Digital Sanskrit Buddhist Canon

वज्रसत्त्वनिष्पादन सूत्रम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

वज्रसत्त्वनिष्पादन सूत्र ( वज्रसत्त्वसाधन)


नमो वज्रसत्त्वाय॥


बुद्धयानाभिसमयगोत्राः प्रावचनिकाः कल्याणमित्रप्रसङ्गाद्वज्रयान्-

मारुह्य कल्पितदेवतायोगसमाधिसमापन्नाः षट्कोटिव्याख्याबहिर्मुखा

वज्राचार्यमाराध्य यथारुतशब्दार्थद्वारेण श्रीगुह्यसमाजमहायोगतन्त्रं

श्रुत्वा बालप्रबोधनार्थं तन्त्रादुद्धृत्य यथाप्राप्तोपदेशानुसारेण कल्पितदे-

वतायोगस्य नानाशब्दरचनाविशेषेण साधनाङ्गान्यपि कुर्वन्ति॥


तत्र केचिद्वज्राचार्याश्चन्द्रवज्रक्रमेण वज्रसत्त्वनिष्पत्तिं कल्पयन्ति।

केचिद्भवोत्पत्तिक्रमेण। केचित्पञ्चाकाराभिसम्बोधिक्रमेण। केचिज्झटितिक्रमेण वज्रसत्त्वनिष्पत्तिं कल्पयन्ति॥


माण्डलेयदेवतास्तु केचित्त्रयोदशेच्छन्ति। केचिदूनविंशति। केचित्पञ्चविंशतिदेवतान्यासमिच्छन्ति॥


एवमस्मिन्तन्त्रे नानाकारणमाश्रित्य वज्रसत्त्वादिदेवतामूर्तिं निष्पादयन्ति। तदनुसारेणापि टिकां पञ्जिकां च कृत्वा विनेयजनेभ्यो देशयन्ति॥


(३)


तत्र वज्रयानाभिप्रसन्नाः श्रद्धानुसारेण तत्तत्सम्प्रदायं प्राप्य श्रुतचिन्ता-

भावनाक्रमेण कल्पितदेवतायोगमभ्यस्यन्ति॥


इममर्थवशं ज्ञात्वा मया श्रीनागार्जुनपादपरम्परया समाजव्याख्या-

तन्त्रानुसारेण षट्कोतिव्याख्याद्वारेण तन्त्रं श्रुत्वा क्रमद्वयमधिगम्य नानाप्रकारोत्पत्तिक्रमाभिनिविष्टानामुत्पत्तिक्रमसाधननिः सन्देहार्थम् आ सप्तदशपटलादस्तव्यस्तवज्रसत्त्वनिष्पत्तिसूत्रं क्रमेणोद्धृत्य मेलापकः क्रियते॥


तत्र तावत्साधनश्रवणानुपूर्वीक्रमः प्रदर्शयते-


मन्त्रावधारणं पूर्वं द्वितीयं न्यासदेशना।

व्यवस्थोलिस्तृतीया तु चतुर्थं तत्त्वदर्शनम्॥


इत्यनेनानुक्रमेण साधनोपयिकां श्रुत्वा वज्रगुरोराज्ञां प्राप्य स्वेष्टदेवतायाः पुरतोऽर्धं दद्यात्। ततः साधको महाटव्यादिमनोऽनुकूलप्रदेशे पूर्वोभिमुखः सत्त्वपर्यङ्केणोपविश्य सर्वसत्त्वेषु म-


(४)


हाकरुणाचित्तमुत्पाद्य स्वपरहितहेतोर्वक्ष्यमाणक्रमेण वज्रसत्त्वपदं साधयेत्। अस्य सूत्रं द्वादशपटले-


महाटवीप्रदेशेषु फलपुष्पाद्यलङ्कृते।

पर्वते विजने साध्यं सर्वसिद्धिसमुच्चयम्॥


इति॥

तदनन्तरं साधकः शून्यताधिमोक्षेण प्राकृताहङ्कारमपनीय झटित्यात्मानं महावज्रधररूपं शुक्लवर्णमधिमुञ्चेत्। अस्य सूत्रं तृतीयपटले-


आकाशधातुमध्यस्थं भावयेद्बुद्धमण्डलम्।

रश्मिमेघमहाव्यूहं बुद्धज्वालासमप्रभम्॥


इति॥


ततः प्रथमपटलोक्तज्ञानप्रदीपवज्रसमाधिन्यायेन वज्रधृगिति मन्त्रमुच्चार्य तेनोक्षोभ्यरूपं कृष्णवर्णं त्रिमुखं षड्भुजमात्मपुरःस्थं दृष्ट्वा पुनस्तं स्वकाये क्षीरोदकन्यायेनानुप्रवेश्येन्द्रनीलवर्णमात्मानं द्वे-


(५)


