समाजसाधनव्यवस्थोलि
नमो वज्रसत्वाय॥
वज्रसत्वं नमस्कृत्य्
त्रिवज्राभेद्यविग्रहं।
समाजसाधनाङ्गस्य
व्यवस्थोलिर् निग[?] द्यते॥
प्रथमं तावद्
अभावेत्यादि-
गाथाम् उच्चार्य
स्थाव॥॥रादिपदार्थान्
शून्यतायां प्रवेशयेत्।
तत्राकाशधातुमध्यस्थं
भावयेद् वायुमण्डलम्
इत्य् आदिना
मण्डलचतुष्टयेन
भूभागन् निष्पाद्य
तदुपरि भ्रूंकारेण
कूटागार[ं]।
तत्राक्षोभ्येत्यादि
समस्तदेवताचक्रं
विन्यसेद्
इत्य् अधिमोक्ष्यः॥
(1)
ततो
योगानुयोगा-
तियोग-
महायोगाः क्रमेण
महावज्रधरम्
आत्मानं निष्पाद्य
द्वयेन्द्रि[यसमापत्त्या]
[माण्डलेयदेवतां] उत्सृज्य
जपन् भावनां च कृत्वा
विसर्ज्जयेद् इति॥
न्याश(सिच्)देशना शूचिता(सिच्) स्यात्॥
इदानीम्
व्यवस्थोलिस् तृतीयो-
पदेशम् आह।
यदाऽस्मिन् लोके
गतिसम्वर्त्तनीप्राप्ते
त्रैधातुक एकस्
सत्वो[ऽ]पि
नावशिष्टो भवति।
भाजनलोकमात्रम्
अवतिष्ठते।
तदा क्रमक्रमेण
(2)
सप्तसूर्याणां रश्मयः
प्रादुर्भूय
त्रैधातुकं दग्ध्वा
आकाशमयं कुर्व्वन्ति॥
इमम् अर्थम् उत्पत्तिक्रमभावकः।
अभावेति
गाथाम्
उच्[च्]आर्यालम्बयति।
पुनः प्रतीत्यसमुत्पाद-
प्रबन्धबलान्
मन्दमन्दा वायवः
स्यन्दन्ते।
ततस् ते वायवो वर्द्धमाना
षोडशलक्षयोजनोद्वेधं
परिणाहेनासंख्यम्
वायुमण्डलम्
आकाशोपरि निवर्त्तयन्ति।
तस्मिन् वायुमण्डले
मेघा सम्भूयाक्षमात्राभिर्
धाराभिर् वर्षयन्ति।
तद् भवत्य् अपां
म [म]ण्ड[ल]ं।
तस्य प्रमाणं
(3)
योजनानाम् एकादशलक्षम्
उद्वेधो विंशतिश्
च सहस्राणि।
ताश् च पुनर् आपो
वायुभिर्
आवर्त्त्यमानाः
कांचनमयी
मही भवत्य् अपाम्
उपरिष्ठात्।
तस्याः प्रमाणं
त्रयो लक्षा
उद्वेधास् सहस्राणि
च विंशतिः
अग्निमण्डलस् तु
तद् अन्तर्भूत एव।
अयं सन्निवेशोत्पादो
योगिनाम्
आकाशधातुमध्यस्थं
भावयेद् वायुमण्डलम्
इत्य् आदिना
चतुर्मण्डलक्रमेण
भूभागावलम्बनं।
एवं सत्वानां
कर्मप्रभावसम्भूतैर्
वायुभिस् संहृत्य
सुवर्ण्णादयो राशी
क्रियन्ते। सुमेर्वादयः
पर्वता
(4)
देवविमानानि
द्वीपाश् चक्रवाडपर्यन्ता
वृक्षगुल्मलतादयश्
च
संभवन्ति।
इयताश् च[ ]
भवोत्पत्तिक्रम-
भावकानां
शून्यताभावनालक्षणपूर्वकं
चतुर्मण्डलक्रमेण
भूभागन् निष्पाद्य
तद् उप[रि] कूटागारं
निष्पादयेद् इत्य्
उक्तं भवति।
ततो विज्ञानाधिपतिर्
महावज्रधरः
सत्वजनकः।
भाजनलोकान् निष्पाद्य
सत्वलोकं
निर्मिणोति।
आलयनिष्पत्तिपूर्विका
त्रिवज्रोत्पत्तिभावना
कर्त्तव्येति
वचनात्।
तत्र चतस्रोयोनयः।
(5)
तत्र अण्डजा
जरायुजा
संस्वेदजा
उपपादुका इति।
योनिर् नाम जातिः।
अण्डजा योनिः कतमा
ये सत्वा अण्डेभ्यो
जायन्ते
तद्यथा
हन्सक्रौञ्चमयूर-
शुकसारिका(सिच्)दयः।
जरायुजायोनिः कतमा
ये सत्वा जरायोर्
जायन्ते।
तद्यथा
हस्त्यश्व[गो]महिषा-
खरवराहमनुष्यादयः।
संस्वेदजा योनिः
कतमा।
ये सत्वा भूतस[ं]स्वेदजस्
तद्यथा
कृमिकीटपतङ्ग-
(6)
मशकादयः [।]
उपपादुका योनिः
कतमा।
ये सत्वा
अविकला
अहीनेन्द्रियाः
सर्वागप्रत्यङ्गोपेताः
सकृद् उपजायन्ते।
तद्यथा
देवनारकान्तराभव-
प्राथमकल्पिकादयः।
अत्राह द्वीपत्रये[ऽ]पि मनुष्याः
प्रतिवसन्ति किम्
अर्थं
चरमभविका
बोधिसत्वा महासत्वास्
तुषितवरभुवनात्
तत्र नावतरन्ति।
अवश्यम् एवात्र
जम्बुद्वीपे
अवतीर्य मनुष्याणां
धर्मन् देशयन्ति।
कारणम् अत्र निर्देशतु
भगवान् वज्रगुरुः
शास्ता।
(7)
वज्रगुरुर् आह।
पूर्वविदेहे।
अपरगोदानीये।
उत्तरकुरौ मनुष्या
महाभोगसम्वर्त्तनीयाः।
किन् तु धन्धा जडा
अविवेकचारिणः।
अयं तु जम्बुद्वीपकर्मभूमिः।
तेन सुकृतदुःकृतानां
