Digital Sanskrit Buddhist Canon

अमोघपाशकल्पराज (VI)

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

अमोघपाशकल्पराज (VI)


82a


5.॥ अतो विमोक्षमण्डलहोमविधि प्रवक्ष्यामि। सर्व्वपापावरण-

निर्दहनं तथा विमुच्यते। सर्व्वदुःखेभ्यो किल्बिषैर् दारुणक्लेश-

सागरैः सं<म्>सारोत्तारणं सिद्धं। अवैवर्त्य-


6. स्थानम् अनुत्तरं। आश्वासकरं सर्व्वबुद्धबोधिसत्त्वानां

लोकोत्तरमार्गम् उत्तरं दर्शनं सर्व्वबुद्धानां बोधिसत्व-

दर्शनं एव च। देवानां संक्रमणं सद्यं आहुतिमात्रा न

संशयः। ब्राह्मानं। इन्द्रं विष्णुमहेश्वरं। ईश्वरञ् च

महेश्वरं यमश् च वरुणश् चैव कुबेर कुबे(मा)रम् एव च।

होममात्रम् इदं सद्यम्। सर्व्वम् आयान्ति न संशयः। देवनागाश् च

यक्षाश् च गन्धर्व्वासुराणि च


7. गरुडकिन्नरमहोरगैः राक्षसाभूतकुम्भाण्डैः सर्व्वम्

आयान्ति तत्क्षणैः सर्व्वे पादयो प्रमाण(णम)न्ति विध्याधरस्य

शततां(तं) यथा दिवारात्रीञ् च रक्षन्ते समन्ततः। चत्वारश् च महारजा वज्रपाणिमहात्मनाः। दे(द)शश् च महायक्षेन्द्रै रक्षन्ति

दिशो दशः। निवारयन्ते दुर्ज्जनां दुष्टा<ं>नां नरका भयदारुणा

किल्बिषा दुष्टसत्वाश् च सर्व्वे निवारय-


82b


1. न्ति तदनन्तरः। महापुण्यमेरु प्रवर्त्तन्ते महापुण्यराशी

अनुत्तरं॥ चन्दनस्य पला विंश अगरुं पला पञ्च सप्ततुर्ष्कपलं

सदा। कर्पूरकास्तूरिकभागं कुंकुमस्य फलं भवेत्।

कुन्द्रुकपला पञ्च गुग्गुलसप्तपलं सदा। एकत्र चूर्ण्णीकृत्वा

मिस्रये सितसर्करं मधुना गुडिकां कृत्वा अक्षप्रमाणतः।

अष्टोत्तरसहस्रं सर्षपं लाजमिश्रेण गुडिकन् तु मिश्रय घृताक्ता

जुहूयात् सु-

2. रभिकाष्ठं अर्ककाष्ठं समीकाष्ठसमिद्भिर् अग्निं प्रज्वाल्य 

होमविधिकारयम् अष्टोत्तरसहस्रन् तु यदा यदा जुहूयात्। तदा


(१)


तदा सर्व्वपापावरणकिल्बिषां क्षपयन्ति। तदा तदा सर्व्वव्याधिं

परिमुच्यते। तदा तदा सर्व्वरोगं परिमुच्यते। तदा तदा

जम्बूद्वीपे सर्व्वसत्वाना स्त्रीपुरुषदारकदारिकां श्रमणब्राह्मणां

क्षत्रियविट्छूद्रादि सर्व्वपापावरणानि क्षपयन्ति॥ सर्व्वभ-


3. या सर्व्व ईतयो सर्व्वोपद्रवा सर्व्वोपसर्गा सर्व्वग्रहा सर्व्व-

कलिकलहविग्रहविवाद सर्व्वस्वचक्रपरचक्रभयां। सर्व्वप्र-

त्यर्थिकप्रत्यमित्रभयां। सर्व्वचोरधूर्त्ततस्करचण्डमृग-

भयां प्रशमन्ति। सर्व्वे च ते सत्वा निर्भया भवन्ति। ये च तं

गन्धम् आघ्रान्ति। स्त्रीपुरुषदारकदारिकां श्रमणब्राह्मणक्षत्रिया

विट्छूद्र सर्व्वे तेनावैवर्त्तिका भविष्यत्य् अनु-


4. त्तरायां सम्यक्संबुद्धौ प्रस्थिता भविष्यन्ति। जन्म-

परिवर्त्तते सर्व्व सुखावतीलोकधातुम् अनुव्रजन्ति। उपपादु-

कपद्मेभ्यो प्रजास्यन्ति। सर्व्वे च तिर्यग्योनिगता द्विपदचतुष्पदानां

गन्धम् आघ्रातमात्रेण नियतम् अवैवर्त्तिका भविष्यन्ति। अविनि-

वर्तनीयानुत्तरायां सम्यक्सम्ब(बु)धत्वे अभिसंबुध्यन्ते।

सर्व्वविद्याधर यथा यथा जुहति


5. तथा तथास्य कायं सुनिर्मलपरिशुद्धिर् भविष्यति। पू-

र्ण्णे अष्टोत्तरसहस्रे विद्याधरस्य शरीरे ज्वलति। दशदिशि महा-

बुद्धविग्रहं पश्यति। तेन च तथागतविग्रहा विद्याधरस्य

साधुकारम् उदीरयन्ति। साधु साधु विद्याधर एष परमो सर्व्व-

तथागतगुह्यविमोक्षमण्डलं लोकोत्तरहोमविधिः। एष सर्व्व-

मारप्रमर्दनमहाहोमविधिः। एष


6. बोधिमार्गम् अनुत्तरं। अथ ते सर्व्वतथागतविग्रहा। सु-

वर्ण्णवर्ण्णदक्षिणबाहुं प्रसार्य विद्याधरस्य पाणि मूर्द्धि

शिरे स्थापयन्ति। अथार्यावलोकितेश्वरं स्वरूपेण अग्रतम्

उपतिष्ठति। सर्व्वालण्कारविभूषितं। अमोघपाशब्रह्मवेशधरं

जटामकुटमण्डितं पद्मत्रिशू[ल]पाशधरं। विध्याधरस्य

ब्रवीति। साधु साधु विद्याधर सिद्ध त्वया अमोघपाशहृदयं

विमोक्षमण्डलं लो-


(२)


7. कोत्तरमहाहोमविद्धिः। अनुगृह्ण वरं यथा प्रार्थयसि तत्

सर्व्व ददामि। ततो विद्याधरेण यथाभिलषितवराणि वक्तव्यः। तत्

सर्व्वं प्राप्नोति। आर्यावलोकितेश्वरं बाहू प्रसारयति विद्याधरस्य

मूर्द्धशिरे पाणि स्थापयति। समनन्तरस्थापितेन पाणि विद्याधरस्य

आकाशेन गच्छति। दशसु दिक्षु सर्व्वबुद्धक्षेत्रम् आक्रमति।

सर्व्वतथागतस[ं]मुखदर्शनं प्रतिलभते। अ-


83a


1. वैवर्त्तिका अविनिवर्त्तनीयस्थानं प्रतिलभते। सर्व्वबुद्धक्षेत्रे

सर्व्वतथागतव्याकरणं प्रतिलभते। <सर्व्वबुद्धक्षेत्रे

सर्व्वतथागतव्याकरणं प्रतिलभते।> सर्व्वबुद्धक्षेत्रा

पर्युपास्य सुखावतीलोकधातुम् अनुब्रजति। अमिताभस्य तथागतस्य

सम्मुखं सु(स)बोधिसत्वपर्षदं धर्मं देशना श्रोष्यन्ति

। यावद् बोधिमण्डपर्यवसानाद् इति। अतः खात्रं प्रवक्ष्यामि

लोकोत्तरहोमस्थानम् उ-


2. त्तमं। पद्मप्रस्फुटं कृत्वा त्तृहस्तपरिमण्डलं।

मृद्गोमयसमन्वितं। मध्ये केशरपद्मस्य गा(खा)त्रं

खानयं हस्तप्रमाणं। अथ त्रियक् समन्ततः। मध्ये पा(प)त्र-

षोडश पञ्च विन्यसेत्। नानारण्गविचित्रैश् च पद्मं समलंकरेत्।

बहि[ष्]पद्मसमन्ते चतुरस्रकं मण्डलकं कुरु। नानागन्धं

विशारदं अलंकरेत्। मण्डलसमन्तेन चत्वारो पूर्ण्णकुम्भानि

रूप्यभाजनसू(पू)रितं। चत्वारो अर्घपा-


3. द्यानि रूप्यभाजन पूरयं। चत्वारो नानागन्धवा(पा)

द्यानि सुर्वर्ण्णभाजनं पूरयं। नानारसबल्रि(लि)ं स्थाप्य

तृशुक्लनानाविधं<न्> तथा नानाफलविविध स्थाप्य नानापुष्पाणि-म्

ओकिरेत्। नानामाल्यप्रकारेण स्थापयं मण्डलसमन्ततः पञ्च-

रङ्गपताकैश् च शरम् अलंकरेत्। चतु[र्]द्वारविभक्ताञ् च कलसं

स्थाप्य स्वलंकृतं। गन्धोदकपूरितम्। चत्वारि

4. द्वारा<द्व> प्रज्ञापारमिता वाच्य स्वलंकृतधर्मभाणकसमास-


(३)