षवज्ररूपं ध्यायात्। अस्य सूत्रं प्रथमपटले- सर्वतथागत-

कायवाक्चित्तविद्यापुरुषोऽक्षोभ्यमहामुद्रासंयोगपरमपदेन कृष्णसित-

रक्ताकारेण सर्वतथागतकायवाक्चित्तवज्रस्य सर्वतथागतकायवाक्चित्त-

वज्रे निषीदयामासेति॥


एवं द्वेषवज्रसमाधिस्थो मन्त्री दीर्घहूंकारमुच्चार्थ तज्जनित-

यमान्तकादिदशक्रोधान् त्रिमुखषड्भुजान् नानाप्रहरणव्यग्रहस्तान् 

दशदिग्व्यवस्थितान् दुष्टतर्जनतत्परान् विचिन्तयेत्। अस्य सूत्रं त्रयोदशपटले-


क्रोधा द्वेषालये जाता नित्यं मारणतत्पराः।

सिध्यन्ति मारणार्थेन साधकस्याग्रधर्मिणः॥


इति॥

ततो निसुम्भराजमधःस्थाने द्वितीयं निसुम्भराजं निर्मायागत्य

स्वपुरः स्थं किङ्कररूपेणाज्ञां मार्गयन्तं विचिन्त्य चतुर्दशपट-


(६)


लोक्तचतुर्हूंकारमन्त्रेणाज्ञां दद्यात्। तत्रायं मन्त्रः - ओं सुम्भ निसुम्भ

हूं गृह्ण गृह्ण हूं गृह्णापय गृह्णापय हूं आनय हो भगवन्विद्याराज हूं फट्॥


ततो निसुम्भराजं दशदिशो गत्वा देवादिविघ्नाधिपती-

नङ्कुशोनाकृष्य पाशेन गलके बद्धानीय दशक्रोधानां पतिपादयन्तं

विचिन्तयेत्। ततोऽमृतकुण्डलिमुत्तरद्वारे द्वितीयनिर्माणं संस्थाप्यात्मानं दशकीलरूपाकारमभिनिर्माय दशविघ्नाधिपतीनां शिरसि

निपतितं विचिन्तयेत्। ततो निसुम्भराजं व्युत्थाय वज्रमुद्गरेण मन्त्रमावर्त्याकोटयन्तं ध्यायात्। तत्रायं मन्त्रः- ओं घ घ घ घ

घातय घातय सर्वदुष्टान् फट् फट् कीलय कीलय सर्वपापान् फट्

फट् हूं हूं हूं वज्रकील वज्रधरो आज्ञापयति। सर्वविघ्नानां काय-


(७)


वाक्चित्तवज्रं कीलय हूं हूं फट् फट्। अस्य सूत्रं त्रयोदशपटले-


वज्रामृतमहाक्रोधं वज्रकीलं विभावयेत्।

निखनेद्दशदिशाग्रे तु स्फुलिङ्गज्वालसुप्रभम्॥


इति॥


ततष्टक्किराजमन्त्रेण लोहजलाग्निवायुप्राकारचतुष्टयं यथाक्रमं

बाह्यतो विचिन्तयेत्। तत्रायं मन्त्रः- टक्कि हूं जः। ततो भ्रूंकारेणोपरि वज्रपञ्जरं चैत्यमिव लोहप्राकारोपरि व्यवस्थितम् त्र्यक्षरेण च कवचम् हूंकारेण विश्ववज्रमयं भूभागं विचिन्तयेत्॥


एवं दिक्सीमाबन्धवज्रप्राकारपञ्जरादिविधिपूर्वकं रक्षाचक्रं ध्यायात्।

अस्यानुशंसासूत्रं त्रयोदशपटले-


(८)


ध्यानजेन समादानं यत्र स्थाने समाचरेत्।

अनेन ध्यानयोगेन तिष्ठन्बुद्धैरधिष्ठ्यते॥


इति॥


ततो द्वितीयपटलोक्तया बोधिचित्तगाथया रक्षाचक्रं त्रैधातुकं च तथतायां प्रवेशयेत्। तत्रेयं गाथा-


अभावे भावनाऽभावो भावना नैव भावना।

इति भावो न भावः स्याद्भावना नोपलभ्यते॥


इति। इयमपि परमा रक्षा॥


तत आकाशधातुमध्ये यंकारेण धन्वाकृति वायुमण्डलं

हूंकारद्वयेन पार्श्वयोर्वज्रद्वयाङ्कितं विचिन्त्य तदुपरि रंकारेण

त्रिकोणाग्निमण्डलं वज्रद्वयाङ्कितम् पुनस्तदुपरि वंकारेण वर्तुलं

वारुणमण्डलं वज्रद्वयाङ्कितं विभाव्य तदुपरि लंकारेण चतुरस्रं माहे-


(९)


न्द्रमण्डलं वज्रद्वयाङ्कितं विभाव्य मण्डलचतुष्टयं संहृत्य पृथिवीमण्डलमात्रं ध्यायात्। अस्य सूत्रमेकादशपटले-


