Digital Sanskrit Buddhist Canon

कल्पोक्तमारीचीसाधनम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

कल्पोक्त-मारीची-साधनम्

सम्यक् प्रणम्य
मारिल्चीं वैरोचन-कुलोद्भवाम्
,

कल्पोक्त-विधिना
तस्याह् कथ्यते साधन-क्रमः।

 

तत्र तावत् श्र्ल्-मारीच्य्-उदय-मण्डलाभिषिक्तो
मन्त्री स्व-समय-संवर-परिपालन-शुद्ध-चित्तः सकल-सत्त्वाभ्युद्धरणशय ॐ फट् इत्य् उच्चारयन्
क्रोधमुष्टिं हृद्-ऊर्णा-मूर्द्धसु विन्यस्य मुख-शौचादिकं कृत्वा देव-गृहं प्रविश्य
पटादि-गत-मूर्त्तिं भगवतीं अवतार्य्य मारीची-विघ्नोत्सारण-मन्त्रेण गन्धोदकं परिजप्यानेनैव
पञ्चोपहारादिकं प्रपूज्यम्।

 

 तत्रयं विघ्नोत्-सारण-मन्त्रः ॐ मारीच्यै हुं सर्व्व-विघ्नान्
उत्सारय हुं फट्। ततः स्वहृदयक्षरेण निशि चन्द्र-मण्डलं दिवा सूर्य्य-मन्दलं आ-कारेण
ध्यात्वा तस्योपरि प्रथम-त्रयोदश-बीजं अर्द्धेन्दु-बिन्दु-भूषितं तप्त-चामीकराभम्।
,

तते विश्व-रश्मीन्
निश्चार्य्य तै रश्मिभिर् निष्पन्नां भगवतिं मूर्द्ध्नि गुरु-बुद्ध-बोधिसत्त्वांश्
च दृष्ट्वा पूजयित्वा अभिवन्द्य च अनेन मन्त्रेण ॐ मारीच्यै पुष्पं प्रतीच्च स्वाहा
, ॐ मारीच्यै धूपं
प्रतीच्छ स्वाहा
, ॐ मारीच्यै स्वाहेत्य् अर्घं परिजप्य, ॐ मारिच्यै अर्घं
प्रतीच्छ स्वाहा
,

अभावे सति ध्यानेन
वा ततः
:

 

रत्न-त्रयं मे शरणं
सर्व्वं प्रतिदिशाम्य् अघम्
,

अनुमोदे जगत्-पुण्यं
बुद्ध-बोधौ दधे मनः।

आबोधेः शरणं यामि
बुद्धं धर्म्मं गुणोत्तमम्
,

बोधौ चित्तं करोम्य्
एष स्व-परार्थ-प्रसिद्धये।

उत्पादयामि वर-बोधि-चित्तं
निमन्त्रयामि बहु-सर्व्व-सत्त्वान्
,

इष्टां चरिष्ये
वर-बोधि-चारिकां बुद्धो भवेयं जगतो हिताय।

 

()

 

इति त्रिर् उच्चार्य्य
प्रणिधि-पूर्व्वकं सर्व्व-धर्म्म-नैरात्मयं भावयेद् अनेन मन्त्रेण। ॐ शून्यता-ज्ञान-वाज्र-स्व-भावात्मकोऽहम्
इति पठित्वा
:

 

बीजं मायोपमाकारं
त्रै-धातुं च विशेषतः
,

दृश्यते स्पृश्यते
चैव यथा माया हि सर्व्वतः
,

न चोपलभ्यते चैव
सर्व्वस्य जगतः स्थितिः।

 

इति प्रठित्वा प्रतिभास-मात्रम्
अवगम्य ततो अनादिकारणासत्कल्पना-बीजम् अपनीय स्व-भव-शुद्धोऽहम् इत्य् अभिमुञ्चेत्।
स्व-भाव-शुद्धाः सर्व्व-धर्म्माः स्व-भाव-शुधोऽहम् इति वार-त्रयम् उच्चार्य्य ततः पूर्व्वोक्त-बीज-निष्पन्नं
चन्द्रं तस्योपरि ॐ-कारं तत् सर्व्वं परिणम्य श्रीमद्-वैरोचन-नाथं पद्म-गर्भ-सिंहासन-स्थं
वज्र-पर्य्यण्क-निषण्णं सुवर्ण-चन्द्रे बोध्यङ्गी-समाधि-समापन्नं जटा-मुकुट-धरं शान्तं
सर्व्वालङ्कार-भूषितम् ध्यायात्।

 

