Digital Sanskrit Buddhist Canon

डाकार्णवः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

डाकार्णवः

I


शृणु शृणु बोधिं प्रपञ्चगतं,  न कामयमानमुत्तारकं चित्तं भवति।

मायास्वभावेऽसि त्वं, त्रिभुवनस्य सकलस्य उत्तारको यथा।


(p1-2)


II


इह हि न भावोऽभावो न रागो विरागः संनस्यत्यत्र पुनारज्य।

मध्यस्थितेऽत्र धर्मे न रज्य रज्य वज्रेऽभिन्नधर्मे प्रमोदस्व॥


(p3-4)


III


धर्मधर्मौ यत्र अस्तं गतौ तत्र त्वं बध्नासि बोधौ मनः।

सिद्धः सुरासुरः स हि भवति त्रुट्यत्यायातिगती निजानाम्॥


(p5-6)


IV


प्रथमं वैरोचनो नाथो नांभिस्थितोऽधोगुणयुक्तकः।

उत्तिष्ठतु श्वासो गलपर्यन्तं ह त्रिभुवनदीपोपमो यथा॥


अन्यमन्त्रः स-परो यथा, यावत् शशी वामग्राहणः।

बिन्दुशोभनो हि मन्त्र इतरो मन्त्र इति भण जनयति योगिनीम्॥


(p7-9)


पुनर्द्वयं भनितं भवति ध्यानं मारणं जीवनं दानं हि।

पार्श्वे द्वौ बिन्दू स्थितौ, मस्तेऽथवा बिन्दुः (स्थितः)

य-वर्ग-संस्थितं बीजमन्तम्।

वाहनं महाबोधिमार्गस्येदं शूकरीबीजम्।

आ-कार-कर्णाभरणं षोडशकलार्द्धस्थितरव्याभरणम्॥


(p10-11)


य-वर्ग-प्रथमं बीजं हेरम्बभुवनगुणयोगि,

त्रयोदशस्वरभूषणं शुक्लपक्षककला खलु।

तिलसहितदीप्यमानानन्दश्चतुर्थो हि॥


(p12-13)


य-स्य वर्गस्यान्तं हि सुखरूपम् उ-स्वर-संरोहण-

युक्तकं चन्द्रबिन्दुः (तस्य) शीर्षे लग्नो ज्वाल-

यतु च दिवसं हि। स-पराक्षरम् अनाहो

रव्यासनसंस्थितं चतुर्थस्वरग्रहः कर्णदेशो

भवतु, कलार्द्धचन्द्रबिन्दुना भूषितं मस्तकं रागस्यान्तः स्वभावः।


(p14-15)


ज्ञानाक्षरं द्विगुणितं सम्भरदहरजातम्।

अधोर्ध्वस्थितं (बीजम्) नाथग्रहणं सम्भोगो हि।

धनविधिना युक्तं सन्त्रांसनीबीजम्।

फट् फट् अन्तयिति पुनरपि भणितव्यम्।

द्युतिं हि ज्वालय ( सा द्युतिः) पुरस्य रन्ध्रे वहतु।

द्योतस्व चण्डावति पूरय त्रिभुवनम् (तत्र) बोधिचित्तं भवति।


(p16-18)


V


आदिस्थितिर्वैरोचनः स्वभावो धर्मधातुः कार्यस्य रूपं हि।

त-(वर्ग)- संस्थितं पञ्चमाक्षरं, पञ्चमवर्गो नभसो विश्रयो योगिनीरूपम्।

प-(वर्ग)- स्यान्तं बीजम् औ-स्वरयुक्तकं मोहनाशनं हि

योगिनीवृन्दं स्फुरति च। तस्य पुनर्वर्गस्य

बीजं चतुर्थं त्रिभुवनं व्याप्नोति योगिनीविश्रयः॥


(p19-21)


प्रथमस्य तृतीयं (बीजम्) षड्गतिनष्टककारणं तायिनीचक्रम्।

बोधिबीजं य-वर्गस्यान्तम्। पञ्चमस्य प्रथमं ( बीजम्) तथताया

बीजम् इ-स्वरो मस्ते लगति, जलस्याक्षरम् सञ्चितं सर्वस्य कारणभावः।

च-वर्गस्य मद्यस्थितं ( बीजम्) गृहीतं रव्यासयुक्तकं जलितकर्मविशेषम्।


(p22-24)


वाराही-बीजम् अ-कारः कर्णे लगतु त्रिभुवन-ज्ञान-स्वभावप्रमेयम्।

अग्निक-बीजं द्वितीयस्वरयुक्तकं संसारस्य कर्मणः स्वभावः।

स-परम् (बीजम्) इ-स्वरको लगति शीर्षे सदा ब्रह्मस्वभावो दृश्यते।

द्वितीयस्वरो ग्रहितव्यः तायिनीरूपं सत्त्वोत्तारणं यथा।


(p25-26)


