्ठन्ति यैः समाधिप्रभृतिपर्यायाः जायन्ते। एषु चत्वारः पञ्च वा लाभाः (समापत्ति), तेऽत्र विशेषेण उल्लेखनीयाः। यतः ते बुद्धेन अन्तिमे निर्वाणेऽर्जिता इति कथ्यते। यतः विनयनाङ्गत्वेन ते प्राचीनतरेषु विवरणेषु न दृश्यन्ते, ते किल मूलतः स्वाधीनास्तथा समाधेः सदृशाः केचित् नियमा आसन्। किन्तु ते समाधेरनुक्रमत्वेन व्यवह्रियन्ते। एभिः सह अष्टौ अथवा नव लाभा अपि पुष्टिं यन्ति। समाधिचतुष्टयेन शिष्यः कर्मलोकादुत्तिष्ठति, लाभः च रूपलोकादतिक्रम्य गच्छति।
(१) सम्पूर्णतः शारीररूपप्रत्यक्षम् अतिक्रम्य बाधप्रत्यक्षातिरोभावात्, विचित्रं प्रत्यक्षं नानुभूय सः ‘असीमं चैत्य’मिति प्रत्यक्षीकरोति। तथा च स चैतन्यस्यासीमं पर्यायं लब्ध्वा तत्र वसति।
(२) सम्पूर्णतः देशस्यासीमं पर्यायमतिक्रम्य सः ‘असीमं चैतन्य’मिति प्रत्यक्षीकरोति। तथा च स चैतन्यस्यासीमं पर्यायं लब्ध्वा तत्र वसति।
(३) सम्पूर्णतः चैतन्यस्यासीमं पर्यायमतिक्रम्य स ‘सर्वं शून्य’मिति प्रत्यक्षीकरोति। तथा च स शून्यत्वस्य पर्याय लब्ध्वा तत्र वसति।
(४) सम्पूर्णतः शून्यत्वस्य पर्यायमतिक्रम्य स न चैतन्यं लभते न वा लभतेऽचैतन्यम्। तथा च स तत्र वसति।
इदमेव सामान्यं मतं यत् समाधेरनुशीलनं योगदर्शनादादीयते। इदं सम्भवति। किन्तु प्रत्यक्षं साक्ष्यं स्वल्पमेव लभ्यते। आख्यानेषु कथ्यते यत् बुद्ध आलारकालामः च रामपुत्रः उद्दकश्चेति आचार्ययुगलात् अधीते स। किन्तु अस्माभिरवगतं यत् प्रथम आचार्यः समाधिलाभाय शून्यत्वस्य पर्यायं यावत् उपगतः द्वितीय आचार्यः न चैतन्यस्य न वाऽचैतन्यस्य पर्यायमुपगतः। एतावेव लाभद्वयाय बौद्धशब्दौ। अत्रानुमानाय न कापि युक्तिस्तिष्ठति यत् तत् आख्यानं शिक्षकयुगलविषयकं यथार्थं तथ्यम् उल्लिखति। तौ बुद्धेन धर्मप्रचारात् प्राक् दिवं गतौ। संकलयित्रा केवलं शब्दद्वयं गृहीतम्, बुद्धपूर्ववर्त्तिनाम् असम्पूर्णोद्यमस्य प्रकाश एवात्र हेतुः।
योगदर्शनविषयकमस्माकं सर्वं ज्ञानं बौद्धदर्शनात् परवर्त्ति। द्वयोरुद्भवस्य प्रसङ्गे काचित् साक्षात्तुलना न इष्यते। किन्तु बौद्धसाहित्यपाठात् लक्ष्यते यत् समाधेरनुशीलनं मूलतः न बौद्धदर्शनगतम्। तथापि यथार्थपद्धतिसम्मतसमाधिरेवास्य मूलमिति स्वीक्रियते। बौद्धानुशीलनस्य योगस्य मध्ये सादृश्यस्याधिकरो गुरुत्वपूर्णो हेतुरेवं यत् द्विविधे दर्शने पार्श्वापार्श्वि विकशितेऽभवताम्। न केवलं तुलना चानुकृतिश्च किन्तु कस्यापि सम्प्रदायस्य सदस्यः अन्यं सम्प्रदायं गन्तुं तथा तस्य पद्धतिं ग्रहीतुं समर्थोऽभवत् सम्भवतः प्रतिपक्षदर्शनप्रभावात् बौद्धपद्धतौ असामान्याध्यात्मिकशक्तिग्रहणस्य अन्तर्भुक्तिं पश्यामः। भारतीयमते ताः शक्तयोऽसाधारण्यः, नैकान्ततः अस्वाभाविक्यः न वा अतिस्वाभाविक्यः। किन्तु ताः शक्तयो विद्यनुरूपानुशीलनस्य स्वाभाविक्यः परिणतयः एव। परवर्तिबौद्धरचनासु एते विषयाः सुस्पष्टा अभवन् तत्र तत् संक्रान्तौ द्वौ सुव्यक्तौ उपायौ दृश्यते। एकतः, अविश्वासिनां धर्मान्तरीकरणाय साक्ष्यत्वेन अलौकिककर्मादिप्रदर्शनस्य प्रवणता जायते। यथा लक्ष्यते कस्सपत्रयस्य धर्मान्तरीकरणाख्याने तथा कपिलावत्युनगरे बुद्धकृतालौकिककर्ममूलकाख्याने। स प्रायेण कस्यचित् शिष्यस्य साहाय्यार्थं वावधानार्थं वात्मनः मानसीं मूर्तिं प्रेषयितुं वर्णयति। अथवा सः अन्येषां मनोगतं वचनं पठति इति दृश्यते।
अपरतश्च, आसां शक्तीनामर्जनं न परमपुर्षार्थमुखि इति अन्यत्रावमतम्। यद्यपि नानाविधा अर्हतः पुरुषाः विभिन्नमात्राक्रमेण अलौकिकशक्तिमर्जयन्ति, तथापि बुद्धः स्वयं तासां शतीनां प्रयोगाय तस्य शिष्यान् निषिषेध इति कथ्यते। कश्चिद् अबौद्धोऽपि तस्य पूर्वजन्मनः ज्ञानं लब्धुं शक्नोति, किन्तु उपलब्धेः जाड्यत्वात् स केवलं चत्वारिंशच्चक्राणि स्मर्तुमर्हति इति बुद्धघोषेणोक्तम्। महालिसंवादे बुद्धः दिव्यरूपदर्शनस्य दिव्यध्वनिश्रवणस्य च शक्तिं वर्णयामास, किन्तु ‘समाध्यभ्यासोपलब्धये सन्न्यासिनः महा सह धार्मिकं जीवनं नानुसरन्ति।’
दीघनिकाये च मज्झिमनिकाये च समाध्यभ्यासस्य प्रधानं स्थानं तिष्ठति। किन्तु उच्चतमगूढदशापक्षता केवलं पद्धतिः इति ननुमीयते। सा दशा केनापि प्रकारेण न लक्ष्यीभूता, किन्तु सा दशा ज्ञानलाभाय अन्यतमोपायरूपैव। अस्मिन् जीवने एव हृदयस्य अन्तर्दृष्टेश्च मुक्तये सहायिकापि। ‘विपस्सिन्’ - बुद्धस्य प्रथमजीवनस्याख्याने - यत्र मुख्या घटनाः गोतमस्य घटनानां समानाः - तस्य जन्मनि सिद्धादेश द्वात्रिंशच्चिह्नैः त्रिभिः प्रसादैः, सन्न्यासस्य बोधिज्ञानस्य च चतुर्भिर्लक्षणैरुपेत आसीत्। किन्तु विपस्मिनः बोधिलाभे कुत्रापि विशिष्टा गूढा पद्धतिर्नास्ति। तेन दशविधकार्यकारणशृंखला चिन्तिता। तथा च, प्रत्येकसम्बन्धावसानज्ञानेन दृष्टिश्च ज्ञानं च जायेते स्म।
बौद्धगूढतत्त्वानुशीलने तत्प्रकारेण अधिकतरं सादृश्यं वर्तते यत्र भगवता सह मिलनस्य लक्ष्यं वर्ण्यते। परवर्ती प्रकारः व्रेमण्डमहाभागेन व्याख्यातः - यत्र सम्पूर्णतः क्याथोलिकदृष्टिभङ्गीजातानि सामान्यानि वैशिष्ट्यानि प्रतिफलितानि। स तं व्यापारं स्वभावजभावत्वेन वर्णयति यः प्रत्यक्षतः प्रतिपूर्वम् अकस्मात् चेतनमनसो निम्नेऽवस्थितेन आध्यात्मिकसामग्रीग्राहेण निर्दिष्टान् प्राणान् चालयति तदध्यात्मं वस्तु बहुषु एकम्, विशृंखलासु शृंखलां, क्षणिकेषु चिरन्तनम्, स्रष्टरि च दिव्यम्।
अयं व्यापारः प्रायेण बौद्धगूढत्त्वेन सह प्रयोज्यः। यो न केवलं मन्मयचिन्तनस्य प्रकाशः, अपि तु न्यूनतमाभिप्रायेण प्रकृततत्त्वानुसन्धात्मक एव, यथार्थप्रतीतवस्तुसत्यलाभात्मकश्च।
डः एम. व-हन महाभागेनोच्यते यत् एकश्च सर्वश्च साक्षात् तत्क्षणात् च परमतत्त्वोपलब्धये सर्वग्रासिन्याकाङ्क्षया गृह्येते। (या हि तीव्रा धार्मिकी अनुभूतिः) तेषां लक्ष्यमुपगन्तुं ते नियतं सहजदिव्यसम्भावनासमूहं जागरयन्ति यदा बह्यिकसत्यात् सम्पूर्णविविक्ततया यथार्थविश्रामदशायां मनः निविश्यते।
संश्लिष्टपद्धतयः संश्लिष्टाध्यात्मरीतयश्च अपि समाना लक्ष्यन्ते। उभयत्र ध्यानेन समाधिना चानुसृतः पूर्ववर्त्तिनैतिकविनयनविषयोवश्यमेव वर्त्तते। यत्र मनोयोगः कस्मिंश्चिद्वस्तुनि आवद्धस्तिष्ठति तत्र च आवेगीयपरिवर्त्तनेन सह चैतन्यस्य संकीर्णता अथ च सुतीव्रता सहगामिनी तिष्ठति। अकस्मात् काचिन्नवाभिज्ञता जायते। खृष्टीयगूढतत्वे साभिज्ञता व्यक्तिचेष्टया न घटते, किन्तु यत् किंचित् प्रदत्तम् - ‘अनुभूतेश्वरोपस्थितिः।’ अत्र प्रकृतसमपर्यायाङ्कनमसम्भवमेव। बौद्धः न किमपि वाह्यिकं साहाय्यं स्वीकरोति। स ईश्वर इति यद्वस्तु जानाति तदपेक्षया उच्चतरं स्थानं स उपगत इति स स्वयं विश्वसिति।
किन्तु सोऽचिन्तितपूर्वोपलब्धिविशेषस्याभिज्ञतां लभते (सच्चिकिरिया), यदा परिपूर्णसत्यज्ञानं तं प्रत्यात्मप्रकाशं करोति, तथा च सः अर्हतः दशां प्राप्नोति।
सन्न्यासिनाधुना या दशा प्राप्ता सैव अपरा तटी, मृत्युविहीना अर्थात् स्थायिनी ध्रुवा वा स्थितिः निर्वाणाभिधेया। निर्वाणशब्दः (पालि-निब्बान) निर्वापणं न विशेषेण बौद्धः अस्य प्रयोगश्च तथा धारणया परिवर्तते यां प्रत्येकं धर्मसम्प्रदायः मनुष्यस्य परमपुरुषार्थत्वेन परिपोषयति। उक्तानुच्छेदादिदं स्पष्टम्, यत् बौद्धानां समीपे ‘निर्वाणं’ तृष्णाया निर्वापणम्, सर्वविधरूपकामनाया निर्वापणम्, तथा च आनुषंगिकी दुःखनिवृत्तिरिति। तृष्णाया आकाङ्क्षाया मुक्तः वानासक्तः सन् सन्न्यासी अत्राधुना चातर्दृष्ट्या मृत्युविहीनां शान्तिं याति - यैव परिवर्त्तनरहिता निर्वाणदशा।
निर्वाणं व्यक्तिविलुप्तिरिति मतस्य विचारेण प्रयोजनं नास्ति। मूलग्रन्थेषु अस्य मतस्य समर्थनं न प्राप्यते। तथापि प्रकृतार्थस्य प्रचुरं साक्ष्यं वर्तते - इह जीवने आकाङ्क्षानिवृत्तिः। - यथा श्रीमती राईस देभिड्ष्महोदया मन्यते। आकाङ्क्षा अग्निना उपमीयते। तस्या अनुबन्धश्च इन्धनप्रयोगेन उपमीयते। एवं संवादे इन्धनस्योपरि - तस्याकाङ्क्षा वर्धते य इन्धनोपयोगिवस्तुषु भोगस्यान्वेषणं करोति। आकाङ्क्षायै इन्धनम्, इन्धनाय जीवितेच्छा, जीवितेच्छायै जन्म, जन्मने वार्धक्यं मृत्युश्च। ततः जायन्ते क्षोभः शोकः, व्यथा, दुःखं हताशा च। एवं दुःखसमूहः एव सर्वेषां मूलम्।
यथा वृहदग्निपुञ्जः काष्ठानां दश, विंशतिः, त्रिंशत्, चत्वारिंशत् वा भारान् ज्वालयति, कश्चन नरश्च तत्र काले काले शुष्काणि तृणानि गोमयानि काष्ठानि च निक्षिपति, तथा च स वृहदग्निपुञ्जः दीर्घं कालं तदिन्धनैः ज्वलयन्नेव तिष्ठति।
यो जन इन्धनोपयोगिवस्तुषु दुःखं पश्यंस्तिष्ठति तस्याकाङ्क्षा विरमति। आकाङ्क्षायां विरतायां इन्धनं विरमति। इन्धने विरते जीवितेच्छा विरमति। तस्यां विलुप्तायां जन्म न भवति। जन्मना च सह जरा च मृत्युश्च न जायते। तस्मात् क्षोभः शोकः, व्यथा, दुःखं हताशा च विरमन्ति, एवं सर्वेषां विरतौ दुःखसमूहः तिरोभवति।
यथा वृहदग्निपुञ्जः काष्ठानां दश, विंशतिः, त्रिंशत्, चत्वारिंशत् वा भारान् ज्वालयति, किन्तु कश्चन जनस्तत्र शुष्काणि तृणानि, गोमयानि काष्ठानि वा न निक्षिपति, तथा च सोऽग्निपुञ्जः सर्वेन्धनानां दहनात् परं तदभावात् पुनः न ज्वलति, अर्थात् निर्वापनत्वं व्रजति।
एवमेव यो जन इन्धनतुल्यवस्तुषु दुर्दशं चिन्तयन्नास्ते तस्याकाङ्क्षाया निवृत्तिर्जायते, तन्निवृत्तौ इन्धनस्य निवृत्तिर्भवति। एवमेव सर्वेषां निवृत्तौ सत्यां दुःखस्यापि निवृत्तिः साधिता।
अत्र सूक्ष्मतरः कश्चित् प्रश्नो जायते इह जीवने निर्वाणलाभात् परं मृत्यौ सति किं भवतीति। धर्मग्रन्थेषु वचनेषु च निश्चयेनास्योत्तरस्य सन्धानम् असम्भवम्। अत्र बुद्धस्य स्वकीयवचनानि सन्ति। किन्तु तत्र तत्पद्धतिं पश्यामः यया रीत्या तदीयाः शिष्याः तस्योपदेशार्थं गृहीतवन्तः। ओल्डेनवार्गमहोदयेन संगृहीतेषु अनुच्छेदेषु उल्लेखार्हं तदेव वैशिष्ट्यम् यत् धर्मग्रन्थेषु अपि अतिगुरुत्ववहानि वचनानि बुद्धस्य स्वकीयवचनत्वेन न गृह्यन्ते, किन्तु शिष्याणां व्याख्यात्वेनैव, तत्र ते स्वीयानुमानानां वश्यतां गता इति दृश्यते।
सन्न्यासी मालुङ्क्यपुत्तः बुद्धं कति प्रश्नान् पप्रच्छेति उच्यते। तत्र अन्यतमः प्रश्नः मरणात् परं कश्चित् तथातस्तिष्ठति न वेति। बुद्धः तदुत्तरं न स्वीचकार अर्थात् मृत्योः परं स तिष्ठति, स न तिष्ठति, स तिष्ठति न तिष्ठति, सोऽस्तित्ववान् न वेति विषये स नीरव आसीत्।
किमर्थं च, मालुङ्क्यपुत्त, मयेदं न व्याक्यातम् ? यत इदं धर्मीयजीवनस्य सुफलेषु प्रवणतां न दर्शयति। तथा हि विरागे, आवेगराहित्ये, निवृत्तौ, प्रशान्तौ, अन्तर्दृष्टौ, सम्यग् ज्ञाने, निर्वाणे च। तदर्थं मया नेदं व्याख्यातम्।
भगवता इदं न व्याख्यातमिति दृष्टिभङ्गी सर्वेषु अनुच्छेदेषु तद्विषयमधिकृत्य वर्तते। ततुपरि भिन्ना व्याख्या युक्तयश्च युक्ताः। एतादृगेकः संवादः सन्न्यासिनीं खेमां राजानं पसेनदिमवलम्ब्य तिष्ठति। सा तस्य सर्वेषां प्रश्नानां प्रत्युत्तरं ददाति ‘भगवता न व्याख्यातमिति।’
‘भगवता किमर्थं न व्याख्यातम् ?’ ‘भो राजन् ! अप्यहं प्रश्नमेकं पृच्छामि ?’ यः तवोपयोगी एव। भो राजन् ! त्वं किं चिन्तयसि ? अपि ते कोऽपि गणकः यो गङ्गाया सिकताः गणयितुमर्हति ? अथवा स किं वक्तुमर्हति ? एतावन्तः कणाः ? एतावत्संख्याकानि शतानि सहस्राणि वा इति ?’ ‘नेति, श्रीमान् एकः।’
‘अपि ते गणयितास्ति यः समुद्रस्य जलं परिमातुं समर्थः ? स इयत्परिमाणं समुद्रजलमित्येवं किं वा वक्तुं शक्नोति ?’ ‘नेति, श्रीमान् एकः’ ‘कुतश्च’? ‘भगवान् एकः, समुद्रो गभीरः अपरिमेयोऽतनश्च।’ ‘एवमेव, भो नृप, तच्छरीरं येन तथागत लक्षितः, - परित्यज्यते, मूल एव छिद्यते, तालतरुतुल्यतया उन्मूलितम्, शून्ये विलीनम्, यच्च भविष्यति न समुदेति। शरीरभूतोपाधेः मुक्तः तथागतः समुद्र इव गभीरः अपरिमेयोऽतलश्च।’
इदं व्यक्तिजनस्य अपरेषु चतुर्षु उपादानेषु पुनरावृत्तं भवति। अत्र तथागतस्य प्रसंगे प्रश्नोऽसौ वर्णितः किन्तु परवर्ती दृष्टान्तः दर्शयति यत् इदं निर्वाणप्राप्तस्य यस्य कस्यापि जनस्य क्षेत्रे प्रयुज्यते।
एकः शिष्यः यमकः नास्तिकमकं रचयति स्म यत् स भगवदुपदिष्टतत्त्वम् उपलब्धवान्। तत्र सन्न्यासी तच्छरीरनाशात् परम् ‘आसवस्’-मुक्तः सन् नाशं गच्छति, मृत्योः परं न वर्तते। अस्य प्रत्याख्यानमपि केनचिच्छिष्येण आरोपितम्। सारिपुत्तः तं पृच्छति - किं तथागतः शरीरम् ? स किं शरीरे तिष्ठति ? अथवा शरीराद् भिन्नः ? अथवा तद्वत् अन्योपादानेभ्यः पृथक् ? अथवा स किं पञ्चोपादानानां समाहारः ? अथवा किं स तेभ्यः उपादानेभ्यः वहिः कश्चित् विषयः ? सर्वत्र स सन्न्यासी अस्वीकरोति। सारिपुत्तश्चाह - इह जीवने कश्चित् तथागतः सत्येन तत्त्वेन च न बुध्यते। अत एव तस्य कोऽप्यधिकारो नास्ति तत् वक्तुं, यत् सन्न्यासी तच्छरीरनाशेन सह आसवस्मुक्तः सन् उच्छिद्यते, विनाशं प्राप्नोति, मृत्योः परं न वर्तते इति।
उच्छेदविरोधि सुस्पष्टं वचनं निश्चयेन उदानग्रन्थस्य साम्प्रतिकं सङ्कलनम्। (अष्टम-१-४)
किञ्चनायतनमस्ति - यत्र क्षितिः नास्ति, आपो न सन्ति, वह्निर्नास्ति, पवनोनास्ति। यन्न देशस्यासीमतां, चेतनस्यासीमतां सूचयति। तन्न शून्यत्वस्यायतनम्, न चेतनस्य न वा अतनस्य। तत्र इहलोको नास्ति, परलोको नास्ति, सूर्यो नास्ति, न च चन्द्रः। हे सन्न्यासिनः, तन्नाहं व्रवीमि आगमनं गमनं वा, अवस्थानं मरणं वा, न वा उत्थानम् इति। तदवलम्बनशून्यं, गतिहीनं भित्तिरहितं वा। एषैव दुःखसमाप्तिरिति।
यदि जातभूतनिर्मितामिश्रितरूपान्मुक्तिर्न जायेत, तर्हि कश्चिदजातः, अभूतः, अनिर्मितः, अमिश्रितश्चास्ति। किन्तु इदं न कंचन इतिवाचकं बोधं सूचयति। वयञ्च परवर्त्तिषु मिलिन्दप्रश्नेषु नेतिवाचकव्याख्यानस्य प्रावण्यं पश्यामः। - खन्धानां सम्पूर्णायां निवृत्तौ वर्त्तमानस्य मूलस्य निर्वापणेन भगवान् निर्वाणं प्राप्नोति। भगवान् विनाशं गतः। तस्य च निर्देशः असम्भवः इत्थम्भूतेन वचनेन। यथा - अत्रैव सोऽस्ति, तत्रैव सोऽस्ति इति। किन्तु स तस्य तत्त्वस्य शरीरे लक्ष्यते, तत्तत्त्वं हि भगवतोपदिष्टम्।
अत्र निर्वाणस्य यः प्रकारो वर्णितः स टीकाकारैः सृष्टस्य निर्वाणयुगलस्य पार्थक्यं सूचयति, बोधिवृक्षस्याधः मृत्यावपि च बुद्धः निर्वाणं प्राप्तवानितिर्तैव्याख्यातम्। इदं केवलं पूर्वतनं व्याख्यानं यत् प्राचीनतमेषु ग्रन्थेषु निर्देशितं यस्मिन् समये न किमपि पार्थक्यं सूचितम्। वयम् धम्मपदे (८९) पठामः -
बोधिलाभस्य मार्गेषु ये तेषां मनांसि सम्पूर्णतः यथायथं विनयनेन सिद्धानि कुर्वन्ति, हर्षलग्ना न सन्तः ते किञ्चिदपि न गृह्णन्ति, ते आसवस्-मुक्ताः भान्ति, ते अस्मिन् जगति निर्वाणं प्राप्तवन्तः। अत्र ‘प्राप्तनिर्वाण’-स्योपरि टीकाकारेण द्विप्रकारत्वं व्याख्यातम्। प्रथमः प्रकारः-यथात्र वर्णितः, अर्हत्वलाभे मालिन्यचक्रपरित्यागे च किन्तु उपाद्यवशेषेण सह वर्णितः (अर्थात् खन्धसमूहः-यः व्यक्तित्वेन तं निर्माति)। द्वितीयतश्च अन्तिमचिन्तानिरसनेन, खन्धचक्रपरित्यागेन, उपाद्यवशेषं विनैव वर्णितः। पार्थक्यमिदं प्राचीनमिति नोच्यते, बौद्धमनस्तत्त्वावशेषेण सह ऐक्ये समाधानं वर्तते।
यदि कुत्रापि इतिवाचकं वचनं लक्ष्यते तर्हि बुद्धानां शिष्याणां हर्षोन्मत्तवचनेषु तद्वयमाशंसेम। किण्तु अयं हि सन्न्यासिनीविषयक पद्यानामतीव समानुभूतिशीलेन व्याख्याकारेण कृतः सिद्धान्तः।-
सा(सन्न्यासिनी) इतिवाचकं वा नेतिवाचकं वा कालोचितं परमानन्दं प्रतीक्षितुं कदापि प्रेरिता न भवति। इदं भवितुमर्हति यत् कथं तेऽमृतमयं मार्गम् - अमतं पदं - निव्वानं जयन्ति, स्पृशन्ति च इति परमानन्दं प्रपञ्चयन्तस्ते कति दशा उल्लिखन्ति स्म - या दशा अचिन्तनीया अनिर्वचनीयाश्च। - यदा एकःअ अपरे च जीवनस्य प्रसंगे धारणायां च सीमिताः। तथापि च, न कालवर्त्ती, न वा देशवर्त्ती दशाविशेषो जायते योऽवश्यमेव गौरवमयस्य परमानन्दमयस्य च ऐहिकजीवनस्य परिणतिं विरचयति।
तृतीयोऽध्यायः
बौद्धसंस्कृतेः व्याख्यानम्
अस्याध्यायस्याभिप्रायद्वयं वर्त्तते। प्रथमतः, बुद्धकृतमानवचरित्रविश्लेषणे योऽशोऽसंशयितः तस्य सामाजिकगुणदोषविवेचनम्। द्वितीयतश्च तद्भूमिकानिर्माणं यत्रोचितमनोयोगो न प्रदत्तः। मनुष्याणां सामाजिकमाचरणं तथा प्रतिष्ठानमवश्यकरणीयत्वेन किञ्चित् प्रकाशयति यत्र बुद्धकृतदुःखविश्लेषणस्य केन्द्रीयो भावो विद्यते। नरः सापेक्षो जीवः। स तादृशैर्बलैर्जीवति येषां परिचयस्तं निकषा तमसावृतः। तस्य निगडा यावन्न भग्ना भवन्ति, व्यक्तित्वेन यावन्न स स्वाधीनं यत्नशीलो भवति तावत् सामाजिकाचरणाद् वहिः स जीवति, अत एव संस्कृतेः स्थपतित्वेन निर्मातृत्वेन च स केवलं स्वीयनिगडसम्बन्धिसामाजिकप्रक्षेपणं परिकल्पितुं स्रष्ठुं चार्हति।
यस्मै जीवाय बुद्धेन सम्यग् ज्ञानमुपहृतं तमावेगताडितं जीवमधिकृत्यास्माकं भूमिका विरच्यते - यापरिसीमं गभीरं गता तथा च अनया सामाजिक्या मात्रया साकं विस्तृतिं प्राप्ता। बुद्धस्य मते, नरस्य जीवनमादिमसांस्कृतिकशिशुपाठशालाविशेषस्य मध्येऽवश्यमेवातिवाहयति। साचेतना तन्हानामधेया कठोरा प्रणोदना समाजाय तज्जीवनशलीं ददाति। सर्वत्र मनुष्यः तस्य सांस्कृतिमादर्शं सृजति अवधानहीनतयेव वंशानुक्रमेण प्रेषयति च। यदुत्पत्तौ बालात् कृता प्रवर्त्तना मुख्यतो वर्तते यया नरः सचेतनमानसस्यातिनिम्नदेशेऽवस्थितेभ्यः पर्यायेभ्यः उपहारीभूतो जायते।
बुद्धस्योपदेशेषु समाजस्थमनुष्यस्य सम्पूर्णप्रश्नबहुलचरित्रस्य विश्लेषणेन सह सामाजिकगुणदोषविवेचनस्य विषया लक्ष्यन्ते। अत्र वयमेतैः विषयैः सह सम्बन्धिता भवामः। वयं संस्कृतेः स्रष्ट्रा मनुष्येण सह सम्बन्धिताः सोऽपरैः नरैः सह आदर्शान् सृजति तथा च सामाजिकादानप्रदानसूत्रेण वंशपरम्परया तान् प्रेषयति। वयं मनुष्यस्यास्यैतादृश्या स्थित्या सह युक्ताः मनुष्यः प्रेषितजीवरूपेण युगशक्तेरचेतनप्रेषणबलेन वसन् अवश्यमेव समाजे तस्य प्रश्नात्मकविषयान् गृह्णाति। तान् विषयानवलम्ब्य प्रकृतशक्तीनां मात्रां न ज्ञात्वैव विभिन्नं कर्म साधयति तथा च ताभिः शक्तिभिः संग्रामं करोति।
मनुष्यस्य संस्कृतेश्च मध्ये विच्छिन्नताधर्मितामधिकृत्य बुद्धस्योपदेशेषु यत्तिष्ठति तदपेक्षया अधिकतरनिश्चितदोषनिर्णयो भूमण्डलस्य कुत्रापि न साधितः।
व्यक्तिर्नाम जीवानां दीर्घपंक्तौ अन्तिमरूपविशेषः, एकस्मात् परमपरः पुनः पुनः जायते। प्रत्येकं जीवः जीवनस्य अधिकतरमंशं व्याप्य कार्यकारणनिर्देशेन भ्रान्तिपूर्णभावेन चालितो भवति। मानवव्यक्तित्वं समाजिकसंस्थान चेत्यनयोर्मध्येऽस्वस्तिजनकविरोधस्योपशमाय एतेषूपदेशेषु कापि सम्भावना प्रतिश्रूयते। व्यक्तिस्तथा तस्य संस्कृतिरिति द्वयोर्मध्ये स्वभावजं विच्छिन्नत्वं बुद्धकृतप्रधानाविष्कारेषु अन्यतमम्। अधुनातनं सांस्कृतकनृविद्यावर्णितस्वप्निकल्पनासमृद्धसंस्थानेऽस्य तात्पर्यं विशेषेण गुरुत्वपूर्णम्।
मानवीयाचरणस्य सामाजिकमाध्यात्मिकं च यद् व्याख्यानं तस्य क्षेत्रं सर्वत्र महतां विदुषां मनांसि आकर्षति। एतत् तेषु स्थानेषु सफलमाक्रमणं वर्णयति यत्रै-कदा मानवमनोराज्येऽविद्याऽध्यासः कूटार्थकथा च स्पर्धाशून्यत्वेन शसनं चक्रुः। अनेनैव विपुलपरिमाणं तथ्यं विज्ञापितं येन वयं जानीमः मानवः यत् करोति तत् किमर्थं करोति। अस्य प्रधानेषु अवदानेषु अन्यतमं नाम मानवसंस्कृतेः वर्धमानं ज्ञानम्, सामाजिकप्रतिक्रियाणां गहनो विन्यासः यो वंशात् वंशभारं प्रेषितो भवति सामाजिकक्रियाप्रतिक्रियाभिरेव। एतस्मिन् विन्यासेऽस्माकं द्वितीयः स्वभावो लक्ष्यते। गभीरतमसमुद्रवासी कोऽपि जनः यस्मिन् जले निरन्तरं मग्नस्तिष्ठति, वसति स तज्जलं विस्मरति, तथा च स तदैव प्रथमम् आत्मनोऽस्तित्वमाविष्करोति यदा कथमपि समुद्रतलादुत्थाय तस्य उपरि वृहत् परिमण्डलं द्रष्टुमागच्छति - इत्युच्यते। संस्कृतिस्वभावविषयकाधुनिकविद्यासु एवंविध आविष्कारः अर्जितः। पृथक् पृथक् संस्कृतिं परीक्ष्य सर्वासां संस्कृतीनां संस्कारशक्तेः विषये पूर्णतः नूतनं परिप्रेक्षितमस्माभिः लब्धम्। अत्रास्माकं स्वेषां संस्कृतिरपि अन्तर्भूता। अत एव मानवजीवव्यापिसमाजस्वीकृतमाध्यममूलकेऽस्माकं ज्ञाने कर्मकाण्डस्य मात्रा अस्माभिः प्रवर्त्तिता।
तथापि, अतीव निर्भरयोग्यं ज्ञानमपि तं विषयं पिधातुं यतते यो विषयः तज्ज्ञाने न अन्तभूतः, विशेषतः वहिर्भूतो विषयो यदास्माकमनुमानैः सह असंवद्धस्तिष्ठति। तत्र विश्वासकारणानि एवमेव यत्, मानवव्यक्तित्वस्य सांस्कृतिकविद्यासु या कर्मविषयकतार्जिता सा सामान्येन अतिशयोक्तिपूर्णा। तथा च, सामाजिकाध्यात्मिकव्याख्यानक्षेत्रं पूर्वानुमानैः सहानन्वितान् प्रश्नान् विहाय आधुनिको नरः नवेनाथचापरिणतेन पदार्थेनोपेत इति वर्णयति येन विचित्रपरिहारप्रवृत्तिस्तथानुजिके क्षेत्रे विज्ञानस्याप्रगतिः संस्कृतिविषयककाल्पनिकमतनिर्माणाय प्रसंगतां गन्तुर्महति।
अस्माकमधिकारे विभिन्नसंस्कृतिविषयकविद्यनां प्रायेणाक्षयः सञ्चयोऽस्ति। अत्रेदं दृश्यते यत्केन प्रकारेण व्यक्तिवर्गः समाजस्य कनिष्ठान् सभ्यान् साधयितुं प्रत्येकसमाजद्वारैः अभिज्ञतां सञ्चिनोति, येन ते विभिन्नजातीयसंस्कृतेः प्राणवन्मूर्त्तित्वेन परिपक्वताम् अर्जयन्ति। पृथिवी नाम एषां विभिन्नानां तथा प्रायेण द्वन्द्ववतां सामाजिककरूपाणां पशुपक्षिसंग्रहशला। मानवा अत्र सम्भवतः सीमाहीनं सामर्थ्यमधिकुर्वन्ति, येन ते सृजन्ति, पालयन्ति तथा च जीवनस्य अतिविचित्रवान् पथः कुलात् कुलान्तरं प्रेषयन्ति।
पाश्चात्यनृविद्याविदां मते नराः सामाजिकीनामवस्थानां विस्मयकरपरिमण्डन्ले सन्तोषजनकतया वासं कर्तुं समर्था इति प्रतिभाति। डोवुयान्संस्कृतिमतां जनानां सामाजिके चरित्रे शंका प्रतिशंका च इति द्वे प्रधाने लक्षणे वर्तेते, यदा निउगिनिदेशस्य परताञ्चले संस्कृतेः मध्ये दयापरायणतायास्तत्वं सृष्टम्। वलिदेशीयजनेषु अन्यमनस्कतायास्तथा जीवनात् मृदुपलायनस्य भावः सर्वत्र लक्ष्यते। ‘मनुसानां’ मध्ये सांस्कृतिकादर्शेन सह संगतिसम्पन्ना जनाः तेषां प्रतिवेशिनां विरुद्धे कर्कशतमायां प्रतियोगितायां समर्थाः संवृत्ताः, यदा व्रिटिशकलम्बियादेशस्य कोयाकिउत्ल्भारतीयाः तेषां सम्पत्तिं विसृज्य पदं जयन्ति।
आसु संस्कृतिषु प्रत्येकं परिवर्तनशीलमात्राभिः अन्तर्वर्तिनीमुत्तेजनामाशाशून्यतां च प्रकाशयति, यया व्यक्तिगणः निश्चयेन योद्धुं शिक्षाति, किन्तु जनाः प्रायेण यत् कर्त्तुमुच्यते तदपेक्षया हताशया सह संगतिं स्थापयितुमधिकतरं शक्नुवन्ति। तथा च प्रत्येकसंस्कृतौ विविधसामाजिकभूमिकानार्दुबोध्यः जटिलश्च विन्यासः अस्ति। यत्र विविधाः प्रवणताः सामाजिकसंगतिविधानस्य किञ्चिन्मात्रमर्जयन्ति। प्रत्येकसंस्कृतौ व्यक्तिगतपार्थक्यानां कश्चिदवसरो वर्त्तते। आसु सर्वासु संस्कृतिषु मुख्यजीवनशैलीं परितः दलबद्धा विभिन्नतास्तथाधारतास्तिष्ठति। एवञ्च, कथंप्रकारेण परिवर्त्तितदशाया आलोकेन मनुष्यव्यक्तित्वं पुरातनस्यादर्शस्य पुनर्धारणाय रूपान्तरीकरणाय विस्मयकरम् उपायोद्भावनसामर्थ्यं दर्शयति।
एभ्यो नृतत्तसम्मतविश्लेषणेभ्यः अयं प्रायेण दुर्निवारः सिद्धान्तो भवति यत् अपरसंस्कृतिसंक्रान्तज्ञानं सर्वत्र बाध्यतामूलकासंगस्य जयाय नरेभ्यः सामर्थ्यम् अर्पयति। आधुनिकसमाजागमात् प्राक् सञ्चारव्यवस्थाया विकिरणशीलाभिः पंक्तिभिः सह प्रत्येकं संस्कृतिः सम्पूर्णतमसम्भावनाप्रकाशाय आपेक्षिकतयानाकुलीभूता आसीत् याः सम्भावनाः समाजे स्वकीयजीवनशैलीक्षेत्रेऽतीव गुरुत्वपूर्णाः। पुरा जातिगतं भाषागतं सम्प्रदायगतं च एकाकित्वं तथा विच्छिन्नत्वं विभिन्नसंस्कृतिमूलकाभियानार्थं मानवजातिं समर्थां चकार। यत्र जीवतत्त्वगतोत्तराधिकारस्य परम्परा निहिता वर्त्तते, अधुना विशिष्टलक्षस्णान्विता पृथक्प्रकाराः संस्कृतयः प्राणवतां वंशानामभिज्ञतायां परस्परादानप्रदानरूपं कर्म कुर्वन्ति। अधुना सा विच्छिन्नता पूर्वपुरुषानुक्रमात् तिरोहिता भवति, येन प्रत्येकं संस्कृतिः अन्यासां सर्वासां संस्कृतीनामुपरिं परस्परनिर्भरशीलतासूत्रेणाबद्धा तिष्ठति। वयं पश्यामो यत् संस्कृतिमान् प्राणी नरः स्वीयसंस्कृत्या सहैव अन्याभिः संस्कृतिभिः सममपि नूतनं सम्बन्धं निश्चयेन स्थापयति। प्रत्येकं संस्कृतिः अधुना अवश्यमेव बोधस्य सहनशीलतायाश्च मात्रामनुभवति यया संस्कृतिः अधुना अवश्यमेव बोधस्य सहनशीलतायाश्च मात्रामनुभवति यया संस्कृतिः जीवनशैलीमनुसर्त्तुं समर्था भवति, स्वकीयगतिपथे एव परिवर्त्तते, तेषु प्रश्नेषु सहयोगितां करोति यैः प्रश्नैः सर्वेषां जीवनयात्रा विपद्ग्रस्ता भवति।
संस्कृतिं तथा व्यक्तित्वमधिकृत्य पाश्चात्यविद्यासु कल्पनासमृद्धाः या धारणाः क्रियन्ते ता विशेषेण गार्डनार मार्फिणा वर्णिताः। ‘वयमधुना शिक्षिष्यामहे अन्योन्यं प्रतिवक्तुं तथा ग्रहीतुम्। न वयोलिङ्गजातिधर्मयसंघानां कस्यापि विशिष्टस्य दृष्टान्तत्वेन, परन्तु व्यक्तित्वेनैव, या व्यक्तिः मानवताया शूद्धोदाहरणत्वेन अस्माकमभ्यन्तरे एव आदिमप्रतिध्वनिमुखरं किञ्चिद् उद्भावयति।’ अधुना वयमावश्यकं मूलमुपहारं पश्यामः। मार्फिः वदति, यस्य विषयमवलम्ब्य अस्माकं यान्त्रिकं युगं किञ्चिद्वक्तुं द्विधा करोति - मनुष्यस्यान्योन्यप्रीतिपरायणता। इदं आधुनिकमानवस्य अन्यतमं प्रियं काल्पनिकं जगत्। अधुना तस्य दृष्टिः दिव्यनगरनिर्माणाय विज्ञानस्य दृष्टिः। एषा इउरोपमहादेशस्य अष्टादशशतकीयदार्शनिकानां दृष्ट्यपेक्षया न मूलतः स्वतन्त्रा।
संस्कृतिमान् जीवः मनुष्यः पृथिव्यां सर्वत्र तस्य प्रश्नानां समाधानाय अभिनवसांस्कृतिकादर्शमाविष्कर्तुं तस्य सृष्टिशीलां प्रतिभां प्रकाशयति। स पेषणशीलाम् आकाङ्क्षां पूर्णां कर्तुं तस्य कर्मणि नवजीवनशैलीमाविष्करोति स वर्तमानायां शैल्यामपि परिवर्तनं साधयति यदि सा शैली तस्य लाभाय सुखाय च अनुपयुक्ता भवेत्। सोऽधुना पृथिव्या आश्लेषरतां काचिदभिनवां संस्कृतिं स्रष्टुं तत्परः जायते, यत्र आदिमा पूर्वपुरुषीयासक्तिः दूरं गमिष्यति। एषा स्वप्निलाशा सांस्कृतिकी वैचित्र्यगतातिविस्तीर्णानुषङ्गिकविषयैः पृष्ठपोषकतां प्राप्नोति, यदर्थं नृविद्याया, भूयिष्ठा प्रकाशनास्माकं समृद्धिं सूयति। अस्माकं पक्षे प्रयोजनीयां कर्मविषयकतामनासक्तिं च स्रष्टुं अस्माकं संस्कृतिसंक्रमणं पाण्डित्यं विश्वविषयकं ज्ञानं च सम्भवतः न पर्याप्तम्। अस्यां दशायां समाजसंक्रान्ता मनस्तत्त्वसम्मता च गवेषणा अनिर्देशकपरमर्थकौशलं निर्दिशति, यत् नरान् तेषामभिज्ञतया स्वाधीनसंलापाय समर्थान् करोति। परिणामो भवति - सामाजिकाचरणस्य वाध्यतायां च प्रत्युत्तराणां संस्कृतिगतप्रवाहे च ते अधिकतरस्वास्थ्यवन्तः भवन्ति। अधुना अस्माकं मनश्चिकित्सास्ति या व्यक्तिगतसंगतिविधानाय साहाय्यं करोति एवंकरणाय सा चिकित्सा गर्वभावं दूरीकरोति। सामाजिकस्पृहाया निम्नपर्याये जीवनं लघु कृत्वा पश्यति। सम्पूर्णतावादो गर्वबोधस्य परिवर्तनं साधयति। वयं विश्वासाय युक्ताः पश्याम यत् विरुद्धेषु विरोधः च बाध्यबाधकत्वस्य तीक्ष्णतमा धारा च अतिकथनेन सहनशीलतां व्रजति, येन जनाः सामुयेल वेकेटरचितनाटकामन्यतमे यथा अभिनयं कुर्वन्ति, तथैव कर्तुं लोका उत्सहन्ते।
ते किं कुर्वन्ति ?
ते सल्म्लपन्ति।
ते किमधिकृत्य संलपन्ति ?
ते तेषां प्रश्नानवलम्ब्य संलपन्ति।
विज्ञानस्य शिल्पकलाविद्यायाश्च एते उद्यमाः संस्कृतेः समग्रं परिसरं नियन्त्रणस्य अधीनं कर्तुमतीवकठिनप्रश्नान् परिहरन्ति। ते प्रायेण किमपि तथ्यं न प्रसुवते। तथा हि - केन हेतुना जनानां पक्षे संस्कृतिसम्बन्धीयादर्शपरिवर्तनमतीवासम्भवम् ? यदा प्रायेण प्रत्येकं जनः पश्यति यत् अयमेव दुर्गतिपरिहारायाद्वितीयः पन्था इति। कथं वा संस्कृतिः परिवर्तनाय एतादृशीं प्रतिबन्धकतां साधयति ? किमर्थं वा द्रुतसामाजिकपरिवर्त्तनं कस्याश्चित् संस्कृतेः सभ्यान् नीतिहीनान् कर्त्तुं प्रावण्यं दर्शयति ? केन कारणेन जनानामन्तर्निहितासु धारणासु दृष्टिभङ्गिषु च परिवर्तनं प्रायेण पर्वततरणमिव मन्थरम्। संक्षेपतः, अपि अस्माभिः मनुष्यस्य च तस्य संस्कृतेश्च मध्ये कोऽपि सम्बन्धः आविष्कृतः ?
‘रीजमन्’कृतविविक्तजनताविश्लेषणविषयकप्रश्नं विरचयन्तो वयं त्रिविधं सामाजिकं चरित्रं पश्यामः यत् सम्प्रति पाश्चात्यदेशेषु मुख्यत्वेन लक्ष्यते। तथा हि ऐतिह्यानुगतो जनः य ऐतिह्यमनुसृत्य सर्वथाचरति। अन्तर्निर्देशानुगामी जनः यः शैशवात् प्रभृति कति सरलाणि आन्तराणि लक्ष्याणि अनुसृत्य कर्म करोति। अपरनिर्देशानुगामी जनश्च - योऽपरे जना यादृशमाचरन्ति तादृशमनुसृत्य व्यवहरति। इदं त्रिविधं चरित्रं एकस्य मूलगतस्य प्रश्नस्य भिन्नरूपमेव। स प्रश्नः ‘रीजमनेनो’पेक्षित एव। स प्रश्नःजनाः प्रथमतः कथं समरूपमाचरन्ति यत्र सांस्कृतिकाः आदर्शा लक्ष्यन्ते ? कथं जनाः सर्वत्र दृश्यन्ते तेषामाचरणानां मुख्यनिर्णायकत्वेन तेषां संस्कृतिं गृह्णानाः ? अर्थस्य तथा परिचयस्य मुखत्वेन तेषां समाजस्य आदर्शं ग्रहीतुं कथं ते प्रवर्तन्ते ?’
कथं व्यवहाराणामादर्शाः दलीयसदस्येषु आवश्यकपरिवर्तनरोधकदृढग्रहत्वेन दलीयकर्मसु सामान्यत्वं व्रजन्ति। अत्रायमेव प्रकृतः प्रश्नः। अत्र नायमाशयः यत् जना यन्त्रवत् तेषां समाजस्य निर्दिष्टमादर्शं ग्रहीष्यन्ति। बहवस्तेषां विरुद्धे स्थित्वा विद्रोहं कुर्वन्ति। यदापरे तेषां सामाजिकस्थानानि तथा द्ऱ्रिष्टिभंगिम् अनुसृत्य अधिकतरसहजातोपायैः तेषामादर्शानां परिवर्तनं कृत्वा वर्तन्ते। किन्तु संस्कृतेः आदर्शाः स्थूणा इव राजन्ते येषामुपरि सार्थकसामाजिकव्यवहारो निर्मितः भवति।
व्यक्तित्वविषयकसांस्कृतिकपश्चात्पटे आवेदनं यदेव भवतु, मर्गान्-बोयाज-फ्रयेड-मार्कस-मालिन्योस्कि-होयाइट-सेपिर-फ्रमादीनाम् अवदानं यदेव भवतु, पश्चिमदेशीया विद्याः तं प्रश्नं परिहृत्य गच्छन्ति यः प्रश्नः - संस्कृतिः जनान् यस्य करणाय शिक्षते कथं ते जनास्तत् तत् आचरन्ति ? अत्र विषये न्यूनतममालोकं निक्षिप्योच्यते यत्, जनास्तेषां संस्कृत्या निर्दिष्टायां सीमायां तेषां विचित्राणाम् आकाङ्क्षाणां निवृत्तिं साधयन्ति, यतः ता आकाङ्क्षा एवात्र स्पष्टतः सामाजिकतया उद्दीप्तास्तथा सामान्यीकृताः। एवञ्च प्रश्नोऽसौ उपेक्षितः संवृत्तः।
सम्भवतः एरिख फ्रममहोदयः अस्य मुख्यस्य प्रश्नस्य उपरि घनिष्ठम् आलोकसम्पातं चकार योऽन्येन केनचित् न कृतः। तस्य मते, आधुनिको नरो न मुक्तः स्वयंशासितो व्यक्तिविशेषः। स उपयोगं विविच्य कालोचितोपायेन कार्यं करोतीति आत्मानं तर्कयति। तथा च स समाजात् यां धारां वा भूमिकां वा प्राप्नोति तस्या व्यवहारं करोति तत्संश्लिष्टपुरस्कारमनुसृत्य। प्रत्युत फ्रममहोदयो विवदते, यो नरः तस्य उपक्रमाय पराक्रमाय च गर्वमनुभवति स सामाजिकेन नियन्त्रणेन कल्पनापेक्षया अधिकं कार्यं साधयति। सामाजिकीषु अवस्थासु आत्मानमभियुज्य नरः तान् स्वभावान् आत्मीकरोति ये स्वभावाः तं करणीयकार्यकरणायानुप्रेरयन्ति।
किन्तु फर्ममहाशयोऽपि अस्माकं प्रश्नं स्पृशन्निव गच्छति। तस्य विश्लेषणे आचरणं नाम सामाजिकादर्शस्य पटभूमिकायां मानवप्रकृतेः गतिशीलेनाभियोजनेन मूलतः प्रणाल्या वाहितं रूपम्। किन्तु तेन न प्रश्नः कृतः - कथमयं सामाजिक आदर्शः सदृश्याम् अस्यां मानवप्रकृतौ परिवर्त्तनस्य प्रतिबन्धकं स्थापयति - यत्रैकत्रालोकपातः कृतः - यो विषयः स्वयं समाजतत्वस्य अन्यतमस्पष्टलक्षणत्वेन उपस्थाप्यते। अपि च, फ्रमस्य मते, सामाजिकीषु अवस्थासु परिवर्तनं सामाजिकेषु चरित्रेषु परिवर्तनं प्रसूते। अर्थात् नूतनेषु प्रयोजनेषु तथा उद्वेगेषु एको विषयः स्पष्टतरो भवति यत् नेदं परिवर्तनं किन्तु संस्कृतिसम्मतादर्शनिष्ठव्यवहारे आवश्यकलग्नता या व्याख्यानमपेक्षते।
अस्मिन् प्रश्ने यदुत्तरं तदतीव नगण्यम्। तत्र सम्भवोऽयमेव हेतुः पाश्चात्यदेशे मानवव्यवहारसम्बन्धिविज्ञानसम्मतविद्यायाः सर्वे उपक्रमाः चेतनतया वा अन्यथा वा पूर्वकल्पनामिव कुर्वन्ति यत् प्रकृतः प्रश्नः सामाजिक्या भूमिकया अवस्थया च सह व्यक्तीनाम् उन्नततरसंगतिविधानम्, तथा च, सामाजिकदलेषु परस्परं सृष्टिशीलाभियोजनम्। मानवव्यक्तितत्वस्य पाश्चात्यशिक्षार्थिनां निकटे सा सम्भावना समभवतः न समुदिता यत् एते समाजिकसंगतिविधानस्य प्रश्नाः केवलमन्तिमे आश्रये समाधानीया यदि वयम् अधिकतरमूलप्रश्नं बोद्धुं शक्नुमः - कथं व्यक्तयः दलानि च सामाजिके उद्योगे आचरणे च मूलगतपरिवर्तनस्यः विपक्षे बलवत्तरं प्रतिबन्धकं रचयन्ति। अयमेव मौलिकः प्रश्नः उभयोरेव - यः प्रतिष्ठितसामाजिकमादर्शं रक्षितुं वसति, यश्च तस्य विपक्षेऽपराधप्रवणत्वेन कार्यं करोति।
एतासामाधुनिकीनां विद्यानां प्रान्तेषु कुत्रापि वा सन्देहो जायते यत् एकः गंभीरतरः प्रश्नः पूर्वदृष्टापेक्षया वर्तते एव। अस्मिन् सूत्रे बुद्धः संस्कृतिनियमितमानवदशाया उपरि आलोकसम्पातं चकार। न कोऽपि जनः, स वहुदूरभ्रमणकारी मानवविद्याविद् भवतु अथवा भवतु तस्य लेखन्या सृष्टो जीवः, प्रत्यक्षीकरोति कथं विचित्रमिदं यत् ते सामाजिकतया आदिष्टायां तथा नियन्त्रितायां पृथिव्यां यथा संलग्ना, न तथा तत्र, यत्र ते मानवमुक्तेः प्रकृतदशायाः अनुसन्धानाय यतन्ते। अयमेव बुद्धस्यानुयोगः यत् मानवानां कस्या अपि संस्कृतेः देहतत्त्वे स्वाधीनता न दृश्यते।
बुद्धकृतौ द्वौ विशिष्टौ अभियोगौ मानवजीवनस्य सामाजिकीं मात्रां नियन्तुं तथा अनुसन्धातुं सहायत्वं व्रजतः। कोऽपि नरः, स सामाजिकविकाशस्य यस्मिन् कस्मिन् अपि पर्यये तिष्ठतु, स धनी अथवा दरिद्रः भवतु, असुस्थः वा सुस्थो वा भवतु, सामान्यगर्भाशयस्य बलीभूतो भवति, यो जीवनस्य जैवितसामाजिकस्थितौ सततं कर्मरतः तिष्ठति इति प्रथमोऽभियोगः। समाजे तस्याचरणं तस्यैव जीवस्याचरणं यस्तच्छक्तिभिश्चालितो भवति याः सांसारिकं जीवनं ग्राह्यं न कुर्वन्ति। तस्य निश्चेतना प्रेषणा उपायानां दीर्घायां पंक्तौ अपरं न गृह्णाति, यैरुपायैः स सामाजिकीनामाकाङ्क्षाणां सन्तुष्टये कर्म करोति।
बुद्धस्य द्वितीयोऽभियोगो हि एवम् - कार्यकारणयोः मनोयोगात् आत्मनः मुक्तये ध्यानं व्यक्तये केवलं सुयोगं ददाति। व्यक्तित्वस्य स्रोतः सरितः स्रोत इव नियतं प्रवहति तस्य मृत्युं यावत् - केवलं मध्ये मध्ये ज्ञानपथेन व्याहतं भवति। ज्ञानिनो जना अप्रकृतं स्वभावं ध्यायन्तः परमार्थं प्रत्यक्षमनुभवन्तश्चासक्तिबन्धनात् सम्पूर्णत आतमनो मुञ्चन्ति। एवञ्च ते परिणामतः जीवनप्रवाहं रुन्धन्ति। ध्यानाभ्यासकाले तेषां चित्तं स्थिरस्वच्छनिपानमिव सत् उपद्रवादुपप्लवाच्च सम्पूर्णतः मुक्तं भवति। तथा च वस्तुप्रकृतिः प्रकृत्या या, तां प्रकृतिं उपलब्धुं यतते। सा प्रकृतिः तृष्णाजन्यास्थिरत्वात् सामान्यज्ञानतः गुप्ता तिष्ठति।
बुद्धकृतोक्तप्रत्ययद्वयेन विषयीभूते क्षेत्रे पृथिव्यां सर्वं दुःखं सृज्यते सह्यते च। नरः बाध्यतामूलकत्वात् अज्ञातपरिचित्यां नियत्या नियन्त्रितः भवति। गंभीरतरार्थे मनुष्यः सापेक्षो जीवः तावत् सम्भवतो न कल्पितं पाभलभमहोदयेन। स सर्वं न जानाति किन्तु सर्वस्य ज्ञानेन तस्य प्रयोजनं विद्यते, विकल्पेषु बुद्धिमन्निर्वाचनत्वात्।
एकतः स सामाजिकजीवत्वेन सीभितेषु क्षेत्रेषु द्रष्टुं तथा निर्धारयितुं शक्नोति। अन्यतश्च, स संस्कृतिप्रदत्तेषु सामाजिकविकल्पेषु तथा करोति।
सर्वे व्यक्तिजनाः प्राग्वर्त्तिन उत्तरवर्त्तिनश्चैककशः ईदृशास्तित्वप्रवाहे विशिष्टं प्रकारं समाजं रचयन्ति यत्र सामाजिका एकैकशः एकत्र च न उपस्थिताः किन्तु एकस्मिन्नर्थे तेषु घनिष्ठं बन्धनमस्ति। केवलं समसमयत्ता तादृशं बन्धनं न सूचयति। यद्यपि बौद्धाः चरमतत्त्वत्वेन कस्यचिज्जनस्य कस्याश्चिद् व्यक्तेश्चास्तित्वं न स्वीकुर्वन्ति। तेषां मते प्रत्येकं व्यक्तिगतास्तित्वप्रवाहोऽपरेभ्यः प्रवाहेभ्यः पृथगेव। व्यक्तिगतप्रवाहः व्यक्तिगतमनःशरीरयो मानसभौतिकोपादानैः रचितः।
किन्तु अयं प्रवाहः निरन्तरमुहूर्तद्वयं कदापि समानः न भवति। अयं क्रीडनकदूरवीक्षणयन्त्रमिव। अपि च अयं प्रवाहोऽविच्छिन्नतयातीतास्तित्वेभ्यः प्रवहति, तथा च जीवनं व्याप्य भावि अस्तित्वं प्रति प्रवहन्नेव चलिष्यति। प्रायेण नद्या सहास्य तुलना क्रियते। सा धारा निरन्तरं याति आयाति च। प्रायेणायं प्रदीपशिखया सह उपमीयते या शिखा निरन्तरं कम्पते परिवर्तते च। बुद्धस्य चिन्तनमितिहासे प्रथमं मार्गीयं दर्शनम्। प्रत्येकं वस्तु वहति। न किञ्चिद् वस्तु तिष्ठति। वस्तुगतं मनोगतमाध्यात्मिकं वा वस्तु अश्यासमात्रम्। कमपि आधारं विनैव सर्वं परिवर्त्तनशीलम्। होआईटहेडमहोदय एकदा हारभार्डालोचनामन्दिरे मन्तव्यं चकार यत् द्रव्यस्य धारणायामेव सर्वाधुनिकामरत्वस्य मुख्यं कारणं निहितं वर्तते। बुद्धेन सम्भवतः होआईटानुभूतोऽर्थः चिन्तितः।
ता वक्तयः कर्मशक्तेः साधारणात् सञ्चयात् जीवन्ति - सा शक्तिः रूपात्मकशक्तिरुच्यते। वस्तुतः समानकम्मप्रवाहेण नियमिताः सन्तः ते सर्वेषु बन्धनेषु गभीरतरबन्धनेन बद्धास्तिष्ठन्ति घनिष्ठमेकत्र च। केवलं जैविकः सम्बन्धस्तान् तथा न बध्नाति। समानप्रवाहे अथवाहितः पूर्ववर्त्ति तत्र केवलं जैविकं पितृतत्वं न गुरुत्वं लभते। तथा च, तस्मिन् कम्मप्रवाहे परवर्ती जनः सन्तानस्वरूपः। स साधारणतः वंशपरम्परया आगतां करुणां प्राप्तुमर्हति।
बुद्धमते प्रत्येकं व्यक्तिः एतादृशानां मेषसदृशानां बलानां पालिका यैर्बलैः तस्याः स्वीयं जीवनं पूर्णं तिष्ठति। मानवस्तस्य सत्यं सारूप्यमाविष्कर्तुं वर्षाणां सहस्राणि अवश्यमेव वत्स्यति। तानि बलानि सततं सामाजिकसम्पर्केषु वेषान्तरेण आच्छन्नानि तथा गूढानि तिष्ठन्ति। यत्र नूतनः जीवोऽवश्यमेव वसेत्। नरः उभयबलो जीवः। स एकतः कर्मशक्तिसञ्चितानुप्रेणामनुभवति, अन्यतश्च सामाजिकपरिस्थित्क्प्रेरितप्रयोजनं चिन्तयति। सा परिस्थितिस्तस्यागमनात् प्राग् यथासीत् परमपि तथा तिष्ठेत्। अविच्छिन्नकर्मप्रवाहः प्रत्येकं नूतनव्यक्तौ आत्मानं प्रकाशयति, यस्यां व्यक्तौ आकाङ्क्षाभयाभ्यासचिन्तादयस्तिष्ठन्ति, यैः कस्य चिज्जनस्याचरणं विज्ञायते।
अपरिणतानुभवस्यायं प्रवहः, रूपं प्रति प्राग्वर्तिनी शक्तिरियम्, पूर्ववर्त्तिपुनर्जन्मनां दीर्घसाधारणपंक्तौ आकारं प्राप्नोति। प्रत्येकं सामाजिकं दलं प्रणाल्या अरचितानुभवशक्तिं चालयति। तथाकरणेन च दलं सामाजिकफलवत्तायाः कस्यचिदंशस्य प्राप्तये व्यक्तिं समर्थयति। शक्त्यानुभूत्या च प्रणाल्याः रचना सामाजिकदलस्य मूलगतादर्शं इति चिन्त्यते अस्य सामाजिकं भित्तिमूलम्, अस्यास्थीनि समाजाय निर्दिष्टं चरित्रं तथा गतिविधिं ददाति। अत्रैव मूलस्थपार्थक्यबिन्दुर्विराजते येन अपरेभ्यः सामाजिकेभ्यो दलेभ्यः पार्थक्यं सूच्यते। प्रणालीरचनापदेनेदं बुध्यते - कस्याचिदाकाङ्क्षाणां प्रगतिमूला संकीर्णता यावन्न यथाकालं कोऽपि जनः निर्दिष्टेनोपायेन निर्दिष्टप्रेषणासन्तुष्टये इच्छति। प्रयेडमहोदयः अयं 'विसिटजुङ्' विनियोगः विरेचक इति कथयति।
संस्कृतिरस्मासु यत् करोति तदेव मुख्यां वस्तुप्रणालीं रचयति अथवा मार्गविशेषणं विशोधयति, यावन्न वयम् विशिष्टं संगीतं भोज्यमन्यत् किमपि संस्थासम्मतं वस्तु वा इच्छामः।
अयमेव प्रणालीरचनायाः परिणामो तेषां जनानां मस्तिष्केषु विशिष्ठजीवनशैली नीडं बध्नाति, ये आख्यानकविताधर्मीयसूक्तशिक्षाप्रभृतीनां मार्गैः कार्यं कुर्वन्ति। अयं व्यापारः जीवनसम्मतभावेषु प्रच्छन्नं निहितो वर्तते। तथा च, अभ्यासेषु अपि यैश्च सन्तानां पालिता भवन्ति। अयं व्यक्तिवर्गं परिवारेषु तथा जीवनस्य सम्प्रदायगतरूपेषु सम्बन्ध्नाति। अयं नश्वरताविहीनं सामाजिकविधिनियमितं प्रत्येकं सदस्यं दृढं सजति, यथा न कोऽपि मौलिकं सामाजिकं संस्थानं प्रतिष्ठापयितुमसंलग्नमतं ग्रहीतुमर्हति, संक्षेपतः यतः सामाजिकविधेः परिवर्त्तनमिच्छन् जनो वा गणो वा स्वयमस्य जीवितवतीं देहवत्तां गृह्णन् अस्य मौलिकीषु धारणासु तथाचरणस्यादर्शेषु अप्रत्यक्षीकृतं तातपर्यं स्थापयति।
प्रतिष्ठितविधिनियन्त्रितानि अचेतनाश्रयस्थलं च दूरनिक्षिप्तानि सूत्राणि च - यथा कीर्कगार्डमहोदयेन जीवनस्य संस्कृता शैलीति उच्यते कयाचिच्छक्त्या शासति। सा शक्तिः ‘सर्वमनःसृष्टस्वप्ना अनुपपन्नाः’ इति प्रतिपादयति, यत् कयाचिद् अन्तार्जातीयया सामान्यया भाषया व्याहारः भ्रातृवत् मानवान् कर्मकाण्डे आधिक्येन प्रेरयति, अथवा संगीतं वा कलाविद्याया अन्यत् रूपं वा, संस्कृतिषु उदारतरं प्रचारितासु तथा विनिमयेन प्रचलितासु समग्रपृथिव्याः जनेषु गभीरां मैत्रीं प्रचरिष्यति। जीवनस्य मूलप्रणाली संष्कृतिगर्भे प्रत्येकं व्यक्तिं रचयति। सा प्रणाली कथितशब्दापेक्षया कलारूपान्तरापेक्षया वा बलवत्तरा जायते। तथा च, इयं बुद्धीया अन्तर्दृष्टिः तद्विषयबोधाय अस्मान् साहाय्यं करोति, कथं साधरणभाषाभाषिणः जनाः पुनः पुनः भ्रातृघातियुद्धेषु नियोजितास्तिष्ठन्ति। कथञ्च विश्वस्य संगीतप्रियाः जनाः सर्वदा तेषां निमित्तोपनतसौन्दर्यसम्मेलनात् प्रत्यागत्य संस्कृतिगतं विभागं विद्वेषं च प्रविशन्ति। यस्मात्ते मोजार्टस्य चेकोस्कि इत्यस्य वा समुज्ज्वलानुष्ठानेन क्षणाय आहूता भवन्ति।
प्रत्येकं व्यक्तिः कर्मशक्तिनियमितसामाजिकसंस्थाने विधृता तिष्ठति। प्रत्येकं नरश्च तथा उभयबलो जीवः एकतः सांस्कृतिकादर्शैः नियन्त्रितः, अन्यतश्च, व्यक्तिगतास्तित्वप्रवाहे रूपगतकम्मबलेन निरुद्धस्तिष्ठति।
सामाजिकपटभूमिकायां मनुष्यं प्रति दृष्टिपाते कृते, इदं स्पष्टं भवति यत् स सामाजिकदशां प्रति तस्य चर्मणि च अस्थिसु च अस्वस्तिकरीमथ च सम्भावनामयीमुभयबलतां वहति। सामाजमात्रेषु अस्माभिः किञ्चिद्वस्तु ज्ञायते - यत्र मूलीभूत आशयो हि भन्गसंकल्पता, सासूयता, दुःखं, स्वप्नभङ्गता, भग्नाशाः च, तत्र च निकटस्थं दूरस्थं वा तमसाच्छन्नागाधमृत्युविलम्। शिशवः कथमपि जायन्तेऽस्वस्तिजनके परिवेशे एव। शीघ्रमेव ते आविष्कुर्वन्ति यत् शिशुजना आकाङ्क्षापूरणापेक्षया पृथिव्या अन्यतरं लक्ष्यं वर्त्तते। ततः परं स ज्ञातुमर्हति यत् जीवनं प्रायशः भग्नसंकल्पत्वादपूर्णाकाङ्क्षात्वाच्च क्रन्दनस्य स्थानम्। शिशुः क्रमशः तत्तथ्येन आत्मानं समाधातुं शिक्षते यत् जना मूलतः तस्याकाङ्क्षापूरणयन्त्रत्वेन न वर्त्तन्ते।
बौद्धदर्शनमते, शिशुः इन्द्रियवृत्तिमान् जीवविशेषः। विख्याताग्न्यूपदेशे उच्यते यत् जीवनस्य साधारणीषु दशासु एव आ जन्मनो मृत्यु यावत् सर्वाणि वस्तूनि तृष्णाग्नौ च दुर्दमप्रयोजनाग्नौ च वर्तन्ते। प्रत्येकं व्यक्तिः घृणाग्निना मोहाग्निना च सह वसति, तथा च तस्मिन् वर्तन्ते जन्म, जरा, मृत्युः, दुःखं, शोकः, कष्टं, क्षोभः, भग्नाशा च। बौद्धं निकषा जीवनं दहनत्वेन लक्ष्यते।
सभ्यताया यस्मिन् कस्मिन्नपि पर्याये उभयबलतायामवश्यकरणीयतायां भग्नसंकल्पतायां च मूलगता गाचित् भीतिस्तिष्ठति। सा भीतिः मानवजीवनस्य हृदये सती व्याख्यां करोति कथमादित एव मानवक्रियासु शक्तिविरुद्धकार्यकरणाय तथा शक्तेरपव्यवहाराय प्रावण्यं वर्तते। मनुष्यः तस्य सर्वेषामुद्यमानां पादन्यासः शिथिल इति सन्दिग्धे। एवञ्च सोऽतिशयोक्त्या प्रत्येकं संकटं प्रकाशयति। स केवलं तथ्ये न विश्वसिति, अपि तु अधिकतराभिरुच्यां स विश्वसिति। स प्रयोजनीयगुरुत्वापेक्षया अधिकतरोत्साहेन प्रश्नम् समादधाति। प्रत्येकं व्यापारे अतिक्रियस्तिष्ठति। स आत्मानं तस्य कर्मणे क्रीडायै च साभिनिवेशं समर्पयति - तं दासीकृत्य यस्य परिसमाप्तिः जायते। स चिन्तयति यत् स केवलं सफलत्वेनात्मानं प्रकाशयति, किन्तु वस्तुतः तं कारास्थं कृत्वैव तस्य सृष्ठिर्जयति। मनुष्यश्चिन्तयति यत् स केवलं चिन्तयति, परन्तु वस्तुतः तस्य चिन्ता जीवननियमाधीना जायन्ते। यथा च आलफ्रेडकोरजिव्स्किः तर्कयति, तच्चिन्तनविषया पिञ्जरत्वेन व्रजन्ति - यदाविष्कृतं मनुष्येण तं परितः याः शक्तयस्तिष्ठन्ति तासां परिपालाय। सरलेषु जटिलेषु वा, आदिमेषु वैज्ञानिकेषु वा चिन्ताया आविष्कारेषु एवान्तिमः शब्दो वर्तते। अपि च, केचिच्चतुरा उपायाः सन्ति ये मनुष्यं श्वासरोधकरदशाया मुक्तं कर्त्तुमर्हन्ति। अवशेषे सर्वे रभसात् समत्वेन परिणता भवन्ति। अत्र को हेतुः ?
