Digital Sanskrit Buddhist Canon

अभयपद्धति

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

अभयपद्धति


9 चर्यापटल


1 उभयक्रमामुखीभवेऽपि नान्तरेण चर्यां

महामुद्रासिद्धिर् इति चर्यापटलम् आह- अथेत्यादि।


2 कायावाङ्मनसां विशिष्टो व्यापारश् चर्या। अतिक्रान्तशाश्वतो-

च्छेदाद्यन्तत्वेन चर्यान्तरोत्कृष्टवाद् अत्यन्तवरा, लोकाति-

क्रान्तत्वेन गता। क्वचिद् अत्यन्तवराङ्गनाम् इति पाठः, तदा

ताम् आदायेति शेषः।


3 न चेयम् औद्धत्यात् सहसैव कर्तव्येत्य् आह-

अष्टसिद्धीत्यादि। पातालाञ्जनपादलेपगुडिकान्तर्धा-

नखड्गरसरसायनसिद्धयः, अष्टश्वर्यगुणा वा। अनेन

लब्धसामर्थ्यस्य सत्याम् इच्छायां चर्यानुज्ञाता। यतोऽयं

योगरुचिर् अप्रमत्तो भवति, प्रत्यर्थिकाश् चैनं न प्रस-


(१)


हन्ते, निग्रहानुग्रहसमर्थश् चैषां भवति, शीतातपादि-

भिश् च नाभिभूयते।


4 आष्टलोकधर्मादिभिर् अबाधितत्वात् सर्वावरणविनिर्-

मुक्तः, यस्माद् आकाशतुल्यतां गतः , सर्-

वधर्मसमतैकरसः।


5 शून्यताभावम् इति, भिक्षाप्रार्थनसमये दातृभिर् नेति

प्रतिषेधे कृते सर्वधर्मपरमार्थशून्यताभावनां कुर्यात्।

भावनेत्य् उपायभावना।


6 अनुत्तरं प्रज्ञोपायाभिन्नम्। धर्मपरायणं तस्मिन्न्

अद्वयधर्मे निरन्तराभियुक्तः।


7 द्रव्येत्यादि। यथामिलिताहारपरितुष्ट्या यथारु-

चिदेशकालावस्थाविशेषेष्व् अभ्यासविशेषतो योगस्य 

निरन्तरप्रवाहितया प्रदीपकलिकया चिरसंचितगुहातिमिरम्

इव चिररात्रसंचितम् अपि महान्तं विकल्पदोषसंघातम्

अपहृत्य महामुद्रां साक्षात्कुर्याद् इति समुदायार्थः।


8 चर्यायोगयुक्तस्येति प्रथमार्थे षष्ठी।


9 तन्त्रे द्वादशसाहस्रिके बुद्धकपालतन्त्रे। 


(२)


10 सहावें शुद्धेति। यदि स्वरूपेण शुद्धं जगत् तदा

सर्व एवायत्नतो महामुद्रां प्राप्नुयुः किं योगाभ्यासेन। 

ननूक्तं वियप्पें णासि इति। अत एवोक्तं ज्ञानपादैः-


प्राकृतविकल्पवृत्तेर् अपरं न हि किंचिद् अस्ति

भवदुःखम्।

तस्य विरुद्धं चैतत् साक्षाद् अवगम्यते

चेतः॥


इति।


अभयपद्धत्यां नवमः पटलः॥


(३)


10 दिव्यमहौषधिवन्ध्यास्नानविधिपटल


1 परानुग्रहपरस्य तदुपायं वक्तुम् आह-

अथेत्यादि। सत्त्वार्थैकसुनिश्चयम् इति सत्त्वानाम् अर्थ एकः

सुष्ठु निश्चीयते यस्मिन्। हेम कायति प्रकाशयतीति हेमकम्।


2 प्रवालस्य, प्रवालम्। येनेति हेम्ना। मुक्तादिभिर् धनैर्

धनवन्तो यान्ति भवन्ति। न ते, तस्य हेम्नो न बाह्या

ओषध्यस् तन्त्रान्तरोक्ता इत्य् उद्देशं निर्दिशति न चापीत्यादि।

अपरलोहस्येत्य् अपरलोहम्। किंतु सिद्ध्यौषधिर् आन्तरी।


3 रजस्य, रजः।


4 के ते, का सा।


(४)


5 पठितसिद्धेति पठितोऽन्तर्जल्पेन सिद्धो मन्त्रो यस्याः सा

तथा। 


6 स चेति सा च सिध्यति। भाजने, प्रज्ञापद्मे दिव्यम् 

औषधम्।


7 रसम् इति बोधिचित्तम्, मध्ये पद्मस्य, रसं नयत्य् ऊर्-

ध्वस्थानाद् अध इति रसनीर् अवधूती, तस्यां तिष्ठति।


8 तारुण्येति तरुणी षोडशवर्षा। स चेति सा च।

तथागतो, बुद्धकपालयोगिनः। निर्घृणस्य, निर्घृणाः,

घृणासम्भवस् तु रजोयोगात्।


9 न सिध्यतीति प्रज्ञोपायशुक्रयोः समसमये च्युतिः

सिद्धिनिबन्धनम् इति भावः।


10 बुद्धानाम्, नायकपदम् इति संबन्धः। क-

तिपयक्षणधारणेन समं च्युत्यापि महौषधी हेम

साधयति, निरवधिधृता तु महासुखमयं बुद्धत्वम् इति

तात्पर्यार्थः। धीरश् चोदयेत्, ततः सा महौषधी कार्यं

कार्या।


11 चन्द्रम्, शुक्रम्। आलेपितम्, रक्तेनापि। तत्र, चन्द्रे।

मेरुः, सुंकारः।


(५)


12 कार्याम्, समापत्तिम्। निक्षेपयेत्, निक्षेपं कुर्यात्।

वस्तु, बोधिचित्तम्। वामदक्षिणम्, नाडीद्वयम्। आकुञ्-

चितम्, क्रियाविशेषणम्। आकुञ्चनं च शीघ्रच्युतिवारणोपा-

य उक्तः, किंतूपदेशतः स्फुटं ज्ञातव्यः। तथा हि नाभाव्

आकुञ्च्य प्राणापानौ यथोपदेशं चित्तस्थैर्याद् वशीकृत-

चित्तवृत्तेर् बोधिचित्तस्य स्वस्थानच्युतिबहिरक्षरतावृद्धयः

क्रमशो भवन्ति। तद् एवेह वाजीकरणम्। हेमादिरुचेस् तु क्ष-

रति, अत एवाह- सहेति युगपत् प्रज्ञा चोपायश् च निक्षेपयेत्।

सह ताम्रपलं वस्त्व् इति कश्चित्। पाशे, प्रज्ञाया वामपार्श्वे।

पद्मान्तर् इति कश्चिद् निर्दिशति।


13 पश्चात् कर्मेति समापत्तिम्। सुमेर्व् इत्यादि, प्रथमार्थे

षष्ठि, बीजराजो ह्रीःकारः।


14 गुडा,  ताम्रगुडकम्, प्राज्ञो देवतायोगवान्, हृदयादि-

मन्त्रै रक्षां कुर्यात्। अयम् अर्थः-स्वयं भगवद्-

रूपो भगवतीरूपयुवतीसमालिङ्गितः स्वहृदये बोधिचित्तं

चन्द्रमण्डलाकारं निखिलसिद्धरसेन रक्तेन च

मिश्रितं तदुपरि सुंबीजं तदुपरि ह्रीःकारं विचिन्त्येदं

त्रयं महारागेण द्रावितसमरतोत्पन्नबोधिचित्तेन सह

द्रुतं मिश्रीभूय पद्मे पतितं प्रज्ञाबोधिचित्तरजोभ्यां


(६)