नम्। चतुःकोणेषु अमोघपाससूत्रं वाचयं। स्वलंकृतधर्मभा-

णकधर्मासन सुवर्ण्णपुष्पं रूप्यपुष्पं ताम्रपुष्पञ् च।

सप्तरत्नानि पूजयम्। ततो विद्याधरेण शुचिना शुचिवस्त्रधारिणा

सुस्नातसुगन्धगन्धवासितः। अमोघपाशहृदयेन गुडिका अष्टोत्तर-

वारश-


5. तं जपितव्यं। अष्टोत्तरशतं क्रोधराजेनाभिषिच्य। अष्टोत्त-

रं शत<ं>म् अमोघविलोकितहृदयं जपितच्य(व्य)ः। ततो अमोघ-

ज्वलनविमोक्षमण्डलं पाशहृदयेन अष्टोत्तरसहस्रं जुहूयात्

। अनालापतः। मैत्रचित्तेन दयाकरुणाहृदयेन भवितव्यं

कर्मानुत्तरम् इति॥॥ नमो रत्नत्रयाय। नमः 

आर्यवालोकितेश्वराय


6. बोधिसत्वाय महासत्वाय महाकारुणिकाय। तद्यथा ओं

पद्मपाणि धर धर पद्मभुजे। ज्वल ज्वल हुतासने भुरु भुरु

विमोक्षभुजे दह दह सर्व्वमलाम् अमोघपाणिवरदे। हूं हूं।

निर्दह पापां। शम शमनि लोको<र्>त्तारणि। समन्तरश्मिवरदे।

तुरु तुरु प्रवर अमोघसिद्दिः। ओं भूर् भुव नमो[ऽ]स्तु ते स्वाहा॥

॥एष ज्वलनविमोक्षमण्डलमहा-


7. पाशहृदयधारणी होमविधिलोकोत्तरम् अनुत्तरः। ततो विद्या-

धरेण तेन भस्मना महाद्भुतानि सर्व्वकार्याणि कर्त्तव्यानि। ये

च तं भश्मना शरीरे निपतन्ति। स सर्व्वावरणपापानि परिमुक्तो

भवति। ललाटे तिलकं कृत्वा चातुर्थकं ज्वरं सद्य परिमुच्यते।

द्वैतीयकम् त्[र्]ऐतीयकं रात्रिदैवसिकं। अर्द्धरात्रिकं। अर्द्ध-

दैवसिक(कं) सा(स)म्वत्सरिकं मासिकं स-


83b


1. प्ताहिकं सततज्वरं शीतज्वरं न काचित् भूय संतिष्ठन्ति

। योजनशतान्तरेण प्रपलायन्ते मूर्द्धसिरे तिलकं कृत्वा

चतुर्शीतिग्रहशतसहस्राणि परिमुच्यते। सर्व्वे च दशविदिशानि

योजनसहस्राणि प्रपलायन्ते। <सर्व्वे च दशविदिशानि योजनसहस्राणि


(४)


प्रपलायन्ते।> भस्मना धूली वायत्वाभिमुखम् ओकिरेत् यत्र स्थाना

दिशि निपाते न तत्र भूय यक्षरा-


2. क्षसभूतपिसाचाप्रेतकुम्भाण्डो अपस्मारविघ्नविनायका तिष्ठन्ते

सर्व्वे प्रपलायन्ते। न तत्र स्थाने भूय शक्यम् आक्रुमितुं।

हृदयस्थाने तिलकं कृत्वा सर्व्वव्याधि मुच्यते। नाभिस्थाने तिलकं

कृत्वा सर्व्वां कुक्षिगतां रोगां सद्य परिमुच्यते। विषदष्टस्य

स्पृशेन् निर्विशो भविष्यति। विषमत्तस्य दद्यान् निर्विषो-र् भविष्यति।

भस्मना स्नपयेत् सर्व्वकाखोर्द्द औकिरण-


3. मन्त्रगराद् विनश्यन्ते-श् चित्रकुष्ठगण्डविचर्च्चिकं पिटक-

लोहलिङ्गविससर्व्वदद्रू उष्णोदकेनालोड्य लेपयेत् घृतेन सप्तजप्तेन

म्रक्षयेत् सद्य सर्व्वव्याधिना परिमुच्यते। अभ्रम् अभिमुखं

क्षिपेत् सर्व्वसीतवाताशिनि न पतन्ति। वायुम् अभिमुखं क्षिपेत्

वायुबन्धः कृतो भवति। चतुर्दिश क्षिपेत्। महासीमाबन्धो भवति।

समनन्त्र(न्त)-


4. परिमण्डलम् ओकिरेत् सर्व्वपुष्पफलसस्यपुष्पद्रुमवृक्षसा-

हि(खि)न्योद्यान आरामपर्व्वता(त)तृणगुल्म औषधिवनस्पति सर्व्वे

स्वारक्षिता भविष्यन्ति। समन्तयोजनसतान्तरेण महासीमाबन्ध

परिमण्डले कृतो भविष्यन्ति। <समन्तजोयनशतान्तरेण महा-

शीमाबन्ध परिमण्डले कृतो भविष्यति।> चतुर्षु नगरद्वारेषु ओकि-


5. रेत्। यावन्ति तत्र सत्वा प्रविशन्ति निर्गच्छन्ति स्त्रीपुरुषदारक-

दारिकाश्रमणब्राह्मणक्षत्रियविट्छूद्रा तिर्यग्योनिगता द्विपद-

चतुष्पदाः। मृगपक्षिणा ते सर्व्वे विगतावरणपापा भविष्यन्ति।

लंघितमात्रेण सर्व्वव्याधिदुःखं परिमुच्यते। सर्व्वव्याधिविगतो

भवन्ति। जन्मपरिवर्त्ते सुखावतीलोकधातुम् अनुव्रजन्ति। अवै-

वर्त्याकारस्थानं प्रतिलभ-


6. न्ते। यावद् बुद्धत्वे स्थास्यन्ति। श्मशानं वा चितस्य मृतकम्

उपरि वा भस्मनाम् ओकिरेत्। ये च ते सत्वा नरकोपपन्ना ते

सर्व्वे सद्ये(द्यै)व नरका विच्यवन्ति। अभिरतिर् व्वा शुखावतिर्

व्वा उपपत्स्यते। नगरं वा विहारं वा देवकुलम् वा


(५)


ग्रामम् वा गृहे वारण्यायतने वा समन्तपरिमण्डलम् ओकिरेन्

महासीमाबन्धमहासान्तिर् भविष्यति। राजकुलद्वारे ओकिरेद् राजानं

शान्तः-


7. पुरपरिवारं स्वारक्षितो भवति। सर्व्वशत्रुभि महाजन्म(नम) ध्ये-म् ओकिरेत् सहावकीर्ण्णमात्रेण सर्व्वे ते महाजन विगतावरण-पापा भविष्यन्ति। विगतव्याधिकिल्बिषाश् च भवन्ति। अन्यानि कार्याणि

शतसहस्राणि करोति। स्वमतस्वबुद्धिना सर्व्वत्र प्रयोक्तव्य<ग>म्

इति॥॥ अतो विमोक्षमण्डल अमोघपाशहृदयं लोकोत्तरदुष्यं

प्रवक्ष्यामि॥


84a


1.॥॥ पटे वा चीनांसुवस्त्रे वा सुचौक्षसुब(ब)द्धस् तथा।

द्विहस्तं वा त्रिहस्तं वा चतुर्हस्तम् वा प्रमाणतः। तत्र मध्ये

लिखेत्। अमोघपाशलोकेश्व[र]ब्रह्मवेषधरं जटामकुटमण्डितं। 

। अमिताभजिनमकुटधरं नवचन्द्रदक्षिणं। चत्रुभुजं

सर्व्वालङ्कारविभूषितं पर्यङ्कनिषण्णं। पोतलकः पर्व्वतः

कर्त्तव्यं नानापुष्पलतावकीर्ण्णं नानारत्नलतावकीर्ण्णन् तस्योपरि

सि[ं]हासनं कर्त्तव्यम्।


2. सर्व्वालङ्कारविभूषितं सिंहासनस्योपरि पद्मासनं कर्त्तव्यम्

। तस्योपरि आर्यावलोकितेश्वरनिषण्णं कर्त्तव्यं पद्मतृशूलधरं

पाशधरं सरूपं। आश्वासहस्तं मूर्द्धतो कूटागारविमानं

नानादिव्यरत्नखचितं स<ं>वेदिकाकारम्। वेदिकस्योपरि सप्त-स्-

तथागता कर्त्तव्याः। सर्व्वालंकारविभूषिता पद्मासनं यथावत्प्र-

माणं। तस्य तथागतस्योर्द्वतः। मध्ये


3. कूटागारे त्रयस् तथागता कर्त्तव्याः सर्व्वालङ्कारविभूषिता

पर्यङ्कनिषण्णा वैरोचनम् अमिताभञ् च अवलोकितेश्वरप्रभञ्

च तथागतं। आर्यावलोकितेश्वरञ् च समन्तव्यामपरिमण्डलेन

द्वात्रिंशति तथागतव्यूहिता कर्त्तव्या। तथागतपरिमण्डलेन

। नानारश्मिज्वाला कर्त्तव्याः। तृशूलमाली च कर्त्तव्यं तस्यैव


(६)


परिमण्डलस्य द्वातृंशति


4. देवताः कर्त्तव्याः। ऊर्द्ध्वमध्ये वज्रधरं क<ं>र्त्तव्यः

विकृतवदनं रौद्रं वज्रं भ्रामयमानं कर्त्तव्यम्। ततो

ब्रह्माविष्नुमहेश्वरं। ईश्वरमहेश्वरदेवपुत्रा इन्द्र तृदशेन्द्रस्य

अकनिष्ठा देवपुत्रा तुषिता देवपुत्रा। निर्मितदेवपुत्रा। चन्द्रसूर्यश्

च देवपुत्रा चत्वारश् च महाराजान यमवरुणकुबेरकुमार अग्नि-

देवतं महाकालन-


5. न्दिकेश्वरनन्दोपनन्दबलदेवपूर्ण्णभद्रमाणिभद्र-

शुद्धावा[सा]स् त्रयस्त्रिंशदेवता परि(र)निर्मितवशवर्त्ती। देवपुत्रा

कर्त्तव्या देवतापरिमण्डलेन समन्तपद्ममाला कर्त्तव्याः। वज्र-

तृशुला परिरचितं पद्ममालाबहि समन्तेन हस्तं करविनिर्गता

कर्त्तव्यं। नानापुष्पनानामणिरत्ननानाप्रहरणधारिणं कर्त्तव्य

समन्त-


6. ज्वालामालाञ् च कर्त्तव्यम्। दक्षिणपार्श्व आर्यतारा अर्द्धपर्यङ्क-

निषण्णा कर्त्तव्याः। आर्यावलोकितेश्वरमुखम् उल्लोकयमानं।

उत्पलमणिरत्नहस्ता सर्व्वालङ्कारविभूषिता। तस्य पृष्ठत भृकुटी

कर्त्तव्या नानापुष्पान् धारयन्ती सर्व्वालङ्कारविभूषिताः। वामे

श्वेता कर्त्तव्या अर्द्धपर्यङ्कनिषण्णा<नि> कुमुदमणिरत्नहस्ता-द्

अवलोकितेश्वरं निरीक्षमाणण् नाना-


7. लंकारविभूषिताः। तस्य पृष्ठतः श्वेताया पद्मसुन्दरी कर्त्त-

व्याः। नानापुष्पधारयन्ती सर्व्वालङ्कारविभूषिता तारादेव्या श्वेताया

अधस्ताद् दशपारमिता कर्त्तव्याः सर्व्वे[ऽ]वनतसिरा श्वेतवस्त्र-

धारिणा सर्व्वालङ्कारविभूषिताः उत्थितकाः। दक्षिणपार्श्वे एकजटा-

राक्षसी रौद्री कर्त्तव्या अर्द्धपर्यङ्कनिषण्णा चतुर्भुजा पाशपरशु-

खद्गवज्रहस्ता


84b


1. आर्यावलोकेतेश्वरं निरीक्षमाणं वामेन दूती दंष्ट्राकरालवक्त्रा

कर्त्तव्याः सर्व्वालङ्कारविभू[षि]ताः। चतुर्भुजा वज्रपरशुपाश-


(७)