अत्रायं हेतुः - मनुष्य आत्मानमेतादृशेन वीर्येणाभिनिवेशेन चैषु प्रश्नेषु नियोजयति, तथा च, स जीवनमेतादृश्यां विस्मयकर्यामू अट्टालिकायां वासयोग्यं कर्तुं चेष्टते इव, येन स स्वीयसृष्टितः मुक्तिं लब्धुं नार्हति। प्रायशून्यतापीयदिवसे हिमीभूतहिमविसर्पणपादुकाया गतिरिव तस्य जनस्य गतिर्जायते। या स्वयं अज्ञस्य शिशोः जिह्वायां द्रवति - यः शिशुः प्रथमं हिमस्य उपरि चलति, प्रतिसमयं मनुष्यः तदीयसृष्टिशीलशक्तिनिःसृष्टे नूतने परिप्रेक्षिते तथा मुखे स्वपिति, स स्वप्नः तस्य प्रभुर्भवति, विशेषेण यदि स तं स्वप्नं वास्तवायितं कर्त्तुं शक्नोति
एवं सम्पूर्णतः प्रकृतिस्थो जनः यस्तदीयशक्तीः प्रकाशयन् वसति, प्रश्नसमाधानाय सृष्टिशीलतयात्मानं विवृणोति, स तदीयसृष्टिभिः कारारुद्धो भवति, चिन्ता वा भावना वा, धारणा वा संस्था वा, उत्पन्नं वस्तु आदर्शो वा - यदेव भवतु वा न भवतु वा, सः असरलः प्रेषितो जीव इति सरलो हेतुः। स यत् करोति तस्मिन्नयं बलपूर्वो गुणो वर्तते। स न क्षमो भवति - न ज्ञानाय, न च आविष्काराय, स खलु प्रेषितः। एवं विधो जीवः सन् तदीयविचित्रनैपुण्यं प्रायेण व्यवहरति प्रत्यक्षीकरणाद् विरत्यर्थं यत् अयमेव मार्गो यत्र सोऽस्ति। तस्य व्यवहारः खलु बलात् सिध्यति इति आविष्काराय तस्यास्ति गभीराचेतनानीहा तथा बाधा। कस्यचिद्विषयस्य शिक्षणाय जनानां बाधो विशिष्टेषु क्षेत्रेषु विचित्रः। अयमस्माभिः निर्धारणात्मकोऽमनोयोग इति कथ्यते। गच्छता कालेन पुनः यत् किञ्चिद् घटिष्यते तत् केनापि आकाङ्क्षणीयपरिवर्तनमिति व्याख्यातं भविष्यति किन्तु जनस्योपरि न किञ्चित् समापतितमिवेति जनः कर्म करोति।
स कदापि अनियतं तर्कयितुमर्हति यत् स क्षुधावशात् च इन्द्रियवृत्तिवशात् च सामाजिके संस्थाने अंशग्रहणं करोति। किन्तु क्षुधादयः न सप्रमाणं तस्य गभीरतमामन्तर्दृष्टि तथा सृष्टिशीलतामुपस्थापयन्ति, तथापि ते एव तस्य समीपे प्राप्तव्यस्य सामाजिकविनिमयस्य केवला आकाराः। ते तमात्मविनाशिसन्धानाद् रक्षन्ति, यत् सामाजिकसूत्रमन्तरेण भविष्यति, यत्र विषये तस्य सप्रमाणता लक्ष्यते। अत एव सांस्कृतिकं संस्थानं सामाजिकं चादर्शं प्रति तस्य प्रवृत्तिः न कदापि सुखगम्या भवति। स सामाजिकनियन्त्रणं नेच्छति तथापि तत्रैव स जीविकानिर्वाहार्थं तत् नियन्त्रणमत्यावश्यकमिति पश्यति।
बुद्धो मनुष्यस्योद्धारं चकारेति प्रधानो विषयः। स उद्धारोऽभवत् उन्मत्तसमाजात् असुस्थायाः संस्कृतेः दोषयुक्तजनजीवनात् च। यत् जीवनं दलबद्धमथ च सर्वत्रजटिलं विकृतं वा व्यक्तित्वं प्रकाशयति, यत्र शक्तिव्यवहारः प्रवृत्त्या ताडितस्तथानियन्त्रितः। बुद्ध एतादृशाज्जनजीवनान्तरं मुञ्चति ये पाश्चात्य देशीयाः शिक्षार्थिनोऽनुभवन्ति यत् सामाजिकजीवनस्य अदर्शभूतेषु रूपेषु यन्मूल्यं तस्य गुणदोषविवेचनेऽसमर्थ आसीत्, बुद्धकृता सामाजिकरूपाणां विरुद्धे आक्षेपा अतीव चरमा आसन्।
अधुना वयं संस्कृतेः व्यक्तेश्च मध्ये सम्बन्धस्य प्रकृतौ यच्चिन्तयामस्तदपेक्षयाधिकतरं यावन्न जानीमः, तावदयं सिद्धान्तः पाश्चात्योपजातीयसंस्कारापेक्षया नगण्य इति द्रष्टव्यम्। प्रेषितजीवनस्य परिप्रेक्षितेऽन्यभावविषये बुद्धः किमचिन्तयत् ? अपि विकल्पो वरणीयः ? तज्जाड्यं व्याख्याति कथं संस्कृतयः परिवर्तनस्य पक्षे धीरं चलन्ति ? कथं वा द्रुतं परिवर्तनं मानवं नीतिच्युतं करोति ? कुत्र वा काठिन्यं जायते यत् समग्रं सामाजिकं रूपं परिवर्तनाय अतीव अनिवार्य करोति।
यदा वयं बौद्धपुनर्जन्मवादं स्मरामः तदेदमेव स्मर्तव्यम् - किमर्थं बुद्धः पुरातनसामाजिकसृष्टिभ्यः मानवव्यक्तित्वं रक्षितुं प्रार्थयते स्म ? यतः, यदा वयं पुनर्जन्म स्मरामः, तदा वयं स्मरामो यत् इतिहासस्य अस्मिन् युगे आदर्शं प्रदर्शयत आवेगप्रवणेन प्रेषितस्य जीवस्य शक्तिः समरूपप्रेषितसहस्रजीवानां सञ्चितशक्तिभिः भुक्ता भवति। अतीतफलोपेतो व्यक्तुगणः प्राक्शक्तिरेव आगच्छति। अस्मिन् बौद्धे परिप्रेक्षिते इदमेव विस्मयकरं भित्तिमुलं, यदि प्रभावगता गभीराविश्वासः अन्यैः जनैः आकारं प्राप्नोति, तर्हि अस्माकं जीवनं व्यापकं विभक्तेषु जनेषु गभीरमथ च विस्तृतमुपादानं न भवितुमर्हति, वस्तूनां समक्षं इदं स्पष्टमिव प्रतिभाति यत्, यदि अन्ये जीवाः यथा वयं तथा अचेतनप्रेषणया व्यवच्छिद्यते, तथा च एषां जनानां स्वाभाविकी सामाजिकी सृष्टिः अकल्याणमयी भवति यथा अस्माकं कदापि वा सन्देहसूचकं कारणमस्ति, तर्हि अन्यजीवनगतप्रभावसूचकबौद्धसंशयः सुस्थे तथा युक्तिग्राह्ये भित्तिमूले स्थापितः। सामाजिकामर्षस्य अस्यां प्रवणतायां सुष्ठु अधिकं गुरुत्वं देयम् यादृशं गुरुत्वं बौद्धशास्त्रेषु दीयते तदपेक्षयापि। यतः अयं व्यापारः सम्भवतः सामाजितव्यवहारस्य सन्धानसम्योगसूत्रम् केवलमस्माकं परिचित्तेषु समाजेषु। अत एव, अयमेव सम्पूर्णः स्वाभाविको व्यापारो यत् सामाजिकानां प्रतिष्ठानानां तथा तेषां प्रभावानां कृते, (यान् प्रभावान् नराः परस्परक्षेत्रेषु व्यवहरन्ति) बौद्धेषु बद्धमूलमविश्वासं वयं शंसेमहि। स्वाधीनजातित्वेन आधुनिकश्रीलंकाया उत्थानमधिकृत्य रिगिन्स् यामालोचनां चकार तत्र च्यते यत् अयं देशः कतिषु विषयेषु सचेतन आसीत्। तथा हि - व्य्वस्थितः लाभः, उच्चाकाङ्क्षा, मनुष्याणामुपरि मनुष्याणां कर्तृत्वकरणमूलकोऽहंकारः। एते विषयाः खलु मानवसंघानां दुर्मोचनीयाः सहचराः अयमविश्वासः कस्यचित् संकेतस्य उपरि सगौरवं वर्ण्यते, यः संकेतः रेगुणे विश्वशान्तिबौद्धमन्दिरस्य पार्श्वे अवस्थिते प्रेक्षागृहे वक्तुः वेदिकायाः पश्चात् वर्तते। कतीनां जनानां सहयोगितामायायां किञ्चिदपूर्वं भोज्यं स्वर्गादुपहृतं भवति। एतादृशमपूर्वं भोज्यं नास्ति। बुद्धेन उच्यते यत सर्वे जनाः अध्यवसायात् स्वेषां मुक्तिमवश्यमेव साधयेयुः।
पश्चात्यमतानुसारतः अयमविश्वासोऽचिन्तनीयः। अयं राजद्रोह एव। यथा एरिष्टटलः पश्यति मनुष्यः प्रकृत्या राजनीतिको जीवः। स सामाजिकादानप्रदानयोर्मध्ये सामाजिकं योगं पश्यति यत्र तस्य वासः। सामाजिको व्यवहारः मनुष्यस्य सारभूतो व्यापारः। एकाकिता निर्जनता च सामाजिकव्यर्थतां सूचयतः।
मनुष्यस्य पक्षे समाजबद्धत्वं च निर्जनत्वं च इत्यनयोर्मध्ये कतरदधिकतरं स्वाभाविकमिति विषयोऽस्माभिः सम्यक् न ज्ञायते। एशीयो मानवः निर्जनतापोषकत्वेन बौद्धधर्मं गृह्णाति। स धर्मः सुस्थतरो विकल्प उपयुक्त आश्रयश्च यत्र मनुष्यस्य स्थितिर्विविच्यते। पाश्चात्यो नरः नरेण सह परस्परकर्मविनिमये तथा सम्बन्धस्थापने सर्वविधाम् आशां पोषयति। प्रकृत्या सह तादृशं सम्बन्धमपि स पश्यति। बौद्धधर्मः मनुष्यस्याभ्यन्तरं कर्षति। बौद्ध धर्मः तादृशीं मानवीयामभिज्ञतां निर्दिशति यत्र प्रत्येकं नर एकाकित्वं भवति, यत्र प्रियतमाय मित्रायापि न किमपि स्थानमस्ति।
अत्रै एकाकिजीवनस्य अविभाज्यं संयोगरहितं रहस्यम्। बौद्धधर्मे इदमेव नूतनत्वम्। नर एकाकी जीवः, एकः स्वतन्त्रः अस्तित्वप्रवाहः-न कोऽपि संगः तस्य एकाकित्वं दूरिकर्तुमर्हति। थेरवादो बौद्धधर्मः सर्वदा अस्मिन् विषये विशेषेण स्पष्टं मतं पोषयति। मनुष्य एकाकी जायते, एकाकी वसति, एकाकी म्रियते, स एव एकाकी ‘निव्वान’स्य अभिमुखं गच्छति। बौद्धमतानुसारः यो जन इदमावश्यकमेकाकित्वमाश्रयत्वेन न गृह्णाति, सर्वदा सामाजिकं गम्भीरं संगम् अनुसरति, सचेतने मनसि एकाकित्वं न स्थापयति; स तथाकरेण जीवनस्य मोलिकतत्त्वात् दूरेऽवतिष्ठते।
एको जनः तस्य एकाकित्वे किं करोतीति बौद्धस्य पक्षे गुरुत्वापूर्णो विषयः। धर्मलक्षणकथनाय पृष्टः सन् होआइटाहेडमहोदय इदं निर्दिशति। आध्यात्मिकी उन्नतिः सिद्धान्तं करोति यत्, न कोऽपि जनः अपरस्मै जनाय आध्यात्मिकताया व्यवस्थां करोति, प्रत्येकं पृथक्तया आध्यात्मिकतां साधयति। अपरो जनः अस्मिन् व्यापारे किं करोति वा न करोति वा इत्यनेन कोपि सम्बन्धो नास्ति। दुःखस्य च मृत्योश्च विषये कीदृशोऽस्माकं विश्वासः ? अयं न ईदृशः। आर्यसत्यातुष्टये, अष्टांगिकमार्गे प्रतिबन्धकपञ्चके कीदृशो बौद्धानां विश्वासः ? अयं न ईदृशः। असौ द्रष्टुं शक्नोति ? अस्माकं देवालयः यत् उपदिशति तत् न इदम्। तर्हि आध्यात्मिके उन्नयने को दृष्टान्त उपदेशो वा हितकरत्वेन दृश्यते ?
बौद्धा यदा वदन्ति नर एकः सामाजिको जीवः - तदा तस्य कोऽर्थः ? तस्यार्थः प्रत्येकं जनः अपरेभ्यः पृथक्। सोऽनेकेषु जीवनेषु संघचालकः। तस्य पश्चात् अविच्छिन्ना कार्यकारणपरम्परास्ति - यत्र तस्य स्वकीयं जीवनं अन्तिमं पदमधिकरोति। अस्यां व्याख्यायां पाश्चात्यः नोत्साहितः।
अत एव, अस्माकं सम्बन्धस्तेन जनेन सह यः सञ्चितं तथाऽदम्यं कर्मफलमनुसृत्य संग्रामं करिष्यति, यत् कर्मफलं पूर्वजीवनेभ्यः अवतरति, मनस्तत्त्वसम्मतां भित्तिं रचयति।
बौद्धनृतत्त्वविद्यानुसारतः, अस्य जीवनस्य अनिश्चितता तथा उभयबलता इदं साक्ष्यं वहति यत् न आधुनिक-इउरोपस्य अस्तित्त्ववादिनः, किन्तु गोतमो बुद्धः पञ्चविंशतिशकेभ्यः प्राक् नूतनं परिप्रेक्षितमुन्म्चयति स्मः, आधुनिकैः जनैः यत् उद्वेग इत्युयते। अयमेव बुद्धः, न सोरेनकीर्केगार्डः, यो युक्त्यपेक्षया शक्तिमत्तरशक्तिभिश्चालिताया अभिज्ञताया उपरि प्रथमं निविडं परिप्रेक्षितं मानवसम्प्रदायाय प्रददौ। निगृहीते सति, कोणस्थापिते सति, निष्पेषिते सति या अभिज्ञता जायते इयमेव साभिज्ञता, यत्र शान्तिः, सत्यता, निरुद्विग्नता च दुर्लभा एव। आंगलशब्दः ‘एंजायिटि’ (anxiety) ‘एंगास्टिया’ (angustiae) इति ल्याटिनशब्दात् जायते (तस्यार्थः ‘संकीर्णता’ इति)। अस्यां पृथिव्यां जन्मग्रहणात् परं वयमनया संकीर्णतया निष्पेषिता भवामः। मनुष्यः संकीर्णा प्रणाली इव - यस्या मध्यतः अतीतयुगजीवनस्य झटिका गर्जति, पारिवारिकं जीवनं न स्वीकरोति। उद्विग्नतायां विह्वलतास्ति - सा अनिश्चितभूमौ स्थापिता।
अधुना प्रचलितस्य ‘एंजायिटि’ इति पाश्चात्यपदस्य व्यवहारमधिकृत्य कति जना विवादं कर्तुम् इच्छन्ति। किन्तु आवेगताडितजीवस्य बौद्धविश्लेषणेन इदं पदमतीव उपयुक्तम्। इदं पदं तदेव आदिमतमं रूपं सूचयति यत् अनुभूतिशक्तिसम्भावनाप्रवाहेण रचिते मानवव्यक्तित्वे गृह्यते। पूर्ववर्त्ति जीवनमेव तस्य योनिः। अस्माभिर्यन्न ज्ञायते तेन आच्छन्नतायाः बोधं निर्दिशति इदं पदम्। सामाजिकपरिप्रेक्षितस्य परिसरे अस्माकं मध्ये या परस्परदुर्बोध्यता तामपि सूचयतीदं पदम्। कार्यसाधने का भूमिकास्माभिः ग्रहीतव्या, कीदशी नीतिः अत्यन्तमुपयुक्ता, कीदृशं वा चरित्रमस्माकं गभीरं प्रयोजनं साधयति इत्यादीन् विषयान् न ज्ञात्वा वयं कार्यसाधनाय प्रवृत्ता भवामः। अयं वाध्यताबोधोऽपि अनेन पदेन सूच्यते। टारिसेलिः यथा जलवायुविषयकं भारमाविश्चकार, तथा बुद्धः, आन्तरजीवनस्य उद्वेगजनकं पीडनम् आविश्चकार। स आधुनिकानामस्तित्ववादिनां प्राक् अतीव गुरुत्वपूर्णं परिज्ञानमुद्घाटयति स्म, येन सन्निकृष्टासहनीयभारबोधो जायते। प्रत्येकं मानवः तेन भारेण सन्धिं करोति। व्यक्तिगतदशायाः प्राणकेन्द्रे जीवनस्य अतीव कष्टकरप्रहेलिका वर्तते। तया सह संग्रामाय बौद्धधर्मः सर्वस्यैव पार्श्वे सम्मार्जनायअस्तित्ववादेन सह तिष्ठति।
संस्कृतेः बौद्धं विश्लेषणं सिद्धान्तमायाति, यत्र सम्पूर्णस्वतन्त्रकारणैः फ्रयेडः वदति यत् संस्कृतेः साधारण आदर्शः प्रत्येकं व्यक्तिसूचके मनुष्ये यो बाध्यतामूलकः प्रवृत्तिमूलकः अचेतनः व्यवसायः तस्मिन् मूलबद्धः। कथमेषा बाध्यताम्१२३७ ं ७८२०१८ऊलकप्रसक्तिः ? अत्र बौद्धमुत्तरं प्रयेडस्योत्तरात् पृथक्। यतः फ्रयेषस्य मते, येन मूलभूतेन तत्त्वेन प्रत्येकं जनः संघर्षं करोति तस्मिन् तत्त्वे यौनप्रवृत्तिः तिष्ठति। बौद्धः फ्रयेडस्य इदं मतं न स्वीकरोति। बौद्धमते मौलं तत्त्वं न यौनप्रवृत्तिः, किन्तु रूपगतानिर्वचनीयाकल्पनीयशक्तिप्रवाहः यो पूर्ववर्त्तिजन्मनः आनीयते। व्यक्तिगताभिज्ञतायां यत् मौलं तत्त्वं तत् पूर्वजन्मागतं सम्पुर्णं गुप्तं निधानम्। इदं व्यक्तिनियन्त्रणातीतम् तथा संस्कृतिनियन्त्रणातीतमपि। प्रत्युत, इदं व्यक्तिगतव्यवहारस्य सामाजिकव्यहारस्य च मुख्यं निर्धारकम्। केवलं गभीरतमध्यानेन इदं परिशोधितं भवितुमर्हति।सामाजिकव्यवहारस्य परिच्छन्नपारिवारिकादर्शेन सह तुलनायां कृतायां सचेतनशक्तिप्रवाहापेक्षया इदं गभीरतरं तत्त्वं कथं तथा अवशं गतमिति प्रतिभातम्। अत एव अस्मै तत्वाय ‘उद्वेगः’ इति आधुनिकं नाम व्यवहरामः। वयमत्र पश्यामो यत् - कथं मनुष्यः तस्य संस्कृतिसज्जिते आदर्शे जीवने बाध्यतामूलकं दृढग्रहं पालयति, कथं द्रुतं सामाजिकं परिवर्तनं नीतिगर्हितमाचरति, कथं संस्कृतेः प्रतिष्ठिते आदर्शे सामाजिकः विद्रोहः भवति। एते आदर्शाः तमर्थहीनत्वात् रक्षतीति प्रतिभातम्। तदीयाभिज्ञतोत्कर्षसमृद्धये मार्गानुसन्धानाय तं पालयन्ति। जनानां कृते कर्मकरणाय या संस्कृतिगतादर्शसामाजिकभूमिका, या च भाषा उपदिश्यते तद्द्व्यज्ञानमन्तरेण जना न जानन्ति के ते आसन्निति।
अनिश्चित उद्वेगः सर्वदा व्यक्तिगभीरतायां कार्यं करोति। स उद्वेगः स्पष्टः विशेषीकृतेऽर्थे सन्देहं निक्षिपति। प्रत्येकं सामाजिकं लक्ष्यं मीमांसाहीनं करोति। ततः परिणामे तल्लक्ष्यमसन्तोषजनकं भवति, एकतः, तेषां समाजस्य निग्रहः, अन्यतश्च रूपं प्रति कर्मशक्तेःअन्तर्निहितः भार - एतद्द्वयस्य मध्येऽवस्थिताः सन्तः जनाः प्रचण्डोद्वेगवन्याप्लाविता द्वीपा इव प्रतिभान्ति। ते, यद्यपि वाध्यतामूलकतया, तथापि स्वभावतः एव सामाजिकादर्शमुखिनः भवन्ति, तत्र न्यूनतमतः, अस्थायिभावेन तथा आंशिकभावेन ते मुक्तेरास्वादं प्राप्नुवन्ति।
बौद्धानां मते इदमेव मौलिकं तथा अपरिवर्तनीयं तथ्यम्। संस्कृतिः दुर्बोध्यपशुप्रार्थनायाः उत्तरम्। इदं तं वदति - कः स इति, यः कस्मिंश्चित् सामाजिके नाटके भूमिकादानात् परं वर्तते, यदा स म्रियते केवलं तदैव नाटकस्य समाप्तिः भविष्यति, संस्कृतिः मानवपशूनां धूर्त्ताविष्कारमूलकोपायविशेषः - येन ते आत्मपरिचयमर्जयन्ति। यावत् कोऽपि जनः सामाजिकादर्शेन सह संश्लिष्टः तिष्ठति, यत्र तस्य जन्म भवति, तावत् तस्य मनसि सन्देहो न जायते - इति प्रतिभातम्।
मानवप्रगतेः वर्त्तमाने पर्याये परिवर्त्तनस्य विरुद्धे प्रतिरक्षणशीलता यथा हिमालयपर्वतमालायाः क्षेत्रे तथैवात्र स्वाभाविकी। अनेन वयं बोद्धुं समर्था भविष्यामः - कथं संस्कृतयः बहूनां वंशानां सम्पत्तिं साधयितुमुद्यताः तिष्ठन्ति तथा वर्तमानजीवनशैल्यां दारुणं परिवर्तनं यथा न भवति तथा बहुकोटिसंख्यकजनजीवनानां नियन्त्रणं कुर्वन्ति। ईदृशसामाजिकबाध्यबाधकतायाः अतिसाम्प्रतिकनाटकवदुपन्यस्तमथ च विपज्जनकं चित्रं हिन्दुमुसलिमसंग्रामे विश्वाय उपहृतम्। हिन्दुसंस्कृतिः च मुसलिमसंस्कृतिश्च बहुशताब्दीः व्याप्य पार्श्वापार्श्वि अवतिष्ठेते, किन्तु द्वयोः मध्ये प्रतिरक्षणशीलतायाः तथा शत्रुतायाः परस्परभावो विद्यते। १९४७ तमे खृष्टाब्दे एम. ए. जिन्नामहाशयकर्तृकपाकिस्तानदेशनिर्माणाकाङ्क्षा संस्कृतिद्वयस्य कथोरतां सूचयति। ‘अस्माकं हिन्दुषु काचिदपि सहानुभूतिर्नास्ति। पुनः पुनः वदाम्येतत्। वयं गां खादामः, हिन्दुस्तां पूजयति। अस्माभिः न किमपि धर्मीयमसाम्यं स्वीक्रियते। स जात्या वसति। सोऽस्माभिः सह न भुङ्क्ते। वयमेकत्र न वसामः। - अहं त्वां वदामि, मुसलिमाः एकस्यां जात्यामन्तर्गताः। एशीयोपमहादेशे वर्षाणां सहस्राणि व्याप्य समाकीर्णसंस्कृतिद्वयं परस्पर बाधां सृजति स्म, स्वीयसदस्यान् निरापद्दूरत्वे स्थापयति स्म। भाषा, साहित्यं, सामाजिकी प्रथा धर्मः च स्वातन्त्र्येन विरचिताः।’
मनुष्यस्य च तस्य संस्कृतेः मध्ये यत्नकृतसम्बन्धविषयकः बौद्धप्रेक्षापटः पाश्चात्ये शास्त्रे शक्तिशालित्त्वानुसन्धानाय अवदानं रचयति। यत्र अधुना मानसिकविकृतिजातकायिकविशृंखलाया आलोचना पर्यवेक्षणस्य पर्यायेऽवतिष्ठते। अस्माभिस्तादृशी सम्भावना विवेचनीया यत् गभीरतरमानसिकरोगकारणानां मूलं तत्रैव स्थातुमर्हति यत्र बौद्धाः अस्तायिनि परिवर्तनशीले जगति दुर्दान्तां तथा असुस्थामासक्तिं पश्यन्ति। मानवव्यक्तितस्य गभीरतरमात्रायां स्थायित्वापेक्षया सामाजिकं परिवर्तनमधिकतरं स्वास्थ्यकरं भवितुमर्हति। मानवो यदा यथार्थं जीवति तदा स सचेतनः कोमलश्च। किन्तु मरणकाले स कठोरः अनमनीयश्च। अत एव अनमनीयत्वं हि मृत्युलक्षणम्, सचेतना च जीवनस्य लक्षणम्। चार्लस्-मरिस्-महाशयः तर्कयति यत् मोक्षस्य रूपं विलोपस्य रूपम् - अधिकारसूचकतायाः कस्यचित् रूपस्य विलोपः। जीवनस्य सारभूतं वस्तु अनमनीयेषु विश्चलेषु रूपेषु न दृश्यते, किन्तु प्रतिष्ठितनियमस्य विफलीकरणेषु। स्थायिस्तिरसामाजिकनियमाय मनुष्यस्य आकाङ्क्षा वर्तते। अतिशयेन तदाकाङ्क्षा वर्णनायां सार्वलौकिकं प्रावण्यमिदं तथ्यं वर्णयति यत् तथा मार्कसमहोदय आह, मनुष्यः तत्त्वाद् वहिः अवस्थिते जगति वसति। एषा सम्भावना यावन्न गौरवेण गृह्यते, तावत् अस्माकं प्रतिवेशिजीवानां समृद्धये मूल्यवान् मानसिकस्वास्थ्यकार्यक्रमः तथा परहितैषिव्यापारः परिणामे केवलमन्यत् यन्त्रं भवितुमर्हति, यत् यन्त्रमत्यावश्यकसामाजिकप्रणोदनां दृढीकरोति। तत्रैव सर्वविधानां मानसिकानां तथा आवेगप्रसूतानां विशृंखलानां मूलं वर्त्तते।
अबौद्धोद्यमेषु एकम् अन्तिमं वैशिष्ट्यमुल्लेखयोग्यम्, येन समाजस्थमनुष्यसम्बन्धीयबोधो जायते। एषु बववः सामाजिकावस्थायाः एकं वैशिष्ट्यं निर्दिशन्ति। तथा हि आर्थनीतिकशक्तयः, प्रतिष्ठिता धर्माः, आदर्शाः राजनीतिसम्पर्किता व्यवस्था, अचिविद्यासंक्रान्ता व्यवस्था च। एते खलु व्यवहारस्य प्रधाना निर्धारकाः। व्यक्तित्वसम्परिक्तसांस्कृतपश्चात्पटाध्ययनं कदापि वा सामाजिकचरित्राकारेण मुख्यप्रभावत्वेन शिशुशालां समीक्ष्यते। बौद्धमानसिकताया एको गुणो हि एवं यत् एषा मानसिकता एकस्मिन् उपादाने प्रधानं निर्धारकं पश्यति, यत् समाधेयसमस्यायाम् स्वयं न प्रयुज्यते। इदमुच्यते यत् मानवव्यवहारः मूलतः केनचित् सामाजिकेन उपादानेन - यथा आर्थनीतिकं जीवनम् निर्धार्यते। उत्तराकारेण वर्तमानमपि प्रश्नांशत्वेनेदं व्यवह्रियते इति प्रतिभाति, यदि पाश्चात्ये सर्वजनः वंशानुक्रमेण इदं न करोति, अयं निर्णयः सुखतरो भविष्यति कथमेताः सर्वा मानसिकताः प्रश्नं प्रार्थयन्ते। मनुष्यः पृथिव्याः विविधासु संस्कृतिषु कार्यं करोति। स कथमित्थम् आचरति इत्यस्य उत्तरत्वेन यदेव एकैकम् उपादानं गृह्यते तदेव स्वयं प्रहेलिकावस्तु यस्य समाधानम् अन्वेषणपरमेव वर्तते। बौद्धपश्चात् पट इमं प्रश्नं न प्रार्थयते।
तथापि, बौद्धविश्लेषनस्य प्रधानो गुणो हि एवं यत् इदं समाजे मनुष्य सम्बन्धिप्रकृतप्रश्नसंबोधनाय समर्थम्। कथं तस्य अभ्यासाः सन्ति - अयं न प्रश्नः। किन्तु कथं स तेषां परिवर्तनाय न स्वीकरोति इति प्रश्नः, यद्यपि इदं सर्वेषु स्पष्टं यत् वर्तमानजीवनशैल्याम् या चलमानतास्ति सा तस्य समग्रां सभ्यतामुच्छेत्तुर्मर्हति। अस्य प्रश्नस्य उत्तरं, बुद्धः तर्कयति, बाध्यतामूलके सम्पर्के वर्तते। प्रत्येकं मानवः तत्सम्पर्कं संस्कृतौ धारयति यत्र स वसति।
चतुर्थोऽध्यायः
बौद्धधर्मे प्रेमकरुणयोः प्रकृतिः
‘सर्वे सुखिनो भवन्तु’ (पा. २यः १२८) इति हृदयानुभूतेरिच्छया प्रकाशितं सारभूतं वस्तु एव ‘प्रेम’ पदं संश्लिष्टोपदेशान्तरेणापि विशेषण‘ पदं संश्लिष्टोपदेशान्तरेणापि विशेषण‘प्रेमि’पदसम्पर्कितोपदेशा अपि संवादेषु वर्तन्ते। प्रतिविषयं पृथग् गुरुत्वमस्ति इति काराणात् प्रत्येकं विषयवस्तु अपरस्मादेव यथेष्टं पृथक्। एकस्य विषयमधिकृत्य या उक्तयः सन्ति ताः साधारणतः अन्यस्य क्षेत्रे न प्रयोज्याः।
अङ्गुलिछोटिकाविषयकक्षुद्रतरसंवादे गोतमः सन्न्यासिनो वदति यत्, यो जनोङ्गुलिछोटिकाकालमपि करुणामयं चित्तं पोषयति स जनो भिक्षुरिति उच्यते। (अङ्गुत्तरनिकाय, २.२०) बुद्धः पुनरपि वदपि - यो जनोऽङ्गुलिछोटिकाकालं करुणामयं चित्तं कर्षति (भावेति), अथवा तत् चित्तं प्रति मनोयोगं करोति, सोऽपि यथार्थं भिक्षुः। गोतमो व्याख्याति। यत् ईदृशस्य भिक्षोः ध्यानमग्नता वृथा न गच्छति। यतः स उपदेशाननुसृत्य कर्म करोति। तथा च यथायथं राज्यं भुङ्क्ते (भुञ्जति)। (अंत्तरनिकाय, १.११०)।
‘क्षुद्रतरछोटिका’ स्थानस्य टीका व्याख्याति यत् अयं संवादः अग्निज्वालया सह तुलनामधिकृत्य यः संवादः तस्य अन्तिमांशः। अग्निज्वालासंवादे गोतमः सन्न्यासिन उपदिशति यत् अग्निज्वालासहनम् अपि वरं, किं वा परदुःखसहनं वरम्, तथापि स्त्रीसङ्गो न कामनीयः, परद्रव्यभोगः न कर्तव्यः वा परस्रपरिधानं वा न कर्तव्यम् (परिभुज्ञ्जेय्य) (अंगुत्तरनिकाय, ४।११८,३५) अग्निना दग्धः सन् भिक्षुः कञ्चित् कालं कष्टं प्राप्स्यति, अथवा कष्टतमावस्थायां मरिष्यति। किन्तु स यदि स्त्रीसंगे तिष्ठति अथवा स्त्रीखाद्यं गृह्णाति, स्त्रीवस्त्रादीनां परिधानं करोति, तर्हि पुनरेव नरके जन्म ग्रहीष्यति, तत्र च स चिरं दुःखं प्राप्स्यति। एवञ्च अन्यविधस्पष्टदृष्टन्तैः गोतमः सिद्धान्तं ज्ञापयति - केन प्रकारेण भिक्षवोऽनुशीलनं कुर्युः, अर्थात् यदि ते बुद्धस्य उपदेशमनुसरन्ति तर्हि तेषां भिक्षायास्तथा परिधेयस्य वस्तुनः प्रयोगो यथायथं भविष्यति। स आह -
भो भिक्षवः, युष्माभिः निम्नविधोपायेनाभ्यासः कर्तव्यः। वयं पीडिताः सन्तः भिक्षाभोज्यं वस्त्रमाश्रयमौषधं च भुञ्ज्महे। तानि द्रव्याणि ये दातारो ददति ते महत् फलं तथा हितं लभन्ते। अस्माकं त्यागधर्मः पुरस्कारं प्राप्स्यति। अयं सफलो भविष्यति, अयं वृथा न यास्यति। भिक्षवः, युष्माभिः उपर्युक्तेनोपायेनाभ्यासः कर्त्तव्यः। भिक्षवः, यूयं यदि हितं पश्यथ, तर्हि यूयं यत्नेन चेष्टध्वम्। यूयं यदि परहितं पश्यथ, तर्हि यूयं यत्नेन चेष्टध्वम्। यदि यूयमुभयहितं पश्यथ, तर्हि यत्नेन यूयं चेष्टध्वम्। (अंगुत्तरनिकाय, ४.१२४-३५४)
अस्मिन्ननुच्छेदे इदं स्पष्टं यत् भिक्षोः प्रयोजनीयद्रव्याणां भोगमधिकृत्य प्राग्वर्तिनी उक्तिः अनुचितोपायं निर्दिशति। अयं न भोगोऽनुचितत्वात्। इन्द्रियतृप्त्यर्थं यो भोगः, तस्मात् भिक्षुः नरके जन्म लभते। वरम् तेन दातृहितकारकं कर्म करणीयम्, धर्मीयजीवनोपयोगिहितसाधकं कर्म सम्पादनीयम्। अग्निज्वालासंवादः एतावान् प्रभाववानासीत् यत् यस्य प्रभावात् षष्टिः भिक्षवः रक्तवमनं कृतवन्तः, षष्टिः भिक्षवः सन्न्यासं त्यक्तवन्तः, अपरे षष्तिः भिक्षवः सम्पूर्णं मुक्ता अभवन्। (अंगुत्तरनिकाय, ४.१३५)
क्षुद्रतरछोटिकाविषयिकी टीका वर्णयति यत् अग्निज्वालानुशासनात् परं बुद्धः पक्षकालं निभृतवासं चकार। यदा स वहिरागतः तदा स स्वल्पसंस्थकान् जनानपश्यत्। (अंगुत्तरनिकायटीका मनोरथपूरणी - २.६९) तदीयोऽनुजः सहचरश्च आनन्दः आह यत् बहुभिः भिक्षुभिः सन्न्यासस्त्यक्तः यतस्तेऽनुभवन्ति यत् ते धर्मीयजीवनयापनेऽसमर्थाः, तेऽनुभवन्ति यत्, यदि तेऽनुचितमाचरन्ति तर्हि विश्वस्तैः दातृभिः प्रदत्तानां द्रव्यानां भोगः अनुचितो भविष्यति। बुद्धो विस्मितः सन्नाह तस्य निभृतवासकाले न केनापि भिक्षूणां समीपे ‘सुखश्वासकारणम्’ अस्सासकारण) व्याख्यातम्। तदभ्यासेन भिक्षवो निश्चयेन ज्ञास्यन्ति यत् ते दत्तद्रव्याणां व्यवहारं यथायथं कुर्वन्ति।
क्षुद्रतरछोटिकाकाटीकायां बुद्ध आनन्दमवदत् यत् समुद्रगामिनो यथा बहवों मार्गाः तिष्ठन्ति, तथा तदीये उपदेशे सुखश्वासकारणानि वहून्येव सन्ति। (अंगुत्तरनिकाय टीका, मनोरथपूरणी - १.७०) स सन्न्यासिनामाह्वानाय आनन्दमादिदेश। ततः एकं मुखबन्धं ददौ -
भो भिक्षवः, प्रेम्णः प्राथमिकः पर्याय एव एकं सुखश्वासकारणम् (मेत्तय सब्बपुब्बभग)। अत्र केवलं जीवहितसाधनाय जीवैः सह सम्बन्धस्तिष्ठति। एषा न यथार्थतः करुणा। (अंगुत्तरनिकायटीका, १.७०) पुनश्च टीकायामुयते यत् आलोचनाबिन्दुव्याख्यानाय बुद्धः अंगुलिछोटिकाविषयकक्षुद्रतराख्यानस्य अवतारणां चकार। (अंगुत्तरनिकायटीका, १।७०) एवं ‘अग्निज्वाला’याः उपसंहारत्वेन ‘क्षुद्रतरछोटिका’संवादः तं मार्गं निर्दिशति यत्र करुणायाः प्राथमिकः पर्यायः हि सुखश्वासकारणमिति व्याख्यातम्। इदमुल्लेख्यं यत् - यथा टीकायां दृश्यते - बुद्धः करुणामयचित्तस्य पर्यायत्रयं प्रतिष्ठापयति। तथा हि - (१) प्राथमिकंः पर्यायः - यत्र केवलं जीवहितेच्छा तिष्ठति। (२) करुणाप्रवेशमुखम्-यत्रैकाग्रता जन्म लभते। ततश्च (३) एकाग्रतास्थापना - यत्र समाधिः स्थानं लभते। साधारणतः यौगिकः करुणामयचित्तशब्दः उक्तार्थत्रयाणामन्यतमार्थं प्रकाशयति। क्षुद्रतरछोटिकासंवादे प्राथमिकोऽर्थः प्रकाशितः।
क्षुद्रतरछोटिकाख्याने गोतमे व्याख्याति यदि कोपि भिक्षुः अंगुलिछोटिकाकालमपि करुणामयं चित्तं पोषति तर्हि स यथार्थतो भिक्षुरिति उच्यते। करुणामयं चित्तं सचेतनजीवैः सह सम्पर्क स्थापयति - यत्र मङ्गलेच्छा वर्तते। (अंगुत्तरनिकाय टीका, १.७०) अस्य सार्वलौकिकः परिधिरस्ति सर्वे जीवाः सुखिनो भवन्तु - ईदृशी इच्छास्मिन् चित्ते जायते। केन प्रकारेण भिक्षुः ईदृशं चित्तं पोषति तस्य विश्लेषणं टीकायामस्ति। तथा हि -
पोषति। स कथं पोषति ? यदा स चिन्तयति तदा स इदं पोषति। यदा जानाति, तदा स इदं पोषति। यदा स पश्यति, तदा इदं चित्तं स पालयति। सप्रत्ययं सिद्धान्तकाले स इदं पालयति। शक्तिप्रयोगकाले स इदं धारयति। ज्ञानेनोपलब्धौ स इदं पोषयति। यदा स प्रत्यक्षज्ञानेन ज्ञातयं विषयं जानाति तदा स करुणामयं चित्तं धारयति। त्यक्तव्यविषयत्यागकाले इदं स पोषयति। चिन्तनीयविषयचिन्तनसमये स इदं पोषयति। तत्त्वतः प्रत्यक्षीकरणीयविषयप्रत्यक्षीकरणकालेऽपि स इदं पोषयति।
किञ्च, चित्तपोषणव्यापारोऽयं केवलं कल्याणकामनया सचेतनजीवसम्पर्कितानुरक्तिभावेन उपलब्धो भवेत्। अयमेव प्रेम्णः प्राथमिकः पर्यायः।
एवं भिक्षुः सर्वदा धर्मीयकर्मणि करुणामयं मनः पालयतिमर्हति। स यदि केवलमङ्गलिछोटिकाकालमपि प्रेम्णस्तथा करुणायाः प्राथमिके पर्याये चित्तं पालयति तर्हि स भिक्षुरिति परिगण्यते। तथाकरणेन स उपदेशानुसारेण कर्म करोति, ध्यानाभ्यासं करोति तथा राज्यस्य भोज्यं भुङ्क्ते यथायथम्। (अंगुत्तरनिकाय, १.२०) स सुखेन श्वासं ग्रहीतुमलम्।
क्षुद्रतरछोटिकायाः टीका तं पाठमुपनयति यत्रेदमिवोच्यते यत् नेदं ‘भुञ्जति,’ किन्तु ‘परिभुञ्जति’ (अंगुत्तरनिकायटीका, १.७०) ‘अग्निज्वालाया' 'परिभुञ्जति' इत्येकं प्रधानं पदम्। 'क्षुद्रछोटिकातः अस्य पदस्य संयोजनेन द्वयोः संवादयोः मध्ये सम्पर्के गुरुत्वमारोपितम्। टीकायामुच्यते यत् अंगुलिछोटिकाकालमपि करुणामयं चित्तं पालयन् भिक्षुः केन प्रकारेण राज्यस्य खाद्यद्रव्यमपचयशून्यं भुङ्क्ते'। (परिभुञ्जति)
स 'परिभुञ्जति'। परिभोगः चतुर्विधाः। स्तेयपरिभोगः, ऋणपरिभोगः, रिक्थपरिभोगः, प्रभुत्वेन परिभोगश्चेति। अस्मिन् विषये, दुष्टाचरणयुक्तो भिक्षुर्यदा दानं भुङ्क्ते, तदा स्तेयपरिभोग उच्यते। यदा सदाचारयुक्तो भिक्षुः निश्चिन्तं ऋणकृतं दानं भुङ्क्ते, तदा ऋणपरिभोग उच्यते। यदा शिक्षार्थिनां सप्त संघाः दानं भुञ्जते, तदा रिक्थपरिभोगो भवति। यदि भिक्षुः हानिकरं प्रभावं विनश्य दानं भुङ्क्ते, तदा प्रभुत्वेन परिभोग उच्यते।
अस्मिन् विषये, भिक्षुः (क्षुद्रतरछोटिकायां वर्णितः) अपचयशून्यं राज्यस्य भोज्यं भुङ्क्ते। तत्र कारणद्वयमस्ति, प्रथमतः, यो भिक्षुः केवलं अंगुलिछोटिकाकालं करुणां पोषयति, स प्रभुत्वेन, ऋणमुक्तत्वेन, रिक्थभागित्वेन राज्यस्य भोज्यं भुङ्क्ते। इदमेव कारणं यत् सोऽपचयं विना राज्यस्य खाद्यं भुङ्क्ते। द्वितीयतः, अंगुलिछोटिकाकालमपि कारुणिकाय भिक्षवे दानस्य महती शक्तिरस्ति। ईदृशाय भिक्षवे यो दाता उपहारं यच्छति स तस्मादुपहारात् महत् फलम्, महत् हितम्, महत् गौरवं च लभते। इदमेव द्वितीयं कारणं यस्मात् भिक्षुः अपचयं न कृत्वा राज्यस्य भोज्यं भुङ्क्ते। (अंगुत्तरनिकाय टीका, १.७२ तुलना - विसुद्धिमग्ग)
यो भिक्षुः क्षणमपि प्राथमिकपर्यायभुक्तप्रेमकरुणायुक्तं हृदय पालयति स तं धर्ममर्जयति यो धर्मस्तादृशेन भिक्षुणा अर्ज्यते स सदाचारयुक्तः, यः दानप्रकृतिं चिन्तयति, यः सप्तशिक्षार्थिनामन्यतमः भवति, येन वा हानिकराः सर्वे प्रभावा विनष्टाः। स एव एकोऽर्हः। (सप्तवर्गीयाः शिक्षार्थिनः पन्थानं प्रत्यक्षीकुर्वन्ति, अथवा स्रोतःप्रवेशिनः, सकृदागामिनः, अनागामिनः, अर्हतश्च फलमभिजानन्ति।)
प्रेममयचित्तानुशीलनकारिभिक्षुसंस्पर्शं यः पोषक आयाति स तद्भिक्षोः यानाचारादिभिः अनुप्राणितो भवति। इदं हितावहमनुप्रेरणं भविष्यति आनन्ददायकाय पुरस्काराय मूलम्। (पृष्ठ १८, टीका ३५) इदं पोषकेण परवर्तिधर्मस्याचरणाय बीजत्वेन सेवितुमपि अलम्। कारुणिकचित्तपालकः अभ्यासकारी धर्मीयजीवनस्योत्कृष्टः दृष्टान्तः। स एव यथार्थं निरपचयं भिक्षां भुङ्क्ते। निमग्नतापर्यायभुक्तप्रेमयुक्तचित्तमेव विशेषेण 'कारुणिकचित्त'-पदेन गम्यते। तथा हि - क्रमिकवचनेषु, बुद्धः फलप्रसूधर्माचरणकारिषु प्रधानं गृहस्थमनाथपिण्डकमुपदिशति - (अंगुत्तरनिकाय ४.३६४-८५):-बहुभ्यो जनेभ्यो भिक्षाया दानम्, समग्दृष्टिमतो जनस्य पोषाणम् (स्रोतःप्रवेशी) (अंगुत्तरनिकाय टीका, ४,१८५), अपि च, तत् पोषणं भविष्यति सकृदागामिभिक्षवे, अनागामिभिक्षवे, अर्हद्भिक्षवे, ज्ञानोन्मुखाय बुद्धाय, सम्यग् ज्ञानिने, बुद्धप्रधानाय भिक्षुसंघाय, बौद्धाश्रमनिर्माणम्, बुद्धे धर्मे संघे च आश्रयग्रहणम्, आचार्यपञ्चकपर्यवेक्षणम्, क्षणकालं कारुणिकचित्तकर्षणम्, अनित्यताप्रत्यक्षीकरणम्। प्रधानकार्यावली कारुणिकचित्तचर्चाया आपेक्षिकत्वं गुरुत्वं प्रदर्शयति। किन्तु एषा चर्चा मुक्त्युन्मुखान्तर्दृष्टिचर्चाया निम्ने एव वर्तते।
कारुणिकचित्तमिति समस्तपदस्य व्याख्यायां टीकाह - 'हितसाधनेच्चसमेतसचेतजीवसम्पर्कितं चित्तमेव कारुणिकं चित्तम्। पुनश्च, इदं यथार्थतः समाधियोगेन अन्तर्भुक्तो भवति।' (अंगुत्तरनिकाय टीका,3 ४.१९७)। एवमत्र कारुणिकचित्तम् समाधिपर्यायभुक्तं सर्वथापि प्रेमकरुणान्वितं तिष्ठति।
'क्रकचदृष्टान्तसंवादे' गोतमः भिक्षुं मोलियफग्गुनमुपदिंशति यत् स कुपितचित्तपोषणं न कृत्वा कारुणिकं चित्तं पालयेत्। (मज्झिमनिकाय २.१२२-२९) मोलियफग्गुनः सन्न्यासिनीभिः सह अत्यन्तं संसक्तः संवृत्तः। तस्मात् कोऽपि यदि सन्न्यासिनीनां दोषमुल्लिखति, तर्हि सोऽतीव क्रुद्धो जातः। एवञ्च सन्न्यासिनीनां प्रतिक्ऱ्इयासीत्, यदि कोऽपि तस्याचरणे दोषं पश्यति। तच्छ्रुत्वा बुद्धः मोलियमाह्वयति स्म। स तमाह यत् सन्न्यासिनीषु अत्यासक्तिः सन्न्यासिनां पक्षे अनुचित्तां। अत एव यदि कोऽपि जनः सन्न्यासिनीनां व्यवहारेषु दोषं पश्यति, तदा स ईदृशं मनोभावं पोषयेत् - मम चित्तं विषयगामि न भवतु। अहं कुवाक्यं न वदिष्यामि। अहं सर्वेभ्यो हिताय सहानुभूतिं पोषयिष्यामि। मम चित्तं कारुणिकं सत् सर्वदा कोपमुक्तं भविष्यति इति। (मज्झिमनिकाय, १.१२३) बुद्धो मोलियमुपदिशति यत् स सममनोभावं पोषयेत् यदि कोऽपि तदीयं दोषं पश्यति, अथवा कोऽपि तं वा सन्न्यासिनीः वा आहन्ति।
गोतमो भिक्षूनुपदिशति - न केवलं परकृतगुणदोषविवेचनमुखे, अपि तु परसम्बन्धिगुणदोषविवेचनकाले सर्वदा कारुणिकं चित्तं लालयेत्। संवादेषु बुद्धो गोतमो व्याख्याति यत् यदि कोऽपि अपरस्य दोषं संशोधयितुमिच्छति, तर्हि स यथाकालमिदं कुर्यात्। तदा स कारुणिकेन हृदयेन सत्यं वदेत्, शान्तं वदेत्, लाभजनकतया कार्यं कुर्यात्। (दीघनिकाय, ३.२३७) कथं वा परस्परम् संलपेत् इति उपदिश्य पुनश्च स संयोजयामास यत् सर्वे भिक्षवः सर्वदा सर्वैः सह शान्तं व्यवहरेयुः।
मध्यममानवचनेषु गोतम उपदिशति यत् कोऽपि जनः जातिविचारं न कृत्वा प्रेममयं हृदयं कर्षेत्। (मज्झिमनिकाय, २.१५१) अयमभ्यासो न केवलं सर्वेषां कर्त्तव्योऽपि तु आध्यात्मिकमार्गपरिसमाप्तये उपयोगितां व्रजति। 'कस्सपं प्रति सिंहगर्जनं' - संवादे गोतमो वर्णयति यो भिक्षुः कारुणिकं चित्तं पालयति, सर्वान् क्षतिकरान् प्रभावान् विनश्यति (आसव), स यथायोग्यं 'परिव्राजकः' (समण) उच्यते, अथवा 'ब्राह्मण' उच्यते। (दीघनिकाय, १.१६९) अत्र गोतमो धर्मीयमादर्शं वर्णयति, तेनादर्शेन व्यक्तिपक्षे प्रयोजनमस्ति यदि व्यक्तिः परिव्राजको वा ब्राह्मणो वा भवितुमिच्छति। (मज्झिमनिकायटीका, पपञ्चसुदनी, २.३२६)
वक्तृतामालायां क्षातिकराणां विषयाणां सूची (आसव) अस्ति। तत्र क्षतिकरा विषया नाम आकाङ्क्षा, पुनर्जन्म, अविद्या, दृष्टाभिमतम् च। ते विषयाः टीकासु एवं व्याख्याताः। तथा हि - इन्द्रियतृष्णा, पुनर्जन्माकाङ्क्षा, अज्ञता, भ्रान्तमतं च। (विसुद्धिमग्ग २२.५६) ते विषयाः केवलम् अर्हद्भिः सम्पूर्णं परित्यक्ताः। पार्थिवपरिवेशस्य प्रकृतिः अनित्या। सा प्रकृतिः अर्हतां तृप्तिं न विदधाति। ते सूक्ष्मभावेन प्रकृतिं यथाक्रमं पश्यन्ति। तथा च ते निर्वाणस्य स्वादमनुभवन्ति। फलतः, ते न पुनः पार्थिवेन्द्रियसुखेनाकृष्टा भवन्ति। एवमनित्यसुखं वा पुनर्जन्मनो दुःखं वा तान् प्रभावितान् कर्त्तुं न शक्नोतिं। ईदृशैः जनैः सर्वविधं मानसिकं तमस्तथा भ्रान्तं मतं दूरीकृतम्। ततः अर्हत्पदस्य समपर्यायशब्दः खलु 'खिनसवः' अर्थात् 'येन क्षतिकरप्रभावो विनष्ट' इति। पुनश्च, यदि ईदृशो जनः प्रेममयं हृदयं कर्षति, तर्हि स यथार्थतः परिव्राजकः ब्राह्मणो वा भवितुमर्हति।
क्रमिकवचनेषु बुद्ध आह भिक्षून् प्रति सुकर्मसाधनात् भीतिः न करणीया, यतः सुकर्मपदं प्रकृत्या सुखपर्यायम्। (अंगुत्तरनिकाय, ६.८८-९२) स स्वकीयं ज्ञानमुल्लिखति यत् तेन चिरं यत् सुकर्म कृतं तत् आनन्दाय सम्पद्यते। तस्यफलं चैवम् - स प्राक्तने जन्मनि सप्तपर्षैः कारुणिकं चित्तं पालयामास। तस्मात् स आनन्दमयसुखसमूहं भुङ्क्ते। सार्वलौकिके प्रकाशे च विकाशे च सप्त युगानि व्याप्य सोऽस्यां पृथिव्यां न पुनर्जातः। सार्वलौकिकप्रकाशकाले स दिव्ये जगति जन्मग्रहणं चकार (आभस्सर), पुनश्च विकाशकाले स दिव्यब्राह्मप्रासादे पुनर्जन्मग्रहणमकरोत्। यत्र स महाब्रह्मरूपेण राजत्वं चकार। स आसीत् 'सक्कः', आकाङ्क्षाजगतः प्रभुः, षट्त्रिंशत्कृत्त्वः, स बहुवारं सार्वलौकिकः सम्राट् सन् यथाधर्मं शासनं चकार। तदा स कारुणिकं चित्तं कर्षति स्म, येन स सुफलं प्राप्नोति स्म। तस्य प्रेममयं चित्तं समाधिमार्गस्थप्राथमिकपर्यायभुक्तमासीत्।
अन्यस्मिन् संवादे बोधिसत्त्वस्य कारुणिकं तथा प्रेममयं चित्तमुल्लेखार्हतां व्रजति। भयातञ्कविषयके संवादे आरण्यजीवने, सृष्टं संकटमधिकृत्य विप्रः जाणुस्सोणिः गोतमं पृच्छति, (मज्झिमनिकाय, १. २६)। बुद्धः जाणुस्सोणिं निवेदयति यत् वनवासिनां तेषां परिव्राजकानां ब्राह्मणानां चित्तं क्रोधान्वितं मालिन्ययुक्तं चासीत्। तस्मात्ते भयेनातंकेन च आक्रान्ता भवन्ति। (मज्झिमनिकाय, १.१८) स जाणुस्सोणिं व्याख्याति यत् एकदा स स्वयं बोधिसत्त्व आसीत्। तदा बुद्धत्वशिक्षणकाले सोऽरण्येऽवसत्, किन्तु तस्य हृदये क्रोधः नासीत्, तत् हृदयं प्रेममयमासीत्। कारुणिकं चित्तं प्रत्यक्षीकृत्य बोधिसत्त्वः कदापि द्विधाग्रस्तः न बभूव, न वा भीतः न वा आतङ्कितः। टीकायाः संयोजनमेवम् - मम चित्तं क्रोधपूर्णं नासीत् अस्यायमाशयह्ः 'ममैकं करुणामयं हृदयमासीत् तस्मिन् हृदये हितेच्छा आसीत्।' बोधिसत्त्वः तादृशः आसीत्। (मज्झिमनिकायटीका, पपञ्चसुदनी १.११६) ततः परं गोतमोऽस्मिन् संवादे तस्य सम्यग् ज्ञानं वर्णयति, इदमनुमानं युक्तं भवेत् यत् अरण्ये बोधिसत्त्वस्य जीनमधिकृत्त्य एषालोचना गोतमकर्तृकबोधिलाभात् पूर्वमेव यः कालस्तं निर्दिशति।
कतिपयेषु संवादेषु शिष्याः प्रेममयकायिकवाचिकमानसिककर्मणामनुशीलनं कुर्वन्तीति दृश्यते। अथवा ते तथा कर्त्तुमपदिश्यन्ते इति दृश्यते। कश्चित् शिष्य एतेषामुन्नतये अनुप्राणितोऽभवत्। यतः तस्यास्ति कारुणिकं चित्तम् (दीघनिकायटीका २.५८४-८५; ३.९५७) यथा पूर्वं प्रदर्शितम्, तत् चित्तं प्राथमिकपर्यायभुक्तप्रेमयुक्तमथवा समाधिपर्यायभुक्तप्रेमयुक्तं भवितुमर्हति। टीकाया मते उभयविधं चित्तं प्रेममयकर्मसम्पादनाय समर्थं तिष्ठति। एता आलोचनाः सहानुभवानुप्रेरतकार्याणामुपरि आलोकसम्पातं कुर्वन्ति, यत्र सहानुभवे प्राथमिकपर्यायगतप्रेमकरुणालक्षणं परिस्फुटम्।
भवचक्रात् महापरिमुक्तिमधिकृत्य संवादे दृश्यते यत् गुरोः गोतमाद् विच्छेदमासन्नम् दृष्ट्वा आनन्दः रोदितुमारेभे। (दीघनिकाय, २.१४३) तदा गोतम आनन्दं स्मारयति यत् तस्यैव उपदेश एवम् - सर्वाणि सुखकराणि वस्तूनि परिवर्तन्ते तिरोभवन्ति च। बुद्धः आनन्दं सान्त्वयति तदीयप्रेममयसेवां प्रशस्य -
आनन्द, तया चिरेण सदैक्यवतः सेवा क्रियते - प्रेमयकायिककर्मभिः, प्रेममयवाचिककर्मभिः, प्रेममयमानसिककर्मभिश्च। तानि कर्माणि हितकराणि, सुखावहानि, अद्वैतानि, परिमाणशून्यानि च। (दीघनिकाय - २.१४४)
टीकया विश्लेषणमेवम् - प्रेममयकायिककर्मभिः इत्यत्र - कायिक-कर्माणि-यथा-उपहारदानमुखप्रक्षालनादीनि, यानि प्रेममयहृदयानुप्रेरितानि। हितकराणि - इत्यत्र तानि कर्माणि उच्यन्ते यानि मंगलवर्धनाय क्रियन्ते। सुखावहानि - इत्यत्राशयः - कर्माणि सुखेन च हर्षेण च क्रियन्ते, न दुःखेन वा कष्टेन वा। अद्वैतानि - अयं भावः - कति जनाः केवलमपरेषां समक्षं, न तेषां परोक्षम्, प्रेममयकायिककर्मादीनि सम्पादयन्ति। अन्ये च केवलमन्येषां परोक्षं, न तेषां समक्षं, कार्याणि सम्पादयन्ति। किन्तु स आनन्द एवं न विभज्य प्रेममयकर्माणि सम्पादयति स्म। एवञ्च तत् कृतानि प्रेममयकायिककार्याणि अद्वैतानि संवृत्तानि।
परिमाणशून्यानि - अस्यार्थः - परिमाणं विना। स विवक्षति - तव प्रेममयकायिककार्याणि परिमाणेन अत्यन्तं प्रचुराणि। किन्तुं इदं जगत् अतीव संकीर्णम्, सत्तायाः चूडापि अतिह्रस्वा। क्षुद्रे सात्त्विके जगति प्रचुराणां कर्मणां स्थानाभावत्वात् कर्माणि परिमाणशून्यानि इति कथ्यते।
प्रेममयवाचिककर्माणि - अत्र वाचिककर्माणि इत्यत्र मुखप्रक्षालनसमयघोषणादिकर्माणि सूच्यन्ते। तानि च कारुणिकचित्तानुप्रेषितानि भवन्ति। किञ्च, यदि कोऽपि उपदेशवाणीं श्रुत्वा वदति, 'महाशय, साधूक्तं त्वया' इति प्रमेमयवाचिककर्मण उदाहरणम्। प्रेममयमानसिककर्माणि इत्यत्राशयः - यथासमयं शरीरस्य यत्नं कृत्वा स निभृते स्थाने उपविश्य एवं प्रकारेण चिन्तयति - 'ममाचार्यः रोगात् क्लेशाच्च मुक्तो भवतु, स सुखी भवतु' इति। (दीघनिकायटीका, सुमङ्गलविलासिनी, २.५८४-८५)
संवादेषु इदमपि लिखितं यत् भिक्षवः तेषां स्वेषां मध्ये प्रेममयकायिकवाचिकमानसिककर्मणामनुशीलनं चक्रुः। गोसिंगविषयकक्षुद्रतरसंवादे गोतमः अनुरुद्धं, नन्दियं किम्बिलं च (सन्न्यासिनः) द्रष्टुं ययौ। ते भिक्षवः गोसिंगस्थे उद्याने तस्थुः। (मज्झिमनिकाय - १.२०६-२०७) बुद्धः सन्न्यासिनः पृच्छति - पर्याप्तं भिक्षाभोज्यं प्राप्य दुग्धजलमिश्रणवदेकत्र सुखेन स्थित्वा किं ते कुशलिन इति न वा। ते उत्तरं ददति यत् ते नाम कुशलिनः तेषाञ्च पर्याप्तं भिक्षाभोज्यमस्ति। अनुरुद्धस्य नेतृत्वे ते पृथक् पृथक् बुद्धं वदन्ति यत् ते दुग्धजलमिश्रवणवत् सुखेन वसन्ति। तेषां मते ईदृशैः सतीर्थैः भिक्षुभिः सह वासः महान् लाभ एव। ते परस्परहितार्थं प्रेममयकायिकवाचिकमानसिककर्माणि कुर्वन्ति, तेषां समक्षं च परोक्षम् च अनुरुद्धः अन्यान् जनान् प्रति तदीयां भक्तिं वर्णयति -
'अहं निम्नरूपं चिन्तयामि - मया किमीदृशानाम् मित्राणां सेवार्थं मम स्वीयं चित्तमुत्सृष्टम् ? किञ्च किं मे जीवनं तेषां सेवार्थमिति। ......महाशयः, अस्माकं शरीराणि खलु पृथक् पृथक् तिष्ठन्ति; तथापि अस्माकं चित्तानि निश्चयेन एकत्वापन्नानि।' (मज्झिमनिकाय, १.२०६-२०७)
अनुरुद्धस्य प्रेममयकायिकवाचिकमानसिककर्मणां वर्णनं विस्तरेण कथयति टीका -
प्रेममयकायिककर्माणि - इत्यत्र कायिककर्माणि कारुणिकचित्तत्वात् क्रियन्ते, अपरेषां ज्ञाने वा अज्ञाने वा, प्रत्यक्षं वा परोक्षं वा।
अस्मिन् प्रसम्गे, अपरेषां समक्षं कायिकवाचिककर्माणि तदैव सम्भवन्ति यदा कोऽपि जनः अपरैः सह वसति। वैपरीत्यं सम्भवति यदि जनाः पृथक् पृथक् वसन्ति। सर्वासु अवस्थासु मानसिककर्म सम्भवति। तथा हि - अनुरुद्धः पश्यति - दौ भिक्षू तेन सह वसतः। तयोः अन्यतरः वहिः विशृंखलं परित्यज्यायाति। स चिन्तनेन विरक्तिं न प्रकाशयति - 'केनेदं व्यवहृतम् ? इति। वरम्, स तानि वस्तूनि समुद्धृत्य यथास्थानं स्थापयति, यथा स्वयं स त्यजति समुद्धरति च। अथवा विषायस्य उपरि यत्नं गृह्णाति। एतान्येव परेषां समक्षं प्रेममयकायिककर्माणि उच्यन्ते।
तथा हि - कोऽपि भिक्षुः वहिर्गच्छति, तस्य शय्यां, विष्टरं प्रयोजनीयं द्रव्यं च वहिः त्यजति। यथानुरुद्धेन पुर्वं व्यवस्थापितम्, तथैव यदि स करोति तर्हि तस्य प्रेममयकायिककार्यावली परेषां परोक्षं भवेत्।
यदानुरुद्धः अपरगुरुजनद्वयेन सह वसति, तद्द्वयेन सह मधुरं सुखकरं च आलपति, तदा तत् कर्म परेषां समक्षं प्रेममयवाचिककर्मेति उच्यते। स यदि तद्द्वयं मित्रतासुलभाय सौजन्यमूलकाय वा आलापाय नियोजयति, तर्हि अपि प्रेममयं वाचिकं कर्म भवेत्। किञ्च, स तद्द्वयं प्रश्नं पृच्छति, अथवा तयोः उत्तरं ददाति - एवंविधं कर्मापि वाचिकं कर्मेत्युच्यते। किञ्च, यदा द्वौ गुरुजनौ अन्यत्र गच्छतः तयोः अनुपस्थितौ स तयोह् गुणान् प्रशंसति - 'मम प्रियौ बान्धवौ, वयोवृद्धौ नन्दियः किम्बिलश्च एवं एवं प्रकारेण सदाचारैः युक्तौ। तौ एवं एवमभ्यासं कुरुतः' इति। एवं विधं कर्म परेषां परोक्षं प्रेममयवाचिककर्मेति उच्यते। प्रेममयमानसिककर्म तदैव सम्भवति यदा परेषामुपस्थितौ वानुपस्थितौ वा स चिन्तयति, - मम प्रियौ बान्धवौ वयुवृद्धौ नन्दियः किम्बिलच्च शत्रुताया जटिलतायाश्च मुक्तौ भवताम्। तौ सुखिनौ भवताम् इति।
महाशय, अस्माकं शरीराणि खलु पार्थक्यं भजन्ति। यतः शरीराणि गोधूमचूर्णवद् वा मृत्तिकावद्वा चूर्णीभवन्ति। तानि कदापि एकतं न भजन्ति। तथापि, अस्माकं चित्तानि निश्चयेन एकत्वं भजन्ति। अयमाशयः - यदा वयमेकत्र सान्निध्यं भजामः, कदापि पृथक् पृथक् न तिष्ठामः, कदापि विवादं न कुर्मः, सर्वदा ऐकमत्यं पोषयामः तदा अस्माकं चित्तानि एकत्वं भजन्ति। अर्थात् चित्तैक्यं जायते।