य- ( वर्ग ) स्थितो र-(कारः) युक्तक-अ-स्वरः पुनेरव

इ-(स्वर-युक्तः) धातवस्त्रयः, (तेन) स्फुरति योगिनी।

षष्ठस्य वर्गस्य प्रथमं (बीजम्) योगिनीमन्त्रसकलस्वरूपम्।

र-स्थितम् (बीजम्) अ-स्वर-युक्तं मरस्य दुष्टसत्त्वकारणं भवतु। 

ज-कारः परिगृह्य इ-स्वरं मायाभावसंयुक्तः।


(p27-28)


दन्तस्य बीजम् ए-स्वरोह लगति कर्णे भिन्नम् उरगमन्त्रोऽदः (बीजम्)।

ओ-कारः खलु धातुः सर्वः, ज्ञानविशेषमन्त्रः।

लश्च युक्तको लोकस्याधारो बोधेः कारणधर्मः।

क-पूर्वं  (बीजम्) य-आसनयुक्तकं न खलु मरणस्वभावाभिन्नम्।


(p29-31)


प-स्या (वर्गस्य)न्तं स्वर-अ-संस्थितं त्रिभुवन-म-अतिस्वरूपम्।

त-अक्षरम् ए-कार-भूषितकं सुखावधृतम्,

पुनः प-स्यान्तं मध्यं सहजस्वरूमप्रमाणम्।

स-परम् (तत्र) ई-(कारः) च-युक्तकः वज्रसत्त्वानाशज्ञानम्।

इ-स्वर-युक्तकं य-वर्गस्यान्तम् (तेन) विनष्टकम् अज्ञानस्वरूपम्।


(p32-33)


त्ये-मन्त्रो धर्मस्वभावो व्याप्नोति सकलस्वभावम्।

स-कारो वहति रन्ध्रात्। वहन-बीजं रवियुक्तकं

मकरन्दस्वभावमन्त्रः। प-(वर्ग)- चतुर्थस्थितकं

(बीजम्) स्वर'ऊ'-कारासनं हि भयस्य नष्टकञ्च।

त-मन्त्रो नाशयति शत्रुम्, पुनः प-(वर्ग)-स्य

चतुर्थं (बीजम्) महत् रवरवायते।


(p34-35)


पवनस्य बीजम् आ-कारेण सह लगुतु, मन्त्र इव मणिः।

अप्यं (बीजम्) कर्णे गृहीतं मायारूपम्।

स-परम् ए-कार- युक्तकं हेतुस्त्रिभुवनभ्रान्ते।

प-(वर्ग)-स्यान्तं हि (बीजम्) मज्जास्वरूपम्,

स-परम् अ-कार-युक्तञ्च विस्मितधर्मः।


(p36-37)


य-वर्गस्यान्तं हि पद्माक्षरबीजम्।

च-वर्गस्य मध्यबीजं र-(कार)-स्य मस्तस्थितम्

ए-कारस्तस्य परे लगतु, देवस्यासुरस्य स्वभावः।

एवं मन्त्रषट्पदं हि योगिनीवृन्दञ्च सर्वकर्मस्वरूपं चक्रम्।


(p38)


VI


य-वर्गस्यान्तं हि (बीजम्) बोधि-स्वभावः, द्विजिह्वारेखायुक्तञ्च

आ-स्वर-पतित्वं योगिनीमन्त्रः।

स-आस्थितम् (बीजम्) अचलका।

न-(कारः) ए-(कारः)- युक्तो हि सत्त्वान्यनिमित्तम्।

आधिस्थितः स्वरः प्रथमगुणनाथः, द्विजिह्वा

इ-स्वरो मस्ते लगतु, त्रिभुवनधातुस्वरूपञ्च।


(p39-40)


त-(कारः) ए-(कारेण) सह युक्तो हि।

पञ्चमवर्गप्रथमं (बीजम्) योगिनीतत्त्वस्वरूपं हि।

य-(वर्ग)-स्य चतुर्थस्थितबीजं सकलस्य नारी-स्वभावः।

अष्टमस्य (वर्गस्य) प्रथमं (बीजम्) शून्यस्य भूषितञ्च शुक्रधातवश्च।

द्वितीयवर्गस्थितं प्रथमं (बीजम्) कङ्कालबिन्दुस्थितम्।


(p41)


य-वर्गस्य द्वितीयं बीजम् इ-स्वर-युक्तञ्च वज्रस्याग्निस्थितो नाथः।

त-स्यान्तम् (बीजम्) ए-काराभरणं योनि-सुमण्डितञ्च।


(p42)