तृशूलहस्ता अर्द्धपर्यङ्कहस्ता (निषण्णा) ज्वलागर्भं लोकेश्वरं

निरीक्षमाणं कर्त्तव्यं। पोतलकपर्व्वा(र्व्व)तान्तरमध्ये नन्दोप-

नन्दनागराजा सभवननागकन्या कर्त्तव्याः। नानापुष्पधारिणा उपरि

भगवन्त लोकेश्वरम् उत्क्षेपयमानं कर्त्तव्यम्। पर्व्वतस्याध-


2. स्ताद् अनोपम्यावासन्तीपृथिव्यादेवताश्रियाभीमासरस्वतीशंकलसं-

खिनी कर्त्तव्याः सर्व्वे स्वालंकारविभू[षि]ता नानापुष्पमणिरत्नधारा

कर्त्तव्याः। कूटागारस्य मूर्द्धतो अष्टमहाभयचैत्य एकपंक्तिना

कर्त्तव्यः यथा चैत्यालङ्कारविभूषणं तथालङ्करितव्यं। चैत्य-

स्याधस्ता दक्षिणपार्श्वे बोधिमण्डोपसंक्रमणं कर्त्तव्यं भग-

वन्त लोकेश्वरः कर्त्तव्यं सम्मुख पू-


3. जयमानं कर्त्तव्यम्। आर्यवज्रधरं चामरव्यग्रहस्तञ्

च कर्त्तव्यम्। तस्याधस्ताद् रिषिदेवपुत्रा कर्त्तव्याः। भग-

वन्तं नानापुष्पं पूजया(यमा)नं कर्त्तव्यं वामपार्श्वे

धर्मचक्रप्रवर्त्तनं कर्त्तव्यं। आनन्दवज्रधर चामर-

व्यग्रहस्ता वीजयमानं कर्त्तव्यं भगवन्तं सम्मुखम्

आर्यावलोकितेश्वर अमोघपाशदक्षिणपार्श्वे कर्त्तव्यं पूजयमानं

भगवन्त वा-


4. मपार्श्वे क्रोधराजं कर्त्तव्यं भगवन्तं पूजयमानं

तस्यार्द्धस्तात् रिषिदेवगणा कर्त्तव्यं भगवन्तं पूजयमानं

। दुष्यस्य वामदक्षिणे बहि समन्तेन अष्टोत्तरशत-स्-तथागतः

प्रतिमा कर्त्तव्याः यथाप्रमाणं पर्यङ्कनिषण्णं पद्मासनञ् च

कर्त्तव्यः। अलंकारविभूषितं कर्त्तव्यं विद्याधर आर्यावलोकिते-

श्वरसिंहासनपादमूले कर्त्तव्यं


5.। जानुप्रपतिताः पुष्पधूपकटच्छगणेतृकहस्ता। आर्यावलोकिते-

श्वरमुखं कर्त्तव्यम्। शुचिना सुस्नातेन शुचिवस्त्रधारिणा

भवितव्यं नानारसतृशुक्लभोजनभुक्तेन भवितव्यं शुचिना

नवभाजनेन अश्लेषकरङ्गै चित्रयितव्यं। अयङ् च विविधकुभोज्य-

कुवस्त्रपरिवर्जितेन मद्यमांसपलाण्डुलशुनगृञ्जनकसंकर-

परिव-


(८)


6. र्जितेन भवितव्यं दिने दिने पञ्चगव्योपस्पृष्ट्रेन भवितव्यं।

विगतमलमात्सर्येर्ष्यापगतेन भवितव्यं। मैत्रीकरुणा अध्याश-

येन तृरत्नप्रसादपरेण भवितव्यं। दुष्यपटे चित्रयितव्यं।

कर्पूरकास्तूरिकाधिवासितेन विविधरङ्गेण चित्रयितव्यं। निराकुलेन

सङ्गणिकापरिवर्जितेन भवितव्यं। स्त्यानमिद्धपरिवर्जितेन भवि-

तव्यम् इति। चित्रयि-


7. तव्यम् एवं सुपरिकर्मकृतेन <कर्मकृतेन> कर्त्तव्यम्

। शुक्लपक्षे चित्रयितव्यं। कृष्णपक्षे च (न) चित्रयितव्यं।

सुप्रसस्त<द>नक्षत्रेण सुमङ्गल<न्>तिथिदिवसे प्रारभितव्यं। पुष्यनक्षत्रमङ्गल्ये। सर्व्व-स्-तथागतप्रशस्ते सर्व्वबोधि-

सत्वाधिष्थिते। सर्व्वदेवतैर् अनुगृहीतम् इति। यः कश्चित् कुलपुत्रो वा

कुलदुहिता वा भिक्षुभिक्षुण्योपाशकोपाशिका


85a


1. वा। श्रमणब्राह्मणक्षत्रियविच्छूद्रा वा स्त्रीपुरुषदारकदारिका

वा अयम् अमोघपाशहृदयं सर्व्वबोधिसत्वनमस्कृतं। सर्व्व-

तथागतावलोकितं महाबोधिमण्डलगुह्यं विमोक्षमण्डलगुह्यं

। महादुष्यपटं पश्यति। सह दर्शनमात्रा च दुष्यस्य सर्व्व-

पापावरणविनिर्मुक्तो-र् भविष्यति। पञ्चानन्त्रर्यकारकस्य अवीचिपरा-

यणस<र्>द्धर्मप्रतिक्षेपकः। आर्यापवाद-


2. कः सर्व्वबुद्धबोधिसत्वस्राविकप्रत्येकबुद्धाप्रति-

क्षिप्तक दर्शनमात्रादि सर्व्वपापा विशठन्ति विमुच्यन्ति।

महासम्वरसंगृहीतश् च भविष्यति। नवानवतिगङ्गानदीवालुककोटी-

नियुतशतसहस्रैः सम्मुखबोधिमण्डोपसंक्रमणधर्मचक्र-

प्रवर्त्तनदर्शनतुल्यो वेदितव्यः सम्मुखपोतलकपर्व्वतसभव-

नविमानं पर्षन्मण्डलां। आर्यावलोकिते-


3. श्वर सम्मुखं दर्शनः। तुल्योयं दुष्यपटदर्शन नात्र

कांक्षा न<ं> विमतिर् उत्पादयितव्यं। एकक्षणचित्तप्रसादेन

महापुण्यस्कन्धपरिगृहीतो भविष्यति। महाकुश[ल]मूलावरोपित-


(९)


समन्वागतो भविष्यति। आर्यावलोकितेश्वरसन्वामां(मन्वा)हृतवरदो

भविष्यति। सर्व्वतथागतपरिगृहीतश् च भविष्यति। परिशुद्ध-

मानसकायचि-


4. त्तश् च भविष्यति। सर्व्वेन्द्रियपरिशुद्धश् च भविष्यति

विगतमलमात्सर्येर्ष्यापगतो भविष्यति। सर्व्वपृयस्त्र(लो)कदर्शनश्

च भविष्यति दीर्घायुश् च भविष्यति। सर्व्वव्याधिविगतश् च 

भविष्यति। च्युतः सह भावतायां सुखावतीलोकधातुम् उपपत्स्यते

। जातीजातिस्मरश् च भविष्यति। उपपादुकपद्मेभ्यो प्रजास्यते।

अवैवर्त्तिको


5. भविष्यति। सह दर्शनमात्रया अमिताभस्य तथागतस्य। यश्

चेनं दुष्य पूजयिष्यन्ति। तेन दशसु दिक्षु सर्व्वतथागता पूजिता

भवन्ति। एष पश्चिमको गर्भवासजात्या। न भूयाविद्यान्धकारेषु

पतति। एवं असमसमतुल्यो[ऽ]यं दुष्यविधिलोकोत्तरसाधनविधिर्

उत्तमम् इति॥॥ अतः। मन्त्रविधि[लो]कोत्तरसाधनं प्र-


6. <प्र>वक्ष्यामि येना सह स्मरणमात्रेण सर्व्वतथागतानां

सम्मुखदर्शना [अ]वतिष्ठन्ति। दशसु दिक्षु सर्व्वबुद्धक्षेत्रद्वारा

अपावृता भविष्यन्ति। सर्व्वबोधिसत्वानां सम्मुखदर्शनं<म्>

पस्यन्ति। सर्व्वमण्डलदेवतां संमुखरक्षावरणगुप्तये

संविधास्यन्ति। सर्व्वमण्डलमुद्राहृदयकल्पा आमुखीभवन्ति

लोकत्तरमार्गगमनपरिशुद्धश् च भवति॥॥ नमस् त्र्य-


7. ध्वानुगत<ः>प्रति<ति>ष्ठ(ष्ठि)तेभ्यः सर्व्वतथागतेभ्यो

महाबोधिसत्वार्यगणवरेभ्यः। नमः। आर्यवज्रधरसर्व्वमण्ड-

लदेवता(ता)विद्याराजेभ्यः। ओं अमोघावलोकितमहामण्डलपद्मे

सर्व्वबोधिसत्वनमस्कृते। भर भर समन्तावलोकिते। अमोघ-

महाब्रह्मवेषधरः। धर धर महाकारुणिकः। बोधय बोधय

महाबोधनि। बोधि बोधि पद्मविबोधनि। स-


85b

1. र्व्वपापान्धकारप्रशमनि सर्व्वदुर्गतिनिवारकमहाकारुणिकः।


(१०)