उत्तममध्यमाधमानां
सत्वानां कर्मफल-
विपाकोऽत्र दृश्यते।
तथाप्य् अत्र जम्बुद्वीपे
मनुष्याः
शठ कपटमद-
मात्सर्यदुष्टाशया
जराव्याधिपरिपीडिताः।
किन्तु द्योतितज्ञास्
तीक्ष्णेन्द्रियाः।
पटुजातीयाः।
तेन बोधिसत्वा
(8)
जम्बुद्वीपे [ ]
जनपदेषूपपद्य
धर्मन् देशयन्ति।
अत आह।
मनुष्यलाभः प्रथमन्
निधानं।
निष्क्रान्तलाभो
द्वितीयन् निधानं।
प्रव्रज्यलाभस्
तृतीयं निधानं।
समाधिलाभश् [ च] चतुर्थ निधानं
इति।
असाधारणगुह्य-
महायोगतन्त्रे [ऽ]प्य् आह।
अतीतानागतप्रत्युत्पन्न
[सर्व]बुद्धा मनुष्यात्मभावे
स्थित्वा
सर्वज्ञसिद्धिपदं
आप्नुवन्तीति।
अतः कारणान् मनुष्याणाम्
उत्पत्तिक्रमो निर्दिश्यते।
प्राथमिककल्पिका
मनुष्यास्
सर्वबुद्धगुणालंकृत
रूपिणो मनोमयाः।
(9)
सर्वाङ्गप्रत्यङ्गोपेता
अविकला
अहीनेन्द्रियाः।
शुभवर्ण्णकायिनः
स्वयम्प्रभा
आकाशगामिना
दीर्घायुषः
प्रीत्याहारा ज्ञानमूर्त्तयस्
ते मायोपमसमाधिं
न प्रजानन्ति।
अप्रजानन्तोऽनादिकालान्
अज्ञानवासनाप्रबन्धबलात्
क्रमेण स्वचित्तोद्भूतैः
कर्मक्लेशैर्
अभिभूयन्ते
ततस् ते मनोमयकायम्
अवहाय क्लेशप्रबन्धानुक्रमेण
प्राकृतमनुष्यात्मभावं
परिगृह्णन्ति
एवं स्वचित्तवक्रः
कल्याणमित्रविरहितः।
स्वस्वभावं न ज्ञात्वा
सत्वनिकायाच् च्युत्वा
च्युत्वा
(10)
यावद् आयन्ति सामग्रीन्
न लभते
तावत् सप्ताहन्
अन्तराभवे तिष्ठतीति
निश्चयम् आह।
अन्तराभवस्य किं
लक्षणम्
आह मरणभवस्य।
उत्पत्तिभवस्य चान्तरे
य आत्मभावो [ऽ]भिनिर्वर्त्तते।
देशान्तरोपपत्तिसंप्राप्तये
सो
ऽन्तराभव इत्य्
उच्यते।
स तु पट्विन्द्रियो
भवति।
यथा चरमभविको
बोधिसत्वः संपूर्ण्णयौवनः
सर्व [ज्ञ] लक्षणानुव्यञ्जनश्
च
तथैवान्तराभवस्थोऽपि
मातुः कुक्षौ प्रविशेत्।
कोटीशतम् चास्य
दीपिकानाम्
आभासते।
यथोक्तं
भद्रपालिपरिपृच्छासूत्रे।
(11)
स च सोपभूतपुरुषः
प्रहित्वा
दिव्यां स्मृतिं
प्रतिलभते।
षट्कामावचरान् देवान्
पश्यति।
षोडशमहानिरयान्
पश्यति।
स च समकरचरणम्
आत्मभावं पश्यति।
एवं च प्रजानाति।
इदानीन् तं मदीयं
कलेवरम् इति।
य [ ?? ]थोक्तं
कोशकारिकायां।
स जातिशुद्धदिव्याक्ष
दृश्यः कर्मर्द्धिवेगवान्।
सकलाषोऽप्रतिघवान्
अनिवर्त्त्यस् स
गन्धभुग्
इति॥
अनेनोत्पत्तिक्रम-
भावकानां
योगानुयोगक्रमेण
निष्पन्नदेवतामूर्त्तिर्
देशयति।
(12)
यथा चरमभविको
बोधिसत्वो महासत्वस्
संभोगकायेन मनुष्याणाम्
अर्थः कर्तुन् न
शक्यत इति कृत्वा
स्कन्धधात्वायतना-
नुप्रवेशेन
निर्माणकायग्रहणार्थम्
गर्ब्भावक्रान्तिम्
उपदर्शयति।
तथाऽन्तराभवस्थोऽपि
सप्ताहात्यजेना
नादि-
स्वविकल्पवासनाप्रबन्धो-
द्भूतकर्मणा संचोदिते
सत्य्
उत्पत्तिं गृह्णात्य्
अनेन क्रमेण।
तत्रायं क्रमः।
प्राथमकल्पिकानां
मनुष्याणां।
अमृतम् आहारमाणानां
यावत्
कवडीकाराहार पर्यन्ते
खरत्वं गुरुत्वं
काये[ऽ]वक्रान्तं।
प्रभाऽन्तर्हिता।
ततोऽन्धकारे(सिच्) उत्पन्ने
सूर्याचन्द्रमसौ
लोके
प्रादुर्भूतौ।
(13)
तत[ः] प्रज्ञोपायविभाग-
दर्शनार्थं तेषां
स्त्रीपुरुषेन्द्रिये
प्रादुर्भूते
संस्थानं च भिन्नन्
तेषाम्
अन्योन्यं पश्यतां
पूर्वाभ्यासवशाद्
अन्योन्यरागचित्तम्
उत्पन्नं।
यतो विप्रतिपन्नाः।
तद्
आरभ्य स्त्रीपुरुष
इति संज्ञान्तरम्
अद्यापि लोके प्रवर्त्तते।
ततस् स [?] गन्धर्वसत्वस्
त्रयाणां स्थानानां
संमुखीभावान् मातुः
कुक्षौ [स]
गर्ब्भस्यावक्रान्तो
भवति।
माता कल्या भवति
ऋतुमती।
मातापितरौ रक्तौ
भवतः।
ततस् तयोर् अन्योन्यम्
अनुरागण-
वज्राधिष्ठानेनालिङ्गन-
चुम्बनादिक्रियया
