चण्डमहारोषण तन्त्र
ओं नमः श्रीचण्डमहारोषणाय॥
एवम् माय श्रुतम्
एकस्मिन् समये भगवान्
वज्रसत्त्वः सर्वतथागतकायवाक्चित्तहृदय-
वज्रधात्वीश्वरीभगे
विजहार। अनेकैश् च
वज्रयोगियोगिनीगणैः।
तद्यथा॥
श्वेताचलेन वज्रयोगिना।
पीताचलेन च
वज्रयोगिना। रक्ताचलेन
च वज्रयोगिना।
श्यामाचलेन च वज्रयोगिना।
मोहवज्र्या च
वज्रयोगिन्या। पिशुनवज्र्या
च वज्रयोगिन्या।
रागवज्र्या च वज्रयोगिन्या।
ईर्ष्यावज्र्या च
वज्रयोगिन्या। एवं
प्रमुखैर् योगियोगिनी-
कोटिनियुतशतसहस्रैः॥
अथ भगवान् वज्रसत्त्वः
कृष्णाचलसमाधिं
समापद्येदम् उदाजहार।
भावाभावविनिर्मुक्तश्
चतुरानन्दैकतत्परः।
निष्प्रपञ्चस्वरूपोऽहं
सर्वसंकल्पवर्जितः॥
मां न जानन्ति ये
मूढाः सर्वपुम्वपुषि स्थितं।
तेषाम् अहं हितार्थाय
पञ्चाकारेण सम्स्थितः॥
अथ भगवती वज्रधात्वीश्वरी
द्वेषवज्री-
समाधिं समापद्येदम्
उदाजहार।
(१)
शून्यताकरुणाभिन्ना
दिव्यकामसुखस्थिता।
सर्वकल्पविहीनाहं
निष्प्रपञ्चा निराकुला॥
मां न जानन्ति या
नार्यः सर्वस्त्रीदेहसंस्थितां।
तासाम् अहं हितार्थाय
पञ्चाकारेण संस्थिता॥
अथ भगवान् कृष्णाचलो
गाढेन भगवतीं
द्वेषवज्रीञ् चुम्बयित्वा
समालिङ्ग्य चामन्त्रयते
स्म।
देवि देवि महारम्यं
रहस्यं चातिदुर्लभं।
सारात् सारतरं श्रेष्ठं
सर्वबुद्धैः सुभाषितं॥
शृणु वक्ष्ये महातन्त्रम्
तन्त्रराजेश्वरं परं।
नाम्ना चैकलवीरन्
तु सत्त्वानाम् आशु सिद्धये॥
अप्रकाश्यम् इदं
तन्त्रं अदृष्टमण्डलस्य हि।
नान्यमण्डलप्रविष्टस्य
तन्त्रराजन् तु दर्शयेत्॥
मण्डले चण्डरोषस्य
प्रविष्टो यः समाहितः।
श्रद्धायत्नपरश्
चण्डे तस्य तन्त्रन् तु देशयेत्॥
गुरौ भक्तः कृपालुश्
च मन्त्रयानपरायणः।
भक्तश् चण्डेस्वरे
नित्यं तस्य तन्त्रं प्रदर्शयेत्॥
एवम् बुद्ध्वा तु
यः कश्चिद् योगी लोभविडंबितः।
चण्डस्य मण्डलादृष्टे
देशयेत् तन्त्रम् उत्तमं॥
स महाव्याधिभिर्
ग्रस्तो विष्ठामूत्रमलीकृतः।
(२)
षण्मासाभ्यन्तरे
तस्य मृतुदुःखं भविष्यति॥
यमदूतैस् ततो ग्रस्तः
कालपाशवशीकृतः।
नरकं नीयते पापी
यदि बुद्धैर् अपि रक्षितः॥
यदि कर्मक्षयाद्
दुःखं भुक्त्वा च लक्षवत्सरं।
मानुष्यं प्राप्यते
जन्म तत्र वज्रेण भिद्यते॥
तस्माच् च मण्डलं
चारु वर्तयेन् मन्त्रविद्व्रती।
प्रवेश्य तत्र वै
शिष्यान् पूर्वम् एव परीक्षितान्॥
ततो हि देशयेत्
तन्त्रन् त्रिषु लोकेषु दुर्लभं।
अश्रुतं देशयेद्
योऽपि सोऽपि गच्छत्य् अधोगतिं॥
मुखपाको भवेत् तस्य
यदि बुद्धसमोऽपि हि।
श्रद्धाहीनोऽथवा
शिष्यः शृणुते जिज्ञासनाय च॥
भिद्यते मूर्ध्नि
वज्रेण वृष्टिकाले न संशयः।
तथ्यम् एतन् मया
देवि भाषितञ् च वरानने॥
तन्त्रे चैकलवीरेऽस्मिन्
सुगुप्ते चण्डरोषणे॥
इत्य् एकलवीराख्ये
श्रीचण्डमहारोषणतन्त्रे
तन्त्रावतारणपटलः
प्रथमः॥१॥
(३)
अथ भगवती द्वेषवज्री
भगवन्तं
चण्डमहारोषणं गाढं
आलिङ्ग्याह॥
मण्डलस्य कियन्
मानं वर्तनीयञ् च केन हि।
लिखितव्यञ् च तथा
तत्र मध्ये किं ब्रूहि मे प्रभो॥
अथ भगवान् आह॥
मण्डलस्य भवेन्
मानञ् चैकहस्तं द्विहस्तकं।
त्रिहस्तम् वा चतुःपञ्च
पञ्चमानम् न चाधिकं॥
यस्य तस्यैव चूर्णेन
नानावर्णकृतेन च।
चतुरशरञ् चतुर्द्वारं
चतुस्तोरणाभूषितं॥
भागेन चाष्टमेनैव
द्वारं तस्य प्रकल्पयेत्।
द्वारमानेन निर्यूहं
तदर्धेन कपोलकं॥
पक्षञ् चापि तथा
वेदीहारार्धहारपटिकां।
मूलसूत्रबहिस् तस्याप्य्
अर्धेनैव रजोभुवं॥
वज्रवलीन् तु तेनैव
अष्टस्तम्भांश् च कल्पयेत्।
द्वारात् त्रिगुणितं
कुर्यात् द्वारतोरणम् उत्तमं॥
विश्ववज्रम् अधो
लिख्यं वज्रप्राकारवेष्टितं।
कल्पवृक्षादिभिर्
युक्तं चण्डरोषणमण्डलं॥
पुटम् एकञ् च कर्तव्यञ्
चक्रवत् परिमण्डलं॥
तस्य पूर्वादिके
विश्वपदम् अष्टौ समालिखेत्।
नवमं मध्यमे तस्य
मध्ये खड्गं सुनीलकं॥
(४)
वज्रेणाङ्कितं तञ्
च वज्रकर्त्तिकपालयुतं।
पूर्वे चक्राङ्कितं
खड्गं श्वेतवर्णं समालिखेत्॥
दक्षिने पीतवर्णन्
तु युतं रत्नेन संलिखेत्।
पश्चिमे रक्तवर्णन्
तु रक्तपद्मेन चिह्नितं॥
उत्तरे खड्गमात्रन्
तु श्यामवर्णं समालिखेत्।
चक्रेण चिह्नितां
कर्त्तिम् अग्निकोणे सितां लिखेत्॥
नैरृते पीतवर्णां
तु लिखेद् रत्नसुचिह्नितां।
वायव्ये च तथा रक्तां
रक्तपद्मसुचिह्नितां॥
ऐशाने श्यामवर्णान्
तु नीलोत्पलसमन्वितां।
चन्द्रसूर्योपरिष्ठन्
तु सर्वचिह्नं प्रकल्पयेत्॥
रजोमण्डलम् इदं
प्रोक्तं मया लोकार्थसाधने।
अथवा मण्डलं कुर्यात्
पटरूपेण सुलिखितं॥
पूर्ववत् मण्डलं
लिख्यं मध्ये कृष्णचलं लिखेत्।
संपुटं द्वेशवज्र्या
वै पूर्वे श्वेताचलं लिखेत्॥
तथा पीताचलं सव्ये
पृष्ठे रक्ताचलं लिखेत्।
संलिखेद् उत्तरे
श्यामाचलं वह्नौ मोहवज्रीं॥