खवज्रमध्यगतं चिन्तेन्मण्डलं सर्ववज्रजम्।

भ्रूंकारं भावयेत्तत्र वज्रमेघसमावहम्॥


इति॥


एवमाधारमण्डलं निष्पाद्य भ्रूंकारेण कूटागारम्


चतुरस्रं चतुर्द्वारं चतुस्तोरणशोभितम्।

चतुःसूत्रसमायुक्तमष्टस्तम्भोपशोभितम्॥


हारार्धहाररचितं मणिवज्रार्धचन्द्रकम्।

खचितं वज्ररत्नैस्तु द्वारनिर्यूहसन्धिषु॥


कुम्भस्तम्भमहावज्रं क्रमशीर्षस्तु पक्षिणी।

घण्टापताकसंशोभं चामरादिविभूषितम्॥


इति। अस्य सूत्रमष्टमपटले-


(१०)


योजनशतविस्तारं चतुरस्रं सुशोभनम्।

चतूरत्नमयं चैत्यं स्वच्छं प्रकृतिनिर्मलम्॥


इति॥


एवङ्गुणविशिष्टं देवमनुष्यातिक्रान्तं प्रासादवरं पृथिवीमण्डलो-

परि विचिन्त्य चन्द्रसूर्याद्यासनं संस्थाप्य स्वयं प्राकृताहङ्कारमपनीय

झटिति महावज्रधररूपमात्मानमिन्द्रनीलवर्णं त्रिमुखं षड्भुजं दक्षिणे

वज्रं चक्रं पद्मं वामे घण्टां चिन्तामणिं खद्गं सम्पुटयोगेन मध्यमण्डले पद्मचन्द्रासने सत्त्वपर्यङ्केणोपविष्टं विचिन्तयेत्॥


ततः पूर्वे वैरोचनम् दक्षिणे रत्नसम्भवम् पश्चिमेऽमिताभम् उत्तरेऽमोघसिद्धिम् अग्निकोणे लोचनाम् नैरृत्यां मामकीम् वायव्यां पाण्डरवासिनीम् ऐशान्यां तारां गर्भमण्डले प्रविचिन्त्य द्वितीयपुटेऽग्निकोणे रूपवज्राम् नैरृत्यां शब्दवज्राम् वायव्यां गन्धवज्राम् ऐशान्यां रसवज्राम् मध्ये स्पर्शवज्रां व-


(११)


ज्रसत्त्वं समालिङ्ग्य स्थितां चिन्तयेत्। तथा तृतीये पुटे पूर्वप-

ट्टिकायां मैत्रेयं क्षितिगर्भम् दक्षिणपट्टिकायां वज्रपाणिं खगर्भम्

पश्चिमपट्टिकायां लोकेश्वरं मञ्जुघोषम् उत्तरपट्टिकायां सर्वनिवर-

णविष्कम्भिणं समन्तभद्रम् पूर्वद्वारे यमान्तकम् दक्षिणद्वारेऽपराजितम्

पश्चिमद्वारे हयग्रीवम् उत्तरद्वारेऽमृतकुण्डलिम्

अग्निकोणेऽचलम् नैरृत्यां टक्किराजम् वायव्यां नीलदण्डम्

ऐशान्यां महाबलम् ऊर्ध्वमुष्णीषचक्रवर्तिनम् अधो निसुम्भराजं 

ध्यायात्। अस्य सूत्रम् प्रथमपटले-


स्वच्छं च तत्स्वभावं च नानारूपं समन्ततः।

बुद्धमेघसमाकीर्णं स्फुलिङ्गगहनाकुलम्।

स्वच्छादिमण्डलैर्युक्तं सर्वताथागतं पुरम्॥


इति॥


एवं बाह्यमण्डले द्वात्रिंशद्देवतानिर्माणमधिमुच्य पुनरेषां स्व-


(१२)


कायमण्डले स्कन्धस्वभावेन पञ्चबुद्धान्धातुस्वभावेन विद्यादेवता 

रूपादिविषयस्वभावेन रूपवज्रादिका आयतनस्वभावेन बोधिसत्त्वान-

वयवस्वभावेन क्रोधराजान्विन्यसेत्। अस्य सूत्रं सप्तदशपटले-


पञ्च स्कन्धाः समासेन पञ्च बुद्धाः प्रकीर्तिताः।

वज्रायतनान्येव बोधिसत्त्वाग्रमण्डलम्॥


पृथिवी लोचनाख्याता अब्धातुर्मामकी स्मृता।

तेजश्च पाण्डराख्याता वायुस्तारा प्रकीर्तिता॥


रूपशब्दादिभिर्मन्त्री देवता भावयेत्सदा॥


इति। इममर्थवशं ज्ञात्वाह भगवान् सर्वबुद्धसमायोगडाकिनीजाल-

संवरमहायोगतन्त्रे-


(१३)


अतत्त्वाशययोगानां देवतालम्बनं प्रति।

प्रतिबिम्बमयो योगो निषिक्तादिषु जायते॥


सुतत्त्वाशययोगानां देवतालम्बनेन किम्।

आत्मयोगस्वसमयात्सिध्यते परमाक्षरम्॥


आत्मा वै सर्वबुद्धत्वं सर्वसौरित्वमेव च।

तस्मात्सर्वप्रयत्नेन ह्यात्मानं पूजयेत्सदा॥


इति॥


एवं बाह्यमण्डलं कायमण्डलेऽनुप्रवेश्य सर्वतथागतपरमाणु-

परिघटितं स्वकायमण्डलमधिमुच्य पुनः कायमण्डलदेवतान्स्कन्ध-

धात्वायतनस्वभावान् यथानुक्रमेण लिनान्परमार्थमण्डले प्रवेश्य 

तृतीयपटलोक्त-ओं शुन्यताज्ञानवज्रस्वभावात्मकोऽहमितिमन्त्रेण 

धर्मकायं दृढीकुर्यात्। अस्य सूत्रं सप्तमपटले-


(१४)