ततः स्व-हृदि चन्द्र-मण्डलं
तस्योपरि पञ्च-विंशतिकम् अक्षरं परमहृदयं प्रथमस्य द्वितीयेन समा-युक्तं अर्द्धेन्दु-बिन्दु-भूषितं
विभाव्य निष्पन्नम् अशोक-स्तवकं तस्योपरि चन्द्र-स्थ-माँ-कारं ध्यात्वा तत् सर्व्वपरिणतम्
आत्मानं मारीची-रूपेण भावयेत् अहम् एव मारीची भगवती इति सु-पीतां जाम्भू-नद-प्रभाकारां
दीप्त-देहां चैत्य-गर्भ-स्थां रक्ताम्बर-धरां रक्त-कञ्चुकोत्तरीयां नाना-वलय-सर्व्वालङ्कार-भूषितां
कट-कुण्डल-कटिसूत्रकिङ्किणी-नूपुर-रवां अष्ट-भुजां त्रि-मुखां त्रिनेत्रां ज्वलत्-स्फुरद्-रश्मि-मा-

 

()

 

लिनीं बन्धूक-जवा-कुसुम-सदृशाधरां
वैरोचन-कृत-मूर्द्ध-जां अशोक-माला शिरसि भुषितां वाम-करैर् अक्षसूत्राशोक-चाप-धरां
दक्षिणे स्फुरद्-वज्र-सूचिकाङ्कुश-चरोल्ललन-प्रियां प्रथमं मुखं सौम्यं विकसिताननं
सु-पीतकनकावदातं उत्फुल्ल-लोचनं सिन्दूर-रेणु-रन्जिता-धरं शृङ्गार-रस-विभ्रमं वाम-मुखं
वाराहं स-रोष-विकृतं विकटोत्कट-भीषणं इन्द्रनील-प्रभाकारं द्वादशर्क-सम-प्रभम् उरुभृकुटि-करालं
ललज्-जिह्वं भयस्यापि भयङ्करं दक्षिण-मुखं सु-रक्तं दिव्य-ज्वलद्-भासुरम् इव
, हर्म्योत्थितशोक-तरु-कुसुम-मालावकीर्णं
तस्याः शिरसि वैरोचनं नाथं पूर्व्वोक्त-वर्ण-मुद्रोपेतम् अधःस्तात् सप्त-शुकर-रथ-गतां
प्रत्यालीढ-स्थितां कुमारीं

नव-यौवन-स्थाम्, रथ-वाहक-शूकराणाम्
अधस्तात् यँ-भवं वायव्य-मण्डले हँ-कर-परिणतं राहु-ग्रहं हस्ताभ्यां ग्रस्तं चन्द्र-सूर्य्यौ
दिवा दिनकरं निशि-गतं चन्द्रमसं देवी-चतुष्टय-परिवृतां ध्यायात्।

 

तत्र पूर्व्वेन
ॐ मारीच्यै वर्त्तालि वदालि वरालि वराहमुखि सिद्धिम् आकर्षय जः स्वाहेति एवं देवीं
रक्त-वर्णां वराहैकमुखीं चतुर्-भुजां रक्त-कञ्चुकोत्तरीयां वामे पाशाशोक-हस्तां दक्षिणे
वज्राङ्कुश-सूचि-धरां सर्व्वाभरण-भूषितां कल्पोक्त-विधिना अभिप्रेत-सिद्धिम् आकर्षयन्तीम्
ध्यायात्।

 

ॐ मारीच्यै वर्त्तालि
वदालि वरालि वराहमुखि सर्व्व-दुष्ट-प्रदुष्टानां मुखं बन्ध बन्ध हुं स्वाहा। वदालीं
देवीं पूर्व्वोक्त-वस्त्राभरण-तद्-रूपां पीत-वर्णां वामे पश-वज्र-धरां दक्षिणे पल्लव-सूची-धरां
दुष्टानां मुख-चक्षुषी सीवन्तीं दक्षिण-तो भावयेत्।

 

ॐ मारीच्यै वर्त्तालि
वदालि वरालि वराहमुखि सर्व्व-दुष्टान् स्तम्भय वँ स्वाहेति वरालीं देवीं तद्वत् वस्त्राभरण-वर्णं
तु दक्षिणे वज्र-सूचि-हस्तां

 

()

 

वामे पाचाशोक-धरां
सर्व्व-दुष्टान् स्तम्भयन्तीं पश्चिमे न्यसेत्।

 

ॐ मारीच्यै वर्त्तालि
वदालि वरालि वराहमुखि सर्व्व-सत्व्तान् मे वशम् आनय होः स्वाहेति वराह-मुखीं देवीं
रक्त-वर्णां तथा-वस्त्राभरणं च सव्येन वज्र-शर-धारिणीं वामे अशोक-चाप-धरां सर्व्व-सत्त्वान्
उपसर्पयन्तीं उत्तरस्यां दिशि न्यसेत्।

