कल्याणपञ्चविंशतिस्तोत्रम्
Technical Details
कल्याणपञ्चविंशतिस्तोत्रम्
श्रीमानाद्यः स्वयम्भूरमितरुचिरमोघाभिघोऽक्षोभ्यबुद्धः
श्रीमान् वैरोचनाख्यो मणिभवमुनिराड् वज्रसत्त्वः सुसत्त्वः।
श्रीप्रजा वज्रधात्वी सकलशुभकरी आर्यतारादिकास्ताः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ १॥
देवी सम्पत्प्रसादा गणपतिहृदया वज्रविद्राविणो सा
उष्णीषापर्णदेवी किटिवरवदना मातृका खेचराणाम्।
कोटोलक्षाक्षदेवो स्वगणपरिवृता पञ्चरक्षा सुरक्षा
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ २॥
रत्ने दीपङ्कराख्यो मणिकुसुमजिनः श्रीविपश्यी शिखी च
विश्वम्भुः श्रीककुत्सः स च कनकमुनिः काश्यपः शाक्यसिंहः।
प्रत्युत्पन्नाभ्यभूतः सकलदशबलो पारमाहात्म्यसिन्धुः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ ३॥
श्रीमानार्यावलोकेश्वरजिनजवरो मैत्रेयानन्तगञ्जो
बुद्धः सामन्तभद्रः कुलिशवरधरो मञ्जुनाथो महेशः।
सर्वाघोरी......क्षितिज खगर्भाभिधानौ महान्तौ
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ ४॥
बुद्धाधिष्ठानकन्दोद्भववरकमलो नागदासाभिधानः
सत्यां तां यौवनाथो निजवरभुवनाज्ज्योतिरेकं ससर्ज।
एकांशं पञ्च भूत्वा विहरति सततं पञ्चबुद्धात्मकोऽसौ
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ ५॥
या प्रज्ञा गुह्यरूपा त्रिदलकमलजा सन्तु देवप्रसादा
नैरात्मा पीठरूपा बहुविहितहिता ब्रह्मविष्ण्वीशवन्द्या।
दुर्गायां मार्गकृत्स्ने कृतनतिवरदा प्रादुरासीदगाधैः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ ६॥
मैत्रीयांशादभूद् यो वनमहदुपरे रत्नचूडास्यरत्नं
ज्योतिः संगम्य भव्यं भवजलधितरी रत्नलिङ्गेश्वराख्यः।
श्रीवत्सो वीतरागाष्टककृतमहिमा व्यक्तरूपाः(पः)स्वयम्भूः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ ७॥
त्रातुं गोकर्णदुष्टं जपसि धृतमतिं लोकनाथाज्ञयाऽभूत्
पद्माकारं खगञ्जाभिधजिनतनयो वाग्मतीपूरतीरे।
श्रीगोकर्णेश्वरः स पितृजनहतकृद् वाग्मतीसंगमेऽस्मिन्
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ ८॥
क्रुद्धं नागाधिराजं कुलिकसमविधं त्रासयन् कीलवद् यो
लोकानां भद्रहेतोः गमनवदुपरि श्रीगिरौ वीतरागः।
श्री सामन्ताद्यभद्रो ध्वजकृतिरभवत् कालिनामा महेशः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ ९॥
पातुं तं सर्वपादं कमलधरगिरा वज्रपाणिर्जिहीते
लोकानां रक्षणार्थं पुनरपि कलशाकारतांशादभूत् सः।
श्रीमान् सर्वेश्वराख्यो जिनवरतनयो दण्डशूलौ दधानः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ १०॥
दुर्बोधं मञ्जुगर्तव्यजनसुखरतं कमिनीसुप्रबोधं
कृत्वा प्राज्ञं महान्तं कविवरमकरोन्मञ्जुदेवस्ततोऽपि।
श्वासं संधाय भव्यं सकलगुणपदं प्राप्य गर्तेशसंज्ञाः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ ११॥
मत्स्याकाराभिरासीत् सकलवरणविष्कम्भिनामा सुसत्त्वः
सालङ्कारः फणीन्द्रैरदददखिलकात् योडियाख्यो ययासौ।
निष्काश्याशं फणीन्द्रेश्वर इति समभूद् वीतरागोऽप्यरागः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ १२॥
स श्रीमानोडियाने व्यततपतपसा सातपत्रः सुतीरे
पृथ्वीगर्भाख्यबौद्धो.........झटिति तं स्थापयामास वासम्।