द्वयेन्द्रिय-
समापत्तिं दृष्ट्वा
[का]
(14)
कामोपदानाया न्तराभवं
हित्वा
अश्वारोहणवद् विज्ञानाधिपतिश्
चित्तवज्रो वायुवाहन-
समारूढश् शीघ्रतरम्
आगत्य
क्षणलवमुहूर्त्तम्
आवेशज्ञानसत्व इव
वैरोचन-
द्वारेण प्रविश्य
ज्ञानभूमिं प्राप्य
उपायज्ञानेन
सहाद्वयीभूय
निरतिशयप्रीत्याक्षिप्तहृदयः।
तंत्रोक्तसर्वतथागता-
भिभवनसमाधि-
न्यायेन प्रज्ञासूत्रोक्त
द्वासप्ततिनाडीसहस्रं
संचोद्य
उभाव् अपि परमानन्दसुखेन
तोषयित्वा
आलिकालिकाव् एकीभूय
सूक्ष्मधात्वाय? प्रविशन्
प्रज्ञाज्ञानरश्म्युदयाद्
उभाव् अपि
द्रावयित्वा शुक्रशोणिताभ्यां
सन्मिश्रीभूय योनिमध्ये
(15)
बिन्दुरूपेण पतितः।
इमम् अर्थं द्योत[य]न् आह
मूलतन्त्रे
सर्वतथागतकायवाक्चित्तहृदय-
वज्र [योयोयोयोयो ] योषिद्भगेषु
विजहारेति।
ततः क्रमेण वर्द्धते।
प्रथमं कललाकारं।
कललाज् जायतेऽर्बुदं।
अर्बुदाज् जायते
पेशी
पेशीतो जायते घणं।
घणात् पुनर् वायुना
प्रेर्यमाणाः
प्रशाखाः पंचविध-
स्फोटकाकारः प्रजायन्ते।
ततः केशरोमनखादय
इन्द्रियाणि रूपाणि
व्यञ्जनान्य् अनुपूर्वश
इति।
स च पंचतथागताधिष्ठानाद्
बीजावस्थाम्
आरभ्य पंचाकारोपजायते
[।]
(16)
अत्र कललम् अक्षोभ्यस्य
अर्बुदं रत्नसंभवस्य
पेशी अमिताभस्य।
घणोऽमोघसिद्धेः।
प्रशाखा वैरोचनस्या-
धिष्ठानम् इति।
महारक्तस्यापि पंचाकारं
दर्शयति।
तत्र द्रवम् अक्षोभ्यस्य
रक्तं अमिताभस्य
पेशी रत्नसंभवस्य।
घणम् अमोघसिद्धेः
सम्मिश्रं
वैरोचनस्याधिष्ठानम्
इति।
द्वौ नाडी योनिमध्ये
तु
वामदक्षिणयोस् तथा।
वामे शुक्रम् विजानीयाद्
दक्षिणे रक्तम्
एव च।
तयोर् मीलनम् एकत्वं
धर्मधातौ स्वसंग्रह
इति॥
अतस् तस्य खलु कालान्तरेण
(17)
बीजाङ्कुरवत्।
परिपाकप्राप्तस्य
गर्ब्भशल्यस्याभ्यन्तरे
मातुः कुक्षौ कर्मविपाकजा
वायवो वान्ति।
ये ग[घ]र्ब्भशल्यं
संपरिवर्त्त्य मातुश्
च कुक्षौ
धर्मोदयद्वाराभिमुखो
ऽवस्थापयन्ति।
सचेत् पुन्सान्
भवति
मातुर् दक्षिणकुक्षिम्
आश्रित्य
पृष्ठाभिमुखः।
उत्कुटुकस् संभवति।
अथ स्त्री ततो वामं
कुक्षिम्
आश्रित्य उदराभिमुखीभवति।
ततो दशानां मासानाम्
अन्ते
मूलसूत्रोक्त-
समयोद्भववज्रसमाधिप्रदर्शनाय
मातुर् ग्गर्ब्भात्
प्रच्युतोऽभूद्
इति।
अतस् स[र्व] गन्धर्वसत्वो
(18)
मांसचक्षुषा दृश्यताङ्गतः।
अतश् चाह मूलसूत्रे।
भ[व]गवान् बोधिचित्तवज्रस्
तथागतस् त्रिमुखाकारेण
सर्वतथागतैस्
संदृश्यते स्मेति।
अत्राह। अब्धातुः
पैतृको ज्ञेयस्
तेजोधातुश् च मातृकः।
त्वग्मान्सश् च
रक्तञ् च
मातृक इत्य् उच्यते।
स्नायुर् मज्जा[ ?? ] शुक्रं च
पैतृक इति कथ्यते।
एतन् मात्राण्य्
उक्तानि
पिण्डस्य संग्रहाणि
च।
रूपवेदनासंज्ञ-
संस्काराविज्ञानम्
एव च।
पंचबुद्धमयं विश्वं
स्कन्धाद्या इति
कथ्यते।
इत्य् उक्तं भगवता
चतुर्देवी
परिपृच्छामहायोगतन्त्रे।
इयता ग्रन्थेन चतुर्योगनिष्पन्नो
(19)
[ऽ]हम् इति मंत्रिणा
दार्प्यम्
उत्पादयितव्यम्
इति॥
[ द्वितीयन्याश(सिच्)देशना परिच्छेदः॥]
[तथोत्पत्तिक्रमव्यवस्था
प्रथमः परिच्छेदः॥१॥]
इदानीं
व्यवस्थोलितृतीयोपदेशम्
आह।
प्रथमं तावत्
कायमण्डलं व्यवस्थाप्यते।
ब्रह्मसूत्रं समारभ्य
चतुरस्रम्(सिच्) विभागतः।
कूटागारम् इवाभाति
योगिनां देहलक्षणं।
भगो मण्डलम् इत्य्
आह।
बोधिचित्तं च मण्डलं।
देहो मण्डलम् इत्य्
उक्तम्
त्रिधा मण्डलकल्पनेति।
समाजोत्तरे वचनात्।
(20)
एवं भूते
स्वकायमण्डले
स्कन्धधात्वायतनस्वभावेन
विन्यस्तदेवतानां
कार्यकारणभावम्
आह।
तत्र रूपस्कन्धे
वैरोचनः।
वेदनास्कन्धे