त- (कारः) रवि-युक्तश्च ज्वरस्य ध्वंसराजः।

भ-(कारः) रवियुक्तश्च ए-कार-मण्डितश्च नाभेः कुण्डे स्थितः।


(p43)


प-स्यान्तं हि (बीजम्) मर्मरूपम्, ट-स्यान्तं हि

(बीजम्) कर्षणभावश्च इ-मण्डितञ्च।

विशोषणीयमन्त्रो यथा चतुरानन्द-स्वरूपं महानिधि-बीजम्।

रवि-(बीजम्) ओ-कार-भूषितकं रुष्टि-नाडी-स्वभावो हि।

श-(वर्ग)-स्य द्वितीयं बीजं हृदयस्य रूपम्।


(p44-45)


णि-कारः स्वरूपेण गृहीतश्च योगिनीतत्त्वस्वरूपम्।

क-र-अ-संयोगं हि अक्षरं दूरनाडीरसस्य भावोहि।

त-(स्य) प- (स्य) मध्यस्थितञ्च (बीजम्) गृहीत्वा

योगिनीवृन्दकम् अष्टपदं साधनाया एव रूपम्।

त-(वर्ग)- स्यान्तम् इ-कार-भूषितञ्च कपालस्य मध्यनाडीरूपम्।


(p46-47)


क-(अक्षरम्) गृहीतञ्च कर्म क्षयति तच्च।

र-(अक्षरम्) अ-कार-गृहीतं (तेन) शिरसो मध्यात् महारावो मुज्यः।

पार्थिव-बीजम् इ-कार-युक्तं हि त्रिकोणस्य मध्ये (तिष्ठति)।

त-(वर्ग)-स्यान्तं हि (बीजम्) निर्माणाध-ऊर्द्ध्व (तिष्ठति) इ-(कार)- भूषितञ्च।


(p48-49)


त-(अक्षर)-र- (अक्षर)-अ-(अक्षर)-संयोगं हि

बीजं धर्मधातुस्त्रिकोणञ्च त्रिभुवनोत्पत्तिः।

स-(अक्षरम्) गृहीतं हि मध्यमं सहशुक्रम्।

न-(कार)-इ- (कार) - युक्तो हि ज्ञानस्य भावः।

प-(वर्ग)-स्यान्तं हि (बीजम्) अ-(कार)-

भूषितञ्च मायानाभीपद्मम्।


(p 50)


रविः य-स्थितश्च कर्ण-स्वभावः।

ट-(वर्ग)-स्यान्तं बीजं इ-युक्तञ्च,

निखिलाभिन्नसत्त्वं गृह्णाति नाथः।

एवं दशपदमन्त्रः चतुर्युगस्य प्रमाथी सर्वः।


(p 51-52)


प-पूर्वं हि रव्यासनकं प्रथमधर्मः।

तस्य चतुर्थस्थितञ्च (बीजम्) ए-कार-कर्णाभरणं योगिनीमन्त्रः।

त-(वर्ग)- मध्यस्थितञ्च (बीजम्) , (तेन) दयितामर्थः।

न-(कारः) इ-संयोगो हि निर्माथी विश्वस्य।


(p 53)


प-(कारः) प्रपञ्च-सहितश्च र-कार इ-सहितो योगिनी-चक्रवान्।

च-मध्यं (बीजम्) गृहीतञ्च ज-(अक्षरम्) यथारूपम्।

पवन-संस्थितम् ए-(कार)- संयुक्तम् अहङ्कार-स्वभावः।

य-वर्गस्यान्तमिति तृतीयस्वरेण शिरसि

भूषितञ्च विश्वस्य मन्त्रस्य ज्ञान-स्वरूपम्।


(p 54-55)


ज-बीजम् उज्ज्वलरूपमन्त्रः।

य-वर्णः (तत्र) ए-(कार)-स्य योगः सर्वयानस्य दृष्टान्तः।

च-वर्गस्य तृतीयं बीजं ज-(अक्षरम्) तादृशयोगिनीरूपसम्बोधः।

प-(वर्ग)-स्यान्तं (बीजम्) (तस्य वर्गस्य) चतुर्थस्थितासनं 

गुरवः सकलस्य (मन्त्रस्य)।


(p 56-57)


त-मन्त्रस्तृतीयस्वरयोगश्च निःशेषबोधनरूपम्।

उष्मणस्तृतीयम् (अक्षरम्) त-आसनं हि तारयति सजडलोकम्।

स्त-(बीजम्) गृहीतञ्च भुवश्चतुर्द्दशकरूपम्।

नि-मन्त्रो योगिनीसङ्केतकः।


(p 58)


प-(वर्ग)-स्यान्तम् (बीजम्) इ-कारो मुण्डे लगतु

मोक्षरूपम् अज्ञानस्य विश्वस्य।

स-परं (बीजम्) वज्रसत्त्वस्वभावश्च।


(p 59)