मिश्रितं तेनोष्णेन ताम्रं लोहं वा शीघ्रं लेपयित्वाग्नौ

निक्षिपेद् इति।


15 न च बुद्धोऽप्रमाणं, तस्माद् इदम् इत्यादि। यद् यद्

वस्त्व् इति, उक्तं वक्ष्यमाणं च।


16 अप्रमाणम्, अप्रमाणाध्यारोपम्। न हीयन्ते, न त्याज्यन्- 

ते नरकात्।


17 चतुर् इत्यादि। चतुरशीतेर् धर्मस्कन्धसहस्राणां र-

हस्यं निरुत्तरम् इदं योगिनीतन्त्रम्।


18 हेम तारोऽपीति ताम्रं हेम भवति, कान्तलोहं तारम्,

इदम् एवोष्णं शुद्धरसरक्तिकया सह प्रत्यहं षण्मासं

नस्यं कुर्यात्। अस्यानुशंसः, जीवतीत्यादि।


19 संयोगे, वज्रपद्मयोः।


20 चत्वार इति विजयकलशस्य प्राधान्येनानुक्तसिद्धत्वात्॥


21 अत्र कलशाधिवासनं यथोक्तं चतुर्थपटले विशेषम्

आह- आत्मन इति आत्मानामिकारक्तेन वन्ध्यायाः प्रधान-

धातुमिश्रेण।


22 कृष्णरक्तमहाघोरम् इति कृष्णश् च वर्णो रक्तश्

च ताभ्यां महाघोरः। कृष्णो भगवान् रक्तचित्-

रसेनालिङ्गित इहाष्टदेवीप्ररिकरित इत्य् अर्थः। केचिद् गुरवस्


(७)


त्व् आहुः- कृष्णश् चेषद्रक्तश् चेति निष्प्रज्ञ एवेति। अयम्

अर्थः- इहाचार्यः सपरिकरहेरुकात्मा यथाविधिवर्तित-

मण्डलस्य पटमण्डलस्य वा पञ्चोपचारपूजितस्य प्राग्-

द्वारे दत्तदशदिग्बलिः पञ्च कलशान् रक्तप्रधानधा-

तुम्रक्षितान्तर्मुखान् अधिवास्य वन्ध्यां मण्डलाभि-

मुखीं रजोऽनन्तरम् ऋतुस्नानकाले स्वयम् उत्थाय प्र-

थमं विजयकलशेन हृदयमन्त्रं हूंकारं च साटो-

पं पठन् स्नापयेत्। तदैव हृद्बीजकिरणाकृष्टापरिम्-

इतवीरवीरण्यः करकिसलयावर्जितबोधिचित्तपूर्णकलशैः

स्नपयन्ति। तदैव च चतुर्भिश् चण्डपुरुषैर् निष्प्रज्ञै-

कात्महेरुकरूपैः खड्गधरैर् युगपद् आकाशं खड्-

गेन हन्यते ग्रहादिमाराणां मारणाशयेन। एवं क्रमेणा-

परकलशैः स्नपयेत्, तदनु कामयेत्, ततः सा सुतगर्भवती

भवेत्। एवं मृतपुत्रा जीवत्पुत्रेति।


अभयपद्धत्यां दशमः पटलः॥


(८)


11 विद्याधरकरणोपदेशनिश्चयपटल


1 विद्याधरकरणं निर्देष्टुम् आह-

अथेत्यादि।


2 चतुर्थपटले शालिकाकरणविधेः पूर्वं सर्वम् अत्र

बोद्धव्यम्। विशेषम् आह-

अनेनैवेति वक्ष्यमाणेन।


3 दष्टकेत्यादि। कालेन दष्टको भूतः सर्वगारुडिभिर्

अशक्त्या कालदष्ट इति त्यक्तो यदा तदा कर्मारभेत्॥


4 शुक्लदेहा त्व् इति भगवान् दिग्देव्यश् च शुक्लाः, विदिग्देव्यो

रक्ताः। विधिवद् इति समाधित्रयनिष्पादेनेन॥


5 खड्गं पिष्टशालिमयम्।


6 तस्य विद्याधरद्वयस्य। लिखेत् क्षिपेत्। पत्रे भूर्जादौ।


7 पल्लवेन श्वेतकरवीरस्य।


(९)


8 एकस्मिन्न् इत्य् एको विद्याधरः। पतति दष्टोपरि। तदैव

दष्ट उत्तिष्ठति।


9 एवं शालिकीकरणम् उदककरणं विद्याधरकरणं

च निर्दिष्टम्। अपरपञ्चदशकरणानि द्वादशसाहस्रिके

बुद्धकपालतन्त्रे निर्दिष्टानि ज्ञेयानीति।


अभयपद्धत्याम् एकादशः पटलः॥


(१०)


12 नानामन्त्रप्रयोगपटल


1 अञ्जनसिद्धिम् उद्देष्टुम् आह-

अथेत्यादि।


2 प्रधानभूता चतुर्विंशतियोगिनीनाम्।


3 दृष्टा दृष्टानि। य इति येषु। न भाषितं तन्त्रान्तरेषु।


4 महाभागा प्रशस्या निरावरणबलवैशारद्यादिमहागु-

णभजनात्। सत्त्वार्थतात्पर्यात् परार्थसम्पद् उक्ता।

हेत्ववस्थास्वरूपत्वात् सर्वबुद्धजननी। फलरूपत्वान्

महामुद्रा। योगी योगिनः।


5 सर्वे सर्वैर् आश्चर्यं प्राप्तम्। हासस्य शक्तिनिश्चयं

प्राप्येति शेषः।


6 ध्वजं ध्वजम् इव मनुष्यम्। कुण्डं त्रिकोणम्।


7 तत्रैव कुण्डे। शिरसा शिरसि कपाले। तस्य मांसस्य।


8 अपरोऽपरस्मिन् कपाले।


(११)


9 विघ्नस्येति विघ्नाः। कज्जलम् इति निःशेषम्।


10 पिवयेद् इति स्वयम्।


11 पिवापयेद् इति प्रज्ञाम्।


12 इह बुद्धकपालयोगी श्मशानेऽवलम्बितमानुषस्य क-

ट्यस्थिकृतत्रिकोणकुण्डोपरि तत्कपाले तत्कटिमांसतैलपूरिते

श्मशानकर्पटवर्तीं श्मशानवह्निज्वलितां संस्थाप्योपर्य्

अपरावलम्बितनृकपाले कज्जलं मन्त्रं जपन् पातयेत्, तत्क-

ज्जलम् अस्पृष्टभूमिकं प्रथमं करद्वयेनादाय तदनु

वामकरे संस्थाप्य पीतकेलिमालिनीं कन्याम् अक्षतयोनिं

रजःप्रवाहवतीम् अधिमुक्तचित्रसेनारूपां शनिः कामयि-

त्वा रजोमिश्रोभयबोधिचित्तस्य किंचिद् उभाभ्याम् आस्वाद्य

भूयसापरांशेन सह मर्दयेद् दक्षिणानामाङ्गुष्ठाभ्याम्

। ततस् तस्या एव रजसाष्टोत्तरशतानि विटिकाः कृत्वा प्रतिवटिकम्

अष्टोत्तरशतेनाभिमन्त्र्य मन्त्रं पठंस् तेनाक्षिणी अञ्जयेद्

इति समुदायार्थः।


13 अनेनैवेत्य् अस्याञ्जितेत्यादिना संबन्धः। महाबाहो

वज्रपाणे निखिलसत्त्वसंतर्पणप्रवणभुजत्वात्। योगिनी

परं योगिनीतन्त्रेऽत्र परं सुलभम्।


(१२)