कथं ते आत्मनां चित्तानि त्यक्त्वा परेषां सेवायै नियोजयन्ति ? तथा हि - कस्यचित् दोषयुक्तं पात्रमस्ति। कस्यचिदस्ति मलिनं वस्त्रम्। कस्यापि चास्ति संस्करणीयं कर्म। अस्यामवस्थायां दोषयुक्तपात्रवान् कथयति "बन्धवः, मम पात्रं दोषयुक्तं। इदं पक्वं करणीयम्" इति। किन्तु अन्ये न वदन्ति 'मम प्रक्षालनयोग्यं वस्त्रमस्ति' इति। अथवा "अस्ति मे तेषां वस्त्राणि प्रक्षालयन्ति, परेषां संस्कारकर्म च कुर्वन्ति। अन्येषु एकतमेनापि प्रथमघोषणायां सदृशी सहयोगिता सम्भवति, 'वान्धव, मम वस्त्राणि मलिनानि, तानि प्रक्षालनीयानि इति। अथवा ममोटजं भग्नदशां व्रजति। तस्य संस्कारः कर्त्तव्य इति। (मज्झिमनिकायटीका, पपञ्चसुदनी, २.२३९-४०)
'सिङ्गालं प्रति उपदेशे' गोतमः गृहस्थं सिङ्गालमुपदिशति - प्रेममयशारीरिकवाचिकमानसिककर्मभिः परिव्राजकान् ब्राह्मणान् च सेवस्व, तेषां कृते द्वारमुन्मुक्तं कुरु, जीवनधारणाय च द्रव्यं देहीति। परिव्राजका अपि सहानुभवानुप्राणिताः सन्तः प्रत्युपकारं साधयिष्यन्ति। टीकायामुच्यते विस्तरेण -
प्रेममयकायिककर्मभिः - इत्यत्र कायिककर्मसु कृतेषु व्यक्तिः यदि प्रेममयं हृदयं सृजति तर्हि तानि कर्माणि प्रेममयानीति। यदा कोऽपि संसारी एवं चिन्तयन् बौद्धमन्दिरं गच्छति, 'अहम् भिक्षुभिः सह आलपामीति,' तत्र च गता जलपात्रं नीत्वा जलं सिञ्चति, भिक्षूणां पदं वा पृष्टं वा संवाहयति - इत्यादीनि कर्माणि प्रेममयकायिककर्माणीत्युच्यते। यदा कोऽपि संसारी पश्यति - भिक्षवो भिक्षार्थं ग्रामं प्रविशन्तीति, स च वदति श्रद्धया तेभ्यः अन्नं वा दुग्धं वा भोज्यं वा देहीति, तदा एवं विधानि कर्माणि प्रेममयवाचिककर्माणीत्युच्यते। किञ्च, यदा स श्रद्धयान्तरिकतया च धर्मं शृणोति, वदति च 'साधूक्तं त्वया'- तदा एवंविधानि कर्माणि प्रेममयवाचिककर्माणिति कथ्यते। यदा कश्चित् गृहस्थः चिन्तयति, 'अस्माकं संसारम् आश्रित्य ये गुरुजनास्तिष्ठन्ति ते शत्रुत्वात् तथा उत्पातात् मुक्ता भवन्तु,' तदा एवंविधं वचनं कारुणिकहृदयप्रसूतकर्म उच्यते।
(दीघनिकायटीका, ३.९५७)
भवचक्रान् महापरिनिर्वाणसंवादे गोतमः भिक्षुमुपदिशति - षट् अवस्थाः सन्ति - याभिः लाभो जायते। (दीघनिकाय, २.८०-८२) तथा हि - परेषां समक्षां वा परोक्षं वा सतीर्थेभ्यः भिक्षुभ्यः प्रीतियुक्क्तकायिकवाचिकमानसिककर्मसम्पादनम्, सतीर्थेषु भिक्षुषु भिक्षालब्धं द्रव्यं विभज्य ग्रहणम्, सदाचारैः व्यवहारः, एकान्ततः दुःखविनाशाय मतपोषणम्। बुद्ध आह - यावत्ते उक्तदशाष्टकं पालयन्ति, तावन्निश्चितं ते उन्नतये कल्पन्ते। टीकायां व्याख्यायते -
प्रीतिस्निग्धकायिककर्माणि तान्येव यानि कारुणिकेन हृदयेन क्रियन्ते। एवमेव करुणाभयमनःसाध्यं वाचिकं कर्म प्रेममयमिति कथ्यते। करुणामयं मनःसाध्यं मानसिकं कर्म प्रेममयमित्युच्यते। अस्मिन् पाठे ईदृशी कर्मसमष्टिः सन्न्यासिनां कृते निर्दिश्यते। तथापि गृहस्थोऽपि तादृशं कर्म कर्तुमर्हति। करुणामयहृदयेनानुप्रेरिताः सन्तः सन्न्यासिनः यदा सदाचारं साधयन्ति तदा तत् कर्म प्रीतिस्निग्धकायिककर्मेत्युच्यते। यदा गृहस्था जनाः श्रद्धाप्रदर्शनार्थं अवशिष्टाधारं गच्छन्ति, अथवा बोधिवृक्षं गच्छन्ति, धर्मसम्प्रदायं निमन्त्रयितुं यान्ति, भिक्षार्थं ग्राममागच्छन्तं भिक्षुमालोक्य तं द्रष्टुं गच्छन्ति, तेषां भिक्षापात्रं गृण्हन्ति, उपवेशनार्थं तान् अनुरुन्धन्ति, तैः सह गच्छन्ति, तदा एवंविधानि कर्माणि प्रीतिस्निग्धकायिककर्माणीत्युच्यते। यदा सन्न्यासिनः कारुणिकचित्तानुप्रेरिताः सन्तः सद चारमुपदिशन्ति, ध्यानविषयं व्याख्यया वदन्ति, धर्ममुपदिशन्ति, तदा एतानि कर्मणि प्रीतिस्निग्धवाचिककर्माणि इत्युच्यते।
किञ्च, बौद्धधर्मशास्त्रं त्रिपिटकं नाम। तत्र बुद्धस्य शब्दाः सन्ति प्रश्नोत्तररूपाः। इदं शास्त्रं प्रेममयवाचिकं कर्म। गृस्थानां प्रीतिस्निग्धावाचिककर्माणि तदैव भवन्ति यदा वदन्ति, 'वयं श्रद्धाप्रदर्शनार्थमविशिष्टाधारं गच्छामः।' वयं पूजार्थं बोधिवृक्षं गच्छमः'। 'वयं श्रवणीयधर्मं श्रोतुमवसरं रचयामः'। 'दीपैः माल्यैः पुष्पैश्च पूजां करवाम।' 'वयं सदभ्यासत्रयं निर्वाहयामः।' (सदाचारः, समाधिः, ज्ञातम्)। 'वयं यथोचितखाद्यादि वितरामः।' 'वर्षर्तौ निभृतवासराताय भिक्षवे उपायनं यच्छामः।' 'अद्य आध्यात्मिकसम्प्रदायव्यवहृतं द्रव्यचतुष्टयं (परिधानं, भिक्षापात्रं शय्या, औषधं च) यच्छामः।' 'आध्यात्मिकसम्प्रदायं निमन्त्रयामः तेषां कृते च कठिनं भोज्यं साधयामः।' 'उपवेशनार्थं तान् आसनं दर्शय।' 'तेभ्यः जलं देहि' 'गच्छ, भिक्षून् पश्य, तैः सह अनुगच्छ। ' 'उपयुक्ते विष्टरे उपवेशनाय तान् साहाय्यं कुरु।' 'यथोत्साहं यथाशक्ति च तान् सेवस्व।' एवमन्यत्रापि बुध्यते। यदा भिक्षवः प्रत्यूषे उत्थाय देहसाधनान्ते अवशिष्टाधारसमीप प्रक्षानार्थं यान्ति, प्रथागतकृत्यानि सम्यादयन्ति, विविक्तस्थाने उपविश्य चिन्तयन्ति - 'बौद्धमन्दिरस्य सन्न्यासिनः सुखिनः भवन्तु। ते शत्रुतायास्तथा जटिलतायाश्च मुक्ता भवन्तु।' इत्येवंविधं तेषां करुणामयमानसिककर्म। यदा गृहस्थाश्चिन्तयन्ति, 'महान्तो जनाः सुखिनो भवन्तु। ते वैरात् उपद्रवाच्च मुक्ता भवन्तु' तदा इत्येवं तेषां करुणात्मकमानसिककर्म।
यदा भिक्षवः परिधेयवसनादिनिर्माणाय नवदीक्षितान् साहाय्यं कर्तुं गच्छन्ति, तदा तत् कर्म परेषामुपस्थितौ प्रीतिस्निग्धशारीरिककर्मेति उच्यते। अपि च, गुरुजनपादप्रक्षालनं श्रद्धया अभ्यर्थनाज्ञापनमित्यादीनि कर्माणि परेषां समक्षं प्रीतिस्निग्धदैहिककर्माणि इत्युच्यते। यदा दीक्षितेषु नवीना वा प्राचीना वा दारुमयद्रव्यादीनि वहिः विशृंखलं परित्यज्य अन्यत्र गच्छन्ति, तदा कश्चिद्भिक्षुः तानि द्रव्याणि सुशृंखलं स्थापयति विरक्तिप्रकाशं न कृत्वैव। स मन्यते यत् उक्तं कर्म तस्य स्वस्येव कर्म। एवंविधं कर्म अपरेषामनुपस्थितौ प्रेममयकायिककर्मेत्युच्यते।' अग्रज देव, अग्रज तिस्स' एते श्रद्धासूचकाः शब्दाः परेषां समक्षं प्रेममयवाचिककर्मणा द्योतकाः। बौद्धमन्दिरे अग्रजदेवस्य अग्रजतिस्सस्यानुपस्थितौ कोऽपि भिक्षुर्यदि एवं वदति - 'अस्माकमग्रजः देवः कुत्र गतः, कुत्र गतः वा अग्रजः तिस्सः। कदा तौ प्रत्यागमिष्यतः ?' तदा एषा उक्तिः परेषां परोक्षं कारुणिकवाचिककर्मेति उच्यते। वयं यदा प्रीतिस्निग्धैः लोचनैः अपरान् द्रक्ष्यामः, तदा तत् कर्म परेषामुपस्थितौ प्रेममयमानसिककर्म। यदि चिन्त्यते 'अग्रजः देवः अग्रजः तिस्सः च पीडायाः च अस्वास्थ्यात् च मुक्तौ भवताम्।' तर्हि एतादृशं चिन्तनं परेषामुपस्थितौ प्रेममयकर्मेति उच्यते। (दीघनिकायटीका, २.५३२-३२)
इयं टीका वर्णयति - 'कारुणिकचित्तानुप्रेरिताः सन्तः भिक्षवः यदा यथायथमाचरन्ति तदा तत् कर्म प्रेममयकायिककर्मेत्युच्यते इति। कारुण्यसौजन्ययोः मिश्रणमुल्लेखार्हम्। थेरवादीव्याख्यानादिदमायाति यत् मङ्गलमये मनसि विचित्रविषयाणामद्भुतं मिश्रणं जायते। हितसाधकं कारुणिकं मनः कतिभिः मानसिकैः गुणैः अन्वितं तिष्ठति। तथा हि - प्रत्ययः, मनस्विता, विवेकः, लज्जा, निर्लोभता, समता, शान्तचित्तता, लघुता, नमनीयता, दक्षता, अभिज्ञता, सरलोन्मुखिता च।'
यथायथमाचरणायानुप्रेरणाशक्तित्वेन विवेचना लज्जा च हितसाधकचित्तेषु वर्तेते इत्युच्यते। विवेचना च लज्जा च स्नायविकं दोषं न सूचयतः किन्तु उपयुक्तव्यवहारप्रवर्त्तकगुणान् सूचयतः। तत्र यथाक्रमं व्यवहर्तुः स्वीयरुचिः अथवा परेषां रुचिः कार्यं करोति। (विसुद्धिमग्ग, १४.१४२) स्नायविकदोषकरणाद्वात्मविद्वेषाद्वादूरे वर्तमानः शुद्धसौजन्यबोधः तयोरनुपस्थितेः उपरि निर्भरं करोति। यदा कश्चिज्जन आत्मविद्वेषं पोषयति अथवा पापव्याकुलतामनुभवति, तदा स विवेकेन लज्जया वा शून्यः जायते। (विसुद्धिमग्ग, १४.९२, १७०) यतः अस्मिन् समये स स्वपक्षे परपक्षे वा यथायथं हितकरं कार्यं न करोति। यतः उपयुक्तनीतिसम्मतव्यवहारः आत्मविद्वेषादिदोषेभ्यो मुक्तेन सौजन्यबोधेन प्रवर्तितो भवति, ततः नीतिसम्मतं ज्ञानं तथाचरणं प्रक्षोभजक्लेशमन्तरेण सम्भवति। मानसिकं साम्यं नमनीयत्वं लघुत्वमात्मविद्वेषादिदुष्टभावपरिहरणमेतेषां प्रसंगे आगतिविनयमवलम्ब्य कश्चिज्जनः विशुद्धव्यवहारं कर्तुं शिक्षते। व्यवहारे कस्यचिन्नरस्य भ्रमे लक्षिते भ्रमस्वीकरणेन च विशुद्धीकरणेच्छया च प्रतिकारो विधीयते, न स्नायविकपीडनेन।
अस्मिन् प्रसंगे, विवेकश्च लज्जा च अपरहितसाधकमानसिकगुणैः सह विरोधं न भजतः। तेषु गुणेषु करुणापि वर्तते। करुणया सह सर्वे एते गुणाः विशुद्धव्यवहारेण सह विराजन्ते। किन्तु तत्र बिन्दुमात्रः कोपोऽपि न तिष्ठति, न पापम्, न वा अमनमनीयता। करुणा, विवेचना, लज्जा च मानसिकसुखबोधाय सममनोभावाय वा सम्पद्यन्ते। (विसुद्धिमग्ग, १४.९३) एवञ्च, सदाचारः करुणया आनन्देन च सह विराजते।
संवादेषु करुणामयकार्यावली समष्टिगतभावेन केवलं धर्माचरणकारिणां कृते आलोच्यते। तत्र बुद्धः आनन्दः अनुरुद्धः किम्बिलः नन्दियः इत्यादीनां परस्परसंवादोऽस्ति। तत्र करुणासमृद्धकर्मसम्पादनाय सन्न्यासिनः प्रति बुद्धस्योपदेशो वर्तते। यतः एतादृशं कर्म तेषामुन्नतये भवति। कारुणिककर्मभिः परिव्राजकानां च विप्राणां च सेवार्थं सिंगलं प्रति तस्योपदेशोऽस्ति। अत्र हेतुः - परिव्राजकाश्च विप्राश्च सहानुभूतिशीलाः सन्तः तमेव उपकरिष्यन्ति। संवादेषु आलोचितानां करुणासिक्तकर्मणां प्रधानाः कर्तारः हि भिक्षवः। तथापि इदमपि अवश्यमेव गम्यते यत् साधारणा जना अपि भिक्षूणां विशुद्धं व्यवहारं तथा उपदेशं गृहीत्वा उपकृता भविष्यन्ति, भिक्षून् प्रति कारुणिककर्मोपदेशानां कश्चिद्दोषः अपि दृश्यते। तथा हि - ते साधारणजनेभ्यः कारुणिककर्मलाभाय प्रलुब्धा भवितुमर्हन्ति। अत्र बुद्धस्य कठोरं विधानमस्ति यत् भिक्षवः यथायथं भिक्षालब्धं द्रव्यं भुञ्जीरन्। ये कारुणिककर्माणि लभन्ते, ते अवश्यमेव सुखं प्राप्नुवन्ति। अत ए हितकरकारुणिकचित्तेन अनुप्राणिताः सन्तः जनाः प्रममयकायिकवाचिकमानसिककर्माणि कर्तुं प्रवत्तन्ते। एतानि कर्माणि सम्पादयन्तः अब्यासकारिणः तस्मिन् क्षणे एव चित्तानुषङ्गं सुखमनुभवन्ति।
क्रमिकानुशासनेषु प्रशंसनीयफलषट्कं वर्णितं बुद्धेन। यत् सर्वविधसापेक्षव्यापारेषु सन्न्यासिसमीपे दुःखबोधनिवृत्तये भवति। (अंगुत्तरनिकाय, ३.४४३) तथा हि -
१. निर्वाणोपलब्धिः सर्वविधसापेक्षव्यापारेषु स्थापिता भविष्यति।
२. मनः सर्वदेशाद् विमुखं भविष्यति।
३. सन्न्यासी निर्वाणरूपां शान्तिं द्रक्ष्यति।
४. मालिन्यं तथा पुनर्जन्म इति सहजाता प्रवणता दूरं गभिष्यति।
५. सन्न्यासिनः सर्वकर्मणां समाप्तिः भवति।
६. सन्न्यासी कारुणिककर्मणा गुरुं सेवितुं शक्ष्यति।
शब्दान्तरमवलम्ब्योच्यते, सर्वविधसापेक्षव्यापारेषु दुःखबोधजागरणात् सन्न्यासी यथा अर्हत्पुरुषो भवितुर्महति तस्य लाभाः जायन्ते।
'करुणायकर्मं इत्यस्य विश्लेषणं करोति टीका -- करुणामयकर्मभिः करुणान्वितसेवाभिः, यस्मात् सप्तविधा शिक्षार्थिनः करुणामयकर्मभिः सदैक्यवन्तं सेवन्ते। येन भिक्षुणा हानिकराः प्रभावा विनष्टाः स सम्पूर्णकारुणिककर्मभिः आचार्यं सेवते।' (अंगुत्तरनिकायटीका, ३.४१५) शिक्षार्थिनः वा अपरेजना वा मार्गाभिज्ञतां लभन्ते। तथा च 'स्रोतःप्रवेशिनः' 'सकृदगामिनः' 'अनागामिनः' 'अनागामिनः' अर्ज्जनस्य मार्गस्य विषयमधिकृत्य ज्ञानमर्जयन्ति, तथापि ते सम्पूर्णं करुणामयकर्मभिः गुरुं न सेवन्ते। किन्तु सम्पूर्णो मुक्तः पुरुषः अर्हज्जनस्य सुखास्वादं प्राप्य गुरुं करुणामयकर्मभि सेवते। सर्वविधसापेक्षव्यापारेषु दुःखात्मकप्रकृतिः अस्ति। तद्विषयकसम्पूर्णबोधात् स पुनः पुनः पुनर्जन्मने आकाङ्क्षां दूरीकरोति। स सापेक्षव्यापाराणामनित्यत्वं चासारत्वं च उपलभते। तस्मात् स पुनरेव कुत्रापि आसक्तिं न दर्शयति अथवा तत्र घृणामपि न प्रकाशयति। स सर्वविधक्ष्यतिकरप्रभावानां विनाशंकरोति। एते प्रभावाः एतावत्कालं तस्य चित्ते आसन्। किन्तु तेषां नाशात् स सम्पूर्णं निर्वाणसुखमनुभवति। स करुणामयकर्मभिः गुरुं सेवितुमलपित्युच्यते। एवमत्र 'करुणामयकर्म' अन्तर्दृष्टिं निर्दिशति, या मानसिकदूषणात् नरं चितं मुक्तं करोति।
तथा च, 'क्षुद्रतरछोटिका'विषयिकी टीका वदति - यदा सन्न्यासी प्रत्यक्षज्ञानगम्यं विषयं प्रत्यक्षं जानाति तदा स प्रेममयं मनः पोषयति। यद्यपीदं गभिरान्तर्दृष्टिद्वारा - निर्वाणोपलब्धिद्वारा प्रेम सृजति तथापि सामान्यार्थयुक्ता करुणा अस्मिन् प्रसंगे न आयाति - धम्मपालेन तदीयटीकायां विशुद्धिमार्गं व्याख्यासु विशदार्थं प्रकटितः।
प्रेमकरुणादयः ये मानसिकगुणा इन्द्रियवद्भिः प्राणिभिः सह सम्बन्धं स्थापयन्ति ते विषयत्वेन न आयान्ति यदा ध्यानिनः मनः निर्वाणं लभते। क्रमिकानुशासनेभ्यः उद्धृतस्य प्रागुक्तस्यानुच्छेदस्य आलोचनायाम् सान्तर्दृष्टिकरुणायाः रूपकाश्रितं समीकरणं सूचयति यत् सदृशभावापन्नः व्यवहारः क्षुद्रतरछोटिकाटीकायामस्ति। या परवर्त्तिनीं टीकां धम्मपालस्याभिमतेन सह संगतिसम्पन्नां करोति।
टीकां अनुसृत्य कथ्यते यत् प्रेममयी करुणा पर्यायत्रयेऽवतिष्ठते। तथा हि - प्राथमिकपर्याये, प्रवेशपर्याये, समाधिपर्याये च। तथापि 'करुणायाः' उपर्युक्तं रूपकाश्रितं व्यवहारमन्तरेण, संवादेषूल्लिखिताः सर्वे करुणासम्पर्कितदृष्टान्ताः निःसंशयं वा ससंशयं वा समाधेः प्रवेशपर्यायस्य अथवा स्थापनालकपर्यायस्य च शक्त्या सह विराजन्ते। इदं करुणात्मकतायाः च करुणायाःच प्रयोगे पार्थक्यं करोति। द्वितीयां मानसिख़ीमवस्थां सूचयति या करुणाशक्ति धारयति - प्राथमिकपर्यायात् स्थापनापर्यायं यावत्।
क्रमिकानुशासनेषु गोतमः भिक्षूणुपदिशति यत् करुणया वा मानसमुक्त्या वा सह तुलनीयं न कर्मापि विषयं स पश्यति। करुणायाः क्रोधप्रतिरोधसामर्थ्यमस्ति, क्रोधदूरीकरणसामर्थ्यमपि अस्ति। (अंगुत्तरनिकाय, १.४) गोतमः भिक्षून् आह - यदि ते मुक्तिप्रधानां करुणां प्रति सयत्नं मनोयोगं ददति, तर्हि क्रोधो न जायते अथवा जातः क्रोधोऽपि दूरं गच्छति। टीकायामुच्यते प्रीतिः कथं मनसः मुक्तिः भवितुमर्हति।
मनसः मुक्तिर्हि प्रीतिः तथा करुणा। एषा एव करुणा मङ्गलकामनया इन्द्रियवद्भिः जीवैः सहः सम्बन्धत्वात्। किञ्च, यतः सकरुणं मनः प्रतिबन्धकादिविरुद्धगुणेभ्यः मुक्तं भवति, ततः अयं व्यापारः मनसः मुक्तिरिति कथ्यते। निर्दिश्य कथ्यते, क्रुद्धजनस्यापि करुणायां सञ्जातायां मनसः मुक्तिः भवति। अस्मिन् प्रसंगे, कियता परिमाणेन इयमेव करुणा तस्याः प्राथमिकं रूपमपि विषयोपयोगि। तथाप्यत्र, 'मनसो मुक्तिः' इति कथनेन स केवलं करुणास्थापनापर्यायं सूचयति।
(अंगुत्तरनिकायटीका, १.४७)
यदि कश्चिज्जनः विपदोऽपरेषामुद्धाराय करणत्वं व्रजति तर्हि स तेषां 'मुक्तिः' इत्युच्यते। अत्र हेतुरेव फलम्। एवञ्च, यदा करुणा यथारीति ध्यानमग्नतायै कृष्यते, इयं निश्चयेन निवारणेभ्यः मनः मोचयति। यतः क्रोधान्मनसो मुक्तये करुणाया विशिष्टा पटुतास्ति, तत इयं फलनाम प्राप्नोति, 'मनसो मुक्तिः'।
प्रथमा निमग्नता निवारणेभ्यो मुक्ता। अस्याः पञ्च मुख्यानि उपादानानि सन्ति। तथा हि - वस्तुनि प्राथमिकमनःसंयोगः (वितक्क), वस्तुनि मनोयोगस्थापनम् (विचार), प्रीतिः (पीति,) सुखम् (सुख), समाधिः (समाधि) च। (विसुद्धिमग्गः ४.१०७) गभीरः समाधिः अत्यन्तमानन्दः चेति अनयोः मिश्रणेन मानसिकी दशा अस्वाभाविकी इति दृश्यते। स्वाभाविकीषु अवस्थासु, यदा एको नरो मनःसंयोगं करोति, तदा एतावन्निष्पेषणं तिष्ठति यत् परमसुखं न सम्भवति। प्राथमिकनिमग्नतालाभाय विनयनव्यापारे सा शिक्षा क्रियते यत्र प्रचेष्टायाः शक्तिः च समाधेः स्थिरता च इत्यनयोः मध्ये समता स्थाप्यते। फलतः, तीव्रस्य अथ च उद्वेगमुक्तस्य मनसः समाधिः सम्भवति। अस्यामवस्थाया परमसुखस्य नवीनाभिज्ञता जायते।
यथायथसमाधये समतासम्पन्नप्रचेष्टया प्रयोजनमस्ति। तत्प्रकृतिविश्लेषणाय विशुद्धिमार्गे बुद्धघोषः एकं सुन्दरं दृष्टान्तं ददाति। भारतीयाः शल्यविदः जले भासमानेषु पद्मपत्रेषु शल्यक्रियाकरणाय शिक्षां ददति। (विसुद्धिमग्ग, ४.६८) अत्युत्साही शिक्षार्थी तत्पत्रं निमग्नं करोति अथवा तत्पत्रं सम्पूर्णं द्विधा कृन्तति। भीतिप्रवणस्तु पद्मपत्रे बलस्य प्रयोगाय समर्थो न भूत्वा तत्पत्रकर्त्तनाय व्यर्थो भवति। अत्र सफलस्य शिक्षार्थिनः समतासम्पन्ना शक्तिरस्ति। स पद्मपत्रं निमग्नं न कृत्वापि तत्पत्रं सम्पूर्णं कर्त्तितुमर्हति। एवञ्च समाधिलाभप्रचेष्टा समतासम्पन्ना भवेत्। तत्र अत्युद्वेगस्तथा अतिगुरुता न स्थास्यति, पुनश्च, न स्थास्यति अतिलघुता तथा स्वप्नालुता। समरूपसम्पन्नसमाधिलाभाय विनयश्च यत्नश्च करणीयौ। अत एव परमसुखेन सह मुक्तप्रेमास्वादः दुर्लभः।
मानसिकविषयध्यानकाले 'प्राथमिकमनःसंयोगः' (वितक्क) समभावेनैव ध्यानगतवस्तुषु मनसः च आनुषंगिकमानसिकविषयाणां च स्थापनं करोति। समाधेः अस्मिन् पर्याये इदमेव एषां मानसिकानां विषयाणामपूर्वं वैशिष्ट्यम्। प्रत्युत, आसक्तिः मानसवस्तूनि आकर्षति। (विसुद्धिमग्ग, १४.१६२) किञ्च, आसक्तिः सर्वदा व्याकुलतया सह वर्तते यत्र विह्वलतायाः प्रावण्यं दृश्यते। आसक्त्या स्थायिहताशाबोधः संश्लिष्यते, यत आसक्त्याः सदावर्त्तमाना सहचरी व्याकुलता साभिप्रायमिलनसाधकलक्ष्यस्य उपलब्धये प्रतिबन्धकतां सृजति।
प्राथमिकमनःसंयोगस्य (वितक्क) 'स्थापनम्' (अप्पन) इति आख्यापि तिष्ठति। यस्मात् वस्तुषु मनःस्थापनशक्तिरस्य वर्तते। (मज्झिमनिकाय, ३.७३)। तथापि, मनसः च मानसविषयाणां अ ध्यानमग्नताशक्तिरस्ति ततः, मनसा सह ते सर्वे विषयाः स्थापनाभिधानेन विशिष्यन्ते। एवमुपर्युक्तायां टीकायाम्, 'स्थापना' (अप्पन) ध्यानमग्नतापर्यायगतकरुणां सूचयति यत्र सदृशी शक्तिरस्ति।
मनोमुक्तिसाधनाय करुणायै वा ध्यानिना पुरुषेण अवलम्बनीयाः पर्याया विसुद्धिमग्गे विस्तरेणालोचिताः। (९मः अध्यायः) समासतः, पोषं गतायाः करुणायाः सामान्यीकरणार्थं तथा निविडतापादनार्थं पद्धतिस्तत्र वर्णिता। नवदीक्षित आत्मानं गृहीत्वैव साधनामार्गाभिमुखं गन्तुमरभते। स इच्छति 'अहं सुखी भवानि, अहं वरान्मुक्तो भवानि' इति। ततः, स यथा सुखी भविष्यतीति कामयते, तथा अन्येऽपि कामयन्ते इति अवबुध्य स स्वभावतः अपरेषां मङ्गलं कामयते। ततः, स प्रियधर्मगुरुषु अन्यतमाय करुणां पोषयितुम् आरभते। इदमुच्यते यत् अभ्यासकारी तदीयगुरुदेवस्य उत्साहवर्धकं प्रियं वाक्यं स्मृत्वा, प्रशंसनीयव्यवहारम् दृस्त्वा, उपयुक्तशिक्षणं प्राप्य च अनायासेनैव तस्मै करुणार्पणाय समर्थो भवति। ततः अभ्यासकारी पर्यायक्रमेण प्रियमित्राय करुणार्पणाय चेष्टते। (नवदीक्षितानां क्षेत्रे विपरीतलिङ्गता परित्याज्या) तथा च चेष्टते निरपेक्षजनाय च शत्रुमनोभावापन्नजनाय चापि। अयमाशयः - स सर्वेषु जनेषु करुणाया विस्ताराय तदीयचित्तं सम्पूर्णं नमनीयं दक्षं च साधयति। अत्रेदं सम्भवति यत् अभ्यासकारी शत्रुभावापन्नं जनमनुस्मृत्य आत्मनि शत्रुतां पोषैष्यति, अस्य प्रतिरोधाय, जातवैरस्य अन्यत्र स्थापनाय तथा तत् सम्भावनाह्रासाय बुद्धघोषः कतिविधान् विमर्शान् कथयति। अत्र एषु विमर्शदयमालोच्यते।
प्रथमतः, नरः तदीयकर्मफलमुत्तराधिकारात् प्राप्नोति। (विसुद्धिमग्ग, ९.२३-२४) अभ्यासकारी यदि वैरं पोषयति तर्हि स पर्यवेक्षते यत् स तत्क्षणात् विद्वेषमिश्रितं मानसिकं दुःखं प्राप्नोति। (विसुद्धिमग्ग १४.९२) पुनश्च, स भविष्यति अधिकतरवैरसृष्टये हेतूनाविस्करोति। तस्मात्, मरणात् परं दुःखमय-पुनर्जन्म यथा भवति तथा च व्याहता भवति आध्यात्मिकसमृद्धिः। अत्र स यदि वैरं त्यजति, तर्हि स स्वयं विद्वेषमिश्रितआनसिककष्टात् मुक्तो भविष्यति। किञ्च, स भविष्यति स्वल्पवैरसृष्टये हेतून् सृजति। तेन तस्य पुनर्जन्म सुखकरं भवति, आध्यात्मिकी समृद्धिरपि भवति। अपि च, यद्यपि कश्चिद् वैरी उपर्युक्तैः सर्वैः उपायैः अभ्यासकारिणमपकर्त्तुं याति, तथापि वैरिजनं प्रति प्रतिहिंसा न कर्त्तव्या। यतः कश्चित् जनः अपरस्य यत्परिमाणमपकारमिच्छति तदपेक्षयाधिकतरं दुःखं स प्राप्नोति, प्राप्स्यति च प्रतीत्यसमुत्पादततस्य प्रभावात्।
द्वितीयतः, नैतादृशः कोऽपि जनः यः कस्मिंसिचित् समये कस्यापि न माता पिता भगिनी भ्राता वा भवति। (विसुद्धिमग्ग, ९.३६) यस्मात् पुनर्जन्म अस्माकं पश्चात् अनिर्दिष्टकालं वितत्य तिष्ठति, तस्मात् अद्य पृथिव्यां न कोऽपि जनः अस्ति योऽस्माकं निविडं सम्बन्धं नागतः। अस्माकं मातृरूपेण या व्यक्तिः एकदा अस्मान् तस्याः अङ्के स्थापयित्वा, आपत्तिशून्यानस्मान् परिष्कृत्य, सर्वविधमपचयं स्वीकृत्य अस्मान् सयत्नं पालयामास, अथ च तां प्रति अधुना वयं शत्रुतां पोषयामः। पितृरूपेणायं जनः अस्माकं पालनाय दीर्धं कालं कठोरं श्रमं चकार। अस्माकं भगिनीरूपेण वा भ्रातृरूपेण वायं जनो विविधैः उपायैः अस्माकं सहायतां जगाम। एवम्, एतादृशं जनं प्रति वैरं न कर्त्तव्यम्, यतः अतीते काले स जनः अस्माकं कृते उपकारं चकार।
एवंविधाभिश्चिन्ताभिः मनःसंयोगात् अभ्यासकारी शत्रुजनं प्रति करुणापोषणकाले जातक्रोधस्यान्यत्र स्थापनाय पटुतरः जायते।
शत्रुताया विनाशं कृत्वा तथा कांश्चित् मानसिकीं समता प्राप्य अभ्यासकारी तं प्रति करुणां पालयितुम् अग्रसरो भवितुमर्हति। यां करुणां स आत्मने अनुभवति, गुरुदेवाय, निरपेक्षजनाय चानुभवति सा करुणैव अस्मै जनाय कर्त्तव्या अभ्यासकारिणा जनेन। एवं सोऽभ्यासकारी एतेषां विषयमधिकृत्य करुणासंक्रान्तां तीव्रामभिज्ञतामवश्यमेव रचयेत्। ततश्च, स शत्रुजनं प्रति करुणां नयति। अनेन अभ्यासेन ध्यानी पुरुषस्ः स्वभावत एव सर्वजीवहितेच्छया कर्माणि आचरितुं यतते।
यदि अभ्यासकारी आत्मनि, प्रियमित्रे, निरपेक्षजने, शत्रावपि करुणां पालयितुं सफलो भवति, तर्हि तेन आत्मपरभेदबाधः भग्नः जातः इति उच्यते। (विसुद्धिमग्ग, ९.४०-४२) अयं व्यापारः प्रवेशपर्यायगतकरुणालाभं सूचयति। ततः अभ्यासकारी करुणायाः स्थापनपर्यायं याति। तेन करुणा गभीरा च एकनिष्ठा च भवति। तत्र प्रवेशक्षमा शक्तिरस्ति इत्युच्यते। ततः अभ्यासकारी तथारीति करुणायाः परिसरमागतानां जीवानां संख्यां वर्धयति। तथा च स उत्तरोत्तरं सार्वलौकिकं पर्यायं यावत् करुणां नेतुं यतते।
सगोत्रीयवचनेषु आत्मा मनिभद्दः गोतमं प्रति श्लोकं वदति -
मनस्वी जनः सर्वदा भाग्यवान्।
मनस्वी जनः सुखं पश्यति।
मनस्विजनाय आगामिकल्यं सुन्दरतरम्।
स वैरात् प्रमुच्यते।
(संयुत्तनिकाय, १.२०८)
गोतमः प्रतिवदति -
मनस्वी जनः सर्वदा भाग्यवान्।
मनस्वी जनः सुखं पश्यति।
मनस्विजनाय आगामिकल्यं सुन्दरतरम्।
स वैरान्न प्रमुच्यते।
स हानिहीनतायां नन्दति
समग्रं दिवसं समग्रां रजनीं च
स सर्वेषु जीवेषु स्निह्यति।
तस्य कस्योपरि वैरं नास्ति।
(संयुत्तनिकाय, १.२०८)
गोतमस्य श्लोका निर्दिशन्ति यत् यो जनो मनस्वितायाः अनुशीलनं करोति स वैरात् न मुक्तो भवति। किन्तु यो जनः हानिहीनतायां नन्दति सर्वदा, सर्वेषु जीवेषु च स्निह्यति स वैरान्मुक्तो जायते। कस्यचिज्जनस्य चिन्ता तिष्ठति अहं मनस्वीति। कियता परिमाणेन इति न विषयः। स वैरात् न मुक्तो भविष्यति इति टीका स्वीकरोति। (संयुत्तनिकायटीका, १.३०५) टीका विश्लिष्यति यत् बुद्धेनोच्चारिते द्वितीये पद्ये उद्दिष्टो जनः अर्हत्पुरुषः। स प्रेम च करुणां च मनसि पालयति। स एव वैरात् मुक्तो भवति। अस्याः टीकायाः कोऽर्थ ?
विशुद्धिमार्गमनुसृत्य कथ्यते यत् मनस्विता सावधानता वा हितकरो मानसिकः विषयः। (विसुद्धिमग्ग, १४.१३३) टीकासु अयं निश्चयो (सवितर्कमुच्यते कस्मिंश्चिदुपटीकायाम्) यत् हितकरमानसिकविषयाः अहितकरमानसिकविषयैः सह स्थातुं न शक्नुवन्ति। यदा मनस्विता वा सावधानता वा इत्याख्यः हितकरो मानसिको विषयः अस्थायिभावेन उपस्थितस्तिष्ठति तदा कोऽपि अहितकरो मानसिको विषयो न तत्र स्थातुम् अर्हति। एवं यदि अभ्यासकारी पुर्वतनक्रोधमुहूर्त्तं चिन्तयति, तर्हि तस्य मनः वर्त्तमाने मुहूर्त्ते स्वभावत एव क्रोधान्मुक्तं भवति। स हितकरमनोयुक्तः यदा भवति तदा स त्रयोदशमानसिकगुणैः अन्वितस्तिष्ठति। ते सर्वदा हितकरमनसा सह वर्त्तन्ते। तथा हि - प्रत्ययः, सावधानता, विवेकः, लज्जा, घृणाशून्यता, निर्लोभता, समप्राणता, शान्तचित्तता, लघुता, नमनीयता, दक्षता, विशेषज्ञता, ऋजुता। (विसुद्धिमग्ग, १४.१३३) सः अनुभवद्वयस्य एकतरस्याभिज्ञतां लभते। तथा हि मानसिकं सुखं समवृत्तिता च। एतौ अनुभवौ हितकरमनसा अन्वितौ तिष्ठतः। (विसुद्धिमग्ग, १४.८३)
योऽभ्यासकारी मनस्वितां सावधानतां वा पोषयति, स भविष्यति काले सदृशीं हितकरीं प्रवणतां सृजति, ईदृशस्य जनस्य कृते 'आगामिकल्यं सुन्दरतरम्' इति। तथापि, गोतमस्य मते, मनस्वितया शत्रुतायाः अन्यत्र स्थपनं न पर्याप्तम्, मनस्वी सावधानी वा जनः शत्रुताया मुक्तः न भवति।
अन्येषु प्रसंगेषु करुणा मानसमुक्तिरिति कथ्यते। अत्र हेतुः - ध्यानमग्नतापर्याये मानसमुक्तौ सत्यां सा मुक्तिः अल्पकालं मनः क्रोधमुक्तं करोति। (अंगुत्तरनिकाय टीका, १ मः, ४७)
योऽभ्यासकारी ध्यानमग्नतापर्यायं व्याप्य दक्षतया करुणां पोषयति, स स्वयं क्रोधमुक्तो जायते। तथा च, ध्यानमग्नतया सह परमसुखं भुञ्क्ते। अपि टीकाकाराः गोतमोक्तश्लोकस्य निम्नरूपां व्याख्यां कुर्वन्ति तथा हि - वैरिभावात् यथायथं मानसमुक्तिसाधनाय करुणा ध्यानमग्नतया पोषयितव्या। एषा सम्भावना परित्यक्तुं शक्यते। यतः, मनस्विता अन्यत्र स्थापनेन मनः केवलं स्वल्पकालं वैरात् मुक्तं करोति। एषा मनस्विता न वैरात् सन्तोषावहा मुक्तिः। एवमेव करुणा अवदमनेन स्वल्पकामं मानसमुक्तिं साधयति। एषापि वैरात् सन्तोषावहा मुक्तिः भवितुं नार्हति।
टीका तु पृथग्भावमवलम्बते। टीका व्याख्याति यत् प्रथमे श्लोके उद्दिष्टः जनः अधुनापि 'अहं मनस्वी वा सावधानी वा' इति चिन्तया मनस्वितानुशीलनं करोति (संयुत्तनिकाय, १.३०५) तेन न आत्मनोऽसारा प्रकृतिः उपलब्धा। स नोपलब्धिं करोति यत्, मनस्वितानुशीलने, सापेक्षविषयः अपरसापेक्षविषयं पश्यति (विसुद्धिमग्ग, २०.८३) स नोपलब्धिं करोति यत् केवलमनित्या मानसिकाः शारीरिकाश्च पदार्था वर्तन्ते। तत्र कस्मिंश्चिदपि पदार्थे न चिरस्थायी आत्मा दृश्यते। ईदृशो जनः भ्रान्तं मतं, पदचेतनामाकाङ्क्षां च न निराकर्तुं शक्नोति (विसुद्धिमग्ग, २०.८३) स आशाभग्नः सञ्जातवैरात् न मुक्तो भवितुमर्हति।
द्वितीये श्लोके उद्दिष्टो जनः (अभ्यासकारी) सम्पूर्णमुक्तार्हत्पुरुष इति व्याख्यायते। स सर्वविधसापेक्षवस्तूनामनित्यत्वं प्रत्यक्षीकरोति। सोऽनुभवति यत् परमार्थतः नित्यः सारभूतः च 'अहम्' नास्ति, योऽहं दैहिकभूतेषु मनसि वा सर्वत्र दृश्यते। सः 'अहमस्मि' अहमस्मि ममन्स्वी' - एवंविधया चिन्तया न पुनः बद्धः तिष्ठति। (संयुत्तनिकाय, ३.१२६-३२) अर्हत्पुरुषः वैरेण सह सर्वविधमानसिकदूषणेभ्यः आत्मानं चितं मोक्तुमर्हति। (विसुद्धिमग्ग, २२.६४-७७, १२२) स सर्वदा प्रेम च करुणां च पालयितुमलम्। वैरात् तस्य मुक्तिः परिपूर्णा।
क्रकचदृष्टान्तसंवादे गोतमः विविधासु अवस्थासु कारुणिकचित्तलालनेन प्रयोजनमुपदिशति। (मज्झिमनिकाय, २.१२६-२९) बुद्धः भिक्षूनाह यत् तेषां सम्बोधनं पञ्चधा भविष्यति। तथा हि - उपयुक्तसमये अथवा अनुपयुक्तसमये, सत्यमनुसृत्य अथवा असत्यमनुसृत्य, कार्कश्येन अथवा माधुर्येण, लाभजनकतया अथवा अलाभजनकतया, कारुणिकचित्तवद्भिः अथवा क्रोधयुक्तैः। गोतमः भिक्षून् ज्ञापयति यत् येनोपायेनैव तेषां सम्बोधनं भवतु वा न वा, ते करुणामयं चित्तं पालयेयुः। स तेषां विनयनं विश्लिष्यति -
अस्माकं चित्तानि उन्मार्गगामीनि न भवन्तु। वयं कुवाक्यं न वदिष्यामः। वयं परेभ्यः हिताय सहानुभव पोषयिष्यामः। अस्माकं चित्तानि प्रीतिस्निग्धानि भविष्यन्ति, क्रोधमुक्तानि भविष्यन्ति। चित्तगतकरुणया वयम् आह्वायकेन जनेन सह सम्बन्धस्य छेदं न करिष्यामः। समग्रं जगदस्माकं कारुणिकचित्तानां गन्तव्यं स्थलम्। तेन जगता सह अस्माकं सम्बन्धः दृढः भवतु। चित्तानि भवन्तु प्रशान्तानि, वैरात् मुक्तानि, विशालानि, विस्तृतानि, परिमाणशून्यानि च। (मज्झिमनिकाय, १.१२७) यादृशी करुणा भिक्षूणां तिष्ठतु तामेव भिक्सवः जनाय पोषयेत्। ततश्च करुणायाः सामान्यीकरणं कर्त्तव्यम्।
टीका यथाशब्दं व्याख्याति - 'समग्रम्' सर्वसचेतनजीवसमेतम्, 'जगत्' सचेतनानां जीवानां स्थानम्, 'विशालम्' यस्य विषयत्वेन सचेतनजीवगणस्तिष्ठति, 'विस्तृतम्' अस्तित्वरक्षायै विस्तृता भूमिरस्ति, 'परिमाणशून्यम्' यतः इदमुत्कृष्टम्, वैरान्मुक्तम् क्रोधं विना, 'निरुद्विग्नम्' दुःखशून्यम्। (मज्झिमनिकायटीका, २.२००)
अत्र वर्णितं चित्तं विस्तृतम्, यस्मात् अस्तित्वसूचकसमग्रभूमिरेवास्याधिकारे वर्तते, रूपमयं तथा रूपहीनं जगत्। (विशुद्धिमग्ग, ४.२३, १२) यदा चित्तं ध्यानमग्नतापर्यायं यावत् कृष्टं भवति, तदा तत् चित्तं जगत्परिवर्तनं करोतीति कथ्यते। इदं रूपमयं सूक्ष्मजगत् प्रविशति यदि ध्यानमग्नातायाः प्रथमपर्याय - चतुष्टयं व्याप्य कृष्यते। अथवा इदं रूपहीनं सूक्ष्मतरं जगत् प्रविशति यदि आधिक्येन कृष्यते। अनेन जगता सह अन्वितस्य मनसः अवस्था विस्तृताः। यतः स्वल्पकालमपि दूषणपरिहाराय महत् सामर्थ्यमस्ति; अपि च, तत्पक्ष् महदुपायनमपि अस्ति। (टीका, ५८) यस्मात् करुणा ध्यानमग्नतायाः आद्यपर्यायत्रये स्थातुमर्हति (विसुद्धिमग्ग, ११.१११) तस्मात् अत्र विस्तृतपदेन त्रयाणामेकतमं बुध्यते।
अत्र प्रबन्धे, करुणामयं चित्तं 'परिमाणशून्य'मिति अपि वर्ण्यते। सामान्यतः, यः समाधिः साधु कृष्यते तथा ध्यानमग्नतायाः प्रथमे पर्याये तिष्ठति, अन्येषु पर्यायेषु अपि, स समाधिः परिमाणशून्यः इति कथ्यते। (विसुद्धिमग्ग, ३.२०) प्रथमपर्यायमन्तरेणापि उच्चतरपर्याये समाधिः एतामाख्यां प्राप्नोति, यतः अस्मिन् समये समाधिः इन्द्रियतृष्णादिमयजगतः सर्वविधसीमावद्धताभ्यः मुक्तः भवति। (टीका, २.५८-८९) या इयम् आख्या ध्यानमग्नतापर्यायगतसमाधिं निर्दिशति सा तत्रैव पर्याये करुणान्वितचित्तं सूचयति।
एवमस्मिन् संवादे गोतमो भिक्षूनुपदिशति यत् ते ध्यानमग्नतापर्यायं यावत् करुणां पोषयेयुः। यदि ते ध्यानेन कियता परिमाणेन - करुणाकर्षणे सफलाः भवन्ति तर्हि तेषां चित्तानि करुणया युज्यन्ते, सकरुणैः अपरैः गुणैः अपि (विसुद्धिमग्ग, १२.३०) ध्यानपरवर्त्तिसमये ते हितकरचित्तेन सह भारसाम्यं स्थापयन्ति तथा च मानसिकं सुखं वा समवृत्तित्वं वा अनुभवन्ति। तेषामुपरोधो दुःसाध्यः।
क्रकचदृष्टान्ते गोतमः कारुणिकचित्तस्य बलस्य च स्थायित्वस्य च दृष्टान्तं कथयति। स भिक्षून् पृच्छति - को जनः युष्मासु खननेन वा मूत्रत्यागेन वा पृथिव्या विनाशं कर्तुं समर्थः भविष्यतीति। नेति तेषां प्रतिवचनमासीत्। यस्मात् पृथिवी गभीरा अपरिमेया च (अप्पमेय्य)। ततः गोतमः पृथिव्याः अभेद्यता कारुणिकचित्तस्य शक्तिः इत्यनयोः मध्ये तुलनां प्रदर्शयति। स भिक्षूनाह - अपि कोऽपि भिक्षुः पञ्चसु उपायेषु अन्यतममवलम्ब्य अपरेण सह आलपेत् ? अपि स प्रेममयं चित्तं पालयेत् ? अथवा अपि ते करुणार्द्रहृदयेन अपरजनेन सह सम्बन्धं स्थापयेत् ? भिक्षुभिः निम्नोक्तोपायेन विनयनं कर्तव्यं -
सर्वैः जीवैः सह यत् जगत् तत् सर्वमेव कारुणिकचित्तस्य लक्ष्यस्थलं विधाय वयं चित्तेन समग्रेण जगता सह सम्बन्धं स्थापयितुमलम्। जगदिवेदं चित्तमक्षोभं वैरान्मुक्तं विशालं विस्तृतं परिमाणशून्यं च। (मज्झिमनिकाय, १.१२७)
यथा कोऽपि जनः खनित्रेण च पात्रेण च विशालपृथिवीविनाशाय न समर्थः भवति, तथा पञ्चविधानि वचनानि प्रतिकूलतया करुणार्द्रचित्तवन्तं जनं अभिभवितुं न शक्नुवन्ति। (मज्झिमनिकाय, २.२००) पृथिवी यथा आक्रमणं निराकरोति गभीरत्वात् अपरिमेयत्वात् च, तथैव करुणार्द्रचित्तम्।
तद्वत्, गोतमः भिक्षूनपदिशति यत् ते करुणां पालयिष्यन्ति। तथाकरणेन तेषां चित्तमखण्डदेशवत् अवर्णनीयं भविष्यति, गङ्गावत् भविष्यति अदहनीयम्। ऊर्णामयखण्डेन घर्षणात् सुस्यूतः विडलचर्मपुटः कर्कशः न भवति। भिक्सवो यदि इममुपदेशमनुसरन्ति, तर्हि तेषां चित्तं सहसा प्रलुब्धं, प्रदीप्तं कर्कशं च न भविष्यति।
सगोत्रीयवचनेषु गोतम उपदिशति यत् यस्मिन् गृहे बहवः स्त्रीलोकाः किन्तु अत्यल्पाः पुरुषास्तिष्ठन्ति, तत् गृहमनायासेन आक्रान्तं भवति। तद्वत्, यो भिक्षुः करुणारूपमनोमुक्तिं न साधयति स निश्चितममानुषीभिः शक्तिभिः उपद्रुतः भवति। (संयुत्तनिकाय, २.२५४) अन्यतश्च, यस्मिन् गृहे बहवो नराः किन्तु अत्यल्पा नार्य्यः तिष्ठन्ति, तद्गृहं सहसा दस्युभिः आक्रान्तं न भवति, तथा यो भिक्षुः करुणारुपमनोमुक्तिं साधयति सः अमानुषीभिः शक्तिभिः अभिभूतः न भवति। ततः स भिक्षून् करुणानुशीलनाय उपदिशति।
संवादानां पञ्चमसंग्रहे 'करुणासंवादे' गोतमः भिक्षूनुपदिशति कथं ध्यातव्यमिति, येन ध्यानेन दुष्टग्रहभयं न तिष्ठति, भिक्षवः तैश्च उपद्रुताः न भवन्ति (खुद्दकपाठ २३२-३५)-
लाभजनकेषु अभ्यासेषु दक्षः जनः किं कुर्यात्
यदा स शान्तिपूर्णां दशां जानाति ?
स समर्थः, सज्जनः, सरलोऽथच दृढः,
ग्रहणक्षमः, नमनीयः विनीतः,
सन्तुष्टः, सुखेन पुष्टः भवेत्,
स्वल्पकर्मभिः स्वल्पवस्तुभिः,
समर्थैः इन्द्रियैः, ज्ञानी
कर्मणि विविच्य संसारिणश्चानुकृत्य स कदापि न नीचाचरणमाचरेत्।
तदाचरनं ज्ञानिजनकर्तृकगुणदोषविवेचनं जनयति।
(स एताः कामनाः पालयेत्)
'सर्वे जीवाः सुखं निर्भयं च वसन्तु।
ते सर्वे हृदयेन सुखिनः भवन्तु।
य एव प्राणवान् जीवः,
स्थिरो वा अस्थिरो वा व्यतिक्रममन्तरेण,
दीर्घोऽथवा विशालः
मध्यमो ह्रस्वः सूक्ष्मोऽसूक्ष्मो वा
दृश्यो वा अदृश्यो वा,
दूरवर्त्ती वा निकटवर्ती वा
जीवो यो वा जनिष्यते
ते सर्वे हृदयेन सुखिनो भवन्ति।
कोऽपि जनः अपरं जनं न प्रतारयेत्।
कोऽपि जनः कस्यापि समीपे कुत्रापि च
सम्मानात् गर्वितो न भवेत्।
केनापि अन्यजनहानिचिन्ता न करणीया।
क्रोधाद् वा विद्वेषाद् वा
सर्वान् जीवान् प्रति असीमं चित्तं पालयेत्।
यथा माता स्वीयजीवनव्ययेनापि एकमात्रं पुत्रं रक्षति।
असीमं प्रेममयं चित्तं पोषयेत्
बाधं क्रोधं विरोधं वान्तरेण
समग्रं जगत् प्रति
उपरि, अधः, पार्श्वात् पार्श्वान्तरम् च।
दण्डायमानावस्थायां, वचरणे, उपवेशने शयने वा स मनस्वितामवलम्ब्य दृढसंकल्पो भवेत्।
अत्रायमेवोदात्तो भावः प्रकीर्तितः।
मिथ्यामतं परिहाय
सत्यमाचरणं तथा सत्यदृष्टिमवलम्ब्य
काम्यवस्तुषु आसक्तिं दूरिकृत्य
स नूनं न नवगर्भं गमिष्यति।
(खुद्दकपाठ, ८-९)
टीकाया मते यदा भिक्षावः उक्तसंवादगतविषयमवगत्य तस्य उपदेशान् अनुसरन्ति तथा करुणां पोषयन्ति तदा विघ्नकारिणः देवाः कमपि विघ्नं न सृष्ट्वा सन्तुष्टाः सुखिनः सहयोगिनः सहायकाश्च भवन्ति। (खुद्दकपाठ, २५२) एवं दैवशक्तीनामभिभवाय करुणायाः सामर्थ्यमस्ति विशाखानामधेयस्य भिक्षोः उपाख्यानेनास्य मतस्य समर्थनं क्रियते, यस्य करुणाशीलनात् अमानुष्यः शक्तयः तस्य सन्निधौ परस्परं शान्तिपूर्णभावेन वसन्ति। (विसुद्धिमग्ग, १.६४-६९) ताः शक्तयो यदि करुणानुशीलनकारिभिः भिक्षुभिः सह सहयोगितां न कुर्वन्ति, तथापि ता भिक्षूनपकर्त्तुं न शक्ष्यन्ति। संगोत्रीयवचनेषु गोतमो वदति - यदि अमानुष्यः शक्तयः करुणारूपमनोमुक्तिसाधनकारिणां भिक्षूणाम् उपद्रवं कुर्वन्ति, तदा वा एव परिश्रान्ता भविष्यन्ति। (संयुत्तनिकाय, २.२६५)
तथापि, अभ्यासकारी भयाद्वा दास्याद् वा अमानुषीभिः शक्तिभिः सृष्टादुपद्रवाद्रक्षणं न कामयते। वरं भयासक्तिगर्वादीन् दोषान् परित्यज्य मनोमुक्तिरूपकरुणां कर्षति - उदात्तभावम्। (अंगुत्तरनिकायटीका, २.४७; विसुद्धिमग्ग. ९.४४) ततः तस्य चित्तं स्थिरं साम्यापन्नं तथा परमसुखमयं भवति। (विशुद्धिमग्ग. ९.१११) तथा च तत् चित्तं सर्वविधमानसिकविपत्तिप्रतिरोधकारि भवति।
इदमुच्यते यत् अभ्यासकारी कायिकोपद्रवादपि रक्ष्यते। (विसुद्धिमग्ग, ९.७२; १२.३०-३५) तथा हि - सामान्या नारी सपवती गोतमस्य प्रधाना शिष्या आसीत्। करुणानुशीलनं कुर्वती सा करुणया स्वीयहानिप्रतिरोधाय समर्था आसीत्। (अंगुत्तरनिकाय, २.२६) तस्या आनुगत्ये अविश्वासी सन् तस्याः स्वामी वाणेन तां अन्तुमुद्यतोऽभवत्। किन्तु ससखी समवती प्रेम्णा करुणया च स्वामिनं मुग्धमकरोत्। अतः स ईप्सितं वधं समाप्तुं न शशाक। (विशुद्धिमग्ग, १२.३५) तथापि, समवती स्वयं व्यतिक्रमत्वं भजति। सा करुणानुशीलने निपुणा सत्यपि अवशेषे तत्कृतहानिकरकार्यफलात् अग्निदाहेन अम्रियत।
अभ्यासकारिणः करुणा अपरजनमनोभावं कल्याणाभिमुखं कर्तुं समर्था इति स्पष्टो दृष्टान्तः संवादेषु यद्यपि नास्ति, तथापि करुणाया ईदृशी शक्तिरस्ति इति विशुद्धिमार्गे कथ्यते। समाधये चत्वारिंशद्वस्तुषु अन्यतमस्य उपरि यथायथं ध्यातुमारभते अभ्यासकारी। अथवा अन्तर्दृष्टिसमुन्नतये यतते। तस्मात् प्रक् स निम्नोक्तोपायेन करुणां पालयेदित्युपदिश्यते।
ध्यानविषयं गृहीता भिक्षुः प्रथमतः उपासनालयसंश्लिष्टानां भिक्षूणां सम्प्रदायस्य सीमां निर्देशेत्। ततः स तेषां कृते एवंविधया चिन्तया करुणां पालयेत् - 'ते सुखिनो भवन्तु, मुक्ताश्च भवन्तूपद्रवात्' इति। ततः स ग्रामस्थानां देवतानां कृते करुणां पालयेत्। ततः स नेतृस्थानीयानां जनानामुपुरि करुणां पोषयेत् ये जनाः तस्मै खाद्यादिं ददति। ततश्च सर्वेषां मनुष्याणां तथा जीवानां कृते करुणानुशीलनं कुर्यात्।
उपासनालयसंश्लिष्टभिक्षूणां कृते पालितया करुणया स तस्य सहचरेषु कोमलहृदयतां जनयति। ते च एकत्र तेन सह सुखेन वसन्ति। उपासनालयसंश्लिष्टानां देवतानां कृते पालितया करुणया ता देवताः कोमलहृदयाः सत्यः यथायथं रक्षणेन तं सम्पूर्णं रक्षन्ति। नेतृस्थानीयानां ग्रामवासिनां कृते पालितया करुणया ते कोमलहृदयाः सन्तः यथायथं सयत्नं तस्मै आवश्यकद्रव्यदानेन सेवन्ते। मानवतां कृते पालितया करुणया ते मानवाः स्वच्छहृदया भवन्ति। ततः, स यदा परिव्रजति तदा ते न अवज्ञां प्रदर्शयिष्यन्ति। सर्वेषु जीवेषु करुणायां पालितायां भिक्षुः सर्वत्र निर्बाधं गन्तुं समर्थो भवति, ते न प्रतिबन्धकतां सृजन्ति। (विसुद्धिमग्ग. ३.५८)
उपर्युक्तानुशीलने भयमस्ति, आसक्तिः अस्ति। तद्द्वयेन हितकरमनुशीलनं दोषयुक्तं भवितुमर्हति। तथापि, भारसाम्यविवेकविश्वासैः अनुशीलनं कर्त्तयम्। ध्यानविषयत्वेन अपरविषयस्य ग्रहणात् प्राक् अनया रीत्या अभ्यासकारी करुणां खलु पालयिष्यति। साधारणकर्माङ्गतेन सः अवश्यमेवैवमाचरेत् (विसुद्धिमग्ग, ३.५९) अनुशीलनगतयथायथप्रसंगस्थापनाय। प्रेमकरुणानिर्भरं ध्यानं भूमिर्वा मृत्तिका वा यत्र समाधिकर्षणं वा अन्तर्दृष्टिकर्षणं वा क्रियते। सम्यग् ज्ञानलाभात् परमपि एवंविधं कर्षणम् अव्याहतं तिष्ठति। (अंगुत्तरनिकाय. २.२८२-२८४)
विशुद्धिमार्गात् उपर्युक्त्यनुच्छेदः संवादेषु वा टीकासु वा केवलं दृष्टान्तः यत्र स्पष्टम् उच्यते यत् करुणायाः ध्यानात्मकमनुशीलनं सपदि सुखेन अपरजनमनोभावं प्रभावितं करोति। इयं शिक्षा ध्यानमग्नतायां कृष्टां करुणां प्रति असामान्यां मात्रां प्रकाशयति। अभ्यासकारिणोऽपरेषां साहाय्यं कर्तुं शक्नुवन्ति, न केवलं शिक्षया, भिक्षाग्रहणेन, धर्मीयजीवनगतदृष्टान्तस्थापनेन, अपि तु करुणासम्पर्कितध्यानात्मकोन्नतिसाधनेन। सम्भवतः, इदमेव सहानुभूतिशीलानन्दकर्षणमित्युच्यते।
क्रमिकवचनेषु गोतमो व्याख्याति यत् कश्चिद् भिक्षुः सर्पेण दारुणं दष्टोऽभवत्, यतः स करुणार्द्रचित्तेन सर्पाणां कुलचतुष्ठयेन सह सम्बन्धं न स्थापयामास। (अंगुत्तरनिकाय, 2।७२-७३) गोतम आह - भिक्षुणा करुणार्द्रचित्तेन सर्पाणां कुलचतुष्टयेन सह सम्पर्के स्थापिते सति स न दष्टोऽभविष्यत्। एवं सर्पदंशनात् आत्मनां रक्षणाय अभ्यासकारिणः सर्पाणां कुलचतुष्टयेन सह करुणामयचित्तेन सम्पर्कं स्थापयेत् एवमेव चिन्तयित्वा -
करुणा मेऽस्ति विरुपक्कानां कृते
करुणा मे च एरापतानां कृते
करुणा मेऽस्ति छव्यपुत्तानां तथा कण्हागोतमकानां कृते।
करुणा मेऽस्ति पदशून्यानां कृते।
तथा च पदद्वययुक्तानां कृते।
करुण मेऽस्ति पदचतुष्टययुक्तानां कृते।
बहुपदानां कृतेऽपि च।
पदशून्या न मामपकुर्वन्तु, न च पदद्वययुक्तः।
चतुष्पदाः न मामपकुर्वन्तु, न च बहुपदाः।
सर्वे सचेतना जीवाः, सरे प्राणवन्तः जीवाः सरे एकत्र पवित्राणि दृश्यानि पश्यन्तु।
कमपि न पापमागच्छतु।
बुद्धः अपरिमेयः, धर्मः अपरिमेयः, संघः अपरिमेयः। किन्तु सर्पा, वृश्चिका जलौकस, ऊर्णनाभाः कृकलासा मूषिकाश्च सर्वे परिमेया ए। मया रक्षणं विस्तृतम्, मया रक्षणं स्थापितम्। सर्वे जीवाः पलायनं कुर्वन्तु।
अहं भाग्यभवन्तमद्वितीयं स्तौमि। अहं सप्तसम्यग्ज्ञानिनः स्तौमि।
(अंगुत्तरनिकाय, २.७२-७३)
यदा गोतम आह बुद्धादयः अपरिमेयाः इति, तदा तस्याशयः - स बुद्धस्य, धर्मस्य, संघस्य च गुणान् निर्दिशति। (अंगुत्तरनिकायटीका, ३.१०३) सर्पादीनां परिमेयो गुणोऽस्ति। (अंगुत्तरनिकायटीका, ३.१०४) गोतमो भिक्षूण् प्रदर्शयति यत् करुणापालनं धर्मीयसत्यव्याख्यानं चेति हितकरकर्मद्वयेन ते आत्मानः रक्षितुं शक्नुवन्ति। हानिहीनतां च परिहृत्य हानिकरजीवेभ्यो दूरं गत्वा तिष्ठन्ति।
किञ्च, सगोत्रीयवचनेषु गोतमो भिक्षून् उपदिशति यत् ते करुणयात्मनः रक्षितुं शक्नुवन्ति। अत्र मल्लवीरस्य च तस्य शिक्षार्थिनः च दृष्टान्तोऽस्ति। आत्मरक्षाविषये तौ भिन्नमतं पोषयतः। मल्लवीर आह अहं त्वां लक्ष्ययामि, त्वं च माम्। एवमन्योन्यलक्षणेन परस्पररक्षणं सम्भवति। आवयोः मल्लक्रीडापि निर्विघ्नं समाप्तिं गमिष्यतीति। अन्यतश्च, शिक्षार्थी आह - अहमात्मानं लक्षयामि भवानपि आत्मानं लक्षयतु इति। गोतमो व्याख्याति यत् कर्ता शिक्षार्थिनः पद्धतिं सफलमनुसरेत्। तथा च उपसंहरति यत् स कर्ता मनस्वितास्थापनेन सदृशीं रीतिमनुकुर्यात्। शब्दान्तरैः उच्यते, भिक्षवः स्वेषां मनस्वितायाः उन्नतये परस्परसहयोगितां कुर्युः, या, पर्यायेण अपरेषामुपकारं परोक्षतः साधयिष्यति। भिक्षवः तेषां प्रशान्तैः मनोयोगैः च व्यहवारैः धर्मीयजीवनसम्पर्कितपुरस्काराणामुदाहरणानि प्रदर्शयिष्यन्ति। तथा च अन्येभ्यः अनुप्रेरणां दास्यन्ति। बुद्ध आह -
भिक्षवः, य आत्मानं रक्षति स परानपि रक्षति। यो वा परान् रक्षति स आत्मानमपि रक्षति।
भिक्षवः, कथमात्मरक्षाकारी अपरान् रक्षति ?