नि-कारो धर्माधर्मनिषेधश्च।

य-वर्गस्यान्तं (बीजम्) योगिन्यम्बररूपम्।

ज-(कारः) र-आसनवान् उदयति शुक्रस्वभावः।


(p 60)


पुनः पवनस्यान्तं हि अ-कारः ओजोजातो ब्रह्मणो रूपं पद्मञ्च।

रविः अ-योगोहि अक्षय-स्वभावः।

स-परं (बीजम्) तृतीयस्वरशिरःसंस्थितं योगिन्याः सकलाया आवहति रूपम्।

म-कारो हि मध्यतत्त्वस्य रूपम्।

स-परम् अ-कार-भणितं योगिनीरूपमुखम् उच्चारयति।


(p 61-62)


प-वर्ण ओ-(कार)-मुकुट-मण्डितश्च सहजरूपकस्वभावो हि।

क-(वर्ग)-मध्य-स्थितञ्च (बीजम्) तृतीयस्वरः (तस्य)

शिरसो भूषितञ्च तत्त्वकेतरस्वरूपम्।

गि-कारो निःस्वभावस्य ज्ञानम्।

द्वितीय-वर्ग-प्रथमम् (बीजम्) अ-कार-द्योतितं कामकधातुः।


(63-64)


प-वर्गस्यान्तं हि ए-युक्तं सकलस्य मायास्वभावः।

अन्तःस्थ-बीजस्यान्तञ्च प-वर्गस्यान्तं हि आसनं शुक्रवाय्वभिन्नम्।

पावकस्य बीजम् इ-(कारेण) जटितञ्च सिध्यन्मायावद् रूपञ्च।

क-(वर्ग)-द्वितीयबीजम् आकाशयोगिनी-विम्बम्।


(65)


तस्य पार्श्व-बीजम् ए-कार-कर्णाभरणं सञ्चलमेकलम्।

एवं चक्रं गगन-स्वभावः।

नवपदमिति योगिनीवृन्दस्य अक्षरकं मन्त्र-स्वरूपं त्रैधातुकम्।


(66)


VIII


त-मन्त्रो हि द्विसंयोगः प-स्थिति अग्नि-पवन-बीजं महासुख-रागः।

तस्य ( प-वर्गस्य) द्वितीय-बीजम् अकार-पूरितं महाचतुर्धातुस्वरूपकं हि।

प-(अक्षरम्) र-(अक्षरम्) ओ-(अक्षरम्) च योगं हि

अक्षरं पवन-स्वभावस्त्रीणि।


(67-68)


त- (अक्षरम्) च अं-युतं पुनर्विज्ञानस्य बीजम्।

क-मध्यस्थितम् (बीजम्) ए-(कार)- कर्णाभरणं हि

योगिनी-मुद्रा-स्वरूपम्।

पुनरपि भणितव्यं पदमिति उपायाभिन्नम्।


(69)


स-परो न मन्त्रः पुनरपि भणितम् (पदम्) उत्पत्तिसंहारयोः रूपम्।

प-र-अ-एक-बीजं परमार्थः।

ट-स्यान्तं हि (बीजम्) आ-युक्तञ्च अहनकत उत्पत्तिः।


(70)


त-स्यान्तं हि (बीजम्) प्रमर्दयति सर्वम्।

का-क-न-स्थितश्च तृतीयस्वरस्तृतीये भवति,

बिन्दुकितः, योगिनीसर्वसम्बोधनम्।

तथा ख-ख-(अक्षरम्) न-(अक्षरम्) तृतीयस्थितञ्च,

तृतीयस्वरस्तत्र न भवति, खेदोत्-क्षिप्तकरूपम्।

पुनश्च मन्त्रपदं द्विर्भणितव्यं सकलवितर्कनष्टकञ्च।


(71-72)


य-वर्णो मन्त्रो हि वज्ररन्ध्रस्य शोभा।

च-मध्यस्थितं बीजं रव्यासनसंस्थितं कारयति मोहनाशम्।

स-परम् (बीजम्) अनाहतमध्यम्।

श-वर्गस्य तृतीयं (बीजम्) ह-आसनस्थितम्

ए-कार-कर्णाभरणं डाकिनी-मन्त्रश्च अवरोधनं सर्व इति।


(73)


शोषय-मन्त्रपदं द्विर्भणितव्यं ज्ञान्यहङ्कार-नष्टकञ्च बोधनाबोधन-तत्त्वम्।

एवं द्वादशपदं हि भूमेः (स्वरूपम्) योगिकर्मस्वरूपम्।


IX 


(74-75)