14 अनामाङ्गुष्ठेनेति दक्षिणेन। एवम् उत्तरत्राञ्जने

दक्षिणव्यापारः।


15 भद्र इति चक्षुर्मलनाद् अनञ्जितनेत्रावस्थ इव भवेत्।


16 सप्ततालप्रमाणो भवत्य् अतिवृष्टिनिवारणार्थः।


17 महात्मन इति प्रभावाद् इति शेषः।


18 स्वरूपपरिवर्तनस्येति प्रथमार्थे षष्ठी।


19 प्रयोगेति प्रयोगा विद्याधरत्वादिनिष्पत्तये लघुतन्त्रे

नोक्ता विस्तरे तूक्ता ज्ञातव्या गुरुवक्त्रात्।


20 मन्त्रजापविशेषेऽक्षसूत्रविशेषं वक्तुम् आह-

अथेत्यादि।


21 हस्त्यस्थिकेन हस्त्यस्थ्नाभिचारार्थं जपेत्।


22 महास्थि न्रस्थि।


23 शकुनास्थि गृध्रास्थि।


24 लोहकेन लोहाक्षसूत्रेण।


25 सर्वोऽयम् उत्पत्तिक्रमपक्षेऽपि प्रपञ्चस् तथा तथा

विनेयजनानुरोधाद् उक्तः, उत्पन्नक्रमे तु किम् अनेनेत्य् आह

-

चित्ते एक्क्व् इत्यादि। चित्तम् एवैकं निर्मलादर्शस् त्रैधातु-

कस्य, तेन हि यच् चिन्त्यते तत् प्रतिबिम्बम् इवाभाति, सर्वं

चेदं चित्तसमारोपितम्, तच् च चित्तं परमार्थतः स्वप्न-


(१३)


रूपं सर्वप्रपञ्चवर्जितम्, ये न जानन्ति मूढास् ते सन्त्व्

अविकलविकल्पमहिमानः, येऽपि च श्रुतादिना जानन्ति तथापि

त एवंविधविकल्पेन गृह्यन्त इति निष्प्रपञ्चतत्त्वभाव-

नायाम् उद्योजनाकूतेन करुणायितम् इति।


अभयपद्धत्यां द्वादशः पटलः॥


(१४)


13 चित्तविशुद्धिपटल


1 क्रमद्वयेऽपि तत्त्वम् एव सर्वावरणमलविशुद्धिर् इत्य् आह

- अथेत्यादि।


2 विशुद्धिपटलम् इति विशुद्धं तत्त्वं विशुद्धिः, न तु

तत्त्वमात्रं विशुद्धिः, तत्त्वस्य सर्वत्र सर्वदा च भावात्

सर्वेषां सर्वदा च विशुद्धिप्रसङ्गात्।


3 तत् पुनर् असुकरम् उपायतत्त्वम् अन्तरेण साक्षात्कर्तुम् इति

यथा तद् उपायोपेतं वज्रयानाश्रयेण साक्षात्कर्तव्यं तद्

दर्शयितुम् आह- भगिनीत्यादि।


4 यथारुतम् अधिमात्रस्य। अथवा भगिनी

वज्रयानसमारुढा। तत्तनया भागिनेयी। अभिषेकदायिका

जननी। दुहिता वत्सला तत्स्थानीया वा।


5 प्राज्ञो विशुद्धिज्ञानात्।


6 महामुद्राम् इति साक्षात्कर्तुम्। अनेनोपेयतत्त्वम् उक्तम्।


(१५)


7 डोम्बिनी ध्यानप्रिया। नर्तकी पटुप्रचारा। धोव्-

विणी शुक्लधर्मरता। चण्डालिनी निहतमानत्वात् क्षमाशीला।

त्रिवज्रशरीरशुभसंस्काररता चर्मकारिणी।


8 अध्यात्मं तु प्रज्ञा भगिनी ललना। भागिनेयी रसना

। जननी अवधूती। पूर्वयोर् उत्तरया गुरूपदेशात् संयोगो

दुहिता, तासाम् एव प्रज्ञोपायाद्वयस्वभावानां तिसृणां

नाडीनां संयोगाद् उत्पद्यमानं महासुखं भार्या, तद् 

उक्तम्-


तत्सुखं कामिनी स्मृतम्


इति।


9 शब्दविज्ञानं डोम्बिनी। रसविज्ञानं नर्तकी।

स्पर्शविज्ञानं धोव्विणी। घ्राणविज्ञानं चण्डालिनी।

चक्षुर्विज्ञानं चर्मकारिणी।


10 नीतार्थस् तु निरुत्तरा प्रज्ञा भगिन्यादिका प्रथम-

पटले व्याख्याता। पुण्यज्ञानसंभाराभ्यां भ्रियत इति

भार्या। शून्यतैकरसत्वाद् आगन्तुभिः सर्वप्रपञ्चैर् 

अस्पृश्यत्वेन डोम्बिनी। भवनिर्वाणाप्रतिष्ठितत्वेन 

कुत्रचिद् अप्रतिष्ठिततया चञ्चलत्वात्, विचित्रमायारूपनिर्मा-


(१६)


णैर् विनेयेषु नर्तनाच् च नर्तकी। मृदुमृद्वाद्यधिग-

मक्रमेणाधिमात्राधिमात्रादिसवासनावरणमलधावनाद्

धोव्विणी। चण्डा प्रज्ञा उत्पन्नस्वरूपनिरूपणम्, आलिर्

महाकरुणा, ते निरतिशयपदं नयतीति चण्डालिनी। द्वाद-

शभवाङ्गानुगताविद्याचर्मपाटनाच् चर्मकारिणीति निरुत्त-

रा प्रज्ञा।


11 बाह्यानाम् आध्यात्मिकानां च प्रज्ञानाम् एतेषाम् एव निरुत्-

तरप्रज्ञागुणानाम् अनुकरणात् प्रज्ञात्वम् अनुगन्तव्यम्। अत

एव वक्ष्यत्य् अशुद्धचित्तशोधनाद् इति।


12 एतेनोत्पन्नक्रमे बाह्यप्रज्ञा कर्ममुद्रा। अध्यात्म-

प्रज्ञा धर्ममुद्रा। निरुत्तरप्रज्ञा महामुद्रा, अनयैव

शुद्धिनिष्ठाधिष्ठितत्वात्। धर्ममुद्रा धर्मकायः,

महासुखचित्तस्वभावत्वात् तस्य। कर्ममुद्रासंपुटितं

तु लक्षणव्यञ्जनविराजितं वपुः संभोगकायः।

निरवधिविचित्रानन्तमण्डलचक्राद्याकारनिर्माणं

भव्यविनेयजनानुग्रहवेलानतिक्रमणात् समयमुद्रा,

निर्माणकायश् च। महामुद्रा तु व्यापिनी स्वाभाविकः कायश्

चतुर्थः।


(१७)


13 अथवा महामुद्रा लक्षणव्यञ्जनो-

ज्ज्वलभुजमुखचिह्नाद्युपेतरूपः संभोगकायः।

समयमुद्रा चित्तस्वभावः प्रत्यात्मवेद्यो धर्मकायः,

समयो हि संबोध इति कृत्वा। धर्ममुद्रा धर्मसं-

भोगकायाधिष्ठानान् नानाकारा धर्मतत्त्वप्रकाशनवागात्-

मिका। कर्ममुद्रा कृत्यानुष्ठानरूपत्वान् नानानिर्माणैः

कृत्यसंपादनान् निर्माणकायः।


14 उत्पत्तिक्रमे तु बाह्यप्रज्ञैव भाविताभिमतदेवीरूपा

कर्ममुद्रा, स्वाभाङ्गना ज्ञानमुद्रेत्य् अपरनामा। शरीरे

भावितहूंकारादिश् च धर्ममुद्रा। समयमुद्रा तु

बीजादिनिष्पन्नमण्डलचक्रे मिलितदेवताः स्फरणसं-

हरणादिकारिण्यश् चिह्नम् अपि। स्वयं नायकदेवतामूर्तिर्

महामुद्रेति सूचितम्।


15 आध्यात्मिकप्रज्ञाम् एवेन्द्रियक्लेशविषयरूपां वक्तुम् आह

- अथेत्यादि।


16 रसम् इति रसना।


17 मनम् इति मनसोपलक्षितम् इह कायेन्द्रियम्।


18 भगिनी कथं भवेद् रूपम् इत्यादिवक्ष्यमाण-

वचनाच् चक्षुरादीनाम् उपलक्षणत्वेन रूपादिविषया अपि

भगिन्यादिरूपा ज्ञेयाः।


19 येनेति यद् रूपं तन् मोहहेतुत्वान् मोहः। अपेः


(१८)