पुनः पुनः ध्यानधारणेन, धानकर्षणेन, ध्यानाभ्यासेन च।
भीक्षवः एवमात्मरक्षाकारी अपरान् रक्षति,
भिक्षवः पररक्षाकारी कथमात्मानं रक्षति ?
धीरतया, हानिहीनगया, करुणावस्थया, स्नेहमययत्नावस्थया च।
भिक्षवः, एवं पररक्षाकारी आत्मानं रक्षति।
यदि अभ्यासकारी आत्मानमधिकृत्य अथवा परानधिकृत्य स्वीयचित्तस्य यत्नं गृण्हाति, तर्हि आत्मानस्तथा परेषामपि उपकारो भवति। टीका स्पष्टं वदति -
पालयित्वा, ध्यानवस्तु चिन्तयित्वा, भिक्षवः एवमात्मरक्षाकारी परान् रक्षति। यो भिक्षुः पार्थिवविषयगतमानन्दं परिहाय प्रधानध्यानवस्तु अहर्निशं पालयति कर्षति च सोऽर्हत्पुरुषस्य दशां लभते। ततः अपरो जनस्तं दृष्ट्वा चिन्तयति, 'अयमुत्तमो भिक्षुः। तेन यथारिति अभ्यासः कृत इति।' भिक्षुसम्पर्कीयमेतन्मतं पोषयित्वा स स्वर्गमुपागमिष्यति। एवं 'य आत्मानं रक्षति स परानपि रक्षतीति।'
'धैर्येण' इत्यस्यार्थः धीरतया सहिष्णुतया चेति। 'हानिहीनतया' इत्यस्यार्थः प्राथमिकपर्यायगतकरुणया सह अनुकम्पया इति। 'प्रेमावस्थया' इत्यस्यार्थः प्राथमिकपर्यायगतप्रेम्णा सह प्रीत्येति। 'सस्नेहयत्नावस्थया' इत्यास्यार्थः प्राथमिकपर्यायगतसहानुभूतानन्देन सह स्नेहान्वितसेवया सहानुभूतसुखेन चेति। यः परान् रक्षति स आत्मानमपि रक्षति। अस्मिन् प्रसंगे, भिक्षुः करुणा, प्रेम, सहानुभूतानन्दः इति उदात्तभावत्रयमधिकृत्य अहर्निशम् आद्यपर्यायत्रयगतध्यानमग्नतामाचरति। तथा करणेन सापेक्षवस्तुवैशिष्ट्यं ज्ञात्वा अर्हत्पुरुसस्यावस्थां लभते। एवं 'यः परान् रक्षति स आत्मानमपि रक्षतीति'। (संयुत्तनिकायटीका, ३.२८७)
अर्हत्पुरुषस्ः परेषु धर्मीयजीवनात् प्राप्यानां पुरसाराणामादर्शभूतः। कश्चिज्जनः अर्हत्पुरुषमालोक्य प्रीतश्च दृढप्रत्ययश्च भवति। तथा च तदीयव्यवहारेणानुप्राणितो भवति। तस्मिन् समये हितकरहृदयवान् जनः भविष्यति काले अर्हत्पुरुषत्वार्जनाय कारणानि सृजति। अस्य विश्वस्तस्य हितकरस्य च चित्तस्य कारानात् स जनः कर्तृरूपः मरणात् परं न्यूनतमतः स्वर्गे जनिष्यते। एवं योऽभ्यासकारी स्वीयानुशीलनेन आत्मानं रक्षति सोऽर्हत्पुरुषः सन् परानपि रक्षति।
यद्यपि प्रेम, करुणा, सहानुभूतानन्दः च - इति उदात्तभावत्रयानुशीलनेन अभ्यासकारी अपरान् हितावहं च प्रत्यक्षं च प्रभावितान् करोति, तथापि संवादेषु अन्यविषयस्य उल्लेखो नास्ति।
वरं, यो जन एतान् भावान् कर्षति, स तस्य चित्तं यथाक्रमं क्रोधात्, निष्ठुरत्वात् परदोषादोषात् च रक्षति इति विषयेषु संवादा गुरुत्वमारोपयन्ति। प्रागुक्ते संवादे गोतमः वर्णयति यत् अभ्यासकारी अपरान् प्रति तस्य मनोभावमधिकृत्य धीरतय, हानिहीनतया, करुणावस्थया, सस्नेहयत्नावस्थया च तदीयचित्तं रक्षति। करुणा, प्रेम सहानुभूतानन्दः इति उदात्तभावत्रयबोधाय अन्तिमभावत्रयं व्याख्यायते। अयमाशयः - ध्यानमग्नतापर्याये सार्वलौकिकप्रेमादित्वेन ते भावा गम्यन्ते। (अंगुत्तरमाशयः - ध्यानमग्नतापर्याये सार्वलौकिकप्रेमादित्वेन ते भावा गम्यन्ते। (अंगुत्तरनिकाय, ३.२२४-२५, विसुद्धिमग्ग, ९.४५) एते उदात्ता भावाः क्रोधाद्यनैतिकवाचकभावात् अभ्यासकारिणं रक्षन्ति। उक्तभावत्रयं खलु अन्तर्दृष्टेर्मूलत्वेन व्यवह्रियते, यथा अन्तर्दृष्ट्या अभ्यासकारी सर्वविधमानसिकदूषणं चिरं परित्यक्तुमग्रसरो भवति।
स तथाकरणेन सर्वविधानुषङ्गिकदुःखैः सह पुनर्जनमन आत्मानं मुञ्चति। ततश्च अर्हत्पुरुषः भवति। एवं परान् प्रति स्वीयभावमवलम्ब्य सोऽभ्यासकारी स्वीयचित्तं रक्षति, तेनात्मनः रक्षणं समाप्तिं गच्छति।
अयं संवादः अभ्यासकारिणां दृष्टान्तमूलककर्मसु तथा धर्मीयसमृद्धिसम्पर्किततात्पर्येऽधिकं गुरुत्वमारोपयति। यद्यपि अत्र सामाजिककर्मोपदेशानां स्पष्ट उल्लेखो नास्ति, तथापीदं गम्यते यत् सहानुभूतिसम्पर्कितोपदेशानां विस्तृते परिप्रेक्षिते परेषां कृतेऽभ्यासकारिणां हृदयानुभूत उद्वेगो मुख्यतः शिक्षया कर्मनिष्ठं प्रकाशितः। सामाजिकोद्वेगस्य च तदानुषङ्गिककर्मणो मध्येऽनिवार्यः सम्बन्धोऽस्ति - इति वयमनुभवामः। पूर्वतनस्य सर्वविधालोचनापरतनं यावदविच्छिन्नं वहति। किन्तु बुद्धेनात्र एतावदनिवार्यत्वं नानुभूतम्। स सहानुभूतिः सरलाकरुणा, करुणात्मककर्माणितत्रयसम्पर्कितोपदेशेषु, विशेषेण सहानुभूतिमूलकोपदेशेषु सामाजिकोद्वेगेन सह सामाजिककर्मणः सम्पर्कं पश्यति। स व्यक्तिगतक्षेत्रे तथा सहायकभ्रात्रीयकर्मणि - यत्र अपरैः सह अभ्यासकारिणो योगोऽस्ति, तत् सपर्कितपर्यायस्योपरि गुरुत्वमारोपयति। स प्रेमकरुणासम्पर्कितध्यानात्मकोपदेशैः सह परवर्तिपरार्थमूलककर्मणां सम्बन्धं स्थापयितुं प्रयोजनं नान्वभवत्। यतः परवर्तिविषयस्योपदेशः तेनान्यत्र दत्तः। किन्तु अत्रेदं गम्यते इत् ईदृशध्यानानुसरणाय ईदृशपरार्थपरकर्मणां स्वाभाविकी प्रवणता तिष्ठति। पालितप्रेमकरुणालोचनाकाले गोतमः अपूर्वाणां गुणानामुपस्थापनं करोति, ये गुणाः 'सहानुभूतिः सरलाकरुणाः प्रेममयकर्माणि' - इति एषां विषयाणां प्रसंगे प्रायेण नालोचितः। एतेऽपूर्वा गुणाः तेषां रक्षणात्मकाः विषयाः, व्यक्तिगतास्तथा मनस्तत्वसम्मता लाभाः, परवर्तिजीवनाय अपि लाभाः।
क्रमिकवचनेषु गोतम उपदिशति यत् अष्टौ लाभाः सन्ति। कश्चिज्जनः करुणरूपमनोमुक्तितः तान् लाभान् अर्जयितुमलम्, यदा वा तीव्रा, अङ्गीकृता, वर्धिता, प्रतिश्रुतित्वेन परिणता भवति। (अंगुत्तरनिकाय, ४.२५०) 'नरः सम्यक् स्वपिति। स सम्यक् जागर्त्ति। स सुःस्वप्नान् न पश्यति। स मनुष्याणां प्रियो भवति। सोऽमनुष्याणां प्रियो भवति। देवतास्तं रक्षन्ति। सोऽग्निना, विषेण, अस्त्रैश्च नाभिभूतो भवति। तस्योपलब्धिर्यदि महत्तरा न भवति तर्हि 'स ब्राह्मजगत् आरोहति।' (अंगुत्तरनिकाय, ४.२५०) टीकया विश्लेषणमेवम् -
स भयङ्करान् स्वप्नान् न पश्यति। स यद्यपि पश्यति, तथापि ते स्वप्नाः केवलं शुभाः स्वप्ना एव। स आत्मानं पश्यति। यथा - सोऽवशिष्टाधारे श्रद्धां निवेदयतीव। अथवा बुद्धं, धर्मं, संघं च पूजयतीव। यथा अपरे जनाः स्वप्नान् पश्यन्ति, तथा स न पश्यति, अपरे पश्यन्ति - ते दस्युभिः वेष्टिताः, सर्पैः ताडिता अथवा विवरमध्ये पतिता इव।
स नाग्निना विषेणास्त्रैश्च अभिभूतो भवति। अस्मिन् प्रसंगे कति गोकथां कथयन्ति। कश्चित् गौः दण्डायमानः सन् वत्साय दुग्धं ददाति स्म। कश्चित् व्याधः हस्तेन कुन्तं धृत्वा अचिन्तयत्, 'अहं गामिमम् प्रहरिष्यामि' इति। तेन कुन्ते निक्षिप्ते सति स कुन्तः गोः शरीरम् आहत्य पुनरेव तालपत्रमिव प्रत्यागतः। अत्र प्रवेशपर्यायगता करुणा न हेतुः, न वा स्थापनपर्यायगता करुणा; अपि तु, वत्सहिताय गोः सुतीव्रा आकाङ्क्षा। एवं करुणायाः महती शक्तिरस्ति। (अंगुत्तरनिकायटीका, ५.८२-८३)
करुणारूपमनोमुक्तिसञ्जातलाभाः खलु उपरि उक्ताः। किन्तु एते लाभाः स्वभावतः सर्वासु अवस्थासु घटन्ते इति कदापि न संवादेषु वा टीकासु वा उक्तम्। गोतमोऽपि करुणायाः सहानुभूतेश्च महतीं शक्तिं धृत्वापि शत्रुशून्यो नासीत्। ईर्ष्यापरायणो भ्राता देवदत्त एव तस्य प्रमाणम्।
विविधासु दशासु मनसो शक्तिः च परार्थं तच्छक्तेः कार्यकारिता चेत्यनयोः मध्ये समानुपातः लक्षणीयः। सहानुभूतिः मनसः कयाचित् शक्त्या सह विशेषेण नान्विता भवति। अभ्यासकारिणः अपरानुपदिशन्ति, अपरेभ्यः भिक्षां गृह्णन्ति, परार्थं च धर्मीयजीवनस्य दृष्टान्तं स्थापयन्ति। एषु सर्वेषु क्षेत्रेषु सहानुभूतिः परिचालिका शक्तिरित्यभिधीयते। करुणार्द्रकर्माणि करुणामयचित्तस्य काञ्चित् शक्तिमवलम्बन्ते। तानि कर्माणि परहितसहायकानि, यद्यपि करुणारूपा मनोमुक्तिः परेभ्यः कीदृशं हितं साधयति स विषयो नालोचितः, तथापि इदं निःसंशयं गम्यते यत् करुणाकर्षणं कस्यापि सहानुभूतिं निविडां करोति। एवञ्च, परवर्तिपरर्थपरकर्मसु प्रभावं प्रकाशयति।
कस्यचिन्मनोभावस्य शक्तिः, तज्जातलाभाः, तद्दोषप्रतिकारा यदा एकत्र निःसंशयं प्रकाश्यन्ते तदा तेषु मध्ये प्रत्यक्षयोगो दृश्यते। सहानुभवः प्रकृत्या एव ग्रहणीयो मनोभावः। तत्र प्रेषणाशक्तिरस्ति, ताऋशः सहानुभवः वर्तमानेन वा भाविना पुरस्कारेन न कदापि समर्थ्यते। प्राथमिकपर्यायगतं कारुणिकं चित्तं भिक्षुजनस्य भिक्षाभोगं, ध्यानाभ्यासं भिक्षुनामधारणं च समर्थयितुमर्हति। अपि च, कारुणिकचित्तप्रेषितपरस्परसापेक्षकरुणात्मककर्माणि संघस्य समृद्धये भवन्ति। तथापि, करुणारूपमनोमुक्तिसञ्जाललाभास्तथा तद्दोषप्रतिकारा अतीव विचित्राः प्रचुराः च, यत उच्चपर्यायगतमनःसञ्जातासामान्यलाभाय एव आत्यन्तिको मनोयोगो दीयते। इदं निःसंशयमुच्यते यत् एतादृशं मनोबलमपि स्वल्पसमाहितभावसञ्जातलाभान् जनयति।
उपर्युक्ते संवादे करुणाजातलाभान् आलोच्य गोतमः करुणाविकाशं प्रशस्याह अपरिमेयकरुणाकर्षणशीलस्य मनस्विनो पुरुस्य निगडाः क्षयं गच्छन्ति।
स संसारचक्रस्य भित्तिमूलं नाशं यातीति पश्यति।
यो जनः केवलं प्राणिविशेषाय करुणां पोषयति स तथाकन्रणेन हितसम्पादको जायते।
यो महान् पुरुषः सर्वेषां प्राणिनां कृते सहानुभूतिशीलो भवति स प्रचुरं पुण्यं संगृह्णाति।
ऋषितुल्या नृपाः सचेतनजीवपूर्णां धरणीं जयति।
ततश्च ते कतिपययागकरणाय व्रती भवति। तथा हि - अस्समेधः, पुरिसमेधः, सम्मापसः, वाजपेयः निरग्गलः इति।
कश्चिज्जनः करुणामयचित्तस्य सम्यक्पोषणेन यत् पुण्यमर्जयति तस्य पुण्ये यः षोडशो भागस्तस्यापि एकषोडशभागं पुण्यं ते न सच्चिन्वन्ति।
ते चन्द्रमण्डले नक्षत्राणि इव शोभन्ते।
यो न हन्ति, न वा घातयति अपरैः,
यो न दस्युतां करोति, न वापरैः दस्युतां कारयति,
सर्वेषां भूतानां कृते यस्यास्ति करुणा
स कमपि जनं प्रति वैरं न पोषति।
(अंगुत्तरनिकाय, ४.७४-४९)
निगडा क्षयं गच्छन्ति। स संसारचक्रस्य भित्तिमूलं नाशं यातीति पस्यति। अयमाशयः - यो जनोऽर्हत्पुरुषस्यावस्थां गतः स दश निगडान् परित्यजति। अत्र संसारचक्रभित्तिमूलनाशोऽन्तर्भूतः। इयं दशा यथाक्रमं लभ्यते अन्तर्दृष्ट्या। अस्या अस्ति करुणा या अयवहितहेतुत्वं वजति।
अथवा, निगडा नाशं यान्ति। अस्यार्थः - विद्वेषः तथा अ विद्वेषसम्पर्कितनिगडा विनाशं यान्ति। स संसारचक्रमिति मूलनाशं पश्यति, यतः स करुणयान्वितः सन् दूषाणस्वरूपसंसारचक्रभित्तिमूलस्य तथाकथितं नाशंपश्यति। (अंगुत्तरनिकाय टीका, ४.६८)
संवादेषु दशविधा निग़डा (संयोजन) उच्यन्ते। ते निगडाः संसारचक्रेण सह जनं बध्नन्ति। तथा हि - व्यक्तित्वस्य मिथ्या दृष्टिः, संशयः, यागादिशास्त्रानुष्ठानेषु आसक्तिः, इन्द्रियाकाङ्क्षा, क्रोधः, रूपजगते आकाङ्क्षा, रूपहीनजगते आकाङ्क्षा, पदस्थितिसचेतनता, मोहः, अविद्या च। यतः अर्हत्पुरुषेण एते निगडाः अपस्रियन्ते, ततः तेन संसारचक्रीयसमग्रभित्तिमूलनाशः (उपधा) क्रियते। अनेन पौनःपुनिकदुःखादियुक्तपुनर्नवीकृतजन्मनः कारणं नावशिष्यते।
विविधासु टीकासु आलोचितानां दूषणानां परित्यागाय स्पष्टोपायद्वयमुल्लिखति टीका। तथा हि - अन्तर्दृष्टिद्वारा दूषणानाम् उन्मूलनेन स्थायिपरित्यागस्योपायः (समुच्छेदप्पहान); समाधिद्वारा दूषणानामवदमनेन अस्थायिपरित्यागस्योपायश्च (विक्खम्मनप्पहान)। प्रथमं भाष्यमर्हत्पुरुषं निर्दिशति अव्यवहितकारणत्वेन अपरिमेयकरुणया सह अन्तर्दृष्टिं पालयति। संक्षेपेण, स करुणाया उपरि ध्यानेन ध्यानमग्नतापर्यायं यावत् समाधिं पालयित्वा स्थास्यति।
ततश्च ध्यानमग्नदश्याया उत्थाय स चित्तस्य च शरीरस्य च विशिष्टान् तथा सामान्यान् गुणान् प्रवेष्टुं गुणान् प्रवेष्टुं तदीयं सुतीक्ष्णं चित्तं नियोजयति। परिणामे चित्तस्य च शरीरस्य च प्रत्येकं विषयमस्थायिनं परिवर्तनशीलं तथा अनिर्भरयोग्यं पर्यवेक्ष्य तस्य चित्तं स्वभावतः तस्य निर्वाणस्यानुसन्धानं करोति यत् सर्वविधं पार्थिवं परिवर्त्तनं तथा अस्थायित्वमतिक्रम्य वर्तते। परिवर्तनशीलं जगत् तथा परिवर्तनहीनं निर्वाणमधिकृत्य गभीरायामन्तर्दृष्टौ सञ्जातायामिन्द्रियाकाङ्क्षादिमानसिकनिगडैः बन्धनस्य प्रावण्यं दूरीभवति। याः सर्वाः प्रतिक्रियाः चिरं परित्यक्तव्याः तासां न समर्थनं करोत्ययं नवाविष्कृतः बोधः।
द्वितीया व्याख्या संवादे उल्लिखितं कमपि जनं विश्लिष्यति यस्य केवलमपरिमेयं प्रेमास्ति। ईदृशो जनः सम्पूर्णं किन्तु अल्पकालं विद्वेषमूलकसर्वविषयेभ्यो मुक्तस्तिष्ठति। अत्र 'विद्वेषम्बन्धिनिगडाः' विद्वेषसम्बन्ध्याहितकरमानसिकदोषान् निर्धिशन्ति। तथा हि - असूया, सञ्जयः उद्वेगश्च (विसुद्धिमग्ग, १४.१७०)। यदा बुद्ध आह, 'स संसारचक्रीयदूषणरूपभित्तिमूलस्य तथाकथितं विनाशं पश्यति,' तदा स समाहितप्रेम्णा दूषणानामस्थायि अवदमनं निर्दिशति। अभ्यासकारिणो दूषणानि ध्यानमग्नदशायाः परमपि दृष्टिगोचरतां गन्तुमर्हन्ति। तथापि प्रेमध्यानकाले ध्यानमग्नपुरुषः तदीयदूषणानां समीकृतावदमनेन सह तृप्तिकरं परमं सुखमनुभवति। अपरिमेयप्रेमपोषणात् सोऽन्तर्दृष्टिमक्तये भित्तिमूलत्वेन ईदृशमानसिकावस्थाद्वारा अथवा ईदृशमानसिकावस्थासञ्जातपरमसुखभोगद्वारा उपकृतो भवति।
क्रमिकवचनेषु एकादशलाभविषयकेऽध्याये गोतमः एकादशसंख्यकानां लाभानामेकां सूचीं ददाति। यो जनः प्रेमरूपमनोमुक्तिं साधयति स जनः तान् लाभानर्जयति। प्रागुक्ताष्टलाभैः सह संयोजनमेतत् - 'स शीघ्रं तस्यं चित्तं समाहितं करोति। तस्य वर्ण उज्ज्वलो भवति। स निरुद्वेगेन म्रियते'। (अंगुत्तरनिकाय, ५.३४२)। निःसन्देहेन एतत् सर्वलाभकारणात् गोतमः पुनरपि उपदिशति यत् चान्द्रायणव्रतेषु (उपोसथ) महतामाचार्याणां शिष्याः सरेषां भूतानां कृते प्रेमकरुणान्वितापरिमेयहृदयविकाशाय अभ्यस्ता आसन्। (अंगुत्तरनिकाय, ४.३९०)
ब्रह्मा करुणाप्रेमसहानुभूतानन्दसमवृत्तित्वभावान् कर्षति च पालयति च (मज्झिमनिकाय, १.३७०-७२) (अंगुत्तरनिकायटीका, २.२०४) तस्मात् जीवद्दशायां प्रागुक्तभावानां कर्षणमेव ब्रह्मसायुज्यार्जआय रीतिविशेषः। गोतम इमां रीतिं वर्णयति -
वासेट्ठ, कश्चित् भिक्षुः करुणासहानुभूतानन्दसमवृत्तितान्वितचित्तेन सततमेकस्यां दिशि सत्तावद्भिः भूतैः सह सम्बन्धितः तिष्ठति। तथा च, द्वितीयस्यां तृतीयस्यां चतुर्थ्यां च दिशि, उपरि, अधः पार्श्वापार्श्वि च तादृशमाचरति। स सर्वत्र विश्वभूतैः सह सम्बन्धं स्थापयति समभावेन - प्रेममयचेतसा, यत्र चेतः तिष्ठति निराकुलं, वैरान्मुक्तं, विशालं विस्तृतं तथा अपरिमेयम्।
वासेट्ठ, एकः शक्तिशालिशङ्खवादकः स्वल्पचेष्टया चतसृषु दिक्षु प्रतिध्वनि स्रष्टुं शक्नोति स्म। तत्र परिमेयं कर्म न परिमेयं तिष्ठति। करुणासहानुभूतानन्दसमवृत्तितान्वितमनोमुक्तिसाधनेन तादृशी अवस्था जायते। वासेट्ठ, अयमेव ब्रह्मसायुज्यमार्गः। (दीघनिकाय, १.२५०-५२)
पुनश्च, एको भिक्षुः एकस्यां दिशि (यथा उत्तरस्याम्) सत्तावद्भिः भूतैः सह सततं सम्पर्कं स्थापयति प्रेममयचेतसा। तद्वत्, द्वितीयस्यां तृतीयस्यां चतुर्थ्यां च दिशि, उपरि, अधः, पार्श्वापार्श्वि च सम्पर्कं स्थापयति। स समभान सर्वत्रविश्वभूतैः सह सम्बन्धितस्तिष्ठति - प्रेममयचेतसा - यत्र चेतः निराकुलं, वरान्मुक्तं, विशालं, विस्तृतं तथा अपरिमेयम्।
वासेट्ठ, एकः शक्तिशाली शङ्खवादकः केवलं स्वल्पचेष्टया चतसृषु दिक्षु प्रतिध्वनि स्रष्टुं शक्नोति स्म। तत्र परिमेयं कर्म न परिमेयं तिष्ठति। प्रेममयमनोमुक्तिसाधनेन सदृशी अवस्था जायते। वासेट्ठ, अयमेव ब्रह्मसायुज्यमार्गः। यदा प्रागुक्तोपदेशानुसारतः प्रेमादयः कृष्यन्ते तदा ते एव उदात्ता भावा उच्यन्ते। (अंगुत्तरनिकाय ३.२२५)
संवादेषु आद्यसंकलनचतुष्टाये करुणाप्रेमसहानुभूतानन्दसमवृत्तितानां लक्षणानि न कृतानि। तथापि, टीकाभिः विशुद्धिमार्गेण च तेषां विषयाणां लक्षणानि तथा व्याख्यानानि कृतानि। प्रत्येकोदात्तभावस्य स्पष्टवैशिष्ट्यास्तीति कारणात् एकस्मिन् भावे उपस्थिते अपरेषां भावानामनुपस्थितिर्गम्यते।
परदूह्कदूरीकरणाय करुणाया भक्तिरूपं व्यैशिष्ट्यमस्ति। (विसुद्धमग्ग,९.९४) परदुःखकातरता एव करुणायाः कर्म। (विसुद्धिमग्ग, ९.९४) करुणायाः ध्यानात्मकं कर्षणं हिंसाप्रतिरोधाय विशेषेण फलप्रदम्। (विसुद्धिमग्ग, ९.२०८)
सहानुभूतानन्दस्य प्रीतिप्रदं लक्षणम् अस्ति। (विसुद्धिमग्ग, ९.८५) अनसूया एव तस्य कर्म। (विसुद्धिमग्ग, ९.९५)। सहानुभूतानन्दस्य ध्यानात्मकं कर्षणं हि असन्तोषप्रतिरोधाय विशेषतः फलप्रदम्। (विसुद्धिमग्ग, ९.१०८)
समवृत्तितायाः सममनोभावापन्नं लक्षणमस्ति (विसुद्धिमग्ग, ९.९६), यो मनोभावः सचेतनजीवेषु तिष्ठति। समभावेन सर्वजीवदर्शनमेव समवृत्तितायाः कर्म। (विसुद्धिमग्ग, ९.९६) समवृत्तितायाः ध्यानात्मकं कर्षणं नाम रागप्रतिरोधाय विशेषतः फलप्रदम्। समवृत्तितारूप उदात्तो भावः समवृत्तितानुभवात् पृथक्। पूर्वत्र सचेतनजीवविषयिकी निरपेक्षता वर्त्तते। किन्तु परत्र न सुखस्य, न वा दुःखस्यानुभूतिष्ठिष्ठति, या सचेतनमनसः विविधासु दशासु सहचरो जायते। (विसुद्धिमग्ग, ४.१५८, १६२)
एतेषां चतुर्णां भावानां कर्म खलु जनप्रेषणमूलकम्। परमं ज्योतिः सारं ददाति -
'सर्वे जीवा एतेभ्यो दुःखादिभ्यो मुक्ता भवन्तु' एवंविधया चिन्तया परदुःखकष्टदूरीकरणाय आकाङ्क्षादशा हि करुणा। 'सर्वे जीवाः सुखिनो भवन्तु' एवंविधया चिन्तया सुखहितसाधनाय आकाङ्क्षादशा हि प्रेम। 'यूयमानन्दमनुभवथ। इदं साधु यत् यूयमानन्दमनुभवथ। इदमतीव साधु' - इति चिन्तया सततं परसुखहितसाधनेच्छादशा एव सहानुभूतानन्दः। 'अतीतकर्मफलकारणादेव जनस्य सुखानि च दुःखानि च भवन्ति' इति चिन्तया परसुखदुःखविषयिकी अभिज्ञता एव समवृत्तिता।
चरित्रचित्रणेषु च सारसंग्रहेषु च विरोधाभासो दृश्यते। तथा हि - प्रेम परमङ्गलसाधनाय भक्तित्वेन लक्ष्यते। प्रेम हि सुखसाधनेच्छादशा। अत्र कर्मप्रतिश्रुतिर्ग्रम्यते। तथापि, 'सर्वे सुखिनो भवन्तु' इतीच्छायां प्रेम्णः साररूपं वर्तते - यत्र कर्मप्रतिश्रुतिभावनया प्रयोजनं न्यूनमेव दृश्यते। सम्भवतोऽत्र हेतुर्हि एवं भवितुमर्हति। यथा - संवादेषु उल्लिखिताः प्रेमकरुणाविषयकोपदेशाः केवलं ध्यानयोगेन एतेषां भावानामनुशीलनं निर्दिशन्ति।
अत एव, उपदेशाः केवलं 'सर्वे सुखिनो भवन्तु' 'सर्वे दुःखान्मुक्ता भवन्तु' एवंविधेच्छानुशीलनमावहति। प्रेमकरुणाध्यानं च परेषां कृते आनुषङ्गिकं कर्म चान्तरा कोऽपि सम्बन्धः गोतमेन कदापि नोच्चारितः। तथापि इदं गम्यते यत् एतेषां भावानां कर्षणेन ध्यानिनो जनस्य भ्रात्रीयकर्मणां प्रकृतौ तथा परिधौ परिवर्त्तनं सूच्यते। योऽभ्यासकारी समाहितसार्वलौकिकप्रेमकरुणानुशीलनं करोति, सोऽवश्यमेव जनहितसाधनाय गभीरं विचलितो भविष्यतीत्यत्र न कोऽपि व्यक्तिक्रमः।
प्रेममयकर्मणां च सरलायाः करुणाश्च सहानुभूतेश्चोपरि ये उपदेशाः सन्ति, तेषु प्रेमकरुणयोः कर्ममयी दिक् वर्णिता। एतेषामुपदेशानां बिन्दुमात्रं वस्तु अपि, न ध्यानमूलके प्रसङ्गे सीमितम्। एषु उपदेशेषु गोतमः सामाजिककर्मप्रेषणामुपदिशति इति गम्यते। तत्र प्रेमकरुणासंवादेषु धर्मीयजीवनस्य अधिकचिन्तामूलकभावस्य गुरुत्वं न लघु आसीत्। तथापि गौतमेन तन्नोल्लिखितम् -
यदि दुःखं जायते तर्हि करुणा मिथ्या भवति। (विसुद्धिमग्ग, ९.९४) यद्यपि केवलं दुःखप्रकाशेन करुणात्मकता प्रकाश्यते, तथापि करुणायां तादृशी अवस्था नास्ति। 'सर्वे दुःखान्मुक्ता भवन्तु' केवलमेवंविधा इच्छा करुणाया तिष्ठति। परदुःखेनाभिभूताः सन्तः वयं परान् साहाय्यं न कुर्म्मः। एकतः हृदयहीनता अन्यतश्च परदुःखेन विह्वलता अनयोर्मध्ये दुःखमन्तरेण यत्नस्य विकल्पो वर्तते। करुणाकर्षणकाले जातदुःखदूरीकरणाय अभ्यासकारी सततं सचेतनः स्यात्। स प्रथमतः अतिदुःखार्तजनमधिकृत्य इच्छति 'स दुःखमुक्तो भवतु' इति। ततः स प्रियजनाय, निरपेक्षजनाय शत्रुस्थानीयजनाय च करुणां कर्षति (विसुद्धिमग्ग, ९.८०)। यदि शत्रुजनविषयमधिकृत्य प्रश्नो जायते तर्हि प्रायुक्तं प्रतिषेधकं प्रयुज्यते। करुणा यथा उदात्तभावरूपा भवति तथा करणाय अभ्यासकारी करुणां समीकुर्यात्, दृढीकुर्यात् सामान्यीकुर्याच्च।
इदमुल्लेखार्हं तत् पालिसंवादेषु टीकासु च प्रेमशब्दो यमर्थं सूचयति, आंगलभाषायां प्रेमशबस्यार्थः तस्मात् पृथक्। संवादेषु प्रेम न दाम्पत्यप्रेमाथवा लैङ्किकप्रेम। कस्मिंश्चित् गुरुत्वपूर्णे संवादे गोतमः यथायथं दाम्पत्यसम्पर्कं व्याख्याति यत् स्वामी तदीयां स्त्रियं सेवेत, स्त्री अपि ततः परं तं प्रति सहानुभूतिशीला भवेत्। उदात्तभावरूपप्रेमकर्षणाय विपरीतं लिङ्गं प्रति प्रेम्णः प्रकाशो न कर्त्तव्य इत्युपदेशः नवदीक्षितेभ्यो दीयते, यतः तथा कृते प्रेम सुखेन तृष्णात्वेन परिणतं भवति। (विसुद्धिमग्ग, ९.४, ६) अभ्यासकारी सर्वदा आसक्तिपरिहाराय अवहितः स्यात् अन्यथा प्रेमविकाशो यथायथं न भवति। (विसुद्धिमग्ग, ९.९३) यत्न कृते इदं सम्भवति। ध्याता प्रथमतः आत्मानं प्रति क्रमशः प्रेमकर्षणेन प्रेमपरिधिं विस्तृतं करोति, ततः श्रद्धेयमाचार्यं प्रति, मित्रं प्रति, निरपेक्षजनं प्रति परिशेषे च शत्रुजनं प्रति। तस्य लक्ष्यं भवेत् समाहितसार्वलौकिकप्रेम। ततः सोऽवश्यमेव इदं समीकुर्यात्, दृढीकुर्यात् तथा विस्तृतीकुर्यात्। तत्र सार्वलौकिकं प्रेम आत्मपरभेदं न करोति। (विसुद्धिमग्ग, ९.४०-४८)
सहानुभूतानन्दस्यार्थः परेषां साफल्ये प्रीतिमयता। यदात्र परिहासः मत्तता वा वर्तते। कोऽपि वा यदा परसाफल्येन आत्मविस्मृतो भवति तदा सहाबुभूतानन्दो भिथ्या जायते। (विसुद्धिमग्ग, ९.९५) यथासम्भवं हितकरमनःपक्षे सुषमतया प्रयोजनमस्ति। परसाफल्येऽतिसंसत्तिवशतः सुषमताया हानिर्जायते। सा हानिः अहिताय भवति। एवं विशुद्धाभ्यासात् विच्युतिर्भविष्यति। सहानुभूतानन्दकर्षणाय प्रियमित्रस्य गतमागतमनागतं वा साफल्यमधिकृत्य आनन्दकर्षणमारभते। (विशुद्धिमग्ग. ९.८७) ततः स यथाक्रमं निरपेक्षजनस्य च शत्रुजनस्य च साफल्यमधिकृत्य सहानुभूतानन्दं कर्षति। एवं प्रेमकरुणाक्षेत्रे यत् क्रियते तदपि आनुषङ्गिकपर्यायेषु स करोति।
समवृत्तिता परसुखदुःखदर्शनेन सम्पूर्णसुषमचित्तता। केवलं ध्यानमग्नतायाः चतुर्थे पर्याये समवृत्तितायाः कर्षणं भवति। (विसुद्धिमग्ग, ९.१११) ध्यातारः समवृत्तिताकर्षणायानुप्रेषिता भवन्ति, यतः ते आद्योदात्तभावत्रये किञ्चिन्मन्दं फलं पश्यन्ति। तेषु उदात्तेषु भावेषु प्रत्येकभावः ध्यानमग्नताया आद्येषु त्रिषु पर्यायेषु अन्यतमे पर्याये कृष्यते। (विसुद्धिमग्ग, ९.१११) 'सर्वे जनाः सुखिनो भवन्तु' एवंविधेच्छापोषणेन सचेतनजीवकृतामोदेषु उद्वेगस्तिष्ठति। आद्योदात्तभावत्रयं तादृशेन उद्वेगेन अन्वितो भवति। (विशुद्धिमग्ग, ९.८८) किन्तु समवृत्तिता तादृशेनोद्वेगेन मुक्ता। किञ्च, आद्योदात्तभावत्रये अनुमोदनस्य वा विद्वेषस्य वा व्यापारस्तिष्ठति। (विसुद्धिमग्ग, ९.८३) प्रेम्णः रक्षावश्यमेव करणीया अन्यथा प्रेम आसक्त्या विपरिणम्यते। करुणापि यथायथं रक्षितव्या अन्यथा करुणा परेषामवस्थासु विद्वेषेण वा दुःखभावेन वा विपरिणम्यते।
एवं सहानुभूतानन्दः मत्तताजनको भवितुमर्हति। समवृत्तितया सह तुलनायां कृतायां मन्दफलत्वेन उक्तविपत्तयो दृशन्ते, तथापि समवृत्तितायाः एवंविधेन उपायेन रक्षया प्रयोजनं नास्ति। अवशेषे, आद्योदात्तभावत्रयं सुखानुभवेन सहान्वितम्, यतस्ते भावा वैरात्, हिंसायाः असन्तोषात् च मुक्तेरुपाया एव। ते सर्वे पुनश्च दुःखेन अपि युक्ताः। (विसुद्धिमग्ग, ९.८८. १११) ध्यानमग्नतायाश्चतुर्थे पर्याये समवृत्तितारूपोदात्तभावेन सह यः समवृत्तितानुभवस्तेन सह तुलनायां कृतायां ध्यानमग्नतायाः आद्यपर्यायत्रयसञ्जातं परमं सुखं स्थूलमेव दृश्यते।
समवृत्तिता मिथ्या भवति यदि तत्र केवलं ज्ञानहीनता वर्तेते। (विसुद्धिमग्ग, ९.९६) समवृत्तितायां यथायथं कृष्टायां सत्यां इयमुपलब्धिर्जायते यत् अन्ये जनास्तेषां कर्मणां कर्तारः। एवञ्च, तेषामुत्तरकालीना अवस्था वर्त्तमानकर्मणां नीतिगतां दृष्टिभङ्गीं प्रतिविम्बियिष्यति। (विसुद्धिमग्ग, ९.९६) यदा धर्मः सुफलाय कल्पतेः तथैव अधर्मः विपरीतफलाय सम्पद्यते। (विसुद्धिमग्ग, ९.२३-२४) अपरे जनाः परिणामे स्वेषां भाग्याय भारं निश्चितमेव ग्रहीष्यन्ति। एवं च अभ्यासकारी तस्य भाग्याय भारं ग्रहीष्यति, एतद्विषयमधिकृत्यावहितः सन् ध्याता पुरुषः अमङ्गलजनकमनो- भावात् तथा परव्यवहारगतविद्वेषात् तदीयं मनः मुक्तं करोति। तथा च, स ध्यानमग्नतायाः चतुर्थे पर्याये हितकारिणीं पक्सपातहीनतां पोषयति।
समवृत्तितारूपोदात्तभावकर्षणात् प्रागेव अभ्यासकारी ध्यानमग्नतायाः तृतीयं पर्यायं यावत् अपरोदात्तभावानामेकतमं पोषयेत्। (विशुद्धिमग्ग, ९.१०४) स समाहितदशाया उत्थाय स्वाभाविकनिरपेक्षजनं च मित्रं च शत्रुं च अधिकृत्य समवृत्तितां पालयति। परवर्तिपर्यायेषु स पूर्ववदाचरति। यदा सोऽनेन भावेन ध्यानमग्नतायै साग्रहं चेष्टये तदा अवश्यमेव चतुर्थं पर्यायं गच्छति। अयमेव केवलं व्यतिक्रमः।
इयमेवोदात्तभावस्य प्रकृतिः। तां प्रकृतिमवबुध्य वयं शङ्खवादकस्य प्रागुक्तामुपमां प्रतिगन्तुं शक्नुमः। टीका विश्लिष्यति -
वासेट्ठ, कश्चित् शक्तिशालिशङ्खवादक आसीत। एवञ्च कश्चित् दुर्बलः शङ्खवादकः शङ्खवादनकाले चतसृषु दिक्षु प्रतिध्वनि स्रष्टुं समर्थो न भवति। स सर्वत्र प्रतिध्वनिविस्ताराय नालम्। अन्यतश्च, शक्तिशाली शङ्खवादकः सर्वत्र ध्वनि वितनितुं शक्नोति कृष्टमनोमुक्तिद्वारा (अस्मिन् प्रसंगे या करुणा)। यदा करुणाप्रसंग आयाति, तदा प्रवेशपर्यायगता करुणा अथवा स्थापनापर्यायगता करुणा विषयोपयोगिनी भवति। तथापि यदा मनोमुक्तिप्रसंग आयाति, तदा केवलं स्थापनपर्यायगता करुणा विषयोपयोगिनी भवति। यत् कर्म आकाङ्क्षाविषये वर्तते तत् परिमितं कर्मेत्युच्यते। यत् कर्म रूपयुक्तविषयकं रूपहीनविषयकं च भवति तत् कर्म अपरिमेयं कर्मेत्युच्यते। परिमेयकर्मातिक्रमणत्वात् इदं कर्म अपरिमेयं कर्मेत्युच्यते विशेषेण सामान्येन च चतसृषु दिक्षु सम्बन्धवितानत्वात् इदं कर्म अपरिमेयं कर्मेत्युच्यते। तस्मिन् विषये न तिष्ठति, तस्मिन् विषये न प्रतिस्ठितं भवति। आकाङ्क्षाविषयकमदः कर्म रूपमये वा रूपहीने वा कर्मणि चिरं न तिष्ठति। इदं तत्र प्रतिष्ठितं न भवति। कोऽस्यार्थः ? आकाङ्क्षाविषयककर्म रूपमये वा रूपहीने वा कर्मणि आश्रयं न पश्यति। आत्मनः प्रतिष्टायै सुयोगं न प्राप्नोति। केवलं रूपमयं वा रूपहीनमेव वा कर्म आकाङ्क्षाविषयककर्म व्याप्नोति चातिशेते च। इदमात्मनः प्रतिष्ठायै सुयोगं प्रानोति। महासमुद्र इवायं व्यापारः। महासमुद्रः क्षुद्रं जलाशयं पराभूय आत्मनः अवसरं प्राप्य प्रतिष्ठितो भवति। इदं रूपमिदं वा रूपहीनं कर्म आकाङ्क्षाविषयककर्मफलं पार्श्वे पक्षिपति। इदमेव ब्रह्मसायुज्याय कल्पते। (दीघनिकायटीका, २.४०५-४०६)
टीका वर्णयति यत् करुणा प्रवेशपर्यायगतामथवास्थापनपर्यायगतां करुणां सूचयति। करुणा समाधिपर्याये ध्यानमग्नताया निम्ने एव अथवा ध्यानमग्नतापर्याये। यद्यपि इयं करुणा संवादेषु विवृतायाः करुणायाः प्रकृतेन प्रयोगेण सह संगच्छते, तथापि मनोमुक्तित्वेन स्थापनपर्यायगता करुणैव गम्यते। तादृशं विशेषणमेव प्रेम्णा च सहानुभूतानन्देन च सह प्रयोज्यम्। समवृत्तितया सहापि प्रयोज्यम्। समवृतिता सचेतनजीवानधिकृत्य समानमानसिकतार्थे प्रयुज्यते।
यथा कश्चित् शक्तिशाली शङ्खवादकः स्वल्पचेष्टया चतसृषु दिक्षु प्रतिध्वनि स्रष्टुमर्हति तथैव कश्चिदभ्यासकारी मनोमुक्तिकर्षणेन चतसृषु दिक्षु वर्तमानैः जीवैः सह सम्बन्धेनान्वितो भवितुमर्हति। यदा शक्तिशाली शङ्खवादकः चतसृषु दिक्षु प्रतिध्वनिं भवति। शब्दान्तरैः कथ्यते, न किमपि स्थानमस्ति यत्र शब्दः न श्रूयते। करुणादिमनोमुक्तिक्षेत्रेषु अपि तादृशी अवस्था लक्ष्यते। किन्तु अस्य व्यापारस्य कोऽर्थः ?
प्रथमतः, मानसिकीमवस्थामधिकृत्य इदं सगुरुत्वं स्मर्तव्यं यत् 'एक्टिभिटि' इति पदं (पालिः कम्मल, आंगल-कर्म) चेतना (इन्टेनशन्) सूचयति। (विसुद्धिमग्ग, १९.२४) 'कर्म' इत्यस्य स्थले 'चेतना' इत्यस्य स्थापनेन टीकायाः स्थानं परिष्कृतं जायते। दुर्बलेन शङ्खवादकेन सृष्टं परिमेयं शब्दप्लावनमिव आकाङ्क्षाविषयिकी चेतना परिमेया भवति। यदा कश्चिन्नरः ध्यानमग्नतामर्जयति, तदा मनः ध्यानमग्नतायाः आद्यैः चतुर्भिः पर्यायैः युक्ते रूपमये जगति तिष्ठति, अथवा समाधिगतमहत्तारावस्थया सह युक्ते सूक्ष्मतरे रूपहीने जगति वर्तते। यत उदात्तभावैः सह युक्ता मानसिकी अवस्था ध्यानमग्नताया आद्येषु चतुर्षु पर्यायेषु तिष्ठति, ततः सावस्था रूपमयजगत् एव।
रूपमयविषयिकी या मानसिकी अवस्था तया सहान्विता चेतना रागादिभावेभ्यः सर्वथा मुक्ता भवति, ये रागादिभावा मनः बध्नन्ति सृजन्ति च परियता सीमां वा। (१.५८-५९) सा चेतना अपरिमेयेत्युच्यते। किञ्च, उदात्तभावकर्षणरतोऽभ्यासकारी वृद्धिविशेषेणाथवा क्रमशः प्रत्येकं दिशि सत्तावद् भूतेषु तान् वितनोति, अथवा सामान्येन युगपत् सर्वत्र तान् वितनोति। (विसुद्धिमग्ग, ९.४५-४७) एवं चैतन्यागतविषयाणां परिप्रेक्षिते अभ्यासकारिणः चेतनां अपरिमेया जायते। यदा अपरिमेया करुणाचेतना वर्तते, तदा परिमेया आकाङ्क्षाविषयिकी चेतना न तिष्ठति।
समुद्रस्य च पुष्करिण्याश्च रूपकल्पम् उल्लिख्य टीका 'यदेव परिमेयं कर्म तत् तत्र प्रसंगे न तिष्ठति' इति वचनस्य अपरमर्थं निर्दिशति। यदि कश्चित् जनः तस्य जीवनस्य कस्मिंस्चित् समये उदात्तभावानामन्यतमं कर्षति, तर्हि तस्य मृत्यौ एतद्भावान्वितचेतना सार्थकतामायाति तथा ब्राह्मलोके तदीयपुनर्जन्मने कल्पते। तस्मिन् समये किमपि परिमेयमाकाङ्क्षाविषयगतं कर्म सार्थकं न भवति। एवं ब्राह्मण्यलोके पुनर्जन्मने उदात्तभावानां प्रभावः प्रतिष्ठितः। इयं व्याख्या ध्यानमग्नतायाः पर्याये करुणादिमनोमुक्तिकर्षणफलानामन्तर्भावाय शक्तिशालिशङ्खवादकस्य उपमाया वास्तवमवसरं वितनोति।
संवादस्योपसंहारे गोतम आह यत् यो नरः प्रागुक्तोपायेन उदात्तभावचतुष्टयं कर्षति, स स्त्रीसंसर्गवैरोपद्रवमानसिकदूषणेभ्यः मुक्तः भविष्यति। तथा च, स मनोबलमर्जयति। ब्राह्मगुणसम्पन्नोऽयं जनः मरणात् परं ब्रह्मलोकं गच्छति यदा प्रेम, करुणा, सहानुभूतानन्दः, समवृत्तिता च चतुर्विधानामुपदेशानां रीतिमनुसृत्य कृष्यन्ते तदा ते गुणा उदात्ता भावा इति कथ्यते। (ब्रह्मविहार, अंगुत्तरनिकाय, ३.२२५) शब्दतः, उदात्ता भावा हि जीवनयात्रोपायाः (विहार) ब्रह्मवत् (देवताः) (ब्रह्मा), अथवा ते भावाः जीवनयात्राया उत्कृष्टा उपायाः। (विसुद्धिमग्ग, ९.१०५) प्रत्येकोदात्तभावः क्रोधहिंसाद्यहितकरदोषघ्नोऽगदः। एवं सर्वे चत्वारो भावा अभ्यासकारिणे हिताय भवन्ति। यद्यपि निर्दिष्टे समये कश्चित् ध्याता एकं भावमुपकारकं मत्वा तत्र गुरुत्वमारोपयितुम् अर्हति गोतमः करुणाभूतकृष्टभावस्य सार्विकेषु लाभेषु गुरुत्वमारोपयति, यतः करुणासमृद्धकर्माणि तथा सहानुभूतिमधिकृत्य तस्य सर्वे उपदेशाः करुणया सह सम्पर्किताः। करुणायां काचिद् वृद्धिः परवर्त्तिद्वयं सजीवीकरोति अर्थात् समग्रधर्मीयजीवनस्य प्रेषणां च प्रकाशनां च समृध्या भूषयति।
चत्वार उदत्ता भावा वा ब्रह्मविहारा वा समवृत्तिताया मनस्तत्त्वसम्मतलाभान् प्रतिबिम्बयन्ति, येषु आद्यत्रयं तुल्यपदत्वं भजति, किन्तु समवृत्तितायाः पदं महत्तमम्। एकस्यां टीकायां तेषां विकाशस्य क्रमः प्रदर्शितः। पितरौ तयोः सन्तानानां कृते यान् भावान् अनुभवतः तैः भावैः सह उदात्तभावानां तुलना क्रियते।
यदा शिशुः गर्भस्य मध्ये वर्तते, तदा करुणामयचेतसा पितरौ 'कदा वा सर्वावयवान्वितं स्वास्थ्यवन्तं पुत्रं द्रक्ष्यावः' इति, ततः यदायं कोमलः शिशुः पृष्ठदेशे शेते, यूकमक्षिकादिभिः दंशनात् अथवा निद्राव्याघातकारणात् रोदिति विलपति वा, तदा तत् श्रुत्वा पितरौ साधरणीं करुणामनुभवतः। किञ्च, अतीव आकाङ्क्षणीयवर्षेषु यदा क्रीडाकाले शिशुः धावति अथवा विश्रामं लभते तदा तदालोक्य पित्रोः मनः शतं उत्कृष्टविशुद्धनवनीतसिक्ततूलनिर्मितकोमलकन्दुका इव कोमलं भवति। पित्रोः चित्तं परितृप्तं चानन्दितं च भवति। तदा तयोः सहानुभूत आनन्दो जायते। ततः, यदा पुत्रः तस्य भार्यायै भूषणानि दातुं शक्नोति तथा च स्वकीये गृहे वसति, तदा पितरौ समवृत्तिसम्पन्नौ सन्तौ अर्थात् समचित्ततामवलम्ब चिन्तयतः 'अधुना आवयोः पुत्रः स्वाधिनः सन् स्थातुमर्हति' इति। एवं तौ तस्मिन् समये समवृत्तितामर्जयतः। (अंगुत्तरनिकायटीका, २.१०४)
एवं विधेनोपायेन, योऽभ्यासकारी उदात्तान् भावान् कर्षति, स प्रथमतः करुणां पोषयति। अस्मिन् समये स सचेतनजीवेभ्यो हितमिच्छति। (विसुद्धिमग्ग, ९.१०९) ततः यदा स पश्यति, शृणोति, चिन्तयति यत् ते जीवा दुःखाधीनाः (विसुद्धिग्ग ९.१०९), तदा स परदुःखरीकरणाय अनुरागरूपं प्रेम कर्षति। (यतः अयमनुरागः ध्यानमग्नदशायां कृष्यते, अभ्यासकारी कर्मापेक्षया भावविकाशाय समाहितो भवति।) करुणाकर्षणेन अभ्यासकारी येभ्यः हितमैच्छत्, तेषां दुःखं दूरीभवतु इति ऐच्छत् तेषां जीवानां समृद्धिं यदाभ्यासकारी पश्यति (दिस्वा), तआ स आनन्दितो भवति। (विसुद्धिमग्ग, ९.१०९) अत्र 'पश्यति' इत्यस्यार्थः - ध्याता वर्तमाने परसमृधिं समीक्षते अथवा अतीतसमृद्धिं भाविसमृद्धिं वा चिन्तयति। (विसुद्धिमग्ग, ९.८४) तस्य चिन्ता केवलं वस्तुगतविषयेण सीमिता तिष्ठति। एवं सहानुभूतानन्दकर्षणेन अभ्यासकारी परेषां कृते संश्लिष्टानां भावानां निर्माण संपूरयति। न कोऽपि अवशिष्यते। स समवृत्तितां क्रष्टुमर्हति, सा समवृत्तिता न समानमानसिकतासञ्जातभक्तिः। स निरपेक्षदर्शकः सन् सर्वान् जीवान् पर्यवेक्षते। (विसुद्धिमग्ग, ९.१०९)
अभ्यासकारी व्यक्तिगतलाभाय तथा मनस्तत्वसम्मतलाभाय उदात्तभावानामेकतमं पालयितुमनु प्रेषितो भवति। स क्रोधादिविषघ्नागदत्वेन प्रागुक्तभावचतुष्टयं पलयितुं प्रवृत्तो भवति। उपदिष्टविकाशक्रमः मौलिकप्रतिक्रियाचतुष्टयादर्शमनुसरति। इममादर्शं पुनः पुनः अनुसृत्य अभ्यासकारी परेषां कृते घनिष्ठं चिन्तयितुं प्रवर्तते तस्य सामर्थ्यमपि समानमानसिकतया युक्तं जायते। इदं निःसंशयेनोच्यते यत् ध्यानेन उदात्तभावानां कर्षणं हितकरं, परेषां प्रकृतासु अवस्थासु कृतां प्रतिक्रियां प्रभावितां करोति। तेन प्रभावेण प्रतिक्रियायाः तीव्रता, उपयुक्तता, स्थायिता च परिवर्तन्ते।
गोतमः कदापि न प्रतिपादयति यत् उदात्तभावविषयकाः चतुर्विधा उपदेशा एकान्तत तस्यैव।
यो जनः केवलम् उदात्तभावानामनुशीलनं करोति स साधु न करोति। गोतमः स्पष्टतः मुक्तये अष्टाङ्गिकमार्गीयोपदेसैः सह उदात्तभावानां केवलमनुशीलनस्य वैपरीत्यं प्रदर्शयति -
- चतुर्विधोपदेशानुसारेण करुणादीनां केवलमनुशीलनं पराङ्मुखीकरणाय, अनासक्तये, प्रशान्त्यै, विरागाय, प्रत्यक्षज्ञानाय, सम्यग्ज्ञानाय निर्वाणाय च हितकरत्वमावहति, किन्तु केवलं ब्रह्मलोके पुनर्जन्मे कल्पते।
- ममानुशीलनं सम्पूर्णविषयविमुखतां साधयति। अपि च, तदनुशीलनं विषयासक्तित्यागे इन्द्रियभोगविरतौ, प्रशान्तभावलाभे प्रत्यक्षज्ञानार्जने, सम्यग् ज्ञानार्जने, निर्वाणलाभे विशेषतः अस्टाङ्गिकमहामार्गावलम्बने सहायकतां व्रजति। - (दीघनिकाय, २.३५२)
उदात्तभावानां केवलमनुशीलनं ब्रह्मलोके पुनर्जन्मने कल्पते। न तत् चितं दूषणमुक्तिं वा पुनर्जन्ममुक्तिं कारयितुमलम्। ब्रह्मादयः अपि सकष्टजरामृत्युपुनर्जन्मनामधीनतां व्रजन्ति। (अंगुत्तरनिकाय, ४.१०४) केवलं बुद्धोपदिष्टमार्गानुसरणद्वारा निर्वाणलाभात् कोऽपि जनः परिणामे निर्वाणशान्तौ पुनर्जन्म परिवर्तनदुःखादिभ्यो मुक्तिमर्जयितुमलम्। (अंगुत्तरनिकाय, ४.१०४) तथापि सर्वे जनाः कष्टनिवारणाय गोतमस्य उपदेशान् ग्रहीतुमसमर्थाः सन्तः तेभ्यः पलायन्ते। तत्रासमर्था जना अन्यथा उपदिश्यन्ते, तत्र तु महत्तमं लक्ष्यं न साध्यते।
एकदा, ब्रह्मलोके पुनर्जन्मग्रहणाय उदात्तभावानुशीलनं कर्तव्यमित्युपदेशः सारिपुत्तेन धानञ्जानिनामकाय विप्राय प्रदत्तः। (मज्झिमनिकाय, २.१९५-९६) तत्क्षणादेव तथा कृत्वा मरणात् परं स पुनः ब्रह्मलोकेऽजायत। अलोकदृष्ट्या गोतम एतत्सर्वमवगत्य प्रत्यागतं सारिपुत्तमाह - 'सारिपुत्त, अप्येकदा त्वया उत्थाय निकृष्टब्रह्मलोके प्रतिष्ठितो विप्रो धानञ्जानिः परित्यक्तः, तस्य तु अधिकतरसाधनीयवस्तु आसीत् ?' (मज्झिमनिकाय, २.१९५-९६)। सारिपुत्तो व्याख्याति यत् तेन स ब्राह्मणो ब्रह्मलोके प्रतिष्ठापितो यतो ब्रह्मलोको ब्राह्मणेभ्य एव।
बुद्धस्य प्रश्नो निर्दिशति यत् धर्माचार्यः शिष्यस्य कल्याणार्थं कदापि परितृप्तो भवितुं नार्हति। आचार्योऽपि निर्दिष्टे समये यथासाध्यं शिष्यं प्रमोदयेत्। यतः ब्रह्मलोके पुनर्जन्मग्रहणमन्तर्दृष्टिलाभान्निकृष्टतरम्, शिष्यो यदि परवर्तिसमृद्धये उत्साही भवति, तर्हि संश्लिष्टोपदेशदानमाचार्यस्य मुख्यं कर्त्तव्यम्।
गभिरान्तर्दृष्टिसम्पन्नो जनो यदा उदात्तभावान् कर्षति, तदा प्रागुक्ता दोषा न तिष्ठन्ति, यतः ते ततः यथायथं विषये कृष्यन्ते।
गोतमो वर्णयति यत् साधारणजनकर्तृकोदात्तभावकर्षणं च महत आचार्यस्य ज्ञानिना शिष्येणोदात्तभावानां कर्षणं चान्तरा स्पष्टं पार्थक्यमस्ति। (अंगुत्तरनिकाय, २.२२४-२९)
यदा साधारणो जन उदात्तभावान् कर्षति, तदा स मरणात् परं ब्रह्मलोके पुनरेव जायते। किन्तु तत्रत्यवासान्ते स पुनः नारकजनत्वेन, क्षुधार्तप्रेतत्वेन अथवा पशुत्वेन जन्म ग्रहीष्यति। (अंगुत्तरनिकाय, २.१२९ सर्वविधपुनर्जन्मनो मुक्तमर्हत्-पुरुषमन्तरेण महत आचार्यस्य उदात्तभावकर्षणरतः ज्ञानी शिष्यः मरणात् परं ब्रह्मलोके पुनः जनिष्यते। किन्तु निरन्तरोदात्तभावानुशीलनात् स तत्र अर्हत्पुरुषः भवति। तस्मिन् जीवने समाप्तिं गते सः अतः परं पुनः न जायते, किन्तु अमरनिर्वाणसमुद्भूतां निरापत्तामर्जयति।
गौतमस्य करुणा
प्रेम, सहानुभूतानन्दः, समवृत्तिता च।
सम्यग्ज्ञानलाभात् परमपि गौतमः चतुर्विधानामुपदेशानां पद्धतिमनुसृत्यनिरन्तरं सर्वविधोदात्तभावचतुष्टयस्य कर्षणं चकार। (अंगुत्तरनिकाय, १.१८३) सर्वभावचतुष्टयकर्षणे बुद्ध आसीत् दक्ष इति सर्वेषां निकटे स्पष्टमासीत्। कस्मिश्चित् संवादे गृहस्थो जीवककोमारभच्च आह - 'भद्र ! मया श्रुतम् ब्रह्मा करुणया वसतीति।' ब्रह्मा एव भाग्यवान् (बुद्धः), अहं स्पष्टतः पश्यामि। यतः, भद्र ! भाग्यवान् (बुद्धः) करुणया वसति। (मज्झिमनिकाय, १.३६९-७०) यत इदं मतं तिष्ठति यत् ब्रह्मपर्याया देवाः करुणां, प्रेम, सहानुभूतानन्दं समवृत्तितां च चकृषुः, जीवकः गोतमं ब्रह्मा इति प्रतिपादयति, यतः स पश्यति यत् गोतमः करुणया वसति। गोतमः प्रतिवदति, 'जीवक, लालसाघृणामोहदोषैः स 'सदैक्यवान्' कुपितो भवति। तदर्थं ते दोषाः परित्यक्ताः, मूलात् विच्छिन्नाः, मूलविहीनास्तालतरुसमाः विनष्टाश्च, ते भविष्यति काले उदेतुं न समर्था भविष्यन्ति। जीवक, एतद्विषयमधिकृत्य यत् त्वया उच्यते, तत् मया गृह्यते इति। (मज्झिमनिकाय, १.३७०) ततः जीवकश्च गोतमश्च प्रेम, सहानुभूतानन्दं समवृत्तितां चाधिकृत्य परस्परामालोचना चक्रतुः। गोतमो जीवकं ज्ञापयति यत् लालसाघृणाभ्रमदोषैः यदेव भवतु वा न भवतु हिंसा, अतृप्तिः विद्वेषपूर्णता च (विहेसावन्त) (अरतिवन्त) (पटिघवन्त) नाशं गताः। एवं बुद्धः सगौरवं जीवकं कथयति यत् तस्य करुणादिसमुदयः लालसाघृणाभ्रमत्यागमपेक्ष्य सञ्जातः। अस्मिन् संवादे, गोतमः क्रोधहिंसाऽसन्तोषविद्वेषदोषान् प्रेमादीनां विपरिता इति स्थापयति। टीकायां गोतमस्योक्तिरियं व्याख्याता -