रत्नसंभवः।
संज्ञा अमिताभः।
संस्कारोऽमोघसिद्धिः।
विज्ञानम् अक्षोभ्यः।
अत आह मूलसूत्रे।
पंचस्कन्धास् समासेन
पंचबुद्धाः प्रकीर्तिताः।
अतः स्कन्धानां
स्वलक्षणं
ज्ञात्वा
पंचतथागतविन्याशात्(सिच्)
पञ्चस्कन्धा बोधिहेतुका
भवन्ति
(21)
यथोक्तं मूलसूत्रे
द्वेषो मोहस् तथा
रागश्
चिन्तामणिसमयास्
तथा।
कुला ह्य् एते तु
वै पंच
काममोक्षप्रसाधका
इति॥
देवातीनां व्यवस्थाम्
आह।
मोहरतिर् लोचना।
पृथिवीधातुः।
द्वेषरतिर् मामकी
अब्धातुः।
रागरतिः पाण्डरवासिनी
तेजोधातुः।
वज्ररतिस् तारा
वायुधातुः।
इमम् अर्थं द्योतयन्न्
आह मूलसूत्रे।
पृथिवी लोचना ख्याता।
अब्धातुर् मामकी
स्मृता।
तेजश् च पाण्डरा
ख्याता।
(22)
वायुस् तारा प्रकीर्त्तिता
इति।
एषां धातूनाम् अपि
स्वलक्षणं ज्ञात्वा
देवतीविन्याशा(सिच्)द् धातवो
बुद्धत्वदायका भवन्ति।
चक्षुराद्यायतन-
विन्यस्तबोधिसत्वानां
हेतुफलम् आह।
स एव भगवान् चित्तवज्रः।
क्षितिगर्ब्भसमाधिना
चक्षुरिन्द्रिये
स्थित्वा रूपत्रयं
प्रभास्वरत्वेन
निरूप्य
वज्रचक्षुरिन्द्रियं
प्रददाति।
एवं वज्रपाणिः
श्रोत्रेन्द्रिये
स्थित्वा
शब्दत्रयं तथैव
निरूप्य
वज्रश्रोत्रेन्द्रियं
प्रददाति।
आकाशगर्ब्भो
(23)
घ्राणेन्द्रिये
स्थित्वा
त्रिगन्धं निरूप्य
वज्रघ्राणेन्द्रियं
प्रददाति।
लोकेश्वरो जिह्वेन्द्रिये
स्थित्वा
त्रिरसं निरूप्य
वज्रजिह्वेन्द्रियं
प्रददाति।
भगवान् मञ्जुश्रीः
षट्प्रवृत्तिविज्ञाने
स्थित्वा ज्ञानत्रयं
निरूप्य
परचित्तज्ञानाभिज्ञां
प्रददाति[।]
भगवान्
सर्वनिवरणविष्कम्भी
कायेन्द्रिये स्थित्वा
नीवरणं अन्तर्द्धातून्
परस्परं पिण्डीकृत्य
जातिं प्रवेश्य
वज्रकायम्
आपादयति।
भगवान् समन्तभद्रस्
समन्ततस् सन्धिस्थाने
स्थित्वा
प्रभाश्वरं(सिच्) सन्धिं
प्रददाति[ ?? ]।
भगवाम् मैत्रेयः
स्नायुस्वभावेन
स्थित्वा
स्नायुभिर् बद्ध्वा
(24)
प्रभाश्व(सिच्)रं प्रवेशयति।
से एव भगवान्
रूपत्रयाकारेण
बाह्यवद् अवभास्य
चक्षुरिन्द्रियसुख-
प्रदानाद् रूपवज्रा।
एवं शब्दवज्रादीनाम्
अप्य्
अवगन्तव्यं॥
सर्वयोगो हि भगवान्
वज्रसत्त्वस् तथागतः।
तस्योपभोगं समस्तं
वै
त्रैधातुकम् अशेषत
इति
सम्वरे वचनात्।
अनेन देवतीन्यासेन
स्वभावपरिज्ञानेन
ए
विषयविशुद्धिम्
आपादयति
इमम् अर्थं द्योतयन्न्
आह मूलेसूत्रे।
वज्र-आयतनान्य्
एव
बोधिसत्त्वाग्रमण्डल
इति।
रूपशब्दादिभिर्
मन्त्री
(25)
देवतां भावयेत्
सदे
ति॥
अवयवे विन्यस्तक्रोधानां
कार्यकारणम् आह।
यमान्तकस् सव्यभुजे
अपसव्येऽपराजितः।
हयग्रीवो मुखे भाव्यो
वज्रे चामृतकुण्डलिः।
अचलं दक्षिणे बाहौ
वामे च टक्किराजकं।
जानौ च दक्षिणे
चिन्तयेन्
नीलदण्डं महो[ज्]ज्वलम्।
वामे जानौ महाबलं
मूर्ध्नि चोष्णीषचक्रिणं।
पादान्तद्वयविन्यस्तं
सुम्भराजं विचिन्तयेद्
इति॥
एते दशक्रोधराजानः
साधकस्यावयवे विन्यस्ता
अनाभोगेनैव
त्रिमुखषड्भुजाकारेण
कायमण्डलाद्
(26)
विनिर्ग्गत्य दशदिग्विघ्नगणा[न्]
तर्जयन्ति॥
अत आह मुलसूत्रे।
क्रोधा द्वेषालये
जाता
नित्यं मारणतत्पराः।
सिध्यन्ति मारणार्थेन
साधकाग्रधर्मिण
इति॥
कायमण्डलव्यवस्था
तृतीयः(सिच्) परिच्छेदः॥॥
कायमण्डलविन्यस्तदेवतानां
हेतुञ् च फलम् अधिगतो
मन्त्री
परार्थसंपत्तये
कायमण्डलाद् उत्सर्ग्गम्ण्डलं
निर्म्मिणोत्य्
अनेन क्रमेण।
तत्रायं क्रमः।
मनसा स्वकुलाङ्गनां
विस्फार्य।
अथ वा बाह्याङ्गनाम्
आदाय
साधनोक्तक्रमेण
द्वयेन्द्रियसमापत्तिं
कृत्वा
बोधिचित्ताद्
(27)
[ यथैकविमानाद्धं]
पूर्वोक्तक्रमेण
कूटागारं निष्पाद्य