गन्धेशो वीतरागोऽभवदखिलसुहृल्लोकनाथाग्रतस्थः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ १३॥
शंखं दध्मौ सहर्षः स्मरदमितसुतं विक्रमात् प्राप्तसिद्धिः
यस्माल्लोकेश्वराज्ञाविनिहितहरयः प्रादुरासीत् खगर्भः।
यः स्वाशं स्थापयित्वा निजपुरमगमद् विक्रमेशाभिधानं
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ १४॥
नागस्तार्क्ष्येण यस्मादलभदनुसुखं पुण्यनामा सुतीर्थः
पार्वत्या यत्र तेपे कलहनिवसने शान्ततीर्थः प्रशान्तः।
तप्तं रुद्रेण दुर्गाभिलषितमनसा शङ्कराख्यस्त्रिवेणः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ १५॥
तीर्थो राजाभिधानो यदलभदवनीपालराज्यं विरूपो
व्याधश्चैतश्च यस्मात् सुरपतिसदनं प्रागमत् कामतीर्थः।
वज्राचार्येण पश्यं यदभिषवकृतः संगमो निर्मलाख्यः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ १६॥
दीनैराप्तं निधानं यदपचितिपरैराकराख्यो हि तीर्थो
ज्ञैर्लब्धं ज्ञानमस्माद् यदुदकमतिभिर्ज्ञानसंज्ञैकतीर्थः।
चिन्तामण्याख्यतीर्थाभिधवदभिषवैर्यत्र प्राप्तोऽभिलाषः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ १७॥
यत्र स्नातैर्मुदाप्तेतिसमभिधमभूद् यश्च प्रामोदतीर्थः
प्रादात् सल्लक्षणं यः स्वपयसि सरतां तीर्थसल्लक्षणाख्यः।
यत्र स्नात्वा बलाख्यः सुरपतिरजयद् द्वीपमाख्यंभतीर्थः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठातां नौम्यहं ताः॥ १८॥
विद्याधर्याख्यदेवी गगनपथगता योगिनी वज्रपूर्वा
हारीतः श्रीहनूमान् सगणपतिमहाकालचूडाख्यवन्द्याः।
ब्रह्माण्याद्याश्च देव्यः सहरिसुखवरक्षारनास्कन्दयुक्ताः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ १९॥
वाग्मत्या मूलपुच्छप्रभृतय उपतीर्थास्तथा केशचैत्याः
शङ्खोच्चस्थाश्च जातोच्चयगिरिललितश्चैत्यभट्टारकोऽसौ।
फुल्लोच्चो द्रष्टदेवी तदनु भगवतीध्यानप्रोच्चादिसंस्थाः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ २०॥
मञ्जुश्रीपर्वतस्थोऽनुचरविरचितो मञ्जुशोभाख्यचैत्यः
शान्तश्रीनिर्मितेषु प्रकृतवसतयः पञ्चदेवापुरेषु।
पुच्छाग्रश्चैत्यवर्योऽभ्यकथदनुपमं यत्र शाकेत्पुराशं
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ २१॥
आधाराख्यो हृदिस्थः सगणफणिपतिर्विध्नराजान्तकश्च
नागश्चानन्दलोके हरिहरिहरिवाहाख्यत्रैलोक्यवंशे।
लोकेशायाक्षमत्वस्तदनु सफलयाशाभिलोकैकनाथः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ २२॥
हेवज्रः संवरोऽसौ सपरिजनगणश्चण्डवीरस्त्रिलोकी
वीरो योगाम्बरोऽसौ यमनिधनकराद्या दशक्रोढ(ध)राजाः।
गुह्या बाह्याश्च सर्वे परिमितप्रमुखा नामसंगीतिव्याख्या
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ २३॥
शीर्षे प्रागात् पयोऽसौ सहितपरिजनश्चन्द्रसाहोसिताद्रिः
छित्वा शोषे ह्रदेऽस्मिन् पुरवरकमलो लोकवासाः परस्य।
स्वस्थीभूताम्बुसंस्थः सकलजिनवरं प्राभजन्मञ्जुनाथः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ २४॥
सौखावत्याश्च वङ्गं तदनु जनहिते पोतले प्रागमद् यः
शान्तोऽवग्राहदोषे ललितपुरवरं प्राविशन् देवहूतः।
स श्रीमान् वज्रपाणिः सजटधरहयग्रीवपार्षद्गणेशः
कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः॥ २५॥
श्री स्वयम्भुपुराणोद्धृता कल्याणपञ्चविंशतिस्तुतिः
समाप्ता।