जीवक, एतं विषयमधिकृत्य यत् त्वया उच्यते तत् यदि भवति - जीवक, महान् ब्रह्माः अवदमनात्मकत्यागेन क्रोधादीन् त्यजति। स तथा करुनया वसति। अहं निराकरणात्मकत्यागेन तान् दोषान् त्यजामि। एतं विषयमधिकृत्य यत् त्वया उच्यते तत् यदि भवति। तस्यार्थः 'यदि इदं प्रागुक्तिव भवति तर्हि अहं ते उक्तिं गृह्णामि'। जीवकेनेदं मतं गृहीतम्। ततः भाग्यवान् बुद्धः अवशिष्टोदात्तभावानधिकृत्य तस्मै प्रागुक्तां शिक्षा विस्तरेण ददौ। (मज्झिमनिकाटीका, ३.५०)
ब्रह्मा करुणादीनामन्तरायान् अवदमनेन परित्यजति। सम्यग्ज्ञानलाभसमये तु गोतमेन सर्वे मानसिका दोषा उन्मूलिताः। एवं करुणादीनां कर्षणस्य समये दोषावदमनेन प्रयोजनं नासादिति कारणात् तद्दमनचेष्टा तेन न कृता। अन्तर्दृष्टिकर्षणद्वारा ते सर्वे कार्त्स्य्न्येन निराकृताः।
अन्तर्द्ऱ्रिष्टिविकाशाय कश्चित् जनः प्रथमतः विशुद्धं व्यवहरति, समाधिं चावलम्बते। विशुद्धो व्यवहारः सर्वदा प्रयोजनीयमूलत्वं ब्रजति, येन सोऽसदाचरणोद्भूतानुतापात् मुक्तो भवितुमर्हति। (विसुद्धिमग्ग, ४.२३) विशुद्धो व्यवहारः वर्तमाने काले हितकरमानसिकत्वं पोषयति, भविष्यति कालेऽपि हितारमानसिकत्वं सृजति। (विसुद्धिमग्ग, १४.३५) हितकरत्वसम्पर्कितसाधारणसंस्थानस्य मध्ये एव अवस्थितः सन् कोऽपि जनः समाहितचित्तस्य सुसंस्कृता अवस्थाः स्थापयितुमाशान्वितो भवितुमर्हति।
समाधियोग्येषु चत्वारिंशत्संख्यकेषु विषयेषु (विसुद्धिग्ग, ३.१०४), ध्यानी जन आचार्योपदेशमनुसृत्य एकं वा एकाधिकं वा इच्छति। (विसुद्धिमग्ग, ३.१२९) ततः ध्यानी पुरुषः मनःद्रव्ययोः सूक्ष्मप्रकृतिं प्रवेष्ठुं यन्त्रत्वेन समाधिशाणितं मनः व्यवहरति। सोऽन्तर्दष्टि कर्षति।
अन्तर्दृष्टिमान् अभ्यासकारी यदि उदात्तभावानां समाहितावस्थाः कर्षति, तर्हि सः अभ्यासस्य स्पष्टविषयत्वेन उभयस्मिन् विषये दक्षो भवति। तथापि उभयं विषयमेकत्रीकृत्य संयुक्ताभ्यासरूपेण स क्रष्टुं शक्नोति। 'अत्थकनगरीसंवादे' संसारी दसमः आनन्दं पृच्छति बुद्धोपदिष्टः एकमात्रः अभ्यासोऽस्ति न वेति योऽभ्यासः मनोमुक्तिं साधयति, हानिकरं प्रभावं विनष्टं करोति, बन्धनात् च अनतिक्रमणीया मुक्तिं प्रसूते। (मज्झिमनिकाय, १.३४९)
आनन्दः एकादशाभ्यासान् लक्ष्यसाधकान् उल्लिख्य उत्तरं ददाति। तत्र एकतमं ह्येवम् -
- कश्चित् भिक्षुः सततं प्रेममयचित्तेन एकस्यां दिशि अवस्थितैः भूतैः सह सम्पर्कं स्थापयति, एवञ्च, द्वित्तीयस्यां दिशि अवस्थितैः भूतैः सह, तृतीयस्यां दिशि अवस्थितैः भूतैः सह, चतुर्थ्यां दिशि अवस्थितैः भूतैः सह,। एवञ्च, उपरि, अधः, पार्श्वापार्श्वि अवस्थितैः जनैः सह स सम्पर्कं स्थापयति। स समग्रविश्वस्य भूतैः सह सततं सर्वत्र समभावेन सम्पर्कं स्थापयति - करुणामयेन चेतसा, यत् चेतः स्थिरं, वैरात् मुक्तं, विशालं, विस्तृतमपरिमेयं च। ततः स एवं चिन्तयति 'करुणारूपमनोमुक्तिरियमपि सञ्जायते इष्यते च। यदेव सञ्जायतेऽथवा इष्यते तदेव अस्थायि, तदेव विरामाधीनम्।' तस्यैवमुपलब्धिर्भवति। तत्र प्रतिष्ठितः सन् स हानिकर प्रभावविनाशं साधयति। यदि स तत्र करोति, ततः स निम्नपर्यायगतनिगडपञ्चकनाश करोति। ततः स्वर्गलोके तस्य स्वतः सञ्जातं पुनर्जन्म भवति। -
प्रागुक्तां रीतिमनुसृत्य अन्तर्दृष्टि क्रष्टुं ध्यानी पुरुसः प्रथमतः स्वाभाविकेनोपायेन उदात्तभावानामन्यतमं कर्षति। ततः स एतत्समाहितावस्थाया उत्तिष्ठते, किन्तु ध्यानमग्नतायां मनसः विशुद्धता प्रकृतध्यानमग्नदशायां परं कञ्चित् कालं तिष्ठति। (विसुद्धिमग्ग, २२.१११) स उदात्तभावपोषणं त्यजति। तदा स वस्तुतत्त्वे तथा मानसतत्ते यादृशी प्रकृतिरस्ति, तस्या अनुसन्धानाय सपदि तीक्ष्णं मनः नियोजयति। मानसविषयाणां विविधानि कार्याणि तिष्ठन्ति। तथा च देहनिर्माणाय वस्तुगतानि उपादानानि सन्ति, तेषामुपाआनानां का प्रकृतिः ? मानसकार्याणां वा का प्रकृतिः ? अनयोः मध्ये पार्थ्यक्यमनुभवति सोऽभ्यासकारी, तथा हि - करुणायाः कोऽपि भावः भूतेषु मनः स्थापनाय तथा मनःपोषणाय युक्तस्तिष्ठति। तस्मिन् भावे सिद्धे आनन्दमय उत्साहो जायते। अन्तर्दृष्टिमन्तरेण, स्थापनं पोषणं तथा आनन्दमयोत्साहभावः - एतानि त्रीणि सहवर्तीनि मानसिकानि कार्याणि मनसः अविभाज्याः अपृग्भूता दशा इव अनुभूयन्ते। अन्तर्दृष्टियोगात्, तानि कार्याणि पृथक् पृथक् प्रतीयन्ते। (विसुद्धिमग्ग, १८.३) एवं विधमनुसन्धानं बहुषु प्रसंगेषु विविधमानसिककार्येषु च पुनः पुनः कृतम्। (विसुद्धिमग्ग, ११.११२)
तद्वत्, अखण्डवस्तुनिचयह् विविधैः उपादानैः निर्मित इति अभिज्ञतया प्रत्यक्षीक्रियते। तदा जीवः, वाहुः, शिरः इत्यादिधारणानां स्थलेषु केवलं भौतिकीमभिज्ञतां ध्यानी जनः अर्जयति। तत्र स कठिनांशं कोमलांशं वा, उष्णांशं वा शीतांशं वा प्रत्यक्षीकरोति। पूर्वमखण्डवस्तुनिचयत्वेन यत् प्रतीतं तदधुना असंवद्धभौतिकाभिज्ञतया निर्मितमिति दृश्यते।
व्यक्तिसत्ता कतिभिः वास्तवैस्तथा मानसिकैः घटकैः द्रव्यैः निर्मीयते। तेषु द्रव्येषु स्पष्टेषु सत्सु तेषां साधारणानि लक्षणानि प्रकाशन्ते। (विसुद्धिमग्ग १०.३) तदा पृथक् पृथक् मानसिकं तथा वास्तवं घटकं प्रत्यक्षीक्रियन्ते। कथमिव ? परिवर्तनशीलम्, अस्थायि असारं च। तत्र क्षणात् क्षणान्तरं द्रव्यगता चलमानता नास्ति। एवं तानि सर्वाणि असन्तोषजनकानि। ध्यानी जनः प्रत्यहं प्रत्यक्षीकरणीयान् विषयान् साक्षात् अभिज्ञातुं प्रवर्तते। यतः अभिज्ञायमाना चेतनापि विनाशशीला, तत इदं स्पष्टं यत् चेतनायाः कस्मिश्चित् क्षणे सम्पूर्णं विलीने सति अपरचेतनाक्षणो जायते। (विसुद्धिमग्ग, १८.१३)
व्यक्तिसत्तायां तथा परिवेशे परिवर्तनशीलेषु असारेषु द्रव्येषु शरणस्वरूपं स्थायिनमात्मानं नावलोक्य ध्यानी जनः सर्वविधगोचरवस्तु 'अस्थायित्वेन दुःखत्वेन, पीडात्वेन, स्फोटकत्वेन, बाणत्वेन, क्षोभत्वेन, क्लेशत्वेन, विजातीयत्वेन, विलीयमानत्वेन, शून्यत्वेन, स्वार्थहीनत्वेन पश्यति'। (अंगुत्तरनिकाय, २.१३०) एवं वस्तुतत्त्वस्य नवभावेन प्रत्यक्षीकरणात् योगी स्वभावत एव मुक्तिं कामयते। स इमां मुक्तिं निर्वाणस्य उपलब्धौ प्रत्यक्षीकरोति। तदा स सर्वविधमस्थायित्वं च परिवर्तनं चातिक्रम्य वर्तमानायाः कस्याश्चिदवस्थायाः संक्षिप्तः ज्ञानं लभते।
प्रथमे, अन्तर्दृष्टिगतप्राथमिकपर्यायेषु, समाहितचेतसा अनुभूतायाः असम्यक्तायाः सुतीक्ष्णप्रत्यक्षीकरणेन तस्य सुस्थितजगद्दृष्टिः कियता परिमाणेन विपर्यस्ता आसीत्। ततः निर्वाणस्य उपलब्ध्या का एव प्रकृता शान्तिः इति विषयमवगच्छति। परमां शक्तिमनुभूय स तथैव अतिलोभनीयपार्थिवाकर्षणैः न पुनः प्रलुब्धः भविष्यति। एकतः, सर्वस्तूनामनिर्भरयोग्यता तथा अनित्यता यथा स्पष्टा, अन्यतः, ततहिव स्पष्टा निर्वाणस्य निरापत्ता।
ध्यानी जनः सततं समाधिना तस्य चित्तमवश्यमेव शाणितं कुर्यात्। गभीरोपलब्धिसमृद्धपर्यायत्रयमतिक्रम्य स्रोतःप्रवेशी सन्नपि ध्यानी सततमेव अन्तर्दृष्टिं पालयेत्। एवं गोचरवस्तूनामसन्तोषजनकः स्वभावः क्रमशः स्पष्टात् स्पष्टतरं जायते। तद्वत्, निर्वाणस्य सामग्रिकी विशुद्धा प्रकृतिः सततमधिकतमस्पष्टतां व्रजति। अर्हत्पुरुषस्य फललाभेन अन्तर्दृष्टिः सम्पूर्णा भवति। पुनर्जन्मनः मुक्तः सन् मरणात् परं स निर्वाणस्य मृत्युहीनामवस्थां लभते।
एवं विधेनोपायेन, भवचक्रात् परममुक्तये भित्तिमूलत्वेन उदात्तभावसमूहः व्यवह्रियते। स्रोतःप्रवेशिनः उपलब्ध्यापि अभ्यासकारी योगी अपरान् जनान् अन्तर्दृष्टिमार्गमुपदेष्टुमर्हति।
-------
पञ्चमोऽध्यायः
पुराणां प्रकृतिस्तथा प्राचीनता
आधुनिके भारते संस्कृतविद्यानुशीलनस्येतिहासे यदा वयं मुद्रणयन्त्रस्य वर्तमानं समुन्नतं युगं प्रविशामः स्म तदा बहुषु आद्येषु वस्तुषु अन्यतमं वस्तु प्रति विबुधानां तथा संस्कृतप्रेमिणां मनोयोग आकृष्टोऽभवत्। संस्कृतसाहित्यस्य महाग्रन्थानां मुद्रांकनेन प्रयोजने एव तत् वस्तु निहितं वर्तते। संस्कृतभाषया विरचितं महाभारतं भारतवर्षस्य महत्तमो ग्रन्थः समग्रे विश्वेऽपि अस्य महत्तमत्ता प्रसिद्धा। तद्ग्रन्थप्रकाशनाविषये एव युगस्य उद्यमस्य च गर्वः सूच्यते। १८३४ तम-खृष्टाब्दात् १८३९ खृष्टाब्दं यावत् समये कलिकातास्थैशियाटिक्सोसाइटिनामधेयस्य प्रतिष्ठानस्य प्रसादात् पण्डितैः संस्कृतमहाभारतं प्रकाशितम्। अस्मात् प्राक् स्यार-उइलियाम जोन्स्महोदयेन आत्मनस्तथा पाश्चात्यदेशस्य कृते संस्कृतमाविष्कृतम्। तेन कालिदासकृतस्य ऋतुसंहाराख्यस्य क्षुद्रकाव्यस्य एकं संस्कृतमाविष्कृतम्। तेन कालिदासकृतस्य ऋतुसंहाराख्यस्य क्षुद्रकाव्यस्य एकं संस्करणं प्रकाशितम्। तदृतुसंहारं वर्णनामूलकं गीतिकाव्यम्। तत्र प्राचीनभारतीयैतिह्यानुसारेण वस्तूनां वर्णना वर्तते। १७९२ तमे खृष्टाब्दे वंगीयाक्षरयुक्तमृतुसंहारं तेन कलिकातातः प्रकाशितम्। किन्तु महाभारतस्य प्रथमसंस्करणात् परं भारते तथा विदेशे विबुधमण्डलस्याभिनिवेशः संस्कृतविद्यानुशीलने केन्द्रीभूतो बभूव। महाभारतस्य प्रथमं संस्करणं विचारमूलकं नासीत्। इदं सारल्येन कति पाण्डुलिपीः अनुसृतवत्, याः सम्पादकैः हस्तगताः। इदमेकं सुन्दरं संस्करणम्। इदं बहुभिर्दर्शकैः अस्य अभिप्रायं पूर्णमकरोत् किन्तु अनेन यथार्थं स्वनः सूचितः। ततः अस्माभिः जार्मानसंस्कृतपाण्डित्यसूचकं विशालं तथा प्रधानं साहित्यकर्म प्राप्तम्। यदा इंल्याण्डवास्तव्यो जार्मानदेशीयः पण्डितः म्याक्समूलारमहोदयः प्रथममेव षड्भिः खण्डैः विभक्तं सायणभाष्यसमेतमृग्वेदं सम्पाद्य प्रकाशितवान् - यो ग्रन्थः भारते तथा इन्दो-इउरोपीय-जगति प्राचीनतमः (१८४९-१८७०)। इदं विचारसम्बलितं प्रथमं मुद्रितं संस्करणम्। न केवलं तद्धस्तगतपाण्डुलिपीनामपितु अनेकजीवितपाण्डुलिपीनामर्थाद् यैःभारतीयपण्डितैः अखिलः वेदः कण्ठस्थीकृतः तेषां साहाय्येन म्याक्स्मूलारमहाभागः वेदस्य विशुद्धं पाठं प्रतिष्ठापयितुं यतते स्म। ते पण्डिताः पाण्डुलिपीनां साहाय्येन पाठस्य संशोधनाय म्याक्स्मूलारं सेवन्ते स्म।
ततः परं, वस्तुतः भारते तथा विदेशे पण्डितैः संस्कृतप्रकाशनस्य गौरवमय इतिहास आरब्धः। कलिकातावास्तव्यो हेमचन्द्रविद्यारत्नमहाशयः वंगीयपाण्डुलिपिमूलस्य रामायणस्यैकं संस्करणं प्रकटीकृतवान्। गसपारे-गोरेसिओ-नामधेयः इटालीयपण्डितः प्यारीनगरीतः इटालीयानुवादसमेतस्य रामायणस्यैकं प्रथमं विचारसम्बलितं संस्करणं व्यक्तीचकार। १८४३ त्तमखृष्ठाब्दात् १८५० तमखृष्टाब्दं यावत् तस्य कालः। भारते तथा भारताद् वहिः, उत्कृष्ठपाठलाभाय पण्डितैः प्रभूतो यत्नः कृतः। तदर्थं च कति प्रकाशनालया अपि प्रतिष्ठिताः तद्यथा कलिकातायां जीवानन्दविद्यासागरप्रतिष्ठितप्रकाशनासंस्थानम्, वाराणस्यां हरिदासगुप्तकृता चौखम्बा संस्कृतमाला, बोम्बाइनगर्यां तुकारामजवजीचालितः निर्णयसागरमुद्रणालयः, पुनास्थमानन्दाश्रममुद्रणगृहम्, श्रीरंगम् इत्यस्य वाणीविलाससमुद्रणसंस्थानम्, तथा च समग्रं भारतं व्याप्य बहवो विख्याताः प्रकाशनालयाः। ततः एशियाटिकसोसाइटिः अन्यानि प्रतिष्ठानानि चापि एतादृशं कर्म जगृहुः। तथा हि - एशियाटिकसोसाइटिद्वारा विव्लियोथेका-इण्डिका-सिरिजः तेन सह संस्कृतप्रकाशना, त्रिवान्द्रमसंस्कृतसिरिजः, माद्राजस्य एडार थियोजफीक्याल सोसाइटिः, वांगलोरविश्वविद्यालयस्य प्रकाशनाविभागः, प्रायेण भारतं व्याप्य विश्वविद्यालयलग्नाः संस्थाः अथवा अनुसन्धानरुपशोधकार्यं विदुषां समाजाः यत्र क्रियते, तथा च, संस्कृतग्रन्थप्रकाशनालयाः। एतानि संस्थानानि संस्कृतसम्पदः प्रचाराय संयुक्तानि।
संस्कृतसाहित्यस्य विशालता विस्मयं सूचयति। अस्य साहित्यस्य अन्यतमं लक्षणीयं वैशिष्ट्यं निहितमस्ति पुराणेषु उपपुराणेषु च। महाभारताद् रामायणात् च परं तेषामागमनमभवत्। १९१८ तमे खृष्टाब्दे पुनास्था भाण्डारकरप्राच्याविद्यागवेषणासंस्था तत्रभवतः रामकृष्णगोपालभाण्डारकरमहाशयस्य अनुप्रेरणया महाभारतस्य विचारसमेतं संस्करणं प्रकाशयितुमुद्योगं लेभे। संस्कृते इदं कर्म महदपूर्वं तथा च भारते प्रथमेव। वर्तमान भारतस्य मुख्येषु संस्कृतपण्डितेषु अन्यतमस्य भि. एस. सुक्ठङ्करमहोदयस्य हस्ते अस्य कर्मणः भारः समर्पितः। स पुरातनपाठसम्पादनार्थं कति नियमान् ससर्ज ये नियमाः सर्वत्र विबुधजगता सुस्थत्वेन शुद्धत्वेन च गृहीताः। तस्योद्योगे उपदेशे च पुनायाः भाण्डारकरप्राच्यविद्यागवेषणकेन्द्रतः अवशेषे महाभारतस्य अपूर्वं विश्लेषितं संस्करणं प्रकटीभूतम्।
इदं भारतीयवैदूष्यस्यापूर्वं निदर्शनम् - यत्र आधुनिकपद्धत्या साहित्यविचारेण सह प्राचीनसंस्कृतविद्यायाः च पाठसम्पादनायाः च समन्वयः साधितः। समग्रे भारते ये हस्तलेखा आसन्, ये च भारताद् वहिः आसन् - ते सर्वे संगृहीताः। भारतवहिर्भूतश्यामजाभादिदेशेषु महाभारतस्य पाठान्तरत्वेन आनुषंगिकं यत् साहित्यं प्राप्तं तदपि प्रार्थनाधीनं कृतम्। फलतः, महाभारतस्य महासंस्करणम् महादर्शत्वेन गृहीतमभवत्। अपरैः विश्वविद्यालयैः संस्थानैः च अयमादर्शो गृहीतः। रामायणस्यान्यानि संस्करणानि अन्तरेणापि वाल्मीकीयरामायणस्य विचारसम्बलितं संस्करणं महाभारतपंक्तितः बरोदाप्राच्यविद्यागवेषणासंस्थानेन गृहीतम्। आमेदावादस्थो गुजराटविश्वविद्यालयः भागवतपुरास्य कार्यं गृह्णाति स्म।
भारतीयसंस्कृतिमुखं खलु पुराणम्। भारतं जिज्ञासुः जनः पुराणेभ्यः प्रयोजनीयं साहाय्यं वाञ्छति। प्राचीनकालादेव पुराणसम्मता सभ्यता तथा संस्कृतिः, पौराणिको धर्मः, पौराणिकं दर्शनम्, पौराणिको विश्वासश्च भूमण्डलस्य सर्वासु दिक्षु श्रद्धया अनुमोदितानि तथा स्वीकृतानि। अत एव पुराणानामस्तित्वे यत् चलमानत्वं तत् स्वयं सिद्धसत्यत्वेन जातम्। आधुनिकभारतीयसमाजोऽपि पुराणानां भित्तौ आत्मानं नियन्तुं शक्नोति। वस्तुतः, पुराणसमूहः हि भारतवर्षस्य बौद्धिकप्रगतेः निरन्तरो हेतुस्तथा प्रोत्साहको विषयः।
आधुनिकमन्वेषणं यद्यपि दर्शयति यत् अत्यल्पसंस्थाकानि विद्यमानानि पुराणानि युक्त्या प्राचीनकालीयानीति प्रतिपादयन्ति, तथापि पुराणसाहित्यस्य मूलं वैदिकसंहितारचनायुगे एव भवितुमर्हति। पुराणस्य प्राचीनतम उल्लेखः अथर्ववेदस्य मन्द्रद्वये लक्ष्यते। यत्रैकतरस्य ऋचामिव समपवित्रमूल्यत्वम् अस्तीति उच्यते।
साम्नां छन्दसां यजुसामिव पुराणानां समयो नित्यं समुच्यते। अन्यतरक्षेत्रे इतिहासेन सहास्योल्लेखः कृतः। वैदिकसाहित्यस्य बहुषु ग्रन्थेषु इतिहासेन सह पृथक् वा एकत्र वा पुराणस्योल्लेखः क्रियते। तथा हि - शतपथब्राह्मणे, गोपथब्राह्मणे, जैमिनीयोपनिषदि, जैमिनीयब्राह्मणे, तैत्तिरीयारण्यके बृहदारण्यकोपनिषदि, छान्दोग्योपनिषदि, सांख्यायनश्रौतसूत्रे, आश्वालायनगृह्यसूत्रे चेत्यादिषु। अपि च, अन्येषु प्राचीनेषु पवित्रेषु च ग्रन्थेषु अपि पुराणस्य स्वीकृतिः प्रतिष्ठाप्यते। यथा - आपस्तम्बधर्मसूत्रे, गौतमधर्मसूत्रे, व्याससंहितायाम् उशनासंहितायाम्, मनुसंहितायाम्, याञवल्वयसंहितायाम्, शवरभाष्ये, शाङ्करभाष्य, वात्साययनभाष्ये, तन्त्रवार्त्तिके चेत्यादिषु। यास्ककृतनिरुक्तानुसारेण, ऋग्वेदोऽपि 'इतिहासमिश्र'-मन्त्रमुल्लिखति यः पुनः ब्रह्मणः प्रकारत्रये अन्तर्भूतः। तस्य मते पुरातनं सत् यत् नूतनं भवति तदेव पुराणम्। प्राचीने युगे यदासीत् तदेव पुराणं पुरातनं वेति अष्टाध्यायीति ग्रन्थे पाणिनिना उक्तम्। पुराणं यतः पुरातनेषु दिवसेषु जीवितमासीत् ततः तत् पुराणमिति कथ्यते इति वायुपुराणस्य मतम्। पद्मपुराणं पुराणानामन्यं विचित्रमर्थं पश्यति। ते एव प्राचीनाः पाठा ये कतिचित् परस्परसंवद्धाख्यानानि वदन्ति। प्राचीने काले इदं तथा अभवत् ततस्चेदं पुराणमित्युच्यते - इति ब्रह्माण्दपुराणस्य मतम्।
एवं पुराणस्य लक्षणेषु विश्लेषितेषु एको विषयः स्पष्टो भवति। सर्वत्र पुराणानि प्राचीननिबन्धैरुपेतानि। पुराणानां प्राचीनत्वे तेषु पवित्रेषु पाठेषु न कोऽपि सन्देहो वर्तते। अत्र प्रसंगे 'इतिहास' पदेन सहास्य संयोगः विचार्यः एव। अथर्ववेदसंहितायां तथा विभिन्नेषु ब्राह्मणेषु इतिहासशब्दस्य पौनःपुन्येन व्यवहारो दृश्यते। अस्यार्थः - ध्रुवमिदं संवृत्तम् इत्थं वा इत्थं वेदमासीत्।
एवं प्रतिभातमिदं यत् इतिहासः सम्भवतः अतीतकालस्य यथार्थं संवृत्तं वृत्तान्तं सूचयति। अत एव पुराणमितिहासश्चेति शब्दद्वयं न समार्थज्ञापकमिति अनुमीयते। अन्यतश्च, तेषां वैशिष्ट्य तथा कर्मक्षेत्रमपि सम्भवतः पृथक्। यास्कस्य मते देवापिशान्तनुकथायाम् इतिहासत्वमस्ति। वैश्वामित्रसुदासस्य तथा पैजवनपुरोहितस्य कथापि इतिहासस्य पर्यायं गच्छति। एवं यद्यपि इतिहासः पुराणं च अन्योन्यसम्बन्धेन घनिष्ठं युज्यते, तथापि पुराणेषु कल्पनाभागो नातीव तात्पर्यहीनः, किन्तु इतिहासे अस्य परिधिः सीमितः। तथापि द्वयोर्मध्ये प्राचीनं पार्थक्यं न स्पष्टं न च सरलम्। तस्मात् एकस्तथा सदृशः पाठ आत्मानं पुराणीयमिति स्वीकरोति। अन्यत्र च पुनः अयं पाठः इतिहासत्वेन स्वीक्रियते। इतिहासत्वेन वा इतिहासोत्तमत्वेन वा स्वीकृतं महाभारतं पुराणशब्दसंग्रहरूपेण आत्मनः स्वीकृतिं न त्यजति। अष्टादशमहापुराणेषु अन्यतमं खलु वायुपुराणम्। इदं गुरुत्वपूर्णं पुराणमिति स्वीक्रियते। किन्तु तस्मिन् वायुपुराणे पंक्तिविशेषो दृश्यते, यत्रास्ति - इममितिहासं पठन् जनः महत् यशः लप्स्यते, तस्य जीवनमपि धर्मयुक्तं स्यात् इति। एतादृशमपि ब्रह्माण्डपुराणे श्रद्धया उदीरितम्। इदं युगपत् पुराणं तथा इतिहासः। अत एव वितर्कभयात् इदमेवोच्यते पुराणस्येतिहासस्य च मध्ये भेदस्य रेखा न सर्वदा सुखबोध्या। कौटिल्यः पुराणम् इतिहासांशं मन्यते। तस्य मते पुरातनी कथा च वर्णना च पुराणस्य मध्ये तिष्ठतः। धर्मशास्त्रमर्थशास्त्रं चेतिहासे तिष्ठतः। अथर्ववेदे कतिपयेषु पुराणेषु चापि पुराणस्येतिहासस्य मध्ये न किमपि पार्थक्यं प्रतिष्ठितम्।
यथारीति पृथिवीर्णनायामथर्ववेदः पुराणशब्दं व्यवहरति। किन्तु तस्मिन् वेदे व्रतानुगमनविषये इतिहासशब्दस्य प्रयोगः दृश्यते। छान्दोग्योपनिषदः टीकाया शंकराचार्य उभयोः मध्ये स्पष्ठं पार्थक्यं सूचयितुं यतते स्म। तस्य मते शतपथब्राह्मणे ऊर्वशी च पुरूवाश्चेति द्वयोः कथा वर्तते। एषा कथा विशुद्धेतिहासस्यान्तर्गता। किन्तु जगत्तत्वं प्रकृत्या पौराणिकम् - यत्रोच्यते सृष्टेः प्राक् अनस्तित्वमभूत्। तस्मादनस्तित्वात् च क्रमेण जगदाविर्भवति। इति वस्तुतः शङ्कराचार्य एव प्रथमं द्वयोः शब्दयोः मध्ये स्पष्टं पार्थक्यं दर्शयितुं चेष्ठते स्म। किन्तु तस्य मतं न सर्वैः गृहीतम्। महान् वैदिकः पण्डितः सायणाचार्यः अस्य प्रतिवादं चकार। तस्य मते विपरीतमस्य सत्यमिति। शतपथब्राह्मणे उर्वशी पुरूरवाः चेत्यनयोः या कथा दृश्यते सा पौराणिकीं प्रकृति निर्दिशति यतः तत्र प्राचीनतमं किञ्चित् विवृतम्। सृष्टेः सूचनायां केवलं जलमासीत्, सर्वं जलमयमासीत् - एतादृशी उक्तिः निश्चितमस्याः सृष्टेः ऐतिहासिकत्वं दर्शयति। एवं द्वयोः प्रसिद्धयोः पण्डितयोः मध्ये परस्परविरोधिमतपार्थक्ये सति पुराणेतिहासयोः मध्ये भेदरेखायाः प्रायेण विलुप्तिकरनमेव श्रेय इत्यस्य केवलं प्रमाणम्। सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितयुक्तस्य पञ्चलक्षणस्य पुराणस्य संहतं लक्षणं तथा पुराणस्य निर्दिष्टं युगमपि पुराणानां क्षेत्रे न प्रयोज्यम्, यद्यपि पुराणलक्षणं विविधेषु पुराणेषु विवृतम्, तथा च, अमरकोषे तत् दृढं समर्थितम्। पञ्च लक्षणानि अपि अन्तरेण विचित्रा विषयाः प्रायेण सर्वेषु पुराणेषु दृश्यन्ते। तथा हि - देवतानेतृत्वं, पवित्राणि स्थानानि, बहूनि व्रतानि, विविधदानानां गुरुत्वं, विस्तृतं भौगोलिकं विवरणाद्यम्। केषाञ्चिन्मते द्वयोः पार्थक्यमाख्यानस्य नेतृणां संख्यायाः उपरि आश्रित्य वर्तते। यत्र तेता एक एव तत्र स इतिहासः। किन्तु यत्र तेषां संख्या एकाधिका तत्र तत् पुराणम्। तथापि इदमपि न सम्यक् प्रतिपादनीयम्। राजशेखरेण तस्य काव्यमीमांसायां द्विविध इतिहासः इति कथितम्। एकः परिक्रियेति परिचीयते यत्र केवलमेक एव नेता, अन्यश्च पुराकल्पनामेधया यत्र बहवः नेतारः सन्ति, एवं तस्य मते रामायणं परिक्रियापर्यायं गच्छति, महाभारतं च पुराकल्पपर्यायम्। स्पष्ठतः राजशेखरस्य मते इतिहासस्य परिधिः बिन्दुमात्रेणापि सीमितः।
पुराणस्य पञ्च लक्षणानि अन्तरेणापि पुराणस्यान्यप्रकारं लक्षणं भागवतपुराणे वारद्वयं ब्रह्मवैवर्तपुराणे सकृत् एव दृश्यते। अत्र पुराणं दशलक्षणमिति स्मृतम्। दश लक्षणानि हि एवम् - सर्गः, विसर्गः वृतिः, रक्षा, अन्तरम्, वंशः, वंशानुचरितम्, संस्था, हेतुः अपाश्रयश्च। यत लक्षणानि पुराणानां किञ्चित् महत्त्वं वैशिष्ट्यं निर्दिशति, तत एतेषां विस्तृतालोचना प्रयोजनीया।
प्रथमं लक्षणं सर्ग इति परिचीयते। सर्गस्यार्थः सृष्टिरिति। मूलप्रकृतौ सत्त्वरजस्तमसां क्षुब्धदशांयां सत्यां त्रिविधाहंसत्ता जायते। ततः पञ्चतन्मात्राणि पञ्चमुख्यानि भूतानि च जायन्ते। सृष्टेरयं क्रमः हि सर्गः।
विसर्गः हि जीवजगतः सृष्टिः। एकस्मात् बीजाद् यथा द्वितीयं जायते तथा एको जीवोऽन्यस्मान् जायते। ब्रह्मा एव सृष्टेः कर्ता। स परमेश्वरस्य प्रसादात् सृष्टिसंक्रान्तां सर्वां शक्तिं धत्ते।
वृत्तिर्हि गुरुत्वपूर्णं वस्तु येन जीवः प्राणसारम् विभर्त्ति। न्यूनतमतः, अस्य दृष्टिग्राह्यस्य जगतः कति भागा वृत्यधीनाः तिष्ठन्ति। नरः प्राणधारणार्थमन्नगोधूमदुग्धफलादीनि वस्तूनि गृह्णाति। पुनश्च कतिचित् वस्तूनि शास्त्रनियमपालनार्थं तेन गृह्यन्ते।
रक्षा पुराणस्य चतुर्थं वैशिष्ट्यम्। साधूनां परित्राणाय तथा दुष्कृतां विनाशाय ईश्वरः विभिन्नेषु युगेषु स्थानेषु च वहूनि रूपानि धत्ते। स आस्तिकान् रक्षति, नास्तिकानां च विनाशं करोति। किन्तु इदमीश्वरस्य प्रायेण सामान्यं कर्म। मुख्योऽभिप्रायो हि ईश्वरस्य लीलाधर्मि वचनम्। नर ईश्वरस्य पवित्रां लीलामनुसरन् तथा ईश्वरं जपन् स्मरन् मोक्षं लब्धुं शक्नोति।
महापुराणस्य पञ्चसु लक्षणेसु यत् मन्वन्तरं कथ्यते तदेव अन्तरम्। सिद्धान्तशिरोमणिग्रन्थस्य गणनाया अनुसारेण ३०६७२००० वर्षेः एकं मन्वन्तरं भवति। मन्वन्तराणि चतुर्दश। प्रत्येकं मन्वन्तरं मनुविशेषेण अधिष्ठितं वर्तते। प्रायेण सर्वाणि पुराणानि चतुर्दशमनूनां नामविषये तथा पदविषये ऐकमत्यं स्वीकुर्वन्ति। ते एव - स्वायम्भूवः, स्वारोचिषः, उत्तमः, तामसः, रैवतः, चक्षुषः, वैवस्वतः, सावर्णिः, दक्षसावर्णिः ब्रह्मसावर्णिः, धर्मसावर्णिः रुद्रसावर्णिः, देवसावर्णिः, इन्द्रसावर्णिश्च। पञ्च मनवः, सप्तवर्षयः, देवः, इन्द्रः मानवश्च एषां मन्वन्तराणां प्रमाणम्।
पुराणानां परवर्त्ति वैशिष्ट्यं वंशः। राज्ञः सर्वे वंशा ब्रह्मणा सृष्टाः। एषां नृपाणां त्रिकालीयविवरणमिमं पर्यायं गच्छति। भागवतपुराणं वदति - 'राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः' इति। राज्ञां प्रशस्तित इदं प्रतिभाति यत् तेषामतीतकर्मणां, वर्त्तमानकार्याणां तथा भाविविषयाणां गौरवमेव अस्य मुख्योऽभिप्रायः। अन्येषां पुराणानां मते वंशः न केवलः राजवंशः, अनेन ऋषिवंशोऽपि बुध्यते।
अतः परमायाति वंशानुचरितम्। भागवतपुराणं पर्यवेक्षते यत् 'वंशानुचरितं तेषां वृत्तं वंशाधराश्च ये'। कति प्रधाना राजान् इमं पर्यायमलंकुर्वन्ति। तेषां गौरवमयं कार्यं विस्तरेण अत्र वर्णितम्। राजगौरवगाथायामपि पुनः अन्यानि पुराणानि प्रसिद्धानां प्रधानानां मुनीनामन्तर्भुक्तिमिच्छन्ति। वस्तुतः पुण्यश्लोकानां राज्ञां विवरणानि निःसन्देहेन आदर्शवादस्य उत्पत्तये स्मरणीयानि। किन्तु अस्मिन् प्रसंगे महर्षीणां गुतुत्वं न कदापि लघुमूल्यत्वं व्रजति। युधिष्ठिरहरिश्चन्द्रजनकादीनां चरित्राणि असंशयं दिव्यामनुप्रेरणां ददति। किन्तु तस्मिन् समये व्यासवाल्मीकिवशिष्ठादीनां स्वल्पसंक्याकानामवदानानि निःसंशयेन जनानां बहूनि कार्याणि संस्कुर्वन्ति।
अष्टमं लक्षणं हि संस्थासंज्ञकम्। इयं पञ्चलक्षणस्य पुराणस्य प्रतिसर्गेण सह सादृश्यमावहति। तथापि विष्णुपुराणे प्रतिसर्गस्य स्थले समार्थकः प्रतिसंहारः शब्दः गृहीतः। इयं संस्था जगतः सम्पूर्णां विनष्ठि सूचयति। प्रतिकल्पमनुसृत्येयं विस्तरेण वर्ण्यते। वर्तमानकल्पस्य नाम श्वेतवराहकल्प इति। अयं ४३२००० वर्षैरुपेतः। सिद्धान्तशिरोमणेः विशिष्टगणनया ज्ञायते यत् अखिलो विश्वः २३४७०५०९४७ वर्षेभ्यः परं सम्पूर्णतः विनाशं गमिष्यति।
अतः परं हेतुरेव एकं लक्षणम्। अयं हेतुः सर्वदा सृष्टिहेतून् जीवितान् जीवान् निर्दिशति। ते जीवा अज्ञतया भ्रान्त्या वा कति कर्याणि साधयन्ति। अयं च परिणामे अन्यां सृष्टिं नयति। वस्तुतः, विश्वस्य सृष्टेः विनष्टेश्च मूलभूतो हेतूः एषां जीवानां भाग्यम्। अत एव ते एव हेतुत्वेन तथा मूलकारणत्वेन स्वीकृताः।
अन्तिमं वैशिष्त्यमपाश्रयोऽथवा आश्रय इति परिचीयते। यत् तत्त्वं समग्रत्वं वा व्यक्ति सृष्टिं विनष्टिं वा नयति तदेव अपाश्रयबोधकम्। अयमेव ब्रह्मा परमात्मा वा अयमेवैकः केवलं ध्यातव्यः। सर्वाणि नव वैशिष्ट्यानि दशमस्य पुष्टये कल्पन्ते। भागवतपुराणमनुसृत्य दशमस्य लक्षणस्य संस्काराय नव वैशिष्ट्यानि सविस्तरमालोच्यन्ते।
भागवतपुराणमन्यत्र लक्षणदशकस्यानां सूचीं रचयति। तत्र दश लक्षणानि ह्वेवम्-सर्गः, विसर्गः, स्थानम्, पोषणम्, ऊतिः, मन्वन्तरम् ईशानुकथा, निरोधः, मुक्तिः आश्रयश्च। एवमिदमायाति यत् तृतीयं, चतुर्थं, पञ्चमं च नाम नूतनम् (स्थानम्, पोषणम्, ऊतिः)। द्वितीयसूचिस्थं मन्वन्तरं प्रथमसूचीस्थस्य अन्तरस्य समानम्। तथैव, वंशोऽथवा वंशनुचरितम् ईशानुकथया सह तुल्यार्थकत्वं नयति। अपाश्रयस्य आश्रयस्य च मध्ये किमपि पार्थक्यं नास्ति। प्रथमसूचीस्था संस्था चतुर्विधा। तथा हि - नैमित्तिकी, प्राकृतिकी, नित्या, आत्यन्तिकी च। आसु चतऱ्उषु आत्यन्तिकी संस्था द्वितीयसूचीस्थां मुक्ति निर्दशति, अन्याः तिस्रश्च निरोधसमानाः। स्थानं समग्रस्य विश्वस्य भौगोलिकं विवरणं ददाति। जनानां संख्या, अभ्यासाः चरित्राणि चात्र परिऱ्ह्यन्ते। एवं पुराणानुशीलने भोगोलिको विषयोऽपि युगपत् अनेन लक्षणेन सह वर्तते।
पोषणं नाम ईश्वराल्लब्धा करुणा अथवा तल्लब्धः प्रसादः। जीवाः समग्रस्य विश्वस्य सृष्टौ, रक्षणे, नियन्त्रणे, विनाशे च तस्य ईश्वरस्य असीमां शक्तिं बोद्धुं यतन्ते। ते तां शक्तिं बोद्धुं शक्नुवन्ति। स दुःखमुक्तये तेभ्यः असीमां करुणां ददाति। अजामील आसीत् मद्यपः, पापसक्तः, चरित्रभ्रष्टः च। किन्तु सोऽपि ईश्वरस्य चिरन्तनानन्दाद् वञ्चितो न बभूव।
ऊतिः हि अन्तिमं लक्षणम्। इयं कर्मप्रावण्यं निर्दिशति। उत्कृष्टस्य वा अकृष्टस्य वा कृतकर्मणः फलादेषा इच्छा जायते, एवमूर्तिः ईश्वरस्य अकृत्रिमाया करुणाया विरुद्धे प्रत्यक्षमेव दण्डायते। ऊतये नराः ईश्वरेण सह मिलनस्याकाङ्क्षां दर्शयितुं व्यर्था भवन्ति। इदं पूर्वं दर्शितं यत् ब्रह्माण्डपुराणमपि पुराणस्य दश लक्षणानि अधिकृत्य एकां सूचीं ददाति। तेषु लक्षणेषु सन्ति - सर्गः, विसर्गः, स्थितिः, कर्मावसाहः, मनुवर्तः, (मन्वन्तरम्) प्रलयवर्णनम्, मोक्षनिरूपणम्, वंशानुचरितम्, हरिकीर्त्तनम्, वेदवृत्तान्तं च। एषु आद्याः अष्टौ भागवतोक्तलक्षणानां प्रतिरूपमनुसरन्ति। आसनं पोषणं च हरिकीर्त्तनेन परिगृह्येते। वेदवृत्तान्तं न किञ्चित् ईशकथामन्तरेण।
एवमिदं प्रतीयते यत् भागवतपुराणं पुराणगतविषयाणां स्पष्टां धारणां पोषयति, अस्य सूची वर्तमानानां पुराणानां प्रायेण सर्वाणि लक्षणानि परिगृह्णाति। किन्तु अर्थशास्त्रस्य प्रणेतारः पुराणसम्बन्धिनि अस्मिन् विषये विस्तरेण भिन्नमतं पोषयन्ति। कौटिलीयार्थशास्त्रस्य जयमङ्गलटीकायां निम्नोक्तः श्लोको दृश्यते -
सृष्टिप्रवृतिसंहारधर्ममोक्षप्रयोजनम्।
ब्रह्माभिर्विविधैः प्रोक्तं पुराणं पञ्चलक्षणम्॥
अत्र पुराणानां गुरुत्वपूर्णलक्षणत्वेन धर्मः अतीव तात्पर्य्यं वहति। निश्चयेनात्र यथार्थमुखबन्धात् परं धर्मीया आलोचना गृहीताः। मन्त्रतरवर्णानात् परं भागवतपुराणं धर्माय यथायथं मनोयोगं ददाति। इदं वदति मन्वन्तराणि सद्धर्म इति, यः स्पष्टतः धर्मस्य उपयोगितां गुरुत्वं च स्वीकरोति। अत एव अयं सिद्धान्तः न उचितः यत् पूर्वं धर्मः पुराणानां चिन्तायां नान्तर्भूत आसीत्, तथा च अस्य धारणा केवलं परवर्त्तियुगे आगता।
एवं बहुषु प्राचीनेषु ग्रन्थेषु न केवलं पुराणस्य लक्षणं कर्त्तुं प्रचेष्टा कृता, अपि तु पुराणवैशिष्ट्यं व्याक्यातुं प्रयत्नः कृतः। पुराणेषु पञ्चलक्षणानि तिष्ठन्तु, न वा तिष्ठन्तु अथवा दशवैशिष्ट्यानि तिष्ठन्तु वा न तिष्ठन्तु - इति न प्रश्नः। पञ्चसु वा दशसु वा लक्षणेषु विस्तृता वर्णना दर्शयति यत् तानि लक्षणानि कांश्चित् निर्दिष्टान् पाथान् निर्दिशन्ति।
पुराणपदं न केवलं पुरातनं किञ्चिन्निर्दिशति, अपि तु इदं कञ्चित् पुरातनं पाठमपि सूचयति - इति अस्वीकारेऽन्यायो भविष्यति। अपि च, पुराणसंहितायाः प्रयोग इमं विषयं द्रढयति। यतः संहिता ईदृशं तात्पर्यं न वहति। एषा सर्वदा कर्तानां पुस्तकानां वा संग्रहाणां वा निर्दिष्टं प्रसङ्गं रचयति।
नेदृशी काचिद्धारणा अथवा नेदृशं किञ्चिल्लक्षणम् इतिहासस्योपरि प्राप्यते। विभिन्नेषु प्राचीनेषु शास्त्रेषु इतस्ततः इदं पदं व्यवह्रियते। किन्तु अनया रीत्यास्य लक्षणं न लक्षितमथ वा वैशिष्ट्यकथनेन विवृतम्, पुराणैः सहास्याविच्छेद्योऽनुषङ्गः एवात्र कारणं भवितुम् अर्हति। तयोः अतीव घनिष्ठः संयोगः हि सम्भाव्यो हेतुः अथवा इतिहासस्य उपरि भिन्नस्य स्पष्टस्य च लक्षणस्याभावः। वस्तुतः वेदस्य पुराणस्य च, धर्मशास्त्रस्य पुराणस्य च, दर्शनस्य पुराणस्य च मध्ये संगतिः अतीव घनिष्ठान्तरंगा च। किन्तु प्रत्येकं पृथक् स्पष्टं च परिचयं वहति। किन्तु पुराणेतिहासयोः विषये एतादृशं सादृशं न अङ्ख्यते। कति पण्डिता मन्यन्ते यत् पुराणमितिहासः च भिन्नौ विषयौ। (तुलनीयम्-स्कन्दपुराणम् कुमारिकाखण्डः, इतिहासपुराणानि भिद्यन्ते लोकगौरवात्) तस्मिन् समये कति विद्वांसः पुनः तयोरेकत्वमनुभवन्ति। (तुलनीयम् - वात्स्यायनस्य न्यायभाष्यम्, लोकवृत्तमितिहासपुराणस्य विषयः) वितर्कं परिहाय वयं केवलं पश्यामः यत् पुराणेषु कल्पनायाः निर्दिष्टोऽवसरोऽस्ति, किन्तु इतिहासे प्रकृतसंवृत्तघटनानां बाहुल्यमस्ति।
पुराणेषु प्राचीनतायाः प्रसङ्गे अस्माहिः इतोमध्ये कति स्वीकृताः प्राचीना ग्रन्थाः उल्लिखिताः तत्र पुराणं परिच्छन्नग्रन्थत्वेन स्वीकृतम्। एषु प्राचीनेषु शास्त्रेषु अथर्ववेदसंहिता अतीव गुरुत्वपूर्णा। अत्रैको मन्त्रोऽस्ति यस्याशयः - उच्छिष्टाज्जायते पुराणं ऋग्वेदेन, सामवेदेन, यजुर्वेदेन च सह।
उच्छिष्टपदं यज्ञावशेषान् सूचयति। किन्तु सायणस्य व्याख्यानं सयत्नं मनोयोगमाकर्षति। स वदति सर्वेषां भूतभौतिकानामवसाने शिष्ट उर्वरितः परमात्मा इति। अर्थात् यदा सर्वं विनाशं याति तदा केवलं परमात्मा तिष्ठति। उच्छिष्टपदं तं परमात्मानं द्योतयति। एवं पुराणान्यपि वेदा इव अपौरुषेयाणि। एतानि न कस्यापि मानवस्य सृष्टिकर्माणि अथवा संकलनानि। अन्यत्रार्थवेदो वर्णयति - वर्तमानस्य जगतः परिप्रेक्षिते सत्यद्रष्टारमन्तरेण न कोऽपि जनः पूर्वतनकल्पस्यास्तित्वं ज्ञातुं शक्नोति। यो जनः पूर्वतनकल्पस्य निर्दिष्टं यथायथं चाकारं विस्तरेण जानाति, स एव पौराणिक ह्यभिधीयते। स सुष्ठु पुराणानां प्राचीनाः कथाः आख्यायिकाः च जानाति। एवं स्पष्टं प्रतिभाति यत् अथर्ववेदस्य काले पुराणानि तथा पौराणिकाः अपरिचयस्य तमसि नातिष्ठन्, समाजे तेषां सबलः पादन्यास आसीत्। अथर्ववेदसंहिता पुनश्च वर्णयति - 'व्रात्यस्तोमस्य प्रसंगे इतिहासः पुराणं गाथा, नाराशंसी इममनुसरन्ति, योऽनेन सह विस्तरेण परिचितः स एव इतिहासस्य, पुराणस्य, गाथायाः, नाराशंसिनां प्रियं धाम भवति'। अस्मिन् प्रसंगे इदं स्मरणीयं यत् अयं विशिष्टो मन्त्रः वात्यस्तोमोत्सवस्य अन्तर्भुक्तः। चिरन्तनः परमात्मा व्रात्यपदेन प्रकटीकृतः। पैप्पलादसंहिता वदति, 'व्रात्य वेदमग्र आसीदिति,'। इदं निश्चयेन स्वीक्रियते यत् विश्वस्य सूचनायां व्रात्यः सर्वेषामग्रे आसीत्। अयं वस्तुतः परमात्मतत्वेन सह एकत्वं तुल्यतां च व्रजति। रुद्राध्यायेषु अपि वयं पश्यामः 'नमो व्रात्याय' इति। व्रात्यश्च रुद्रश्च अभिन्नौ इति अपि सूच्यते, एवं याथायथ्येनोच्यते यत् इतिहासः पुराणं च ऋग्वेदः, सामवेदः, यजुर्वेदः इव सश्रद्धं प्राचीनत्वं भजतः।
संहितामनु ब्राह्मणम् आयाति। चतुर्षु स्थलेषु शतपथब्राह्मणम् इतिहासपुराणमथवा पुरामुल्लिखति। आद्येषु त्रिषु स्थानेषु इतिहासः पुराणं च पृथक्त्वेन न प्रकाशेते। तद्द्वयमभिन्नम्। किन्तु अवशिष्टे दृष्टान्ते ऋषिः पदयुगलस्य मध्ये पृथक्त्वं प्रतिष्ठापयितुं यतते। अयमुल्लेखः परिप्लवंकथया सह युक्तः। अस्मादस्माभिः ज्ञायते यत् परिप्लवानुष्ठानस्य अष्टम्यां रजन्यामितिहासस्यावृत्तिर्भवति। नवम्यां च पुराणानां पाठः भवति। एवं ब्राह्मणानां युगेऽपि इतिहासः पुराणं चेति पंदद्वयस्य सत्ता पृथक्त्वेन तथा युक्तत्वेन युगपत् तिष्ठति स्म।
प्रथमो दृष्टान्तो ब्रह्मयज्ञस्य प्रसंगे लक्ष्यते। विविधानां वेदानां पाठः विविधं फलं जनयति, यदि अनुशासनं, विद्या, वाकोवाक्यम्, इतिहासः पुराणं च, गाथा च नाराशंसी च पठ्यन्ते केनचिज्जनेन मधुयागस्य फलं लभ्यते। परवर्त्तिनि दृष्टान्ते इदमुल्लिख्यते यत् कश्चिद् विद्वान् प्रत्यहं वेदं पठेत् अनुशासनेन, विद्यया, वाकोवाक्येन, इतिहासेन, पुराणेन, गाथया, नाराशंस्या च साकम्। स यदि प्रतिदिनमिदं करोति तर्हि स समग्राय समाजाय तथा ईश्वराय परिपूर्णं सन्तोषं ददाति तस्मिन् ब्राह्मणे अन्यत्रोच्यते यत् ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः, इतिहासः पुराणं, विद्या, उपनिषत्, श्लोकः, सूत्रं, व्याख्यानमनुव्याख्यानं च सर्वाणि वेदैः सह अन्वितानि। कोऽपि जनः अनेन सार्वभौमत्वं परमशक्तिमत्वं चार्जयति। चतुर्थदृष्टान्तस्य गुरुत्वमितोमध्ये दर्शितम्। एवञ्च, गोपथब्राह्मणे स्वीक्रियेते पुराणानां गुरुत्वं च महत्वं च। अत्रोच्यते - 'एवं सर्वे इते वेदाः कल्परहस्यब्राह्मणोपनिषदितिहासपुराणैः सह विरचिताः। अन्यस्मिन् मन्त्रे इदं ब्राह्मणं पञ्चवेदरचनेतिहासं विवृणोति - ते पञ्च वेदा हि सर्पवेदः, पिशाचवेदः, असुरवेदः, इतिहासवेदः पुराणवेदश्च। इदं वदति 'पूऱ्वस्यां दिशि सर्पवेदो निर्मितः, दक्षिणस्यां पिशाचवेदः, पश्चिमायामसुरवेदः, उत्तरस्यामितिहासवेदः, उपरु च अधश्च पुराणवेदो निर्मितः। अस्मिन् प्रसंगे भूः भुवः स्वः जनः महः इति पञ्च महाव्याहृतय उल्लिख्यन्ते। पञ्चवेदेभ्यः परं वृधत्, करत् गुहत्, महत्, तच्चेति पञ्च महावाक्यानि उत्थितानि। एवमत्र पुराणेभ्यः वेदेभ्य इव सदृशी मर्यादा तथा पदस्थितिः दीयते। पुराणानि इतिहासाश्च प्राचीनत्वं पवित्रत्वं च भजन्ग्ति इति विविच्यते। जैमिनीयोपनिषदि च तद्ब्राह्मणे चापि न्यूनतमतः पञ्चसु स्थलेषु (३/४/१-२, ७/१/२, ७/१/४, ७/१/१, ७/७/१) पुराणेभ्यः साक्ष्यं सर्वोत्कृष्टत्वेन स्वीक्रियते।
ब्राह्मणानामन्तिमोऽंशः आरण्यकत्वेन इतिहासत्वेन च परिचीयते। तैत्तिरीयारण्यके पुराणशब्दः ब्रह्मयज्ञप्रसंगेन पुनः पुनः व्यवहृतः। यदि वयं छान्दोग्योपनिषदि बृहदारण्यकोपनिषदि च व्यवहृतस्य पुराणपदस्य पुराणपदस्य प्रयोगं तात्पर्यं च विचारयामः, तदा पश्यामो यत् पुराणानि वेदाः इव नमस्यतां यान्ति। पुराणानां वेदानां च सदृशं मूल्यं तथा गुरुत्वं तिष्ठति। यतः रुद्धश्वासस्य मुक्तये सांधातिक्या प्रचेष्टया प्रयोजनं नास्ति, ततः प्रकृत्यैवोच्यते यत् वेदानां तथा पुराणानां योनिः स्वयंक्रियः स्वतः स्फूर्तश्च। बृहदारण्यकोपनिषदेकेन सुन्दरेण दृष्टान्तेन विषयमिमं सरलं कर्त्तुं यतते। तथा हि - 'स यथा आर्द्रेन्धनाग्नेः अव्याहितात् पृथग् धूमा विनिश्चरन्ति, एवं वा अरेऽस्य महत्तो भूतस्य निःश्वसितम् एतद् यद् ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासपुराणम्। 'इति इदं वाक्यं कतिभिः उद्धृतिभिः छान्दोग्योपनिषदा समर्थितम्। तद्यथा - 'ऋग्वेदं भगवोऽध्येमि। यजुर्वेदं सामवेदमथर्वाणं चतुर्थमितिहासपुराणं पञ्चमम्, वेदानां वेद पित्र्यं राशिम्.......एतत् भगवोऽध्येमि।' 'ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः। वस्तुतोऽन्यत्रापि अस्यामुपनिषदि दृश्यते यत् इतिहासपुराणं पञ्चमवेदत्वेनानुमोदितम्, तस्मै च पवित्रत्वस्य परमं पदं प्रदीयते।
एवमिदं परिस्फुटं यत् ईदृशस्य पुरातनस्य युगस्य सृष्टिकर्माणि खलु पुराणानि। एतानि च कति नीतीः न केवलं व्याकुर्वन्ति, अपि तु एतानि निर्दिष्टम् आकारं परिगृह्य जनेभ्यः पुनः पुनः प्रशंसामाकर्षन्ति स्म।
सूत्रसाहित्यस्य पृष्टासु पुराणां गुरुत्वं तथा प्राचीनत्वं पौनःपुन्येन सूच्यते। सांख्यायनश्रौतसूत्रे पञ्चमवेदत्वेन पुराणं स्वीक्रियते। तथा च आरण्यकाय उपनिषदे च यद् गुरुत्वं तदेव प्रदीयते पुराणाय। आश्वलायनगृह्यसूत्रे पुराणसम्बन्धिनः प्रचुराः प्रसंगाः सन्ति। कतिषु क्षेत्रेषु वेदाध्ययनेन सह इतिहासस्य पुराणस्य च अध्ययनं विहितमासीत्।
कुत्रचित् स्थाने इदमुच्यते यत्, यैः पण्डितैः इतिहासस्य तथा पुराणानामिव शास्त्राणां स्वादः अनुभूतः, ते देवैश्च पितृभिश्च सह अमृतसागरे मग्ना भवन्ति। तस्मिन् सूत्रे अन्यत्र वह्निशिखाप्रज्वलनस्य प्रसंगे इदं वर्ण्यते यत्, यदैवामराणां जनानां पवित्रेषु कर्मसु इतिहासस्य पुराणस्य च प्रयोगः स्यात् स समयः शुभलक्षणान्वित इति।
किन्तु इदमवश्यमेव स्वीकर्तव्यं यत् श्रौतसूत्रेषु पुराणविषयकं यद्विवरणं प्राप्यते तन्न किमपि पुराणं वा पुराणस्य श्लोकसंग्रहं वा विशेषेण उल्लिखति। अस्मिन् विषये आपस्तम्बधर्मसूत्रम् अपूर्वं स्थानं तथा पदमधिकरोति। तत्काले वर्तमानतः पुराणातः स्पष्टा द्वौ श्लोकौ तस्य लेखकेन उद्धृतौ। इयमुद्धृतिः योगिनां निवृत्तिमार्गं प्रशंसति, सकामं कर्म च परिहरति। तत्रोच्यते -
अष्टाशीतिः सहस्राणि ये प्रजामीषिरर्षयः।
दक्षिणेनार्यम्णः पन्थानं ते श्मशानानि भेजिरे॥
अष्टाशीतिसहस्राणि ये प्रजां नेषिरर्षयः।
उत्तरेणार्यम्णः पन्थानं तेऽमृत्वं हि भेजिरे॥ इति॥
बृहदारण्यकोपनिषदः उपरि रचितायां टीकायां शङ्कराचार्यः उपर्युक्तश्लोकद्वयस्य उद्धृति ददौ। ब्रह्माण्डपुराणे श्लोकद्वयमस्ति। विष्णुपुराणे तथा पद्मपुराणे उक्तौ श्लोकौ दृश्यते। एवं पुराणेषु तयोर्योनिः प्रश्नातीतः। आपस्तम्बः पुराणानि पपाठ, श्लोकद्वय जज्ञौ, स्वीयलक्ष्यानुसारेण स्वीयग्रन्थे व्यवजहार च। ब्रह्माण्डपुराणेन, विष्णुपुराणेन, पद्मपुराणेन सर्वैः पुराणैः सह तस्य परिचय आसीन्नवेति प्रश्न अवास्तवः। आपस्तम्बः किन्तु पुराणेभ्य आत्मन ऋणं स्वीचकार - यानि तस्य सम्मुखे प्राधान्यं लभन्ते स्म - स विषय उपसंहारे वक्ष्यते। अपि च, तस्मिन्नापस्तम्बधर्मसूत्रेऽन्यत्र वयं पश्यामः स्वर्गतानां पितृणां प्रसंगे, यत् ते स्वर्ग जिग्युः तथा च विश्वस्य विनाशं यावत् तत्रोषुः। पुनश्च, सृष्टिकर्मणोः अपरिणते प्रारम्भे ते स्वर्गस्य मूलत्वं हेतुत्वं च भेजिरे। अयं सन्देशोऽस्माभिः भविष्यपुराणात् प्राप्यते।
भविष्यपुराणदयं प्रसंगः सयत्नः विचारम् अपेक्षते। तेन कालेन भविष्यपुरानस्यास्तित्वं स्वीकृतं तथा अनुमोदितम्। आपस्तम्बोऽवश्यमेव भविष्यपुराणं पपाठ व्यवजहार च। यद्यपि इदं तथ्यं यत् अयं श्लोकः वर्तमाने भविष्यपुराणे न दृश्यते, तथापि अस्य प्रामाण्ये स्पर्धा न ज्ञातव्या। एतन्नामोल्लेखेन विभिन्नशास्त्रेषु ये बहवः श्लोका उद्धृता बभूवुः, ते न दृश्यन्ते। किमिदं सूचयति यत् सर्वे शास्त्रकाराः एव भ्रान्ति गताः ?