श्वेतां नैरृते
पीतां पिशुनवज्रीं समालिखेत्।
वायव्ये लोहितां
देवीं रागवज्रीं समालिखेत्॥
ऐशाने ईर्ष्यावज्रीम्
श्यामां लिखेद् वै पटमण्डलम्॥
अथ मण्डलाधिष्ठानमन्त्रम्
भवति॥
(५)
ओं श्रीचण्डमहारोषण
सर्वपरिवारसहित आगच्छ
आगच्छ जः हूं वं
होः अत्र मण्डले अधिष्ठानं
कुरु हूं फट् स्वाहा॥
अनेनाकृष्य प्रवेश्य बद्ध्वा
वशिकृत्य पूजयेत्॥
अथ पूजामन्त्रं
भवति॥
ओं कृष्णाचल पुष्पं
प्रतीच्छ हूं फट्।
ओं श्वेताचल पुष्पं
प्रतीच्छ हूं फट्।
ओं पीताचल पुष्पं
प्रतीच्छ हूं फट्।
ओं रक्ताचल पुष्पं
प्रतीच्छ हूं फट्।
ओं श्यामाचल पुष्पं
प्रतीच्छ हूं फट्।
ओं द्वेषवज्रि पुष्पं
प्रतीच्छ हूं फट्।
ओं मोहवज्रि पुष्पं
प्रतीच्छ हूं फट्।
ओं पिशुनवज्रि पुष्पं
प्रतीच्छ हूं फट्।
ओं रागवज्रि पुष्पं
प्रतीच्छ हूं फट्।
ओं ईर्ष्यावज्रि
पुष्पं प्रतीच्छ हूं फट्॥
पुष्पं दीपं तथा
धूपं गन्धं नैवेद्यम् एव च।
पूजापञ्चोपहारेण
कुर्याद् वै मण्डलस्य हि॥
यदा स्वेताचलो मध्ये
मोहवज्र्या समन्वितः।
तस्यैव मण्डलं ज्ञेयम्
एवं पीताचलादिके॥
पञ्चयोगिप्रभेदेन
पञ्चमण्डलकल्पनं।
(६)
कुर्याद् एकाग्रचित्तेन
पूर्वसेवाकृतश्रमः॥
मण्डलम् परिवेष्ट्यैव
योगिनीं योगिसंपुटां।
भोजयेन् मद्यमांसैश्
च वन्दयेच् च मुहुर् मुहुः॥
इत्य् एकलवीराख्ये
श्रीचण्डमहारोषणतन्त्रे मण्डलपटलो द्वितीयः॥२॥
अथ भगवत्य् आह॥
कथं शिष्यो भवेद्
भव्यो योजितव्योऽत्र तन्त्रके।
निर्विशङ्कश् च
कर्तव्यः कथय त्वं महाप्रभो॥
अथ भगवान् आह॥
आदौ त्रिशरणं दद्यात्
पञ्चशिक्षाश् च पोषधं।
ततः पञ्चाभिशेकन्
तु गुह्यं प्रज्ञाञ् च शेषतः॥
ततो भव्यो भवेच्
छिष्यस् तन्त्रन् तस्यैव देशयेत्।
दुरतो वर्जयेद्
अन्यम् अन्यथा रौरवं व्रजेत्॥
तत्रेयं त्रिशरणगाथा॥
बुद्धं गच्छामि
शरणं यावद् आभोधिमण्डतः।
धर्मं गच्छामि शरणं
संघञ् चावेत्यश्रद्धया॥
(७)
तत्रेयं पञ्चशिक्षागाथा॥
मारणञ् चौरिकाञ्
चापि परपत्नीं मृषावचः।
त्यजामि सर्पवत्
सर्वं पञ्चमं मद्यं एव च॥
तत्रेयं पोषधगाथा॥
म सत्त्वं घातयिष्यामि
न हरिष्ये परस्वकं।
ब्रह्मचर्यं चरिष्यामि
वर्जयिष्ये मृषावचः॥
प्रमादायतनं मद्यं
न पास्यमि कदाचन।
नृत्यगीतविभूषाञ्
च वर्जयिष्यामि सोत्सवान्॥
उच्चैःशय्यां महासय्यां
विकालेऽपि च भोजनं।
एवं पोषधम् अष्टाङ्गम्
अर्हताम् अनुशिक्षया॥
विशुद्धं धारयिष्यामि
यथा बुद्धेन देशितं।
तेन जित्वा शठमारं
प्राप्य बुद्धत्वम् उत्तमं॥
भवेयं भवखिन्नानां
शरणं सर्वदेहिनां।
संसरामि भवे यावत्
तावत् सुगतिजः पुमान्॥
भवेयं साधुसंसर्गी
धीमान् लोकहिते रतः॥
तत्रायम् उदकाभिषेकः॥
शिष्यं शुद्धं
स्फटिकसंकाशं निर्मलं
ध्यात्वा विजयकलशाद्
उदकम् आकृष्य सहकारपलवेन
ओं आः सर्व-
तथागताभिषेकसमश्रिये
हूं इत्य् अनेनाभिषिञ्चेत्॥
तत्रायं मकुटाभिषेकः॥
वज्रादिघटितं
(८)
मकुटं सर्वरत्नम्
इवाकलय्य। शिष्यं चक्र-
वर्तिनम् इव ध्यात्वा
तच्छिरसि मकुटं दत्त्वा
पूर्ववद् अभिषिञ्चयेत्॥
ओं चण्डमहारोषण आविश
२ अस्य हृदय हूं
फट्॥
तत्रायं खड्गाभिषेकः॥
लोहादिमयं खड्गं
तस्य दक्षिणहस्ते
दत्त्वा पूर्ववद् अभिषिञ्चयेत्॥
ओं हन २ मारय २
सर्वशत्रून् ज्ञानखड्ग हूं फट्॥
तत्रायं पाशाभिषेकः॥
ताम्रादिमयं पाशाम्
तस्य तर्जनीयुते
वामहस्ते दत्त्वा पूर्ववद्
अभिषिञ्चेत्॥ ओं
गृह्न २ कट्ट २ सर्वदुष्टान्
पाशेन बन्ध २ महासत्य
ते धर्म ते स्वाहा।
तत्रायं नामाभिषेकः॥
शिष्यं चण्डमहा-
रोषणमुद्रयोपवेश्य
तदाकारेण च तम् आलम्ब्य।
ओं हे श्रीभगवन्
कृष्णाचल सिद्धस् त्वं हूं फट्॥
ततः पूर्ववद् अभिषिञ्चेत्॥
एवं साधकस्य
कृष्णादिवर्णभेदेन
पञ्चाचलनाम्नाभिषेको देयः॥
इति पञ्चाभिषेकाः॥
स्त्रीणान् तु मकुटाभिषेकं
त्यक्त्वा
सिन्दूराभिषेकं
दद्यात्॥ पट्टमहादेवीरूपां
शिष्याम् आलम्ब्य।
ओं भगवति आविश २ अस्या हृदये
(९)
हूं फट्॥ लौहादिकर्त्तिकान्
तस्या दक्षिणहस्ते
दद्यात्॥ ओं कर्त्तिके
सर्वमाराणां मांसं कर्तय
२ हूं फट्॥ वामहस्ते
नृकपालं दार्वादिकृतं
दद्यात्॥ ओं कपाल
सर्वशत्रूणां रक्तं धारय
२ हूं फट्॥ ततो
भगवतीमुद्रयोपवेश्य
तदाकारेण चालम्ब्य।
ओं हे श्रीद्वेषवज्रि सिद्धा
त्वं हूं फट्॥ एवं
स्त्रियः कृष्णादिवर्णभेदेन
पञ्चयोगिनीनां नाम्नाभिषिञ्चेत्॥
आसान् तु
प्रज्ञाभिषेकस्थाने
उपायभिषेको देय इति॥
अथ गुह्याभिषेको
भवति॥ शिष्यो गुरुं
वस्त्रादिभिः संपूज्य॥
तस्मै स्वमनोवाञ्छितां
रूपयौवनमण्डितां
निर्यातयेत्॥
इयं निर्यातिता
तुभ्यं सर्वकामसुखप्रदा।
मया कामसुखार्थं
ते गृह्न नाथ कृपां कुरु॥
ततो गुरुं नमस्कृत्य
शिष्यो बहिर् निर्गच्छेत्॥
ओं चण्डमहारोषण
हूं फट् इति मन्त्रं जपन्
तिष्ठेत्॥ गुरुः
