लोकेश्वर-पाराजिका
।। ॐ नमः सिद्धिसाधनाय।।
विहर तारके रम्ये
तारादेवीसमायुतम्।
देवीभिः पषडङ्त्वा
नराणां हितकाम्यया।।
अथैनं च समालोक्य
ततो दृष्ट पापानामुच्यते
क्षयो।
तद् दृष्ट्वा दुःखसंकष्टकारूणेन
विमिस्मितः।।
चित्तेऽतिदिग्धसंजाते
तारादेवी तदाऽपृच्छत्।
उत्पातलक्षणस्यापि
शुभशुभपरीक्षणम्
देशयस्व कृपासिन्धो
विधिना सह तां प्रभो।।
लोकेश्वर उवाचह्न
शृणु तारे प्रवक्ष्यामि
उत्पातशान्तिकं क्रमम्।
प्रथमं कारयेल्लोकान्
पापाचारमपक्रियान्।
उत्पातं जायते तेन
तस्य शान्तिविधिः प्रिये।।
तस्माल्लोकहितार्थाय
न मिथ्या भाष्ये मे प्रिये।
तद्यथाह्न
कृष्णबिम्ब-ध्वजादीनां व्याघ्रप्रवेशेन
ये प्रवेशेन च स्वामिमृत्युर्त्रयवर्षः मासत्रयेण वा यदि शान्तिं कारयेत् होमक्रिया-महाबलि-पंचरक्षापाठं कृत्वा
कलशपूजनं दानभूमिसुवर्णं च दत्त्वा पुनः संघाय भोज्यं तेन शान्तिः भवति नान्यथा।। १।।
दिने उल्कापातेन
तथा इन्द्रधनुष्पातेन नानोपद्रवः भवति-शान्तिर्देवार्चन
पाठः स्वाध्याययज्ञकर्मसु संतोष्य दानसुवर्णादशपलानि दशमंसानि दशरसरतिकां वा दातव्य
संघाय भोज्यं च तेन शान्तिर्भवति निश्चितम्।। २।।
कूपघटिकानिपाते
नाशबद्धप्रवर्तेन च तोयनिगन्ध-कीटं वा भवेत् प्रणालि-निःसृतान्प्रवाहयेत्
स्रोताम्बुं नानाविधप्रवर्तेनञ्च स्वामिनं चतुर्वर्षेण अथवा प्रधान-स्वजनबन्धुविप्रयोगो
भविष्यति तस्य शान्तिर्जलजागपूजाकूपप्रतिष्ठादनं क्षीरपात्रं गुडपात्रं घृतपात्रं सुवर्णगर्भं
दत्वा आचार्यविप्राय वा वदेत्। संघाय भोज्यं च तेन शान्तिः।
मन्दिरेचितं धूगन्धप्रवेशेन
स्वामिमृत्युर्पञ्चवर्षतः अग्निभयविवादः च तस्य शान्तिः दशदिनलंघितेन जुहुयात् यज्ञं
नवग्रहपूजां च कृत्वा दानदशरजनिका १० तेन प्रतिरूपं कृत्वा आचार्यविप्राय वा दद्यात्
रात्रौ बलिं क्षत्रपालाय दद्यात् संघाय भोज्यं च तेन शान्तिर्भवेत्।। ४।।
मार्जारकलहरथवा
मृत्युर्भवेत् महाकलह अथवा भार्याशोकं च रौद्रदेवताप्रवेशनं षण्मासात शान्तिः प्रभाते
नित्यं स्नात्वा कलशपूजनं होमं च दानरूपे मयात्मप्रतिरूपं कृत्वा गुरवे वा ब्राह्यणाय
वा दद्यात् संघभोज्यं च तेन शान्तिः।। ५।।
गृहे सर्पप्रवेशेन
स्वामिमृत्युर्पञ्चवर्षैः मासेन वा अथवा धनक्षयशत्रुभयं च अधुनाशनं शान्तिसप्रदिनाभ्यन्तरे
प्रयोगं कर्तव्यं उपचारतः स्नानं प्रभाते करोति, जुहुयात् यज्ञविधिवत्