वज्रधृग् इत्यादिमंत्रं
उच्चार्य
समस्तदेवताचक्रं
सृजेद् इति।
उत्सर्ग्गमंत्रव्यवस्थाम्
आह।
पंचाकाराभिसम्बोधि-
शूचकं वज्रं
धारयतीति वज्रधृक्।
अनेन द्वेषक्लेशम्
विशोध्य
पुनर् आगत्य महावज्रधरेण
सहा[ ?? ] द्वयीभूय
संपुटयोगेण मध्यमण्डले
अक्षोभ्यरूपेन व्यवस्थितः।
एवं द्वादशाकार-
धर्मचक्राच्
चतुर्मारान् जयतीति
जिनजिक्।
(28)
सर्वासा(सिच्)-
परिपूरकं रत्नं
धारयतीति
रत्नधृक्।
आ समन्तात्
रो [ल] इति संसारः।
संसाराल् लिग् गच्छतीति
आरोलिक्।
प्रविचयलक्षणा
प्रज्ञा
तान् धारयतीति प्रज्ञाधृक्॥
मोहो वैरोचनस्
तस्मिन् रतिर् मोहरतिः।
द्वेषोऽक्षोभ्यस्
तस्मिन् रतिर् द्वेषरतिः।
रागोऽमिताभस्
तस्मिन् रतिः। रागरतिः।
वज्रऽमोघस्
तस्मिन् रतिः। वज्ररतिः॥
पृथिव्(य्)ई-र्-इवाचलिकसमाधिस्
स एव गर्ब्भ
(29)
आध्यात्मो यस्य
स क्षितिगर्ब्भः।
पंचज्ञानस्वभावं
वज्रं
धारयतीति वज्रपाणिः।
आकाशम् अनावरणज्ञानम्
स एव गर्ब्भ आकाशगर्भः।
समाधिबलाल्
लोकानाम् ईश्वरो
लोकेश्वरः।
प्रभाश्व(सिच्)रसमाधेर्
व्युत्थानान् मनोज्ञश्रीर्
मञ्जुश्रीः।
नीवरणं क्लेशं
मायोपमसमाधिबलाद्
विष्कम्भयति स्तम्भयतीति
सर्वनिवरणविष्कम्भी।
अपदद्विपदचतुष्पदादिसत्वेषु
मैत्र्यालक्षनत्वेन
मैत्रेयः।
समन्ततश् शोभनो
भद्रस्
समन्तभद्रः।
रूप्यते प्रतिबिम्ब्यते
अनेनेति रूपं।
शब्द्यत इति शब्दः।
घ्रायत इति गन्धः।
(30)
रस्यत इति रसः।
स्पृश्यत इति स्पर्शः।
वज्रशब्दसान्निध्या
तत्समाधिना
रूपादीनाम् विशुद्धिं
कथयति॥
यमो नरकस्
तस्य स भगवान्
महाक्रोधसमाधिना
ऽन्तं करोतीति यमान्तकृत्।
प्रज्ञया बन्धानाम्
अन्तं करोतीति प्रज्ञान्तकृत्।
पद्मदृष्टान्तेन।
च विशुद्धरागाणाम्
अन्तं करोतीति
पद्मान्तकृत्।
विघ्नाश् चतुर्मारास्
स भगवान्
महाक्रोधसमाधिना
तेषाम् अन्तं करोतीति
विघ्नान्तकृत्।
अष्टलोकाचारान्
नित्यं
प्रचलितहृदयानां
वज्रोपमसमाधिना
निक्षिप्तिं करोतीत्य्
अचलः।
टक्किः कामः।
(31)
राज्यते दीपयते
विशुधयत इति
टक्किराजः।
नीलं
सत्वानां पापं
दण्डो निग्रहः त[ ? ]ं
करोतीति नीलदण्डः।
परमार्थसत्यबलात्
सत्वानाम् उपक्लेशं
मर्दयतीति महाबलः।
सत्वानां त्रैधातुक
[ ?? ]
निः(सिच्)क्रान्तज्ञानप्रदानाद्
उष्णीषचक्रवर्ती।
दशदिग्विघगणान्
आनीय कीलनान् निसुम्भनान्
निसुम्भराजः॥॥
इमे देवा द्वात्रिंशन्
निर्म्माणकायास्
त्रिमुख-
षड्भुजाकारा
नानाचिह्नमुद्रा-
(32)
गृहीताहस्ताः।
बोधिचित्तान्
मन्त्रैक निर्म्माणाद्
वा अनाभोगेनैव
साधकस्य कायमण्डलाद्
विनिर्गत्य
पुण्यसम्भार-
वृद्ध्यर्थं
रागद्वेषमोहादि-
चरितसत्वानां
तत्तत्समाधिना
क्लेशाद्यावरणानि
विशोध्य पुनर् आगत्य
स्वकस्वकीयेष्व्
आसनेषु निषण्णा
अभूवन्न् इति॥
(33)
वज्रचक्र-
रत्नपद्मखड्ग-
घण्टा यथासंख्यं
षट् तथागतानां
उक्तानि चिह्नानि।
त एव प्रहरणाकारेण
धारिताः।
शन्तिपुष्ट्यादिकर्मभेदात्
वर्ण्णभेदेन
भिन्नाः।
सर्वरत्नैर् युक्तत्वाद्
इन्द्रनीलवर्ण्णः।
इमम् एवोत्सर्ग्गमण्डलम्-
उद्भावयन्न् आह
मूलसूत्रे।
अथ खल्व् अक्षोभ्यस्
तथागतः
सर्वतथागतकायवाक्चित्त-
योषिद्भगेषु
विरजस्कं महासमय-
(34)
मण्डलम् अधिष्ठापयामास।
स्वच्छं च तत्स्वभावं
नानारूपं समन्ततः।
बुद्धमेघसमाकीर्ण्णं
स्फुलिङ्गगहानाकुलं।
स्वच्छादिमण्डलैर्
युक्तं
सर्वताथागतं पुरम्
इति।
आह।
यद्य् अस्मिंस्
तन्त्रे
हस्तमुद्रा नास्ति।
कथं चतुर्मुद्रामुद्रितं
देवतारूपं निष्पद्यते॥
आह॥
(35)
निरवशेषबुद्धगुणा-
लंकृताधारभूता
देवताकारा
महामुद्रा॥
योषित् समयमुद्रा।