पुनर् मद्यमांसदिभिर् आत्मानं
पूजयित्वा प्रज्ञाञ्
च संतर्प्य संपुटीभूय।
तदुद्भूतं शुक्रशोणितं
पर्णपुटादाव् अवस्थाप्य।
शिष्यम् आहूय तस्य
जिह्वायाम् अनामिकाङ्गुष्ठाभ्यां
(१०)
द्रव्यं गृहीत्वा।
हूं फट् कारं लिखेत्॥ ततो
ऽहो सुखम् इति पाठयेच्
च। तत एवं वदेत्॥
अद्याहं तेन बुद्धज्ञानम्
उत्पादयामि येनातीतानागता
प्रत्युत्पन्ना
बुद्धा भगवन्तोऽप्रतिष्ठितनिर्वाणं
प्राप्ताः॥ किन्
तु न त्वयेदम् अदृष्टमण्डलपुरतो
वक्तव्यं॥ अथ वदसि
तदा। तस्य शिष्यस्य
हृदये खड्गम् अर्पयित्वेदं
पठेत्॥
अतितीक्ष्णो ह्य्
अयं खड्गश् चण्डरोषकरे स्थितः।
भेदयेत् समयं यस्
तु तस्य छेदनतत्परः॥
जन्मकोटिसहस्रेषु
खड्गव्यग्रकरा नराः।
सर्वाङ्गछेदका भोन्ति
शिरश्छेदैकतत्पराः॥
भविष्यति तवाप्य्
एवं समयं यदि भेत्स्यसि॥
ततः शिष्येण वक्तव्यं।
एवम् अस्त्व् इति॥
ततोऽन्धपट्टं बन्धयित्वा
मण्डले पुष्पं
पातयेत्॥ ततोऽन्धपट्टं
मुक्त्वा मण्डलं
प्रदर्शयेत्॥ यस्य
यच् चिह्नं तद् बोधयेत्।
ततस् ताम् एव प्रज्ञां
शिष्यस्य समर्पयेत्॥
इयन् ते धारणी रम्या
सेव्या बुद्धैः प्रकाशिता।
अतिक्रामति यो मूढः
सिद्धिस् तस्य न चोत्तमा॥
ततो गुरुः कर्णे
कथयेत् चतुरानन्दविभागं॥
(११)
ततो बहिर् निर्गच्छेद्
गुरुः॥ प्रज्ञा तु
नग्नीभूयोत्कुटकेन
गुह्यं तर्जन्या दर्शयति॥
किं त्वम् उत्सहसे
वत्स मदीयाशुचिभक्षणं।
विण्मूत्रञ् चैव
रक्तञ् च भगस्यान्तः प्रचूषणं॥
साधकेन वक्तव्यं।
किञ् चाहं नोत्सहे
मातस् त्वदीयाशुचिभक्षनं।
कार्या भक्तिर्
मया स्त्रीणां यावद् आबोधिमण्डतः॥
सा चाह॥
अहो मदीयं यं पद्मं
सर्वसुखसमन्वितं।
सेवयेद् यो विधानेन
तस्याहं सिद्धिदायिनी॥
कुरु पद्मे यथाकार्यम्
धैर्यं धैर्यप्रयोगतः।
स्वयञ् चण्डमहारोषः
स्थितो ह्य् अत्र महासुखं॥
ततः साधक आत्मानं
चण्डमहारोषणाकारेण
ध्यात्वा प्रज्ञाञ्
च द्वेषवज्रीरूपेण संपुटं
कृत्वा चतुरानन्दान्
लक्षयेत्॥ ततो निष्पन्ने
गुरुप्रमुखं कृत्वा
मद्यमांसादिभिर् भक्षणचक्रं
कुर्यात्॥ इति प्रज्ञाभिषेकः॥
इत्य् एकलवीराख्ये
श्रीचण्डमहारोषणतन्त्रे
ऽभिषेकपटलस् तृतीयः॥
३॥
(१२)
अथ भगवत्य् आह॥
भावितव्यं कथञ्
चण्डरोषणभावकेन हि।
जप्तव्यं कीदृशं
मन्त्रं वद त्वं परमेश्वर॥
अथ भगवान् आह॥
मनोऽनुकूलके देशे
सर्वोपद्रविवर्जिते।
आसनं कल्पयेत् तत्र
यथालब्धं समाहितः॥
प्रथमं भावयेन्
मैत्रीं द्वितीये करुणाम् विभावयेत्।
तृतीये भावयेन्
मुदिताम् उपेक्षां सर्वशेषतः॥
ततो हृदि भावयेद्
बीजं पद्मचन्द्ररविष्ठितं।
रश्मिभिः पुरतो
ध्यायान् निष्पन्नं चण्डरोषणं॥
पूजयेन् मनसा तञ्
च पुष्पधूपादिभिर् बुधः॥
तदग्रे देशयेत्
पापं सर्वपुण्यं प्रमोदयेत्॥
त्रिशरणं गमनं कुर्याद्
याचनाध्येषणाम् अपि।
आत्मानञ् च ततो
दत्त्वा पुण्यञ् च परिणामयेत्॥
प्रणिधानं ततः कृत्वा
बोधौ चित्तन् तु नामयेत्।
नमस्कारं ततः कुर्यात्
रश्मिभिः संहरेत् पुनः॥
पठित्वा मन्त्रम्
एतद् धि शून्यताध्यानम् आचरेत्।
ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहं॥
चिन्तयेद् रश्मिभिर्
दग्धं स हूंकारं प्रयत्नतः।
कर्पूरदाहवद् ध्यात्वा
रश्मिञ् चापि न कल्पयेत्॥
(१३)
सर्वम् आकाशसंकाशं
क्षणमात्रं विभाव्य च।
शुद्धस्फटिकवत्
स्वच्छम् आत्मदेहं विभावयेत्॥
अग्रतो भावयेत्
पश्चात् यं रं वं लं चतुष्टयं।
निष्पन्नं भावयेत्
तेन वातवह्निजलोर्विकां॥
भ्रुंकारञ् च ततो
ध्यात्वा कूटागारं प्रकल्पयेत्।
चतुरश्रञ् चतुर्द्वारं
अष्टस्तम्भोपशोभितं॥
ध्यायेत् तन्मध्यके
पद्मं विश्वं अष्टदलान्वितं।
पंकारबीजसंभूतं
तत्र अंकारजं विधुं॥
रविं रंकारजातञ्
च तदूर्ध्वं हूंकृतिं पुनः।
तज्जम् अक्षोभ्यकं
ध्यायेन् मामक्या सह संपुटं॥
संक्रमेत् तत्र
योगीन्द्रस् तस्य मूर्धबिलेन च।
तारासंक्रान्तियोगेन
मामकीभगचेतसा॥
ततः शुक्ररसीभूतः
पतेह् तस्या भगोदरे।
निष्पन्नञ् चण्डरूपन्
तु निःसरेच् च भगात् ततः॥
हन्यात् खड्गेन
चाक्षोभ्यं पितरं पश्चात् प्रभक्षयेत्।
मामक्यापि ततस्
तञ् च भक्षितं वै प्रकल्पयेत्॥
ततो हि मामकीं गृह्य
मातरं संप्रकामयेत्।
तया चालिङ्गितं
ध्यायेद् द्वेषवज्रीस्वरूपतः॥
खड्गोग्रकरं सव्ये
वामे पाशसमन्वितं।
तर्जन्या तर्जयन्तञ्
च दंष्ट्रोष्ठं तु निपीदितं॥
(१४)
संप्रहारपदं सव्ये
चतुर्मारविमर्दनं।
वामे भूमिष्ठजानुञ्
च केकराक्षं भयानकं॥
वसुधां तर्जयन्तञ्
च वामजान्वग्रतः स्थितं।
अक्षोभ्यकृतमौलन्
तु नीलं रत्नकिरीटिनं॥
पञ्चचीरं कुमारञ्
च सर्वालङ्कारभूषितं।
द्विरष्टवर्षाकारञ्
च रक्तचक्षुर्द्वयं विभुं॥
भावयेत् स्थिरचित्तेन
सिद्धोऽहं चण्डरोषणः।
ततो मन्थानयोगेन
पूर्वे श्वेताचलं सृजेत्॥