बहुविविधवेषधरः सतथागतगर्भाः। हुरु हुरु अमोघगर्भे

।तुरु तुरु अमोघपाशहस्ते। मुरु मुरु विमोक्षभुजे। क्षिणि क्षिणि

सर्व्वावरणविशुद्धे। भर भर सर्व्वतथागतपरिपूरिते। तर

तर तारय। अवलोकय पद्मभुजे। मणिकनकविभूषितबाहु दम

दम दुर्द्दान्तानां महा-


2. बोधिसत्ववरद महाकारुणिक सर्व्वदेवगणनमस्कृतऋषिगण-

स्तवितह् शतसहस्रचन्द्रसूर्यातिरेकरश्मि-र्-अवभाषित महापशुपति-

वेशधरः परमशुद्धसत्वः। अवलोकिते लोकेश्वर महेश्वर

परमकारुणिकमण्डलेश्वर सुप्रबुद्ध महापद्मभुजेश्वर

महाविद्याधरेश्वर। धिर धिर महाधिर महाकारुणिक महामोक्ष-

मण्डलधर सर्व्वतथागतगुह्यमुद्रसमयधरः। म-


3. हाबलवीर्यधरः। महामणिमौलीधरः। अमिताभमकुटधरः

। धुरु धुरु समन्तावलोकेश्वर महेश्वर पाशधरेश्वर।

पर पर परममहामैत्री अवलोकितः सर्व्वसत्वसन्तारकः

सिद्धि सिद्ध्य् आसापरिपूरक। महावरप्रद नमो[ऽ]स्तु ते स्वाहा

॥ अयं सर्व्वविमोक्षमण्डलं। सर्व्वबोधिसत्वनमस्कृतं।

सर्व्वतथागतगुह्य आर्यावलोकितेश्वरपरमहृदयगु-


4. ह्यं सर्व्वावरणपापपरिशोधकं लोकत्तरमार्गविशोधक

सर्व्वतथागतकुलप्रवेशम् इति॥॥ नमो रत्नत्रयाय नमस्

त्र्यध्वानुगतबुद्धबोधिसत्वेभ्यः। ओं वीर वीर महामण्डल-

विश्वरूपषट्पारमितापरिपूरकः सर्व्वबोधिसत्वनमस्कृतः परम-

विपुलविमोक्षधरः। महापाशविलोकित। अमोघपाशज्वलित महा-


5. ज्वालावलोकित महामणिदीप्तधरः समन्तावभाषितः ज्वल

ज्वल महागम्भीरविमोक्षपाशधरः। बलबोध्यङ्गाकर्षक ओं

ब्रह्मरूपमहामोघपाश हूं हूं फट् फट् सर्व्वसत्वविलोकित

वरप्रद नमो[ऽ]स्तु ते स्वाहा। अयं विमोक्षमण्डल अमोघपाश-

हृदयं लोकोत्तरविकुर्व्वणं॥॥ नम रत्नत्रयाय नमः

। आर्यावलो-


6. कितेश्वराय बोधिसत्वाय महासत्वाय महाकारुणिकाय। ओं


(११)


विबुध्य विबुध्य विबुध्य महाकारुणिक। तर तर तारय महार्ण्ण-

वपारं महाभुज विलोकय हूं फट(ट्) स्वाहा॥ उपहृदयः॥॥

नमः सर्व्वतथागतानां नमो आर्यावलोकितेश्वरस्य बोधि-

सत्वस्य महासत्वस्य महाकारुणिकस्य। ओं अमोघपाश महादान-

पारमिता परिपूरय हूं द-


7. र दर विविधविचित्रैः सर्व्वसत्वोपभोगसर्व्वतथागत-

महादानपूजामोघैः प्रवर्त्तय। तर तर तारय महापद्म-

पाणिं हूं फट् स्वाहा॥ अयं दानपारमितामहापाशहृदयं यत्

सुसर्षपफलमात्रम् अपि दानं<न्> दद्यात् तेन स्मरणमात्रया

सप्तजप्तया महति महाविस्तीर्ण्णमहायज्ञदानविकुर्व्वणं दान-

पारमितापरिपूर्ण्णो भवति॥॥


86a


1. नमः सर्व्वतथागतानां नमो आर्यावलोकितेश्वराय

बोधिसत्वाय महासत्वाय महाकारुणिकाय। ओं अमोघसील संभर

सम्भर। भर भर महाशुद्धसत्व पद्मविभूषितभुज धर

धर समन्तावलोकित हूं फट(ट्) स्वाहा॥ अयं धारणी उपवसितेन

आर्याष्टाङ्गपरिगृहीतेन एकविंशतिवारा अनालापत अनुस्मारयन् ततो

अमोघपाशहृदयं जपताः स-


2. ह जपितमात्रा च महापरिशुद्धसीलसमन्वागतो भविष्यति। शिल-

पारमितापरिपूर्ण्णो भवति। शीलसौगन्धिकमहागन्धां कायां

प्रवास्यन्ते। दशदिशि लोके विघ्रस्यते। यश् च दिने दिने अयं धारणी

उस्मारयति। स च नित्यं परिशुद्धशीलसमन्वागतो भविष्यति। यश् च

भिक्षव अखण्डशीला तेनायम् उपवसितेन जपितव्यम्। सह जपितमात्रा


3. परिशुद्धशीलो भवति महाशीलसमन्वागतश् च भविष्यति॥॥

नमः सर्व्वतथागतानां नमो आर्यावलोकितेश्वराय बोधिसत्वाय

महासत्वाय महाकारुणिकाय ओं महावि(वी)र्यामोघविलोकिते। वर

वर दृढविर्य महाबल बलबल महाबोध्यङ्ग च(ब)लबोध्यनि


(१२)


हूं फट(ट्) स्वाहा॥॥ अयं धारणी स्मारयं यदा


4. कालं परिशुद्धान् मनसिकारां सह स्मरणमात्रादि वीर्यपारमिता-

परिपूरिर् भविष्यति। न च कदा चिद् वीर्यपारमिताद् विरहितो भविष्यति

यावद् बोधिमण्डपर्यवसान॥॥ नमः सर्व्वतथागतानां

नमो आर्या[व]लोकितेश्वराय बोधिसत्वाय महासत्वाय महाकारुणिकाय।

ओं अमोघका(क्षा)न्ति सर्व्वबोधिसत्वक्षमिण क्षण


5. क्षण महामैत्रीकरुणासत्ववत्सल महाकारुणिक सर्व्वसत्व-

क्षमिण हूं फट् स्वाहा। अस्या धारण्या महाक्षान्तिमहाकरुणासर्व्व-

सत्वभूतदयाचित्तेन ये भ्यतीता ये च तिष्ठन्ति। ये चोत्पन्ना नरक-

वासिना तिर्यग्योनिगता। ये च मृगपक्षिणा तेषां करुणार्थाय स्मारयेद्

दारणिम् उत्तमं मुच्यन्ते नरकासत्वा मुच्यन्ति ये च ति-


6. ष्ठन्ति बहुजना क्षान्तिपारमितापरिपूर्ण्णास्या यावद् बुद्दक्षेत्रे

प्रतिष्ठित इति॥॥ नमः सर्व्वतथागतानां नमः

आर्यावलोकितेश्वराय बोधिसत्वाय महासत्वाय महाकारुणिकाय

। ओं सर्व्वतथागतमहामोघ करुणाध्यानसमाधिः सर्व्व-

विमोक्षप्रकम्प्य चुरु चुरु हूं फट् स्वाहा। अयं धारणि

एकाग्रमनसिकारेण आर्यावलोकितेश्वर-


7. म्-अध्यालम्ब्यस्मारयन्तेन सह स्मरणमात्रेण ध्यानपारमिता-

परिपूर्ण्णो भवति। अन्यानि च शतसहस्रसमाधिप्रतिलाभो भविष्यति

। सर्व्वबुद्धक्षेत्रान्तर्गतो भविष्यते। जापमात्रया सर्व्वत्र

समाधिना वशवर्त्तीभविष्यति॥॥ नमः सर्व्वतथागतानां

नमो आर्यावलोकितेश्वराय बोधिसत्वाय महासत्वाय महाकारुणिका-


86b


1. य। ओं अमोघमहाप्रज्ञावभास समन्तस्फुरणबुद्धिः प्रसर

प्रसर समन्तबुद्धिः। अवलोकय भगवन् प्रज्ञावलोकित चक्षुषा

महाप्रज्ञावरदपाणि महाप्रज्ञापद्मधारिण भुजे हूं फट(ट्)

स्वाहा॥ अस्या धारिण्या सह स्मरणमात्रया प्रज्ञापारमितापरिपूर्ण्णा

भवंति विविधमह(हा)प्रज्ञोपायकुशलबुद्धि प्रवर्द्धते। सतत-


(१३)