मन्त्राक्षरम् एव
धर्म्ममुद्रा।
विश्वरूपेण
सकलजगदर्थक्रिया-
निष्पादनं कर्म्ममुद्रा।
आह
तत्वसंग्रहाद्य्
उभयतन्त्र-
प्रसिद्ध एकमुखं।
किम् अर्थम् अत्र
त्रिमुखाकारेण संदृश्यत
इति।
आह
(36)
भगवान् एव कारणम्
आह।
सन्ध्याव्याकरण-
व्याख्यातन्त्रे।
महातत्वम् इदं तत्
स बाह्याध्यात्मिकं
भवेत्।
तत्वोभयसंकल्पम्
अद्वयं समुदाहृतं।
कनिष्ठानामिकामध्य-
तर्ज्जन्यङ्गुष्ठकस्
तथा।
रूपादिसमसंख्येन
वामहस्तेन कीर्त्तिताः।
एतेषां निःस्वभावयोगात्
प्रज्ञाप्रविचयलक्षणा।
धर्मकायः समाख्यातस्
तथताद्वयसंज्ञकः॥
(37)
अक्षोभ्यरत्नामिताभा-
मोघवैरोचनास्
तथागताः।
एते दक्षिणहस्तेन
कनिष्ठादिषु व्यवस्थिताः।
उभयोर् एकः संघस्
तद् इदं शरणत्रिकं।
बुद्धो धर्म्मस्
तथा संघ
एकोऽपि कल्पना त्रयं।
निबद्धान्योन्य
वज्रसत्वं
प्रज्ञोपायपदोत्तमं।
अञ्जलिर् बद्धमात्रे
तु
(38)
सर्वबुद्धान् समावहेत्
त्रिशरणस् त्रितत्वन्
तु
त्रिकायस् त्रिविमोक्षकः।
त्रिमुखस् त्र्यक्षरश्
चैवम्
त्रिदेवः स्यात्
त्रिधातुकः।
त्र्यध्वस् त्रिसमयः
श्रेष्ठस्
त्रितयः स्यात्त्रिमण्डलः
त्रियोगः त्रिमार्ग्गश्
च
यावन्तः कल्पचोदिताः।
अध्येषननमस्कार-
लोकेषु प्रार्थनक्रिया।
सम्बुद्धतोषणं तत्
स्यात्
त्वदीयाञ्जलितः
स्थितः।
(39)
ये सत्वास् ते च
बुद्धाः स्युस्
तथताद्वयधर्म्मतः।
अस्थानस्थितियोगेन
बुद्धाःसर्व्वे
व्यवस्थिता
इति
आह
अस्मिन् श्रीगुह्यसमाजे।
माण्डलेय -
देवताविन्यासो
नानाचार्याभिमतो
लोकेप्रवर्त्तते।
तत् कथं साधकानाम्
निःसन्देहम् भवति।
(40)
आह
साधु साधु महासत्व
युक्त्यागमाभ्यां
ते
प्रतिपादयामि।
यथा कायमण्डले
स्कन्धादिस्वभावेन
देवताविन्यासो नाम
च।
तद्वद्
उत्सर्ग्गमण्डले
चापि
देवताविन्यासेन
भवितव्यं।
तथापि मूलसूत्रे
परिपूर्ण्णदेवताविन्यासो
नास्ति।
किन् तु नाचार्यकं
प्रवर्त्तनं माभूद्
इति।
मण्डलविन्यासश्
चैकत्र
परिपूर्ण्णो भगवता
न
(41)
प्रदर्शितः।
व्याख्यातन्त्रे।
श्रीवज्रमालायां
चैकत्र प्रदर्शितः।
तद् अवतार्यते॥॥
शृणु त्वं [वै] महासत्त्व
नान्यचित्तेन संस्मर।
वज्राचार्यस्य कायेऽस्मिन्
क्रमं कायजिनस्थितः।
प्रथमं कायवज्रेण
रूपस्कन्धेन संस्थितः।
अनुरागणवज्रेण
वेदनास्कन्धेन संस्थितः।
वाग्वज्रेण भगवान्
संज्ञास्कन्धेन
संस्थितः।
(42)
सर्वपूजन वज्रेण
संस्कारस्कन्धेन
संस्थितः।
चित्तवज्रेण भगवान्
विज्ञानस्कन्ध स्थितो[ऽ]प्य् असौ॥
मांसादि पृथिवीधातुर्
भगवती लोचना स्थिता॥
शोणितादिजलधातुर्
भगवती मामकी स्थिता।
उष्णादितेजोधातुर्
भगवती पाण्डरवासिनी
स्थिता।
प्रेरणादि मरुद्धातुस्
तारा भगवती स्थिता।
नेत्रद्वयेन्द्रियं
तस्य
क्षितिगर्भस् तथागतः।
(43)
श्रोत्रद्वयेन्द्रियं
तस्य
वज्रपाणिस् तथागतः।
घ्राणस्थितम् इन्द्रियं
तस्य
गगनगञ्जस् तथागतः।
जिह्वास्थितम् इन्द्रियं
तस्य
लोकेश्वरस् तथागतः।
मनसि स्थितम् इन्द्रियं
तस्य
मञ्जुघोषस् तथागतः।
चतुर्द्धातुमयं
पिण्डं
शरीरं तु संज्ञितं।
सर्वनिवरणविष्कम्भी
तथागतस् तत्र तिष्ठति।
सर्वसन्धि शरीरस्य
समन्तभद्रस् तथागतः।
(44)
सर्वस्नायुः शरीरस्य
मैत्रेयस् तथागतः॥
दक्षिणे भुजमूले
तु
यमान्तकस् तथागतः।
वामभुजमूले तु
अपराजितस् तथागतः।
मुखपद्मे सम्तिष्ठेत्
तु
हयग्रीवस् तथागतः।
गुह्यप्रदेशेन तिष्ठेत्
अमृतकुण्डलिस् तथागतः।
दक्षिणे बाहौ तिष्ठेत्
त्व्
अचलोऽसौ तथागतः।
(45)
वामबाहौ तु तिष्ठेत्
तु
टक्किराजस् तथागतः।
दक्षिणजानौ तिष्ठेत्
तु
नीलदण्डस् तथागतः।
वामजानौ तिष्ठेत्
तु
महाबलस् तथागतः।