मोहवज्रीं सृजेद्
अग्नौ शरत्काण्टसमप्रभां।
पीताचलं सृजेत्
सव्ये पिशुनवज्रीञ् च नैरृते॥
रक्ताचलं सृजेत्
पृष्थे रक्ताञ् च रागवज्रिकां।
वायव्ये चोत्तरे
श्यामाचलं श्यामाम् ईशानके॥
ईर्ष्यावज्रीं सृजेत्
पश्चात् स प्रज्ञोत्गतिम् आवहेत्।
चोदयन्ति ततो देवः
स्वकण्ठोदितगीतिभिः॥
पहु मैत्री तु विवर्जि
होहि मा शुन्नसहाव।
तोज्जु वियो फिटुमि
सर्वे सर्वे हि ताव च॥
मोहवज्र्याः॥
मा करुणाचि इट्टहि
पहु मा होहि तु शुन्न।
मा मोज्जु देह सुदुक्खि
हो है जीव विहुन॥
पिशुनवज्र्याः॥
(१५)
की सन्तु हरिस विहोहि
शुन्नहि करसि पवेश।
तोज्जु निमन्तण
करि मनु च्छै लोहाशेष॥
रागवज्र्याः॥
योवनवुण्त्तिम्
उपेखि निष्फल शुन्न दित्ति।
शूनसहाव विगो करहि
तु मे सम घिट्टि॥
ईर्ष्यावज्र्याः॥
स्वप्नेनेव इदं
श्रुत्वा द्रवाज् झतिति उत्थितः।
पूर्वकेणैव रूपेन
ध्यायात् तं संपुटात्मकं॥
ततः श्वेताचलं हत्वा
मोहवज्रीं प्रकामयेत्।
रूपं श्वेताचलं
कृत्वा पुनः पीताचलं हरेत्॥
कामयेत् पिशुनवज्रीन्
तु कृत्वा पीताचलात्मकं।
हत्वा रक्ताचलं
तद्वत् कामयेद् रागवज्रिकां॥
कृत्वा रक्ताचलात्मकं
हन्याच् छ्यामाचलं पुनः।
ईर्ष्यावज्रीं ततः
काम्या कृत्वा श्यामाचलात्मकं॥
अनुराग्य चतुर्देवीं
संहरेत् सर्वमण्डलं।
संपुटं चैकम् आत्मानं
भावयेन् निर्भरं यती।
अहंकारं ततः कुर्यात्
सिद्धोऽहं नैव संशयः॥
कृष्णवर्णो हि यो
योगी स कृष्णाचलभावकः।
श्वेतगौरो हि यो
योगी स श्वेताचलभावकः।
पीतवर्णो हि यो
योगी स पीताचलभावकः।
(१६)
रक्तगौरो हि यो
योगी स रक्ताचलभावकः।
श्यामवर्णो हि यो
योगी स श्यामाचलभावकः॥
कृष्णवर्णा तु या
नारी द्वेषवज्रीं विभावयेत्।
श्वेतगौरा तु या
नारी मोहवज्रीं विभावयेत्॥
पीतवर्णा तु या
नारी पिशुनवज्रीं विभावयेत्।
रक्तगौरा तु या
नारी रागवज्रीं विभावयेत्॥
श्यामवर्णा तु या
नारी ईर्ष्यावज्रीं विभावयेत्।
वज्रयोगी नरः सर्वो
नारी तु वज्रयोगिनी॥
कृष्णादिवर्णभेदेन
सर्वम् एतत् प्रकल्पयेत्।
अथवा कर्मभेदेन
पञ्चभेदप्रकल्पनं॥
कृष्णो हि मारणे
द्वेषे श्वेतः शान्तौ मताव् अपि।
पीतः स्तम्भने पुष्टौ
वश्याकृष्टे तु लोहितः॥
श्याम उच्चाटने
ख्यातो यद् वा जतिप्रभेदतः।
कृष्णो डोम्बः शितो
विप्रः पीतश् चाण्डालको मतः॥
रक्तस् तु नटकः
श्यामः स्मृतो रजक इत्य् अपि।
कृष्णकन्यां विशालाक्षीं
कामयेत् कृष्णभावकः॥
शितकन्यां शितात्मा
तु पीतकन्यां सुपीतकः।
रक्तो हि रक्तकन्यान्
तु श्यामकन्यान् तु श्यामकः॥
यां ताम् अथवा गृह्य
यत्तद्भावनापरः।
कामयेत् स्थिरचित्तेन
यथा कोऽपि न बुध्यते॥
(१७)
एताः सुसिद्धिदाः
कन्याः पक्षमात्रप्रयोगतः।
आसां शुक्रं भवेद्
वज्रं जिह्वया सर्वम् आलिहेत्॥
यावदिच्छं पिबेत्
मूत्रं तासाम् अर्प्य भगे मुखं।
गुदपद्मे चार्प्य
वै विष्ठां यावदिच्छं प्रभक्षयेत्॥
न कर्तव्या घृणाल्पापि
सिद्धिभ्रंशोऽन्यथा भवेत्।
निजाहारम् इदं श्रेष्ठं
सर्वबुद्धैः प्रभक्षितं॥
इत्य् एकलवीराख्ये
श्रीचण्डमहारोषणतन्त्रे
देवतापटलश् चतुर्थः॥४॥
अथातः संप्रवक्ष्यामि
सर्वमन्त्रसमुच्चयं॥
अथ भगवान् सर्वमारपराजयं
नाम समाधिं
समापद्येदं मन्त्रसमुच्चयम्
आह॥
ओं चण्डमहारोषण
हूं फट्॥ मूलमन्त्रः॥
ओं अचल हूं फट्॥
द्वितीयमूलमन्त्रः॥ ओं
हूं फट्॥ तृतीयमूलमन्त्रः॥
हूं॥ हृदयमन्त्रः॥
आं॥ हृदयमन्त्रो
द्वितीयः॥ हं॥ तृतीयहृदयमन्त्रः॥
ओं ह्रां ह्रीं
ह्रौं चण्डरूपे चट २ प्रचट
२ कट्ट २ प्रस्फुर
२ प्रस्फारय २ हन २ ग्रस २
(१८)
बन्ध २ जम्भय २
स्तम्भय २ मोहय २ सर्वशत्रूनां
मुखबन्धनं कुरु
२ सर्वडाकिनीनां ग्रहभूत-
पिशाचव्याधियक्षानां
त्रासय २ मर २ मारय २
रुरुचण्डरुक् रक्ष
२ देवदत्तञ् चण्डमहासेनः
सर्व आज्ञापयति।
ओं चण्डमहारोषण हूं फट्॥
मालामन्त्रः॥ नमः
सर्वाशापरिपूरकेभ्यः
सर्वतथागतेभ्येः।
सर्वथाचलकानना नट्ट
२ मोट्ट २ सट्ट
२ तुट्ट २ तिष्ठ २ आविश २ आः
महामत्तबालक धूण
२ तिण २ खाद २ विघ्नान्
मारय २ दुष्टान्
भक्ष २ सर्वं कुरु २ किरि २
महाविषमवज्र फट्
हूं ३। त्रिबलितरङ्गावर्तक
हूं ३। अचलचेट फट्
स्फाटय २ हूं २ असमन्तिके
त्राट् महाबल साटय
समानाय त्रां मां हां शुद्ध्यन्तु
लोकाः। तुष्यतु
वज्री नमोऽस्त्व् अप्रतिहतबलेभ्यः।
ज्वालय त्राट् असह
नमः स्वाहा॥ द्वितीयमालामन्त्रः।
नमः सर्वाशापरिपूरकेभ्यः
सर्वतथागतेभ्यः
सर्वथा त्राट् अमोघचण्डमहारोषण
स्फोटय २ हूं
भ्रमय २ त्राट्
मोहां॥ तृतीयो मालामन्त्रः।
इति पञ्चाचलानां
सामान्यमन्त्राः॥ विशेषमन्त्रास्
तु। ओं कृष्णाचल
हूं फट्। ओं श्वेताचल हूं फट्।
(१९)
ओं पीताचल हूं फट्।
ओं रक्ताचल हूं फट्।
ओं स्यामाचल हूं
फट्।
देवीनान् तु सामान्यमन्त्राः॥
