स्वस्त्ययनगाथा
नमोऽस्तु बुद्धाय नमोऽस्तु बोधये
नमो विमुक्ताय नमो विमुक्तये।
नमोऽस्तु ज्ञानस्य नमोऽस्तु ज्ञानिनो
लोकाग्रश्रेष्ठाय नमो करोथ॥१॥
यानीह भूतानि समागतानि
भूम्यानि वा यानि व अन्तरीक्षे।
सर्वाणि वा आत्तमनानि भूत्वा
शृण्वन्तु स्वस्त्ययनं जिनेन भाषितं॥२॥
इमस्मिं वा लोके परस्मिं वा पुनः
स्वर्गेषु वा यं रतनं प्रणीतं।
न तं समं अस्ति तथागतेन
देवातिदेवेन नरोत्तमेन।
इमं पि बुद्धे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥३॥
[क्षयं विरागं अमृतं प्रणीतं
यदध्यगात् शाक्यमुनिः समाहितः।
न तेन धर्मेण सममस्तिकिञ्चित्।]
इदं पि धर्मे रतनं प्रणीतं।
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥४॥
यं बुद्धेश्रेष्ठो परिवर्णये शुचिं
यमाहु आनन्तरियं समाधिं
समाधिनो तस्य समो न विद्यते।
इदं पि धर्मे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति
भोतु मनुष्यतो वा अमनुष्यतो वा॥५॥
य पुद्गला अष्ट सदा प्रशस्ता
चत्वारि एतानि युगनि भोन्ति।
ते दक्षिणीया सुगतेन उक्ताः
एतानि दिन्नानि महत्फलानि।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥६॥
सर्वैव यस्य दर्शनसंपदायो
त्रयोऽस्य धर्मा जहिता भवन्ति।
सत्कायदृष्टी विचिकित्सितं च
शीलव्रतं चापि यदस्ति किंचित्।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥७॥
किंचापि शैक्षो प्रकरोति पापं
कायेन वाचा अथ चेतसापि।
अभव्यो सो तस्य निगूहनाय
अभव्यता दृष्टपथेषु उक्ता।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥८॥
यथेन्द्रकीलो पृथिवीसन्निश्रितो स्या
चतूर्भि वातेहि असंप्रकम्पि।
तथोपमं सत्पुरुषं वदेमि
यो आर्यसत्यानि सुदेशितानि
गम्भीरार्थानि अथेत्य पश्यति।
इदं पि संधे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥९॥
ये आर्यसत्यानि विभावयन्ति
गम्भीरप्रज्ञेन सुदेशितानि।
किंचापि ते भोन्ति भृशं प्रमत्ता
न ते भवां अष्ट उपादियन्ति।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥१०॥
ये युक्तयोगी मनसा सुच्छन्दसा
नैष्क्रम्यिणो गौतमशासनस्मिं।
ते प्राप्तिप्राप्ता अमृतं बिगाह्य
विमुक्तचित्ता निर्वृतिं भुंजमाना।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥११॥
क्षीणं पुराणं नवो नास्ति संचयो
विमुक्ता आयतिके भवस्मिं
ते क्षीणबीजा अविरूढिधर्मा
निर्वान्ति धीरा यथ तैलदीपा।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यो वा अमनुष्यतो वा॥१२॥
अग्निर्यथा प्रज्वलितो निषीदे
इन्धनक्षया शाम्यति वेगजातो।
एवंविधं ध्यायिनो बुद्धपुत्राः
प्रज्ञाय रागानुशयं ग्रहेत्वा
अदर्शनं मृत्युराजस्य यान्ति।
इदं पि संघे रतनं प्रणीतं
मनुष्यतो वा अमनुष्यतो वा॥१३॥
ग्रीष्माणमासे प्रथमे चैत्रस्मिं
वने प्रगुल्मा यथ पुष्पिताग्रा
वातेरिता ते सुरभिं प्रवान्ति।
एवंविधं ध्यायिनो बुद्धपुत्राः
शीलेनुपेता सुरभिं प्रवान्ति।
इदं पि संघे रतनं प्रणीतं
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥१४॥
यानीह भूतानि समागतानि
भूम्यानि वा यानि व अन्तरीक्षे।
मैत्रीकरोन्तु सद मनुष्यका प्रजा
दिवं च रात्रिं च हरन्ति वो बलिं।
तस्माद्धि तं रक्षथ अप्रमत्ता
माता व पुत्रं अनुकम्पमाना।
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥१५॥
विपश्यिस्मिं विश्वभुवि क्रकुच्छन्दे
भामकनकमुनिस्मिं काश्यते
महावशे शाक्यमुनिस्मिं गौतमे।
एतेहि बुद्धेहि महाद्धिंकेहि
या देवता सन्ति अभिप्रसन्ना।
वाढं पि तं रक्षयन्तु च करोन्तु
स्वस्त्ययनं मानुषिकप्रजाये।
तस्मा हि तं रक्षथ अप्रमत्ता
माता व पुत्रं अनुकम्पमान।
[एतं पि संघे रतनं प्रणीतं]
एतेन सत्येन सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा॥१६॥
यो धर्मचक्रं अभिभूय लोकं
प्रवर्तयति सर्वभूतमुकम्पितं।
एतादृशं देवमनुष्यश्रेष्ठं
बुद्धं नमस्यामि सुस्वस्ति भोतु।
धर्मं नमस्यामि सुस्वस्ति भोतु
संघं नमस्यामि सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो व॥१७॥
[इति स्वस्त्ययनगाथा]
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project