संबन्धाद् द्वेषादिर् अपि। रागं रागोऽपि। मानं मानो

ऽपि। ईर्ष्यापि। रूपादयो विषया मोहादिजनकत्वान् मोहा-

दिव्यपदेश्याः, न तु तत्त्वत इत्य् अर्थः।


20 चित्तस्येति चित्तस्यैवाम्य् अवस्थाविशेषाश् चक्षुर्मो-

हरूपादयः, चित्तं चाशुद्धम् एव मोहादिमलैः, ततश्

चक्षुरादयोऽप्य् अशुद्धा इत्य् अभिप्रायः।


21 कथं तर्ह्य् एषां भगिन्यादिप्रज्ञात्वम् उक्तम् इत्य् आह-

तस्माद् इति। यस्माद् एते विशुद्धा एव प्रज्ञाः, चित्तविशुद्धिर्

एवैषां विशुद्धिस्, तस्माच् चित्तं विशोधयेत्।


22 क इत्य् आह- महाप्राज्ञ इति। महती प्रज्ञा

महामुद्रा तद्भावकः, तयैव निखिलमलक्षालनात्।

अत एवाहात्यन्तयोगचेतस इत्य् अतिक्रान्तभावाभावाद्यन्तप्र-

ज्ञोपायाद्वयैकरसः।


23 यद्य् एवं न भावयेत् तदा सिद्धिर् महामुद्रासिद्धिर् न

भवेत्। यदा त्व् आदरेण निरन्तरभावनया स्वसंविदितम-

हासुखमयी शुद्धिर् एव भवेत् सिद्धिर् इहैव मनुष्यजन्-

मनि।

क्षणम् अप्य् अन्यचेताः सन् न तिष्ठेत् 

सिद्धिकाङ्क्षकः।


(१९)


इति भगवद्वचनाद् आदरेण निरन्तरभावनामयपुण्यज्ञा-

नसंभारपरिपूरौ त्व् एकस्मिन्।


24 एवंविधभावनावैधुर्ये पुनर् भवान्तरे अनियत-

संख्ये जन्माष्टाक्षणविनिर्मुक्तम् अभ्यासानुकूलं लभते

ततोऽभ्यासाद् विशुध्यति।


25 पारमितानये तु क्रियामयपुण्यसंभाराद् उपायविशेषा-

भावाच् च त्रिभिः कल्पासंख्येयैर् विशुद्धिर् उक्तेति न विरो-

धः।


26 नन्व् इह न किंचिद् भाव्यम् उपदिष्टम् उत्पन्नरूपाणाम्

एव मुद्राणां निर्देशात्, योगिनां च तद्द्वारेणैव तथासूचनात्

। सत्यम्। तत्त्वतो भाव्यभावकभावनानाम् अनुपपत्तेर्

आदिशान्तत्वात् सर्वधर्माणाम्।


27 तद् दर्शयति- अभाव इत्यादि। अभावे भावाध्यारो-

पनिषेधेऽनुत्पादे परमार्थसत्ये कथं नैव भावो

भावना, आधिशुद्धत्वात्।


28 नन्व् अनुत्पादस् तत्त्वं, अस्ति भाव्यम् इत्य् आह - कीदृशम्

अभाव इति। नास्त्य् अनुत्पादः, परमार्थाधिगमानुकूलत्वात् तु

परमार्थस् तत्त्वम् उच्यते। योऽपि संवृतिसत्यात्मा भावः सो

ऽप्य् अभावो न भाव्यः सत्यत्वात्।


(२०)


सत्यद्वयाद्वैधीकारदर्शनमात्रेण मोक्षाद् भाव्यं

भावको भावनेत्य् अभिनिवेशो युगनद्धक्रमाधिगतानां

नास्तीति भावः। तद् उक्तं श्रीसमाजे-


अभावे भावनाभावो भावना नैव भावना।

इति भावो न भावः स्याद् भावना नोपलभ्यते॥


इति।

30 अत एवोपसंहरति-


कथं भवेद् इति भावना, अतो नोपलभ्यत इति भावः।


31 तत् किम् उत्पन्नक्रमे भावनाया उच्छेद एव? नोच्छेधः।


32 तर्हि कीदृशी सा? वक्ष्यते यादृशी सा।


33 एवं परमार्थतो भाव्याद्यभिनिवेशं निराकृत्य रूपा-

द्यभिनिवेशं निराचिकीर्षुर् आह-

भगिनीत्यादि।


34 कथम्? यतो गौरादिभेदभिन्नं रूपम्, संयुक्तम्

इन्द्रियेण परस्परोपकार्योपकारकभावात् संबद्धम्,

द्रक्ष्यत्य् अशुद्धचित्तः, न तु शुद्धचित्तः, परमार्थत

इन्द्रियविषयतज्ज्ञानानां नैःस्वाभाव्यात्। एवम् उत्तरत्र।


(२१)


35 त्रिविधम् इति मनोज्ञामनोज्ञोदासीनभेदात्।


36 ईदृशयोगयुक्तस्येति महामुद्रायोगयुक्तः।


37 घ्रायत इति घ्राणं गन्धः।


38 अदृष्टमानेत्य् अदृश्यमानम् अज्ञायमानम्, अत एव रागो

द्वेषादिर् अपि न जायते गन्धादिभ्यः।


39 स्वादरूपस्येति स्वादस्वरूपं नास्ति, रसनारसयोर् अभा-

वात्।


40 मनेन मनसोपलक्षितेन कायेन्द्रियेण, सुखं

स्पर्शविषयजम्, उपलक्षणाद् दुःखम् उपेक्षां च भुङ्क्ते

। तद् अपि कीदृशम्।


41 मन-इन्द्रियं मानसम्, सुखम् उपलक्षणत्वाद्

दुःखं हर्षं विषादम् उपेक्षां च भुङ्क्ते। तद् अपि

कीदृशम् इति संबन्धः।


42 ननु कथं रूपादयः पञ्च विषयास्, तद्विषयाणि पञ्च

चक्षुरादीन्द्रियाणि, तद्विज्ञानानि च पञ्च प्रज्ञास्वरूपाणि

व्यवस्थापितानि, न षष्ठविषयेन्द्रियज्ञानानि?