त्रिलोह-त्रिकतु-त्रिफ़ला-त्रिमधु-त्रिरिषकाष्ठेन समिधं सप्तव्रिहिं सप्तशकबीजं, कलशद्वयं बलित्रिंशत्प्रमाणं
नैवेद्यसहितं स्वालबलिं एकं अण्डं एकं पुननैवेद्यद्वयं मत्स्यमांसरूधिरधिदुग्धमधुना
सर्पप्रवेशस्थाने मृत्तिकां गृहीत्वा उच्छिष्टस्थाने निक्षिपेत् दानचन्द्रबिम्बविधिवत्
काशपात्रे क्षीरघृतस्चायुरितं हिरण्यगर्भदशरतिका यथा शक्तिसुवर्णदक्षिणां गुरवे विप्राय
वा दद्यात् संघभोज्यं च तेन शान्तिः।। ६।।
मन्दिरेचितवल्मीकनानाजन्तु-प्रवेशेने नानारोगाः
नानाभयं स्वामिमृत्यु-पचाद्वेन अग्निभयविवादं च तस्य शान्तिः दशदिनं लंघितं जुहुयात् यज्ञं
नवग्रह-पूजनं च कृत्वा दानदशरतिकारजतेन प्रतिरूपं कृत्वा आचार्यविप्राय वा दद्यात्
रात्रौ बलिक्षत्रपालाय दद्यात् संघाय भोज्यं च तेन शान्तिर्भवेत्।। ८।।
बृह न्दलि मालादृष्टेन
महाशोकमहाभय-आयास अथवा त्रिवियोग विनाशनं च वर्षत्रयेण तस्य शान्तियज्ञं जुहुयात्
कलशजनं एकं दान गुडपात्रं शक्तितो हिरण्यगर्भ दत्त्वा महाबलिं दद्यात् संघभोज्यं च
तेन शान्तिः।
स्नानेन पादाङ्गे
मूत्रपातेन महारोगभयं धनक्षयं विष्ठया पुत्रशोकं विष्ठामेधते रोगेण कुटुम्बनाशनं वर्षत्रयेण
शान्तिः बलिविधिः द्वात्रिंशत् तथैव नैवेद्य ३ तण्डुलकूटं एकेन पच्यते तेन अदनेन स्नानरूपं
कृत्वा पञ्चोपचारविधिना पूजयेत् पञ्चात् द्वारपालस्थाने कृत्वा पञ्चोपचारविधिना पूजयेत्
पञ्चाशतद्वारपालस्थाने निक्षिपेत् दानरजतकोशपात्रं गुडपात्रं, सुवर्णपात्रं शक्तितो
हिरण्यदक्षिणां दद्यात् संघभोज्यं च।। ९।।
अन्यपात्रं कंस्यपात्रं
क्षीरपात्रं तोयमद्यपानमांसमत्स्यपात्रादीनां भग्नपनं वा गृहपतिमरणं वा सप्तवर्षशान्तिः
कलशार्चनं शक्तितो हिरण्यदानं भोज्यं च।। १०।।
मन्दिराङ्गणे मन्दिरे
वा ये केचित् जन्तव अकस्मात् मृतकं तु प्राप्त दृश्यतेन स्वामिमृत्युर्वर्ष चतुष्केन
शान्तिहोमं जुहुयात् दानतिलपात्रं हिरण्यगर्भं कृत्वा लोहपात्रं मधुपूर्णं तथैव च दद्यात्
स्नानं दानं संघाय भोज्यं च तेन शान्तिः।। ११।।
मैनाके छत्रध्वजपताकापतनेन
महाभयं अग्निभयं राष्ट्रप्रलयं महामारिधनक्षयं सप्त पञ्चवर्षेण मासेन वा भवेत् तस्य
शान्तिः प्रभाते यज्ञकर्मपञ्चरक्षापाठं सहस्रावर्तनं च दानगोभूमिहिरण्आनि दत्वा मैनाकस्थाने