ओं वज्रयोगिनि
हूं फट्॥ मूलमन्त्रः॥
ओं प्रज्ञापारमिते हूं
फट्। द्वितीयमूलमन्त्रः॥
ओं वौहेरि हूं फट्॥
तृतीयमूलमन्त्रः॥
ओं पिचु २ प्रज्ञावर्धनि
ज्वल २ मेधावर्धनि
धिरि २ बुद्धिवर्धनि
स्वाहा॥ मालामन्त्रः॥
विशेषमन्त्रास्
तु॥ ओं द्वेषवज्रि हूं फट्।
ओं मोहवज्रि हूं
फट्। ओं पिशुनवज्रि हूं फट्।
ओं रागवज्रि हूं
फट्। ओं ईर्ष्यावज्रि हूं फट्।
बलिमन्त्रः सामान्योऽयम्॥
ओं नमो भगवते
श्रीचण्डमहारोषणाय
देवासुरमानुष्यत्रासनाय
समस्तमारबलविनाशनाय
रत्नमकुटकृतशिरसे
इमं बलिं गृह्न
२ मम सर्वविघ्नान् हन २
चतुर्मारान् निवारय
२ त्रास २ भ्राम २ चिन्द २
भिन्द २ नाश २ ताप
२ शोष २ छेद २ भेद २
दुष्टसत्त्वान्
मम विरुद्धचित्तकान् भस्मीकुरु २
फट् २ स्वाहा॥
इत्य् एकलवीराख्ये
श्रीचण्डमहारोषणतन्त्रे
मन्त्रपटलः पञ्चमः॥५॥
(२०)
अथ भगवती प्रज्ञापारमिता
भगवन्तं
गाढम् आलिङ्ग्य
पद्मेन वज्रघर्षणं कृत्वा प्राह॥
निष्पन्नक्रमयोगेन
भावना कीदृशी भवेत्।
योगिनीनां हितार्थाय
पृच्छितं सफलीकुरु॥
अथ भगवान् आह॥
निष्पन्नक्रमयोगस्थो
योगी योगैकतत्परः।
भावयेद् एकचित्तेन
मम रूपम् अहर्निशं॥
कल्पयेत् स्वस्त्रियन्
तावत् तव रूपेण निर्भरां।
गाढेनैवातियोगेन
यथैव स्फुटतां व्रजेत्॥
मातरं दुहितरं चापि
भगिनीं भागिनेयिकां।
अन्याञ् च ज्ञातिनीं
सर्वां डोम्बिनीं ब्राह्मणीं तथा।
चण्डालीं नताकीञ्
चैव रजकीं रूपजीविकां।
व्रतिनीं योगिनीञ्
चैव तथा कापालिनीं पुनः॥
अन्याञ् चेति यथाप्राप्तां
स्त्रीरूपेण सुसंस्थितां।
सेवयेत् सुविधानेन
यथा भेदो न जायते॥
भेदे तु कुपितश्
चण्डरोषणो हन्ति साधकं।
अवीचौ पातयेत् तञ्
च खड्गपाशेन भीषयेत्॥
नेह लोके भवेत्
सिद्धिः परलोके तथैव च।
तस्माच् च गुप्तम्
अत्यन्तं कर्तव्यं नापि गोचरं॥
डाकिनीमन्त्रवद्
गोप्यं चण्डरोषणसाधनं।
(२१)
अभ्यन्तकामिनाम्
अर्थे मया बुद्धेन भाषितं॥
मनोऽनुकूलके देशे
सर्वोपद्रववर्जिते।
प्रच्छन्ने तां
समादाय स्वचेतोरम्यकामिनीं॥
बुद्धोऽहं चाचलः
सिद्धः प्रज्ञापारमिता प्रिया।
भावयेत् स्वस्वरूपेण
गाढेन चेतसा सुधीः॥
निर्जनञ् चाश्रमं
कृत्वा यथालब्धान्नवस्तुकः।
भावयेन् निर्भरं
द्वाभ्याम् अन्योन्यद्वन्द्वयोगतः॥
स्त्रियं प्रत्यक्षतः
कृत्वा संमुखे चोपवेश्य हि।
द्वाभ्याम् अन्योन्यरागेण
गाढम् अन्योन्यम् ईक्षयेत्॥
ततो दृष्टिसुखं
ध्यायन् तिष्ठेद् एकाग्रमानसः।
तया तत्रैव वक्तव्यं
सुखोत्तेजःकरं वचः॥
त्वं मे पुत्रोऽसि
भर्तासि त्वं मे भ्राता पिता मतः।
तवाहं जननी भार्या
भगिनी भागिनेयिका॥
सप्तभिः पुरुषैर्
दासस् त्वं मे खेटसचेटकः।
त्वं मे कपर्दकक्रीतस्
तवाहं स्वामिनी मता॥
पतेच् चरणयोस् तस्या
निर्भरं सम्पुटाञ्जलिः॥
वदेत् तत्रेदृशं
वाक्यं सुखोत्तेजःकरं परं।
त्वं मे मातापितुर्
भार्या त्वं मे च भागिनेयिका॥
भगिनीपुत्रभार्या
च त्वं स्वसा त्वं च मामिका।
तवाहं सर्वथा दासस्
तीक्ष्णभक्तिपरायणः॥
(२२)
पश्य मां कृपया
मातः स्नेहदृष्टिनिरीक्षणैः।
ततः सा पुरुषं श्लिष्टा
चुम्बयित्वा मुहुर् मुहुः॥
ददाति त्र्यक्षरं
मस्ते वक्त्रे वक्त्ररसं मधु।
पद्मं चोषापयेत्
तस्य दर्शयेन् नेत्रविभ्रमं॥
वक्त्रे च चर्चितं
दत्त्वा कुचेन पीडयेद् हृदं।
संमुखं तन्मुखं
दृष्त्वा नखं दत्त्वा चित्तालये॥
वदेत् तस्येदृशम्
वाक्यं भक्ष वैरोचनं मम।
पिबाक्षोभ्यजलं
पुत्र सपित्रा दासको भव॥
तव गोस्वामिनी चाहं
माता राजकूलीत्य् अपि।
मदीयं चरणं गच्छ
शरणम् वत्स निरन्तरं॥
मया सम्वर्धितो
यस्मात् त्वम् आनर्घ्यम् उपागतं।
कृतज्ञो भव भो वत्स
देहि मे वज्रजं सुखं॥
त्रिदलं पङ्कजम्
पश्य मध्ये किञ्जल्कभूषितं।
अहो सुखावतीक्षेत्रं
रक्तबुद्धोपशोभितं॥
रागिणां सुखदं शान्तं
सर्वकल्पविवर्जितं।
माम् उत्तानेन संपाट्य
रागविह्वलमानसां॥
स्कन्धे पादयुगं
दत्त्वा ममाधोर्ध्वं निरीक्षय।
स्फुरद्वज्रम् ततः
पद्ममध्यरन्ध्रे प्रवेशय॥
देहि धापसहस्रं
त्वं लक्ष्यकोटिं अथार्बुदं।
मदीये त्रिदले पद्मे
मांसवर्तिसमन्विते॥
(२३)
स्ववज्रं तत्र प्रक्षिप्य
सुखैश् चित्तं प्रपूजय।
वायु वायु सुपद्मं
मे सारात् सारम् अनुत्तरं॥
वज्रस्याग्रेण संबुद्धं
रक्तं बन्धूकसंनिभं।
ब्रुवन्तीम् इति
तां ध्यायं स्तब्धीभूयैकचेतसा॥
भावयेत् तज्जकं
सौख्यं निश्चलो गाढचित्ततः।
तसमि प्रत्युत्तरं
दद्याद् विलम्ब त्वं प्रिये क्षणं॥
यावत् स्त्रीदेहगं
रूपं क्षणमात्रं विचिन्तये।
स्त्रीं एकां जननीं
खलु त्रिजगतां
सत्सौख्यदात्रीं
शिवां।
विद्वेषाद् इह निन्दयन्ति
मुखरा
ये पापकर्मस्थिताः।
ते तेनैव दुरावगाहनरके
रौद्रे सदा दुःखिताः।
क्रन्दन्तो बहुवह्निदग्धवपुषस्
