सद्धर्म-पाराजिका
॥ नमः श्री वज्रसत्त्वाय॥
सर्वबुद्धं नमस्यामि
सर्वसत्त्वार्थकारणात्।
सर्वकर्मविशुद्ध्यर्थं
सर्वदुःखोपशान्तये॥
यस्याभवद्वै करुणा
त्रिलोके लोकस्य दुःखार्णवशोषणान्तम्।
शौद्धोदनिं पारगसंभवाब्धे
सम्बुद्धमार्यं सुगतं नमामि॥
न प्रणश्यन्ति कर्माणि
कल्पकोटिशतैरपि।
सामग्रीं प्राप्य
कालं च फलन्ति खलु देहिनाम्॥
कृत्वा बुधोऽल्पमपि
पापमधः प्रयाति।
कृत्वा बुद्धो महदपि
प्रजहात्यनाथः॥
मज्ज ( ? ) त्ययाल्पमपि वारिणीसहितहि॥
( ? )
पत्त्रिकृतं महदपि
प्लुतततदेव॥
कृतानि कर्माणि
सुदारुणानि तन्व ( न्वी)भवन्त्यात्मनवि(नि )ग्रहेण॥
प्रकाशना संवरणा
(च) व तेषामत्यन्तमूलाधरमावदामि (मूलोद्धरणं वदामि)
मञ्जुश्रीरुवाचह्न
भगवन्ननागतेऽध्वनि
कलियुगेषु सत्वानाम्।
कुकर्मविपाकजं दुःखं
कथं शुद्ध्यति॥
श्रीभगवानुवाचह्न
साधु साधु च मञ्जुश्रि, साधु साधु च सुष्ठु
च, मनसि कुरु भाषिष्ये।
भवेद्वादशव(र्षे)ण अर्हत्-घातपातकम्॥
मुच्यते पातकत्
घोज्जापध्यानादि(द्यु)पोषणैः।
भवेच्च दशवर्षेण
ब्रह्मघातपातकम्॥
मुच्यते पातकं क्रूरं
मन्त्रजापादिभावनैः।
भवेच्च क्षत्रियं
हत्वा अष्टवर्षेण मुञ्चति॥
दानादिशीलरक्षणा(त्) पापं शुद्ध्यति, नान्यथा।
(१५)
वैश्यस्य षष्ठवर्षेण
च कृतपातकम्।
तस्य शुद्ध्यति
दानेन संवरेण विशेषतः॥
शौद्राणाञ्च भवेत्
हत्वा पञ्चवर्षेण मुच्यते।
निग्रहेण तु स्वात्मानं, पापं नश्यति, नान्यथा॥
गोघातस्य भवेत्
हत्वा(न्ता) चतुर्वर्षेण शुद्ध्यति।
सर्वधर्मं समाश्रित्य
सर्वरागविरागतः॥
एतेन अर्हत्घातकादिपातकशुद्धिः।
चाण्डालादिसत्वेन
केशादिकर्षणं यदा॥
तदा शुद्ध्यति शीलेन
परिवर्तनत्रयेण तु।
तत्कुलेषु यदा भ्रष्टः
शुद्ध्यति दिनविंशत्या॥
त्रिभिस्तु शुद्ध्यते
शीलैः परिवर्तसप्तकेन तु।
एतेन कुलभ्रष्टादिशुद्धिःह्न
एकदिवसमाश्रित्य
वेलाहालनिरामिषं (निराहारं/निरामिषम्)।
स्तूपं प्रदक्षिणीकृत्य
स गच्छेच्छरणं त्रयम्॥
द्वितीये(यं) दिवसमाश्रित्य
न क्षेत्राहारसमाचरेत्।
सद्धर्मपाठकं कृत्वा
पापादिप्रतिदेशनैः॥
तृतीयं दिवसमाश्रित्य
निर्विकल्पमयाचितम्।
मुच्यते सर्वपापेन
मन्त्रजापादिकर्मणा॥
चतुर्थदिवसमाश्रित्य
निराहारसमाचरेत्।
भाव्यगुरूपदेशेनमेतेपरिवर्तमेकविद्॥
तीर्थेषु स्नापयेन्नित्यं
चैत्यादिकरणेन च।
पूजयित्वा विधानेन