समयात्क्षरेद्रेतं विधिना पिबेत्फलकाङ्क्षया।

मारयेत्ताथागतं व्यूहं सुतरां सिद्धिमाप्नुयात्॥


एवं शून्यतालम्बनेन सकलक्लेशमलं प्रक्षाल्य तस्मादात्मानं

वज्रसत्त्वमहामुद्रारूपं निष्पादयेदनेन क्रमेण। तत्रायं क्रमः

- परमार्थसत्यात्सूर्यमण्डलम् तदुपरि चन्द्रमण्डलं पुनस्तदुपरि

रक्ताष्टदलपद्मं पद्मोपरि ओं आः हूं इत्यक्षरत्रयमुपर्युपरि

विन्यस्य सर्वं संहृत्य परिपूर्णचद्रमण्डलाकारपरिणतं चित्तमात्रं

ध्यात्वा तस्मिञ्जगत्स्थावरजङ्गममन्तर्भाव्य तृतीयपटलोक्त-ओं धर्म-

धातुस्वभावात्मकोऽहमितिमन्त्रेण स्वचित्तरत्नं दृढीकुर्यात्। इत्ययं 

प्रथमो योगः॥


इममर्थं द्योतयन्नाह संवरे-

ज्ञानमात्रसमापत्तिर्योग इत्यभिधीयते॥


इति॥


ततश्चन्द्रमण्डलोपरि त्र्यक्षरम् तस्माद्वज्रम् वज्रान्महावज्रधर-


(१५)


रूपमात्मानं शुक्लवर्णं ध्यायात्।


वज्रसत्त्वो महाराजा वैरोचनसमप्रभः॥


इति पञ्चदशपटले वचनात्। द्वितीयोऽनुयोगः॥


अस्य सूत्रमेकादशपटले-


त्रिवज्राक्षरमन्त्राग्रैर्महामुद्राविभावनम्।

कर्तव्यं ज्ञानवज्रेण सर्वबोधिसमावहम्॥


इति॥


एवं योगानुयोगक्रमेणात्मानं सम्भोगकायं सम्पाद्य चरम-

भविकवत्सत्त्वार्थं प्रति स्कन्धधात्वायतनानुप्रवेशेन निर्माणकायमात्मानं

निष्पादयेदेनेन क्रमेण। तत्रायं क्रमः - ओंकारं शुक्लवर्णं 

वैरोचनात्मकं मस्तके विन्यस्य रूपस्कन्धं प्रवेशयेत्। एवमाःकारं

रक्तवर्णममिताभात्मकं मुखे विन्यस्य सञ्ज्ञास्कन्धं प्रवेशयेत्।

हूंकारं कृष्णवर्णमक्षोभ्यात्मकं हृदये विन्यस्य विज्ञानस्कन्धं प्रवे-


(१६)


शयेत्। स्वाकारं पीतवर्णं रत्नसम्भवात्मकं नाभौ विन्यस्य वेदना-

स्कन्धं प्रवेशयेत्। हाकारं हरितवर्णममोघसिद्ध्यात्मकं पादयोर्विन्यस्य

संस्कारस्कन्धं प्रवेशयेत्॥


मोहरतीति लोचनां पृथिवीधातुस्वभावेन द्वेषरतीति मामकी-

मब्धातुस्वभावेन रागरतीति पाण्डरां तेजोधातुस्वभावेन वज्ररतीति

तारां वायुधातुस्वभावेन विन्यस्य खरत्वं द्रवतामौष्ण्यं प्रेरणत्वं प्रकल्पयेत्॥


थ्लीं क्षितिगर्भं चक्षुरायतनस्वभावेन ओं वज्रपाणिं श्रोत्रा-

यतनस्वरूपेण ओं आकाशगर्भं घ्राणायतनरूपेण ओं लोकेश्वरं

जिह्वायतनस्वरूपेण हूं मञ्जुश्रियं मन आयतनस्वरूपेण ओं सर्व-

निवरणविष्कम्भिणं कायायतनस्वरूपेण विन्यस्य दिव्यलोचनादीन्प्र-

कल्पयेत्। मैंबीजं मैत्रेयं स्नायुस्वभावेन न्यसेत्। संबीजं समन्तभद्रं

सर्वशरीरसन्धिस्वभावेन न्यसेदिति॥


एवं मन्त्राधिष्ठाने स्कन्धधात्वायतनमापूर्य दीर्घहूंकारान्दश-


(१७)