तिष्ठन्ति कल्पत्रयं।
किन् तु वाच्यो
गुणः स्त्रीणां सर्वसत्त्वपरिग्रहः।
कृपा वा यदि वा
रक्षा स्त्रीणां चित्ते प्रतिष्ठिता॥
आस्तां तावत् स्वजनं
परजनम्
अपि पुष्णाति भिक्षया।
सा चेद् एवंरूपा
नान्यथा
स्त्री वज्रयोगिन्याः॥
(२४)
आस्तान् तु दर्शनं
तस्याः स्पृष्टिघृष्टिञ् च दूरतः।
यस्याः स्मरणमात्रेण
तत्क्षणं लभ्यते सुखं॥
पञ्चैव विषयाः स्त्रीणां
दिव्यरूपेण संस्थिताः।
ताम् उद्वाहितां
कृत्वा सुखं भुञ्जन्ति मानवाः॥
तस्माद् भो दोषनिर्मुक्ते
सर्वसद्गुणमण्डिते।
पुण्ये पुण्ये महापुण्ये
प्रसादं कुरु मेऽम्बिके॥
ततस् तां गाढतो
दृष्ट्वा स्वौष्ठं दन्तेन पीडयेत्।
कुर्वन् शीत्कारकं
योगी ताञ् च कुर्याद् विनग्निकां॥
कुर्यात् सुखोदयबन्धं
बन्धञ् च दोलचालनं।
बन्धं जानुग्रहञ्
चैव बन्धं चाप्य् ऊरुमर्दनं॥
पादचालनबन्धञ् च
बन्धञ् च भूमिचापितं।
बन्धं समदन्तकञ्
चैव बन्धञ् च चित्रसंज्ञकं॥
भ्रमरीजालं बन्धञ्
च यन्त्रारूढोर्ध्वपदकं।
तथैव कूर्मबन्धञ्
च सर्वतोभद्रम् एव च॥
तत्र पर्यङ्कमध्ये
तु स्त्रियञ् चोत्कुटकासनां।
कृत्वा बाहुयुगम्
स्कन्धे स्वस्य गाढेन योजयेत्॥
स्वस्य बाहुयुगं
तस्याः कक्षमध्याद् विनिर्गतं।
पद्मे प्रक्षिप्य
वज्रन् तु ख्यातो बन्धसुखोदयः॥
द्वयोर् हस्तयुगं
वेणीबन्धम् अन्योन्ययोगतः।
ईषच् च चालयेद्
द्वाभ्यां ख्यातोऽयं दोलचालनः॥
(२५)
तस्या जानुद्वयं
स्वस्य हृदि कृत्वा तु संपुटं।
दोलचालनकरन्यासाद्
बन्धोऽयम् जानुकग्रहः॥
तस्याः पादतलौ स्वस्य
चोरुमूले नियोजयेत्।
सुखोदयकरन्यासाद्
बन्धोऽयं चोरुमर्दनः॥
तस्याः पादतलौ नाभौ
हृदि पार्श्वद्वयेऽपि हि।
दोलचालनकरन्यासाद्
बन्धोऽयं पादचालनः॥
तस्याः पूलद्वयं
भूमौ संस्थाप्य क्रोडकोटरे।
सुखोदयकरन्यासाद्
बन्धोऽयं भूमिचापितः॥
तां उत्कुटकेन संस्थाप्य
द्विपादञ् च प्रसारयेत्।
बन्धः समदन्तको
ज्ञेयः प्रत्येकं चापि सारयेत्॥
तस्याः पादयुगं
वक्रं कृत्वा वामे प्रयोजयेत्।
सव्येऽपि संमुखे
चापि हृदा पृष्ठम् स्पृशेत् ततः॥
हस्तादिमर्दनं कुर्याद्
बन्धोऽयं चित्रसंज्ञकः।
पुनः सुखोदयं कृत्वा
ताम् उत्तानेन पातयेत्॥
सव्येन च करेणैव
वज्रं पद्मे निवेशयेत्।
तस्या जानुतले गृह्य
कफण्य् ऊर्ध्वं नियोजयेत्॥
अन्योन्यवेणीहस्ते
च भ्रमरीजालम् इति स्मृतं।
तस्याः पादयुगं
दत्त्वा स्वस्कन्धोपरि निर्भरं॥
यन्त्रारूढो ह्य्
अयं बन्धो वेशावेशप्रयोगतः।
तस्या वामं पदं
स्कन्धे सव्यं वामोरुमूलतः॥
(२६)
तस्याः सव्यं पदं
स्कन्धे वामं सव्योरुमूलतः।
उर्ध्वपादो ह्य्
अयं बन्धः सत्सुखो दुःखनाशनः॥
तस्याः पादतले वक्षोमध्ये
समे नियोजयेत्।
बाहूभ्यां पीडयेज्
जानू कूर्मबन्ध उदाहृतः॥
तस्याः पादतले नेत्रे
कर्णे मूर्ध्नि नियोजयेत्।
बन्धोऽयं सर्वतोभद्रः
सर्वकामसुखप्रदः॥
चित्रपर्यन्तकं
यावत् कुर्यात् सर्वं विचित्रकं।
क्रोडेण पीडयेद्
गाढम् चण्डरोषणयोगतः॥
चुम्बयेच् च मुखं
तस्या यावदिच्छं पुनः पुनः।
उन्नाम्य वदनं दृष्ट्वा
यथेच्छं वाक्यकं वदन्॥
जिह्वाञ् च चूषयेत्
तस्याः पिबेल् लालां मुखोद्भवां।
भक्षयेच् चर्चितं
दन्तमलं सौख्यं विभावयेत्॥
पीडयेद् दन्तजिह्वाम्
ईषद् अधरपिधानिके।
जिह्वया नासिकारन्ध्रं
शोधयेन् नेत्रकोणिकां॥
दन्तकक्षाञ् च तज्जातं
मलं सर्वञ् च भक्षयेत्।
मस्तं नेत्रं गलं
कर्णम् पार्श्वम् कक्षं करं स्तनं॥
चुम्बयित्वा नखं
दद्यात् त्यक्त्वा नेत्रद्वयं स्त्रियाः।
मर्दयेत् पाणिना
चुञ्चं चूषयेद् दंशयेत् ततः॥
स्वयम् उत्तानिकां
कृत्वा चुम्बयेत् सुन्दरोदरं।
अत्रैवाहं स्थितः
पूर्वं स्मृत्वा स्मृत्वा मुहुर् मुहुः॥
(२७)
हस्तेन स्पर्शयेत्
पद्मं वायु सुन्दरम् इति ब्रुवन्।
दद्याच् चुंबनखं
तत्र पश्येन् निष्कृष्य पाणिना॥
घ्रात्वा गन्धञ्
च तद् रन्ध्रं शोधयेद् रसनया
स्त्रियाः।
प्रविष्टोऽहं यथानेन
निःसृतश् चाप्य् अनेकशः॥
वदेत् तत्रेदृशं
वाक्यं पन्थायं नासिकर्जुः।
अयं एव षड्गतेः
पन्था भवेद् अज्ञानयोगतः॥
चण्डरोषणसिद्धेस्
तु भवेद् ज्ञानप्रयोगतः।
ततः पद्मगतं श्वेतं
रक्तं वा सुखसात्कृतैः॥
भक्षयेच् च मुखं
तस्याः संपश्यंश् च पुनः पुनः।
स नखं चोरुकं कृत्वा
मर्दयेद् दासवत् पदौ॥
मस्तके त्र्यक्षरम्
दद्याद् धृन्मध्ये लघुमुष्टिकं।
ततश् चित्रात् परान्
बन्धान् कुर्याद् योगी समाहितः॥
इच्छया ध्यायकं
तत्र दद्यात् सौख्यैकमानसः।
यथेच्छं प्रक्षरेन्
नो वा क्षरेत् सौख्यैकमानसः॥
क्षरिते चालिहेत्
पद्मं जानुपातप्रयोगतः।
भक्षयेत् पद्मगं
शुक्रं शोणितं चापि जिह्वया॥
नासया नलिकायोगात्
पिबेत् सामर्थ्यवृद्धये।
प्रक्षाल्य जिह्वया
पद्मं प्रज्ञाम् उत्थाप्य चुम्बयेत्॥
क्रोडीकृत्य ततः