समिता दशपारमितानुगतबुद्धिभिर् भविष्यति। द-


2. शसु दिक्षु सर्व्वतथागता अतीतान्नागतप्रत्युत्पन्नाबुद्धानुस्म-

रणप्रज्ञाबुद्धिर् भविष्यति। न च कदा चित् भूय षट्पारमिताविरहितो

भविष्यति। न च दानशीलक्षा<ं>न्तिवीर्यध्यानप्रज्ञाबुद्धिर् विहीनो-र्

भविष्यन्ति। न च विप्रमुह्यन्ते यावद् बोधिपर्यवसानाम् इति॥

॥ अमोघषट्पारमिताधारणी॥ ॥ नमो रत्नत्रयाय नमः।

आर्यावलोकितेश्वराय बो-


3. धिसत्वाय महासत्वाय महाकारुणिकाय। तद्यथा ओं अमोघ-

विमोक्षमण्डलमहाद्भुतविमले। धर धर धिरि धिरि

महाद्भुतकमल-म्-अमिताभमकुटधरं हूं फट् स्वाहा॥

मण्डलखात्रमन्त्र सर्षपगन्धोदककलसं परिजप्य समन्तेन

विसिञ्चयं। सह सिञ्चितमात्रेण समन्तपरिमण्डलयोजनाभ्यन्तरेण

भूमिपरिकर्मपरिशुद्धो-


4. र् भविष्यति। यथा स्फटिकमहामणिरत्नस्वच्छसुनिर्मलविराज-

मानं तथायं धरणितलो भविष्यन्ति। सुशुद्धासुनिर्मलसुरम-

णीयसुमनोरमभूमिर् भविष्यति। सुभूमिभागश् च भविष्यन्ति

ये तत्र भूमिप्रदेशे <स्त्रीप्रदेशे> स्त्रीपुरुषदारकदारिकाश्रमण-

ब्राह्मणक्षत्रियविट्छूद्रा वा ते सर्व्वे अवैवर्त्तिकभूमौ प्रति-

ष्ठापिता भविष्यन्ति। ते स-


5. र्व्वे अवैवर्त्तिका भविष्यन्ति। च्युतः सुखावतीलोकधातुम्

उपपत्स्यन्ते। जातीजातिस्मरश् च भविष्यंति। महापुण्यस्कन्धमहा-

कुशलमूलावरोपितो भविष्यन्ति। यावद् अनुत्तरां सम्यक्सम्बोधिम्

अभिसंभोत्स्यन्ते। ये च तिर्यग्योनिगतामृगपक्षिणास् ते तत्र

प्रदेशम् आक्रामन्ति। प्रविसन्ति ते। ते सर्व्वे परिमुक्ता भविष्यन्ति॥

सुगतमार्गप्रतिपं-


6. न्ना भविष्यन्ति। ये च तं मृत्तिकाहस्तगताम् उपस्पृशन्ति। ते

सर्व्वे विगतव्याधयो विगतक्लेशा विगतज्वरा निरावरणा विग[त]-

पापा भविष्यन्ति। न च तेषां भूय कायवेदनारोगोपपत्स्यन्ते।

सुखसमर्पितनित्यशरीरश् च भविष्यतीति॥॥ भूमिपरिशोधनविद्या


(१४)


॥॥ नमो रत्नत्रयाय। नमः। आर्यावलोकितेश्वराय

बोधिसत्वाय महासत्वाय महा-


7. कारुणिकाय। तद्यथा ओं अमोघ द्रुमलतावृक्षशाखपत्रपुष्प-

फलविटपारोहनदीतडागपुष्किरिण्योत्सह्रदसुन्दरप्रस्रवणविवि-

धविचित्र परिशोधय पद्मभुज। सम सम समन्तेन परिमण्डल

परिशोधय। मल मल विमल निर्मल सुपरिशुद्धपद्मोपलिप्त।

जलमलां विशुद्ध शोधय शोधय परममहाशुद्धसत्व हूं फट्

स्वाहा। नमो त्रिभुवने हूं फट् स्वाहा।  अनया


87a


1. चन्दनपन्मो(द्मो)दकर्षव(सर्ष)पं परिजप्य द्रुमस्तम्भ-

पुष्पवृक्षं। फलवृक्षं। नानालत(ता)तृणगुल्मो(ल्मौ)षधिनदीह्रद-

तडागपुष्किरिणीप्रस्रवणसुन्दरम् उपरि सिञ्चये ते सर्व्वे अमृत-

परिषिक्ता भवन्ति। सर्व्वे ते दिव्यपुष्पफला भविष्यन्ति। अन्तश

दिव्यतृणगुल्मौषधिवनस्पतयो भविष्यन्ति। ये च त[ं] स्पृष्टमात्रा

स्पृशन्ति। ते सर्व्वे विगतमलमात्सर्येर्ष्यापगता भविष्यन्ति। विगत-

पित्तश्लेष्मकफ-


2. दाता दुर्गन्धशरीरा अन्तर्ब्बहि सर्व्वे परिशुद्धा भविष्यन्ति। ये

च अस्यन्तरशरीरा विविधरोगव्याधिना ते सर्व्वे परिमुक्ता भवन्ति

विशुध्यन्ते विनश्यन्ति सुपरिशुद्धे निर्मलो भविष्यतीति। ये च तं

उदकं स्नापयन्ति ते दिव्योदकबोध्यङ्गवारिस्नातो भविष्यन्ति।

सर्व्वमलपापावरणस्नातो भविष्यतीति। अष्टाङ्गजलस्नातो भविष्यति।

ये च तन् दन्तकाष्ठा भोक्ष्य-


न्ते। ते महाता स्मृतिबुद्धज्ञानप्रवर्द्धितो भविष्यति।

सर्व्वशोकविगतो भविष्यति। सर्व्वपाशपरिवर्जितः। नित्यं<ञ्> च

मुखतोत्पलगन्धान् प्रवास्यते। स्निग्धमधुरवाक्यश् च भवति

। कोमलवचनश् च भविष्यति। प्रियालापी भविष्यति। सर्व्वजनपृयो

मनापश् च भवति। किन्नरश्वरश् च भविष्यति। सर्व्वशास्त्राणि

कल्पमन्त(न्त्र)महायान


(१५)


4. श्रवणमात्राद् अवधारयति। मुखाग्रे [ऽ]वतिष्ठन्त इति।

ये च तं पुष्पं जिघ्र<ं>न्ति मालावगुण्ठिता बन्धयति। ते

बोध्यङ्गकुसुममालबद्धा भविष्यन्ति। तथागताभिषेकाभि[षि]-

क्तश् च भविष्यति। घ्राणपरिशुद्धश् च भविष्यंति।

दिव्यगन्धस्पर्शसमन्वागतो भविष्यन्ति। पद्मपत्रसदृश-

जिह्वापरिशुद्धो भविष्यति। दिव्यदन्तसदृशवर्ण्णा भवन्ति। य-


5. स्यालापति स नित्यं स्त्रीपुर(रु)षदार[क]दारिका वशगता भविष्यन्ति

च्युतः। जन्मपरिवर्त्ते <पु>सुखावतीलोकधातुम् उपपत्स्यते।

उपपादुकपद्मेभ्यो प्रजास्यते। जातीजातिश्मरश् च भविष्यतीति।

फलपुष्प उदकवनस्पतितृणगुल्मौषध(धि)परिशोधनमन्त्रः॥

॥ नमो रत्नत्रयाय नमः। आर्यावलोकिते-


6. श्वराय बोधिसत्वाय महासत्वाय महाकारुणिकाय। तद्यथा

ओं अमोघ अमले तृमले विमले निर्मले दिव्यपरिशुद्धे सर्व्व-

मलोपकर्षिते। महाबोधिसत्ववरदे प्रवरपरिशुद्धे। महामणि-

रत्नकायपरिशुद्धे मणिमणि शोधनि महामोघचिन्तामणिशुद्धे।

हृदयशुद्धे कायनिर्मलमहामणिपरिशुद्धे। हुरु हुरु प्रवरपाणि

महाभुजव-


7. रदे तुरु तुरु महासत्ववत्सले। परिशोधय मां सर्व्वपापा

सुविशुद्धमले स्वाहा। अनया विद्याया विद्याधरेण आत्मशरीरे

परिशोधयितव्यं। चन्दनोदककुंकुमकास्तूरिकोदककर्पूरोदक-

सर्षपं पञ्चगव्यमिश्रितं नवे मृद्भाण्डकलसे पूरयितव्यं

अनया विद्यया अष्टोत्तरसहस्रं जपितव्यं। शुलशाटकेन स्नापि-

तव्यं। सप्तवारा <सप्तपला> पिबि-


87b


1. तव्यं। सह स्नापितमात्रेण क्रोधराजेनात्मानम् अभिषिञ्चयं

। सद्य स्नातमात्रेण अभिषिक्तमात्रेण च स्वम् आत्मानम् अन्तर्बहि

सुपरिशुद्धनिर्मलो भवि[ष्य]ति। विगतपापावरणकिल्बिषश् च भविष्यति

। विगतक्लेशव्याधयश् च भविष्यति। विगतजरादयश् च भविष्यति


(१६)


। सर्व्वविघ्नविनायकमारादिम् परिमुक्तो भविष्यति। सर्व्वयक्ष-

राक्षसभूतपिसाचपरिवर्जिता भवण्ति। न च भूय विद्या-


2. धरस्यान्तिके। शक्यम् उपसंक्रमयितुम् अन्तरायार्थाय

सुखं विद्यां साधयति सु[खं] स्वपति सुखं विबुध्यति सुखं

यावज्जीवेन विहरति। सर्व्वमलप्रहीणः सर्व्वतथागतदर्शनं

बोधिसत्वदर्शनञ् च। आर्यावलोकितेश्वरसमुखदर्शन कालक्रिया

भविष्यति सह भावताया सु<ति/>खावतीलोखधातुम् उपपत्स्यते।

अमिताभस्य तथागतस्य सम्मुख पद्मेभ्यो उपपादु-


3 कं प्रजास्यते सर्व्वालङ्कारविभूषितः। लक्षणव्यञ्जनालंकृत-

शरीरश् च जातीजातिस्मरश् च प्र(भ)विस्यति। बुद्धक्षेत्राद् बुद्ध-

क्षेत्रेषु उपसंक्रमते। यावद् बोधिपर्यवसानम् इति। अयञ् च

विमोक्षमण्डलं अमोघपाशहृदयकल्प सकलसमाप्तं मुखाग्रे

अवतिष्ठन्ति। अन्यानि विविधानि विचित्रचित्रग्रन्तैः। तथागतभाषितैः

सूत्रान्तैर् मु-


4. खाग्रे[ऽ]वतिष्ठंति। कल्पशतसहस्रस्यान्तरेण जाति स्मरिष्यत इति

॥॥ ओं अमोघपद्मविमले प्रसर समन्तमुखे स्वाहा॥

मण्डलसूत्रोपदेशविभक्तिमन्त्रः॥॥ ओं अमोघविविधरू-

पविचित्रगन्धरसभरप्रवरभुजे स्वाहा। रङ्गमन्त्ररूपविभक्ति-

चिह्नाप्रहरणालेख्यमन्त्रः॥॥ ओं अमोघसमन्तपरि-

मण्डलपाशबद्धे


5. हूं। मण्डलबन्ध सर्षपेन सप्तजप्तेन॥ ओं अमोघ-

समन्तदशदिग्महासीमाबन्धयः धुरु धुरु हूं फट् स्वाहा॥

सीमाबन्ध सर्षपोदकेन सप्तजप्तेन॥ ओं अमोघरक्षणपाश-

हस्ते भुरु भुरु स्वाहा। आतमरक्षा सर्षपगन्धोदकेन सप्तजप्तेन

॥ ओं अमोघचूडामणि हुरु हुरु नागपाशबद्धे हूँ स्वाहा॥

शिखाबन्धमन्त्र एकविंशतिजप्तया


6. ओं अमोघरक्षा समन्तेन महापाशे भुरु भुरु

स्वाहा। सिष्यसखायमन्त्रा रक्षा सर्षपभस्मना रक्षा कार्या

एकविंशतिजप्तया। ओं अमोघजलविमले सुरु सुरु स्वाहा॥


(१७)