पतनकाष्ठादीनां नद्यां प्रवाहयेत् स्थानाधिपतिपूजां यज्ञविधिना पूजयेत्। महाबलिं कृत्वा
रात्रौ गत्वा गण चक्रवालजनं संतोष्य देशस्थानस्य शान्तिर्भवति ।। १२।।
देवालये मीनमृतकं
प्राप्तेन प्रभुर्न जीवति तस्य शान्तिः सुवर्णदानं भोज्यं च।। १३।।
नानाकुसुम-नानाफ़ल-अकाले प्रभवति तत्क्षणात्
मृत्युः स्वामि शान्तितीर्थं गत्वा शक्तितो रजतदान प्रतिष्ठां भोज्यं उद्यानस्थाने
कलशद्वयस्थाप्य- कांस्यपात्रे त्रिमधुपूरितं सुवर्णगर्भं प्रतिष्ठादानं महाबलिक्रियां
कृत्वा गणचक्रं कारयेत् तेन शान्तिः।।१४।।
अकस्मात् सुवर्णरजतनानारत्नादिहरणात्
स्वामिमृत्युः पञ्चाब्देन शान्तितीर्थं गत्वा कलशपूजनं होमदानं स्थानदेवतायै बलिं दद्यात्
नागपूजनं पुषपदमनपालारसउशरीररक्तचन्दनहिरण्यदानप्रतिष्ठाकर्पटं च दद्यात् संघभोज्यं
च।। १५।।
अकस्मात् प्रलापपतनेन
स्वामिमृत्युर्वर्षत्रर्येण अथवा पर्वतभंगेन भूमिक्रन्दनेन वा शान्तियुज्ञं जुहुयात्
पञ्चरक्षापाठनं च दानगवाभूमिहिरण्यानि पञ्च दद्यात् पर्वते भवति पर्वतेषु शान्तिः।।
१६।।
स्वशिरसच्छायां
न दृष्टेन वृक्षगृहदेवालयादीनां वा तत्क्षणात् मृत्युरथवा षण्मासाभ्यन्तरेण शान्तिः
ताम्रपात्रे त्रयोदशपलानि अक्षतपूरितं सुवर्णगर्भकृतानि प्रतिष्ठासहितदानं कलशपूजनं
अपरिमितायुमण्डल-यज्ञप्रतिष्ठासहितं क्षत्रपालबलिं दद्यात् गणचक्रभोज्यं च तेन शान्तिः।।
१७।।
व्यञ्जनकुसुमव्रीह्यादिनानाफ़लधनप्रचुरधान्यादि
अतिप्राप्तेन कुलपुत्रनाशः धनक्षयं षण्मासात् तस्य शान्तिस्तीर्थं गत्वा स्नानकलशपूजनं
स्थानबलिं शक्तितो रजतघटितदानं भोज्यं च।। १८।।
गृहे मीनमृतकं तु
प्राप्ते स्वामिमृत्युर्वर्षेण तस्य शान्तिः यज्ञं जुहुयात् कलशद्वयं स्थाप्य स्मशानबलित्रय-क्षत्रपालबलिदानताम्रगुडपात्रहिरण्यदक्षिणा
रजतगर्भं भोज्यं च।। १९।।
अकस्मात् प्रासादभंगेन
गृहपतिमरणं वर्षचतुष्केन तस्य शान्तिः यज्ञं जुहुयात् अक्षतयवखत्ततिलसर्षपव्रीहिसमिधवेकङ्ख
तव शमीपलाशखदिरघृत एतेन यज्ञविधिना कारयेत् मन्त्रः ॐ अमृतानये स्वाहेति अनेनाष्टोत्तरशतं
वारं जुहुयात्। कलशद्वयं स्थाप्य अष्टौ क्षत्रपालबलिष्टदेत्। गृहभञ्जस्य जतुष्कोण-मृत्तिकामादाय बिलं
दत्वा अरण्ये निक्षिपेत् दानगुड पात्रलोहपात्रहिरणयगर्भ-घृतपात्रप्रतिष्ठादानं
कौमारीपूजन-गणचक्रभोज्य च।। २० ।।
चन्द्रसूर्यतारादिकं