पश्चाद् भक्षयेन् मत्स्यमांसकं।
(२८)
पिबेद् दुग्धञ्
च मद्यम् वा पुनः कामप्रवृद्धये॥
श्रमे जीर्यति तत्पश्चाद्
इच्छयेत् तु सुखादिभिः।
पुनः पूर्वक्रमेणैव
द्वन्द्वम् अन्योन्यम् आरभेत्॥
अनेनाभ्यासयोगेन
साधितञ् च महासुखं।
चण्डरोषपदं धत्ते
जन्मन्य् अत्रैव योगवित्॥
रागिणां सिद्धिदानार्थं
मया योगः प्रकाशितः।
वामजङ्घोपरि स्थाप्य
सव्यजङ्घां तु लीलया॥
ख्यातोऽयं सत्त्वपर्यङ्कः
सर्वकामसुखप्रदः।
सव्यजङ्घोपरि स्थाप्य
वामजङ्घां तु लीलया॥
ख्यातोऽयं पद्मपर्यङ्कः
सर्वकामसुखप्रदः।
पद्मपर्यङ्कम् आबध्य
वामजङ्घोर्ध्वम् अर्पयेत्॥
लीलया सव्यजङ्घान्
तु वज्रपर्यङ्ककः स्मृतः।
भूमौ पादतले स्थाप्य
समे संमुखदीर्घके॥
सर्वकामप्रदं ज्ञेयं
चैतद् उत्कुटकाषनं।
भूमौ पादतले स्थाप्य
वक्रे तिर्यक् सुदीर्घके॥
अर्धचन्द्रासनं
ज्ञेयम् एतत् कामसुखप्रदं।
तिर्यक् जानुयुगं
भूमौ गुल्फमध्ये तु पूलकं॥
कृत्वा धन्वासनं
चैतद् दिव्यकामसुखप्रदं।
सत्त्वं पद्मं तथा
वज्रं पर्यङ्कम् इति कल्पितं॥
उत्कूटकं चार्धचन्द्रञ्
च धन्वासनम् इदं मतं।
(२९)
अर्धचन्द्रासनासीनां
स्त्रियं कृत्वा निरन्तरं॥
पतित्वा संलिहेत्
पद्मं गृह्नन् सुलक्षत्र्यक्षरं।
पुनर् धन्वासनं
कृत्वा स्वाननं तद्गुदान्तरे॥
पातयित्वा गुदं
तस्याः संलिहेन् नासयापि च।
तदुत्पन्नं सुखं
ध्यायाच् चण्डरोषणयोगतः॥
तते मुक्तो भवेत्
योगी सर्वसंकल्पवर्जितः।
विरागरहितं चित्तं
कृत्वा मात्रां प्रकामयेत्॥
अनुरागात् प्राप्यते
पुण्यं विरागाद् अघम् आप्यते।
न विरागात् परं
पापं न पुण्यं सुखतः परं॥
ततश् च कामजे सौख्ये
चित्तं कुर्यात् समाहितः॥
अथ भगवती प्रमुदितहृदया
भगवन्तं
नमस्कृत्य अभिवन्द्य
चैवं आह॥
भो भगवन् किं नृणाम्
एव केवलम् अयं साधनोपायो
ऽन्येषाम् अपि वा॥
भगवान् आह।
अत्रानुरक्ता ये
तु सत्त्वाः सर्वदिक्षु व्यस्थिताः।
देवासुरा नरा नागास्
तेऽपि सिद्ध्यन्ति साधकाः॥
अथैवं श्रुत्वा
महेश्वरादयो देवा
गौरीलक्ष्मीशचीरत्यादिदेवतीं
गृहीत्वा भावयितुम्
आरब्धाः॥ अथ तत्क्षणं
सर्वे तदैवं
(३०)
तन्मुहुर्तकं चण्डरोषणपदं
प्राप्ता विचरन्ति
महीतले॥ तत्र महेश्वरो
वज्रशंकरत्वेन
सिद्धः। वासुदेवो
वज्रनारायणत्वेन। देवेन्द्रो
वज्रपाणित्वेन।
कामदेवो वज्रानङ्गत्वेन।
एवंप्रमुखा गङ्गानदीबालुकासमा
देवपुत्राः सिद्धाः॥
पञ्चकामगुणोपेताः
सर्वसत्त्वार्थकारकाः।
नानामूर्तिधराः
सर्वे भूता मायाविनो जिनाः॥
यथा पङ्कोद्भवं
पद्मं पङ्कदोषैर् न लिप्यते।
तथा रागनयोद्भूता
लिप्यन्ते न च दोषकैः॥
इत्य् एकलवीराख्ये
श्रीचण्डमहारोषणतन्त्रे
निष्पन्नयोगपटलः
षष्ठः॥६॥
अथ भगवत्य् आह।
मैथुनं कुर्वतो
जन्तोर् महान् स्यात् परिश्रमः।
तस्य विश्रमणं नाथ
जन्त्वर्थे वक्तुम् अर्हसि॥
भगवान् आह॥
(३१)
स्त्रैण्यं सौख्यं
समालम्ब्य स्वप्रत्यक्षे निरोधितं।
भुञ्जीत मस्यमांसन्
तु पिबेन् मद्यं समाहितः॥
अन्यभक्ष्यं यथालब्धं
भक्तादिक्षीरनीरकं।
स्त्रीणां प्रथमतो
दद्यात् तदुच्छिष्टन् तु भक्षयेत्॥
तस्या उच्छिष्टयन्त्रे
तु भोक्तव्यञ् च निरन्तरं।
तस्याश् चाचमनं
नीरं पद्मप्रक्षालनं पिबेत्॥
गुदप्रक्षालनं गृह्य
मुखादिं क्षालयेद् व्रती।
वान्तन् तु भक्षयेत्
तस्या भक्षयेच् च चतुःसमं॥
पिबेच् च योनिजं
वारि भक्षयेत् खेटपिण्डकं।
यथा संकारं आसाद्य
वृक्षो भोति फलाधिकः॥
तथैवाशुचिभोगेन
मानवः सुखसत्फलः।
न जरा नापि रोगश्
च न मृत्युस् तस्य देहिनः॥
सेवयेद् अशुचिं
योऽसौ निर्योगोऽपि स सिध्यति।
भक्षं वा यदि वाभक्षं
सर्वथैव न कल्पयेत्॥
कार्याकार्यं तथा
गम्यम् अगम्यम् चैव योगवित्।
न पुण्यं न च वा
पापं स्वर्गं मोक्षं न कल्पयेत्॥
सहजानन्दैकमूर्तिस्
तु तिष्ठेद् योगी समाहितः।
एवं योगयुक्तो योगी
यदि स्याद् भावनापरः॥
चण्डरोषैकयोगेन
तथाहंकारधारकः।
यदि ब्रह्मशतं हन्याद्
अपि पापैर् न लिप्यते॥
(३२)
तस्माद् एवंविधं
नाथं भावयेच् चण्डरोषणं।
येनैव नरकं यान्ति
जन्तवो रौद्रकर्मणा॥
सोपायेन तु तेनैव
मोक्षं यान्ति न संशयः।
मनःपूर्वगमं सर्वं
पापपुण्यम् इदं मतं॥
मनसः कल्पनाकारं
गतिस्थानादिभेदितं।
विषं नामन्त्रितं
यद्वद् भक्षणाद् आयुषः क्षयः॥
तद् एव मन्त्रितं
कृत्वा सुखम् आयुश् च वर्धते।
अथ तस्मिन् क्षणे
देवी प्रज्ञापारमिता वरा॥
कर्त्तिकर्परकरव्यग्रा
चण्डरोषणमुद्रया।
वज्रचण्डी महाक्रुद्धा
वदेद् ईदृशम् उत्तमं॥
मदीयं रूपकं ध्यात्वा
कृत्वाहंकारम् उत्तमं।
यदि ब्रहमशतं हन्यात्
सापि पापैर् न लिप्यते॥
मदीयं रूपम् आधाय
महाक्रोधैकचेतसा।
मारयेन् मत्स्यपक्षीञ्
च योगिनी न च लिप्यते॥
निर्दयाश् चञ्चलाः
क्रुद्धा मारणार्थार्थचिन्तकाः।
स्त्रियः सर्वा