स्वशीर्षमूर्द्ध्नि
तिष्ठेत् तु
चक्रवर्त्ती तथागतः।
अधः पादे च तिष्ठेत्
तु
सुम्भराजस् तथागतः।
समस्ते चैव कायेऽस्मिन्
सर्व तथागताः स्थिताः।
कायमण्डलम् इत्य्
उक्तं
वज्राचार्यस्य कायिकं।
(46)
एते सकलसम्बुद्धाः
समास्ता बुद्धकायिकाः।
प्रवेशयन्ति निर्व्वाणां
वज्री संस्कृतदेशिनं।
शीघ्रं निर्व्वासि
भगवन्
परिपक्तं कुशलं
भव
तस्माद् वज्रगुरोः
काये
जिनाः सर्व्वे अधिष्ठिताः
पश्चात्काले महासत्व
शृणु हेऽमोघदर्शक।
आदिकर्म्मिकसत्वैश्
च
गुरुः सेव्यः प्रयत्नतः।
तथामोघदर्शिना
सहबोधिसत्वा महायशास्
(47)
तुष्टाः प्रमुदिता
हृष्टाः
प्रणम्याश्रूनि
पतिता
इति॥
आह
सर्वबुद्धबोधिसत्त्वान्
सर्वक्लेशप्रहीणान्
दशबलवैशारद्यादि
बुद्धगुणप्राप्तान्
अस्मिन् प्राकृतदेहे
विन्यसेद् इति विरुद्धाख्यायिका
आह।
यथा पतद्ग्रहावस्थाया[ं]
श्लेष्मा स्फार्यते।
भजनावस्थाया[ं] लोको
भुम्क्ते।
प्रतिमावस्थायां
पूजा क्रियते।
तथा
प्राकृतदेहो राग-
द्वेषमोहादयश् च
(48)
पूर्वावस्थायां
संसारहेतुकाः
पश्चात् स्वभावपरिज्ञाने
परिशुद्धास्
सर्वज्ञज्ञासिद्धये
हेतुका भवन्तीति
न दोषः।
तथाचोक्तं।
स्वशुचिप्रतिमाम्
इमां गृहीत्वा
[जि]नरत्नप्रतिमां करोत्य्
अनर्घा।
रसजातमतीव वेधनीयं।
सुदृढं गृह्णत बोधिचित्त
[स्स]संज्ञम्
इति। तथा चाह।
रत्नकूटसूत्रे।
तद् यथा काश्याप
स[ं]कराकीर्ण्णायां
पृथिव्यां
सर्वबीजानि विरोहन्ति।
एवम् एव काश्यप
क्लेशसंकार-
कीर्ण्णे लोकसन्निवेशे
बोधिसत्वस्य
बुद्धधर्मा
विरोहन्तीति।
सन्ध्याव्याकरणमहायोगतन्त्रे[ऽ]प्य् आह।
(49)
शू(सिच्)क्ष्मयोगार्थतत्वज्ञं
[ः]
वज्रपाणिं यशस्विनं।
जगदद्वययोगेन
सोऽवदत् सन्धाय
शू(सिच्)क्ष्मकम्॥॥
पंचाकारम् इमां
बोधिर्
नगामिजनहेतुकां।
धर्मसङ्गीतिकायेऽस्मिन्
भाषन्ते च यथायथां॥
स्कन्धा एते हि
बुद्धाः स्युर्
बोध्यर्थ प्रत्ययोद्भवाः।
ते पि तथागताः ख्यातास्
तथताद्वययोगतः॥
उत्सर्ग्गमण्डल-
व्यवस्था
चतुर्थः परिच्छेदः॥॥
इदानीं
परमार्थमण्डलव्यवस्था
प्रदर्शनायोद्देशपदं
(50)
मूलसूत्राद् अवतार्यते।
समयात् क्षरेद्
रेतं विधिना
पिबेत् फलकांक्षया।
मारयेत् ताथागतव्यूहं
सुतरां सिद्धिम्
आप्नुयाद्
इति॥ उद्देशः॥ सप्तमपटले
त्व् अस्य निर्देशो
व्याख्यातंत्रे
सन्ध्याव्याकरणनि[र्]दिष्टः।
रूपाद्याध्यात्मिकान्
धर्मान्
पश्यतो[ ? ] विपश्यना।
अक्षोभ्यादि यथासंखयं
कल्पयन् स (सिच्)मथो भवेत्।
अनयोर् निःस्वभावत्वं
तथताशान्तसंज्ञकं।
तथतामण्डले योगी
सर्वबुद्धान् प्रवेशयेद्
इति।
तस्यापि प्रतिनिर्देशः।
वज्रमालामहायोगतंत्रे
विवृतस्
तद् अवतार्यते।
रूपस्कन्धगतादर्शो
(51)
भूधातुर् नयनेन्द्रियं।
रूपं च पंचमं याति
क्रोधमैत्रेयसंयुतं।
वेदनास्कन्धाः समता
अब्धातुः श्रवणेन्द्रियं।
शब्दश् च पंचमं
याति
क्रोधद्वयसमन्वितं।
संज्ञा च प्रत्यवेक्षण्यं
हुतभुग् नासिकेन्द्रियं।
गन्धश् च पंचमं
याति
क्रोधद्वयसमन्वितं।
संस्काराः कृत्यानुष्ठानं
मारुतो रसनेन्द्रियं[।]
[रस]श् च पञ्चमं याति
क्रोधद्वयसमन्वितं॥
ऊर्ध्वाधः
क्रोधसंयुक्तं
प्रकृत्याभासम्
एव च।
विज्ञानस्कन्धम्
आयाति
विज्ञानं च प्रभाश्व(सिच्)रं॥
[च] निर्वाणं सर्वशून्यं
च
धर्मकायो निगद्यते।
(52)
दृढीकरणहेतोश् च
मंत्रम् एतद् उदाहरेत्।
ओं शून्यता[ज्ञान]वज्र
स्वभावात्मकोऽहम्
इति॥०॥
व्यवस्थोलितृतीयोपदेशम्
आह
रूपस्कन्धे प्रभाश्व(सिच्)रं
प्रविष्टे सति लक्षणं
लक्षयेद् बुधः।
सर्वाङ्गरूपाणि
स्थामानि म्लानानि
मृदूनि मात्राणि
शिथिलानि भवन्ति।