स्नानमन्त्र गन्धोग(द)केन एकविंशतिजप्तेन॥ ओं अमोघ

अमृतबिन्दु चर चर स्वाहा॥॥ उपस्पृशनमन्त्रः॥ ओं

अमोघविद्यावस्त्रे चुरु चुरु स्वाहा<ः>॥ वस्त्रमन्त्रः॥ ओं

अमोघभुग(ज)-


7. ज(ग)कवचवरदे चिरि चिरि स्वाहा॥ कवचमन्त्र सर्षप-

कुंकुमोदकेन॥ ओं अमोघब्रह्मभुजे पर्यन्तेन प्रसर

स्वाहा॥ यज्ञोपवीतमन्त्रः॥ ओं अमोघचूडामणिपद्मे

अभिषिञ्चय मम सर्व्वतथागताभिषेकैर् मणि मणि स्वाहा।

अभिषेकमन्त्रः। ओं अमोघपद्मवसु<व>न्धरे धरे

धर धरणि मण्डे हूँ॥ आसनमन्त्रः। ओं अमोघ-

समन्तपर्य<ं>ङ्के भुवनभुवे स्वाहा॥


88a


1. पर्यङ्कमन्त्रः। ओं अमोघसुरभिपद्मे पर पर

हूं॥ पुष्पमन्त्रः। ओं अमोघविविधगन्धप्रसरैः पुरु

पूर्ण्णभुजे स्वाहा॥ गन्धमन्त्रः। ओं अमोघविविधलेपन-

प्रवरे पिरि पिरि स्वाहा॥ विलेपनमन्त्रः। ओं अमोघगगन-

स्फुरणमयै धूर धूर हूं॥ धूपमन्त्रः। ओं अमोघ-

शुक्लरसरसाग्रा(ग्र)धर विधर हूं। बलिमन्त्रः॥ सर्व्वतृकः॥

ओं अमोघप्रवरान्नविलोकिते। किरि किरि हूं॥ आहारब-


2. लिमन्त्रः। ओं विविधामोघमघम(फ)ल पर पर

हूं॥ फलमन्त्रः॥ ओं अमोघाद्भुतगन्धवरे हूं॥

अर्घमन्त्रः॥ [ओं] अमोघविविधमणिभूषणवरवरे ज्वल

ज्वल हूं॥ अलंकारपट्टपताकशरपञ्चरङ्गिकसूत्रमन्त्रः॥

ओं अमोघविविधभाजने जय जय स्वाहा॥ भाजनमन्त्र सर्व्वत्रिकः

॥ ओं अमोघप्रवरभवनभुवे थर थर स्वाहा॥ प्रवेश-

मन्त्रः॥ [ओं] अमोघनमस्करणसर्व्वत-


3. <त>थागतांजलि हूं॥ नमस्काराञ्जलिमन्त्रः॥ ओं अमोघ-

चक्रे दुरु दुरु प्रदुरु स्वाहा। प्रदक्षिणमन्त्रः। ओं


(१८)


अमोघसमन्त यान्तु भवने भव भव स्वाहा॥ आवाहनमन्त्रः॥

ओं अमोघचिन्तामणे प्रकर्षय धुरु धुरु स्वाहा॥ आयाचन-

मन्त्रः॥ ओं अमोघनिमन्त्रणविमोक्षमण्डले मिलि मिलि स्वाहा

॥ निमन्त्रणमन्त्रः॥ ओं अमोघमहारश्मिज्वालसहस्रे


4. ज्वल ज्वल समन्ते स्वाहा॥ दीप<न्>मन्त्रः॥ ओं अमोघ-

पाशहस्ते प्रसर गच्छस्व भवनं विसर्जितो[ऽ]सि सर सर हूं फट्

स्वाहा॥ विसर्ज्जनमन्त्रः॥ ओं अमोघपाशबन्धसमन्त-

महासमयदृढे हूं फट् स्वाहा॥ समयमन्त्रः॥ ओं

अमोघसमन्ते प्रवर सर सर प्रसर महाभूतेश्वर धिरि धिरि

हूं हूं फट् स्वाहा॥ अनेन मन्त्रेण लड्डुक-


5. मोदकसक्तुमूलकन्दशुक्लबलिं महागणपतिं बलिं दद्यात्

पुष्पधूपं दापयं न शक्यं भूय विघ्नानि कर्त्तुम् इति॥॥

अथ मुद्रं प्रवक्ष्यामि लोकोत्तरमण्डलं॥ येन गृहीतमात्रेण

सर्व्वन् नश्यन्ति पापकाः। विशठन्ति क्लेशकर्म्मावरणसर्व्वकिल्बिषम्

एव च विमोक्षमण्डलकुलसमयमुद्रातत्त्वम् भवति। करे पद्मां

समाधय


6. समाङ्गुष्ठानि स्थापयम्। मध्यमांकुशाकारेण द्वयपाणौ

समाहितः। मुद्रेयं विमोक्षसमया अमोघपाशं अधिष्ठिता।

प्रापक फलमार्गस्य लोकोत्तरविशेषयं॥ ओं पद्मभुजे

पद्मकरे पद्मविमले स्वाहा॥ वज्रपद्मं सदा कुर्यात् सम-

याग्राग्र्यपण्डितः। मध्यमामात्रकुञ्चे(चि)तः पद्मकारकरे सदाः॥

यस्यैयं दर्शनमुद्रेयं लोके


7. ऐश्वर्यस्य समतुलं भवेत्। विमोक्षमुद्रया असंशयं

बुद्धत्वम् अतुलं भवेत्। सर्व्वे बोधिसत्वनमस्कृतम् मुद्रेयं

विमोक्षमण्डलम् अद्भुतं। ओं पद्मे सुपद्मे विमोक्ष-

मण्डलपद्मभुजे स्वाहा॥ पद्मबन्ध समास्थाप्य मध्यमा

वज्रपद्मं निकुञ्चयेत् सर्व्वतथागतविमोक्षगुह्येदं मुद्रं

तत्त्वमोक्षप्रदर्शिका। दर्शना मुद्रम् इत्य् एव सर्व्व नश्यन्ति

दुःकृता


(१९)


88b

1. ओं अमोघे वज्रपद्मभुजे मिलि मिलि स्वाहा॥ पाणौ द्वौ

करपुटौ माणिबन्धं समासतः। वज्राकारमणिं मुद्राचिन्तामणि

विधीयते। अमोघं कुरुते कर्म्म अमोघपूजप्रवर्षकः॥

अमोघषट्पारमितापूर्ण्णो अमोघां बुद्धबोधिसत्वदर्शन।

अमोघविमोक्षमण्डलं गुह्यं पञ्चानन्तर्यशोधकं। ओं

अमोघमणि मणि महामणि पद्ममणि स्वाहा॥ वज्रपद्म(द्मा)ञ्जली

बध्नीयात् पद्मस्फु-


2. ट्विशारदं मध्यमांकुशाकारमुद्रेयं परमशोभनं

शक्यदर्शनमुद्रेयं महद्भि फलम् अद्भुतं॥ लोकोत्तरविशिष्टञ्

च त्र्यध्वबुद्धानाञ् च दर्शनम् इति॥ ओं अमोघवज्रे

महापद्मे<ञ्> जलि सुजलि महाजलि स्वाहा॥ वज्रहृदयपद्मौ च

वज्रबन्धसमग्राश् च तर्जनीयं अङ्कुशाकारनिपीडयं। एष मुद्रा

महातेजा महाबलपराक्रमा। सर्व्वसिद्धिकरस्थाना सर्व्वसिद्धि-

प्रदायिका-


3. ः। लोकोत्तरमहासिद्धि बुद्धत्वाय-म् अनुत्तरः। सर्व्वपापहरं

सिद्धिम् अनुत्तरः। ओं अमोघसिद्धे सर्व्वतथागतसिद्धे

अवलोकय सिद्धे महाविपुलसिद्धे कुरु कुरु स्वाहा॥ पद्मा<ं>ञ्जलि

समास्थाय सममध्योत्थिता तथा। कनिष्ठाङ्गुष्ठविकचा मध्यमा-

मात्र कुञ्चयेत्। मा(प)द्मेश्वरमहासत्वं लोकेश्वरगुरुस् तथा।

विमोक्षमण्डलं सदा


4. सर्व्वबोधिसत्वनमस्कृतम् इत्य् एय(व)ं मुद्रा अमोघपाशस्य

हृदयमुद्राया एष दर्शन मुद्राया लोकेश्वरदर्शनसमो भवेत्

विमोक्षमण्डलतुल्येयं दर्शना मुद्र-म्-उत्तमा। अवैवर्त्तिकत्वं

लभते। सद्य मुद्राया दर्शना प्रवर्त्तनमात्रायाः सर्व्वत्र

समयज्ञस्य भवेत् सद्य दर्शनग्रहणमात्रया महत् फलं

लभते सद्यं बुद्धबोधिर् अनुत्तर-


5. म् इति॥॥ नमो रत्नत्रयाय नमः। आर्यावलोकिते-

श्वराय बोधिसत्वाय महासत्वाय महाकारुणिकाय। ओं अव-


(२०)