वा अधिदृष्टेन महामारिर्भविष्यति दुर्भिक्षा च स्वाभिमरणं वर्षैकेन शान्तिः पञ्चरक्षापाठकलशपूजनं
दानं ताम्रपात्रे षोडशपलं कृष्णतिलचूर्णघृतं वा पूरितं मुक्ता हिरण्यगर्भं प्रतिष्ठादानं
महाबलिं प्रचार्य संघभोज्यं च शान्तिः।। २१।।
गृहे मुक्षि सर्व
प्रवेशेन महारोगभयमकस्मात् स्वशरीरे पतने वा वर्षेकेन मृत्युशान्तिः पूर्ववत्।। २२।।
अकस्मात् देवाधिष्ठाने
कलशपतनेन घृष्टेन भग्नेन यजमानमरणं वर्षमेकं मासं वा अग्निभय-नाना-उपद्रव-दीर्घ-पीडा कार्यनाशनं
च शान्तियज्ञं जुहुयात् उपद्रवासे कृत्वा पञ्चरक्षासहस्रावर्तनञ्च दानसुवर्णभूमिदानं
वा पुनः कौमारीपूजन भोज्यशान्तिः।। २३।।
होमकाले अग्निस्थापने
अग्निर्म्रियते यजमानस्य मरणं सप्तवर्षान्यन्तरे शान्तियज्ञं जुहुयात् कलशपूजनं दानं
कांस्यपात्रे रजतेन चन्द्रबिम्बकृतेन प्रतिष्ठा दातव्यं संघभोज्यं च तेन शान्तिः।।
२४।।
देवतापूज्यकाले
महिष-छाग-हंसादिरत्नविहितेन पुरीषोत्सृजेन वा स्वामिमृत्युः पञ्चाद्वेने पञ्चमासेन
वा शान्तिः पुन देवतार्चन-दान-गोभूमिहिरण्य भोज्यञ्च तेन शान्तिः।। २५।।
अकस्मात् गजाश्वे
महिषादिमरणेन स्वामिमृत्युर्वर्षद्वयेन शान्तिः रजतघटित गजाश्वमहिषादिनां कृत्वा आचार्यब्राह्यणाय
ददेत्।। २६।।
अकस्मात् गृहकम्पनं
वा गृहशब्देन वा आक्रन्दनं वा स्वामिमृत्युर्त्रयमासेन तत्र काम्यदेवताप्रविष्टनं नानाशब्देर्देवताचरणं
शान्तिदानं कांस्यपात्रे त्रिमधुपूरितेन हिरण्यगर्भं कृत्वा ददेत् पूजामहाबलिविधानेन
तीर्थं गत्वा गृहे लक्ष्मीं साधयेत् गृहे धूपदीपादिना पूजां कारयेत् पञ्चादिष्टदेवतां
पूजयेत् तेन शान्तिः।। २७।।
अकस्मात् सर्पपतनेन
वा अहिमृत्युघातेन वा गृहांगणे वा यदि पतति क्षणान्म्रियते स्वामिशान्तियज्ञं जुहुयात्
कलशद्वयं स्थाप्य बलिक्षत्रपालनैवेद्यं पञ्चविंशति २५ रवाल १ श्रीखण्ड श्री शोभकाष्ठेन
समिध्-अपामार्ग-त्रिफ़ला-सर्पप्रवेशमृत्तिकामादाय बलिं ददेत् मृत्तिकं किञ्चिज्जुहुयेदननेन मन्त्रेण
मन्त्रः ॐ सर्वविघ्नदहनाय हृँ स्वाहेति दान ताम्रपात्र चतुष्फ़ल ४ तिलपूर्ण हिरण्यगर्भ
प्रतिष्ठा कार्या तेन वेष्टयेत् उत्तराभिमुखक्रियां कृत्वा शान्तिकाध्यायं पठेत्। पुनः
लवणपूरिक-सर्पपतनमृत्तिकपलमेकं १ अर्द्धं वा साष्टशतं जुहुयात् भोज्यं च तेन शान्तिः।।
२८।।
गृहे सर्पपतने घातकमृतकं