43 उच्यते- मन-इन्द्रियं चक्षुरादीन्द्रियवत् पृथङ् नास्ति,

अनन्तरातीतम् एव तु विज्ञानम् उत्तरषड्विज्ञानविशेषोत्पत्त्या-

धिपत्यान् मन-इन्द्रियम् उच्यते, तस्य विशेषश् चित्तचैत्तास् तद्-

विषयं च मनोविज्ञानम्।


(२२)


44 तत्राविकल्पकौ मन-इन्द्रियतद्विषयौ पञ्-

चेन्द्रियज्ञानस्वभावौ, चैत्ताश् च चित्तेभ्यो नान्ये, तद्

उक्तम्-

चित्तेभ्यश् चैतसा नान्ये।

इति।


45 विकल्पकौ तु मनोविज्ञानस्वभावौ, मनोविज्ञानं तु-

चेदसन्धानवैराग्यहानिच्युत्युपपत्तयः।

मनोविज्ञान एवेष्टाः।

इति न्यायात् प्रधानत्वाद् उपभोक्त्र् इति नोपकरणोपभोग्यं

प्रज्ञारूपं व्यवस्थापितम्। निरुत्तरप्रज्ञात्वं तु प्राग् व्य-

स्थापितं मनोविज्ञानस्यास्त्य् एव। यत् तूक्तं मन इति तद् इह

निःशेषभावग्रामविचारप्रक्रमार्थम्।


46 तथा ह्य् अनेन प्रबन्धेनाष्टादश धातव उक्ताः। त एव

समासाद् द्वादशायतनानि, अतिसंक्षेपात् पञ्च स्कन्धाः, त्रै-

धातुकं च त एव, तच् च चित्तमात्रम्। तद् उक्तं लङ्कावतारे

-

(२३)


चित्तमात्रं भो जिनपुत्रा यद् उत त्रैधातु-

कम्।

इति।


47 आर्यनागार्जुनपादैश् चोक्तं बोधिचित्तविवरणे-

आत्मग्रहनिवृत्त्यर्थं स्कन्धधात्वादिदे-

शना।

सापि ध्वस्ता महाभागैश् चित्तमात्रव्यव-

स्थया॥

इति। 


48 तच् च चित्तं सांवृतम्। तद् उक्तं तत्रैव-

चित्तमात्रम् इदं सर्वम् इति या देशना मुनेः।

उत्त्रासपरिहारार्थं बालानां सा न तत्त्वतः॥


इति।


49 कथम् अतात्त्विकं चित्तम् इत्य् आह-

उभयविचारणाद् इति भावाभावस्वरूपनिरूपणात्।


(२४)


50 तर्हि विचारकं चित्तं पारमार्थिकम् अस्तीत्य् आह-

विचारम् इति विचारयतीत्य् अचा विचारं विचारकं विज्ञानं

तत्रोभयविचारणे सति न विद्यते, तद् उक्तम् आचार्यशान्-

तिदेवपादैः-


विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः।

निराश्रयत्वान् नोदेति तच् च निर्वाणम् उच्यते॥


51 तथा-

यदा न भावो नाभावो मतेः संतिष्ठते

पुरः।

तदान्यगत्यभावेन निरालम्बा प्रशाम्यति॥

इति।


52 राजरत्नावल्यां चोक्तम्-


विज्ञानाग्नेर् जगद्धर्माः सर्व एवेन्धनं

मताः।


(२५)


तान् यथावत्प्रविचयज्वालैर् दग्ध्वोपशाम्यति॥


इति।


53 कथम् उभयविचारणम्? इत्य् आह-

भाव इत्यादि। भावाभावयोः परस्परं तादात्म्यं नास्ति,

विरोधात्।


54 भेदोऽस्तीत्य् आह-

भावाभाव उभयशून्यम् इति। भावाभावस्वभावौ

शून्यौ। चित्तस्यैकानेकस्वभावरहितत्वेन निःस्वभावत्वात्।


55 तथा हि न तद् एकम्, एकत्वे हि नीलपीतरूपतया चित्रावभा-

सिनी संवित्तिर् न स्यात्, सकलस्य पीतादेर् नीलान्तर्गतत्वेन प्रती-

तिप्रसङ्गात्। नीलस्यापि पूर्वापरमध्यभेदेन स्थूलावभा-

सितया च प्रतीतिर् न स्यात्।


दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते।


(२६)


इति न्यायात् परमाणुमात्र एव प्रतिभासः स्यात्।


56 नाप्य् अनेकम्, अनेकत्वे हि चित्तस्य परमाणुशो भेदात्

तदन्यसम्वेदनाभावे च प्रतिपरमाणुस्वसंविद्रूपतया

स एव प्रतिपरमाणु प्रतिभासप्रसङ्गः।


57 उभयरूपतापि न युज्यते तथाविधसंवेदनाभावात्।

सर्वत्र ह्य् अस्माकं दर्शनं प्रमाणम्। न चानुगतव्यावृत्-

तिरूपां सह पृथग् वा प्रत्यक्षां संवित्तिम् उपलभामहे,

अनुमानात्मिकां वा, तस्यास् तत्पूर्वकत्वात्।


58 अनुपलभमानाश् च कथम् अप्रमाणाम् अनुगतव्यावृत्-

तिरूपतां परिकल्पयामः।


59 अथ चित्रतया स्थूलाकारा स्वसंविद्रूपा संवित्तिर्

अशक्यापह्नुतिस् तावद् अस्ति। सा चानुगतव्यावृत्तिरूपतां विना न

स्याद् इति सा तद्भावान्यथानुपपत्त्या परिकल्प्यते।


60 तन् न। अनुभयरूपतयैव निष्प्रपञ्चतया स्फुटतरम्

उपपत्तेर् अर्थापत्तिक्षयात्।


61 अत एवोत्पादोऽपि न युज्यते। कार्यकारणभावे प्रमा-

णाभावात्। पौर्वापर्येण हि प्रमाणप्रवृत्तौ कार्यकारण-

भावव्यवस्था। न चाकारद्वयविविक्तम् अद्वयसंवेदनं


(२७)


पौर्वापर्यप्रवृत्तिमत्। न तदपरम् अपि सम्वेदनम् अस्ति

प्रमाणाभावाद् इति प्रतिपादितम्।


62 यदा चैवम् कार्यकारणभावे प्रमाणाभावाद् उत्पाद एव

नास्ति तदा कुतः स्वतः परत उभयतोऽहेतुतो वेति। तद् एवम्

उत्पादाभावाच् चित्तस्य भावरूपतापि नास्ति।


63 भवतीति हि भावोऽसत्तापूर्वके प्रादुर्भाव एव व्यवस्था-

प्यते। अत एव तत्प्रच्युतिरूपाभावरूपतापि नास्ति। भावाभा-

वस्वभावाभावाच् च सर्वप्रपञ्चाभावस् तेषां भावाभावा-

धिष्ठानतया ताभ्यां व्याप्तत्वात्, व्यापकाभावे च व्याप्य-

स्याप्य् अभावात्। ततोऽनेन विचारेण निस्प्रपञ्चता शून्यताव-

गम्यते।


64 इदम् एव च तत्त्वदर्शनम्। यत् प्रज्ञाचक्षुषा निरूपयतः

सम्यग्ज्ञानालोके सति सर्वधर्माणाम् अदर्शनम् इति। यथो-

क्तं भगवत्याम्-


कतमद् बुद्धानां भगवतां ज्ञान-

चक्षुः? येन न किंचित् पश्यन्ति।


तथा


कतमत् परमार्थदर्शनं? यत् सर्-

वधर्माणाम् अदर्शनम्।


(२८)


इति।


65 ततस् तत्त्वयोगिनोऽपि सर्वेर्यापथव्यवस्थिताः सर्-

वधर्मान् पश्यन्तोऽपि न पश्यन्ति। ईदृग् एवादर्शनम् अभि-

प्रेतम्, न तु सुप्तनिमीलितलोचनयोर् इव यद् अमनसिकार-

तः। एवं हि वासनाया अप्रहाणाद् असंज्ञिसमापत्त्यादिव्युत्-

थितस्येव पुनर् अपि रूपाद्यभिनिवेशमूलानां रागादीनाम् उत्-

पत्तेर् अमुक्त एव योगी भवेत्।


66 न चानादिकालिको रूपाद्यभिनिवेशो मनसिकार-

परिवर्जनमात्रात् प्रहीयते असंज्ञिसमापन्नादेर् अपि

प्रहाणप्रसङ्गात्। न च रूपादिविषयसंशयप्रहाणं

विना तन्मनसिकारपरिवर्जनम् अपि शक्यम्, दहनापरिवर्-

जने दाहापरिवर्जनवत्। तस्मात् संशयबीजापगमाद् एव रू-

पाद्यभिनिवेशोऽपनेतव्यो न तु कण्टकवद् उत्कील्येति निश्-

चयः।


67 तद् एवं भावाभावस्वभावपरभावादिमनस्कारति-

रस्कारेण सर्वतो मनः संहृत्य न किंचिद् अपि चिन्तयेत्

। तस्यैवम् अचिन्तयतः पूर्वम् एव चिरकालपर्युपासितगु-


(२९)


रोर् योगिनो या गुरुप्रसादाधिगतैव भगवती प्रज्ञोत्पद्य-

ते समुपरतप्रमाणप्रमेयफलविभागतया स्वप्रकाश-

स्वभावानिष्प्रपञ्चतया च प्रपञ्चात्मकसंसारस्वभाव-

दुःखौघविगमात् परमानन्दस्वरूपताम् अदर्शनयोगेन

साक्षाद् अवेत्य, तत्प्रभावाद् अहो बत मोहस्य सामर्थ्यम्!