लोकितमहाशुद्धसत्वः सर सर समन्तावभासकुण्डलधरः

। अमिताभमकुटधर जटामकुटनववज्रेन्दुमण्डित चर चर

सम्भर भुवनेश्वरपद्मभुजे स्वाहा। सप्त एते महामुद्रा

लोकोत्तरफलदर्शका दर्श-


6. कः। बोधिमण्डमार्गस्य धर्मचक्रप्रवर्त्तकः। भवनं

लोकनाथस्य लोकेश्वरगुरु सदाः। सप्तमुद्रा महामुद्रा सप्तकोटी-

परिवारिता। सप्तेता महामुद्रा यत्र प्रवर्त्तन्ते। गृह्यन्ते मुद्र-

म्-उत्तमा सप्तकोटीमहामुद्रा प्रव[र्]त्तितानि भवन्ति। गृहीतानि

भवन्ति। सर्व्वे ते पूजितसत्कृतानि भवन्ति। मानितानि भवन्ति।

नामोद्ग्रहणहृतानि भवन्ति। एता सप्तमहामुद्रा सर्व्वत्र


7. मनु(न्त्र)साधयम्। सर्व्वत्र सर्व्वकर्मेषु योज्य सर्व्वकरा

मुद्रा लोकत्तरमार्ग-म्-अनुत्तरः। य एतां प्रवर्त्तनदर्शन-

मुद्राया शुचिसुस्नातसाधकः। नासौ गच्छति दुर्गतिनरकं

पश्यन्ते पूर्व्वावरणं सद्यं मुद्रप्रवर्त्तनमात्रया सप्तानां

सम्यक्संबुद्धकोटीनां नियुतसतसहस्राणाम् अन्तिके कुशलमूलम्

अवरोपितो भविष्यति। महापुण्यस्कन्धं संगृहीतो भविष्यति


89a


1.। षट्पारमितापरिपूर्ण्णश् च भविष्यति। दशभूमिप्रतिष्ठितो

भविष्यति। अवैवर्त्तिकस्थानं प्रतिलभते। पञ्चानन्तर्यकारकः

सद्धर्मप्रतिक्षेपकः आर्यापवादकः। अविची(अवीचि)परायण सचेत्

मुद्रग्रहणमात्रया दर्शनमात्रा च सद्यम् एतां सर्व्वपापकां

विनश्यन्ति। सर्व्वबु[द्ध]बोधिसत्वसंगृहीतो भविष्यति। सर्व्वदेव-

नागयक्षराक्षसभूतपिसाचस्वारक्षितश् च भविष्यति। ई-


2. श्वरमहेश्वर चत्वारश् च महाराज यमवरुणकुबेरकुमार

सदानुबद्धा सततसमितं रक्षावरणगुप्तये संविधास्यन्ति

। सर्व्वसत्वानां प्रियदर्शनो भविष्यति। चेत्यभूतसमतश् च

धातुगर्भशरीरो भविष्यति। वज्रसंहतनकायश् च भविष्यति। न

विषं क्रमते तस्य नाग्नि न शस्त्र नोदके नाशिनि नोन्दुरभयं न


(२१)


सिंह न चण्डमृगं नाशीविषं न चोर न तस्करं। न गृ-


3. हभ्रंशं न भूय यक्षराक्षसग्रहं न सर्व्वव्याधी क्रमति

। न गरकाखोर्दोकिरणभयं शरीरे क्रमिष्यन्ति न च पापकां

स्वप्नां कदाचित् पश्यति। नित्यम् एव तथागतदर्शनं पश्यति।

बोधिसत्वदर्शनं पश्यति। नित्यञ् च आर्यावलोकितेश्वरदर्शनं च

भविष्यति। नित्यं<ञ्> च वरदायको भविष्यति। सर्व्वदेवता चास्य

सततसमितं दर्शनकामता


4. भविष्यन्ति। नित्यं<ञ्> च गुणपुण्य ज्वलति। श्रिया च शरीरे

देदीप्यमानशरिरे भविष्यति। सर्व्वत्र चास्य महापूजनीयो भविष्यति

। राजामात्यब्राह्मणगृहपतयसा(स अ)न्तःपुरपरिवारा महापूजनीयश्

च भविष्यति। याव द्वातृंशदेवभवनाद् अपि अभिलशन्ति पूजयित्तं

शक्रस्य तृदशेन्द्राधिपतिदेवब्रह्माविष्नुमहेश्वरयमवरुण-

कुबेर-


5. कुमारऋषिगणश् च महापूजनीयश् च भविष्यति। सर्व्वसत्वाश् च

नित्यञ् च तस्य दर्शनकामता भविष्यंति। नित्यं च प्रियदर्शन-

कांक्षिण इति। विद्याधरेण सुस्नातं शुचिना शुचिवस्त्रधारिणा

भवितव्यन् नानागन्ध (धा)वलिप्त शरीर नाना[धू]पाधिवास्तितम्।

श्वेतचन्दनकु[ङ्]कुमेन द्वयो बाहूं विलिम्पेत् कर्पूरकास्तूरिकेनाधि-

वासितेन शुचिना भू-


6. मिप्रदेशे पर्यङ्कनिषीदे दुष्यपट्टाग्रते वा बुद्धप्रतिमस्याग्रते 

वा। आर्यावलोकितेश्वरस्याग्रते वा इमां मुद्रां प्रवर्त्तयितव्यां

धातुगर्भचैत्याग्र मुद्रां प्रवर्त्तयितव्यां। बुद्धपूजाविधानेन

अर्घपाद्यानिदेव (वेद)नेन। मैत्रीकरुणाचित्तेन भवितव्यं।

सर्व्वसत्वदयापरेण महाकरुणापरिगतहृदयेन भवितव्यं।

एकपुत्रकं इव सर्व्वसत्वानां ज्ञात-


7. व्यम्। आर्यावलोकितेश्वरमनसिकारेण भवितव्यं। बुद्ध-

मससिकारेणा स्मृतिर् भावयितव्यं। इदं सप्तमहामुद्रा

प्रवर्त्तयितव्यं। सप्ताकोटीमुद्राप्रवर्त्तितानि भविष्यन्तीति॥॥

अथ सा[ं]निध्यम् प्रवक्ष्यामि सा[ं]निध्यं लोकोत्तरतत्वदर्शनं


(२२)


॥ अमोघपाशविकुर्व्वणञ् च प्रत्यक्षं स्वाभाविकात्मभावदर्शन

राजनम् वा अन्तःपुरमध्ये वा<ं> म-


89b


1. हाजने च महासम्भे(घे) संघमध्ये भिक्षुगणश् चैव निकाय-

मध्ये वा। चातुर्विद्यमाण्डले। श्रमणं ब्राह्मणं चैव क्षत्रिय-

स्त्रीपुरुषदारकदारिकाविट्छूद्रावैश्यसंघाते तेषां मध्ये प्रत्य-

क्षदर्शनं सद्य अमोघपाशविकुर्वितं लोकोत्तरच्युतोत्पादातीता ये

[ऽ]प्य् अनागता प्रत्युत्पन्नाश् च ये जात्या कर्माकर्मफल तत्वतः।

च्युतोत्पादशुभेन-म् अशुभेन वा ऐश्व-


2. र्यं दरिद्रम् वा राजलम्भो देवभोगैश् च द्वातृंशभवनानि

वा शक्रत्वम्। अथ ब्रह्मत्वं विश्नुमाहेश्वरं सदा। नागयोन्याश्

च प्रेता च यक्षराक्षसगुह्यकैः। नरकं दारुणोत्पदम् अविची(वीचि)-

प्रयन्तदर्शनं ब्राह्मणकुले वा क्षत्रिये वा ये चान्ये विविधकुल-

संघातोत्पाददर्शनं प्रत्यक्षम् इव दृश्यते। लोकनाथस्य तेजसा

लौकिकीकर्मसाध्यं सर्व्वम् एतं प्रदृस्य-


3. ते। जयं विजयं क्षेमं सुभिक्षं अथ दुर्भिक्षं

परमि (मरम् ई)ति उपद्रवं। परचक्रम् वा स्वचक्रम् वा

प्रत्यर्थिकप्रत्यमित्रम् वा युद्धसंग्रामम् एव च। दीर्घायुम्

अल्पायुं वा व्याधिर् व्वा अथ निर्व्याधिः। वर्षम् वा अतिवृष्टि अनावृष्टिम्

वा अकालवर्षम् एव च ऐश्वर्यम् वा विहीनम् वा<ं> सम्पत्तिर् विपत्तिर्

व्वा आगमं निगमो[ऽ]पि वा धनधान्यलाभं वृद्धिञ् च हानिर् व्वा

दुर्भिक्षद-


4. र्शनं यत् किञ्चित् सं<म्>सारकर्मवर्त्तमानानि सुकृतानि दुःकृतानि

वा कुशलम् अकुसलम् वा हानिवृद्धिम् वा जन्मसुजन्मपुत्रलाभं

दुहितृलाभं सुपुत्रं दुःपुत्रम् वा पुण्यवन्तम् अपुण्यवन्तम् वा

गर्भसंस्थितं सत्यम् एतां दर्शनं स(सु)कृतकर्मोपचार न

संशयः। न तिथिं नैव नक्षत्रं अहोरात्रं नैव विधीयते।

केवलं जापबलिं चैव शुचिशौचसुस्ना-


(२३)