क-वर्ग-द्वितीय-बीजं योगिनीजन-तत्त्वम्।

ट-(अक्षरम्) गृहीतं प-स्यान्तमासनम् अं-स्वर-मुकुट-मण्डितञ्च,

अ-कारेण पूर्त्तकं तस्य (मन्त्रस्य) , षड्गतेः स्वभावकश्च।

क-मध्यस्थितं बीजम्, (तेन बीजेन) विषेण भवत्यालग्नो हि अन्तः।

क-बीजञ्च शून्य-स्वरूपम्।


(76)


र-स्यान्तकम् अ-कार-पूर्त्तकञ्च अग्निज्वालेशानकम्।

धराया बीजम्  (तेन) चलति महाप्रभुः।

त-(वर्ग)- चतुर्थस्थितञ्च (बीजम्) अ-स्वरेण भूषितञ्च

भव-रहित-रूपम्।

रविः इ-संयोगो हि वेतालः।

ट-स्यान्तं हि गृहीतं बीजं तृतीय-स्वरेण शिरसि भूषितञ्च

(तत्प्रभावेण) म्रियते त्रिभुवनं सर्वम्।


(77-78)


प-स्यान्तं हि बीजम् (तेन) मनो निर्ज्ञातं कृतञ्च

स-परम् अ-कार-वचोयुक्तम् (तेन) भज्यते मन्त्रक-जालम्।

म-द्वयं हा-द्वयं भणितव्यं हर हर इति मोह-स्वभावः।

प-बीजम् इ-मण्डितञ्च पि-श्च वर्णः सर्वतथताग्रह-नष्टम्।

स-कार इ-युक्तो हि सिंह-भक्षित-मन्त्रः।


(79)


त-मन्त्रो हि पुनर्हि अमरोत्पत्तिः।

प-स्यान्तम् अ-कारेण भृतकम्, बिन्दुर्मकुटे लगतु, कारणं मरविकल्पः।

स-कारो द्वितीय-स्वरश्च सहितचारी, पूर्वपरिकरः।

श-स्थितञ्च बीजं श्मशानम्।

त-स्यान्तं हि अक्षरम् इ-युक्तकं निःस्वाभावः सर्वः।


(80-81)


प-वर्गस्यान्तं हि (बीजम्) अ-स्वर-पूर्णीकृतं मनसो दुष्टस्य महाग्रहणम्।

न-(अक्षरम्) उ-आसनम् उत्पातयति वितर्कम्।

पवर्गस्य द्वितीयं बीजम्, आ-(अक्षरम्) लगतु शीर्षे चिह्न-स्थितम्

(तत्) साध्यबोधि-(मन्त्रः) , (तत्) अपानः।

त-(अक्षरम्) र-(अक्षरम्) हि द्व्यक्षरं भुवन-मन्त्रो भीषणः।


(82-83)


प-र- अ-एकबीजं त्रयस्त्रिंशदुद्वेग-खेद-नाशः।

य-अन्तं हि दस्त्रं क्रमिकञ्च ज्ञानं पवित्रम्।

ण-(अक्षरम्) आसंस्थितं बीजम् ए-(कार)-

कर्णाभरणं योग्यज्ञानस्य नाशः।

स-(अक्षरम्) अ-(कार)- पूर्त्तकञ्च श्वासस्य प्रसरण-नाशनम्।


(84-85)


न-मन्त्रो हि तृतीयस्वरेण शिरसि भूषितश्च निवर्तितं धर्माधर्म-स्वरूपम्।

ध्येय-योगी ध्यानक-मन्त्रः स्वरूप स्वभावः।

त-स्यान्तं हि (बीजम्) गृहीतञ्च, नगरमिव भात्यभावः।

पवनस्य द्वितीयं बीजम् (तेन) ज्वालनीयो मोह-भावः।

स-कार इ-स्वर-भिन्नकश्च सिंह-महिषक-नाशः।


(86-87)


रवि-संस्थितञ्च (बीजम्) सकलस्य योगिनीराजः।

प-स्यान्तं हि (बीजम्) अ-(स्वर)- भूषितञ्च,

(तेन) मायावी सर्वस्सत्त्वः (निगृहीतः)।

धराया बीजस्य भुषयिता उ-कारः, (एवंविधं बीजम्) लब्धतत्त्वज्ञानम्।

एवं पदानि चतुर्दश हि मारकः सर्वसत्त्वस्याज्ञानस्य।


(88)


X


क-मध्य-बीजं र-आसनम् अग्र एव यापनधर्मः।

तृतीयमस्य बिन्दु-मस्तञ्च।

तस्य द्वितीयाक्षरम् इ-स्वर-युक्तञ्च (तेन) तीर्थिक-योगश्च नष्टः।

त-कारो बोधनम्।

त-वर्गस्य चतुर्थस्थितम् (बीजम्) आ-युक्तकञ्च धारणी बोधिरनन्ता।


(89-90)