येनैते सत्त्वा निर्वाणस्वभावम् अप्य् आत्मानं नावबुध्यन्ते,

कथं नामैतान् अवबोधयेयम् इति विचिन्त्य तदात्मकम् एव

सकलं जगद् आलम्ब्यानालम्बनरूपा महाकरुणोत्पद्यते।


68 तदात्मकम् एवोत्पन्नमण्डलरूपम् आत्मानं सर्व-

भावस्वभावं महाकरुणात्मकं भगवत्या प्रज्ञया

महामुद्रापरनामिकया तदात्मकत्वाद् अभिन्नस्वभावं

पश्येत्। तदा शून्यताकरुणयोस् तादात्म्यम्। स च निर्विकल्पो

योगः।


69 स एव-


प्रत्याहारस् तथा ध्यानं प्राणायामश् च

धारणा।

अनुस्मृतिः समाधिश् च षडङ्गो योग इष्यते॥


इति समाजोत्तरोक्तह् षडङ्गो योगः।


(३०)


70 तथा हि कुमार्याः प्रतिसेनादर्शनम् इवेन्द्रियाणां

शून्यतैकरसस्वविषयग्रहणं प्रत्याहारः।


71 ततो ध्यानम्। तच् च वितर्को भावनिरूपणम्। विचारो

भावस्य शून्यतास्वरूपत्वविचारणम्। एवं विचारयतस्

तत्त्वप्रवेशाभिमुख्येन यत् सौमनस्यं सा प्रीतिः।

ततः कायप्रश्रब्ध्यादि महासुखम्। एवम् अभ्यस्यतः

सर्वधर्मशून्यतैकनिष्ठा प्रज्ञात्मिका चित्तैकाग्रतेति

पञ्चविधम्।


72 ततो ललनारसनयोर् निरुद्धस्यावधूतीमार्गेणैव

प्रवेशस्थितिव्युत्थानात्मिका प्राणवायोः प्रवृत्तिः प्राणायामः।


73 ततोऽवधूत्या बहिरनिर्गमो बोधिचित्तबिन्दौ चित्-

तवाहनप्राणवायोर् निवेशनं शून्यतैकरसं धारणा।

तदा च चण्डाली निसर्गतो ज्वलति। शशी च तदुद्दीपितः सुतरां

स्रवति। तदा  वज्रमण्यन्तर्गतम् अच्युतं बोधिचित्तं

क्रमेण

निष्यन्दादिसुखापूर्णं वैमल्यं यावेद् एष्यति।


74 ततो धारणाप्रविष्टे चित्ते निमित्तप्रतिभासपूर्वकम् उत्प-

न्नमण्डलदेवतादर्शनं प्रतिबिम्बाकारं निर्विकल्पकं

ततोऽनेकरश्मिस्फरणं ततस् त्रैधातुकस्फरणम् इत्य्

अनुस्मृतिः।


(३१)


75 ततः स एव निर्विकल्पो योगोऽक्षरमहासुखमययुगन-

द्धात्मकज्ञानदेहमहावज्रधरस्वभावः समाधिर् इति।


76 एवं च योगी यदा निष्प्रपञ्चप्रज्ञोपाययोगात्मा तदा सर्-

वपुण्यमयः सर्वज्ञानमयः समस्तमाण्डलेयदेवतात्-

मकः सकलपारमितामयश् च नाथैर् व्यवस्थाप्यते।


77 तद् उक्तम्-


अयं स परमो योगः सर्वसंकल्पवर्जितः।

योगी यत्र स्थितः साक्षात् सर्वज्ञो भगवान्

भवेत्॥

इदं तत् परमं तत्त्वं प्रज्ञोपायमयं

शिवम्।

इदम् एवाद्वयं ज्ञानं बोधिचित्तम् इदं

परम्॥


इति।


78 उक्तं चार्यनागार्जुनपादैः-

यः पुमान् क्षणम् अप्य् एकं बोधिचित्तं

प्रभावयेत्। 

अशक्यो गणितुं तस्य पुण्यराशिर् इयान् इति॥

चित्तरत्नम् असंक्लिष्टम् इदम् एकान्तम् उच्यते।


(३२)


असंहार्यम् अनाहार्यं क्लेशमारादितस्करैः॥


इति।


79 सर्वम् एतद् अभिप्रेत्याह-

एते चित्तस्य शुद्धतेति। एत एषा।


80 अत एव महासुखरूपाया वज्रधरभूमेर् अत्रैव प्र-

तिपादनात् पारमितानयाद् अस्य विशेषः।


81 नन्व् असाव् अद्वयज्ञानरूपैव तत् कोऽस्य विशेषः?


82 अस्ति विशेषस् ताद्रूप्यप्रतिपादनम् एव। यथा वस्-

तुतः शून्यतैकरसानां बलवैशारद्यादीनां श्रावकनये

प्रतिपादितानाम् अपि शून्यताया अप्रतिपादनात्, पारमितानये च

प्रतिपादनान् महान् विशेषो गीयते।


83 ननु च प्रथमध्यानलाभिनोऽपि चक्रवर्तिन इव सुखम्

उपदिश्यते, किं पुनर् उभयनैरात्म्यप्रतिवेधे? तथाहि

प्रमोदोद्रेकाद् एव प्रथमा भूमिः प्रमुदितोच्यते।


84 सत्यम्। न त्व् एतत् सहजं सुखम्। अत एव न महासुखम्,

न चोपायभूतम् आदिकर्मिकावस्थायाम्। न हि सूचिछिद्रं

छिद्रम् इत्य् एवाकाशेनापि साम्यम् अनुभवति।


85 ननूक्तं प्रज्ञापारमितायाम्-


(३३)


यच् चानुत्तरं सम्यक्सम्बोधिसुखम्


इति?


86 उक्तम् एतत्। न त्व् अस्योपायो दर्शितः। उपायभूतस-

हजमहासुखानुपदेशात्। तस्मात् तद् अप्य् अनेनैव क्रमेण

बोद्धव्यम्।


87 तत् किं पारमितानये न बोधिः?