वा दृष्टेन मानाश[ना]द्धवार-पतन-नाना-जन्तुप्रवेशनं कीटादिभञ्जनं ध्वजपतनच्छिन्नं वा प्राकारादि-भञ्जनञ्च सप्तमासे
न जीवति शान्तियज्ञं जुहुयात् पूर्वोक्तविधिना पूजयेत् पञ्चरक्षां पठेत् दानताम्रपत्रतिलपूरितं
हिरण्यगर्भ दद्यात् बलिं पूजयेत् भोज्यं च शान्तिः।। २९।।
अकस्मात् जलशोषितेन
अल्पायुर्धनक्षयं शान्तिः जलजागहिरण्यदानभोज्यं च।। ३०।।
अकस्मात् देवालये
नानाप्रासादे वज्रघातेन छत्रध्वजवज्रघण्टां कलशं वा अन्यत्र पतितेन सर्वपदार्थः क्षणात्
पतति महाभय-अग्निभय-राष्ट्रभङ्ग-महामारिधनक्षयं पञ्चाद्वमासादिनान् तु शान्तिः प्रभातसमये यज्ञकर्मपञ्चरक्षा-पाठसहितेन सहस्रावर्तनश्च
दान गोभूमिहिरण्यं ददेत् यत्काष्ठादिनाञ्च पतनानि तन्न द्यां प्रवाहयेत् स्थानाधिपति
पूजाबलिं ददेत् रात्रौ गणचक्रभिक्षु आचार्यं पूजयेत् तेन शान्तिः।।
देवालये नानानिमित्तप्राप्तेन
नानाशद्वेन प्रभुर्न जीवति वर्षैकेन मासेन वा शान्तिर्देवार्चन स एव होम-दानसुवर्णं ददेत्
कौमारीपूजनं दीपबलिं प्रधारयेत् भोज्यं च।। ३२।।
देवाशिलापतनेन अथवा
चैत्यगर्भेण उत्तमादिनां मृत्युः नानोत्पातं विरोधं च।। शान्तिः भङ्गस्थाने यज्ञं जुहुयात्
पाठ-पञ्चरक्षा-सद्धर्मपुण्डरीकं च दान रजतघटित नवग्रहादि पूज्यं च दद्यात् कौमारीपूजा-गणचन्द्रं च कारयेत्।।
३३।।
स्तूपबिम्बशिरः
पतनेन नानादेवपतितेन षण्मासे पञ्चवर्षे वा स्वामिमृत्युर्महाभय-राष्ट्रोपद्रव युद्धं
च महामारिधनक्षयं नानारोगविनिर्पतति सेनापतिमरणं अग्निभयविवादं च नाना उत्पत्तिमेव
च शान्तियज्ञं जुहुयात् पाठपञ्चरक्षासद्धर्मपुण्डरीकं च दानं दशदिनलंघितेन सुवर्णरजतदशपलं
१० दशकष १० दशमंश १० दशरति १० कं वा प्रतिरूपं कृत्वा रजतघटितनवग्रहं च पूजयेत् आचार्यविप्राय
वा गोभूमिहिरण्यवस्त्रादीनां दक्षिणीयात् क्षेत्रपालबलिं ददेत् यदि पतनकाष्ठपाषाणादि
नद्यां प्रवाहयता बालजनाय भोज्यं च पुनः रात्रौ महाबलिविधिं भङ्गस्थाने कारयेत् गणचक्रं
त्वनेन शान्तिः।। ३४।।
भूमिकान्तिर्निकान्तिं
वा अश्वकालसमाकुलं दुर्दिन-विविधवर्णञ्च परचक्रराज-भङ्गकम्।। ३५।।
अपूर्वराहुदृर्श्यते
पूर्वराहुर्न दर्शने राष्ट्रभङ्गः श्रियं नष्ट-दुर्भिक्ष-शत्रुपीडनं।। ३६।।
क्षेत्रे वारिके
बीजरोपिते नानाजातिप्राप्तेन रोपितबीजेन जातेन वा प्रभुमृत्यु- मासद्वयाभ्यन्तरेण