र-स्थितं (बीजम्) तृतीयस्वरभूषितकं सकलो हि

(रि-मन्त्रः) योगिनी-हर्ता।

न-मन्त्रो हि इ-भूषितश्च योगिनी-मार्गः।

सुम्भनि-मन्त्र-पदञ्च द्विर्भणितव्यम्-षट्पदं बोधन-तत्त्वम्।

तथा सुम्भे-मन्त्रो योगिनी-पूजा-स्वरूपम्।

हन-मन्त्र- (पदम्) द्विर्भणितव्यं क्षुद्रक-यापन-नाशः।


(91)


प-र-अ-एकाक्षरम् इन्द्रियक-स्वस्व-स्वभावो हि अन्यः।

ण-अ-अं पूर्णमेवं बीजं हि गुणस्य हि मन्त्रः।

स-कारः (तेन) सर्वस्य नाड्येव सन्ना।

व-(अक्षरम्) र- (कार)- सहितञ्च,

प-वन्मत्रपदं प्रवर्तितं गगनस्य।

स-कार-संस्थितञ्च (बीजम्) सर्वरूपम्।


(92-93)


य-अन्तम् हि (बीजम्) आ-पूरितञ्च प्राणवायु-ज्ञानम्।

न-कार-मन्त्रो हि आ-पूरितः (तेन) बोधिर्न कल्प्यते कुत्रापि,

(तत्र) तिलकं मस्तस्य दृष्टम्।

प-अन्तं हि बीजं महामधुरूपं हि।

स-परम् आ-पूरितञ्च (तेन) योगिनीवृन्दपदानतिः।


(94)


प-स्यान्तं हि (बीजम्) आ- (युक्तम्) अं-स्वरक-मुकुट-

मण्डितञ्च सर्वस्य धर्मदेय-स्वरूपम्।

स-कारः सुधर्मः, अज्ञानस्य निग्रहः।

चे-छ-मन्त्रो बोधिसत्त्वः (तेन) गमिता च (संसारे) अनुत्पत्तिः।

त-मध्य-स्थितञ्च बीजं द-(अक्षरम्) (तेन) न भाति अनर्थः।


(95-96)


न-(अक्षरम्) इ-संयोगि निःशेषलोकमरत्वम्।

क्रो-मन्त्र आक्रमः संसारछेत्ता च।

ध-बीजं दलनं सर्वस्य हि सत्त्वस्य हि निष्प्रपञ्चम्।

मू-बीजं मूढञ्च लोकस्य सर्वस्य कर्म।

एवं सहचतुष्पदीमन्त्रश्चक्रनाडिकोत्पत्तीत्यादिः,

जयी जयी यदा च कर्म-कुम्भः।


(97-98)


XI


ति-मन्त्रो हि सहज-स्वरूपम् उपकर्मविशेषो हि सर्वचक्रम्।

दंष्ट्राकरालिनी-मन्त्रो जगतां कर्म-स्वभावः।

म-मन्त्रो हा-मन्त्रो मुद्रिका-मन्त्रः कर्ण-स्वभावः।


(99)


श्रीहेरुकदेवस्याग्रमहिषि-मन्त्र-पदं घ्राण-स्वरूपम्।

सहस्र-शिरे-मन्त्रः स्वरपति-रूपम्।

सहस्र-बाहवे-मन्त्राक्षरं शरीर-रूपम्।

शतशो हि मन्त्रेण एकञ्चक्रम्।

डाकिनी-मन्त्रो मृत्यूत्पत्ति-स्वभावः।


(100-101)


XII

सहस्रानने-मन्त्रो विषयस्य रूपस्य लगनम्।

ज्वलिततेजसे-मन्त्र-पदं मनसो विषयः।

ज्वालामुखि-पदं कायस्य विषयः।

पिङ्गललोचने-मन्त्रश्चक्षुर्विज्ञानम्।

वज्रशरीरे-मन्त्र-पदं काय-विज्ञानम्।


(102-103)


वज्रकासन-मन्त्रो घ्राण-विषय-लग्नः।

मिलित-पदं घ्राण-विज्ञानम्।

चिलिते-मन्त्रः स्वरपति-विषयः

हे-मन्त्र-(पदम्) द्विभणितव्यं शब्द-विषयश्च

शब्दस्य स्वरपतिः, द्वयस्य विज्ञानम्।

एवं मन्त्र-पद-सप्तकम् अर्द्धेन मिश्रितं सर्वस्य मरणं रूपं जनुः।


(104)


XIII


स-परं षष्ठस्वरासनं खण्डेन्दुबिन्दु-मुकुट-मण्डितम् (बीजम्)

द्विर्भणितव्यं वज्रसत्त्वो गुह्यकः (=गुह्यक-रूपम्)।

ख-द्वयं धु-द्वयं मुरु-द्वयं कर्मणो भावश्च प्राणैः समस्थम्।


(105-106)