88 नैवम्। प्रज्ञापारमितया विना कुतोऽनुत्तरायाः सम्यक्-

सम्बोधेर् गन्धोऽपि। परं पर्यन्तेऽप्य् अवश्यम् एतम् 

उपायम् अपेक्षत इत्य् उच्यत इत्य् अलम् अतिविस्तरेण। विदितोपदेशैर्

एवैष विशेषः परिस्फुटं विज्ञास्यते।


89 महासुखसाधनत्वेन प्रधानं स्पर्शविषयं

तदिन्द्रियं तज्ज्ञानं च करुणादिरूपं पञ्चप्रज्ञारूपं

च प्रतिपादयितुम् आह-


अत इत्यादि।


90 बाह्यप्रज्ञायाः कायस्य विषयस्य तद्योगाद् आध्यात्मि-

ककायज्ञानयोश् च शोधनाद् यद् भवति तद् वक्ष्यामि दृष्टि-

युक्तम् इति।


91 दृष्टा वराङ्गना करुणा दुःखवियोगः। आलिङ्गिता

मैत्री सुखसंयोगः। द्वीन्द्रियसंघर्षणान् मुदिता


(३४)


सुखावियोगः। बोधिचित्तक्षरणाद् उपेक्षा सर्वविकल्पविर-

हः।


92 एवम् आध्यात्मिककायज्ञाने करुणादिरूपे, एवंभावयो-

गयुक्तस्येति, करुणादिरूपमहामुद्रायुक्तो न रागादिभिर्

बध्यते। विना तु महामुद्रायोगं बध्यते जगद् इत्य् आह

-

दर्शनाद् इत्यादि। किंचिद् अधिकं तत्फलम्। सर्वशेषतः

क्षरणात्।


93 एवं हर्षविषादफलयुक्तं, उत्पन्नं त्रैधातु-

कम्। शून्यतया विना करुणादयोऽपि न मुक्तिहेतव इति भावः।


94 उपसंहरति- संशुद्धेत्यादि। त्रयवस्त्व् इति विषयेन्-

द्रियविज्ञानैः।


95 एवम् अभ्यासपरस्य यथामिलिताहारसंस्कारम् आह-

यद् इत्यादि। विण्मूत्रादिपञ्चामृतप्रदीपमयम् अमृतं

परिकल्पयेत्।


96 न केवलं तद् रतिक्रीडादिकं च महामुद्रापि

महामुद्रारूपं द्रष्टव्यम्, ईदृग्भावनायुक्तः सिध्यते।


97 कथम्? इत्य् आह-

पञ्चेति। भगिन्यादियोगिन्यः। लक्ष्मीमहामुद्राप्रदायिकेति


(३५)


। स्वपरार्थसम्पल्लक्षना लक्ष्मीर् महामुद्रैव। तां प्र-

ददति पूजिताः, अत आह-


पूजयेद् इति।


98 कथम्? इत्य् आह-

कामते।


99 नन्व् आसां परमा पूजा कमनम् एव, स च दोषः। न दोषः

। यतो न लिप्यते।


100 ननु कमनम् एव लेपः। न, यस्माल् लेप उच्यते,

ईर्ष्यादिभिर् योगस् तस्य योगिनः, तैश् चेर्ष्यादिदोषैर् असौ न

बाध्यते।


101 ननु कथम् ईदृशी पूजा श्रेयोऽनुबन्धिनी?

समारोपविशेषात्।


द्विविधो हि समारोपस् तत्त्वरूपोऽतत्त्वरूपश् च। तत्र

तत्त्वरूपात्मसमारोपस्य मात्रादिसमारोपवत् पारंपर्येण

बोधिसाधनत्वाद् अदोषः।


102 ननु केषांचिद् अनुभवस्यापि निषिद्धत्वाद् विरोधः स्यात्

। न, द्विविधं हि कर्म समुत्थाप्योत्थापकभेदेन। तत्र

सर्वं कायवाक्कर्म समुत्थाप्यम्। मानसं तु समुत्-

थापकम्। तच् च द्विविधम्। अलोभादिरूपं तदितरं च।

तत्र लोभादिसमुत्थितं सर्वकायवाक्कर्माकुशलम्, तच् च

प्रतिषिद्धम्। अलोभादिसमुत्थं तु सर्वं कुशलम् एव।


(३६)


103 महामुद्राद्वययोगयुक्तश् च योगी सकलम् अलोभाद्यात्-

मकं जगद् अवलोकयति। ततोऽसौ सर्वेर्यापथसंयुतोऽप्य्

अकुशलानुपलम्भरूपत्वात् कुशलात्मैवेत्य् आह-

स योगीत्यादि।


104 तत्त्वं महामुद्रास्वभावः। अतः संसारदोषैर् न 

च्छुप्यते। तस्मात् प्रज्ञोपायस्वभावाद्वयबोधिचित्तभाव-

नैव सर्वपापविशोधनी सर्वश्रेयस्करी च।


105 तद् उक्तम् आर्यनागार्जुनपादैः-


महायानम् इदं श्रेष्ठं बोधिचित्तम् इदं

परम्।

उत्पादयन्तु यत्नेन बोधिचित्तं समाहिताः॥

नान्योपायोऽस्ति संसारे स्व-

परार्थप्रसिद्धये।

बोधिचित्ताद् ऋते बुद्धैर् दृष्टपूर्वः कदाचन॥

इति।


106 एवं च विज्ञातव्यम्-

अयं स परमो योगस् तस्माद् वन्द्यस्

तथागतैः।


(३७)


ततः प्रसूतिर् योगानाम् अनन्तानां प्रकीर्तिता॥

तस्माद् एव समाधीनाम् अनन्तानां

समुद्भवः।

मुद्रामण्डलमन्त्राणां ततो योगाद्

विशुद्धता॥

शान्तिकं पौष्टिकं कर्म यद् अन्यद् अपि मन्त्रजम्।

जाह्नवीवालुकासंख्या यावत्यः

क्षुद्रसिद्धयः॥

मुद्रासिद्धय एवान्या यावत्यो भुवि विश्रुताः।

कथिताश् चित्तवज्रेण एतद्योगसमुत्थिताः॥

यच् च निर्वेधभागीयं चतुर्धा भूमयो

दश।

फलावस्था च सर्वं तद् योगाद् अस्मात् समुत्-

थितम्॥

भूता ये च भविष्यन्ति भवन्ति जिनसूनवः।

लोकेशाद्या महासत्त्वास् तेऽप्य् अत्रैव व्यवस्थि-

ताः॥

अतीतानागता बुद्धा वर्तमाना मताश् च ये।

खड्गश्रावकसंघाश् च तेऽप्य् अस्मात्

प्रभविष्णवः॥


(३८)


योगचर्याक्रियाभेदाद् यावन्निर्माणसंभ-

वः।

तावन्तः सर्व एतस्माद् योगाद् एव विनिर्गताः॥

परिकल्पितरूपश् च वासनाबलभाविनः।

यावन्तः स्थिरचला भावास् तावन्तस् तद्-

अपाश्रयाः॥


इति॥ 

107 पञ्चकामान् विना नीरसैव शून्यता स्याद् इत्य् आह-

यावेत्यादि।


यावन् न विषयरसैः परिपाल्यते बोधिचित्ताङ्कुरस् तावन्

न बुद्धकायकल्पतरुः प्रादुर्भवति, जलसेकरहिताङ्कुरात्

तरुसंपत्तिर् इव।


108 तद् उक्तं सरहपादैः-

तनुतरचित्ताङ्कुरको विषयरसैर् यदि न सिच्य्-

अते शुद्धैः।

गगनव्यापी फलदः कल्पतरुत्वं कथं

लभते॥


(३९)


इति पण्डिताभयाकरगुप्तकृतायाम् अभयपद्धत्यां

श्रीबुद्धकापलमहातन्त्रटीकायां त्रयोदशः पटलः॥


(४०)


14 जापमुद्राध्येषणासर्वतन्त्रनिदानपटल


1 अभिमतनिरुत्तरार्थदेशनया संजातप्रसादातिशया यथा

स्तुवन्ति तद् दर्शयितुम् आह-

अथेत्यादि।


2 महासुखविक्रीडनाद् देवी।


3 जननी मार्गरूपा।


4 लक्ष्मीर् अधिगमप्रहाणसंपत्फलरूपा।


5 अगोत्रकाणाम् उत्त्रासस्थानत्वाद् घोरा।


6 महायशा विघुष्टकीर्तिः।


7 मैत्रीमयत्वाद् वत्सला।


8 मण्डलचक्राद्यनन्तर्द्धिविकुर्वणाद् देवी।


9 महाकृपामहाप्रज्ञाभ्याम् अभिन्नत्वान् महामुद्रा


(४१)