शान्तिः क्षेत्रस्थाने हस्तमात्रं खनित्वा बलिं न्यसेत् अथवा मांसाहुतिं जुहुयात् दानं
कांस्यपात्रघृतपूरितं शक्तितो हिरण्यंगर्भं दद्यात् बलिं दत्वा संघभोज्यं तेन शान्तिः।।
३७।।
काकेन पृष्ठघातकृतेन
नीडं वा अकस्मात् अपमृत्युर्भवति शान्तियज्ञं जुहुयात् तीर्थं गत्वा कलशपूजनं स्थाबलिं
नागपूजनं अधोर्द्द्धरवाल-दानकांस्यात्रं घृतपूरितं सुवर्णगर्भचन्द्रबिम्बंसहितप्रतिष्ठादानं ददेत्
संघभोज्यं च।। ३८।।
पद्यसाषाप्राप्तेन
स्वामिमृत्युर्मुद्रिकाविहितेन पुत्रशोकः मासत्रयेण शान्तियज्ञं जुहुयात् सहस्राहुतिविधिवत्
दानक्षीरपात्रचन्द्रबिम्बसहितहिरण्यगर्भं ददेत् संघभोज्यञ्च।। ३९।।
अकस्मात् गृहधूपने
धनहरणेन पुत्रशोको भवति शान्तियज्ञं जुहुयात् देवालय-आचार्य-विप्राय वा धूपं
ददेत् दक्षिणासहितं बलिपूजासंघभोज्यं च।। ४०।।
यमे जातेन नानुखादितां
गो-महिष-हय-हस्ति-चतुष्पदादीनां मासद्वयेन स्वामिमृत्युः शान्तियज्ञं जुहुयात् तीर्थं गत्वा
कलशपूजनं दानं च संतर्प्य अनेन द्वयहस्तप्रमाणं प्रतिष्ठा-दशरतिका-सुवर्णदक्षिणां
ददेत् भोज्यं च।। ४१।।
खङ्गपूजनकाले खङ्गपतनेन
भर्ता न जीवति मासचतुष्केन कम्पनेन भार्यापुत्र-शोकस्तत्क्षणात्।।
शान्ति निशाबलि
साधकानि दापयेत्
हिरण्यभोज्यं च।। ४२।।
देवालये काकेन गृहकृतेन
परचक्रभयं स्वगृहे काकेन गृहकृते पूर्वदिशे कलहं अग्ने अग्निभयं याम्ये स्वामिमरणं
नैऋत्ये अपरघातकं पश्चिमे कुटुम्बनाशनं वायव्ये पुत्रशोक उत्तरे धर्मक्षयं ईशान्ये
राजभयं महादुःखं च गृहमध्ये अकालमृत्युरेतेषां शान्तियज्ञं जुहुयात् कलशद्वयं पूजयेत्।।
दानताम्रपात्रपलत्रय
३ घृतपूरितं रजतघटितगृहचिह्नं मण्डलमध्य-प्रतिष्ठादातव्यं
सुवर्णदक्षिणानां कर्पटं च दद्यात् बलिरवाल १ दद्यात् पञ्चगव्यसर्षपधूपं कृत्वा प्रहारभावं
कृत्वा काकस्य गृहं नद्यां प्रवाहयेत् किश्चिदग्न्यै जुहुयात् सकलकलशं स्थाप्य बलिनैवेद्य-पञ्चत्रिंशति ३५
षालया १ स्थानबलि-यजमाननिमंत्रण-स्नानं कृत्वा काकस्य गृहबलिं दत्वा अरण्ये
निक्षपेत् भोज्यं च शान्तिः।। ४३।।
कुसुमरोपिते अन्यकुसुमं
प्रभवति पुत्रपौत्रादिनां मृत्युमात्रत्रयेण धनधान्यक्षयश्च शान्तिरूद्याने कलशपूजन-पञ्चरक्षापाठ-विधिवत् दानचन्द्रबिम्बसहितं
कांस्यपात्र दुग्धपूरितं दक्षिणाबलिप्रचारं च कारयेत्।। ४४।।