एवं च गौतमधर्मसूत्रेऽपि वयं पश्यामो यत् इतिहासपुराणपदं पुराणपदं वा सम्पूर्णनिबन्धत्वेन क्षेत्रद्वये उल्लिखितम्। प्रथमे क्षेत्रे गौतमः 'वहुश्रुत' - शब्दस्यार्थं व्याख्यातुं चिचेष्टे। अस्य शब्दस्य व्युत्पतिगतोऽर्थः हि स जनः येन बहु श्रुतं तथा ज्ञातम्। गौतमस्य मते स एव बहुश्रुत इति विविद्यते। स जनानां रीतिं प्रथां च सम्यक् जानाति। स वेदान् आनुषङ्गिकविज्ञानषट्कं च जानाति, वाकोवाक्येषु इतिहासे पुराणे च पाण्डित्यमर्जयति। एवं बहुश्रुतस्य योग्यतायै इतिहासे पुराणे च दक्षतया प्रयोजनमस्ति। अन्यत्र गौतमो मन्यते यत् प्रजासु राज्ञां व्यवहारः, तेषां वेदेषु, धर्मशास्त्रेषु, आनुषंगिकविज्ञानेषु, उपवेदेषु, अवशिष्टापुराणेषु च पाण्डित्येन शासनीयः। अत्रापि वयं पश्यामः यत् पुराणेभ्यः यथायथं सम्मानं प्रदत्तम्। गौतमः स्पष्टं वदति यत् एषु सर्वेषु शास्त्रेषु अज्ञः राजा अनुपयोगी। स कदापि साफल्यं न लभते। एवमिदं दृश्यते यत् धर्मशास्त्रैरपि पुराणानां प्रभावः स्वीकृतः।
अन्ये सर्वे प्राचीना ग्रन्था इव अर्थशास्त्रस्योपरि लिखिता ग्रन्था अपि पुराणेभ्यः यथायथं स्वीकृति ददति। सर्वेषु अर्थशास्त्रेषु कौटिल्यस्यार्थशास्त्रं प्रसिद्धतम्। कौटिल्येन पुराणानां गुरुत्वं स्वीकृतम्। यतः, अस्माभिः दृश्यते यत् विशेषीकृतपदत्वेन पुराणपदं तेन अर्थशास्त्रस्य बहुषु स्थलेषु प्रयुक्तम्। यदा कश्चित् नृपतिः प्रकृतकर्ममार्गं परिहाय दुष्टमार्गमवलम्बते, तदा शुभाकाङ्क्षिणः मन्त्रिणश्च इतिहासस्य च पुराणस्य च दृष्टान्तं दर्शयित्वा तं राजानं पापमार्गात् निवारयेयुः। प्रयोजनीयं पंक्तियुगलमधः उद्धृतम्।
कौटिल्येनोक्तम् -
मुख्यैरवगृहीतं वा राजानं तत्प्रियाश्रितः।
इतिहासपुराणाभ्यां बोधयेत् अर्थशास्त्रवित्॥ इति॥
अत एव कौटिल्यकालीनानि कति पुराणानि च सदाचाररीतिप्रथाविषयकानि तेषां विषयं वस्तूनि च साधारणानां यथा प्रयोजनं साधयन्ति तथा राज्ञां समीपेऽपि तानि हितकराणि एव प्रतिभान्ति। अन्यत्र दृश्यते यत् पुराणानां पाठः प्रात्यहिककर्मसूच्यारम्भविशेष इति। कौटिल्यो ज्ञापयति यत् दिवसस्य प्रथमार्द्धे नृपः गजाश्वरथशास्त्रविषयकं पौराणिकं पाठं पठेत्, परार्द्धे च स इतिहासपाठे आत्मानं नियोजयेत् - यत्र विषायाः खलु पुराणम्, इतिवृत्तम्, आख्यायिका, उदाहरणम्, धर्मशास्त्रम्, अर्थशास्त्रम् च।
राजानः सुन्दरेण वेतनेन पुराणेषु निपुणान् जनान् राजकार्येषु नियोजयेयुः। ते पौराणिकाः उपयुक्तेषु कार्येषु नियुक्ता भविष्यन्ति। ते वेतनत्वेन पणानां सहस्रं ग्रहीष्यन्ति। इदमतीव स्थूलकायं वेतनं यत् पौराणिकेभ्यः दीयते, तत् तथा गुरुत्वभाजां मध्ये तेषां पदं तेषां गुरुत्वं दायित्वं च सूचयति। अन्यत्र त्रयीतिपदस्य तात्पर्यं व्याख्यातुं कौटिल्यो वदति - सामवेद ऋग्वेदो यजुर्वेदश्चेति वेदत्रयं त्रयीत्युच्यते। त्रयी, अथर्ववेद इतिहासश्चापि वेदत्वेन परिगण्यते। एवं कौटिल्यस्य काले इतिहासस्य च पुराणस्य च वेदानामिव सम्मानं बभूव। तौ विषयौ अतिमूल्यवत् पाठत्वेन स्वीकृति लेभाते।
बहुधर्मसंहितासु अपि वेदपारगपदस्य तात्पर्यं सूचयितुं प्रयत्नाः कृताः। यस्यार्थः वेदेषु पारदर्शी जन इति। तथा कर्तुं प्रवृत्ताः एताः धर्मसंहिताः सर्वा एव एतेषां पुराणानां महत्वं स्वीकुर्वन्ति। व्याससंहितायां वयं पश्यामः यत् वेदार्थं बोद्धुमिच्छुको जन आनुषङ्गिकविज्ञानैः सह वेदत्रयस्य अध्ययनं विनापि पुराणानां सयत्नमध्ययनं कुर्यात्। व्यासो मन्यते -
मीमांसते च यो वेदान् षड्भिरङ्गैः सविस्तरैः।
इतिहासपुराणानि स भवेद् वेदपारगः॥ इति॥
अन्यस्मिन् श्लोके विद्याविशेष उल्लिखितः। अत्र प्रसंगे इदं लक्ष्यते यत् ब्राह्मणाः क्षत्रिया वैश्याश्चेति वर्णत्रय द्विजातित्वेन परिचीयते। केवलं प्रागुक्तवर्णत्रयगतानां जनानां श्रुतिस्मृतिपुराणोक्तधर्मव्यापारेषु अंशग्रहणस्य अधिकारोऽस्ति। अत्र वैदिकाय तथा परुआणिकाय धर्माय सदृशं गौरवमर्पितम्। केनचिच्छिष्येण विद्याया अर्जनस्य विषये उशनासंहितायां दृश्यते यत् अज्ञातकुलशीलेभ्यः जनेभ्यः वेदधर्मशास्त्रपुराणसंक्रान्ता शिक्षा न देया।
तत्रोच्यते -
वेदं धर्मं पुराणं च तथा तत्त्वानि नित्यशः।
संवत्सरोषिते शिष्ये गुरुर्ज्ञानं विनिर्दिशेत्॥ इति॥
मनुसंहितायामपि पुराणानि प्रसंसितानि। तत्रोच्यते -
स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि।
आख्यानानीतिहासांश्च पुराणानि खिलानि च॥ इति॥
वस्तुतः, वेदगानेन यत् फलं जायते पुराणगानेनापि तत् फलं भवति। धर्मीयानुष्ठानेषु सर्वत्र वेदपाठेन सह पुराणपाठोऽपि सदृशं गौरवं भजते।
याज्ञवल्क्यः पुराणानां प्रमुखत्वमाह -
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश॥
पुराणानि स्वर्गवासिनां तथा पितृलोकवासिनां रञ्जनायालम्। यः प्रत्यहं यथासाध्यं वाकोवाक्यं, पुराणानि, नाराशंसीः, गाथाः, इतिहासं विद्याश्च पठति, स देवान् मांसदुग्धमधुभिः रञ्जयति, पितृंश्च मधुधृताभ्याम्। अत्र प्रसंगे याज्ञवल्क्यसंहितायामुच्यते -
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः।
इतिहासांस्थथा विद्यां योऽधीते शक्तितोऽन्वहम्॥
मांसक्षीरौदनमधुतर्पणं स दिवौकसाम्।
करोति तृप्तिं च तथा पितृणां मधुसर्पिषा॥ इति॥
पुनश्च लक्ष्यते तत्र -
वेदाथर्वपुराणानि सेतिहासानि शक्तितः।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत्॥
आध्यात्मिक्यां विद्यायां वेदान्तादीनां परिग्रहः सूच्यते। वस्तुतः, ते मुनयो जगद्व्यापि यशः अर्जयन्ति, येभ्यः सर्वे वेदाः पुराणादयश्च उत्पतन्ति तथा विसर्पन्ति।
प्राचीनभारतीया प्रसिद्धा दार्शनिका यथा शवरस्वामी, शंकराचार्यः, कुमारिलभट्टः पुनः पुनः पुराणेभ्यः तेषां यथायथं प्राप्यांशं ददाति। तेषां प्रामाण्यं तथा प्राचीनत्वं निःसंशयेन स्वीकृतम्। एषु त्रिषु शवरस्वामी खलु ज्येष्ठः। स सम्भवतः २०० तमात् खृष्टाब्दात् ३०० खृष्टाब्दं यावत् समये समजायत। स तदीयमीमांसासूत्रटीकायां विभिन्नयागसम्बन्धिनां देवानां प्रकृतं स्वरूपं निर्धारयितुं यतते। कस्मिंश्चित् प्रसंगे स आह यत् अस्मिन् बिन्दौ इतिहासः पुराणं चैकमत्यं पोषयतः। तस्य मते अग्निप्रभृतयः स्वर्गवासिनः खलु देवाः।
जैमिनिसूत्राणामुपरि लिखितस्य पर्सिद्धिस्य तन्त्रवार्त्तिकमिति ग्रन्थस्य प्रणेता हि कुमारिलभट्टः। स तत्र योनित्वेन प्रमाणत्वेन च हि पुराणमुल्लिखति। तस्य मते पुराणेषु इतिहासेषु च दृष्टानां विभिन्नानां वृत्तान्तानां साक्ष्यं निश्चयेनैव ग्रहीतव्यम्। भौगोलिका विभागा वृत्तान्ताश्च, राजकुलानां तथा अन्यवंशानां कालानुक्रमिकं वर्णनं, विभिन्नानां स्थानानां तथा युगानां विवरणं, भाविनो वृत्तान्ताश्च सर्वदा प्रश्नातीतास्तथानभियुक्ताः। पवित्रे स्थाने सम्पादितं कर्मं धर्मं नयति, किन्तु अपवित्रे स्थाने सम्पादितं कर्म दुःखं जनयति। एवं पुण्यस्य च पापस्य च निर्धारणाय जगतः पवित्रस्थानानां प्रकृतेन ज्ञानेन सम्पूर्णतः प्रयोजनमस्ति। ब्राह्मणवर्णीया अथवा क्षत्रियवर्णीया महान्तो जना केवलमनुप्रेरणायाः अपि तु यथायथं प्रमाण्यस्य हेतुभूताः। एकस्मिन् स्थले कुमारिल आह यत् बुद्धादयः केचित् कलियुगे आविर्भविष्यन्ति इति पुराणेषूच्यते। ते धर्मस्य अन्तं साधयिष्यन्ति। किन्तु भाग्यवशात् तदिपदेशश्रवणस्य जना नगण्या एव भविष्यन्ति। तेनोच्यते -
स्मर्यन्ते च पुराणेषु धर्मविलुप्तिहेतवः।
कलौ शाक्यादयस्तेषां को वाक्यं श्रोतुमर्हति॥ इति॥
इदं दर्शयति यत् कुमारिलस्याविर्भावादनतिपूर्वमेव पुराणानि बौद्धदर्शनस्य स्पर्धां गृहीत्वैव वर्तन्ते स्म। पौराणिकविचारानुसारेण मेरुपर्वतस्य पृष्ठे उत्तरस्यां दिशि स्वर्गस्तिष्ठति। स्वर्गपदार्धं विशदीकुर्वन् कुमारिलः आदौ तस्य स्थानम् अवधारयितुं चेष्टते स्म। स्वर्गः कीदृशः ? अपि न नक्षत्राणां ग्रहाणां वा आश्रयः ? अपि स मेरुपर्वतस्य पृष्ठे वर्तते ? अपि स देवलोकः चिरन्तनसुखस्य आधार इति सर्वे प्रश्नाः कुमारिलेनालोचिताः। इदं दर्शयति यत् सोऽस्मिन् प्रसंगे पुराणानां धारणाभिः सह निःसन्देहेन परिचित आसीत्। अस्माकं वक्तव्यं समर्थयितुं वयं तदीययन्त्रवार्त्तिकाद् उद्धृतिं यच्छामः। स आह -
' तथा स्वर्गशब्देनापि नक्षत्रदेशो वा वैदिकप्रवादपौराणिकयाज्ञिकदर्शनेन उच्यते ..... यदि वेतिहासपुराणोपपन्नं मेरुपृष्ठमथवा अन्वयव्यतिरेकाभ्यां विभक्तं केवलमेव सुखम्।
अनेन प्रकारेणैव शङ्कराचार्योऽपि तस्य शारीरकभाष्यस्य बहुषु स्थलेषु न केवलं पुराणशब्दम् उल्लिखति स्म अपि तु पुराणानां बहुभिः पाठैः सह परिचितः आसीत्। यद्यपि स नाम्ना न किमपि पुराणमुल्लिखति तथापि तस्य वक्तव्यं समर्थयितुं स पुराणेभ्यः श्लोकानाम् उद्धृतिं ददाति। ते श्लोका अद्यापि वर्तमानेषु पुराणेषु प्राप्यन्ते। अस्य व्याख्यानाय कतिभिः दृष्टान्तैः प्रयोजनमस्ति।
एकदा शङ्कराचार्यस्तर्कयति यत् देवानां किञ्चित् सामर्थ्यमस्ति। ते शारीरिकरूपाणि दधति इति मन्त्रार्थवादेतिहासपुराणेभ्यः ज्ञायतेऽस्माभिः। ('तथा सामर्थ्यमपि तेषां सम्भवति मन्त्रार्थवादेतिहासपुराणलोकेभ्यः विग्रहवत्त्वाद्यधिगमात्')। सर्वाणि पुराणानि विशेषेण वदन्ति यत् देवानां निर्दिष्ट आकारः, निर्दिष्टमायतनं, निर्दिष्टं रूपम् सन्ति। शङ्कराचार्य एकदा मन्तव्यं चकार यत् ब्रह्मा च जगच्च स्वभावेन ऱ्थक्त्वं व्रजतः। स तदीयसनत्सुजातीयभाष्ये मुनेः पराशरात् द्वयोः श्लोकयोः उद्धृतिं ददौ। एतौ द्वौ श्लोकौ विष्णुपुराणे लक्ष्येते। तथा च इदं स्फुटं यत् शङ्कराचार्यः विष्णुपुराणात् यथाशब्दं श्लोकौ जग्राह, येन पुराणेन सह शङ्कराचार्यः सम्पूर्णतः परिचित आसीत्। उक्तः पराशरः विष्णुपुराणस्य प्रवक्तापि। किञ्च, तदीयब्रह्मसूत्रभाष्ये शङ्कराचार्यः पुराणेभ्यः कतीनां तात्पर्यपूर्णानां तथा गुरुत्वपूऱ्णानां श्लोकानामुल्लेखं चकार। सोऽस्मिन् प्रसंगे पुराणस्य नाम उल्लिलेख। अस्योल्लेखेन उत्साहो जायते यत्किञ्चित् परिवर्तनं परिगृह्यायं श्लोको वायुपुराणेऽपि दृश्यते। ब्रह्मसूत्रभाष्यस्य स श्लोकोऽध उद्ध्रियते -
अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणम्।
स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयः॥
तस्मिन्नेव भाष्येऽन्यत्र शङ्कराचार्यः सप्तनरकान् वर्णयति। स च घोषयति यत् दुष्टकर्मप्रकृत्यनुसारतः जना विविधान् नरकान् नीयन्ते।
एतेषां सप्तविधानां नरकाणां विस्तृतं विवरणं तथा चित्रवदुपस्थापनं पुराणेषु प्राप्यते। अपि च, शङ्कराचार्येण आलोचिता विषया निम्नरूपाः -
तथा हि अतीतानां भाविनां च कल्पनां परिमाणम् ब्रह्मणा सृष्टेः प्राक् चिरन्तनानां सर्वव्यापिनां च वेदानां समागमः, ब्रह्मणश्च तदा सृष्टेः आरम्भः, सत्त्वानां नाम्नां कर्मणां च प्रकाशः इत्यादयः। तथा कर्तुं स विविधैः पुराणैः प्रभावितोऽभवत्, पुराणेषु एते विषया विस्तरेणालोचिताः।
शङ्कराचार्यः काले काले पुराणेभ्यः कति वेदान् उद्दधार। वस्तुतः स विवृणोति स विश्वसृष्टेः प्राक् स्वीयक्रमानुसारतः स्थावराणामस्थावराणां च, विनाशिनामाविनाशिनां च सत्त्वानां प्रयोगं निर्णयति। तेषां जिवानां जन्म विविधप्रकृत्यनुसारतः निर्धार्यते। तद् यथा अहिंसा प्रकृतिः, सहिंसा प्रकृतिः, कोमला कठिना वा प्रकृतिः, सदया निर्दया वा प्रकृतिः, मिथ्या प्रकृतिर्वा। एते विषयाः कूर्मपुराणे, मार्कण्डेयपुराणे, वायुपुराणे, विष्णुपुराणे च लक्ष्यन्ते। एव नास्ति सन्देहावसरः यत् एतानि पुराणानि शङ्कराचार्येण विस्तरेण पठितानि तथा प्रयुक्तानि।
अत्र प्रसंगे पुराणानां याथार्त्यस्य निर्णये वात्स्यायनस्य वक्तव्यमतीव गुरुत्वपूर्णम्। तस्य मते ये नाम मन्त्रब्राह्मणरूपाणां वेदानां द्रष्टारः, ते एव इतिहासपुराणधर्मशास्त्राणां प्रणेतारो वर्णयितारश्च। एवं वेदानामितिहासपुराणानां च मध्ये समता वर्तते। यावत् तेषां लेखकाः सृष्टिकर्माणि च संश्लिष्यन्ते। अवश्यमेव तेषां विषया वस्तूनि वा विचित्रतां व्रजन्ति। मन्त्राश्च ब्राह्मणानि च यज्ञविषयमालोचयन्ति। इतिहासपुराणानि च तत्कालीनाख्यानानि वर्णयन्ति। तथा च धर्मशास्त्राणि आलोचयन्ति समाजजीवनोपयोगिनियमशृंखलादिरक्षाविषयम्। वात्स्यायन आह य एव मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश्च ते खलु इतिहासपुराणस्य धर्मशास्त्रस्य चेति विषयव्यवस्थापनाच्च यथाविषयं प्रामाण्यम्। यज्ञो मन्त्रब्राह्मणस्य लोकवृत्तमितिहासपुराणस्य लोकव्यवहारव्यवस्तापनं धर्मशास्त्रस्य विषयः। न्यायसूत्रभाष्येऽन्यत्र अनुसन्धीयते कतीनां स्वीकृतानां ग्रन्थानां भित्तौ, यत् इतिहासः पुराणानि च अतीव प्राचीनत्वं भजन्ति। तेषां याथार्थ्ये न कोऽपि प्रश्नः समुदेति।
आदिकाव्यं रामायणं एकाधिकैः पुराणैः सह तस्य परिचयं प्रकटयति। तस्य कविः वाल्मीकिः एकत्राह यत् योगिनस्तम् पुराणैः, वेदैः, पञ्चरात्रैः प्रत्यहं ध्यायन्ति तथा च क्रतुभिः तम् पूजयन्ति। कतिषु स्थलेषु सुमन्त्रः तादृशजनत्वेन वर्णितः यो जनः पुराणानि अधीते स्म। स प्रवक्ता बभूव। अत एव इदमेव स्वाभाविकं यत् पुराणेषु सोऽभिज्ञ आसीत्। पुराणेषु सोऽयोध्याराजस्य दशरथस्याख्यानं पठति स्म। तत्र स पुत्रहीनत्वात् दशरथस्य मानसिकी दशां जानाति स्म। मानसिकीं वेदनां दूरिकर्तुं नृपेण किं किं कृतं तदपि सुमन्त्रेणाधिगतमासीत्। अत एव ईदृश्यामवस्थायां समागतायां स एता अतीता घटना वर्णयति।
कदापि पुराणार्थे कदापि वा पुरातनस्यार्थे रामायणमिव महाभारतं न पुनः पुनः विशेष्यत्वेन पुराणपदं व्यवहरति। किन्तु केषुचित् क्षेत्रेषु निर्दिष्टसाहित्यकर्मत्वेन पदमिदं प्रयुक्तम्। पुराणेन सह महाभारतस्य परिचितिरासीत् तस्य परोक्षं साक्ष्यं मार्कण्डेयपुराणनामांकिते श्लोकद्वयेऽस्ति। यथा -
मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते।
तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः।
विस्मितः समपद्यन्त पुराणस्य निवेदनात्॥
महाभारतं स्पष्टतः वायुपुराणस्य च मत्स्यपुराणस्य च विषयैः चरित्रैश्च सह परिचयं दर्शयति एवम् -
एतत् ते सर्वमाख्यातमतीतानागतं मया।
वायुप्रोक्तमनुस्मृत्य पुराणमृषिसम्मतम्॥
अपि च,
तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे॥
सर्वाः प्रजाः मनुः साक्षाद् यथावत् भरतर्षभ।
इत्येतन् मात्स्यकं नाम पुराणं परिकीर्त्तितम्॥
यद्यपि एतेषां विषयाणां स्वल्पांश एव वर्त्तमाने वायुपुराणे मत्स्यपुराणे च दृश्यते, तथापि इदमनस्वीकार्यं यत् महाभारतीयसंश्लिष्ठांशरचनासमये उक्ते द्वे पुराणे प्राचीनरूपं गृहीत्वैव बहुलं प्रचलिते आस्ताम्। केनापि प्रकारेण महाभारतं पुराणानां प्रचलितां संख्यां अज्ञासीत्। ततः तत् महाभारतं विशेषण वर्णयति पुराणानि अष्टादश इति।
पुराणसाहित्यविषयकमनुरूपं चित्तहारि तथ्यं भरतीयनाट्यशास्त्रेऽस्ति। तत्र औड्रमागधीप्रवृत्तिप्रयोगं वर्णयन् भरतः पूर्वभारतस्य वहूनां भागानां नामानि करोति। तथा च स वदति यत् एते चान्ये भागाश्च पुराणेषु कीर्त्तिताः। यथा -
अङ्गवङ्गकलिङ्गाश्च वत्साश्चैवोड्रमागधाः।
पौण्ड्रनैपालिकाश्चैव अन्तर्गिरिगहिर्गिराः॥
तत्र वङ्गसमा ज्ञेया मलचामल्लवर्षकाः।
ब्रह्मोत्तरप्रवृत्तयो भार्गवा भर्गवास्तथा॥
प्रापौतिषाः (?प्राग्ज्योतिषाः) पुलिन्दाश्च वैदेहास्ताम्नलिप्तकाः।
प्रागाः प्रावृतयश्चैव युञ्जन्ति द्ध्योड्रमागधीम्
अन्येऽपि देशा एभ्यो ये पुराणे सम्प्रकीर्त्तिताः।
तेषु प्रयुज्यते ह्येषा प्रवृत्तिस्त्वौड्रमागधी॥
अन्यत्र भरतः कर्मक्षेत्रत्वेन भारतवर्षं वर्णयति।
स च विविधानां वर्षाणां (देशानाम्) गिरीणां पुराणसम्मतमुल्लेखं करोति।
सप्तविशेऽध्याये भरतेन बहुवचनोपेतपुराणशब्दो व्यवहृतः। अनेन सूच्यते यत् पुराणानि तदा स्पष्टपुराणजातीयसाहित्यकर्मत्वेन स्वीकृतानि आसन्।
पुराणसाहित्यस्य प्राचीनत्वं बहुभिः बौद्धैः तथा जैनैः ग्रन्थैः प्रतिपादितम्। तथा हि अन्यतमे मुद्रिते संस्करणे महापुराणत्वेन कथितः 'ललितविस्तरः' इति ग्रन्थः कथयति यत् बोधिसत्त्वः निगमपुराणेतिहासवेदव्याकरणप्रभृतिषु विद्यासु अतीव निपुण आसीत्।
एवञ्च तस्मिन् समये पुराणसाहित्यस्यास्तित्वं प्रमाणितम्।
मिलिन्दपञ्हः - यत्र ग्रीकराजमिनान्दारस्य च बौद्धमुनिनागसेनस्य च मध्ये संलापो विधृत इति प्रत्ययः, स ग्रन्थः नृपस्य मिनान्दारस्य शिक्षागतां योग्यतां वर्णयति। यथा - स वहूनि कलाशास्त्राणि विज्ञानानि च जज्ञौ - पवित्रमैतिह्यम्, धर्मनिर्पेक्षविधिं, सांख्ययोगन्यायवैशेषिकदर्शनानि, गणितं, गीतं, भेषजतत्वं वेदचतुष्टयं पुराणानि इतिहास च।'
अन्यत्रायं कथयति ब्राहमणविषयमधिकृत्य यत् ब्राह्मणानां च ब्राह्मणापत्यानां च वृत्तिः ऋग्वेदेन, यजुर्वेदेन, सामवेदेन, अथर्ववेदेन, शुभलक्षणविज्ञानेन, कथाभिः, पुराणैः कोशैश्च सह युज्यते। इदं वक्तव्यं यत् द्वयोः स्थलयोः मध्येऽन्यतरस्मिन् क्षेत्रे पुराणशब्दो बहुवचनेन युक्तः। अत्रायमाशयः - स शब्दः विद्यायाः शाखां निर्दिशति। तथा च, एकाधिकपुराणानां तत्कालीनमस्तित्वं सूचयति।
नैव बौद्धाः लेखकाः, जैनाः संस्कृतपुराणानाम् अनुकरणेन तथा आदर्शेन बहूनि साहित्यानि व्यरचयन्, एषु लेखकेषु प्राचीनतमः खलु विमलसूरिनामधेयः कश्चित्-जैनो मुनिः। खृष्टाब्दीयप्रथमशतके स 'पउमचरियम्' लिलेख। स एकाधिकेषु प्रसंगेषु इदं पुराणमिति उवाच।
रविसेननामधेयोऽपरो जैनो लेखकः ६७८ तमे खृष्टाब्दे संस्कृतभाषया पद्मपुरानं लिलेख। खृष्टाब्दीयनवमशतके गुणभद्रेण उत्तरपुराणं लिखितम्। एषां ग्रन्थानां नामतः तथा ग्रन्थनिबद्धविषयाणां प्रकृतितः इदं स्फुटं पञ्चलक्षणानां संस्कृतपुराणानां विषये खृष्टाब्दसूचनाकल्पकालात् एव जैनानामवगतिरासीत्।
एवं पुराणसाहित्यस्य प्रकृति च प्राचीनतां चाधिकृत्य वेदादिसाहित्येभ्यः यानि तथ्यानि अस्माभिः संगृह्यन्ते, तानि सर्वाण्युपन्यस्तानि। एतानि प्रभवस्थानानि परीक्ष्य दृश्यते यत् खृष्टजन्मनः कतिपयवर्षेभ्यः प्राक् एव पुराणसाहित्यं समजायत, तथा च तस्मिन् पुरातने काले एव एकाधिकानां पुराणानामस्तित्वमासीत्।
वस्तुतः, पुराणानां जनप्रियत्वं तथा गुरुत्वं नासीददिवसव्यापी, मासव्यापी, वा वर्षव्यापी विषयः। अपि तु बहुवर्षव्यापी विषयः येन पुराणैः जनमानसेषु चिरस्थायी प्रभावः स्थाप्तः। मन्थरमपि सुदृढं पुराणैः जनाः समाकृष्टाः। मुनिनृपादिचरित्रविषायकमाख्यानम्, विश्वसृष्टिविनष्टिसम्पर्कितं चित्ताकर्षकमुपाख्यानम्, विश्वस्य विविधानां देशानां भौगोलिकं विवरणम्, समयविषायको विविधः परिमापस्तथा विभागः, विविधयुगव्याप्तिकालनिर्णयः, अपि च धर्मदर्शनादयः - एते सर्वे विषयाः पुराणानां पृष्ठेषु उपस्थापिताः सन्तः जनानां हृदयं जह्रुः। अत एव साध्विदमुच्यते यत् पुराणसाहित्यं खलु स्वयं प्रकाशकं पुरातनमपि नूतनममूल्यं प्राचीनभारतीयं निधानम्।
------------
षष्ठोऽध्यायः
पुराणेषु करुणा
अनुभवजन्यज्ञानविषयो हि धर्मः। अयं न कृत्स्नशः तात्त्विको भवितुमर्हति। यद्यपि न केवलं हिन्दुधर्मस्य अपि तु सर्वेषां धर्माणां कश्चिदानुष्ठानिको विषयोऽस्ति, तथापि प्रकृतार्थेन प्रयुक्तो धर्मो वस्तुतः मूल्यजगता सह प्रत्यक्षं सावधानता। सर्वे आनुष्ठानिका व्यापाराः प्रायेण निरर्थकाः। ते मौलिकमूल्यमहत्त्वप्रमाणार्थं परोक्षमार्गाः कस्यचिद्देशस्य संस्कृतिस्तद्देशीये धर्मे प्रतिफलिता भवन्ति। भारतीयसंस्कृतिविषयेऽपि कश्चन व्यतिक्रमो नास्ति।
सर्वासां सभ्यतानामेकैकशो विवर्तनकेन्द्रस्तिष्ठति। तथा हि - प्राचीनो ग्रीसः कलायामनुरागी आसीत्, रोमश्च राजनीत्याम्। उक्तसभ्यताद्वयेन सह भारतीयसभ्यतायास्तुलनायां कृतायामिदं दृश्यते यत् धर्मनिरपेक्षताया उपरि प्रतिष्ठिता सभ्यता विस्मृतिं याति, किन्तु भारतीया सभ्यता धर्मराजनीत्यादिझञ्झासंकुले विरोधिनि परिवेशेऽपि भयशून्यैव दण्डायमाना तिष्ठति। अत्र हेतुः - तस्या भित्तिभूमिः न मिथ्याधर्मनिरपेक्षताया शिथिले सैकते स्थापिता, अपि तु, चिरन्तनैः दार्शनिकैस्तथा नैतिकैर्मूल्यबोधैर्विरचिता। तत्र यथाक्रमं काले काले बहव आध्यात्मिका नेतार आगताः। ते हि संस्कृतेर्यथार्थं वाहकाः - यत्र संस्कृतौ माधुर्यस्य तथा सत्यस्य समन्वयः साधितो भवति। माधुर्यं स्वयं सार्वलौकिकं प्रेम प्रकाशयति। सत्यं च ज्ञानालोकं प्रज्वलयति - स आलोको नामाध्यात्मिकः, प्रबोधः। तत्कर्तृह्वानं न केवलं जातिविशेषाय सम्प्रदायविशेषाय वा क्रियतेऽपि तु समग्रमानवेभ्य एव। तेषां वाणी तथा शिक्षा न केवलं समयविशेषे स्थानविशेषे वा प्रयुज्यते, अपि तु समग्रे विश्वे तथा समग्रे काले।
वैदिको धर्मः खलु उपयोगमुखी। एवं विनिमयप्रथाविशेषमभ्यस्यति - यत्र वैदिकाः पुरोहिता यज्ञे कञ्चिद्देवं कांश्चिद्देवान् वा आहूय पूजयन्ति, तस्माच्च अथवा तेभ्यश्च विनिमयेन प्रचुरं वित्तमिच्छन्ति। तथापि इदं स्वीकर्त्तव्यं यत् तेषु व्यावहारिकेषु स्वार्थपरेषु च कार्येषु काचिन्महती नीतिर्बभूव। सा खलु सत्यस्याथवा ऋतस्य नीतिः यत् सत्यमाचरणानां साधारणेषु नियमेषु स्वयं प्रकटितम्। अयं नैतिको व्यापारः यः प्राचीने धर्मे दृशते - परवर्त्तिनि काले आकारविशेषं दधार। स च माहाकाव्यिकं पौराणिकं च युगमात्य निर्दिष्टसामाजिकादर्शत्वेन परिणतो बभूव। गुणदोषयोः पुण्यपापयोश्च विवेचना प्रायेणास्मिन्नादर्शेऽवतिष्ठते। तस्यातिक्रमे गुरुपापम्, विचारश्च तदनुसारी।
सामान्यतः, नैतिककर्त्तव्यतानीतौ निर्दिष्टानां कर्त्तव्यानां स्वीकृतिरस्ति। तानि कर्तव्यानि जात्या सह, जीवनस्य पर्यायेण सह संश्लिष्यन्ते। एतान्यन्तरेणापि, कति सार्वलौकिकानि कर्त्तव्यानि सन्ति। समाजः पारस्परिककर्मसु नियुक्तान् सर्वविधान् लोकान् गृहीत्वा रचितः। स न सजातीयानां सवृत्तीयानां सममनोभावानां जनानां समवायः। अत एव सर्वेषां सम्प्रदायानां सवृत्तीयानां सममनोभावानां जनानां समवायः। अत एव सर्वेषां सम्प्रदायानां सर्वासां वा जातीनां कृते कति नियमा अवश्यमेव स्थास्यन्ति। ते नियमाः खलु सामाजिकवाहनस्य समृद्ध्या प्रयोजनं साधयन्ति, तेषु कति सर्वातिशायिनो व्यापाराः सन्ति ये सर्वेभ्यः कञ्चित् व्यवहारं कामयन्ते। एवं परार्थमुपकारः, अतिथिसेवा, गृहपालितपशुपालनम्, पितृश्च आहुतिदानम् - इत्यादीनि कार्याणि सर्वैरवश्यं करणीयानि आसन्। एवञ्च, जीवेषु यन्त्रणाधानम्, अन्येषां सम्पत्तिषु बलपूर्वकान्यायाधिकारः, इत्यादयो व्यापारा निन्दनीयाः। किन्तु विपदापन्नेभ्यः सहायता, गुरुजनेभ्यः सम्मानमित्यादीनि कर्त्तव्यानि सामाजिकास्तित्वस्य पक्षे मौलिकानि कारणानि। अत एव एवंकरणं हि सार्वलौकिकं कर्त्तव्यम्। यौनशुद्धता, स्त्रियै सकृद्विवाहो, विवाहविधिपालनमेते विषयाः व्यक्तिसुखाय तथा सामाजिकैक्यविधानाय च उपयोगिनो विविच्यन्ते। पुनश्च, नैतिकविशुद्धये कतिविषयैः प्रयोजनमस्ति। यथा - जितेन्द्रियता, वाचा चिन्तया कर्मणा च शुचिताया अभ्यासः। सत्कृतिः, दानम्, दयालुता, सहनशीलता, तितिक्षा च भवन्ति मौलिका गुणाः। एते विषयाः वैदिकयुगात् स्वीकृताः सचेतनतया न चेत्, परोक्षरीतितया। एते भावा अन्यधर्मचिन्तासम्पर्कात् स्फुटतराः सञ्जाताः। अन्यधर्मः इति वक्तुं बौद्धधर्मः जैनधर्मश्चेति सूच्यते। तयोः धर्मयोः मध्ये या मानवता सा ब्राह्मणधर्मे तात्पर्यमयं वैशिष्ट्यं स्थापितवती। कर्मणि एषा नीतिः निर्दयेषु अनुष्ठानेषु सूक्ष्मं परिवर्तनमानिनाय। अस्मात् कारणात् पौराणिके युगे हिन्दुधर्मः प्रायेण परिवर्त्तितः इति परिलक्ष्यते।
जातीयधर्मस्य कोषाध्यक्षा ब्रह्मणा प्राधान्येन बुद्धिजीविश्रेणीभुक्ता आसन्। ते नीरवं पराजयं न स्वीकुर्वन्ति स्म। ते बौद्धधर्मात्तथा जैनधर्मात् शक्तिमूलं संगृह्य हिन्दुधर्मं बलवत्तमं चक्रुः। एवं च आत्मोत्सर्गदानमहत्वादिपूर्णानि आख्यानानि आलोकसङ्केता इव युगं युगं व्याप्य हिन्दुधर्मीयाचरणमार्गे आलोकसम्पातं कुर्वन्ति स्म। गृहस्थजीवनस्य विधीन् वर्णयन् वर्णाश्रमधर्मो विविधानां कर्त्तव्यकर्मणामुपरि गुरुत्वं ददौ। तथा हि - गुरुषु श्रद्धा, अक्षमेषु सहायता, उदारताप्रसरणम्, वृक्षरोपणम्, राजपथनिर्माणम्, कूपखननम्, पुष्करिणीखननम्, खाद्याश्रयसेवादीनां दानम्, विपन्नेभ्यः, जीवेभ्यः, रोगिभ्यः, अशक्तेभ्यश्च जनेभ्यश्च शुश्रूषा।
अत्रैवोयाति करुणासम्बन्धी प्रश्नः। उक्ते विश्लेषणे तत्तथस्य प्रमाणाय चेष्टा क्रियते यत् हिन्दुधर्मः मूलतः करुणात्मको धर्मः। कारुणिको भावश्चातीतरात्रौ प्रविष्टो भवितुं नार्हति। अत एव यदि वयं पुराणेषु कारुणिकं भावं द्रष्टुं चेष्टामहे, तर्हि पश्यामो यत् स भावः प्राचीनतमपर्यायेभ्यः एव सम्मुखं क्रमेणागतः। कस्यचिद्धर्मस्य मौलिकं सत्यं हि करुणा। अन्यथा करुणाविरहितो धर्मो न कदापि युगपरीक्षातः जीवितुं शक्नोति। करुणाया आलोकः विशृंखलेषु उपाख्यानेषु पुरावृत्तेषु च अस्पष्टतां दूरीकरोति। सा करुणा पर्यवेक्षकस्य दृष्टौ स्वयं प्रकाशते, सौन्दर्यरसिकेषु सौन्दर्यं वितनोति, तथा च प्रमाणं करोति यत् शाश्वतो हिन्दुधर्मः प्रधानतः महान् तथा उदारः।
पुराणानां स्थानम्
पुराणसाहित्यं धर्मीयकल्पविषयत्वेनाभिधीयते तत्र धर्मनिरपेक्षविषयाः सन्ति। किन्तु तस्य प्रस्थानं वेदापेक्षया न न्यूनतां व्रजति। वेदश्चेदभिजातानां प्रधाना उपस्कराः, तर्हि पुराणानि साधारणानां जनाना धनानि निकटात्मीयरूपाणि।
पुराणशब्दो मूलतः पुरातनमाख्यानं सूचयति। अयं शब्दः साहित्यविशेषमपि द्योतयति। यत् साहित्यं युगं युगं व्याप्य गाथासु कथासु च रक्षितमासीत्। एताः गाथाः कथा आख्यायिकाश्च विस्तृते साहित्ये स्थानमधिकुर्वन्ति स्म। तस्मिन् साहित्येऽष्टादशमहापुराणानां तथा अष्टादशोपपुराणानामन्तर्भुक्तिः सञ्जाता। इदमुल्लेख्यं यत् पुराणसंकलनस्य कालो य एव वा भवतु वा न भवतु, पुराणगतं पृथक् पृथक् आख्यानं सम्भवतः वैदिकयुगस्य प्रत्यूषे एव समजायत। धर्मीयं सामाजिकं राजनीतिकं मतमधिकृत्य सञ्जातमाख्यानमन्तरेणापि नैतिकविषयम् अवल्म्ब्य यदाख्यानं तम् तात्कालिकं नैतिकं नियमं द्योतयति। स प्रश्नः अग्रे वक्ष्यते।
पुण्यं ज्ञानं वैदिकसाहित्यस्य मुख्यं विषयवस्तु। तत्र धर्मनिरपेक्षविषयः साधारणत आनुषंगिक एव। स विषयः केवलं धर्मीयं व्यापारं गोचरीभूतं करोति। प्राचीनग्रन्थपाठात् इदं परिस्फुटं यत् प्राचीने भारते प्रधानतो द्वे मुख्ये ऐतिह्ये प्रचलिते आस्ताम्। तथा हि - ब्राह्मण्यैतिह्यं च क्षात्रैतिह्यं च। द्वयोः पार्थक्यमतीव गुरुत्वपूर्णम्। वैदिकानां ग्रन्थानां धर्मीयविषयसम्बन्धिनिर्दिष्टभार आसीत्। तदान्ये ग्रन्था धर्मनिरपेक्षाकाङ्क्षासु यत्नशीला आसन्। वैदिकसाहित्यमथवा ब्राह्मण्यैतिहां प्राचीनयुगस्य धर्मीयचिन्ताकर्मभिः उपकारं न करोति, किन्तु पुराणेषु इतिहासेषु च प्रतिविम्बितं क्षत्रैतिह्यं धर्मनिरपेक्षपरिवेशविषयक भावरचनायै अस्मान् सहायतां करोति। तथापि, उभयोः ऐतिह्ययोः विश्लेषणं पार्श्वापर्श्वि संश्लिष्टे चित्रे समग्रतामानयति। उभयोरैक्यं वानैक्यं वा न किमपि वस्तु। परन्तु ऐतिह्यद्वयं केनचित् सामान्यबन्धनेन बद्धम्। तद् बन्धनं मानविकतायाः, उदारतायाः, करुणायाश्च। अदृश्यं सूत्रमिव एतत् प्रावण्यं धर्मीयमधर्मीयं च समग्रं भारतीयं चिन्तनं च विश्वसनं च प्रविशति। अपि च, तीर्थयात्राभेषजविद्याप्रायश्चित्तादीनां सम्पूर्णतः भिन्नानां विषयाणां प्रभावोऽस्ति करुणात्मकविश्वजनप्रीतिव्यापारे। सहिष्णुता खलु विवर्तनकेन्द्रः, क्षमा हि भारतीयजीवनस्योद्घाटकशब्दः। विषयद्वयतः सामाजिकाः न्यायाः आचाराश्च सञ्जायन्ते। अस्योपरि प्रसिद्धभारतीयदार्शनिकैतिह्यस्योत्कर्षो बभूव। यतः मानवजातेः मङ्गलं व्यक्तीनां सामग्रिकं मङ्गलम् विना न किञ्चिद्वस्तु।
पुराणानि साधारण्येन वैदिकसाहित्योत्तरकालीयानि इति विविच्यते। यद्यपि कति कथा यथार्थ एव अतीवप्राचीनाः। तानि पुराणानि साधारणैः जनैः सह अन्तरङ्गं वस्तुनीव अस्मिन्नपि काले काले परिवर्तनं सञ्जातम्। तदेव साधारणजनजीवनविचाराय यथायथं वस्तु संरक्षति।
हिन्दूनां धर्मो न कदापि निष्पृहः। परिवर्तनशीलकालस्य आकाङ्क्षाणां ज्ञानाय तथा ग्रहणाय अस्योदारतासीत्। जीवनबलस्य प्रमाणाय कस्यचित् प्राणवतः समाजस्य अवश्यमेव प्रवाहस्य तथा परिवर्तनस्य शक्तिः स्थास्यति। धर्मप्रवाहः सर्वदा विभिन्नयुगधारानुसरणेन तस्य गतिमार्गे परिवर्त्तनं साधयति। तथा च प्रयोजनीयां संगति विदधाति। एवञ्च, पुराणानि स्पष्ठतः विविधानां युगानामानुकूल्यं परिगृह्य विभिन्नानां देवानां जनप्रियत्वं दर्शयन्ति।
ब्राह्मण्यैतिह्यमनुसृत्य अथर्ववेदे च बृहदारण्यकोपनिषदि च यथा लिखितं तथा दृश्यते यत् वेदानामिव पुराणानामपि पवित्रमूलत्वमस्ति। अथर्ववेद आह यत् यजुभिः सह यज्ञशेषात् ऋचः सामानि छन्दांसि पुराणानि च जायन्ते स्म। अन्यतश्च, बृहदारण्यकोपनिषद् वेदेतिहासपुराणादीनां प्रभवं महाभूतस्य श्वासत्वेन वर्णयति। एते मते यद्यपि मूलतः स्वतन्त्रे, तथापि पुराणानां पवित्रत्वे द्वे मते एव ऐकमत्यं धारयतः। वपित्रत्वादेव पुराणेभ्यः पञ्चमवेदसंज्ञा समर्पिता।
पुराणेषु पञ्च लक्षणनि सन्ति इति विधीयते। तथा हि -
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम्॥
(प्रसंगः वायुपुराणम्, ४.१०.९२, मत्स्यपुराणम्, ५३,६३, अग्निपुराणम्, १.१४)
पारिभाषिकतया, पुराणेषु सन्ति सृष्टितत्त्वं प्रतिसृष्टितत्त्वं, देवानां साधूनां च वंशावली, विश्वचक्रस्य वर्णना, राजवंशानां च विवरणम्। सर्वेषामेतेषां लक्षणानां वस्तुमूलं तिष्ठति कथासु, उपकथासु, गाथासु, कल्पकथासु च या यागानां मध्यतः आगच्छति -
आख्यानैश्चोपाख्यानैर्गाथाभिः कल्पहोक्तिभिः।
पुराणसंहितां चक्रे पुराणार्थविशारदः॥
(ब्रह्माण्डपुराणम्, २.३४.२१, वायुपुराणम्, ६०.२१, विष्णुपुराणम्, ३.६.२५)
अष्टादश महापुराणानि :- १. वायुपुराणम्, २. ब्रह्माण्डपुराणम्, ३. मार्कण्डेयपुराणम्, ४. विष्णुपुराणम्, ५.मत्स्यपुराणम्, ६. भागवतपुराणम्, ७. कूर्मपुराणम्, ८. वामनपुराणम्, ९. लिङ्गपुराणम्, १०. वराहपुराणम्, ११. पद्मपुराणम्, १२. नारदीयपुराणम्, १३. अग्निपुराणम्, १४. गरुडपुराणम्, १५. ब्रह्मपुराणम्, १६. स्कन्दपुराणम्, १७. ब्रह्मवैवर्तपुराणम्, १८. भविष्यपुराणम्।
विविधेषु पाठेषु पुराणानां क्रमोऽन्यविधो भवितुमर्हति। तेषु कश्चिद् व्यतिक्रमोऽपि दृश्यते। तथापि उक्तानि अष्टादशपुराणि अतीव गुरुत्वपूर्णानि इति विवेचना। कदाचिद्वा वा एतानि पुराणानि त्रिधा विभाज्यन्तेतथा हि - सात्त्विकम्, राजसम्, तामसम् च।
१. सात्त्विकपुराणेषु - विष्णु-नारदीय-भागवत-गरुड-पद्म-वराहपुराणानि विद्यन्ते।
२. राजपुराणेषु - ब्रह्माण्ड-ब्रह्मवैवर्त्त-मार्कण्डेय-ब्रह्मा-वामन-भविष्यपुराणानि।
३. तामसपुराणेषु - मत्स्य-कूर्म-लिङ्ग-वायु-अग्नि-स्कन्दपुराणानि।
ईदृशं वर्गीकरणं स्वसम्प्रदायाय गुरुत्वं दातुं सम्प्रदायविशेषेण कृतम्। एतत् सगाम्मीर्य्यं न गृह्यते। एतत् वर्गीकरणं वस्तुतः धर्मोन्मादानां निरर्थकमनुशीलनम्। केनचन स्वतन्त्रेण उपायेन हिन्दुधर्मस्य वर्णनं खलु पुराणानामभिप्रायः। वेदेषु उपनिषत्सु च यत् कार्कश्येन वर्णितं पुराणेषु तत् आख्यानादिभिः कथ्यते - येन प्रकारेण सरलतमं मनः पुराणानां विशुद्धाः वाणीं ग्रहीतुमर्हति। अत्र शास्त्रोक्तक्रिया अपि सरलीकृतया रीत्या वर्णिताः।
वैदिको धर्मो विस्तृतार्थतोऽनेकववादी। ततस्तत्र बहुपौराणिकाख्यानोपाख्यानादीनामवसरोऽस्ति। अपि च, अनेकदेववादी धर्मः इव वैदिको धर्मः प्रकृत्त्या सहिष्णुरेव। अस्मात् कारणात् विविधेषु देवविषयेषु परिणामतः समीकरणं जातम्।
ब्राह्मणपर्यायस्यात्मगतभावे विशेषेणानमजीयता जाता। स पर्यायः सम्पूर्णतः शास्त्रोक्तक्रियासु मग्न आसीत्। जनप्रियतार्जनाय कस्यचिद्धर्मस्य पक्षे सरलेन तथा समेन तत्त्वेन, प्रचुरेण पुरावृत्तेन, सरलपूजापद्धत्या, साधारणनमनीयमनोभावेन च प्रयोजनम् अस्ति। अस्मिन् क्षेत्रे ब्राह्मणानां तथा उपनिषदां व्यर्थता अवैदिकचिन्ताधारासु परोक्षमुत्साहं सञ्चारितमकरोत्। याश्चिन्ताधाराः क्रमेण किन्तु निश्चयेन मुख्यत्वमर्जयन्ति स्म। इतोमध्ये उपनिषद्भिः सृष्तानामनुकूलावस्थानां सुयोगं प्राप्य बौद्धाः जैनाश्चेत्यादयोऽवैदिका धर्मा वेदानां प्रामाण्यं न स्वीकृत्य द्रुतं विस्तारं लभन्ते स्म। ते धर्मा वैदिकदेवतत्त्वेभ्यः, ब्राह्मण्यक्रियाकलापेभ्यः, औपनिषदिकाध्यात्मवादेभ्यः पृथग्रुपैः उपकारकाणि उपादानानि समगृह्णन्। तस्मिन्नेव समये ते दुर्वलाणि व्स्तूनि पर्यहरन्।
एतेषामवैदिकानां धर्मीयाणां व्यापाराणामस्तित्वं यद्यपि चितं न रक्षितम्, तथापि ते समग्रहिन्दुधर्मस्य सामान्यभावधारायां प्रचुरं प्रभावमस्थापयन्। प्राग्बुद्धयुगीयो हिन्दुधर्मः निश्चितमेव बुद्धोत्तरयुगीयहिन्दुधर्मात् पृथमेव। अत्र अतीव गुरुत्वपूर्णं परिवर्त्तनं साधितम्। तथा हि - पूर्ववर्ती धर्मः कठोरस्तथा मनाङ्निष्ठुरोऽपि आसीत्। किन्तु परवर्त्ती धर्मः नमनीयतरः सञ्जातः - यत्र भिन्नमतानां विवेचनाया अवसर आसीत्। अयं दण्डं यथा ददाति तथैव दण्डनिवारणस्योपायम् अपि वदति। यथा, प्रायश्चित्तरीत्या अनेकभयावहपापेभ्यो मुक्तिः साध्यते। एषा हि करुणा व्यर्थतां दुर्वलतां च स्वीकृत्यापि सन्मार्गं न परित्यजति। किन्तु युगपदेव संशोधनस्योपायं दर्शयति। अत्रैव अवैदिकधर्मीयव्यापाराणां निःसंशयः प्रभावो वर्तते। ये व्यापाराः वैदिकधर्मापेक्षया महत्तरा उदारतरा एव।
अस्मिन् क्षेत्रे पौराणिको धर्मः, स यदि तथाकथितो भवेत्, वैदिकधर्मापेक्षया भावेन स्वतन्त्रः। अयं धर्मः पुराणानां ज्ञानसागरादुत्थाय यद्यपि आपातदृष्ट्या प्राचीनं धर्ममनुकरोति तथापि स धर्मः प्रशान्त उदारश्च। अत्र देवताख्यानानि प्राचुर्येण सन्ति। किन्तु तेषु काचिदादर्शगता दिग् वर्तते या सत्यं मिथ्या वा दर्शयति, दोषादिविषयां शिक्षां ददाति।
पुराणसाहित्यं वैदिकसाहित्यस्य विकल्पत्वेन गृह्यते। केन प्रकारेण जीवने शान्तिर्भवति, सम्पूर्णता जायते, जीवनस्य आदर्शः प्राप्यते, जीवनप्रश्नः समाधीयते - आख्यानैरुपाख्यनैश्च पुराणमेतेषां सरलतमं मार्गं दर्शयति। इदं विस्मयेन उप्प्लिख्यते यत् पुराणानि अनेन मार्गेण विविधतत्त्वेषु, समन्वयः साधयन्ति, जीवनाचरणविषायकेषु वैदिकेषु अवैदिकेषु मतेषु मिलनं रचयन्ति। पुराणसाहित्यमतीव श्रद्धया सामग्रिकं धर्मीयं प्रत्ययमुपस्थापयति, सर्वं चैकत्रीकृय वैचित्र्ये ऐक्यं साधयति।
ज्ञानकर्मभक्तितत्वेषु च जीवनव्यवहारविषयकेषु वैदिकेषु अवैदिकेषु च मतेषु पुराणसाधितसमन्वयः हिन्दुसमाजस्य सर्वेषु स्तरेषु प्रभावं प्रनोति स्म। तस्य परिणामतः एव वर्तमानकाले प्रायेण सर्वेषां हिन्दूनां जीवनं सुविन्यस्तं सञ्जातं यत्र भिन्नकालीयानां भिन्नधर्मीयाणां भिन्नानां भावानामभ्यासानां च असमान्तरालसमतया परस्परसंग्रन्थनं कृतम्। विद्यास्थानेभ्यो दूरे वसति ईदृशोऽशिक्षितो हिन्दुरपि पुराणकथितदार्शनिकसत्ये सम्पूर्णतः अज्ञतां न पोषयति। फलतः स जीवनमधिकृत्यातीवोदारं मतं गृह्णाति, सहनशीलतायास्तथा संगतिस्थापनस्य गभीरमर्थमनुभवति, यो व्यापारोऽन्यत्र दुर्लभ एव। इत्थंभूतव्यापारस्य हेतुत्वेन इदमेव कथ्यते यत् महाकाव्यानि पुराणानि च हिन्दूनां जीवनेऽतीव गुरुत्वपूर्णभूमिकयाभिनयन्ति द्विसहस्रवर्षाधिकं समयं व्याप्य। तानि कमपि कलहं न कृत्वैव साधारणेभ्यो जनेभ्यः महर्षिणां ज्ञानमपर्यन्ति स्म। एतेषां साहित्यानां लेखकाः प्रत्येकं जनं विविच्य तस्य सामाजिके तथा धर्मीये जीवने कल्याणकरमुपदेशं दत्तवन्तः। एतैः साहित्यैः उन्नतो मूल्यबोधस्तथा नैतिको नियमः व्यावहारिकेण ज्ञानेन युक्तस्तिष्ठति। अयं मानवचरित्रस्य कतिचित् त्रुटीः यथा गृणाति तथैव तासामतिक्रमायापि उपायं दर्शयति, समग्रतो मानवजातीनामेवंविधे ग्रहणे एव पवित्रग्रन्थेषु प्रतिविम्बितस्य मानविकस्य व्यापारस्य मूलं प्रमाणमस्ति।
करुणा अपूर्वः शब्दः। तत्र बहवो मनान्तोऽनुभावास्तिष्ठन्ति। तथा हि - प्रेम, भक्ति, महानुभवता, स्नेहः, क्षमा, सहानुभूतिः इत्यादयोऽनुभवाः। एतेऽनुभवा जीवनस्य भूमिकास्वरूपाः। दानस्य च ग्रहणस्य च प्रवृत्तिः, क्षमायाश्च विस्मृतेश्च प्रवृत्तिः कस्यचिज्जनस्य तदीयसहचराणां च जीवनं यथोपयुक्तं साधयति। एषा वाणी ध्रुवकवत् एतेषु जनप्रियेषु साहित्येषु बहुभिराख्यानैरुपाख्यानैश्च पुनः पुनः समर्प्यते। भ्रम एव मानवधर्मसतथापि भ्रमसंशोधनाय यः प्रयत्नः स एव मानवं महामानवपर्यायं नयति।
स समयः समागतो यदा पुराणेषु इतिहासेग्रु च रचितानां देवाख्यानानां च पुरावृत्तानां च पुनर्व्याख्यानैर्न प्रयोजनमस्ति। आसु कथासु प्रतिबिम्बितः समाजतत्त्वगतो व्यापारोऽनुसन्धेयः। अत्र पौराणिकसाहित्ये विवृतस्य हिन्दुधर्मस्य कारुणिकधर्मत्वेन विश्लेषणाय काचित् प्रचेष्टा क्रियते। यत्र प्रथास्तथा आचारा न प्रधानाः किन्तु महत्ता तथा करुणा प्रकृतात्मत्वेन प्रतिष्ठिता।
हिन्दुधर्मः सर्वदा विस्तारवान् धर्मः। अयं समुद्र इव गभीरः। यत्र साम्प्रदायिकानां चिन्तनानां तथा विश्वासानां विभिन्ना धारा मिलिताः सञ्जाताः। वैदिको धर्मो यद्यपि आनुष्ठानिक आसीत्, तथापि तत्र एका दार्शनिकी भूमिका अन्तर्निहिता सती सर्वाणि मौलिकानि सत्यानि प्रकृते परिप्रेक्षिते समर्थयते स्म। एतानि सत्यानि प्रकृतावेगेषु प्रकाशन्ते। करुणा तेषां साधरणी आस्था। अयं शब्दः इन्द्रधनुरिव विचित्रवर्णः। अत्र यावतीयभावरसानां समन्वयः साध्यते। ते भावा हि - प्रीतिर्भक्तिः, स्त्रीजनोचिता कर्तव्यता, सहानुभूतिः, स्नेहपरायणता, शिष्यं प्रति आचार्यस्य प्रवृत्तिरथवा आचार्यं प्रति शिष्यस्य कर्त्तव्यता, भक्तं प्रति देवताया करुणा, तपस्या, अनुशोचना च। करुणाया उपरि एषां भावानां प्रभावोऽस्ति।
पुराणानि तस्यैव हिन्दुधर्मस्य प्रचारं कुर्वन्ति, वैदिका ग्रन्था इव, तथापि भिन्नया रीत्या। तानि प्रधानतः कथाभिः उपदिशन्ति। वह्व्यः कथा आपातदृष्ट्या सरला धमीयवर्णहीना इव प्रतिभान्ति, किन्तु सूक्ष्मं पर्यवेक्षेण प्रमाणीकरोति यत् एतासु कथासु काचित् करुणात्मिका चिन्ता विराजते।
इदं सत्यं यत् पुराणेषु धर्मीयो भावो वर्तते। अस्मात् कारणात् आख्यानभागेषु गुणस्य महती भूमिकास्ति। अयं गुणो बहुधा व्याख्यायते। पुत्रस्य, स्त्रियः शिष्यस्य च कर्तव्येषु। भक्तिर्नामापर आवेगो यो बहुषु व्यापरेषु लक्ष्यते। सर्वेषामावेगानां वास्तविकं वर्गीकरणमसम्भवम्। किन्तु सर्वे आवेगाः करुणायामन्तर्भुक्ताः। अधुना करुणाप्रभावितावेगा वर्ण्यन्ते।
भक्तिः -
भक्तिर्द्विधा विभज्यते। मानवस्य मानवे, मानवस्य देवे च। मानवस्य मानवे भक्तिः बहुविधाः। शिष्यस्य आचार्ये, स्त्रियः स्वामिनि, भृत्यस्य च प्रभौ। बहूनि उपाख्यानानि इमं भक्तिजमावेगं गोरवेण अन्वितं कुर्वन्ति। भक्तौ ग्रहणदानयोः नीतिर्निहिता वर्तते। आपातदृष्ट्यात्र स्वार्थपरं लक्ष्यं नास्ति। किन्तु भक्तो यदा कस्मैचिदात्मानं समर्पयति तदा किञ्चित् प्रत्युत्तरमवश्यमेव स्थास्यति। तदुत्तरं केवलमानन्दरूपं भवितुर्महति अथवा पुरस्काररूपम्। केवलं ज्येष्ठानां गुरुजनानां चानन्दः पर्याप्त इति गण्यते। य आनन्द इहलोके परलोके च सौभाग्योपभोगाय कल्पते। शुभचेष्टा कदापि न नश्यति, प्रकृति यज्ञः कदापि न वृथा याति - एतादृशी शिक्षा एव पुरावृत्तेभ्यो जायते। अत्र भक्तिसम्बन्धिनः कति उत्कृष्टा दृष्टान्ताः सन्ति। स्त्रीजनस्य भक्तिः पुराणेषु अधिकं वर्ण्यते। एते पाठाः सतीत्वे, सकृद्विवाहे, स्वामिनं प्रति जन्मान्तरव्यापिनि स्वार्थहीने व्यवहारे गुरुत्वमारोपयन्ति। विष्णुपुराणे (३.१८) शतधनुरिति नृपस्याख्यानम् अस्माभिः प्राप्यते। तस्य पत्नी शैव्यातीव पुण्यवती धर्मपरायणा च आसीत्। तद्युगलं सर्वदा धर्मकार्येषु निरतमासीत्। एकदा यदा तौ प्रात्यहिकगङ्गास्नानात् प्रत्यागच्छतः स्म तदा पथि एकं पापिनं जनमपश्यताम्। व्रतकाले तेन राज्ञा पापिना सह वार्तालापः कृतः इति हेतोः परजन्मनि तस्य कुक्कुरत्वेन जन्म अभूत्। राज्ञी पुनः राजकन्यासीत्। तया पूर्वजन्म स्मृतम्। तया कुक्कुरविशेषमनुसन्धाय पूर्वजन्मसु तस्य जीवनानि स्मर्य्यन्ते स्म। एवं कतिषु जन्मसु गतेषु स राज्ञो जनकस्य पुत्रत्वेन जन्मग्रहणं चकार। तदा राजकन्यया सह तस्य विवाहो बभूव। एकत्र च तौ जीवनं वुभुजाते। विभिन्ननिम्नजन्मग्रहणं कुर्वते स्वामिने राजकन्याया अध्यवसायस्तथा जन्मानुक्रमेण स्वाभिदर्शनोद्यमः विस्मयकरः व्यापारः। एषा एकनिष्ठा भक्तिः प्रकृत्या प्रसंसार्हा।
एतादृशं स्वार्थशून्यं विषयमवलम्ब्य गरुडपुराणे (६४ तमोऽध्यायः) एकमाख्यानमस्ति। कुष्ठरोगग्रस्तो विप्रः कौशिकः मन्दभाग्योऽपि, तस्य सौभाग्यमेवेदं यत् तस्य पत्नी महती सती तस्य जीवनाय चिन्तयति स्म। स विप्रः प्रकृत्या दुष्ट आसीत्। एकदा स सुन्दरीं गणिकां द्रष्टुमैच्छत्। तस्य पत्नी तं तत्र अनयत्। पथिविप्रेणापमानितः कश्चिन्मुनिस्तं विप्रमशपत् सूर्योदयेन सहैव तस्य मृत्युर्भविष्यतीति। सतीत्वस्यैतादृशीशक्तिर्यत् सा पत्नी सूर्योदयेन सह स्वामिनो मृत्युं रुणद्धि म्म यतः सा च कदापि स्वामिनो मृत्युं न कामयते। यतस्तस्य स्वामी कायेन मनसा च असुस्थस्ततः स्वामिनोऽन्याये च दुष्टे च व्यवहारे तस्याः कोऽपि अभियोगो नास्ति। आख्यानस्यास्य परिणामे स विप्रः अनसूयाया हस्तक्षेपात् देवानामानुकूल्यं लब्ध्वा रोगमुक्तः सञ्जातः।
समतात्पर्यापन्नं तृतीयमुपाख्यानं ब्रह्मपुराणे (१११ तमोऽध्यायः) दृश्यते। प्रतिष्ठापुरस्य नृपतेः सुरसेनस्य पुत्रत्वेनैकः सर्प आसीत्। राज्ञा तथा राजपत्न्या विषयोऽयं गुप्त आसीत्। उपयुक्ते वयसि स सर्पो विवाहं कर्तुमिच्छति स्म। गुप्तविषयं नोन्मुच्य पूर्वदेशीयराजकन्यया भोगवत्या सह तस्य विवाहो व्यवस्थितोऽभवत्। विवाहात् परं भोगवती तस्याः स्वामिनः प्रकृतं परिचयं ज्ञातुमर्हति स्म। अनेन सा मुह्यमाना न बभूव। परन्तु सा तं सेवते स्म यथा एका स्त्री कुर्यात्। अनेन महत्त्वेन सा एकां शक्तिं प्राप्तवती यया तौ स्वामी च स्त्री च पूर्वजन्मवृत्तान्तं स्मर्तुं शेकतुः। सर्पेण स्मृतं पूर्वजन्मनि स कश्चिच्छिवानुचर आसीदिति। तदा भोगवती तस्य पत्नी आसीत्। शिवस्याभिशपात् स सर्परूपेण जन्मालभत। पवित्रं स्थानं गत्वा शिवस्याराधनायै स भोगवत्यानुरुद्धो बभूव। शिवस्य वरेण स स्वाभाविकं जीवनं प्रतिप्राप्नोति स्म।
वयं सदा तर्कयामो यत् प्राचीनव्यवहारविधिः स्त्रीजनेभ्य एतादृशीं स्वार्थशून्यतामैच्छत्। स्वामिनः क्षेत्रे नैतिकनियमो विभिन्नतामवलम्बत। तथापि बहुषु उपाख्यानेषु दृश्यते यत् स्वामिनः यथार्थतः तेषां भक्तिहीनाभ्यः गुणहीनाभ्यः पत्नीभ्यः हिताय चेष्टामकुर्वन्। तेभ्यः उपाख्यानेभ्य इदमायाति यत् सदृढप्रेमबन्धनेन स्नेहेन गभीरबायित्वज्ञानेन च अतीव प्रयोजनमस्ति दाम्पत्यजीवने। इदं वस्तु एव प्रेम इत्युच्यते। तस्मिन् प्रेमणि प्रकृता तयावतिष्ठते - या करुणायाः परिधौ वर्तते।
सूर्यस्य तह्ता तदीयपत्न्याः संज्ञाया उपाख्याने अस्योपाख्यानस्योज्ज्वलो दृष्टान्तो दृश्यते। विविधेषु पुराणेषु उपाख्यानस्य स्वतन्त्रः पाठोऽस्ति, किन्तु मुख्या रूपरेखा सर्वत्र समाना। संज्ञा (अन्यत्रान्यन्नामास्ति) सूर्यस्य दारुणं तेजः सोढुमक्षमा सती छायानाम्नीं आत्मनः प्रतिकृतिं सृष्ट्वान्यत्रागच्छत्। सा विकल्परूपा संज्ञायाः पुत्रान् प्रति विषमं व्यवहरत्। तदा सूर्यः अश्वस्य छद्यवेषं धृत्वा संज्ञानुसन्धानायोत्तरकुरुदेशं जगाम, यतः तस्मिन् समये संज्ञा अश्वाया वेषं दधार। मूलतः स तस्य पत्न्यै आत्मनः तेजः परित्यक्तुं सम्मत आसीत्। एषा दशा यद्यपि यन्त्राणा- दायिका तथापि स संज्ञायै सोढुं कृतसंकल्प आसीत्। इदमेवास्माकं प्रासंगिकं क्षेत्रम्। यतः सूर्य एकाकिनीं संज्ञा त्यक्तुमशक्ष्यत्। स तामभिशप्तुं वा शासितुमशक्ष्यत्। किन्तु तथा न कृत्वा स पत्न्या सह सुखेन वासाय दुःखजनकसंगति स्थापयति स्म।