क्रोधान्भुजाद्यवयवे विन्यसेदनेन क्रमेण- तत्र दक्षिणभुजे यमा-

न्तकम् वामभुजेऽपराजितम् मुखे हयग्रीवम् गुह्येऽमृ-

तकुण्डलिम् दक्षिणबाहावचलम् वामबाहौ टक्किराजम् 

दक्षिणजानौ नीलदण्डम् वामजानौ महाबलम् मूर्ध्न्युष्णीषचक्र-

वर्तिनम् पादयोर्नि सुम्भराजं विन्यस्य दशदिशोऽनुप्रवेशयेदिति।

अस्य सूत्रं प्रथमपटले - महाविद्यापुरुषमूर्तिं सर्वतथागत-

मन्त्राधिष्ठानमधिष्ठापयामास। समनन्तराधिष्ठितमात्रे स एव भगवान्बो-

धिचित्तवज्रस्तथागतस्त्रिमुखाकारेण सर्वतथागतैः सन्दृश्यते स्मेति।

तृतीयोऽतियोगः॥


एवं साधको योगत्रयेणात्मनः प्राकृताहङ्कारमपनीय श्रीवज्र-

सत्त्वरूपं निष्पाद्य पुनर्घटमाननिष्पन्नदेवताविकल्पापनयनार्थं चतुर्थं

महायोगं कुर्यात्। तत्र ओंकारं शुक्लवर्णं मस्तके ध्यात्वा त-

ज्जनितलोचनाव्यूहमाधिपत्यप्रयोगेण गगनकुहरे विचिन्तयेत्।

ततो झटिति वैरोचनव्यूहमाधिपत्यप्रयोगेणान्तरीक्षे दृष्ट्वा द्वादशपट-


(१८)


लोक्तगाथाद्वयेनाध्येषयेत्। तत्रेयं गाथा-


बुद्धकायधरः श्रीमांस्त्रिवज्राभेद्यभावितः।

अधिष्ठानपदं मेऽद्य करोतु कायवज्रिणः॥


दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः।

अधिष्ठानपदं मेऽद्य कुर्वन्तु कायवज्रिणः॥


अध्येषणानन्तरं देवताव्यूहमन्योन्यानुरागणपूर्वकं परमानन्दसुखम-

नुभूय श्वेतश्मिस्वभावेन ज्ञानसत्त्ववद्वैरोचनद्वारेण प्रविश्य ज्ञानभूमिं

प्राप्य समस्तकायमापूर्य प्रीणयन्तं विचिन्त्य सप्तमपटलोक्तगाथया दृ-

ढीकुर्यात्। तत्रेयं गाथा-


यत्कायं सर्वबुद्धानां पञ्चस्कन्धप्रपूरीतम्।

बुद्धकायस्वभावेन ममापि तादृशं भवेत्॥


इति। ततः षष्ठपटलोक्तमन्त्रेणाद्वयाहङ्कारं कुर्यात्- ओं सर्वतथा-

गतकायवज्रस्वभावात्मकोऽहमिति॥


(१९)


वाक्चित्तयोरप्यनेनैव क्रमेणाधिष्ठानं कुर्यात्। तत्रायं क्रमः-

आःकारं रक्तवर्णं मुखपद्मोपरि विन्यस्य तज्जनितपाण्डरवासिनी-

व्यूहैर्गगनमापूर्य पूर्ववदमिताभव्यूहं दृष्ट्वाध्येषयेदनया गाथया-


धर्मो वै वाक्पथः श्रीमांस्त्रिवज्राभेद्यभावितः।

अधिष्ठानपदं मेऽद्य करोतु वाग्वज्रिणः॥


दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः।

अधिष्ठानपदं मेऽद्य कुर्वन्तु वाग्वज्रिणः॥


एवमध्येषिते पूर्ववद्द्वयेन्द्रियसमापत्त्या महारागानलेन व्यूहद्वयं 

द्रवीभूय रक्तरश्मिरूपेण मुखे प्रविश्याशेषवागैश्वर्यमापादयन्तं 

विचिन्त्य दृढीकुर्यादनया गाथया-


यदेव वज्रधर्मस्य वाचा निरुक्तिसम्पदः।

ममापि तादृशी वाचा भवेद्धर्मधरोपमा॥


(२०)


इति। ततोऽनेन मन्त्रेणाद्वैधीकाराहङ्कारं कुर्यात्। तत्रायं मन्त्रः-

ओं सर्वतथागतवाग्वज्रस्वभावात्मकोऽहमिति॥


ततः स्वहृदि वज्रवरटके कृष्णवर्णं हूंकारं विचिन्त्य तज्जनित-

मामकीव्यूहं गगनकुहरे विचिन्त्य पूर्ववज्झटित्यक्षोभ्यव्यूहं चान्तरीक्षे

दृष्ट्वा प्रार्थयेदनया गाथया-


वज्रचित्तधरः श्रीमांस्त्रिवज्राभेद्यभावितः।

अधिष्ठानपदं मेऽद्य करोतु चित्तवज्रिणः॥


दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः।

अधिष्ठानपदं मेऽद्य कुर्वन्तु चित्तवज्रिणः॥


प्रार्थनानन्तरं पूर्ववद्व्यूहद्वयं महारागानलेन द्रवीभूय कृष्णरश्मिरूपेण

हृदये प्रविश्य चित्तैश्वर्यं सम्पादयन्तं विचिन्त्य दृढीकुर्यादनया गाथया


यच्चित्तं समन्तभद्रस्य गुह्यकेन्द्रस्य धीमतः।

ममापि तादृशं चित्तं भवेद्वज्रधरोपमम्॥


(२१)