हयसर्पप्रवेश-लोहसर्पप्रवेशेन
गृहपतिमरणं भार्यापुत्रपौत्रादिनाश्च त्रयमासेन शान्तियज्ञं जहुयात् पञ्चरक्षापाठदानचन्द्रबिम्बसहित-सुवर्णदक्षिणां
ददेत्। महाबलि स्वदेवतापूजन संघभोज्यं च।। ४५।।
देव-स्वनितपूज्यं च
अन्यशोणितं दृष्टवा सर्वमदप्रियशात्यर्थं सर्वदेवानां पूज्यते ते पुर्ववत्।। ४६।।
मनुष्यस्य शिरोहस्तपादाङ्ग
यस्य गृहे प्रवेशयेत् स्वामिमृत्युः षण्मासेन शान्तियज्ञं जुहुयात् पञ्चरक्षाविधानतः
दानचन्द्र बिम्बसहित सुवर्णदक्षिणां ददेत् महाबलिं प्रचारयेत् पूर्वाभिमुखदानभोज्यं
च विधानतः।। ४७।।
मन्दिरे वा नगरे
वा ग्राममध्ये वा अपूर्वपक्षिवनस्पति-वनचरादि प्रवेशेन
स्वामिमृत्युर्मासत्रयेण अब्देन वा शान्तियज्ञं जुहुयात् कलशपूजनदानताम्रपात्रघृतपूर्ण
सुवर्णदक्षिणां कर्पटं च दापयेत् भोज्यं च।। ४८।।
दिनाशाखोटाग्वजातेन
स्वामिमृत्युः षण्मासेन शान्तिः स एव जात अश्वदानं अथवा ताम्रपात्र द्वादश पल १२ रक्तक्षयेन
पूरयेत् द्वादशरति १२ हिरण्यगर्भ अन्यसुवर्णरति १२ तेन अश्वकृतप्रतिष्ठायज्ञकृतेन दानञ्च
दक्षिणासुवर्णदशरतिका भोज्यं च।। ४९।।
काकमृत्युजातेन
स्वामिमृत्युः षण्मासात्यन्तरेण शान्तियज्ञं जुहुयात् दानताम्रपात्रघृतप्रवालगर्भखङ्गदक्षिणादानं
च भोज्यं च।। ५०।।
यस्य गृहे वा देवालये
वा ये बृहतद्दिण्डिभकीटबहुतर प्राप्तेन षण्मासान्तरेण म्रियते स्वामी अथवा मुक्तिसर्पप्राप्तेन
तथैव फ़लं तथैव शान्तियज्ञं कारयेत् शान्तिः।। ५१।।
कालसर्पमृत्युसजीवितं
वा प्राप्तेन स्वामिमृत्युरथवा पुत्रादीनां च मृत्युः शान्तियज्ञं जुहुयात् स्वदेवतापूजनं
विधिवत् पञ्चरक्षाध्ययपाठ दानरक्तकर्पटं च ताम्रपात्रतिल सहित रक्ताक्षतेन पूरितं सुवर्णगर्भरतिप्रतिष्ठासहितं
दद्यात् संघभोज्यं च।। ५२।।
गृहे रक्तबिन्दुपातेन
स्वामिमृत्युर्वर्षैकेन अथवा कुटुम्बक्षयशान्तिः यत्र रक्तपतनभूमि मृत्तिकामादाय लिप्यते
यक्षबलिं १ स्थानबलिं १ दानरजतेन गृहकल्पितं कृत्वा भूमिदानं यथाशक्ति सुवर्णदक्षिणां
ददेत् कौमारीं पूजयेत् भोज्यं च।। ५३।।
नरनार्यग्रे यस्य
गृहे सर्पप्रवेशेन स्वामिमृत्युः षड्वर्षेण शान्तियज्ञं जुहुयात् विधिवत् पञ्चरक्षाध्यायं
पठेत् दानदशरतिका १० सुवर्णां ददेत्।। ५४।।
स्वशिरज्वलितदृष्टेन
सप्तमासं न जीवति शान्तियज्ञं जुहुयात् कलशपूजनं श्रद्धायुक्तेन तर्पणदानं सुवर्णदक्षिणां