ब्रह्मपुराणे (१०० तमोऽध्यायः) विनता कद्रुरिति कश्यपस्य पत्नीद्वयमधिकृत्य सुन्दरमुपाख्यानमस्ति। इदं प्रतीयते यत् ते द्वे महिले अतीव अवश्यतां जाते। ते यदा गर्भवत्यौ, तदा कश्यपोऽन्यत्र गतः। यथा ते द्वे महिले अतीव अवश्यतां जाते। ते यदा गर्भवत्यौ, तदा कश्यपोऽन्यत्र गतः। यथा ते न किञ्चिदपि अभद्रमाचरतः, तथा स ताभ्याम् उपदिशति स्म। किन्तु कश्यपस्य प्रत्यागमने आसन्ने सति ते कुकार्ये लिप्तेऽभवताम्। ते सप्तमर्षिसमायोजितयज्ञम् अगच्छतम्। तत्र च असदाचरणं कृतवत्यौ। महर्षयः ते अभ्यशपन्। तस्मात् ते नदीत्वेन प्रणतेऽभवताम्। प्रत्यागतः कश्यपः सर्वं श्रुत्वा पत्नीपक्षसमर्थनाय शिवं स्तवैः सन्तुष्य स्वीयपत्नीयुगलं हानि विनैव प्रत्याप्नोति स्म। तथापि अशोध्यत्वात् कद्रुः पुनरपि ब्राह्मणान् प्रति उपहस्य अन्यत् पापं चकार। तेषामभिशापात् सा दृष्टिहीना सञ्जाता। पुनश्च कश्यपः पत्नीपक्षं समर्थ्यं कार्यमकरोत्। एतदुपाख्यानं प्रमाणं करोति यत् केन प्रकारेण कश्यपेन पत्नीदोषो न दृष्टः। तेन ते सर्वथा रक्षिते, यद्यपि ते द्वे पापकर्मणि लिप्ते आस्ताम्।
प्रेम्णः सदृशं तेजः कठमुनेराख्याने दृश्यते। (ब्रह्मपुराणम् १८२ तमोऽध्यायः)। तत्र स मुनिः तदीयकुत्सितां स्त्रीं तपोबलेन सुन्दरीं कृतवान्।
मार्कण्डेयपुराणे राज्ञ उत्तानपादस्य कथास्ति। स तदीयपत्य्नां बहुलायामतीव स्निह्यति स्म। किन्तु राजनि बहुलायाः किमपि प्रेम नासीत्। सा तं प्रति सर्वदा कुव्यवहारमकरोत्। तथापि राजा किमपि न मन्यते स्म। एकदा बहुला समग्रं शिष्टत्वमतिक्रभ्य परिपूर्णायां राजसभायां राजानमपमानितं चकार। तदा राजा क्रुद्धः सन् पत्नीं बहुलां वनं प्रेरयामास। इतोमध्ये कश्चिद् विप्र आगत्य बहुलाया अपहरणस्य सन्देशं निवेदयति स्म। राजा वहिर्गतो बभूव। दीर्घानुसन्धानात् परं स ताम् प्रत्याप्नोत्। यथाक्रमं सोऽवगतोऽभवत् यत् बहुला सर्पराज्यं नीताऽभवत्। तत्र सर्पराजकन्या नन्दा तामरक्षत्। राजा तदीयपत्नीविरागात् मुक्तो भवितुं प्रागुक्तस्य विप्रस्य सहायतया बहुलां गृहमाणीतवान्। सर्पराजकन्या पितुरभिशापेन मूकत्वं प्राप। राज्ञी बहुला तन्मूकत्वमुक्तये सर्पराजकन्यां सहायतां चकार। विप्रो यज्ञबलेन राजकन्याया वाक्शक्तेः पुनरुद्धारं कृतवान्। इदमुपाख्यानम् उच्छृङ्खलायां पत्न्यां स्वामिनः यत् प्रेम तस्योदाहरणत्वेनोपन्यस्तम्।
बहुषु पुराणेषु पितृभक्तेर्दृष्टान्तत्वेन ययातेः पुरोश्च उपाख्यानं प्रसिद्धम्। इदं प्रतीयते यत् अस्योपाख्यानस्य चित्ताकर्षकत्वात् प्राचीने काले एव बहुलं प्रचारं लभमानं प्रायेण सर्वेषु पुराणेषु स्वीयस्थानमधिचकार। वृद्धोऽपि ययातिः सुखभोगैः न सन्तुष्ट आसीत्। अत एव स जरार्पणेन पुत्रेषु अन्यतमस्य यौवनं प्राप्तुमैच्छत्। एकैकशः सर्वे पुत्रा तत् दातुं सम्मता न बभूवुः। किन्तु कनिष्ठः पुत्रः पुरुः जराग्रहणेन पित्रे आत्मनः यौवनं समर्पितवान्। ततः तृप्तः सन् ययातिः पुरवे तदीययौवनं समर्प्य, आशीर्वादं प्रदाय, तं साम्राज्यस्य उत्तराधिकारिणं चकार।
ब्रह्मपुराणेऽनुरूपम् उपाख्यानमस्ति। तत्र प्रमतिपुत्रः सुमतिः गन्धर्वकृतबन्धनदशातः तस्य पितरममुञ्चत्।
मार्कण्डेयपुराणे एकस्मिन्नुपाख्याने गुरवे शिष्यस्य उद्वेगो वर्णितः। ऋषिर्भूतिः अतीवोत्तेजनाप्रवणो मान आसीत्। स सहसा क्रोधस्य वशं गतः। एकदा स शान्तिनामकाय शिष्याय अग्नेस्तत्त्वावधानभारं प्रदाय अन्यत्र गतः। दुर्दैवात् शान्ते कारणात् पवित्राग्निर्वापितोऽभवत्। अनेन गुरुः क्रुद्धो भविष्यति इति चिन्तयित्वा शान्तिरतीव भीतोऽभवत्। स जानाति स्म यत् गुरोस्तथाकथितकोपात् कापि मुक्तिर्नास्ति। सः अन्गेस्तृप्तये अत्यन्तं चेष्ठते स्म। तदाग्निर्दयापरवशः सन् तस्मै वरान् ददौ। शान्तिः प्रथमं वरं प्रार्थयते स्म - यज्ञीयोऽग्निः प्रज्वलितो भवतु इति। ततः गुरवे एकं पुत्रं स इच्छति स्म। गुरोर्हृदयस्य परिवर्तनमपि तेन प्रार्थितम्। मुनौ प्रत्यागते स आत्मनः स्वभावे किञ्चित् परिवर्तनमुपलब्धवान्। ततः अस्य कारणम् अनुसन्धाय सर्वं ज्ञातुमशक्नोत्। इदम् उपाख्यानं न केवलं शिष्यस्य स्वार्थशून्यतां दर्शयति३, अपि तु गुरौ तस्य सामग्रिकीं भक्तिं प्रमाणीकरोति। यया भक्त्या स गुरोः दोषान् अगणयित्वा गुरुः यथा आकाङ्क्षितं वस्तु प्राप्नोति तथा करोति॥
प्राचीना ग्रन्था मानवस्य देवस्य मध्ये निविड नैकट्यं पर्यवेक्षन्ते। इदं सत्यं यत् देवा लाभप्रदेषु पदेषु प्रतिष्ठिता आसन्। तथापि ते सदा निकटस्था आसन्। देवेषु मर्त्येषु च अविच्छिन्नो योग आसीत्। सर्वत्र वयं 'पश्यामः यत् सदैव नरकमपि देवम् एकनिष्ठयाह्नयति, तदा स देवः न केवलमाविर्भवति, अपि तु ईप्सितवस्तुदानेन यजमानं रञ्जयति। अस्य सम्पर्कस्य प्रशंसनीयः केन्द्रबिन्दुरस्ति। देवः सर्वदा दयायाः प्रतिमूर्त्तिः। स ददाति - आत्मनः क्लेशे सत्यपि स ददाति। देवाः कदापि दयाचिन्तनाद् विरता न भवन्ति, कदापि गुणस्य च दोषस्य समतां न चिन्तयन्ति, कदापि वा न लाभस्य हानेर्वा गणनां कुर्वन्ति। अत एव च कदापि वा दाता लब्धक्षयो भवति। ईदृशी दशा तमनिश्चितस्थानं गमयति, तस्य भूमिं वा स्वर्गं वा हारयति। अपि च, तस्य अरण्यादरणान्तरे भ्रमणस्य कारणं भवति। तथापि देवा अधिकवरदानाद् विरता न भवन्ति। ते मर्त्येभ्यो हिताय प्रश्नातीतं कल्याणं साधयन्ति। अनेन वरदानेन गभीरा प्रीतिः करुणा निम्नतरजीवेभ्य एव इति सूच्यते। कदापि वावश्यमेव ईदृशी स्वार्थशून्या प्रीतिः युगपत् अनुरागेण वा भक्त्या वा पुरस्कृता भवति, यत्र सम्पूर्णत आत्मसमर्पणस्य भावः सूच्यते।
प्रह्लाद-ध्रूव-वलीनामाख्यानेऽपि ईदृशो व्यापारोऽस्ति, सर्वाणि त्रीणि आख्यानानि विविधेषु पुराणेषु दृश्यन्ते यत्र परमदेवत्वेन भगवान् नारायणो वर्ण्यते। प्रह्लादस्य जन्म दैत्यकुलेऽभवत्। किन्तु स प्रथमादारभ्य नारायणस्य भक्त आसीत्। तस्य पिता हिरण्यकशिपुः तदीयं दैत्यसुलभं व्यवहारं विज्ञाय प्रह्लादं तन्निवारणाय सर्वथाचेष्ठत। अत्याचारस्य सीमा नासीत्। किन्तु प्रह्लादो भयशून्य आसीत्। तथा च स तस्य आराध्यदेवस्य कृपया सर्वत्र विपदः मुक्तोऽबवत्। अवशेषे नारायणः तस्य अत्याचारात् सृष्टिं रक्षितुं हिरण्यकशिपुं जघान्। प्रह्लाद-जीवनविवरणं भक्ते विष्णोः नियतं तथा दृश्यम् अवधानं दर्शयति। प्रह्लादः परमभक्तेः प्रतीकविशेषः। तत्र विष्णुः प्रमाणं करोति यत् सम्पूर्णा निर्भरता कदापि निष्फलतां व्रजति।
ध्रुवस्य कथा अन्यथा विन्यस्ता। स विमात्रा आहतः सन् विष्णुसमीपं गतः। एतावदेव तस्य अपमानमासीत् यत् स्वीयमूल्यप्रमाणाय स दुर्लभं किञ्चित् लब्धुं दृढप्रतिज्ञोऽभवत्। ततः स गृहस्य सुखं परित्यज्य तस्य अज्ञातस्य अनुसन्धानं कर्तुमारेभे। मुनयस्तस्मै सहानुभूतिशीला आसन्। ते आदित एव सम्यक् पन्थानं दर्शयन्ति स्म। ध्रुव एकनिष्ठतया सरलतया च सर्वासां विपदां मध्यतः परिभ्रमति स्म। स सर्वविदविपद उत्तीर्णः सन् सूक्ष्माभिनिवेशेन परमं लक्ष्यमुपगतः। विष्णुराविर्भूतः सन् तस्मै अपूर्वमलौकिकं वरं ददौ, इदमुपाख्यानं करुणाया अपूर्वमुदाहरणम्। यत्र परित्यक्तः शिशुः सर्वशक्तिमतः विष्णोः पक्षच्छायामाश्रयम् अलभत। अर्थात् अज्ञः शिशुरपि तेन परमेण देवेन नावहेलितो भवति। स आश्वासदानेन तं रक्षति ईप्सितेन वस्तुना च उपहरति।
वलेरुपाख्यानमपि सर्वैः ज्ञायते तथा विविधेषु पुराणेषु दृश्यते। दैत्यः सन्नपि वलिरतीव धार्मिकः च विष्णोः परमो भक्तश्च आसीत्। एकदा तेन स्वर्गोऽधिकृतः। देवास्तेषां प्रियां भूमिं प्रत्याप्तुं विष्णुसमीपं गताः। विष्णुः अदितेः पुत्रत्वेन वामनः सन् अवतीर्णो भभूव। वलिः सर्वेभ्यः प्रार्थिभ्यः वस्तूनि ददाति स्म। तदा वामनः प्रार्थित्वेन तत्रोपस्थितो बभूव। स केवलं त्रिपादभूमिमयाचत। दैत्यगुरुणा शुक्राचार्येण सर्वं लक्षितम्। स वलिं निषेधं चकार। तथापि वलिः स्वर्गस्य तथा स्वीयजीवनस्य विनिमयेनापि स्वसंकल्पेन बद्ध आसीत्। एकेन पादेन वामनः स्वर्गमावृतं चकार, अपरेण पादेन अवशिष्टं जगत्, तृतीये पादे नाभिमूलाद् वहिः प्रकाशिते सति स तं पादं स्थापयितुमैच्छत्। वलिः आत्मनः शिरो ददौ। तदा स स्वयं पातालं गतः। अत्र विशुद्धभक्तिगन्धो विद्यते। नैतिकतया भक्तोऽत्र प्रियस्य देवस्योपरि स्थापितः। देवः स्वार्थसिद्धये प्रवञ्चनाया आश्रयं गृह्णाति। भक्तः सर्वं ज्ञात्वापि पश्चात्पदो न भवति।
विविधानां देवानां महत्तां महानुभवतां चाधिकृत्य प्रचुराणि आख्यानानि सन्ति। एतेषु कति साहित्यस्य प्रकृतरत्नभूतानि। तानि महद्देवचरित्रस्य माधुर्य्यं प्रकाशयन्ति। ईदृशमन्यतममाख्यानं ब्रह्मपुराणे (८६ तमः अध्यायः) दृश्यते। इदं वर्णयति यत् - यमः कयोश्चिद्वृद्धयोः पित्रोः मृतं पुत्रमानेतुं गतः। किन्तु तयोः दुःखपरिमाणं दृष्ट्वा स तत्पुत्रं नेतुं न शशाक। ततः स मानवजातेः दुःखं दूरीकर्तुं तपस्यार्थं वहिर्गतः। अयं व्यापारोऽतीव तात्पर्यपूर्णः। यतः यमः मृत्युराजः। स मृत्युदृश्येन विचलितो न भवेत्। किन्तु इदमायाति यत् स न तृप्तः, यथार्थं दुःखं तमपि स्पृशति।
ब्रह्मपुराणे समभावपरमुपाख्यानं वर्तते। अत्र यमो ग्रहीतुः पक्षे। स महादेवस्य भक्तमानेतुं गतः किन्तु स आनेतुं न शशाक। महादेवः तस्य भक्तं न केवलं रक्षितवान् अपि तु यमोपद्रवस्य समाप्तिं साधयितुं यमं जघान। अवशेषे देवानामनुरोधेन महादेवेन यमः जीवितोऽभवत्। किन्तु यमः महादेवस्य भक्तान् मृत्युभयं न दर्शयिष्यति इति कृत्वा स्वीकृतिं गृहीतवान्। एषा स्वीकृतिः न युक्तियुक्ता, तथापि शिवो वक्तुमिच्छति यत् स येन केन प्रकारेण तस्य प्रकृतं भक्तं रक्षिष्यति। इदं प्रमाणं करोति यत् भगवान् तदीयभक्तानां दोषं द्रष्टुं सर्वदान्धस्तिष्ठति।
विष्णुपुराणे च भागवतपुराणे च भगवतः कृष्णस्य विविधानि कार्याणि विस्तरेण वर्ण्यन्ते। साधारणानां जनानां मध्ये स बहूनि महत्त्वपूर्णानि कार्याण्यकरोत्। तेन कालीयनागदमनं कृतम्। तस्मात् नन्दभूमेर्जना विषाद्रक्षां प्राप्तवन्तः। किन्तु तत्रापि स करुणां दर्शयति स्म। कालीयस्य स्त्रियः कृष्णात् दयां प्रार्थयन्ते। ट यथा निरापदं समुद्रं गन्तुं शक्नुवन्ति कृष्णः तादृशीं व्यवस्था चकार।
क्षमायास्तथा दयाया ईदृशी प्रवणता देवेषु अतीव साधारणी। यो विसमः शत्रुः त्राणं प्रार्थयते अथवा अनुशोचनया नतो भवति, स तत्क्षणात् क्षम्यते। अस्मिन् प्रसंगे महादेवभ्य चान्धकारसुरस्य च मध्ये संग्रामस्य आख्यानमवश्यमेवोल्लेखनीयम्। अयमसुरो न केवलं दुवृत्तः अपि तु पार्वती प्रति आसक्तिपुर्णां दृष्टिं ददौ। पार्वती केनापि प्रकारेण तस्य दुष्टहस्तग्राहात् रक्षां प्राप्नोति। किन्ति अन्धकेन सह शिवस्य दारुणं युद्धमभवत्। अवशेषे अवश्यम्भाविनं पराजयं दृष्ट्वा अन्धकः शिवात् त्राणमैच्छत्। शिवः तत्क्षणात् तं क्षमते स्म। किन्तु शिवस्स्य शूलेन विद्धः सन्नन्धक सर्वपापेभ्यो मुक्तोऽभवत्। एवं पवित्रीकृत आत्मा सन् स परमं सुखं प्राप्तवान्।
शिवः सर्वदा दयार्द्रचित्तो देव इत्यस्माकं धारणा। सोऽतीवानायासेनैव शान्तो भवति। तथा च भक्ताय तदाकाङ्क्षितं सर्वं ददाति। बहुशः तथाकरणेन जटिलता सृज्यते। भस्मासुरस्य क्षेत्रमत्र गृह्यते। स शिवात् वरं प्राप्तवान् अजेयश्चाभवत्। अवशेषे भगवतः विष्णोः कौशलेन देवा दुर्दशाया मुक्ता अभवन्। भगीरथेऽपि सदृशी करुणानुभूयते। शिवः क्रोधवशात् तस्य जटासु गङ्गामाबद्धां कृतवान्। भगीरथस्तस्या मुक्तये बहुधा चेष्टते स्म, किन्तु व्यर्थो बभूव। शिवः तस्योपरि दयां प्रदर्श्य गङ्गां मुक्तां चकार। भगीरथोऽपि एकमुपदेशं प्राप्तवान्।
ब्रह्मपुराणस्य १६९ तमेऽध्याये अन्यदुज्ज्वलमाख्यानमस्ति यत्र भक्ताय महादेवस्य त्राणस्य प्रवृत्तिः वर्ण्यते। निम्नवंशीयो व्याधो भिल्लः अतीव रीतिरहितेनोपायेन महादेवं पूजयति। महादेवस्य यं विग्रहं स पूजयति स विग्रहः वेदाभिधानस्य विप्रस्य। वेदस्यानुपस्थितौ भिल्लस्तत्रागत्यापक्वैः मांसैश्च अन्यैर्वस्तुभिश्च प्रियं देवं महादेवम् अर्चयति। किन्तु महादेवस्तस्य निष्ठया तृप्तोऽभवत्। एकदा लुक्कायितः सन् वेदः भिल्लं तथा कुर्वन्तमपश्यत्। यत्तेन दृष्टं तदविश्वास्यम्। स्वभावत एव शिमसमीपे तथाकरणस्य व्याख्यानमैच्छत्। महादेवस्तदीयपक्षसमर्थनाय भिल्लस्य निष्ठायास्तथा भक्तेर्दृष्टान्तं दर्शयामास।
अतीव चित्ताकर्षकमुपाख्यानमस्ति गरुडपुरानस्य अष्टमे उत्तरखण्डे। इदं दर्शयति यत् पृष्ठपोषकस्य देवस्य त्राणात्मिका प्रकृतिः कियत्पर्यन्तं गन्तुमर्हति। इदं वर्णयति यत् कति प्रेता अतीव गृणार्हं पापं चक्रुः। दैवादेको धार्मिमो ब्राह्मणस्तेषां संसर्गमाजगाम। प्रेतास्तं खादितुमैच्चन्। किन्तु विष्णुभक्तोऽसौ विप्रः प्रियस्य देवस्य नाम कर्तुमारेभे। इदं प्रकृत्या समवेतमुक्तयेऽभवत्। न केवलं विप्रायापि तु प्रेतेभ्यः। यतः सर्वे ते भगवन्तं प्रत्यक्षीकर्तुं शेकुः। इदं प्रमाणीकरोति यत् सत्संसर्गः सर्वेषामुपकाराय भवति। अयं संसर्गः पापिष्ठायपि सौभाग्यं ददाति।
आत्मविषयालोचनायामस्योल्लेखो नाप्रासंगिको भवति यत् पुराणेषु अतृप्तेभ्य आत्मभ्यः दया अतीव साधारणो व्यापारः। तेषां अरकान्मुक्तये दुःखान् मुक्तये, निम्नदशाया मुक्तये बहव उपायाः सन्ति। अन्यतम उपाय उच्यते - उच्चस्थानविशेषे प्रदीपाः स्थाप्यन्ते यथा भ्रमणरतां प्रेतात्मानः तान् अनायासेन द्रष्टुं शक्नुवन्ति।
दया
दया हि अपरो महानावेगः येन दातुः गौरवं वर्धते। अयं महानावेगः पुराणेषु सर्वत्र प्रतिफलितो भवति। देवा भक्तेभ्यः वरं ददाति, दुःखान् भक्तान् रक्षन्ति, वञ्चनामयव्यापारात् त्रायन्ते। सर्वमिदं प्रमाणीकरोति यत् दयास्रोतस्विनी सर्वदा वहति। काले काले दानमयोग्याय दीयतेऽथवा वरस्यापप्रयोगो भवति। तथापि तन्न परिगणनां याति। देवानामिव साधूनामपि सदृशः स्वभाव आसीत्। तेषामपि महती शक्तिः आसीत्। ते प्रायेण मानवजातेरुपकाराय तच्छक्तिं व्यवहरन्ति। मोक्ष एव तेषां परमः पुरुषार्थः किन्तु ते जनहिताय कार्यं कुर्वन्ति। किन्तु प्रत्याशां न कुर्वन्ति। तेऽयाचिताः सन्त एव उपकुर्वन्ति। इदं प्रमाणीकरोति यत् तपस्यया तेषामात्मानः पवित्रीभवन्ति। तेन ते स्वार्थपरतायाः सीमानमतिक्रान्तुमर्हन्ति। स्वार्थशून्यता अथवा कस्यचिदात्मनः समग्रे विश्वे प्रक्षेपः तपस्याया मुख्यो विषयः, स एव तस्य मार्गस्य शेषमुपगच्छति सोऽपरेषां सुखं तथा दुःखम् आत्मन एवेति अनुभवति। एवं वृत्तान्तमवलम्ब्य पुराणेषु वह्य्वः कथास्तिष्ठन्ति। अत्र कति कथाः प्रासंगिकतया उपन्यस्यन्ते।
क्षुधातीर्थस्य प्रशंसायाः काले ब्रह्मपुराणे (३५ तमोऽध्यायः) उच्यते यत् एकदा मुनिः कण्वः गङ्गायाश्च क्षुधायाश्च सन्तोषं विदधाति स्म। द्वे एवाविर्भूतेऽभवताम्। द्वे एव तस्मै मुनये वरं दातुमैच्छताम्। स आत्मनः कृते न किमपि कामयते स्म। किन्तु स्वीयसन्तानाय वरं प्रार्थयते यत् तदीयजात्यन्तर्गता सर्वे जनाः क्षुधार्त्ता न भवेयुरिति। अत्रापि तस्य विश्रामो नासीत्। स आत्मनः सौभाग्यं समग्राय जगते उन्मीलितं चकार। स प्रार्थयते - यदि कोऽपि क्षुधामर्चयति सोऽवश्यमेव क्षुधाया मुक्तो भवेदिति।
शुनःशेफस्याख्यानं एकं प्राचिनमाख्यानम्। ब्रह्मपुराणस्य १०४ तमेऽध्याये तदाख्यानमस्ति। अत्रोच्यते यत् हरिश्चन्द्रो वरुणस्य वरेण तस्य पुत्रं प्राप्तवान्। स वरुणसमीपे संकल्पं कृतवान् यत् स नवजातेन पुत्रेण सह यञं सम्पादयिष्यति। किन्तु समये तस्मिन्नागते स पुनः पुनः कालं हर्तुमारेभे। अवशेषेः देवः क्रुद्धः सन् राज्ञे हिताय चरआभिसन्धि ज्ञापयामास। राजा तदा कैतवमाश्रित्यावदत् किं कर्तव्यमिति तेन न ज्ञायते। यदा कश्चित् तमुपदिदेश यत् कस्यचिज्जनस्य पुत्रं क्रीत्वा स्वीयपुत्रस्य विनिमयेन तेन पुत्रेण यज्ञं कुर्यात्, तदा शुनःशेफं क्रीतवान्, यस्य पितुः धनेनात्यन्तिकं प्रयोजनमासीत्, अपि च तस्य अपरौ द्वौ पुत्रौ आस्ताम्। किन्तु वस्तुतः शुनःशेफो यज्ञे उत्सर्गीकृतो नाभवत्। इदं सूचयति यत् निष्ठुरयज्ञव्यवस्था धृणार्हाचारेण यथेष्टं प्रत्याख्याताऽभवत्। तदा नरोत्सर्गं विना यज्ञानुष्ठानमनुमतमभवत्। अयं व्यापारः न सुकरः। प्रतिष्ठितनियमव्यतिक्रमस्यार्थोऽतीव महान्। केवलं गभीरा करुणा दरिद्राय निर्द्षाय च बालकायानुभूयते। यो न कस्यापि, एतया करुणया देवः तस्य रक्षायै अनुप्रेरितोऽभवत्। इदमाख्यानमतीव करुणरसात्मकम्। यतः, तस्य पिता पारलौकिकविपदः रक्षार्थं ज्येष्ठपुत्रमैच्छत्। तस्य माता प्रियतमत्वात् कनिष्ठपुत्रं न त्यजति स्म। अस्मिन् समये यं राजा रक्षेत् तमेव कामयते स्म। अत एव बालकस्यास्याश्रयत्वेन न कोऽपि आसीत्। तदा स देवाय स्र्वं समर्पितवान्। यदा करुणा तं रक्षति स्म।
ब्रह्मपुराणस्य १२५ तमेऽध्याये एकं चित्ताकर्षकमाख्यानमस्ति। अत्र दृश्यते यत् न केवलं देवानां साधूनामुन्नतजन्मनां नराणां वा करुणात्मकं चरित्रमस्ति, निम्नकुलीयानां जीवानामपि अतीव चित्तौदार्यं तिष्ठति। अत्र विहगविषयकमेकमाख्यानमस्ति। तत्र विहगचरित्रस्य असममहानुभवत्वं प्रकाशितम्। यमतीर्थस्य प्रशंसार्थमस्यावतारणा। तत्र एकः पेचक एकश्च कपोतः सन्तानादिभिः श प्रतिवसतः स्म। तयोः सम्पर्कः शत्रुभावापन्न आसीत्। तस्मादवशेषे एकं युद्धमभवत्। द्वयोः विहगयोः द्वे भार्ये युद्धं नैच्छताम्। ते अग्निं च यमं च आह्वयतः स्म, यतः तौ देवौ परिवारयुगलस्य अधिष्ठातारौ देवौ। फलतः उभौ देवौ आविर्भूतौ अभवताम्। किन्तु परिवारद्वयस्य विहगाः शत्रुत्वावसानमन्तरेणा न किमपि वस्तु कामयन्ते स्म। ते केवलं साधारणं मङ्गलमैच्छन्।
महाकाव्येषु पुराणेषु च वशिष्ठः विश्वामित्रश्चेति मुनिद्वयमतीव विख्यातम्। तद्द्वयमधिकृत्य बहुनि रसमयानि उपाख्यानानि सन्ति। मुनिः विश्वामित्र जन्मना क्षत्रियः किन्तु तपस्यया ब्राम्हणोऽभवत्। इदं तस्य एकनिष्ठं शक्तिमयं च चरित्र प्रमाणीकरोति। किन्तु वशिष्ठः अतीवामायिक ऋषिरासीत्। द्वौ मुनी जगतः उपकाराय प्रभूतं चक्रतुः। इदं तयोः महत्त्वं सूचयति।
वामनपुराणम् (एकविंशोऽध्यायः) चन्द्रवंशीयनृपतेः संवरणस्य उपाख्यानं वर्णयति। स राजा वशिष्ठस्य शिष्य आसीत्। एकदा राज्ञा दैवात् सूर्यकन्या तपती दृष्टा। तत्क्षणात् राजा तस्यामनुरक्तोऽभवत्। स कन्यायाः परिचयं न विज्ञायैव दुर्दशाग्रस्तो बभूव। वशिष्ठः तस्य अवस्थां समुपलभ्याग्रणीः सन् सौरदेशं गुणं प्रश्यति। किन्तु अत्र शिष्यस्य दोषं ज्ञात्वापि गुरुः तथा चेष्टते यथा शिष्य ईप्सितं वस्तु प्राप्नोति।
पुराकाले वशिष्ठविश्वामित्रयोर्विरोधोऽतीव प्रचलित आसीत्। वामनपुराणस्य चत्वारिंशत्तमे अध्याये तदाख्यानमस्ति। एकदा सरस्वती नदी विपद्ग्रस्ता भभूव। विश्वामित्रः विशिष्ठं हन्तुं संकल्पं चकार। स सरस्वतीमादिदेश - वशिष्ठमानयेति। अन्यथा स तस्या दुःखस्य हेतुः भविष्यति। अनन्योपाया सरस्वती वशिष्ठसमीपं गत्वा सर्वं निवेदयति स्म। तस्या उपरि वशिष्ठस्य दयाऽभवत्। स सरस्वत्यै अनुमतिं ददौ विश्वामित्रसमीपं मां नयेति। तदा सरस्वती वशिष्ठं विश्वामित्रस्य आश्रममानिनाय। किन्तु स मुनिः तं हन्तुमुपयुक्तस्यास्त्रस्य सन्धानं कर्तुमारेभे। स्रस्वती वशिष्ठं निष्ठुरस्य मुनेः हस्तग्रहात् मुक्तये अन्यत्र नयति स्म। अस्मात् कारणात् एकोऽभिशापः अवश्यम्भावी आसीत्। बहुकालं व्याप्य उद्वेगात् परं सरस्वती अस्या दश्यायाः मुक्ता अभवत्। मुनेः वशिष्टस्य पक्षे विश्वामित्रस्य दुष्टेच्छापरिपूरणेन किमपि प्रयोजनं नासीत्। स सर्वदा विश्वामित्रस्य समकक्ष आसीत्, यद्यपि स युद्धाय अनुपयुक्तः। किन्तु स सरस्वत्या उपरि दयां चकार। तस्यै हिताय स यज्ञं कर्तुमुद्यतः बभूव। अन्यतश्च सरस्वती वशिष्ठं रक्षितुं मुनिकोपमुपेक्ष्य यथाशक्ति चेष्टसे स्म।
अस्मिन् प्रसंगे कुरुनृपतेर्महत्त्वमपि उल्लेखार्हम्। वयं वामनपुराणस्य द्वाविंशाध्याये इदमाख्यानं पश्यामः। एकदा कुरुराजः किञ्चित् कर्त्तुमैच्छत् येन सः अक्षययशसोऽधिकारी भविष्यति। अतः स शैवषण्डस्य यममहिषस्य च साहाय्येन स्वर्णमयेन हलेन भूमिकर्षणं कर्तुमारेभे। कौतुहली सन् इन्द्रः सन्देशं ज्ञातुं तत्र गतः। राजा इन्द्रमुवाच यत् स धर्मसत्यदानक्षमापवित्रतादीनां बीजानि वप्तुमिच्छति। पृष्टः सन् सोऽवदत् यत् तस्य देहे तानि बीजानि सन्ति। विष्णुस्तं परीक्षितुं तत्र गत्वा बीजानि अयाचत। राजा प्रथमे दक्षिणहस्तं प्रसारितमकरोत्। किन्तु स हस्तः चक्रेण खण्डीकृतः। तथैव अपरो हस्तः, उरुः शिरश्च। ततः भगवान् सन्तुष्टः सन् आशीर्वादं ददौ। नृपतिः निजाय न किमपि याचते स्म, न मुक्तिमपि। स केवलमिच्छति - अदः स्थानं पवित्रं भवतु, यो जनः तत्र यज्ञं करिष्यति स मोक्षं प्रानोतु इति। इदमतुलनीयस्य महत्त्वस्योदाहरणम्। इदं प्रमाणीकरोति यत् मनुष्यचरित्रं समुन्नतं भवितुमर्हति यत्र स्वार्थपरता साम्पूर्ण्येन तिरोहिता भवति। मानवानां मङ्गलाय आत्मन एष उत्कर्षः सत्यमेव उल्लेखार्हः।
ईदृशानि बहूनि उपाख्यानानि सन्ति यत्र हेतुशून्या दया वर्ण्यते। विष्णुपुराणस्यैका कथा (४. ३) कथयति यत् ऋषिः और्वः बाहुराजस्य यः पुत्रोऽजात आसीत् तस्य जीवनं रक्षति स्म। यदा राज्ञी गर्भवरी आसीत् तदा काचीत् सपत्नी ईर्ष्यापरायणा सती विषं ददौ। तेन पुत्रस्य जन्म अनिर्दिष्टकालं स्थगितमासीत्। एवं सप्तसु वर्षेषु अतिक्रान्तेषु यदा नृपतिः मृत्युलोकं गतः राज्ञी च आत्महननाय उद्यताऽभवत्, तदा मुनिः और्वः अजातस्य पुत्रस्य कृते दुःखमनुभभूव, यः पुत्रः मानवानां मङ्गलाय सौग्भाग्यमानेतुं शक्ष्यति। अत एव मुनिः अग्रणीः सन् आत्म हननात् राज्ञी निवारयति स्म। तस्याशीर्वादेन पुत्रस्य जन्माभवत्। स पुत्रः मुनेः यत्नेन पालितोऽभवत्। अत्र मुनिना यत् कृतम्, तत्र वस्तुगतो हेतुर्नास्ति, किन्तु केवलं विशुद्धा करुणा। ईदृशी महत्ता ब्रह्मपुराणस्य १६४ तमेऽध्यायेऽपि दृश्यते। तत्रोच्यते यत् पवमानः कञ्चिद् द्विमुखं विहगं तन्मोक्षाय गदाधरतीर्थस्य पवित्र स्थानमानिनाय। तत्र कापि आशा नासीत्, नासीत् किमपि बन्धनम्। स केवलं हितायैव हितं साधयति स्म।
वायुपुराणे (९० तमोऽध्यायः) एकं भिन्नरुचि अथ च समभावमाख्यानमस्ति। अन्येषु पुराणेषु अपि इदमस्ति। इदं परशुरामस्य पितरं जमदग्निमधिकृत्य। ऋचीकमुनिः तदीयपत्नीसत्यवतीतः पुत्रमेकं प्राप्तुमैच्छत्। तस्मिन् काले तस्य श्वश्रू अपि अपरं पुत्रं प्राप्तुमैच्छत्। ततः मुनिः चरुं कृत्वा पृथक् पृथक् अंशं सत्यवत्यै तथा श्वश्रूमात्रे ददौ। दुर्भाग्यात् सत्यवती श्वश्रूभागमखादत् श्वश्रूश्च सत्यवत्याः तत् विज्ञाय मुनिः सत्यवतीं ज्ञापयति यत् सा एतादृशं दुर्वृत्तं पुत्रं प्राप्स्यति यो मातरमपि हन्तुमर्हति। तत् श्रुत्वा सत्यवती अतीव दुःखिता जाता। सा स्वामिनं तथा न शासनाय अनुरुरोध। अतभाग्यायां बालिकायां दयया अभिशापस्य परिमार्जनं कृतवान्। न पुत्रोऽपि तु पौत्र ईदृशो भविष्यति इति। पत्न्याः महायशून्यां दुर्दशां विलोक्य मुनिः व्यथितः सन् स्वशक्तिमन्यत्र प्रयुयोज। तथा च परशुराजस्य जन्म विलम्बितमभवत्।
कर्तव्यपरायणता
करुणाया उपरि कर्तव्यबोधस्य प्रभावोऽस्ति। अयं हि सोऽनुभवो यत्र नरः तस्य कर्त्तव्यं निष्ठया साधयति, येन नापरः कश्चित् दुःखभाक् भवेत्। एषोऽनुभवः करुणायाः समगोत्रीयां व्रजति। इदं निर्दिशति प्रकृतिगतमौदार्य्यं महत्त्वं महानुभवत्वं वा। अनेकान्याख्यानानि पुराणेषु सन्ति यानि प्रमाणीकुर्वन्ति यत् एवंविध आवेगः पौराणिके कालेऽपि उच्चस्थानमलंचकार। अयं खलु प्रकृतस्य मानवस्य अतिगुरुत्वपूर्णगुणत्वेन विवेचितः। अत्रापि शुद्धमूल्यबोधः प्रतिफलितो भवति यो बोधः सर्वथा सर्वदा प्रशंसितः, प्रसिद्धेषु आख्यानेषु भगीरथकर्तृकगङ्गानयनमन्यतममाख्यानम्। अत्र दर्शनयोग्यानि बहुनि मुखानि वर्तन्ते। तत्रान्यतमः खलु भगीरथस्य कर्तव्यता। तया उद्बुद्धः सन् अभिशप्तानां पूर्वपुरुषानां मुक्तये कठोरां तपस्यां चकार। स यथार्थतः गङ्गानयनाय स्वर्गं तथा मर्त्तं विचलितमकरोत्। तेन सर्वधानि दुःखानि कष्टानि च अनुभूतानि। कदापि विमूढः कदापि वा निराशः स जातः। तथापि परिणामे स जयी बभूव। अत्र सुतीव्रोऽभिनिवेशो दृश्यते मनोबलमपि येन स सार्थकतया भूषितः।
ब्रह्मपुराणस्य अशीतितमेऽध्याये एकं चित्ताकर्षकमाख्यानमस्ति। अत्र कपितमिथुनस्य कथा विवृता। एकदा कपोती केनचिन्निष्ठुरेण व्याध्येन धृता अभवत्। स व्याधः समग्रां रजनीं व्याप्य तस्मिन् तरौ आसीत् यत्र विहगाः कुलायं निर्माय वसन्ति। नक्तं सहचरीं कपोतीं न प्राप्य करुणं रोदितुमारेभे। तत् श्रुत्वा कपोती आत्मनोऽस्तित्वं तं ज्ञापयति स्म। तदा कपोतः तस्या मुक्तये कृतोद्यमो बभूव। तया स सुयोगः प्रत्याख्यातः। अपि स, सा व्याधस्य कर्म समर्थयाञ्चक्रे। यतः मृगया व्याधस्य कर्तव्या। तदर्थं स दोषी इति न परिगण्यते। पुनश्च सा कपोतम् आह व्याधोऽयमतिथित्वेन पूजयितव्यः। तस्मै यथासम्भवं सुखं विधातव्यमिति। चरमे पर्याये कपोतः व्याधस्य भोजनाय आत्मानुतिं ददौ। समग्रं व्यापारं विलोक्य व्याधः निर्वाक् तथा विमूढः जातः। ततः व्याधः स्वीयं चरित्रं धिगिति मन्यमानः अनुशोचितुमारेभे। तथा न नूतनं जीवनं समारब्धुमियेष। ईदृशो गुणोऽवश्यमेव प्रशंसार्हः। यतः, तस्मिन् वयसि अपि तादृशो व्यवहारः न स्वाभाविकः।
विख्यातशुनःशेफाख्यानेऽपि (ब्रह्मपुराणम्-१५० तमोऽध्याहः) परिणामे प्रकृतः पुत्रः शुनःशेफः मनसा पितरं न तत्याज। तस्य पिता दुष्कर्मफलेन नरकं जगाम। किन्तु पुत्रः तदवगत्य पित्रे दुःखमनुभूय धर्मीयं व्रतं जग्राह येन तस्य पिता स्वर्गं गन्तुं शक्नोति। एतदपेक्षया अपि कोऽपि महत्तरो दृष्टान्तः कर्तव्यबोधस्य सामान्यकरुणाबोधस्य चास्ति किम् ?
स्नेहः
अस्माभिः पूर्वमालोचितं यत् करुणाशब्दः वह्वर्थद्योतकः। तथा हि - दया, सख्यम्, समानुभूतिः, स्नेहः, उदारताः, क्षमा, प्रेम, सर्वपि च। कुत्र दयायाः शेषः, कुत्र वा समानुभूतेः सूचना, स्नेहस्य प्रेम्णश्च मध्ये पार्थवयं कीदृशम् ? एवंविधं निर्धारणं न सम्भवति। अत एव ईदृशस्य वर्गीकरणस्य अर्थो नास्ति। केवलमनुभवभेदप्रदर्शनार्थं वर्गीकरणमिदं क्रियते। त्रिपार्श्वकाचे सूर्यरश्मिः सप्तधा प्रतिविम्बितो यथा भवति तथैव करुणाशब्दस्य विश्लेषणं बहुधा भवति। अत एव प्रागुक्तं वर्गीकरणं न प्रकृतमपितु आलोचनासुकरत्वात् क्रियते। भवतु, स्नेहविषयकानि कति आख्यानानानि अथः वर्ण्यन्ते।
सौभरिमुनेः कथा अपक्षपातश्च स्नेहश्चेति आवेगद्वयं वर्णयति। स मुनिः कस्यचित् मत्स्यस्य तृप्तं जीवनं विलोक्य गार्हस्थ्यजीवनमुपलब्धुमियेष। ततः स मान्धातुः राज्ञः समीपमागत्य तस्य पञ्चाशत्कन्यकासु अन्यतमया सह विवाहं कर्तुमिच्छां प्रकाशयति स्म। किन्तु राजा तादृशाय वृद्धाय जनाय कन्यां प्रदातुं नैच्छत्। तथापि मुनिकोपात् भीतोऽभवत्, यतः स कोपः तस्मै तथा तस्य परिवाराय हानिं निर्दिशति। उभयसंकटनिवारणाय मुनिः एषिष्यति सा कन्या मुनिना अभ्यर्थिता भविष्यति। अत्र मुनिः मानवचरित्रस्य गभीरामन्तर्दृष्टिं दर्शयति स्म। स आत्मानमतीव युवानं तथा सुन्दरं चकार यं विलोक्य सर्वाः कन्याः तं मुनि पतित्वेन प्राप्तुं सकामाः बभूवुः। परिणयात् परं मुनिरसौ अपूर्वपक्षपातशून्यतया ताः सर्वाः द्रष्टुमारेभे। तथा च मुनिः ता अतीव सुखीनिः अकरोत्। यदा तासां पिता ज्ञातुमैच्छत् तदा सर्वाः कन्या अवदन् यत् तासां पतिः ताभिः सह कर्वदा कालं यापयति। समग्रे साहित्ये ईदृशस्य समव्यवहारस्य तुलना नास्ति।
ब्रह्मपुराणस्य ८२ तमेऽध्याये मातृस्नेहविषयिको कथास्ति। अत्र वस्तुगतः परिवेशः विद्यते। तारकासुरस्य वधात् परं कार्त्तिकेयः सुराङ्गनाभिः सह अनन्दमनुभवन् कालं यापयति स्म। तत् श्रुत्वा पार्वती वस्तुतः विचलिता अभवत्। पुत्रस्य प्राप्तवयस्कत्वात् जनन्याः करौ बद्धौ आस्ताम्। सा पुत्रं तिरस्कृतुं मारयितुं वा न शक्नोति। किन्तु निन्दनीयं तादृशं कर्म सर्वथा निवारणीयम्। ततः पार्वतीं स्वीयव्यक्तित्वं द्विधा विभाज्य एकमंशं सुराङ्गासु स्थापयति स्म। ततः परं कार्त्तिकेयो यदा ययाचिद्देवाङ्गनया सह क्रीडितुं गतः, तदा सः तस्मामङ्गनायां मातुः छायां दृष्ट्वा क्रीडितुं न शशांकि। एका माता न कदापि दुष्टकर्मरते पुत्रे स्निग्यति, अपि तु तं निन्दति। सा सर्वदा गौरवान्वितं पुत्रं द्रष्टुमिच्छति। गौरवात् पुत्रस्य पतनमिदं मातरं पार्वती सुतरां व्यथितां करोति। ततः सा विचक्षणतया च सफलव्यापारतया च स्वीयकार्यसिद्धि चकार।
एतादृशी शिक्षाप्रणाली गुरोश्च शिष्यस्य च मध्ये, अथवा भगवतश्च भक्तस्य च मध्ये न दुर्लभा। ब्रह्मपुराणे (९० तमोऽध्यायः) समतात्पर्यमुपाख्यानमस्ति। तदुमाख्यानं भगवन्तं विष्णुं च तदीयं भक्तं गरुडं चाधिकृत्य वर्तते। करुड एकदा अतीव उद्धतः अभवत्। स आदिष्टः सन्नपि एकं सर्पं न मुमोच। तदा विष्णुः तदीयपदनमनेन गरुडाय शिक्षां ददौ। ईदृशानि कर्माणि न संशोधनाय अपि तु कस्यचित् आत्मान उन्नतये एव। यथा आचरणस्यादर्शोऽवनमितो न भवति, इत्यत्राशयो वर्तते।
सहानुभवः
सहानुभवोऽपि एकः अतीव महानावेगः। अयं हृदयं द्रवीकरोति, हृदयं प्रसारितं करोति च। अयं प्राणानां पृथक् परिचयं वहति, अपि च पृक्प्राणस्य जनस्य दुःखानि कस्यापि निजदुःखानीव प्रतिभान्ति। एकेन उपायेनायं विभिन्नजनेषु स्थितं वाह्यिकं प्रतिबन्धकं दूरीकरोति।
समग्रे पौराणिके साहित्ये सहानुभवसम्बन्धिनो बहवो दृष्टान्ताः सन्ति। महत्त्वस्य सम्पूर्णा धारणा कतिपयेषु विषयेषु वर्तते। अन्यतमो विषयः खलु अपरेभ्यः जनेभ्यः अनुभूतः सहानुभवः।
ब्रह्मपुराणस्य ३५ तमेऽध्याये एका असाधारणी कथा वर्तते। सा परित्वेन महादेवस्य प्राप्तये उमायाः तपस्यामधिकृत्य जनप्रिया कथा। तपसः समाप्तेः परं सा ईप्सितं वस्तु प्राप्तवती। महादेवः स्वयम् तस्यै वरं दातुमागतः। किन्तु प्रस्थानसमये स उमाया योग्यतां परीक्षितुमियेष, यत उमा विश्वजनन्याः पदम् अधिकर्तुं गच्छति। शिवः बालकस्य छद्यवेषं दधार। स बालको यदा ह्रदे स्नाति स्म तदा स केनचित् कुम्भीरेण आक्रान्तो भवति। उमा तस्यार्तनादं श्रुत्वा तमुद्धर्तुं धाविताऽभवत्। सा बालकस्य मुक्तये कुम्भीरं प्रार्थयते स्म। किन्तु कुम्भीरः उमाकृततपःफलस्य विनिमयेन बालकं मुक्तुं शक्नोति। अस्याशयः पतित्वेन महादेवस्य प्राप्तये उमाकर्तृकयोग्यतापरित्यागः। अयमतीव कठोरः सिद्धान्तः तथापि उमा बालकस्य मुक्तये स्वीयतपःफलं दातुं संकल्पं कृतवती। तथाकरणेन सा प्रमाणीकरोति न केवलं महादेवे तस्या आनुगत्यं अपि तु सर्वकालीयेषु सर्वेषु जनेषु। मातुः यया योग्यतया प्रयोजनं सा योग्यता पार्वत्त्या अस्ति। सा सर्वेषामुपरि अन्येषां दुःखं स्थापयितुमलम्। तदा तस्याः स्वीयं सुख कदापि न विवेचनात्वं व्रजति। अयमेव मातुरादर्शः। तादृश्या मातुः सहानुभावः स्नेहः त्राणात्मिका प्रकृतिः च काले काले परिक्ष्यन्ते। बहुना मूल्येन यत् सुखं तयार्जितं सम्पूर्णाज्ञातबालकायापि सा तत् सुखं तत्याज।
उक्तपुराणस्य चतुःसप्ततितमेऽध्याये गङ्गावतरणवृत्तान्ते किञ्चित् व्यावर्तितं रुपमस्ति। अत्र महाघटनायाः मुखकर्तृत्वेन भगीरथो न वर्णितः। किन्तु गौतमो मुनिः अवगन्तुं शशाक यत् पार्वती सपत्न्या गङ्गायाः कृते मानसिकीं यन्त्रणामनुभवति, वस्तुतः सा एव महादेवस्य प्रियतमा पत्नी तदर्थं सा तीव्रमीर्ष्यापरायणा जाता। पार्वत्या या मानसिकी यन्त्राणा तस्याः कष्टं लघयितुं गौतमोऽग्रणीः बभूव, गङ्गा महादेवस्य पार्वत्याश्च घनिष्ठसम्पर्कात् विच्युता भवति। ततः तेन गङ्गाया मर्त्ते अवतरणाय प्रयत्नः कृतः।
विष्णुपुराणमेकमसामान्यमाख्यानं कथयति। अत्र प्राणिनां कृते सुतीव्रा सहानुभूतिर्वर्ण्यते। एकदा धार्मिको नृपतिः भरतः शावकप्रसवसमये मृत्युगतां हरिणीं ददर्श। तदा राजा मातृहीनाय शावकाय तीव्रं सहानुभवमनुभूय तं शावकं पालयामास। ततः तस्मिन् मृगे अतीव स्नेहात् तपस्यायै तस्य कोऽपि मनोयोगो नासीत्। मृत्युकालेऽपि तस्य मनसि केवलं हरिणगता चिन्ता आसीत्। अस्मात् कारणात् परजन्मनि मृगरूपेण तस्य जन्म अभवत्। परिणामे स विख्यातो जडो भरतः संवृत्तः। अस्याख्यानस्य प्रकृतवस्तुबिन्दुः हि नृपतिः सहानुभवस्य कारणात् तदीयममूल्यं धर्मं परित्यक्तुमपि इतस्ततः न चकार इति।
क्षमा
क्षमा सहनशीलता च धर्मस्यात्मत्वेन प्रतिष्ठिते। परमतसहिष्णुतायां तथा परधृष्ठताग्रहणक्षमतायां कस्यचिद्धर्मस्योदारता वर्तते। अयं न कदापि स्वमतं बलादर्पयति। मुख्येषु गणेषु संगतिस्थापनस्य च ग्रहणस्य च नीतिः प्रधानतमाभवेत्। निःसंशयं वयं वक्तुं शक्नुमो यत् क्षमा हि हिन्दुधर्मस्य केन्द्रीया विशिष्ठता। सपरिणामा अभिशापाः कार्यतः प्रमाणीकुर्वन्ति यत् दौर्बल्यादयो दोषाः सर्वदा तुछाः, किन्तु तेषां जयोऽवहेलने ग्रहणे च धर्मस्य महत्तमं रूपं निहितं वर्तते। कश्चिदभिशापः दण्डविशेष इति। नियमानुवर्त्तितायै दण्डेन प्रयोजनमस्ति। किन्तु त्त्रानुशोचना, संशोधनस्य इच्छा, आत्मोत्कर्षस्य चेष्टा च अतीव गुरुत्वं वहन्ति। इदं सामान्येन स्वीक्रियते, वयञ्च पुनः पुनः पश्यामः यत् अभिशप्ता विस्मरति, क्षमते, पापलाघवाय अग्रणीः भवति। इदं कदापि समग्रं फलं न नश्यति। यतः नियमानुवर्त्तितया किमपि कर्म व्यर्थं न भवति, किन्तु आघातं ह्रसयितुं कोऽपि उपायः सर्वदा लक्ष्यते। यस्मिन्नाख्यानेऽभिशापोऽस्ति प्रत्येकं तदाख्यानं ईदृशभावस्य उदाहरणं भवितुमर्हति। कति आख्यानानि विषयबिन्दूनां समर्थनाय उपन्यस्यन्ते।
आदावेव प्रसिद्धाहल्याख्यानं कथ्यते। प्रायेण सर्वेषु पुराणेषु इदमाख्यानमस्ति यत्र लज्जाकर्यां परिस्थितौ इन्द्रस्य चरित्रमङ्कितम्। ब्रह्मपुराणं (८७ तमोऽध्यायः) प्रकृतं कथायोगमल्पशः परित्यज कथयति यत् अभिशापाधानात् परमुपलेभे यत् तस्य पक्षे जगतः सम्मुखीभवनं न सम्भवति। ततः स शरीरस्थापराधमूलकलक्षणानां परिवर्तनाय सनिर्बन्धमनुरुरोध। गौतमस्तत् क्षणाद् देवराजकृतमहापापं विस्मृत्य अभिशापह्रासाय उपायमुपदिदेश।
ब्रह्मपुराणस्य ९२ तमेऽध्याये एकमतीवासाधारणमुपाख्यानमस्ति। तद्यथा पाठकस्य चित्तं दूरमपसारयति तथा तच्चित्तं द्रवीकरोति। इदं महीति नारीमधिकृत्य लिखितम्। तरुणे वयसि सा विधवाभवत्। गृहेऽस्थिरतया सा स्वीयपुत्रं गालवस्य मुनेः प्रयत्ने स्थापयित्वा पृथिवीं द्रष्टुं वहिर्गता। स्वभावतः सा कालक्रमेण गणिका संवृत्ता। कतिषु वर्षेषु गच्छत्सु असौ पुत्रः प्राप्तवयस्कः सन् पृथिवीं द्रष्टुं वहिर्गतः। दैवचक्रेण मातुश्च पुत्रस्य च परस्परसम्मिलनं जातम्। किन्तु माता पुत्रं न जानाति, पुत्रश्च मातरम्। मही तस्याः पुत्रस्य उपपत्नी सञ्जाता। ततः कालेषु गच्छत्सु, पुनश्च नियत्या विचित्रेण कर्मणा, माता च पुत्रश्च परस्परपरिचयं ज्ञातुं शेकतुः। ततो यत् घटितं तत् अतीव सांधातिकं मर्मस्पर्शि च। उभौ तयोः जीवनस्य समाप्तिमैच्छताम्। किन्तु मुनिः गालवः तयोः दशां दृष्ट्वा सहानुभवेन व्यथितः सन् मातरं पुत्रं च कारणं दर्शयित्वा मूर्खजनोचितकर्मकरणात् निवायरयन् तयोः कृते मानसिकीं शान्तिं विदधाति स्म।
ब्रह्मपुराणस्य १७० तमेऽध्याये मणिकुण्डलं तस्य मित्र गौतमं चाधिकृत्यापरमाख्यानमस्ति यत्र क्षमासंक्रान्त दुर्लभभावो वर्तते। गौतमः दुष्टो जनः। किन्तु तस्य बन्धुः मणिकुण्डलः धार्मिक आसीत्। गौतमो धर्माय तस्य मित्रम् आह्वयति। एवं क्रमेण निर्दयबन्धुकारणात् स धनैः, कराभ्यां, नयनाभ्यामपि वञ्चितोऽभवत्। ततः गौतमः तं परितत्याज। किन्तु स न मरणं गतः। विभीषणस्तं दृष्ट्वा गन्धमादनपर्वतात् हनुमता आनीतस्य ओषधैः प्रयोगेण तं रोगमुक्तं चकार। तस्य कृपया मणिकुण्डलः पूर्ववत् समृधमान् जातः। अस्मिन् पर्याये मणिकुण्डलः प्रथमे मित्रं गौतमं सस्मार। दीर्घानुसन्धानात् परं स दुर्दशाग्रस्तं गौतमं ददर्श। मणिकुण्डलः तं गृहमानीय स्वीयं सौभाग्यभागं तस्मै ददौ, अत्र प्रकृतकरुणाभावस्य विश्लेषणेन प्रयोजनं नास्ति।
उदारता
उदारता हि अपरो महान् आवेगः। एषा बलवत्तरेण जनेन दुर्बलाय जनाय पोषितोऽनुभूतिः। इयमुल्लेखार्हा यतः बलवत्तरो जनो दुर्बलस्य दुर्दशामुपेक्षितुं शक्नोति, किन्तु अन्तर्निहितया करुणया स दुर्बलस्य विषयं गृह्णाति, तदर्थं च संग्रामं करोति अथवा न्यूनतमतः तस्य दुःखं सामान्येनानुभवति।
ब्रह्मपुराणस्य ९२ तमोऽध्यायः एकं चित्ताकर्षकमाख्यानं कथयति। एकदा सांघातिकी अनावृष्टिः अभवत्। ऋषिः विश्वामित्रः तस्य शिष्यान् खाद्यान्न्वेषणयादिदेश। ते मृतमेकं कुक्कुरमन्तरेण न किमपि आनिन्युः। विश्वामित्रः प्राप्तेन मांसेन यागं सम्पादयितुं कृतसंकल्पो बभूव। स यज्ञसम्पादनाय शिष्यान् आदिदेश। तत्क्षणात् इमं विषयमवगत्य इन्द्रः अप्रीतिकरं तद्यागं रोद्धुं तन्मांसमपहृत्य तस्य स्थले मधुभाण्डमेकं प्रतिस्थापयामास। ततः विश्वामित्रोऽतीव क्रुद्धोऽभवत्। स इन्द्रमभिशप्तुमुद्यते भभूव। स शिष्येभ्यः अद्रवं वस्तु इयेष किन्तु भाण्डपरिमितमधु न खाद्यम्। इन्द्रः विश्वामितर्स्य प्रवृत्तिमवलोक्यातीव भीतः सन् तस्य सन्तोषं विधातुं तत्क्षणात् जलीयमेघान् प्रेषयामास। एवं पृथिवी रक्षां प्राप।
दधीचेः मुनेः महान्तं यागमधिकृत्य पुराकालादेवातीव विख्याता कथा प्रचलितासीत्। स स्वीयपत्नीं यज्ञे उत्ससर्ज येन वज्रनामकमतीव शक्तिशालि अस्त्रं तदस्थिभिः निर्मितं भवति। इदमाख्यानं वैदिके साहित्येऽपि दृश्यते। किन्तु ब्रह्मपुराणम् (१२० तमोऽध्यायः) पृग्रुपतया आख्यानमिदं कथयति। अत्र वयं पश्यामः यत् दैत्यानां विरुद्धे सफलसमरोद्योगात् परमस्त्राणि निष्प्रयोजनानीति मत्वा देवाः सर्वाणि अस्त्राणि न्यासत्वेन दधीचिसकाशे स्थापयामासुः। तस्य पत्नी लोपामुद्रा इदं न समर्थयामास। बहुषु वर्षेषु गतेषु, अव्यवहृतास्त्राणि निष्प्रभाणि शक्तिहीनानीव संवृत्तानि। परिशेषे, दधीचिः दिव्यास्त्राणां समन्वितप्रभावशेषं स्वीयशरीरे अङ्गीकरुं संकल्पं चकार। किन्तु यस्मिन् मुहूर्त्ते स इदं चकार तस्मिन्नेव काले देवास्तत्र अस्त्राणि नेतुमाविर्बभूवुः। अनन्योपायो दधीचिः स्वीयं शरीरं दातुमुद्यतोऽभवत् येन नूतनानि अस्त्राणि निर्मितानि भविष्यन्ति। अयं यागः वस्तुतो दुर्लभः। संश्लिष्टजनस्य उदारतामधिकृत्य बहूनि आख्यानानि कथ्यन्ते।
विन्ध्यपर्वतस्य च मुनेरगस्त्यस्य च मध्ये संघातोऽतीव सुपरिचितः। किन्तु वामनपुराणस्य अष्टादशाध्याये वर्णितस्याख्यानस्य कश्चिद् भेदोऽस्ति। येनेदं सरसं जातम्। अत्र वयं पश्यामः यत् विन्ध्यपर्वतस्यांशविशेषः सौरगतिपथे यथाम्यथमवतिष्ठते। किन्तु अत्राख्यानेऽगस्त्य आचार्यत्वेन न वर्णितः। स वृद्धो जनः सन् विन्ध्यं जगाम। ततः स दाक्षिणात्यं प्रवेष्टुम् इयेष। विन्ध्यस्तत्क्षणात् मार्दवमभजत। अगस्त्यः दाक्षिणात्यं गतः, किन्तु न पुनःप्रत्यामगनाय। अत्रागस्त्येन जनहिताय स्वस्य परिचितः परिवेशःपरित्यक्तः। अन्यतश्च, विन्ध्यः यथेष्टं दयालुरासीत्, यतः स गुरुत्वहीनाय वृद्धाय जनाय दृढपदस्थिति तत्याज।
ब्रह्मपुराणस्य १३८ तमोऽध्यायः एकं भिन्नस्वादाख्यानं वर्णयति। नृपतिः शर्यातिः मधुच्छन्दस ऋषेः पत्न्याः प्रेम्णः गभीरतां परीक्षितुमियेष। अत एव स जनश्रुतिं व्यतनोत् यत् नृपश्च ऋषिश्चोभौ परलोकं गतविति। तदैव महिषी जनश्रुतेः सत्यतां परीक्षितुं व्यवस्थां जग्राह। किन्तु ऋषेः पत्नी हृदयविदारकं सन्देशं श्रुत्वा शोकेन मृत्युलोकं गता। एवं कपटपरिस्थित्यां समुत्पन्नायां राजा ऋषेः पत्नीं प्रत्यानेतुमग्निं प्रविवेश। ततः मधुच्छन्दाः सर्वमवगत्य नृपतेः आत्मोत्सर्गं स्मृत्वा शुशोच। स सूर्यं पूजयित्वा राजानं दिव्येन महिम्ना सह पुनर्जीवितं चकार। अस्याख्यानस्य स्वार्घशून्या मानसिकी उदारता अस्मानाकर्षति ययानुप्रेतः सन् जनः परस्मै आत्मोत्सर्गं कर्तुमपि द्विधा न करोति।
पुराकाले प्रजाभ्यो हिताय नृपतिना जीवनमुत्सर्गीक्रियते इति धारणा प्रचलितासीत्। प्रतिष्ठितादर्शात् काचिद् विच्युतिः कठोरव्यभिचारिकर्मत्वेन विविच्यते। किन्तु सामान्येन राजानः सर्वेषामुपरि प्रजाकामनापूरणाय सर्वदा उदाराः भवन्ति।
मार्कण्डेयपुराणस्य देवीमाहात्म्यनामके अध्याये सुरथस्य नृपतेराख्यानमस्ति। शत्रुः तस्य सर्वं जहार। तदा स मुनेः मेधस आश्रमे कञ्चित् कालमुवास। किन्तु तस्य मनः सर्वदा प्राक्त्यक्तानां समित्राणां प्रजानां कृते उद्विग्नतां बव्राज। स तत्र वैश्यं ददर्श। वैश्येनोक्तं यत् स तस्य दुष्टपरिवारेण विताडित एवेति। उभौ जनौ मायाबन्धनात् अतीव कष्टमनुभभूवतुः। स्नेहो माया वा हृदयं द्रवीकरोति, यतः जायते उदारता।
प्रागुक्तालोचना विशालसंख्यकेषु आख्यानेषु च पुरावृत्तेषु च केवलं स्वल्पसंख्यानि आख्यानानि पुरावृत्तानि च सम्मुखभागवानयति। तानि करुणाया बहुविध - रूपत्वं प्रकाशयन्ति। किन्तु इदं निःसन्देहेन प्रदर्शयितुं तथा प्रतिष्ठापयितुमलं यत् पुराणानां युगे हिन्दुधर्मः करुणात्मको धर्म आसीत्। अनेन आन्तरमहत्त्वेन हिन्दुधर्मोऽरः संवृत्तः। किन्तु इदमपि स्मरणीयं यत् कस्मीश्चिद् धर्मे एषा महत्ताकस्मान्नोत्थायायाति। इदं सत्यं यत् हिन्दुधर्मस्तस्माद्धारणायुगादेव बहुसहस्रवर्ष्सव्यापि- विविधपर्यायाणां मध्येन आगम्यात्रोपस्थितः। तेन वाह्यिकानां प्रभावाणां बहवो गुणा आत्मन्यङ्गीकृताः। तथापि करुणात्मकं प्रावण्यं सर्वदासीत्। प्राचीनवैदिक धर्मस्य आत्मगतो भावो यद्यपि आपातदृष्ट्या आदिमस्तथापि तत्र मूलसूत्रत्वेन महानुभवता चिन्ताया उदारता चास्ताम्। तथा च यथायतहं पश्चाद्भूम्या सह परवर्ती हिन्दुधर्मः प्रकृत्करुणात्कमधर्मत्वेन प्रकाशितोऽभवत्।
यद्यपि करुणात्कमभावप्रमाणायात्र आख्यानानि उपाख्यानानि च प्रयुज्यन्ते, तथापि पुराणेषु दानधर्मादयः प्रासंगिकविषयाः परस्परं भावं वहन्ति। दानस्यार्थो न केवलं ब्राह्मणेभ्यो दानमपितु दानंपरितः विक्षिप्ता महानुभवता विविधरूपत्वेन सर्वत्र वर्तते। तथा हि - वृक्षरोपणम्, मार्गनिर्माणम्, ज्ञाताज्ञातप्रेमात्मभ्यः श्राद्धस्यानुष्ठानम्, दुष्टकर्मपाशबद्धानां पितृणांमोचनम् इत्यादीनि। इदमुल्लेखार्हं यत् सर्वदा ईदृशानि दानमूलानि कर्माणि अपरिचितदरिद्रेभ्य आत्मभ्यः क्रियन्ते ये आत्मानः तेषां पापाय दुःखायन्ते। अन्यतश्च प्रायश्चितक्रिया इदं तथ्यं कथयति यत् अनुशोचनया सर्वाणि पापानि क्षमार्हतां यान्ति। इदमतीव गुरुत्वपूर्णम्। वर्णाश्रमधर्मा उदारतातिथिपरायणतादानग्रहणधर्मिपरिवेशसृष्टये व्यापकं क्षेत्रं प्रसन्ति। अत एव वयमनायासेन सिद्धान्तं कर्तुमलम् यत् प्रकृतमहतो धर्मस्य करुणावहनीतिषु प्रतिष्ठितो हिन्दुसमाजः चिरन्तनमूल्यादर्शस्य प्रतिफलनं साधयति। पौराणिकनीतिबोधस्योपरि दण्डायमानो हिन्दुधर्मः जगतस्तथा व्यक्तिगतसमाजस्य सुखाय समृद्धये च उपयोगिनः सर्वान् विषयानालिङ्ग्य स्वाधिणः सन्नेव वर्तते। एषु विषयेषु धर्मो यथा तिष्ठति तथा तस्य प्रयोगोऽपि विद्यते। धर्मः सामग्रिकतया मानवसमाजस्य रक्षणं, समृद्धि मङ्गलं च विदधाति। पुराणमाला व्यक्तिगतौचित्येन सह साधारणधर्मस्य एकत्रीकरणस्य सफलां प्रचेष्टां करोति। आद्ये वर्तन्ते कति शिष्टाचारसम्पर्किता गुणास्तथा गद्गुणभूषितानि कर्माणि, यैः समग्रसृष्टिकर्मणः मङ्गलं भवति। अपरस्य क्षेत्रे व्यक्तिगतसीमां नातिक्रम्य आद्यस्य व्यावहारिकी दिग् वर्तते। तत्र व्यक्तिः जातिगतं स्पष्टं वैशिष्त्य निर्दिशति।
----------------
सिद्धान्तः
उपसंहारः
वेदेषु ब्राह्मण्यसंस्कृतेर्मूलमस्ति। वेदसम्पर्किते साहित्ये अपि तत् मूलं दृश्यते। तत् साहित्यं कालानुक्रमेण पुराणानां मध्यतः जनप्रियरूपत्वेन विशेषितं संवृत्तम्।
धर्मशास्त्रत्वेन पुराणस्य संक्षिप्तं लक्षणं दुर्लक्ष्यमेव। किन्तु व्य्त्पत्या पुराणं 'पुरातन'मिति अभिधीयते। वैदिके साहित्ये तस्य ससम्मानः तथा सगौरव उल्लेखोऽस्ति।
पुराणानां तथा बौद्धशास्त्राणां वर्त्तमाने प्राप्तः पाठो हि मिश्रणविशेषः, आलंकारिकतयोच्यते, एकः पाठः अपरस्य पाठस्योपरि प्रभावं वितनोति। पुराणानां विषयः प्रायेण बौद्धशास्त्रीयविधीनां समर्थनं कुर्वन्ति। पुराणेषु च बौद्धशास्त्रेषु च सन्न्यासिना तथा गार्हस्त्यजनेन करणीयानि यानि कर्माणि निर्वहणीयाः च ये भाराः उच्यन्ते तेषां सर्वेषां मध्ये भावगतं सादृश्यं प्रायेण दृश्यते, रूपगतं किञ्चित् पार्थक्यं तत्र तुच्छम्।
