स्वप्नाध्याय
नमो बुद्धाय॥
स्वप्नाध्यायं प्रवक्ष्यामि
बृहस्पतिविनिर्मितं।
येन विज्ञायते पुंसां
स्वप्नेषु च शुभाशुभं॥१॥
स्वप्नस् तु प्रथमे
<यामे> सम्वत्सरफलप्रदः।
द्वितीये त्व् अष्टभिर्
मासै(र् मासैस् त्रि)भिस् तृतीयके॥२॥
चतुर्भिस् तु चतुर्थे
स्यात् फलं सुनियतं नृणां।
अरुणोदयवेलायां
दशाहेन फलं भवेत्॥३॥
शस्त्रप्रहार<ः> कृमिपूर्णदेहो
रणच्युतो गात्रविशो(धनं) च।
विष्ठानुलेपो रुधिरस्रुतिष्
च स्वप्नेष्व् अगम्यागमनं च धान्यं॥४॥
आरोहणं गोवृषकुञ्जराणां
प्रासादशैलाग्रवनस्पतीनां।
आरुह्य नावं प्रति(गृह्य) वीणां भुक्त्वा
रुदित्वा ध्रुवम् अर्थलाभः॥५॥
यस् तु पश्यति स्वप्नान्ते
राजानं कुञ्जरं हयं।
सुवर्णं गोवृषं
गां च कुटुम्बं तस्य वर्धते॥६॥
क्षीरिणं फलिनं
वृक्ष(म् ए)काकी यस् तु रोहति।
तत्रस्थश् च विभुध्येत
धनं शीघ्रम् अवाप्नुयात्॥७॥
प्रासादस्थस् तु
यो भुक्त्वा समुद्रान्ते पिबेज् जलं।
अपि दासकुले जातः
सोऽपि राजा भवि(ष्यति)॥८॥
दीपम् अन्न<ं> फल<ं> कन्या<ं> छत्त्रं रथं ध्वजं।
यस् तु पश्यति स्वप्नान्ते
तान्य् एव लभते ध्रुवं॥९॥
मानुषाणि <च> मांसानि स्वप्नान्ते
यस् तु भक्षयेत्।
पादे पञ्चशतं (लाभः) सहस्रं बाहुभक्षणे॥१०॥
शिरसो भक्षणे राज्यं
लभते पुण्यविग्रहः।
बहुकोटीश्वरो चापि
कदा चिज् जायते पुमान्॥११॥
अस्त्रैर् वेष्टयते
यस् तु गृहं वा नगराणि च।
गृहे मण्डलराज्यं
वा नगरे पार्थिवो भवेत्॥१२॥
उपानहौ च च्छत्त्रं
च लब्ध्वा यः प्रतिबुध्यति।
असिं च निर्मलं
तीक्ष्णं तस्य श्रीस् सर्वतोमुखी॥१३॥
नौकारूढो विपन्नः
स्यात् ततोऽपि च समुत्तरेत्।
प्रवासं निर्दिशेत्
तस्य शीघ्रं च पुनर् आगमं॥१४॥
खरोष्ट्रवसयो जानैः
स्वप्नान्ते यस् तु रोहयेत्।
तत्रस्थोऽप्य् अवबुध्येत
ऐश्वर्यम् अधिगच्छति॥१५॥
दन्ता यस्य विशीर्यन्ते
उत्तिष्ठन्ति पतन्ति च।
बन्धुनाशो भवेत्
तस्य अपत्यं च विनश्यति॥१६॥
अभ्यङ्गतस् तु तैलेन
मेदसा<च> घृतेन च।
व्याधिं तस्य विनिर्दिशेत्॥१७॥
रक्ताम्बरधरो भूतो
नीयते धक्षिनां दिशं।
कृष्णनार्या करे
गृह्य मृत्यु<ं> तस्य विनिर्दिशेत्॥१८॥
रक्ताम्बरधरां नारीं
रक्तगन्धानुलेपितां।
अवगूहति यः स्वप्ने
तस्य रात्रिर् अ<प>श्चिमा॥१९॥
शुक्लाम्बरधरां
नारीं शुक्लगन्धानुलेपितां।
अवगूहति यः स्वप्ने
तस्य श्री<ः> सर्वतोमुखी॥२०॥
रात्रौ सुप्तस्
तु यः कश् चिज् जलोकाभिस् तु दश्यते।
कन्या तु जायते
तस्य नात्र कार्यविचारणा॥२१॥
अभिद्रवन्ति यं
स्वप्ने शृङ्गिणो दंष्ट्रिणोऽपि वा
वानरो वा<व>राहो <वा> भवेद् राजकुलाद्
भयं॥२२॥
आदित्यमण्डलं स्वप्ने
चन्द्रं वा यदि पश्यति।
स पुंसां लभते कोषं
गृहं वा संप्रयच्छति॥२३॥
निगडैर् बध्यते
यस् तु बाहुपाशेन वा पुनः।
पुत्रो वा जायते
तस्य प्रतिष्ठा वापि निर्दिश्येत्॥२४॥
यस् तप्तानत्व सर्पेऽपि
दंक्ष्यते दक्षिणे भुजे।
सहस्रलाभो भवेत्
तस्य सम्पूर्णे दशमे दिने॥२५॥
रक्तं पिबति यः
स्वप्ने सुराम् वापि कथञ्चन।
ब्राःमणो लभते विध्याम्
इतरो लभते धनं॥२६॥
क्षीरं पि<बति> यः स्वप्ने सफेनं
दोहिनीगतं।
सोमपानं भवेत् तस्य
अन्यां वा भूतिम् आदिशेत्॥२७॥
दधि दत्त्वा भवेत्
प्रीतिः गोधूमैश् च धनागमः।
यवैर् यज्ञागमं
विद्यात् लाभः सिद्धार्थकैर् अपि॥२८॥
पुष्पिते पुष्पितं
कार्यं फलिते वृद्धिम् उत्तमाम्।
धूमायमाने धूमायत्
ज्वलते चार्थम् आवेहेत्॥ २९॥
आसने शयने वापि
शारीरे वाहने गृहे।
ज्वलमाने विबुध्येत
तस्य श्रीः सर्वतोमुखी॥३०॥
स व्याधिमुक्तो
निरुजो
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project