इति। ततोऽनेनाद्वैधीकाराहङ्कारं कुर्यात्- ओं सर्वतथागतचित्तव-

ज्रस्वभावात्मकोऽहमिति॥


एवं कुलत्रयप्रवेशेन कायवाक्चित्तं पृथगधिष्ठाय पुनस्त्रिवज्रा-

भेद्यस्वभावेन महावज्रधराधिष्ठानं कुर्यादनेन क्रमेण- ओं सर्व-

तथागतकायवाक्चित्तवज्रस्वभावात्मकोऽहमिति। अस्य सूत्रं द्वितीय-

पटले- उत्पादयन्तु भवन्तश्चित्तं कायाकारेण कायं चित्ताकारेण

चित्तं वाक्प्रव्याहारेणेति। प्रथमपटलोक्तसमयोद्भववज्रसमाधिन्यायेन

निष्पन्नत्वात्समयसत्त्व इत्युच्यते॥


एवं त्रिमुखं षड्भुजं समयसत्त्वं निष्पाद्य तस्य हृदये ज्ञानसत्त्वं

द्विभुजं रक्तवर्णं सम्पुटयोगेन सर्वशरीरं प्रीणयन्तं विचिन्त्य स्वमुकुटेऽधिपति ध्यायात्। अस्य सूत्रं द्वादशपटले-


सर्वाकारवरोपेतं स्वकायवाक्चित्तवज्रिणम्।

हृदये ज्ञानसमयं मुकुटे वज्राग्रधारिणम्॥


(२२)


प्रीणनं सर्वबुद्धानामिदं समयमुत्तमम्।

कर्तव्यं समयाग्रेण सर्वसिद्धिकरं परम्॥


एवं समयसत्त्वहृदये ज्ञानसत्त्वं विचिन्त्य ज्ञानसत्त्वस्यापि  हृदये

हूंकारं समाधिसत्त्वाख्यं सततोदयं बृहत्प्रदीपसदृशमज्ञानान्धकार-

विधमनार्थमालोकपुञ्जाकारं ध्यायादिति। अस्य सूत्रमेकादशपटले-


बुद्धमण्डलमध्यस्थं वज्राक्षोभ्यं प्रभावयेत्।

हूंकारं हृदये ध्यात्वा चित्तं बिन्दुगतं न्यसेत्॥


इति। महायोगः॥


एवं योगचतुष्टयेनात्मानं त्रिसत्त्वात्मकं स्वार्थसम्पत्स्वभावं 

समाधिराजाग्रीं निष्पाद्येदानीं परार्थसम्पत्तये मण्डलराजाग्रीसमाधिप्र-

दर्शनाय पीठिकावतार्यते। भगवाञ्छाक्यमुनिः सर्वं कृत्वा तुषितव-

रभुवनादवतीर्य वीतरागरूपमभिनिर्माय श्रावकगोत्राञ्छावकमार्गे

प्रतिष्ठाप्य पुनर्महायानिकबोधिसत्त्वानां पारमितामार्गं प्रकाश्य


(२३)


गम्भीराधिमुक्तिकानां रागजबोधिप्रदर्शनार्थमेतत्। तत्र प्रथमपटलो-

क्तमहारागनयं नाम समाधिं समापन्नस्तथा घटमानयोगिनाप्या-

दियोगं कृत्वा रागचरितसत्त्वानां काममोक्षप्रदर्शनाय सप्तदशपटलोक्तसर्वकामोपभोगसमाधिना विहर्तव्यमनेन क्रमेण। तत्रायं क्रमः -- सर्वलक्षणोपेतां बाह्याङ्गनां मन्त्रतन्त्रसुशिक्षितामादाय पुरतोऽव-

स्थाप्य पञ्चकुलकलापिनीं कुर्यात्। ततो वज्रपद्मसंस्कारपूर्वकं द्वये-

न्द्रियसमापत्तिं कृत्वा बोधिचित्तादक्षोभ्यादिमण्डलचक्रमभिनिर्माय त-

त्तत्समाधिना सत्त्वानां द्वेषादिक्लेशान्विशोध्य पुनरानीय स्वकायम-

ण्डले प्रवेशयेत्। अथ वा स्वहृदयाज्ज्ञानमुद्रामभिनिर्माय तया सह 

समापत्तिं कृत्वा मन्त्रैकनिर्माणात्सत्त्वार्थं कुर्यात्।


हृदयस्था महादेवी योगिनां योगवाहिनी।


(२४)