अद्वैते-महायोगिनिपठितसिद्धे-मण्त्रपदं तच्च कायान्तरूपम्।

द्रेँ -धँ-द्वयं पदम्, ग्रं-द्वयं पदम्,

हे-द्वयं पदम्, ह-द्वयं पदम्, -

क्रोध-दशकाक्षराणि यमादि-बोद्धव्यम्।


(107)


प-वर्गस्य चतुर्थ-बीजम्  ई-(कारः) शिरसि लगतु,

मे-स-मन्त्रः- सकलस्य सन्धिः, स्वभावो डाकिनीनाम्।

एवं द्वादशकमन्त्रपदं हि प्रेतसत्त्वपद-लग्नम्।


(108)


XIV


हस-हस-वीरे-मन्त्रपदानि षट् तथता-बीजं गुणस्यानन्तव्याख्यानम्।

हा-कारश्चतुर्बीजानि, हो-एकम्,

हुँ-द्वयं भणितव्यम्-सप्ताक्षराणि स्वत्व-धातुर्हि चर्मादिः।


(109-110)


त्रैलोक्यनाशनि इति मन्त्रो दुष्टकवाचिको हि।

शत-सहस्र-एककोटि-तथागत-परिवारिते-(मन्त्रः) ,

स-परकं हि ऊ-स्वेरण मण्डितं (बीजम्)

खण्डेन्दुबिन्दुभूषितञ्च, एवम् उपसमाहार्यो मन्त्रः

सकलो हि ह-ऊ-अं-मन्त्र-स्वभावो हि।

एवं मन्त्रपदानि चत्वारि योगिन्युत्पत्ति-जातसिद्धिः।


(111-112)


XV


पुनर्हि स-परं पञ्चस्वरपार्श्वस्थितासनं

खण्डेन्दुबिन्दुभूषणं विधिना तत्त्वबीजम्।

प-पार्श्वस्यितबीजं प्रतनोति योगिनीजालम्।

ट-कार उद्दीपन-मन्त्रः।


(113)


सिंह-रूपे खः-मन्त्रपदं विनायकविध्वंसनमिति।

गज-रूपे गः- मन्त्रः सत्त्व-विघ्नकरश्च।

त्रैलोक्योदरे-पदं वाराहीदूतिसकलोत्पत्तिः।

ससुद्रमेखले-'ग्रस' -द्वयपद-मन्त्रः सागरमेखलामन्त्रकमेखला।


(114-115)


हूं-फट्-कारो डाकिनीप्रभुश्च।

वीराद्वैते-हुं-मन्त्रपदं प्रकेतोत्पत्तिर्यथा योगश्च विज्ञातव्यम्।

एवं सप्तपदमन्त्रः सर्वकर्मकलोकज्ञानभूमोत्पत्तिर्मनो जहाति।


(116)


XVI


हुं-हा-द्वय-महापशुमोहनि-पदं संसारश्च।

योगेश्चरि त्वम्-मन्त्रः शान्तिरूपिणी।

डाकिनी-लोकानां वन्दनि-पदं बोधिनिभानो लोकः।


(117)


सत्यकर्मणि हुं फट्-मन्त्रपदं चतुर्थ्यं दर्शितञ्च।

भूतत्रासनि-पदं तिर्थिक-ज्ञानं नाशयति।

एवं सप्तमन्त्रपदं भिन्नककर्म करोति।


(118)


XVII


प-(कार)- स्यान्तं स-परम् अ-युक्तं हि य- (कार)-

स्यान्तम् ई-स्वर-युक्तञ्च।

एवं न-(कार)- स्यान्तं रेफ-(युक्तम्) , प-(कार) - स्यान्तं

सिद्धे-पदं विद्येपदम्-श्वरि-मन्त्रः।

प-(कार)- पार्श्वञ्च ट-बीजं हुः खण्डेन्दुबिन्दु-भूषणः, 

पुनरपि भणितव्यम्।


(119)


प-पार्श्वस्थितः ट-कारो हुं फट्कारः स्वाहया सह च।

एवं मन्त्रो नाभिस्थितो विधिना स्वधा-नाम्ना सह कथितः।


(120)


XVIII


इन्द्रियविषयो न दृश्यताम्, न भुजो न हि संस्थानादिर्भवति।

सर्वं प्रपञ्चं भावेन गृहीत्वा च छर्दय मोहं परमार्थं प्रविश।


(121)


XIX


रमस्व रमस्व परममहासुखवज्रे, प्रज्ञोपायेन सिद्धिः कार्या।

लोकानां करुणां भावय त्वं सकलसुरासुरेषु बद्धो हि यथा।


(122)