5. तञ् च शुचिवस्त्रं धारणं सत्यवादी मैत्रचित्तश् च गुरुशुश्रूषा

सा धारक शुचिभोजनपानञ् च संकरभोज्य विवर्जनम्।

मद्यमाम्सपलाण्डुञ् च लशुनं गृञ्जनकसंकरकृतम्।

परमोच्छिष्टम् इत्य् एष विशेषार्थी परिवर्जयं कुर्यात् कर्मम् इदं

साध्यं प्रत्यक्ष सर्व्वत्र दर्शनम्॥ व्रतचारी नावमन्येत न च 

कुर्याद् अनादरां परो[ऽ]क्षं नैव कर्त्तव्यं अनुशास्त्या ए-


6. वम् उत्तमः। एष परमास्य लोकेश्वरो नाथ ब्रवीत्। आदर्शनं

रूप्यमयं कृत्वा समन्तपरिमण्डलं। षोडशाङ्गुलविस्तारं

सताम्रपद्मासनं हस्तप्रमाणदण्ड ऊर्द्धतो आदर्शस्य

आर्यावलोकितेश्वर अमोघपाशं का[र्]त्तव्यं। रूप्यमयं वा

सुवर्ण्णमयम् वा पद्मासनचतुरङ्गुलप्रमाणं चतुर्ब्बाहूतृशूल-

पाशपद्ममणिरत्नधरं कर्त्तव्यः सुशोधितसुमाष्टदेदीप्यमान्


7. शोधयित्व्यं। ततो विद्याधरेणादर्शलोकेश्वरशरीरं धातुम्

आरोपयितव्यं का[र्]पूरकास्तूरी शरीरं पूरयितव्यं। आदर्शसमन्तेन

रूप्यसुवर्ण्णपुष्पनानारत्नखचितमाला बन्धयितव्यं। ततो

विद्याधरेण तं आदर्शे दिने दिने तृसन्ध्य अमोघपाशहृदयेन

अष्टोत्तरशतं परिजप्य क्रोधराजेनाभिषिञ्चितव्यं यावद् अष्टसहस्र-

पूर्ण्णन् ततो आदर्शं ज्वलति।


90a


1. नानावर्ण्णानि एकज्वाली भवति। तञ् च लोकेश्वरप्रतिमं दिव्योदकं

स्रवति। नानारश्मयो निश्चरन्ति। ततो विद्याधरशरीरे ज्वलति हृष्यति

। अमोघप्रीतिविमला नाम अमोघपाशहृदयकल्पसिद्धिं प्रतिलभतो

सुनिर्मलपरिशुद्धसरीरश् च भविष्यति। ततो विद्याधरेण सर्व्वलोक-

प्रत्यक्षं अमोघपाशविकुर्व्वणसिद्धि दर्शयितव्यम् इति॥ ततो

विद्याधरेण चतुरस्रं


२। मण्डलकं कृत्वा मृद्गोमयसमन्वितम्। चतु[र्]हस्तवैस्त्रारं

ऊर्द्ध्वकाला द्विहस्तप्रमाणतः सुश्लक्ष्णसुमाष्ट<ञ्>श् च कर्त्तव्यः

। विभज्य सूत्रपाशेन नानारङ्गविभक्तयः। चतुर्द्वारविभक्तेन


(२४)


मध्यगर्भ विभाजय मण्डलपद्म अष्टोत्तरं शतं पत्रविचित्र-

यं रण्गविशारदं केशरकर्ण्णिकपरिमण्डलं पद्मस्य परि-

मण्डलं चतुरस्रं वेदिकाचित्रयं नानारत्नविभूषितं। वेदिका-

चतुःकोणेषु च-


3. त्वारो महाराजाम् आलिखेत्। सनद्धबद्धकवचा रौद्ररूप्य-

भयङ्कराः। मध्यवेदिकस्थानेषु अन्तरान्तवेदिका लिखे देवता ईश्व-

रमहेश्वरयमवरुणकुवेरकुमारब्रह्माविष्णुमहेश्व-

र इन्द्रदेवतं वज्रपाणि एकजटाताराश्वेताभृकुटीवज्रदूती चालिखेत्

। नानारङ्गविचित्रैः सर्व्वालङ्कारविभूषितैः सर्व्वै नानाविचित्रैः

पुष्पह-


4. स्ता कर्त्तव्याः। बहिर्वेधिका तृशूलमाल कर्त्तव्यं वज्रमालि च

पद्ममाला समन्ततः॥ मालासमन्तरमध्ये च चतुःकोणान्तरेषु

च। अष्टदेव्या कर्त्तव्याः। भीमा अनोपम्यावासन्तीश्रीसरस्वतीपृथि-

वीदेवता। संखिनीपुष्पदन्ती च सर्व्वालंकारविभूषिता कर्त्तव्याः।

नानापुष्पमणिभाजनधारयन्ती। मालान्तरबहिसमन्तेन नानागन्धै

मण्डल-


5. क लेपयं श्वेतचन्दनं कुंकुमेन नानाप्रकारम् अर्च्चयितव्यं

। कर्पूरकास्तूरिकेनार्च्चयं पञ्चरङ्गिकपट्टपताकैः समन्त-

मण्डलेन शरतोरणैर् अलंकरितव्यम्। चत्वारि रूप्यभाजनपू[र]-

कपूर्ण्णपूरं स्थापयितव्यम्। चत्वारि रूप्यभाजने तृशुक्लबलिं

पूरयितव्यम्। चत्वारि रूप्यभाजन अर्घपाद्या स्थापयितव्यम्।

<चत्वारि रूप्यभाजने अर्घपाद्या स्था-


6. पयितव्यम्।> अष्टौ भाजननानारसबलि पूरयितव्यं।

नानाप्रकारफल निष्ठापयितव्यं। नानाभक्षप्रकार आहारबलि

स्थापयितव्यं। नानागन्धविलेपनरूप्यभाजनमूलं स्थापयि-

तव्यं। अष्टौ रूप्यकटच्छानि पूरयितव्यानि। नानाधूपन् दहता

चन्दनागरुतुरुष्कः कर्पूरकास्तूरिकाकुंकुमसर्जरसकुन्दुरुक

रूप्यताम्रसुवर्ण्णपुष्पै गर्भमण्डले-र् <अवकीर्यर् बहिमण्ड-


7. लेर्> अवकीर्य बहिर्मण्डले यथालब्धपुष्पावकीर्ण्ण कर्त्तव्यं


(२५)


मालानि समन्तेन स्थाप्य तञ् चादर्शं स्वालतं(स्वलं)कृत्वा मध्य-

मण्डलके पद्मकेशरकर्ण्णिकायां पूर्व्वामुखे स्थापयितव्यं

विद्याधरेण शुचिना सुस्नातेन शुचिवस्त्रद्धारिणा भवितव्यं

सर्व्वमण्डलकर्म्मकरणीयानि कृत्वा आदर्शम् अभिमुखं पर्यङ्क-

निषण्णेन भूत्वा आर्यामोघपाशहृदयं जापो दातव्यः पू-


90b


1. र्ण्णे अष्टोत्तरशतजापेन क्रोधराजेनाभिषिञ्चयं सह अभिषिक्त-

मात्रेण सर्व्वलोकप्रत्यक्षं महापर्षम्माध्ये तञ् चादर्शमध्या

आर्यावलोकितेश्वरस्वरूपेण दृश्यते तञ् चादर्शनमध्य विध्या-

धरस्य साधुकारं<न्> ददाति। साधु साधु महाविद्याधर एष

सद्भु(द्भू)ता मेऽमोघा आदर्शावेसनतत्वतः सर्व्वसद् दृश्यते।

लौकिकलोकोत्तरकर्मफलम् अनुत्तरम् इति। परिशुद्धत्वं


2. विद्याधर लोकोत्तरमार्गम् अतुलं प्राप्तस् त्वया महत् फलम्

इति। सिद्धस् त्वया अमोघपाशहृदयं लौकिकीलोकोत्तरसाधनविधिः

कल्पमण्डलमुद्रा-द् इति। वरं ब्रूहि विद्याधर तत् सर्व्वन् ददामीति

। लौकिकं लोकोत्तर चेति॥ ततो विद्याधरेण यद् अर्थवरं तंष्

यूयात् सर्व्वं स<ं>द्यम् एव ददातीति। ये च तं पर्षन्मण्डले

समागता स्त्रीपुरुषदारकदारिकाश्रमणब्रा-


3. ह्मणक्षत्रियविट्छूद्रावैश्यराजामात्यभट्टपुरोहिता[न्] तःपुर-

समागता पुण्यवता वा अपुण्यवता वा परिशुद्धासया कुदृष्तिर् व्वा।

ये चान्ये विविधनारकी या सत्वा मोहान्धकारपतिता अवीचीपरायण-

पञ्चानन्तर्यकारका आर्यापवादकसद्धर्म्मप्रतिक्षेपक ते [ऽ]पि

सर्र्वे तम् आर्यावलोकितेश्वरम् आत्मभावम् पश्यन्ति। सर्व्वे-


4. षाम् आलापति। समाश्वासयति। सर्व्वेषां स्वकर्म्मफलसुभं

वा-म् अशुभम् वा विपाकन् तत् सर्व्वं दर्शयति। स्थापयित्वा

विद्याचौरचण्डालस्य। विद्यानिक्षेपनाशकस्य विद्यादूषकस्य

विद्या अश्रद्धाशुश्रूषस्य तस्य दर्शनं नास्ति। अन्यानि विविधानि स्व-

<र्>कर्म्मदुःखफलनिर्ज्जातानि पश्यति। अथ ते सत्वा यद् अर्थम्


(२६)


इच्छमनसिकार-


5. म् वर्त्तते लौकिकलोकोत्तरम् वा तत् सर्व्व महति पर्षन्मण्डले

स्वकस्वकानि फलानि [नि]र्जातानि पुण्यापुण्यफलम् पश्यंति। सर्व्व-

तथागतबुद्धक्षेत्रां पश्यन्ति। महातथागतविग्रहा सकूटागार।

विमाना पश्यन्ति। पोतलकपर्व्वतविमानां सभगवनविकुर्व्वां।

आर्यावलोकितेश्वरं सपर्षदं विमानं देवनागपरिवृतं पश्यति।


6. अन्यानि यथा वर्त्तमानानि शुभम् अशुभम् वा सुभिक्षदुर्भिक्षम्

वा। व्याधिमरण अल्पायुदीर्घायुस्वचक्रपरचक्रयुद्धसंग्रा-

मभयं जयम् वा विजयम् वा। नष्टम् वा विनष्टम् वा। ईतयं

अतिवर्षम् वा अकालवर्षम् वा अनावृष्टिम् वा। वातसीतोष्णं वा तत् सर्व्वं

दृश्यते धनागमम् वा। हानिर् व्वा वृद्धि व्वा। सस्यपुष्पफलवृद्धिर्

व्वा तत् सर्व्वं दृश्यते। चोरतस्करविषशस्त्रभयम् वा रा-


7. जभयम् वा। यक्षराक्षसभूतडाकिनी अपश्मारभयम् वा तत्

सर्व्वं दृश्यते। महानिधानम् वा तत् सर्व्वं दृश्यते। च्युतोत्प(त्पा)-

दाञ् च दृश्यते। पुत्रलाभम् वा ग्रामनगरविषयजनपदलाभं

स्त्रीलाभम् वा तत् सर्व्वं दृश्यते। नात्र कांक्षां न विमति न

विचिकित्सा-र् उत्पादयितव्यम् इति। सुप्रयत्नेनायं विधि साधयितव्य 

परमश्रद्धागौरवम् इति॥॥ अमोघपाश-


91a


1. विमोक्षमण्डले लोकोत्तरसाधनविधिः समाप्तः॥


(२७)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project