जननी सर्वबुद्धानां वज्रधात्वीश्वरी स्मृता॥


इति सर्वरहस्यतन्त्रे वचनात्। अस्य सूत्रं सप्तमपटले-


तां षोडशाब्दिकां प्राप्य योषितं कान्तिसुप्रभाम्।

प्रच्छन्ने प्रारभेत्पूजामधिष्ठानपदैस्त्रिभिः॥


ताथागतीं महाभार्या लोचनां वा विभावयेत्।

द्वयेन्द्रियसमापत्त्या बुद्धसिद्धिमवाप्नुयात्॥


इति॥


एवं बाह्याध्यात्मिकमुद्रां निश्चित्येदानीं पञ्चकुलकलापिनीक्रमः 

प्रदर्श्यते। ओंकारं शिरस्याःकारं मुखे हूं हृदये स्वा नाभौ हा पाद-

योर्न्यसेत्। चतुर्धातुस्वभावेन लोचनादीर्न्यसेत्। रूपादिविषय-

स्वभावेन रूपवज्रादीर्न्यसेत्। पुनस्तस्या भुजाद्यवयवेषु क्रोधराज्ञी-

र्न्यसेत्। तत्र दक्षिणभुजे वज्रवेतालीं वामभुजेऽपराजितां मुखे भृ-


(२५)


कुटिं गुह्य एकजटां पुनर्दक्षिणबाहौ विश्ववज्रीं वामबाहौ विश्वरत्नीं 

दक्षिणजानौ विश्वपद्मीं वामजानौ विश्वकर्मीं मूर्घ्नि गगनवज्रिणीं पादयो-

र्धरणीन्धरीं न्यसेदिति। अस्य सूत्रमष्टमपटले-


स्तनान्तरं यावच्छिखान्तमध्ये

चरणान्तरे चापि न्यसेद्विधिज्ञः।

नाभिकटीगुह्य जिनात्मजानां

न्यासं प्रकुर्यात्कुलपञ्चकानाम्॥


इति॥


एवमभिसंस्कृत्य प्राकृतस्त्रीभावमपनीय वज्रपद्मसंस्कारं कुर्यादनेन

क्रमेण। हूंकारेण स्वलिङ्गं पञ्चसूचिकं वज्रं विचिन्त्य मध्यसूचौ प्रणवं

न्यसेदिति वज्रसंस्कारः। आःकारं तस्या धर्मोदये विन्यस्य तज्जनित-

रक्ताष्टदलपद्मं ध्यायादिति पद्मसंस्कारः। अस्य सूत्रं सप्तमपटले-


हूंकारं च ओंकारं च फट्कारं च विकल्पयेत्।

पञ्चरश्मिसमाकीर्णं वज्रं पद्मं च भावयेत्॥


(२६)


इति॥


ततो रत्नसम्भवाहङ्कारवानन्योन्यानुरागणपूर्वकमालिङ्गनचुम्बना-

दिकं कृत्वा षष्ठपटलोक्तमन्त्रेणाद्वयाहङ्कारं कुर्यात्। तत्रायं मन्त्रः

- ओं सर्वतथागतानुरागणवज्रस्वभावात्मकोऽहमिति रत्नसम्भ-

वाधिष्ठानम्। ततो हूंकारगीतमुदाहरन् योषित्कर्मस्थो भवेत्।

क्षरणावस्थायां फट्कारमन्त्रमुच्चारयेत्। ततः कायमाण्डलेयदेवताः पर-

मानन्दसुखमनुभूय नाडीविवराद्बिन्दुरूपेण पद्ममध्ये निपतन्ति। अस्य सूत्रं प्रथमपटले - सर्वतथागतकायवाक्चित्तहृदयवज्रयोषिद्भगेषु 

विजहारेति। एवं बोधिचित्तावस्थायाममोघसिद्ध्यधिष्ठानमधिमुच्य षष्ठप-

टलोक्तपूजामन्त्रेणाद्वयाहङ्कारं कुर्यात्। तत्रायं मन्त्रः- ओं सर्वत-

थागतपूजावज्रस्वभावात्मकोऽहमिति॥


एवं पञ्चतथागतानुप्रवेशेनात्मानमधिष्ठाय समाध्यभिषेकपूजा-

पर्यन्तं सर्वकुलात्मकाहङ्कारं कृत्वा परार्थसम्पत्तये भवोत्पत्तिक्रमेण


(२७)


मण्डलचक्रमुत्सृजेत्। तत्राक्षोभ्यसमाधिना सत्त्वानां द्वेषक्लेश-

विशुद्धिं करोति। एवं वैरोचनसमाधिना मोहविशुद्धिम्। रत्न-

सम्भवसमाधिना मानविशुद्धिम्। अमिताभसमाधिना रागविशु-

द्धिम्। अमोघसिद्धिसमाधिनेर्ष्याविशुद्धिम्। स एव भगवान्लो-

चनासमाधिना सत्त्वानां शान्तिं करोति। मामकीसमाधिना

पुष्टिम्। पाण्डरवासिनीसमाधिना रक्षाम्। तारासमाधिना वश्यं

करोति। स एव भगवान्त्रूपवज्रादिका भूत्वा सत्त्वानां सुखसौमनस्य-

मापादयति। स एव भगवान्क्षितिगर्भादिबोधिसत्त्वसमाधिभिः 

सत्त्वानामायतनविशुद्धिं करोति। स एव भगवान् यमान्तकादिक्रोध-

समाधिभिर्दशदिग्विघ्नगणांस्तर्जयति।


सर्वयोगो हि भगवान्वज्रसत्त्वस्तथागतः।

तस्योपभोगं सर्वं वै त्रैधातुकमशेषतः॥


इति वचनात्। मण्डलराजाग्री नाम द्वितीयः समाधिः॥


एवं द्वात्रिंशद्देवताचक्रमभिनिर्माय सूक्ष्मयोगं बाह्याध्यात्मिकजापं 


(२८)