आदर्शज्ञाने गते
तिमिरत्वं।
भूधातौ गते
सर्वशरीरकृशत्वं।
नयनेन्द्रिये गते
चक्षुर् विकारो
भवति।
संक्षुभति च।
रूपविषये गते स्वकायविवर्ण्ण
(53)
आयामलीनत्वं भवति।
एवम् [अन्]आदिसंसारे
अपदद्विपदचतुष्पदादि-
सत्वानां वैरोचनकुलीनाः
कायमण्डले स्थित्वा
परमार्थमण्डलं
क्षणमन्दक्रमेण
प्रवेशन्ति[।]
ये ह्य् अवयवस्थितास्
तेषाम्
अत्र व्यवस्था नास्ति
तथाप्य् अनुक्रमेण
परमार्थसत्ये
प्रविशन्ति।
एवं द्वितीयरत्नकुलदेवतानां
परमार्थसत्ये
प्रवेशकाले [ल]क्षणं
लक्षयेद् बुधः।
वेदनास्कन्धे लीने
वातपित्तश्लेष्मसन्निपातादि
कायिकवेदना
नानुभूयते।
समताज्ञाने लीने
(54)
त्रिप्रकारं मानसिकवेदनां
न स्मारति।
अब्धातौ लीने स्वकाये
लालास्वेदमूत्ररक्तशुक्रादीनि
शुष्यन्ति॥
श्रवणेन्द्रिये
लीने
सबाह्याभ्यन्तरशब्दो
न श्रूयते।
शब्दविषये लीने
स्वकाये शब्दं न
शृणोति।
द्वितीयरत्नकुलदेवता-
नुप्रवेशः॥
तृतीये पद्मकुलदेवतानां
तथतायां प्रवेशकाले
क्षणं लक्षयेद्
बुधः।
सं[ ? ] ज्ञास्कन्धे लीने
द्विपदादिसत्वानां
संज्ञा
न समरति।
प्रत्यवेक्षणाज्ञाने
लीने
मातृपुत्र-
बान्धवादीनां
सर्वसंज्ञां जगति
न स्मरति।
तेजोधातौ लीने
(55)
सर्व्वाहरो न पच्यते।
घ्राणेन्द्रिये
लीने
मन्दाश्वस
ऊर्ध्वगतिश् च भवति[।]
गन्ध[विषये] लीने
[विसविषय]स्वकाये
गन्धविस(सिच्)यो न घ्रायते॥
त्रितीयपद्मकुलदेवता-
नुप्रवेशः॥
चतुर्थकर्मकुलदेवतानां
भूतकोट्यां प्रवेशम्
आह
लक्षणं लक्षयेद्
बुधः।
तत्र संस्कारस्कन्धे
लीने
सर्वकायकरणीयं
न प्रवर्त्तते।
कृत्यानुष्ठाने
लीने
बाह्यलौकिकस्थितिक्रियाव्यापारन्
न स्मरति।
वायुधातौ लीने
प्राणादिदशवायवः
स्वस्थानाद् विच्छिद्यन्ते।
जिह्वेन्द्रिये
लीने
(56)
जिह्वा स्थूला ह्रस्वा
नीलमूला च भवति।
रसविषये लीने
षड्रसो नानुभूयते।
चतुर्थकर्मकुलदेवता
नुप्रवेशः॥
शेषं प्रकृत्याभासं
मञ्जुश्रीज्ञानं
द्वितीयक्रमेण
ज्ञायते।
स च प्राणायामेन
सहं
वज्रजापक्रमेण स्थित्वा
पिण्डग्रहानुप्रभेद
[नीत्व]क्रमेणा-
नाहतं साक्षात्
कृत्वा।
ततो धारणायाम्
उपसंहारं करोति।
तदा
ओं शून्यताज्ञानवज्र
स्वभावात्मकोऽहम्
इति
(57)
मन्त्रार्थः साक्षात्कृतो
भवति
आह
अस्य मन्त्रस्यार्थं
निर्दिशतु
भगवान् व [व]ज्रगुरुश् शास्ता।
वज्रगुरुर् आह।
भगवतैव
विवृतं व्याख्यातन्त्रे
तन् निर्दिश्यते।
अथ तथागतास् सर्वे
शू(सिच्)क्ष्मयोगे व्यवस्थिताः।
ओ[ं]म् इत्य्[आद्य्]
एकसंयुक्तं
द्वितीयं शून्यतेति
च।
तृतीयं ज्ञानम्
इत्य् एव
चतुर्थम् वज्रसंज्ञकं।
स्वभावात्मक पञ्चमाख्यं
षष्ठो [ऽ]हम् इति प्रोच्यते।
एवं तथागतषट्कं
कथितं उत्तमे जने।
ओं शून्यतेति युग्मादि
ज्ञान[ं] वज्रं द्वितीयकं।
तत्स्वभावात्मकोऽहं
स्यात्
त्रितत्वं चात्र
कल्पितं।
(58)
त्रितत्वम् एकं
भवेत् सम्यक्
व्यक्ताव्यक्तसंज्ञकं।
अपि च वज्रधृक्
कश्चित्
त्रिशं(सिच्)केतान्वितो नरः।
आवाहनं विसर्जनं
स्यात्
तथा स्थापनम् एव
च।
आवाहनं प्रवेशेन
त्वरितेन विसर्जनं।
बाष्पेण स्थापनं
तत् स्याद्
विश्वस्तात् सिद्धिर्
उत्तमा॥
तत्तत्पुरुषा [प] योगेन
महामुद्रैकभावना।
त्वरितादित्रये
युक्ते
मुद्रासाधनम् विधीयते॥
त्वरिते विबन्धे
बाष्पे
कथिता मन्त्रयोजना।
कर्ण्णमूले तु शिष्याय
आचार्येण प्रयत्नतः॥०॥
इति
श्रीगुह्यसमाज
महायोगतंत्रे
परमार्थमण्डल-
व्यवस्था
(59)
परिच्छेदः पंचमव्यवस्थोलिस्
समाप्ता॥०॥
कृतिर् आचार्य नागबुद्धिपादानाम्
इति॥०॥
(60)
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project