दशरतिकां ददेत् बलिपूजाभोज्यं च।। ५५।।
यस्य गृहे गज-अश्व-गव-महिष-एडकान् वा एतन्मध्य
एकस्याङ्गे शाषा शिरः पाद हस्त पुच्छो वा लोचन कर्णं वा पीडन वने उद्याने वा एतानि
गृहप्रवेशेन वर्षपात ३२ नैवेद्येन सह खालपात १ अराडा, दधि दुग्ध मद्यं
मांस, रक्त, मज्जन मत्स्य पृथकर परितं दानरजतघटितखङ्गप्रतिष्ठासहितं रजतदक्षिणां
भोज्यं च।। ५६।।
होमकाले व्रीहिसंपूर्णं
न भवति होमगन्धविहीनं निर्गन्धो भवति नानावर्णसमुद्भवं यजमानमृत्युर्वर्षैकेन शान्तिः
पुनः जुहुयात् दानसुवर्ण शक्तितो दद्यात् भोज्यञ्चा।। ५७।।
यस्य गृहे पतितो
वा मृतो वा पुरूषस्याङ्गेवा भूमौ वा मीनप्राप्तेन स्वामिमृत्युः वर्षद्वयेन शान्तिघटमेकं
दुग्धपूरितं रजतगर्भप्रतिष्ठाऽक्षतसुवर्णदानं कर्प च भोज्यं च।। ५८।।
सङ्गमे तडागे नद्यां
पुष्करिण्यां कूपेषु पष्वलेषु वापीषु प्रणाल्यां वा नानावर्णतोयदृष्टेन सद्यस्तत्क्षणात्
मृत्युः।।
शान्तिः जलजागं
गृहे कलश पूजन-पञ्चोपचारविधिस्थानबलिः, क्षत्रापालबलिः, नागपूजा-नाग-उसव्ठ पारारस प्रियङ्गु-श्वेततिल-दूर्वामाल-श्वेतकुरा-तण्डुल-नैवेद्य-पताका-नागच्छत्रसहिते
जले नागं पूजयेत् दानताम्रपात्र-सूर्यबिम्ब-घृत-सुवर्ण-प्रतिष्ठा भोज्यं।।
५९।।
यस्य क्षेत्रे वाटिकायां
धान्यादिव्रीहिरोपितेन जातेन भर्ता म्रियते पञ्चाद्वेन मासेन वा शान्तिः तत्क्षत्रे
कलशपूजनं हस्तमात्रं खनित्वा बलिं न्यसेत् स्थानबलि १ तीर्थबलि २ दान चन्द्रबिम्ब कांस्यपात्रे
घृतपूर्ण प्रतिष्ठाहिरण्यगर्भ क्षेत्रे कलश जलैरभिषिच्य पञ्च व्रीहीन् रोपयेत् विधिना
बलिं पूजयेत् भोज्यं च।। ६०।।
यस्य गृहे उद्याने
गृहरूपी मे वा इक्षुफ़लप्राप्तेन स्वामिमृत्युः पञ्चाद्वेन शान्तिदान-नानावस्त्र सुवर्णादिदक्षिणां
ददेत् इक्षुजातस्य नैकरसपूजनं बलिदानकौमारीपूजा-भोज्यं च।। ६१।।
यस्य ग्रामे वने
क्षेत्रे उद्याने वा काकेन अण्डजपातदृष्टेन परचक्रभयं शान्तिपूजनं महाबल्यार्चनं पञ्चरक्षापाठनं
हिरण्यदानं च।। ६२।।
अन्यविधिना उपजायते
सर्वेषां शान्तिः दानरूप्य-षण्मासेन यजमानस्य निरूपं कृत्वा देवाय विप्राय भिक्षुराचार्याय सुवर्णदक्षिणां
दद्यात् भोज्यं च शान्तिः।।
।। इति उत्पातलक्षण-शान्तिविधिसमाप्तिः।।
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project