च कृत्वा पुनरात्मानमेव तथतायां प्रवेशयेत्। ततो लोचनादिच-

तुर्देव्यो मण्डलमध्ये महासुखमपश्यन्त्यो विरहखेदवशात् त्वं वज्र-

चित्तेत्यादिगीतिकाभिर्महासुखं प्रबोधयन्ति। तत्रेयं गीतिका-


त्वं वज्रचित्त भुवनेश्वर सत्त्वधातो

त्रायाहि मां रतिमनोज्ञ महार्थकामैः।

कामाहि मां जनक सत्त्वमहाग्रबन्धो

यदीच्छसे जीवितु म्ह्य नाथ॥


त्वं वज्रकाय बहुसत्त्वप्रियाङ्कचक्र

बुद्धार्थ बोधिपरमार्थ हितानुदर्शी।

रागेण रागसमयां मम कामयस्व

यदीच्छसे जीवितु मह्य नाथ॥


त्वं वज्रवाच सकलस्य हितानुकम्पी

लोकार्थकार्यकरणे सद सम्प्रवृत्त।


(२९)


कामाहि मां सुरतचर्य समन्तभद्र

यदीच्छसे जीवितु मह्य नाथ॥


त्वं वज्रकाम समयाग्र महाहितार्थ

सम्बुद्धवंशतिलकः समतानुकम्पी।

कामाहि मां गुणनिधिं बहुरत्नभूतां

यदीच्छसे जीवितु मह्य नाथ॥


एवं सद्भूतगुणेन सञ्चोदिते सति पूर्वप्रणिधानसामर्थ्याद्व्युत्थितस्य

तथागताश्चाक्षोभ्येत्यादिस्तोत्रराजैः स्तुवन्ति। तत्रेयं स्तुतिः-


अक्षोभ्यवज्र महाज्ञान वज्रधातु महाबुध।

त्रिमण्डल त्रिवज्राग्र भाष गुह्यं नमोऽस्तु ते॥

वैरोचन महाशुद्ध वज्रशान्त महारते।


(३०)


प्रकृतिप्रभास्वरान्धर्मान् देश वज्र नमोऽस्तु ते॥


रत्नराज सुगाम्भीर्य खवज्राकाशनिर्मल।

स्वभावशुद्ध निर्लोप भाष गुह्यं नमोऽस्तु ते॥


वज्रामितमहाराज निर्विकल्प खवज्रधृक्।

रागपारमिताप्राप्त भाष वज्र नमोऽस्तु ते॥


अमोघवज्र सम्बुद्ध सर्वाशापरिपूरक।

शुद्धस्वभावसम्भूत वज्रसत्त्व नमोऽस्तु ते॥


तदनन्तरं बुद्धज्ञानं प्रकाश्य मण्डलचक्रमनुराग्य पूर्ववत्स्वका-

यमण्डले प्रवेश्योपसंहारं कुर्यादनेन क्रमेण। स्वहृदयस्थं हूंकारमु-

च्चार्य तेन सकलसत्त्वधातून्महावज्रधररूपपरिणतान्विचिन्त्य तन्मन-

सिकारेण विहरेदिति। अस्य सूत्रं दशमपटले-


आकाशधातुमध्यस्थं भावयेद्व्यूहमण्डलम्।


(३१)


हूंकारं तत्र मध्यस्थं स्वबिम्बेन प्रकल्पयेत्॥


इति॥


एवमादिकर्मिकेण प्रतिष्ठापितसमयसंवरेणाभिषेकप्राप्तेन प्राकृता-

हङ्कारापगतेन चतुःसन्ध्यादेवतायोगाभ्यासेन स्वपरार्थसम्पादनो-

त्सुकेन शान्तिकर्मादिविशिष्टतरमपि कर्तव्यम्। साधनोक्तक्रमेणा-

हारशोधनं कण्ठशोधनं हृदयशोधनं च कृत्वाहारकृत्यं कुर्यात्

सुखेन परिणमति। बाह्याध्यात्मिकहोमेन त्र्यक्षरेण मालामन्त्रेण वा

मन्त्रौषधियोगेनेनापि पद्मवज्रसमायोगेन च सर्वकर्म प्रसाधयेत्। इति 

कर्मराजाग्री नाम तृतीयः समाधिः॥


श्रीगुह्यसमाजमहायोगतन्त्रे भवोत्पत्तिक्रमेण वज्रसत्त्वनिष्पादनसूत्रं समाप्तम्॥॥


कृतिरियमाचार्यचन्द्रकीर्तिपादानाम्॥॥


(३२)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project