स्तोत्रपाठविशेषतः॥
वापीकूपप्रणालीं
च इच्छाद्रुमप्ररोपणैः।
हस्त्यश्वखरणावोष्ट्रयानवाहनदानकम्॥
भूस्त्रीसुवर्णरत्नानि
चान्नपानाभयानि वै।
(१६)
कृतानि कर्माणि
सुदारुणानि तन्नयत्यात्मविगर्हणेन।
प्रकाशना सम्वरणा
च तेषामत्यन्तमूलोद्धरणां वदामि॥
एतेन सर्वस्य कुकर्मज-विपाकशुद्धिः।
इदानिं पञ्चगव्यसाधनस्य
अवसरः प्राप्तः॥
गोमूत्रं गोमयं
क्षीरं दधि सर्पि कुशोदकम्।
निर्दिष्टं पञ्चगव्यं
तु पवित्रं कायशोधकम्॥
मूत्रन्तु नीलवर्णायाः, स्वेताया गृह्यते
दधि।
कपिलायां घृतं ग्राह्यं, महापातकनाशनम्॥
अभावे सर्ववर्णानां
कपिलायां विशेषतः।
गोमूत्रस्य पलं
ग्राह्यं पलेमकं तु गोमयम्॥
क्षीरसप्तग्रहं
दद्यात् दधि पञ्चपलानि च।
आज्यस्यैकपलं ग्राहयं
पलेमकं कुशोदकम्॥
गोमयं च दधि सर्पिः
कुशोदकेन मिश्रयेत्।
मन्त्रेणाधिष्ठितं
कुर्यात् कल्पोक्तविधिना गतः॥ (कल्पोक्तनिधि रागतः)
भाव्यं गुरूपदेशेन
दद्यातीर्थोम्बुना (तीर्थाम्बुना ? ) सह।
॥तत्रायम् मन्त्रः॥
ओं अमोघपरिशुद्धशोधाय
समन्तेन धीर-अशुद्धसत्व महापद्ये हुँ।
अष्टाविंशाक्षरं
मन्त्रं अष्टोत्तरशतं जपेत्।
एकविंशतिवाराय आर्यमहापातकनाशनम्॥
अध्येषणा॥
सर्वपापविनाशार्थं
पूताय पवित्राय च।
महाकारुणिका, नाथ देहि मे पञ्चगव्यकम्॥
(दुर्गतेः)
महाकारुणिका, नाथ देहि मे पञ्चगव्यकम्।
अशेषजिनसंभूत सर्वधातुविशोधकम्॥
महाकारुणिका, नाथ देहि मे पञ्चगव्यकम्।
गणज्येष्ठस्य हस्तेन
दद्याच्च गव्यपञ्चकम्॥
(१७)
एतेन शुद्ध्यते
कायः दद्याद्भोज्यं गणाय च।
पूजयेच्च यथाशक्त्या
चीवरादिविशेषतः॥
पूज्यं पञ्चोपचारेण
कायवाक्भक्तिचेतसा।
प्रयाजाद्यादिकं
कर्म क्रमेण द्विगुं मतम्॥
प्रवर्त्यखण्डयेद्दनैः
दानबद्धप्रदक्षिणैः।
एकांशं खण्डयेद्दानैः
एकांशं तु प्रदक्षिणैः॥
शेषाणां क्रमद्विगुणां
पाठजापध्यानकर्मणा॥
आर्यसद्धर्मत्रिपिटकादुद्धृतसत्वस्य
कुकर्मजविपाकशुद्धि प्रायश्चिन्तविधिः समाप्तमिति॥
प्रत्येकाधिष्ठानमन्त्राः॥
ओं हूँ त्राँ ह्रीँ
खँ ह्ँ॥
पूर्वोक्तमन्त्रेण
मीलयेदिति॥
पञ्चगव्यस्थापना॥
भूमध्ये पञ्चमण्डलं
कृत्वा तत्र मध्ये गोमयं स्थाप्य पूर्वे गोमूत्रं भवेत्, दक्षिणे दधि, पश्चिमे दुग्धम्॥
उत्तरे गोघृतं भवेत्॥
मध्ये च कुशोदकमिति॥
शुभम्॥
(१८)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project