आराधितो महासुखेन बोधिवज्रधरो हि, कः शून्यसमाधौ असि त्वम्।

रामय वज्रं पद्मे अद्य हि निबोधसि येन सह शून्यसमाधौ असि त्वम्।


(123-124)


ज्वालय त्वं प्रभो चतुर्धातुबीजम्, उत्तिष्ठति चण्डाली अवधूतीसज्जा।

त्रिभुवनं दह्यते न दृश्यते कोऽपि, ज्वलति ज्वलति निर्वाणस्वरूपम्।


(125)


डाकिनी सहजरूपेणानन्दति, जरण-मरण-प्रतिभासो न दृश्यते।

इमं बोधं कुरु चित्त जिननाथस्य सत्त्वधातुमुत्तारय मायायाः।


(126-127)


XX


बोधि-स्वभावे सर्वजनः, मोहितो बालः खलु अविज्ञः।

योगिनीतत्त्वे सर्वसारे यो हि स नरो वज्रधरः।


(128)


XXI


श्रुणु श्रुणु त्वं भगिनि हि, सत्त्वधातुस्वभावनिर्मोचनी।

तव सत्त्वस्य भेदो नास्ति, वीरस्य सर्वस्य उत्तारणी॥


(129)


XXII


शू-कारेण जगन्मुदितञ्च, सहजस्वभावतत्त्वं स्मर।

पुनः संसारस्य दुःखं न भवति, यः पशुः स हि बुद्धस्तु जनः।


(130)


XXIII


यम-दूतो योगी असि त्वम्, तत्राजरामरं प्राप्स्यसि पुनर्हि।

मरणं न प्राप्नोति बोधिरनुत्तरः, योगिनी पापेन न पुण्येन युक्ता॥


XXIV


(131-132)


इन्द्रियाणि बोधिसत्त्वजनितानि,

विषयाणां बुद्धत्वं कुरु।

स्कन्धं बुद्ध-स्वभावं धर,

धातून वज्रधरेण धर॥

बन्धो हि गमागमो न भवति,

अमरस्य भावं सर्वं धर।

करुणा-योगेनासि त्वम्,

येन येन परोपकारं कुरु॥


(133-134)


XXV


जगति निमन्त्र्योनुदिवसं प्रभुः, कस्त्वं शून्यप्रवेशगतः।

उत्तिष्ठ करुण-स्वभाव मम, कामयसे महासुखं वज्रधर॥


(135)


शृणु शृणु परोपकारगत, यथा पशुलोको म्रियमाणः।

विकसितं पद्मं कामयस्व मम तथा लोकं सर्वं सुखयेन्॥


(136)


रमस्व रमस्व मयि वज्रधर हि, सहजस्वरूपं न वाच्यम्।

सत्त्वलोकः परं द्वन्द्वं याति, यथा त्वं शून्यं निष्कार्यम्॥


(137)


कारणं सर्वधर्मस्य त्वं हि, क- (स्त्वम्) असि सहजस्वरूपं नगम्यम्।

कामयस्व मां परमार्थेन, यथा त्वं समलोके यासि॥


(138)


XXVI


मण्डलचक्रं महासुखभावम्, (तत्र) द्वादशयोगी, (तत्र) पुण्यं न पापम्।

सर्वं वितर्कं स्वरूपेण मन्यस्व त्वम्, मण्डले तत्र सुखं विजानीहि।


(139)


ईन्द्रियभ्रान्तिं महासुखं मन्यसे, तत् क्षणं परस्य नात्मनः स्वभावः।

विविधरूपं यस्य कुरु प्रघ्नन् त्रिभुवने मण्डलचक्रं स्फुरत्॥


(140)


XXVII


परमानन्दं जगत् महासुखभावम्।

विहर योगिनीचक्रस्वभावे।

अरि रि रि मोहपशुलोको न याति।

सहज-सुन्दरीं गृहीत्वा महासुखे तिष्ठति।

त्रिभुवने सकलो हि जनो बुद्धस्वभावः।

करुणा-युवत्या रमस्व स्वभावे।

अरि यस्त्वं परमार्थं न भावयसि।

तत् त्वं स हि बुद्धत्वं न प्राप्स्यसि॥ अरि॥ ०॥

अन्तर्बहिरेवाभिन्नं हि जानीहि।

लोकस्य सर्वस्य उत्तारणं पारयसि॥ अरि॥ ०॥


(141-142)


XXVIII


केवलं सहजस्वभावो रि दिश्यते, नम सुरासुरत्रिभुवननाथं हि।

ईन्द्रियलोको न जानाति कुत्र परममहासुखं पूजय गाथया॥


(143-144)


सर्वकर्म यथा भावस्य रूपम्, भवो निर्वाणं न दृश्यते कुत्र।

मायामोहेनासि नाभौ, सत्त्वकयानमद्य नाशयति कुत्र॥


(145)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project