स्वार्थसम्पत्।


10 महार्थफलदेशिका, महार्थो वज्रधरत्वम्, तद् एव

परमं फलं मार्गाभ्यासस्य, तद् विनेयेभ्यो देशयतीति

परार्थसम्पत्त्या स्तुवन्ति।


11 देशनाविषयद्वारेणैव स्तुवन्ति-

बुद्धेत्यादि।


12 बुद्धैर् वैरोचनादिभिः।


13 येषाम् इति या सिद्धिः, बोधिसत्त्वानां चागोचरः।


14 देवीति देव्या।


15 एकरुतेनेति न तु प्रथमं दुर्बोधम् अभिधाय व-

चनान्तरैः प्रकटिता।


16 महाभाजना, महतीनां लौकिकलोकोत्तरसिद्धीनां भा-

जनम्।


17 सर्वेति चतुर्विंशतियोगिनीस्वरूपा।


18 ये ते, या सा सिद्धिः।


19 आह चित्रसेना।


20 अयम् इत्य् अस्य।


21 बुद्धगुणा बलवैशारद्यादयः।


22 तेऽपि मां क्षाम्यन्तु, यतस् तेषां हेतुफलात्मको जि-

नवरैर् विनेयेषु गोपितः सुदुर्लभोऽर्थः सुगूढगो-

चरेऽस्मिंस् तन्त्रे मया प्रकटीकृतः। स च मयि जिनवरैः


(४२)


प्रकटीकृतः, अतो मन्मुखेन तैर् एव कृता देशनेयम्  इति

भावः।


23 मयि च विपरीतदेशनापराधाध्यारोपाद् अक्षमा न 

कर्तव्येत्य् आह-

क्षमंतु, क्षाम्यन्तु जिनवरा इति विभक्तिविपरिणामः।


24 सर्वतन्त्रम् उक्त्वाभिषिक्तानाम् एवात्राधिकार इति दर्शयितुं

पर्यन्तेऽभिषेकविधिम् आह-अथेत्यादि।


25 अध्येष्यते, गुह्यप्रज्ञाज्ञानाभिषेकार्थम्।


26 महादेवीति महादेवीम्।


27 च्छिन्नेति त्वया, च्छन्नेति पाठे व्यापिका मयि।


28 तस्येति तस्याः।


29 किम् एवम् प्रज्ञातोषणे यत्न इत्य् आह- सर्वबुद्धैः

पूजिता। हेतुफलावस्थयोः कर्ममुद्रायोगेनैव हि

महामुद्रासिद्धिर् इत्य् आम्नायः।


30 कथम् एवम् इत्य् आह-

अत्रैव प्रज्ञायां स्थिता बुद्धादयः। ते हि महासुखस्व-

भावाः, तदाश्रयश् च प्रज्ञा, तस्यां यथाविधि प्रज्ञाज्ञाना-

भिषेकं गृह्णीयात्।


31 अत एव प्रज्ञाज्ञानस्य स्वरूपं प्रतिपादयति-


(४३)


इन्दीत्यादि।


32 इन्द्रियम्, उपलक्षणाद् विषयादिश् च।


33 अप्पेत्य् आत्मा चित्तम्,

चित्तम् आत्मेति कल्पितम्

इति वचनात्।

अथ वात्मप्रज्ञप्तिविषयाः पञ्चोपादानस्कन्धा आत्मा।


34 सर्वम् इदम् अस्वभावं यत्र नोपलभ्यते सा परमा-

नन्दगतिः। परमानन्दोऽत्र सहजानन्द एव प्रज्ञाज्ञाना-

परनामा, इन्द्रियाद्यध्यारोपविगमात्।


35 तद् उक्तं द्विकल्पतन्त्रे-

परमानन्दे तु संप्राप्ते नानात्ववर्जिते

क्षणे।

इति।


36 उदयक्रमेणैवास्य संप्राप्तिः प्रतिपत्तव्या। स च प्रथ-

मपटले निरूपितः।


37 परमानन्दम् एव हेतुत्वेन नमस्यति- तस्मा इत्यादि।


38 यदुदयेन, यस्य सहजानन्दस्योदयेन।


(४४)


39 फलतया नमति। यश् चाभ्यासान् निर्वेधभागीया-

द्यधिगमक्रमेणाभिनन्दा समन्ततोऽभिज्ञाबल-

वैशारद्यादिभिर् अतिशयगुणरत्नैः समृद्धा जिनानां

निखिलक्लेशकलङ्कापगमात् सुन्दरी समन्तभद्रा

परमप्रीतिवसतिर् मूर्तिश् चतुर्थः कायो वज्रधरः,

पण्डितानां सम्यक्सम्बुद्धानां हृदि तादात्म्येन सक-

लविकल्पविक्षेपप्रतिक्षेपान् निभृतं कोऽप्य् अवाग्बुद्धिगो-

चरः- अत एवैनम् अधिगम्य चित्रसेनादीनां तूष्णींभावे-

न व्यवस्थानं वक्ष्यति- एकोऽद्वयः परमानन्दः सर्-

वावरणवासनावशेषनिद्राविरहाज् जागर्ति, तस्मै नमः।


40 तद् अनेन श्लोकेन तद् एव प्रज्ञाज्ञानं रूपविशेषेण जलम्

इव तरङ्गरूपेणोत्पन्नं चतुर्थोऽभिषेक इत्य् उक्तम्। स

पुनर् अयं महासुखमयो वज्रधरः सर्वतन्त्रनिदा-

नम्।


इति पण्डिताभयाकरगुप्तकृतायाम् अभयपद्धत्यां

श्रीबुद्धकपालमहातन्त्रटीकायां चतुर्दशः पटलः

समाप्तः।


(४५)


श्रीमद्धेरुकवीरवर्त्मविवृतेर् उच्चैरुद्-

अञ्चच्छुभाच्

छित्त्वा संसृतिनिर्वृतिभ्रमम् असौ तन्-

मण्डले मीलतु।

लोकोऽहं तु मुनेर् अमुष्य बिभृयां मूर्तीर्

अनन्ताः प्रति-

प्राणिप्रह्वम् अदभ्रशर्म विदधद् ध्वस्-

तप्रपञ्चं चिरम्॥1॥


सूरिर् विक्रमशीलस्या-

भयो मर्मस्पृशं गिराम्।

राज्याब्दे रामपालस्य

पञ्चविंशेऽकरोद् इमाम्॥2॥


(४६)


त्रिभवविजयलक्ष्मीक्ष्माभिर् अक्षीणमूर्त्या

जगदतनुहितायाद्वैतधर्मोर्जितस्य।

मगधपतिसुतश्रीयक्षपालस्य धाम्नां

धृतिपरिणतये तत्प्रार्थनाद् ग्रन्थितेयम्॥3॥


जीयाद् आनन्दकन्दाद्वयपरमरसोल्लासविश्रा-

मभूमी-

विक्रीडद्वज्रकन्याकलिलमुनिघनव्यूहसो-

पानपङ्क्त्याम्।

प्रज्ञाश्रीर् यद्विहार्याम् इयम् अकृ-

तकृतार्थार्थिसत्कल्पवल्ल्याम्

अस्याश् चास्माकवृत्त्यास्त्व् असमशुभसुधापू-

रपाथेयतृप्तिः॥4॥


सपादषोडशश्लोकशती संपिण्डिता प्रमा

पण्डितैर् मण्डनायास्याः प्रमेव हृदि वास्तवी॥॥


(४७)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project