आवेगैः विशुद्धीकृता याः स्वाभाविक्यस्तथा कोमलाः प्रवृत्तयः मानुषेषु सन्ति तासामुपरि कर्त्तव्यानि विधीयन्ते। किन्तु साधारणानां जनानां कृते तानि कर्त्तव्यानि नमनीयतराणि, न तादृशानि सन्न्यासिनां वा योगिनां वा कृते।
मनुष्ये आत्मीयताबोधो दुःखग्रस्तमपरं जनं प्रति दयायै कल्पते। एषा दया मनुष्यं साहाय्यकारिणं च दयार्द्रं करोति। एतादृशी प्रवृत्तिरेव करुणा। सम्पादनीयत्वेन विहितानां कर्त्तव्यानां मूलमेव एषा करुणा। करुणाशब्दस्य समार्थकाः शब्दाः सहानुभूतिः, दया, महानुभवता, एकनिष्ठता, भक्तिः इत्येवम्। पौराणिकदर्शनस्य अभिप्रायो हि दया तथा करुणा। बौद्धदर्शनस्य नीतावपि करुणा तिष्ठति।
बौद्धदर्शनस्य विश्लेषणाय दर्शनसंश्लिष्टानि कति मौलानि तथ्यानि सयत्नविश्लेषणीयतां व्रजन्ति। तथा हि -
बौद्धदर्शनस्य द्वे भित्तिभूमी - महाप्रज्ञा महाकरुणा च। केवलं बुद्धिः विपदं सूचयति, यतः बुद्धितो जायते तृष्णा तथा अध्याससम्पन्नं वस्तुतत्वम्। केवलं करुणामूला शुद्धा चिन्ता ज्ञानाय कल्पते। बुद्धः करुणावतारो बभूव। करुणा न चरित्रगतो गुणः, न वाभिज्ञतयानुमिता काचिद्धारणा, किन्तु सा स्वयंसम्पूर्णा, सा सामान्या, सार्वलौकिकी वा, सा चिरन्तनप्रेमविषयको मौलो विधिः। केवलं विद्या सम्यक् ज्ञानं वा तस्य उपरि प्रभुत्वं करोति। या विद्या अविद्याविरुद्धा। अविद्या अध्यासमूला, नित्यपरिवर्त्तनशीला, अनिश्चिता च एषा विद्या इन्द्रियैः प्रत्यक्षीभूतायामहंसत्तायां वसति यत्र आत्मनः च अपरवस्तूनां च मध्ये पर्थक्यं प्रतिफलितं भवति। यदि पार्थक्यभूमिका नापसरेत् तर्हि उत्थानं च जागरणं च न सम्भवतः। बुद्धः बोधिप्राप्तो जागरित एव। अत एव बौद्धदर्शने एष बोधिर्हि सन्धानशब्दः। एष बोधिः खलु एकत्वस्य बोधो जागरणं वा। तत्र पृथग्बुद्धिः सम्पूर्णतः अन्तर्हिता भवति। प्रज्ञया अथवा परमज्ञानेन सह कर्ममूलकः सम्बन्धोऽस्ति करुणायाः। यतः आत्मत्यागः प्रकृतां करुणां प्रकाशयति यत्र स्वार्थहीनसेवायाः भावो विद्यते। प्रणालीविशेषेण जीवने परिचालिते सति इदं ज्ञानं लभ्यते। तत् ज्ञानं तथाकथितैः यज्ञक्रियाद्यनुष्ठानैः न प्राप्यते, अपि तु प्राप्यते दुःस्थमानवसेवया सचेतनो भवितुं नरः प्रात्यहिकजीवनस्य अभिज्ञतां लभेत। तत्र पर्थिवसुखस्य पार्थिवद्रव्यस्य वा अस्थिरता, क्षणस्थायिता, असारता च प्रतिफलिता भवन्ति। यदापरस्य कष्टं निजकष्टमिवानुभूयते तदा एकत्वबोधेन परेषां बोधो दूरं गच्छति।
परमलक्ष्यारोहणसोपानथे चैतन्यं हि प्रथमं सोपानम्। तत्र कारुण्यैक्यानुभवपोषणस्यानुशीलनं भवति। इदं क्रमेण दीप्तये सम्पद्यते। प्रकृतो बौद्धः केवलं कर्मणा युक्तस्तिष्ठति, न कर्मफलेन। स सानन्दघटनाप्रवाहेन वाहितः सन् साम्यबोधेनानुप्रेरितो भवति।
मुक्तये वा करुणात्मकप्रज्ञालाभाय वा बौद्धानां लक्ष्यं भवति व्यक्तिगतमनुशीलनम्। कोऽपि जन उद्यमेन प्रज्ञां लब्धुमलम्, अत्र संस्कारैः प्रयोजनं नास्ति। सहजातैश्च स्वाभाविकैश्च बुद्धः रूपान्तरे विश्वसिति, द्रव्यभिन्ने अन्यस्मिन्नात्मनि। अत्र द्रव्यपदेन प्राणवन्तो जीवा अपि सूच्यन्ते। आत्मना कश्चिदलक्षणोऽद्वितीयः स्वतन्त्रोऽविनाशी अपरिवर्त्तनीयः पदार्थः बुध्यते। बुद्धः परमात्मरूपेण मुख्यकारणेन युक्तो नासीत्। स स्वीकरोति यत् नरः सम्मुखं गच्छेत्, सम्यग्ज्ञानित्वेनात्मानं प्रतिष्ठापयितुं जीवनस्य अभिज्ञतां व्यवहरेत्। अस्य प्रवृत्तिः बौद्धिकी प्रवृत्तिः या साक्ष्यप्रमाणैः आप्तपुरुषैः च प्रतिष्ठिता। स एवाप्तपुरुषो यो वस्तुतः तेन पथा गतवान् तथा च अभिज्ञतामर्जितवान्। केवलम् एषा महती अभिज्ञता - नरो यथा महान् भवति, दर्पात् कुसंस्काराच्च मुक्तो भवति, पीडनात् अहंकाराच्च स्वन्तन्त्रो भवति, अवशेषे भवति करुणामयो मनुष्यः, तथा मनुष्याय साहाय्यं करोति। अभिज्ञता मनुष्यं सावधानं सचेतनं सम्पूर्णं च करोति। तदा यस्य चैतन्यमापेक्षिकं न तिष्ठति, तत् परमोत्कर्षं लभते।
अक्षरशः, बौद्धदर्शनं बुद्धस्योपदेशानां संकलनम्। बुद्धपदस्यार्थः सम्यग् ज्ञानी। बुद्धनामधेयो जनो धम्मस्य आविष्कर्ता, बौद्धतत्त्वस्य प्रवक्ता। उपदेशा नाम प्रकाशितसत्यधर्माः। बौद्धदर्शने सम्पूर्णतां प्रति प्रवृत्तिः माध्यमेन शून्या। अस्यार्थः नियमवर्त्तिनो मुमुक्षुजनस्यात्र कर्म विषयकमाध्यमेन प्रयोजनं नास्ति। अथवा अनुप्रेरणादायिना केनापि आवेगेनापि नास्ति प्रयोजनम्। उपानार्थं बौद्धानां बुद्ध-धर्म्म-संघनामधेयं रत्नत्रयमाश्रयभूतं तिष्ठति। धम्मो नाम बुद्धस्योपदेशः। बुद्धस्तमुपदेशमभिज्ञतया पर्यवेक्षणेन च अर्जयामास। पालिसाहित्ये 'धम्मः' धर्म्मविनय इति परिचीयते। बुद्धे परलोकं गते धम्मविनयस्य पिटकाभिधेयशाखात्रयमभवत्। तथा हि - विनयपिटकम्, सूत्रपिटकम्, अभिधम्मपिटकम् इति येषामापातदृष्ट्यर्थो भवति मनः समीक्षाणमिति।
बुद्धस्य प्रवृत्तिः सर्वदा विचारसम्मता। स आह यत् स तस्यादर्शस्य उपलब्धये तदीयतत्त्वमुपदिशति। तत् तत्त्वं न कदापि तर्कादपेतम्।
बौद्धा उपदेशा द्विधा विभज्यन्ते। तथा हि -
१. पार्थिवाः २. अपार्थिवाश्च। पार्थिवा उपदेशाः पालिभाषायाम् 'लोकिय' - नामधेयाः। किन्तु अपार्थिवोपदेशानां पालिभाषायां 'लोकुत्तर' संज्ञा तिष्ठति। 'लोकिय' नाम इहलोके सुस्थजीवनयापनकारिणां कृते। 'लोकुत्तर' नाम मुमुक्षूणां 'भिक्खूनां' कृते, ये जन्मचक्रान्मुक्तिमिच्छन्ति, गर्हस्थ्यं जीवनं परित्यज्य परिव्राजका भवन्ति।
बुद्धस्योपदेशाः शीर्षत्रयेण वर्गीक्रियन्तेः - १. कल्याणसाधनम्, २. अकल्याणदूरिकरणम्, ३. चित्तशुद्धीकरणम्। त्रिपिटकनामकं बौद्धशास्त्रं बुद्धस्योपदेशैः परिपूर्णम्। बुद्धस्योपदेशास्त्रिविधाः - तथा हिः - १. विनयः - व्यवहारविधिः। २. सुत्तः - इन्द्रियसंयमाद्यभ्यासविधिः ३. अभिधम्मः - आत्मविश्लेषणम्। जीवनयापनाय बौद्धव्यवहारविधिः पञ्चलक्षणात्मकः - १. पशुवधात् च जीवात्याचारात् च विरतिः। २. पौरकर्मणः विरतिः ३. अवैधयौनसम्पर्कात् विरतिः। ४. परवञ्चनात् मिथ्याकथनाच्च विरतिः। ५. मद्याहिफेनादिमादकद्रव्यग्रहणाद्विरतिः।
धर्मरूपं बौद्धदर्शनं कियता परिमाणेन नास्तिकम्। यत इदं कस्मैचिद्देवाय वा परमदेवाय वा ब्रह्मणे वा भाग्यस्य समर्पणं न स्वीकरोति। इदं दर्शनं न धर्मीयम् किन्तु प्रायेण सामाजिकम्।
बौद्धसंस्कृतिविश्लेषणाय समाजं प्रति बुद्धस्य या धारणासीत् तस्या विश्लेषणम् अस्माभिर्विधेयम्। समाजे व्यक्तिजनस्य प्रतिबन्धकता बुद्धेन विशेषेण ज्ञायते। यतः सामाजिको जनः स्वाधीनतया न आलपति, न वा प्रकृत्या आचरति। अत्र समाजबन्धनमेव कारणत्वं व्रजति। किन्तु नरः सामाजिकबन्धनरूपं इदं बलं सम्पूर्णं विस्मरति। अपरदेशीयजनैः सह कस्यचिद्देशस्य जनानाम् अन्योन्यमिश्रणेन संस्कृतिगते आदर्शे विभिन्नता जायते। ततः संस्कृतिः प्रायेण विचित्रवर्णा। किन्तु अमिश्रा शुद्धा संस्कृतिः बुद्धाय रोचते। तद्धर्मवती संस्कृति यत्र धर्मे वर्तते, तत्र जना अधिकं मुक्ताः। ते विदेशीयसंस्कृतः पृथक् वर्तन्ते।
नरस्य सामाजिकं जीवनं स्वाभाविकमवश्यमेव भवेत्। स तदीयसमाजे यथार्थं देशीयजनः भवेत्। बुद्धोऽनया दिशा समुत्सुक आसीत्। नरस्य विस्मरणशीला प्रकृतिः खलु 'तन्हा'। सा कामना परितृप्तये नरं सस्तुपाशैः बध्नाति। वस्तुगता तृप्तिः दुःखाय सम्पद्यते। करुणामयो बुद्धः मानवजातिमुच्चैः आहूय कथयति एतत्प्रलोफनविषये सचेतना भवतेति बौद्धं दर्शनमेकाकिनं जनं प्रति गुरुत्वमारोपयति। अत्रैकाकिजीवनस्य रहस्यमयतास्ति तत्रापि गुरुत्वं ददाति। यः स्वयं निर्वाणाय यतते - यो बौद्धशिक्षायै उपयुक्तः तमपि सगुरुत्वम् अवलोकयति बौद्धदर्शनम्।
ब्राह्मण्यसंस्कृतेः जनप्रियं रूपं पुराणेषु प्रकाशितम्। पुराणान्यपि ब्राह्मण्यशिक्षाव्यापारस्य प्रामाण्यपुस्तकानि। पुराणानां वैशिष्ट्यं तथा वैदिकसाहित्येन साकं तेषां साधर्म्यं विविच्य उक्तमतद्वयं प्रतिष्ठाप्यते। वैदिकसंहितायां येषां मूलमस्ति तेषां पुराणानां भारतीयसमाजधर्मसम्पर्कितसंस्कृत्यादर्शनिर्माणक्षेत्रे महान् प्रभावोऽस्ति। ऋचामिव पुराणानामपि सदृशं मूलमस्ति इति अथर्ववेदे, शतपथब्राह्मणे, गोपथब्राह्मणे, तैत्तिरीयारण्यके, बृहदारण्यकोपनिषदि, छान्दोग्योपनिषदि सांख्यायनश्रौतसूत्रे, आश्वलायनगृह्यसूत्रे इत्यादिषु वैदिकसाहित्येषु उल्लिख्यते। वैदिकसाहित्ये इतिहासपुराणानि एकत्र च पृथक् च उल्लिख्यन्ते। अपि च अन्येषु प्राचीनेषु च पवित्रेषु च संस्कृतसाहित्येषु पुराणानि स्वीक्रियन्ते तथा गृह्यन्ते। उपरित इदमायाति यत् पुराणं चेतिहासश्च सम्भवतः समार्थं न वहतः, तथापि कतिषु संस्कृतग्रन्थेषु तर्योः घनिष्ठसम्पर्कत्वात् एकस्मादन्यस्य पृथक्ता न अनायासेन निर्मीयते।
महाभारतमितिहासपुस्तकम्। अवश्यमेव अयमितिहासः पुराणेऽपि वर्तते। ब्रह्माण्डपुराणे इतिहासत्वं यथास्ति तथा पुराणत्वमपि। कौटिल्यस्य मते सांसारिकगन्धशून्यानि उपाख्यानानि नाम पुराणानि किन्तु धर्मशास्त्रं तथार्थशास्त्रमितिहासः।
शतपथब्राह्मणे कथाकारेण जगदभिव्यक्तिप्रकारः प्रकाशितः किन्तु तत्र इतिहासाश्रिता प्रवणता दृश्यते। अपि च, शासनकालैः सह नृपवंशक्रमसूची, भौगोलिकसीमान्तवर्णना, मुनिवंशक्रमसूची, संहिताकारवंशक्रमसूची च प्रमाणीकुर्वन्ति यत् पुराणेषु इतिहासस्य लक्षणमस्ति। अपि च, भागवतपुराणे सर्गप्रतिसर्गादीनां जीवतत्त्वगतं विश्लेषणं तथा पोषणं विस्तृततरभावेन उल्लिख्यते। विष्णुपुराणे जगन्नाशप्रणाली विव्रियते, पुराणेषु कालनिर्णयपरिमापनीतिः विद्यते, कोषकारैश्च टीकाकारैः च लक्षिता बहवो विषयाः पुराणेषु इतिहासत्वस्य निर्णयाय पर्याप्तं प्रमाणं दर्शयन्ति।
भागवतपुराणे लिखितेषु दशलक्षणेषु पोषणं चोतिश्च सविशेषं लक्षणीयतां व्रजतः। पोषणं नाम सर्वशक्तिगतः प्राप्तोऽनुग्रहः अथवा प्राप्ता करुणा। प्राणिनः बोद्धुं शक्नुवन्ति यत् ईश्वरस्य अपारा करुणास्ति या प्राणिनां दुःखात् मुक्तिं साधयति। नरः सम्भवतः क्रमशः गुणमिमं मनसा गृह्णाति। स्वाजात्यबोधं मानुषस्य स्वाभाविको गुणः। पुराणेषु बहवो दृष्टान्ताः सन्ति, ये दृष्टान्ता, गृहस्थानां महानुभवताया गुणं प्रदर्शयन्ति। पुराणानि उपदिशन्ति यत् गृहस्थानां मनसि 'दया' स्यात् 'क्षान्तिः' स्यात्। पुराणेषु शास्त्रोक्तक्रियाणां तथा पुरावृत्तानां मध्ये यत् बहिरङ्गं रूपं तत्र आनुष्ठानिकता वा अविश्वास्यता वा प्रायेण दृश्यते; वास्तवता लौकिकता वा तत्र न्यूनतया वर्तते। तथापि तत्रत्यान्तरङ्गरूपे उपदेशा विराजन्ते। ते उपदेशा नाम साधारणजनजीवनयापनाय व्यवहारविधय एव, यस्य जीवनस्य भित्तिभूमौ अवतिष्ठते कृपा, महत्ता, दया, करुणा, उदारता, अतिथिपरायणता च इत्यादीनामात्मगतो भावः। एवं वैदिको धर्मश्चरित्रेणानुष्ठानिकः। किन्तु तस्य अन्तर्निहिता नीतिर्हि तत् सत्यं प्रवृत्तीनामुत्कर्षं विदधाति, मानवचरित्रस्योन्नतिं करोति - येन क्षणस्थायी मानवस्यावेगः दुःखार्तानां कृते गभीरकरुणानुभवेन भूषितो भवितुमर्हति।
बौद्धशास्त्रेषु अपि अंशविशेषो गृहस्थजनान् प्रति महतः सन्न्यासिनो गौतमबुद्धस्योपदेशवचनैः परिपूर्णः। 'सिङ्गलोपदेशसंवादे' गौतमो गृहस्थं सिङ्गलमुपदिशति - परिव्राजकेभ्यो ब्राह्मणेभ्यश्च द्वारोद्घाटनेन स्निग्धैः कायिकैः वाचिकैः मानसिकैश्च कर्मभिः सेवस्वेति। उपयुक्ताहारदानेन परिव्राजकान् सन्न्यासिनः सेवस्वेति च। सन्न्यासिनोऽपि सहानुभवानुप्रेरितकर्मभिरुपकरिष्यन्ति। जीवनचक्रान्महामुक्तेः प्रसंगे गोतमः सन्न्यासिन उपदिशति 'निर्वाणमुपगन्तुं पर्यायषट्कमस्तीति।' तथा हि - दानम्, प्रीतिः मुक्तभावेन गुप्तभावेन वा सतीर्थोपासकानाम् कृते कायिकवाचिकमानसिककर्माणि, सतीर्थैरुपासकैः सह भिक्षाविभाजनम्, शुद्धाचरणम्, एते विषया दुःखं दूरीकरिष्यन्ति इत्यत्र विश्वासः। अत्र करुणादिः केन्द्रभूता यां परित एते सर्वे विषयाः परिभ्रमन्ति। गृहस्था अपि अस्मात् नियमाद् वहिर्न तिष्ठन्ति। यदा कश्चित् सन्न्यासी करुणात्मकचित्तचालितः सन् यथायथामाचरति, तदा स कायिकं कर्म साधयतीत्युच्यते। यथायथं व्यवहाराय सन्न्यासिनः मनसि करुणायास्तथा निष्ठाया युगपदुपस्थितिः तस्य सुस्थं चित्तं निर्धशति। तस्य मन एव सुस्थं यः विचित्रहेतुसत्त्वादपि अपरमावृणोति अथवा अपरस्योपरि प्रभावं वितनोति।
ऊतिः नरस्य प्रेषणाशक्तिरिति पुराणे कथ्यते। ऊतिः नरं कर्मकरणाय प्रेषयति। एवञ्च नरः मूढतां गत्वाध्यात्मिकलक्ष्यलाभात् दूरमपसरति। पुराणेषु अन्यतमं गुरुत्वपूर्णं वैशिष्ट्यं खलु धर्मः। धर्मः धार्मिकाणामाचरणमधिकृत्य विधिः। कौटिल्यस्यार्थशास्त्रस्य टीकायां जयमङ्गलं इदं सत्यं विचारयति। बौद्धशास्त्रेऽपि उपदिश्यते यत् प्रेम आसक्तिविहीनं भवेत्। करुणानुभवश्च भवेत् स्वतःस्फूर्तः। सोऽनुभवो दुःखावेगात् न भविष्यति। पुण्यं सुफलाय कल्पते। पापं च तद्विपरीताय। सकामा चिन्ता पुनर्जन्मने भवति। प्रेमकरुणासहानुभवजानन्दादीनामासक्तोविहीनामुत्कृष्टगुणानाम् अनुशीलनं ध्यानोद्यमस्य न केवलं लक्ष्यं भवति। अन्तिमपरिणतौ पुनर्जन्मनः तथा मानसिकमालिन्यात् मुक्तिर्जायते। अत्रान्तर्दृष्टौ अपि उत्कर्षो भवति।
अथर्ववेदः - प्राचीनतमो धर्मग्रन्थः - पुराणानां प्राचीनत्वस्य विदग्धं साक्ष्यं वहति। अथर्ववेदीयादेकस्मात् मन्त्रात् इदमनुमानं भवति यत् पुराणानि ऋचा साम्न यजुसां चोपाङ्त्त्वेन विविच्यन्ते। ब्राह्मणानि वैदिकसंहिताः अनुसरन्ति। ब्राह्मणेषु वयं पश्यामः पुराणेतिहासयोः सहावस्थानस्य प्रसंगम्। गोपथब्राह्मणीये कस्मिश्चिन्मन्त्रे सर्पविशाचासुरेतिहासपुराणवेदानामुल्लेखो दृश्यते। आरण्यके इतिहासे च (ब्राह्मणानामन्तिमे अंशे) पुराणशब्दस्योल्लेखो वर्तते। (तैत्तिरीये आरण्यके छान्दोग्योपनिषदि बृहदारण्यकोपनिषदि च पुराणपदस्योल्लेखो दृश्यते। पुराणान्यधिकृत्य सूत्रसाहित्यमपि मूकभावं नावलम्बते।
आपस्तम्बधर्मसूत्रकालीनेषु पुराणेषु योगिनां सन्न्यासत्वं प्रशंसितम्। समकालीने पुराणे दृष्टौ द्वौ श्लोकौ प्रागुक्तसूत्रे उद्धृतौ। बृहदारण्यकोपनिषदा, ब्रह्माण्डपुराणेन, पद्मपुराणेन, विष्णुपुराणेन चापि श्लोकयुगलमुद्धृतं यत्र योगिकृतसन्न्यासत्वस्य प्रशंसा क्रियते।
प्रकृतो योगी कीदृशो भवेदिति विस्तरेण बौद्धशास्त्रेषु अपि वर्ण्यते। तत्रोच्यते यत् यो ध्याननिष्ठो जनः यथार्थतो योगी भविष्यति, सम्पूऱ्णतः निरासक्तः, प्रशान्तः ज्ञानी च भवितुमिच्छति, तथा च निर्वाणं लब्धुं यतते, स पर्यायाष्टकमतिक्रमिष्यति। पातञ्जलदर्शने क्रियायोगे षट् वा सप्त वा पर्याया उल्लिखिताः। आ मूलाधारसाधिष्टाह- मणिपूरानाहत-विशुद्धाज्ञाभ्यः, सहस्रारं यावत् विविधस्नायुकेन्द्रेषु मनसोऽस्तित्वं तिष्ठति। प्रेम-सहानुभूत-हर्ष-करुणा-समचित्ततोत्कृष्टभावानामनुशीलनं ब्राह्मविश्वे मरणात् परं पुनर्जन्मने भवन्ति इति बौद्धदर्शनस्य मतम्। किन्तु तत्र जीवनकालावसानात्परम् ईदृशानुशीलनकारी क्षुधार्तप्रेतत्वेन क्षुधार्तजीवत्वेन पुनरेव जन्म लभते। किन्तु ये ध्याननिष्ठा जनाः कर्त्स्न्येन पुनर्जन्मनः मुक्ताः, ये चोत्कृष्टभावानामनुशीलनं कुर्वन्ति, तेऽपि ब्राह्मे जगति मरणात् परं पुनर्जन्म लभन्ते। ये तु जीवनस्य समाप्ति यावत् अनुशीलनरतास्तिष्ठन्ति, तेऽमरत्वं तथा निर्वाणं लभन्ते।
यदा ईदृशा ध्यानिनः पुरुषा उपलब्धिस्त्रोतसा वहन्ति, तदा तेषां दृष्टिः परिवर्तते, ते सांसारिकं विषयं स्थायिनं न मन्यन्ते। ते सम्पूर्णतया निराकाङ्क्षास्तिष्ठन्ति, आकाङ्क्षातोर्जायते भाग्यम्। ते भाग्याधीना न भवन्ति। अत एव पुनर्जन्मनो मुक्तिं प्राप्नुवन्ति। अर्थात् पार्थिवे प्रसंगे ते कार्त्स्न्येन निरपेक्षा भवन्ति।
बृहदारण्यके चान्यासु उपनिषत्सु च कर्मफलस्योल्लेखः अस्ति। पुराणेषु अपि कर्मफलं कीर्त्तितम्। पापिनां कृते कति नरकाः सन्ति यत्र द्वौ काकौ पापिनः पीडयन्ति। विविधा दण्डाश्च विविधानां पापिनां कृते वर्णितास्तिष्ठन्ति। माक्रण्डेयपुराणे नचिकेतस आख्याने वयं पश्यामः यत् नचिकेतसा अस्थायित्वात् स्वर्गवासः परित्यक्तः।
सदृशो वृत्तान्तः प्राप्यते आपस्तम्बधर्मसूत्रात् च भविष्यपुराणाच्च। तथा हि - स्वर्गताः सन्न्यासिनः विश्वविनाशं यावत् स्वर्गे वसन्ति। सृष्टेश्चारम्भे पितृगणः स्वर्गस्य मौलिककारणतां व्रजति। एवं चेदमनुमातुं शक्यते यत् भविष्यपुराणं सम्भवतः आपस्तम्बस्य समये वर्त्तमानमासीत्। गौतमधर्मसूत्रेऽपि इतिहासपुराणस्य अथवा पुराणस्योल्लेखो दृश्यते। कौटिल्येनापि तदीयार्थशास्त्रे पुराणानां गुरुत्वं स्वीकृतम्। व्याससंहिताया मते वेदानां च पुराणानां च मध्येऽन्योन्यसम्बन्धोऽस्ति।
अन्त्येष्टिक्रियानुष्ठाने निमन्त्रितेभ्यः विप्रेभ्यः वेदपाठेन सह पुराणपाठं निर्दिशति मनुः। जैमिनिसूत्राणामुपरि तन्त्रवार्तिकनामधेयो यो ग्रन्थः कुमारिलभट्टेन रचितः स ग्रन्थः पुराणप्रामाण्यं स्वीकरोति।
कुमारिलभट्टस्य मते बुद्धश्चान्ये च कलियुगे जन्म गृहीत्वा धर्मस्य नाशं करिष्यन्ति इति पुराणेषु वर्ण्यते। एवञ्चेदमनुमीयते यत् भारते वर्षे बौद्धधर्मेण दृढपदस्थितेः ग्रहणात् पूर्वमेव पुराणानि राजन्ते स्म।
देवा देहधारिण इति सर्वेषु पुराणेषु विशेषेण दृश्यते। योगिनः पुराणोपदिष्टमार्गेण भगवन्तं ध्यायन्ति इति रामायणस्य महाकविः वाल्मीकिः पश्यति।
इदमनुमीयते यत् महाभारतस्य स्थाने स्थाने अभिन्नरूपैः पुराणानामुल्लेखोऽस्ति। सम्भवतः तत्र पुराणपदं मिथ्याप्रयुक्तम् अथवा पुराणशब्देन किल पुरातनं किञ्चिद्धर्मशास्त्रमुल्लिख्यते।
बुद्धज्ञानशिक्षावर्णनरताः कति बौद्धा जैनाश्च ग्रन्थाः पुराणनाम उल्लिखन्ति। बुद्धो विविधेषु शास्त्रेषु विद्यासु वा निपुण आसीत्। एवञ्च पुराणेषु अपि तस्य विदग्धता आसीत्। जैनलेखका अपि पौराणिकीं शलीमनुसृत्य काव्यादीनि रचितवन्तः। जैनः विमलसूरिः परिचितः प्राचीनतमः लेखकः 'पउम-चरिय' नामकं ग्रन्थं खृष्टीयप्रथमशतके रचितवान्, यो ग्रन्थः कविनां पुराणमित्यभिहितम्।
अत एव सिद्धान्तः क्रियते यत् पुराणस्य रूपं यदेव भवतु, तत् पुराण खृष्टीयप्रथमशतकात् प्राक् विद्यमानमासीत्। तथापि बौद्धधर्मस्य प्रभावः पालराजशासन्सकालं (७०० खृः) यावत् विशेषतो वङ्गदेशे वरीवर्धते। बौद्धधर्मः पौराणिकदर्शनेन सह पार्श्वापार्श्वि वहमान आसीत्। यतः पूर्वमेवोक्तम्, बौद्धतत्वेन समकालीनः समाजोऽधिकं प्रभावितः। तत्र हेतुः - बौद्धतत्वे च पौराणिकतत्वे च बहुविधं समाञ्जसमस्ति, पार्थक्यमपि अस्ति। तथा हि - चैतन्यलाभप्रणाली। पौराणिकतत्त्वेऽयं योगः, बौद्धतत्वे तु अयमयोगः। केनचिद् बौद्ध'भिक्कु'ना अवश्यमेव प्रेमकरुणाभावस्यानुशीलनं कर्तव्यम्, यदि क्षणमपि करुणानुभूयते तर्हि तदपि तस्य योग्यताया परिचयं वहति। बौद्धो भिक्षुः नारीसङ्गं तथा नारीप्रदत्तं भोज्यं परित्यजेदिति बुद्धस्योपदेशः। अस्य नियमस्य व्यतिक्रमे सति नरके पुनर्जन्म एव प्रतिफलं भवति।
बौद्धभिक्षुः साधारणदत्तोपहारं भुञ्जीत। न कायिकसुखाय अपि तु सफलं धर्मीयजीवनयापनार्थं तथा जीवनधारणार्थम्। एतदपि भिक्षुणा चिन्तनीयं तादृशो भोगो यथा दातुः लाभाय भवेदिति।
बुद्ध आह यत् अनायासश्वसनं तदैव सम्भवति यदा भिक्षुः तदीयहृदये प्रेमभूमि कर्षति। (विश्वस्तदातृदत्तवस्तूनां यथायथम् व्यवहारेण भिक्षुः निरुद्विग्नो जायते) जीवहितेच्छया प्रेम न केवलं करुणा।
भिक्षुमनसि करुणागुणस्य दृढं निवेशनमवश्यमेव कर्त्तव्यम्, येन ते चिन्तने कर्मणि, अनुभवे सिद्धान्तग्रहणे सज्ञानवस्तुग्रहणे च करुणां पोषयितुमर्हन्ति। एवं धर्मीयनियमादिपालनसमये भिक्षुः करुणामयहृदयधारणाय समर्थो भवति। पुनश्च, बुद्ध आह यत् करुणामयभिक्षवे य उपहारं ददाति स तस्मात् लाभं निकृष्य नयति।
न केवलं पौराणिके जगति अपि तु बौद्धसंसारे अपि सर्वत्र दानपरायणतायाः महानुभवतायाश्च भाववायुः वहति।
ब्रह्मपुराणस्य ९७ तमेऽध्याये एकमुपाख्यानमस्ति। तथा हि - एकदा सांघातिकी अनावृष्टिरजायत। मुनिः विश्वामित्रः किञ्चित्खाद्यसंग्रहाय तदीयशिष्यानादिदेश। तैरेकं मृतं कुक्कुरमन्तरेण न किमपि आनीतम्। विश्वामित्रः प्राप्तमांसेन यागं कर्तुं कृतसंकल्पो बभूव। स तथाकरणाय शिष्यान् आदिदेश। शीघ्रं देवराजः तत् श्रुत्वा तन्निन्दनीयकर्म येन न भवति तदर्थं मृतकुक्कुरस्य मांसमपहृत्य तस्य स्थले एकं मधुभाण्डं स्थापयामास। अस्मिन् व्यापारे विश्वमित्रः क्रुद्धः सन् इन्द्रमभिशप्तुं उद्यतो बभूव। तत्खाद्यपरिमाणं विश्वामित्रस्य शिष्याणां कृते पर्याप्तं नासीत्। ततः इन्द्रो भीतः सन् विश्वामित्रस्य तृप्तये तत्क्षणात् वर्षुकमेघान् प्रेषयामास। एवञ्च पृथिवी रक्षां प्राप।
दानशीलतादिप्रसंगे ऋषेः दधीचेरुपाख्यानात् उत्कृष्टतरमुपाख्यानं दुर्लभम्। दधीचिः स्वकीयास्थिभिः वज्रनिर्माणाय स्वीयजीवनमपि उत्ससर्ज।
वयं ब्रह्मपुराणस्य १३८ तमेऽध्याये नृपतेः शर्यातेराख्यानं पठमः। स नृपः शर्यातिः ऋषेर्मधुच्छन्दसः भार्यायाः प्रेम्नो गभीरतां परीक्षितुमैच्छत्। तदर्थं राजा ऋषिश्चोभौ परलोकं गतौ इति जनश्रुतिः तेन प्रचारिता। तत्क्षणात् राजमहिषी जनश्रुतिं परीक्षितुं व्यवस्थां जग्राह। किन्तु मुनिपत्नी पतिमृत्युसंदेशेनातीवशोकार्ता सती आत्मविसर्जनं चकार। तदा शर्याते अवस्थातीव शोचनीया सञ्जाता। स मुनिपत्न्याः जीवनं प्रत्यानेतुं वह्निं विवेश। इदमुपाख्यानमात्मत्यागस्यापूर्वमुदाहरणम्।
प्रागुक्तकथामालाः करुणानुभवैः परिपूर्णाः। किन्तु दानधर्मोऽपि पुराणविहिताचरणविधिषु एको गुरुत्वपूर्णो विषयः।
दानस्य क्षेत्रं न संकीर्णम् - न केवलं विप्रेभ्यो दानमपि तु सर्वविधसामाजिककर्माणि अत्र अन्तर्भूतानि। तथा हि - कृपखननम्, वृक्षरोपणम्, ज्ञाताज्ञातप्रेतात्मनां कृते अन्त्येष्टिक्रियानुष्ठानम्। प्रायश्चित्तकरणेन सर्वपापमुक्तिर्भवति इति पौराणिकविधिः पुराणस्योदारतां सूचयति। यतो धर्मो जनजीवनस्य सर्वान् विभागान् शास्ति, ततो धर्मार्जनस्य बोधः मनुष्यहृदयं प्रविश्य मनुष्यमुदारं करुणामयं च कर्तुमनुप्रेरयति। एवं पुराणेषु महती निर्माणधर्मिनी शक्तिरस्ति। पुराणत एव 'वसुधैव कुटुम्बकम्' इतिवत् उदारता जायते।
बौद्धशास्त्रस्य मते यो मुमुक्षुः करुणात्मकं मनः पुष्णाति स यथार्थशुद्धधर्मीयजीवनं यापयति इति उच्यते। एवञ्च स कर्महीनां भिक्षां भुङ्क्ते।
गोतमः मोह्यफग्गुनं सन्न्यासिनमुपदिशति यत् स क्रुद्धचित्तस्य स्थले कारुणिकं चित्तं पोषयेत्। निजस्याथवा परस्य गुणदोषयोः विवेचने सर्वे भिक्षवः कारुणिकाः स्युः इति बुद्धस्य उपदेशः। प्रेमकरुणयोरनुशीलनमध्यात्ममार्गे अपरिहार्यम्। 'कस्सपं प्रति सिंहस्य गर्जनम्' इत्यत्र परिव्राजकेभ्यः करुणायाः हानिकरप्रभावात् मुक्तस्योपरि गुरुत्वं स्थापयति। बुद्ध आह प्रकृतः कारुणिको जनोऽरण्ये वन्यजन्तुभिः आक्रमणस्य भयात् मुक्तस्तिष्ठति। वाचि, चिन्तायां कर्मणि च यो जनः करुणां पोषयति स जनः गोतमं प्रति अनुरुद्धस्य वाचि विग्रहं लभते। अनुरुद्ध आह भक्तियुक्तं तथा उत्सर्गीकृतं जीवनं कीदृशं भवेत् इति।
साधारणगार्हस्थ्यजीवने गोतमो दम्पत्योः ऐक्यं तथा सामञ्जस्यमुपदिशति। दम्पत्योः कर्त्तव्यस्योपरि गोतमो गुरुत्वं स्थापयति। स आह पतिः तदीयपत्नी सेवेत। तथा च भार्यापि पत्ये सहानुभूतिशीला भवेत्।
प्रेमपरिधिविस्ताराय ध्यानिन उपदिश्यन्ते यत् ते प्रथमतः आत्मसु, ततश्च श्रद्धाभाजने आचार्ये, मित्रे, अपरिचिते जने, परिशेषे च शत्रौ स्निह्येत्।
पौराणिकदृष्टिप्रसूता चिन्तात्र निम्नरूपा -
भक्तिपदस्य बहुविधा दिशः सन्ति, तथा हि कर्त्तव्ये भक्तिः, मनुष्ये भक्तिः, ईश्वरे च भक्तिः। पुराणेषु बहुविधानि नीत्याख्यानानि भक्तिदयाकर्तव्यताकरुणादीनां भावानामुपरि आलोकपातं कुर्वन्ति। प्रायेषु क्षेत्रेषु सा भक्तिः स्वार्थशून्या।
पुराणवर्णिताख्यानगतस्त्रीचरित्रेषु स्वामिनि भार्यायाः भक्तिः प्रकाशिता। विविधेषु पुराणेषु दृष्टान्ता दृश्यन्ते। विष्णुपुराणे शतधनुषः स्वामिनः कृते भार्यायाः शैव्यायाः धीरतायास्तथा भक्तेः दृष्टान्तं वयं पश्यामः। गरुडपुराणे विप्रस्य कौशिकस्य भार्यायाश्चरित्रे सहनशीलतायाः, भक्तेः दृढतायाश्च तेजोमयो भावः परिलक्ष्यते। स्कन्दपुराणगते भोगवतीचरित्रे सतीत्वस्य, भक्तेः सहनशीलतायाश्च दृष्टान्तोऽस्ति। ब्रह्माण्डपुराणस्यान्याख्याने विनताकद्रुस्वामिनः कश्यपस्य चरित्रे अपूर्वा प्रीतिस्तथा दया दृश्यते। मार्कण्डेयपुराणे एकमाख्यानमस्ति यत्र पित्रे ययातेये पुत्रस्य पुरोः आदर्शभक्तिः वर्ण्यते। मार्कण्डेयपुराणेऽपि एकस्मिन्नाख्याने आदर्शशिष्यस्य परिचयो लभ्यते यत्र शान्तेः कर्त्तव्यपरायणता तथा लोभहीनता अङ्किता। तेन स्वस्मै वरस्य प्रार्थना न कृता। कर्तव्यबोधात् स वरं न प्रार्थयते स्म। अयं हि गुरौ भक्तेः आदर्शः दृष्टान्तः।
प्रह्लादश्च ध्रुवश्च वन्यजन्तुभिः आक्रान्तौ अभवताम्। तयोः उपरि दैहिकोऽत्याचारोऽपि कृतः। ईश्वरे नारायणे भक्त्या वा दृढविश्वासेन वा अस्य प्रतिरोधः सम्भवपर आसीत्। तथापि ताभ्यां न किमपि कृतम्। बलिराजस्याख्यानेवयं पश्यामः यत् बलेः दृढभक्त्या वामनरूपस्य विष्णोः अपि दीप्तिः महत्ता च म्लानतां गच्छतः।
क्षमायास्तथादयायारीदृशं प्रावण्यं देवेषु पुनः पुनः दृश्यते। कठिनः शत्रुः यदि शरणागतो भवति, अथवा अनुशोचनां करोति तत्क्षणात् स क्षमां प्राप्नोति। महादेवस्यान्धकासुरस्य चाख्यानमत्र स्मरणीयं यत्र अन्धकासुरः महादेवस्यानुग्रहं लेभे।
वायुपुराणगतभिल्लव्याधाख्याने भक्तेस्तथा निष्ठाया भावः निम्नजन्मनः दासवृत्तेश्च बाधां जयति स्म।
पुराणकाराः स्वर्गतानामतृप्तानां प्रेतात्मनां कृतेऽपि दयां प्रकाशयन्ति। नरके दुःखभोगिनामुद्धाराय विभिन्ना उपायाः पुराणकारैः व्यवस्थापिताः। यद्यपि ते नरकवासिनः पृथिव्यां वासस्य समये बहुविधपापकर्माणि अकुर्वन्।
बौद्धशास्त्रे इदमुच्यते यत् करुणात्मके विशुद्धे चित्ते विश्वासः, मनस्विता, चैतन्यम्, लज्जा, नोर्लोभता, समता, सुस्थिरता, दक्षता, सरलता च सन्ति। बौद्धशास्त्रे करुणाशब्दः आलंकारिकतया अन्तर्दृष्टिरूपमर्थं वहति। एषान्तर्दृष्टिः प्रेममये चित्ते पोषमाप्नोति। अर्थात् यो नरः तस्य मनसि प्रेम च करुणां च पुष्णाति स निर्वाणं लभते। अत्र प्रेमपदस्य करुणापदस्य वा स्वतन्त्रोऽर्थोऽस्ति - अत्र करुणा न आवेगसम्भूतः भावः, किन्तु उत्कृष्टः कश्चिद् भावः, सहानुभूतेः आनन्दः। करुणा सन्न्यासिनं क्रोधात्, आकाङ्क्षायाः, उत्तेजनायाः, आलस्यात्, उद्वेगात् सन्देहाच्च मुक्तं करोति।
यदा चित्तं गभीरसमाधौ मग्नं तिष्ठति तदा तच्चितं स्वभावतः एव आकाङ्क्षामुक्तं निरासक्तं च जायते।
मानवजीवनं पूर्वजन्मकर्मफलैः रचितं प्रतिरूपम्। यदि कोऽप्याध्यात्मिको मुमुक्षुः कंचिज्जनं प्रति शत्रुतां पोषयति तर्हि एवंविधा दशा दुःसहा। यत ईदृशी चिन्ता चित्तं दूषयति। तादृशं चित्तं सुजनेषु अन्येषु जनेषु प्रभावं विस्तारयति। तथाकरणेन तस्य आध्यात्मिकी उन्नतिः व्याहता भवति। अनेन तस्य दुःखजनकं पुनर्जन्म भवति। पुराणेनापि ईदृशी सावधानता उच्चारिता।
जातीयो धर्मः वस्तुतः समाजधारकः जीवनवाहकस्य विषयः। सहकारिशक्तित्वेन धर्मः समाजं तथा जीवनं पन्थानं दर्शयति, शान्तिपूर्णसहावस्थानविषयकोपदेशं ददाति। बौद्धेषु पौराणिकेषु च शास्त्रेषु नियमनिष्ठजीवनयापनाय उपदेशा लिपिबद्धाः सन्ति।
धर्मः हि धारकत्वादेव। विशेषतः धर्मस्य याज्ञिकोऽथवानुष्ठानिकोऽशः कस्यापि समाजस्य सम्प्रदायस्य च परिचयं वहति।
धर्मो नामाभिज्ञतासञ्चयः। स धर्मः कस्यापि प्रदेशस्य देशस्य वा जाति च संस्कृतिं च रचयति। धर्मः सभ्यताया जननी। जीवनयापनव्यवहारविधयः धमादेव जायन्ते।
वेदानां संहिताभागेषु वयं पश्यामः यत् प्राकृतिकशक्तिषु देवत्वस्य आरोपितः त्वात् वैदिको धर्मः तदा प्राथमिके पर्याये एवासीत्। तथापि तत्र ऋतस्योल्लेखः अस्ति। परवर्त्तिकालेऽयमृतः जीवनयापनव्यवहारविधौ परिणतिं गतः।
व्यवहारस्य परस्परसम्बन्धिनः शब्दाः नीतिविज्ञानम्, नैतिकता, धर्मश्चेत्यादयः। सौजन्यलालितसंस्कृतो नीतिज्ञानं जायते। ब्राह्मणेषु, आरण्यकेषु, सूत्रेषु, उपनिषत्सु च इत्यादिषु वैदिकसाहित्येषु नीतिबोधः प्रतिफलितः। येन शास्त्रोक्तक्रियादर्शः, आध्यात्मिकनियमपालनोपायः, नैतिकव्यवहारविधिः च उपस्थाप्यन्ते।
एवञ्च सम्यगात्मीयताबोधः दयां च प्रातिवेशिसुलभमनोभावं च सृजति। एषा दया तथा कर्त्तव्या अधमप्राणिनां कृतेऽप्यनुभूयते।
दयायाः परिधिक्षेत्रमागच्छन्ति करुणा, उदारता, सहानुभूतिः, कर्तव्यबोधः, प्रेम, स्नेहः, एकाग्रता, चित्तौदार्यम्, अपरेषां यथा हानिर्न भवति तादृशीच्छा च। जीवनस्य च धर्मस्य च क्षेत्रे सदाचारा उपकरणविशेषाः। ते खलु पौरं जीवनं नियमयन्ति।
जैनधर्मे बौद्धधर्मे च अहिंसामूलो यो धर्मः स विवेचनीयमात्रया हिन्दुधर्मं प्रभावितं करोति। वैदिकसाहित्ये या चिन्ता प्रचारं लभते, सा चिन्तैव पुराणानामपि। किन्तु सा चिन्ता जनप्रियोपायेन आख्यानादिमाध्यमेन प्रचारिता भवति। आख्यानादीनां मूलगताः नीतिः करुणैव।
समकालीनभावनोपयोगिनी पौराणिकी कथामाला जनप्रियशुभवार्त्तात्वेन विख्यायते। पुराणैर्विधृता विभिन्ना देवताः साधारणजीवनोपयोगिविविधाशाकाङ्क्षाविधायिन्यः इति कारणात् ता प्रिया देवाताः सञ्जाताः। पौराणिकं साहित्यं विचित्रधर्मादर्शविश्वासानां सङ्गमस्थलम्। सुखबोध्यभाषया लिखित्वात् पौराणिकी वाणी सुदूरस्थानीयजनगणकर्णसमूहमपि प्रविशति।
करुणात्मको महान् गुणः अपि तत्र विशिष्टं गुरुत्वं प्राप्नोति। अयं विषयः कथोपकथादिभिः तिर्यक् प्रतिविम्बितो भवति, येषां मूलत्वेन क्रियां कुर्वन्ति प्रेम, भक्तिः, दानशीलचित्तवृत्तिः, स्नेहः, क्षमा, प्रतिवेशिसुलभानुभवः चेति। सर्वेषामेव केन्द्रबिन्दुः एव करुणा।
प्रागुक्तभावेषु अन्यतमेनानुप्राणिताः सन्त उपासकास्तेषामीप्सितानां देवतानां प्रसादलाभार्थमाह्वानं कुर्वन्ति। तादृशमभिगमनं वस्तुगतम्। इदं हृदयस्य पेलवांशतः जायते। इदं जप्ता देवताःप्रति युज्यते या देवताः करुणारूपमूर्तिसत्यः।
बौद्धदर्शनस्य मते सन्न्यासिनः क्षेत्रे करुणायाः परिधिः अवश्यमेव विस्तृतो भवेत्। यदि तस्य कोऽपि शत्रुर्भवति तर्हि तं प्रत्यपि सन्न्यासी करुणापरायणो भवेत्। ईदृशः सन्न्यासी निर्वाणमार्गेण गच्छन् सर्वविधप्रतिबन्धकेभ्यः मुक्तो भवति।
समाधयेऽनुशीलनं शत्रुभावान्मुक्तिं न ददाति। इदं केवलं हानिहीनतायामानन्दानुभवः तथा सर्वस्मै प्रीतिरिति हिताय शत्रुतां दूरीकरोति। गहनध्यानेन मग्नः सन्न्यासी समवृत्तिसम्पन्ने पर्यायेऽवतिष्ठते। मनसः एवंविधायां दशायां न कापि विरोधिनी शक्तिः तमपकर्तुं शक्नोति। अत एव ईदृश्यां दशायां सन्न्यासिनः पक्षे, उन्नतिरोधिपापचिन्तादमनाय मानसिक्या शक्त्या प्रयोजनं न भवति। विशुद्धदशामुपगतस्य विशुद्धचित्तस्य सन्न्यासिनः उन्मार्गगमनसम्भावना सम्पूर्णतया दूरं गच्छति। तदा सन्न्यासी ध्यानमग्नस्तिष्ठतु वा स्वाभाविकदशागतस्तिष्ठतु वा इति न कोऽपि विषयः। एतादृशः सन्न्यासी सर्वदा करुणामयश्च प्रेममयश्च तिष्ठति। सहनशीलं करुणात्मकं चित्तं प्रतिकूलदशायां प्रतिक्रियां न करोति। विभ्नशून्यध्यानाय जितेन्द्रियाः सन्न्यासिनः न्यूनतमनमनीयवस्तुभिः सन्तुष्टा भवेयुः इति गोतमस्योपदेशः। अपरिसीमप्रेममयचित्तानुशीलनं तेषं कर्त्तव्यम्
साध्विदं ज्ञातं यत् पौराणिका ऋषयः जीविकाव्यापारे वा जीवनयापनव्यापारे वा अतीव नमनीया आसन्। ते आश्रमजीवनोपयोगिन्यूनतमवस्तुभिः कालं यापयितुं शक्नुवन्ति स्म। तेषां चित्तेषु दयानुभूतिः करुणानुभूतिः वा प्राचुर्येणासीत्। अयं महान् आवेगः पुराणानां सर्वत्र प्रतिविम्बितः। देवा उपासकेभ्यो वरान् ददति, ते विपदापन्नान् भक्तान् रक्षन्ति, विपदश्च तान् मुञ्चन्ति - इति तथ्यं प्रमाणीकरोति यत् दयाधारा दानधारा वा तेषु सर्वदा सक्रियासीत्। एतदपि घटते यत् कदापि वा वररूपः करुणानुभवः अयोग्येषु अपि वस्तुषु विस्तारं याति। ऋषयः अपि तत्फलभोगं कुर्वन्ति।
ऋषय आध्यात्मिकप्रयत्नेन महती शक्तिमर्जयन्ति। जनहिताय तच्छक्तिप्रयोगं प्रायेण ते कुर्वन्ति। तेऽयाचितभावेनैव स्वार्थशून्यां सेवां यच्छन्ति जनगणाय। इदं प्रमाणीकरोति यत् तपस्या तेषां चित्तं विशुद्धीकरोति। तथाकरणेन च ते कार्त्स्न्येन स्वार्थपरतामुक्ता जायन्ते।
स्वार्थशून्यत्वं तपस्यायाः लक्ष्यम्। य एव एतल्लक्ष्यमुपगच्छति स आत्मौपम्येन अपरेषां दुःखं वा सुखं वा अनुभवति। पुराणानि खलु एतद्धावानुप्राणितैः पुरावृत्तैः बाहुल्येन परिपूर्णानि। ब्रह्मपुराणस्य ८५ तमेऽध्याये कुवर्षेराख्यानमस्ति। स सर्वेषां क्षुन्निवृत्तये वराय प्रार्थना चकार। अनेन तस्य माहात्म्यं प्रकटितम्। शुनःशेफाख्याने वरुणस्य गभीरां करुणां वयमनुभवामः। यज्ञीयबलिरूपस्य बालकस्य सहायहीना दशा वरुणस्य मनसि सहानुभूति तथा करुणां जागरयति स्म। स च तं ररक्ष।
महानुभवताया भावोऽपि निम्नप्राणिनां हृदयेषु लक्ष्यते। वराहपुराणस्य १२५ तमेऽध्याये कस्मिंश्चिदुपाख्याने कपोतस्य पेचकस्य च भार्यायुगलं साधारणकल्याणाय इष्टान् देवान् आह्वयति स्म। वामनपुराणस्य ४० तमेऽध्याये वशिष्ठस्यातुलनीया त्यागवृत्तिः वर्णिता। एवञ्च पुराणेषु बहवो दृष्टान्ताः सन्ति यत्र त्यागमहानुभवताकरुणासहानुभवादीनां तेजोमयो भावो विद्यते।
बौद्धशास्त्रे यथा लिखितं तथा दृश्यते यत् गौतमो नवदीक्षितान् सन्न्यासिन उपदिशति यत् सन्न्यासिन उत्थानविचरणोपवेशनादिसमये समाध्यनुशीलनाय दृढसंकल्पा भवेयुः। तथा च ते यदि उपदेशाननुसृत्य कर्म कुर्वन्ति, तर्हि ध्यानसमये विरोधिशक्तयो निष्प्रभा भविष्यन्ति।
मुमुक्षुः सन्न्यासी चित्तमुक्तये करुणाभ्यासं कुर्यात्। सन्न्यासिनः पक्षे हृदये करुणाभ्यासोऽतीव फलप्रदः। तेन अभ्यासकारी यस्मात् कस्मादपि आक्रमणात् अवमानाद् वा रक्षणाय शक्तिमर्जयति। किञ्च, उपासनालये सन्न्यासिनः एकत्र शान्तं शातुं शक्नुवन्ति। यतः, हृदयेषु करुणानुशीलनत्वात् तेषां हृदयानि कोमलानि भवन्ति। तथा च एकः अपरस्य उत्तमः सहचरः भवति। निर्वाणलाभाय प्रेमकरुणाध्यानं प्रथमः पर्यायो भूमिकास्वरुपः। तथापि निर्वाणलाभात् परमपि भूमिकावस्थानत्वादेव प्रमपरिमलः परेषां हिताय अवशिष्टो वर्तते।
आध्यात्मिकप्रगतये सन्न्यासिनः अन्योन्यसहाया भवेयुः। एषावस्था परोक्षभावेनापरानुपकुर्वन्ति।
यः सन्न्यासी पार्थिव सुखं जहाति स एव प्रकृतः सन्न्यासी। स स्वीयकर्मणापरान् प्रभाइतान् करोति।
गौतमस्य मते अभ्यासकारी हृदयेन धीरताहिंसाकरुणाकोमलताभावानुशीलनेन आत्मनि हृदये सहनशीलतां पोषयति। इदं गुणत्रयस्यार्थः सार्वलौकिकः प्रेमा। अभ्यासकारी यदा सम्पूर्णं गूढध्यानमग्नस्तिष्ठति तदा गुणत्रयमतीव शक्तिपूर्णं तथा फलप्रदम्। अस्मिन् पर्याये अभ्यासकारी सर्वविधदुष्टकर्मचिन्ताभ्यो मुक्तो भवति, तदा स भवचक्राद् विच्छिन्नो जायते। यथार्थतः अस्मिन् पर्याये अभ्यासकारिणो मनः मुक्तं तिष्ठति।
अयं व्यापारः कियताप्यंशेन याजकीयः, अत्र अभ्यासकारी केवलं स्वार्थं चेष्टते, किन्तु सहानुभूतौ हर्षः परसुखसजातजर्षं सूचयति।
उक्तप्रसंगे परार्थपरता गौतमस्य उपदेशेषु न सूच्यते, तथापि इदं निश्चितं यत् गूढध्यानमीदृशगुणाय सम्पद्यते।
पुराणानां कथासु ईदृशस्वार्थहीनसेवासम्बन्धिदृष्टान्ताः इतस्ततः वर्त्तन्ते। पुराणेषु स्वार्थशून्यसेवाया महती मर्यादास्ति, सेवाधर्मो हि परमगुणत्वेन विविच्यते। पुराणेषु अयं गुणः न केवलं साधूनां चित्तेषु अपि तु निम्नप्राणिनां हृदयेषु वर्तते। कर्त्तव्यबोधेन सह आतिथ्यादिसेवा सर्वेषां हिन्दूनां साधारणगुणत्वेन विविच्यते। कर्तव्यबोधो जायते दयाकरुणानुभवात्। अयं बोधो न स्वल्पस्थायी, किन्तु हिन्दुचरित्रेऽविच्छेद्यो गुणः। अत्र हिन्दूनां मूल्यबोधः प्रतिफलितो भवति।
पूर्वपुरुषाणां मुक्तये भगीरथस्य सहनशीलता तथा धीरता स्वार्थशून्यसेवायाः कर्त्तव्यबोधस्य च आदर्शं स्थापयति। अत्र साधुसुलभे दया च करुणा च वर्तेते।
ब्रह्माण्डपुराणस्य ८० तमेऽध्याये नैतिकमूलबोधमवलम्ब्य नीतिकथा दृश्यते। अवरजीवानां हृदयेषु अपि कर्तव्यबोधः करुणाभावश्च शनैः शनैः प्रवेशं लभेते। सा घटना अतीव विस्मयावहा च मर्मस्पर्शिनी च यदा वयं पश्यामः - यो व्याधः विहगमिथुनं पाशबद्धमकरोत् तस्यैव क्षुधायै पुरुषो विहगः आत्माहूतिं दातुमुद्यतोऽभवत्। समग्रव्यापारमवलोक्य स निषादो निर्वाक् तथा आश्चर्यान्वितोऽभवत्। अस्मिन् पर्याये साधारणानामपि जनानामीदृशः स्वभावः साधारण एव।
बौद्धशास्त्रस्य मते चित्तमुक्तिः कतिपयगुणसमूहाय भवति। यो भिक्षुः साधुः अर्थात् यस्य चित्तं सम्पूर्णं मुक्तं स कति गुणानर्जयति। सोऽशुभं स्वप्नं न पश्यति, स गाढनिद्रां गच्छति। स भयशून्यो भवति, न कोऽपि नरः वा पशुः वा तमपकर्तुं शक्नोति, देवास्तं रक्षन्ति (तत्र दैवानुग्रहे स्नेहभावो वर्तते), अग्निस्तं दग्धुं न शक्नोति, स परमोपलब्धिं विनैव मरणात् परं ब्रह्मपदं लभते।
सर्वोपरि, सहानुभूतिः करुणा चेति गुणद्वयं दूढध्यानेन सह सम्पर्कितम्, तथापि तद्द्वयं ध्यानमग्नताया न फलम्।
यस्यात्मोपलब्धिः सञ्जाता स भवचक्रात् पुनर्जन्म्मो वा मुक्तः। अस्य पर्यायस्य लाभाय करुणा हि अव्यवहितो हेतुः, निरासक्तिश्च आनुषङ्गिकं, हेतुत्व व्रजति।
करुणा गूढध्यानस्यापरा मूर्त्तिः। किन्तु अभ्यासकारी यदा तपस्यायां क्रमशः उन्नतिं साधयति तदा तस्य हृदये करुणाभावो जायते। अन्तिमे पर्यायेऽर्थात् निर्वाणस्य पर्याये सन्न्यासी साम्पूर्ण्येन निष्कामो भवति। जागतिकस्य वस्तुसमूहस्य क्षणिकतायां तथा असारतायां स सचेतनो जायते। अस्मिन् समये अभ्यासकारी प्रतिकूलदृश्यघटनाचरित्रादिषु प्रतिक्रियां न करोति।
यो जन्मसूत्रेण असीमं प्रेम लभतेऽथवा यस्य प्रेममयं हृदयमस्ति स स्वल्पकालेन दुष्टमनोभावं नियन्तुं शक्नोति। ततश्च यदि स यतते, स क्रमश उन्नतिं कर्तुं शक्नोति।
चान्द्रायणव्रतदिनेषु महात्मनः गुरोः शिष्या मनसि सर्वेषां जीवानां कृते प्रेमकरुणामयं हृदयं पोषयन्ति।
मुक्तिकर्षणात् मनः विरोधिशक्तिप्रभावात् मुक्तं जायते। मनस ईदृग्दशायां मनः कर्त्स्न्येन मालिन्यमुक्तं तिष्ठति। तादृशे मनसि करुणा, सहानुभूतः, आनन्दः, समवृत्तिता चेत्यादयः गुणा विराजन्ते। तदा ब्रह्मसाजुय्यं सम्भवति।
करुणाया ध्यात्मकं कर्षणं क्षतिकरपरिवेशे प्रतिक्रियाकरणाय विशेषेण फलप्रदम्। प्रेम्णो ध्यानात्मकं कर्षणं क्रोधं प्रतिहतं कर्तुं विशेषत उपयोगि। समवृत्तितायाः ध्यात्मकं कर्षणं तृष्णाया विरुद्धे प्रतिक्रियाकरणाय विशेषेण प्रयोजनत्वं व्रजति। एते उपदेशाः सामाजिककल्याणसाधनाय अनुप्रेरणां ददति।
साधारणा जनाः वृक्षरोपणाय, सेतुनिर्माणाय, कृपखननाय गृहहीनेभ्य आश्रयस्य दानाय उपदिश्यन्ते। अत्र करुणा दुःखार्ततायाः कृपायाश्च विच्छिन्ना भवेत्। अर्थात् ध्याता पुरुषः कदापि न परदुःखेषु कृपानुभवेनानुप्रेरितः भवेत्, येन स परदुःखं वा परकष्टं दूरीकर्तुमग्रसरो भवति। ध्यातुः पक्षे करुणाया अयं भावः सततं स्वाभाविको भवेत् यैनानुप्रेरितः सन् सन्न्यासी अपरेषां दुःखं दूरीकर्तुमागच्छति।
ध्यातुः स्वाभाविकी प्रवृत्तिः प्रायेण रक्षयितुः प्रवृत्तिरिव भवेत्।
पौराणिककथाकाराणां साधूनामियं स्वाभाविकी प्रवृत्तिरासीत्। ते कदापि कुत्रापि वा स्वाभाविकप्रवृत्तिविरुद्धं कर्म नाकुर्वन्। तेषामासीत् ध्यानात्मिकी तथाध्यात्मिकी शक्तिः। तया तेऽद्भुतं कर्म कर्तुं समर्था आसन्। तथापि ते तच्छक्तेः अपप्रयोगं न चक्रुः। ते जनहितायैव अलौकिकं कर्म कृतवन्तः। तेषां कोमलं हृदयं स्नेहभावस्य आश्रयस्थलम्। स्नेहः एव तेभ्यो जनसेवायै प्रेरणां ददाति। स्वेच्छा तिष्ठतु वा न तिष्ठतु वा ते करुणात्मकप्रवृत्तिवशात् जनहितकरं कार्यं साधयन्ति। मुनेः सौभरेः आख्याने स्नेहभावं सहानुभूतिश्च निर्दिश्येते। तद्द्वयप्रभावात् स स्वयं सुन्दरतरुणरूपं धृत्वा पक्षपातहीनव्यवहारेण सर्वासां भार्याणां तृप्तिं विधधाति स्म। स्कन्दपुराणस्य कस्मिंश्चिदाख्याने पुत्राय कार्त्तिकेयाय पार्वत्याः अपूर्वमातृस्नेहोऽस्माभिः दृश्यते। विष्णुपुराणे वयं पश्यामो यत् केन प्रकारेण भगवान् विष्णुः स्नेहात् गरुडस्याचरणं स्वाभाविकमकरोत्।
बौद्धानां मते ध्यातुः सहानुभूत आनन्दः, प्रेम, करुणा च तदैव निर्दोषत्वं व्रजन्ति यदा ध्याता निर्वाणमार्गस्य चतुर्थं पर्यायमौपगच्छति। अस्मिन् पर्याये समवृत्तिता ध्यातुः पक्षे अतीव वास्तविको व्यापारः।
अन्तर्दृष्टिकर्षणेन क्रोधात्, शत्रुभावात्, असन्तोषात् लोभात् च मुक्तिः जायते। पुराणमपि आत्मोपलब्धये ध्यानस्योपरि गुरुत्वं स्थापयति, अन्यविधया प्रचेष्टया प्रयोजनं न भवति।
बौद्धशास्त्रे उपदेशो दीयते यत् आचार्यस्योपदेशैः ध्यातारः तेषामिन्द्रियाणां शक्तिं वर्धयिष्यन्ति। ततश्च समाधियोगेन अन्तर्दृष्टिः पुष्टिं गच्छति। प्रेमसमवृत्तितादीनाम् ईप्सितवस्तूनां सिद्धिः अस्थायिनी। किन्तु यदा ध्याता ध्यानयोगेन अन्तर्दृष्टेः उपरि स्थाप्यते तदा क्रोधतृष्णादिविरोधिभावा स्वत एव दूरं गच्छन्ति।
मन्मयी उपलब्धिः श्रेष्ठत्वस्यासने स्थापिता। यद्यपि बौद्धशास्त्रेषु नवदीक्षितानां कृते तन्मयी प्रचेष्टा उपदिश्यते, तथापि तेषां पक्षे मन्मयी उपलब्धिः अपि उपयोगित्वं व्रजति। अयं व्यापारः सम्पूर्णं नवदीक्षितस्य मानसिकीं स्थितिं तथा जीवनं प्रति तस्य मनोभावमपेक्षते। किन्तु सर्वदैव करुणाकर्षणमवश्यमेव कर्त्तव्यम्।
सत्तासु मनःस्थापने तथा मनःपोषणे करुणाभावस्य अन्तर्भुक्तिस्तिष्ठति। अस्य भावस्य सिद्धौ आनन्दमयः रस आविर्भावति। अन्तर्दृष्टिं विना स्थापनं पोषणं तथा आनन्दानुभवनमिति सहावस्थितमानसिककर्मत्रयं मनसि अपृथक्त्वेन अविभाजनीयत्वेनानुभूयते। अन्तर्दृष्टौ सत्यां मानसिकव्यापारत्रयमदः पृथक् पृथक् प्रकाशते, पृथक् पृथक् च कार्यं करोति। सचेतनमानसक्षेत्रस्य गतिशीलतया अयं व्यापारः सम्भवति। यदा एतत्त्रयं ध्यानयोगेन समन्वितभावेन प्रतिविम्बितं भवति तदा स्थिरपरिवेशस्य क्षणिकता, भङ्गुरता, अस्थिरता च उपलभ्यन्ते। सर्वे विषयास्तदा दुःखमयाः कष्टमयाः स्वतन्त्राः शून्यमया इव योगिनः निकटे प्रतिभान्ति। अस्मिन् पर्याये स्वार्थशून्यः सन् योगी सम्पूर्णां मुक्तिमिच्छति। स तां मुक्तिं पश्यति निर्वाणदशायामेव। तन्निर्वाणं पुनर्जन्मशृंखलात् दूरे तिष्ठति। तदा स सम्पूर्णकरुणायां स्थापितो भवति। इदमेव मूलं तत्त्वं बौद्धदर्शनस्य।
पौराणिकसाधूनां करुणासहानुभूतिमहत्त्वादयो गुणाः आसन्। एवंविधा बहवो दृष्टान्ता अस्माभिः दृश्यन्ते।
साधारणतः, सहानुभवस्य महती अनुभूतिः तीव्रात्मीयताबोधाज्जायते। किन्तु ऋषीणां क्षेत्रेषु स्वत एव तादृशीऽपेक्षिकता फलवती न भवति, यतः ऋषय आत्मानं जानन्ति, जगतः प्रकृतां सत्तां प्रत्यक्षीकर्वन्ति, तथा च ते तेषां पृथगस्तित्वं विस्मरन्ति। फलश्रुतौ ते सर्वाभिः सत्ताभिः सह आत्ममतां स्वीकृत्य अपरानुभूतं दुःखं निजवदनुभवन्ति।
करुणासहानुभूतिसम्पर्कितोऽपूर्वो दृष्टान्तः मत्स्यपुराणे दृश्यते। तत्र कुम्भीराक्रान्तबालकं प्रति शिवभार्याया उमायाः सहानुभूतिः करुणा च प्रतिविम्बिते। राजर्षीणा भरतेनापि अवरजीवान् प्रति करुणा कृता। वयमेतदाख्यानं विष्णुपुराणे पश्यामः।
अभियोजनस्य भावात् क्षमानुभवो जायते - या क्षमा अपराधिनं जनमुद्दिश्य क्रियते। पुराणेषु ऋषिभिः अपराधिनं प्रति दयायास्तथा क्षमायाः प्रदर्शनमधिकृत्य वृत्तान्ता बाहुल्येन दृश्यन्ते।
पुराणानामाख्याने वयं पश्यामो यत् कश्चिदृषिः करुणावशात् उच्चारितमभिशापमपनयति। कूर्मपुराणे कस्मिंश्चिदाख्याने वयं पश्यामो यत् मुनिना गौतमेन उच्चारितशापसम्भूतदण्डस्य ह्रासः कृतः।
एवं वयं पश्यामः - वैदिकस्य तथा पौराणिकस्य दर्शनस्य मतैः सह बौद्धदर्शनस्य मतानां निविडं सान्निध्यं वर्तते। तत् सान्निध्यमुभयोर्दर्शनयोर्मध्ये अन्योन्यात्मीयत्वं सूचयति। उभयोर्दर्शनयोर्मध्ये अस्मिन् चारित्रिके सम्बन्धे सति हिन्दुभिः दशावतारेषु अन्यतमावतारत्वेन बुद्धदेवः स्वीकृतः इति।
----------