हि प्रायेण तासाम् अर्थे प्रकाशितं॥
इत्य् एकलवीराख्ये
श्रीचण्डमहारोषणतन्त्रे
देहप्रीणनपटलः सप्तमः॥
७॥
(३३)
अथ भगवान् भगवतीं
पञ्चमण्डलैर्
नमस्कृत्याह॥
त्वदीयं योगिना
रूपं ज्ञातव्यं तु कथं प्रिये।
भगवती चाराधिता
केन योगिना वा भविष्यति॥
अथ भगवत्य् आह॥
यावद् धि दृश्यते
लोके स्त्रीरूपं भुवनत्रये।
तन् मदीयं मतं रूपं
नीचानीचकुलं गतं॥
देवी चासुरी चैव
यक्षिणी राक्षसी तथा।
नागिनी भूतिनीकन्या
किन्नरी मानुषी तथा॥
गन्धर्वी नारकी
चैव तिर्यक्कन्याथ प्रेतिका।
ब्राह्मणी क्षत्रिणी
वैश्या शुद्रा चात्यन्तविस्तरा॥
कायस्त्री राजपुत्री
च शिष्टिनी करौत्तिनी।
वणिजिनी वारिणी
वेश्या च तरिणी चर्मकारिणी॥
कुलत्रिणी हत्रिणी
डोम्बी चाण्डाली शवरिणी तथा।
धोबिनी सौण्डिनी
गन्धवारिणी कर्मकारिणी॥
नापिणी नटिनी कंसकारिणी
स्वर्णकारिणी।
कैवर्ती खटकी कुण्डकारिणी
चापि मालिनी॥
कापालिनी शंखिनी
चैव वरुडिनी च केमालिनी।
गोपाली काण्डकारी
च कोचिनी च शिलाकुटी॥
थपतिनी केशकारी
च सर्वजातिसमावृता।
(३४)
माता च भगिनी भार्या
मामिका भागिनेयिका॥
खुट्टिका च स्वसा
चैव अन्या च सर्वजातिनी।
व्रतिनी योगिनी
चैव रण्डा चापि तपस्विनी॥
इत्यादिबहवः सर्वाः
स्त्रियो मद्रूपसंगताः।
स्थिता वै सर्वसत्त्वार्थं
स्वस्वरूपेण निश्चिताः॥
तासाम् एव यथालाभं
चुम्बनालिङ्गनादिभिः।
वज्रपद्मसमायोगाद्
योगिनां भोन्ति सेविताः॥
सेवितास् तु स्त्रियः
सिद्धिं सर्वसत्त्वहितैषिणां।
ददन्ति क्षणमात्रेण
तस्मात् संसेवयेत् स्त्रियं॥
स्त्रियः स्वर्गः
स्त्रियो धर्मः स्त्रिय एव परं तपः।
स्त्रियो बुद्धः
स्त्रियः संघः प्रज्ञापारमिता स्त्रियः॥
पञ्चवर्णप्रभेदेन
कल्पिता भिन्ननामतः।
नीलवर्णा तु या
नारी द्वेषवज्रीति कीर्तिता॥
श्वेतगौरा तु या
नारी मोहवज्री हि सा मता।
पीतवर्णा तु या
नारी सा देवी पिशुनवज्रिका॥
रक्तगौरा तु या
नारी रागवज्री प्रकीर्तिता।
श्यामवर्णा तु या
नारी ईर्ष्यावज्रीति कथ्यते॥
एकैव भगवती प्रज्ञा
पञ्चरूपेण संस्थिता।
पुष्पधूपादिभिर्
वस्त्रैः पद्यगद्याङ्गशोभनैः॥
संभाषणनमस्कारैः
संपुटाञ्जलिधारणैः।
(३५)
दर्शनैः स्पर्शनैश्
चापि स्मरणैस् तद्वचःकरैः॥
चुम्बनालिङ्गनैर्
नित्यं पूजयेद् वज्रयोगिनीं।
शक्तौ कायेन कर्तव्यम्
अशक्तौ वाक्यचेतसा॥
तेनाहं पूजिता तुष्टा
सर्वसिद्धिं ददामि च।
सर्वस्त्रीदेहरूपन्
तु त्यक्त्वा नान्या भवाम्य् अहं॥
त्यक्त्वा स्त्रीपूजनं
नान्यन् मदीयं स्यात् प्रपूजनं।
अनेनाराधनेनाहं
तुष्टा साधकसिद्धये॥
सर्वत्र सर्वदा
नित्यं तस्य दृष्टिपथं गता।
मदीयाशेषरूपेण ध्यात्वा
स्वस्त्रीञ् च कामयेत्॥
वज्रपद्मसमायोगात्
तस्याहं बोधिदायिनी।
तस्मात् सर्वप्रकारेण
ममाराधनतत्परः॥
चौरीम् अपि यदा
कुर्याद् यदि वा प्राणिमारणं।
वदेद् वाथ मृषावाक्यं
भञ्जयेत् प्रतिमादिकं।
सांघिकं भक्षयेद्
वाथ स्तौपिकं परद्रव्यकं।
न पापैर् लिप्यते
योगी ममाराधनतत्परः॥
नखेन चूर्णयेद्
यूकां वस्त्रस्थाम् अपि मारयेत्।
अनेनैव प्रयोगेण
मां समाराधयेद् व्रती॥
न कुर्याच् च भयं
पापे नारकादौ च दुर्गतौ।
भयं कुर्यात् तु
लोकस्य [ता]वच् छक्तिर् न लभ्यते॥
न पापं विद्यते
किञ्चिद् न पुण्यं किञ्चिद् अस्ति हि।
(३६)
लोकानां चित्तरक्षायै
पापपुण्यव्यवस्थितिः॥
चित्तमात्रं यतः
सर्वं क्षणमात्रञ् च तत्स्थितिः।
नरकं गच्छते कोऽसौ
स्वर्गं प्रयाति हि॥
यथैवातङ्कतो मृत्युं
स्वसंकल्पविषप्रभं।
विषाभावेऽपि संयति
तथा स्वर्गम् अधोगतिं।
एवं भूतपरिज्ञानाद्
निर्वणं चाप्यते बुधैः।
निर्वाणं शून्यरूपन्
तु प्रदीपस्येव वाततः॥
तच्छेदे च पचेत्
सोऽपि न बोधिपदम् अश्नुते।
तस्मात् सर्वं परित्यज्य
माम् एवाराधयेद् व्रती॥
ददामि क्षणमात्रेण
चण्डसिद्धिं न संशयः॥
अथ भगवान् भगवतीं
प्रज्ञापारमिताम्
आह॥
किमाकारो भवेच्
चण्डस् तस्य सिद्धिस् तु कीदृसी।
भगवत्य् आह॥
पञ्चवर्णप्रभेदेन
योगिन्यो याः प्रकीर्तिताः।
तासाञ् च स्वस्वभर्तारः
पञ्चवर्णप्रभेदतः॥
चण्डाश् च सर्व
एवैते योगिन्या तु मयोदिताः।
नीलवर्णस् तु यो
भर्ता स च नीलाचलः स्मृतः॥
श्वेतगौरो हि यो
भर्ता स श्वेताचलसंज्ञकः।
पीतवर्णो हि यो
भर्ता स ख्यातः पीतकाचलः॥
(३७)
रक्तगौरो हि यो
भर्ता स रक्ताचल उदाहृतः।
श्यामवर्णो हि यो
भर्ता स ख्यातः श्यामकाचलः॥
एक एव भवेच् चण्डः
पञ्चरूपेन संस्थितः।
एष चण्डः समाख्यातोऽस्य
सिद्धिर् दृढत्वतः॥
यावद् आकाशपर्यन्तं
दिव्यरूपेण संस्थिता।
चण्डसिद्धिर् यथैवोक्ता
तथा चण्डी प्रसिद्ध्यति॥
इत्य् एकलवीराख्ये
श्रीचण्डमहारोषणतन्त्रे
स्वरूपपटलोऽष्टमः॥
८॥
(३८)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project