 

ततो वज्राङ्कुश्य्-आदिभिर्
मुद्रभिः तन्-मन्त्रैश् चाकर्षणादिकं कुर्य्यात्। ज्ञान-सत्त्वर्न् आकृष्य प्रवेश्य
बद्ध्वा वशीकृत्य साधयेत्। तर्ज्जनि-अङ्कुश-बन्धेन

कनिष्ठया महाङ्कुश्ची
बाहु-ग्रन्थि-कटाग्राभ्यां शृङ्खला-पृष्ठयोश् च पीडनादिति। ॐ वज्राङ्कुशि जः इत्य्
अनेन ज्ञान-सत्त्वम् आकृष्य पुरतो अर्घ-पाद्य्-आदिकं दद्यात्। मारीची-मुद्रणम्। ततः
ॐ वज्रो-पाश हुं इत्य् अनेन प्रवेशयेत्
, ॐ वज्र-स्फोट वं
अनेन बन्धयेत्
, ॐ वज्रावेश होः अनेन तोषयेत्। ततः समय- देवताभिः सदाऽद्वयं कुर्य्यात्।

 

तत्रेयं मुद्रा:

उधौ हस्तौ समौ कृत्वा
अङ्जल्य्-आकार-मिश्रितौ
,

कुर्य्याद् विकसिताव्
अग्राव् उभाव् अङ्गुष्ठ-नामितौ।

मध्यमाङ्गु-समाश्लिष्टौ
कुण्डलाकार-बन्धितौ
,

पर्य्यङ्केणोपविष्टेन
नाभि-देशे तदा न्यसेत्।

एषा मुद्रा वरा
श्रेष्ठा सर्व्व-कर्म्मसु योजयेत्
,

ततोऽभिषेकं गृह्णीयात्
महा-मुद्रया अनया।

अङ्गुष्ठ-सत्त्व-पर्य्यङ्का
कुङ्चिताग्राग्र-विग्रहा
,

सम-मध्यर्नोत्तर्नाङ्गा
शेषा वज्राङ्जलि-प्रभा।

 

इति मूर्द्ध्नि
स्थाप्य ॐ भूः खँ माँ अभिषिङ्चेति मन्त्रेण वैरोचनः कनकाभो बोध्यङ्ग्य्-अवस्थितः शिरसि
ध्येयह्। भावना-खिन्नो जपेन् मन्त्रम्। स्व-हृदि चन्द्र-स्थं मन्त्रं देदीप्यमानम्
ॐ मारीच्यै स्वाहेति दृष्ट्वा जपेत्।

 

यथाशक्त्या भावना-पूर्व्वङ्गमं
सर्व्वां देवतीं समुत्तेजयन्तिं पश्यन् मन्त्रं जपेत्। पश्चान् न्यूनाधिक-विद्किः शताक्षरेण
पूरयेत्। तत्रायं मन्त्रं
: ॐ वज्र-सत्त्व समयम् अनुपालय वज्र-सत्त्वत्वेनोपतिष्ठ, दृढो मे

 

()

 

भव, सु-तोष्यो मे भव, अनुरक्तो मे भव, सु-पोष्यो मे भव, सर्व्व-सिद्धिं

मे प्रयच्छ, सर्व्व-कर्म्मसु
च मे चित्तम् श्रेयः कुरु
, हुँ हहहहहोः

भगवन् सर्व्व-तथागत-वज्र
मा मे मुङ्च
, वज्रीभव महा-समय-सत्त्व आः।

विसर्ज्जन-काले
तु सर्व्वम् एतत् कुशलं परिणम्य अभिप्रेतां सिद्धिम् अभियाच्य स्व-मुद्रां शिरसि मुङ्चेत्
ॐ मारीच्यै मुर् इति।

 

स्वाधिदैवत-योगेन
भोजनस्नान-दान-शयनादिकं सर्व्वं प्रकल्पयेत्। इत्य् अनेन क्रमेण काय-वाक्-चित्त-रक्षां
कृत्वा यथासुखं विहरेद् इति।

मारीच्याः साधनं
कृत्वा यच्-चुभं समुपार्ज्जितम्
,

प्रप्नुवन्तु पदं
सत्त्वा मारीची-ज्ञान-निर्म्मलम्।

ॐ ख ख खादि खादि
गृह्ण गृह्ण गृह्णन्तु सार्व्व-भौतिका बलिं मम शान्तिं कुर्व्वन्तु स्वाहेति बलि-मन्त्रः

कल्पोक्त-मारीची-साधनं
समाप्तम्।

कृतिर् इयं पण्डिताचार्य्य-गर्भपादानाम्।

 



























































































































































()

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project