शाक्यसिंहस्तोत्रम् (शङ्करकृतम्)
Technical Details
शाक्यसिंहस्तोत्रम्
शङ्करकृतम्
नमामि सौगतं जिनं लसद्वितानभासुरं
सहस्रसूर्यरोचिषं शशाङ्ककोटिनिर्मलम्।
सरोमकूपमण्डलाद् गलत्सुसूक्ष्मतेजसं
सहस्रनेमिचक्रिताङघ्रिपद्मपाणिशोभितम्॥ १॥
भजामि लोकनायकं सशोकरोगनाशकं
जराविपद्भयान्तकं भवार्णवप्रतारकम्।
प्रबुद्धपङ्कजासनं विबुद्धबोधिकाननं
त्रिलोकलोकभावनं जगत्त्रयैकपावनम्॥ २॥
नमोऽस्तु पालभुं जगच्चकार जन्म मानवं
विशुद्धशाक्यसागरे पयोनिधौ शशी यथा।
कथासुधामयोऽधुना विनोदयिष्यते भवान्
त्रिजालमोहतामसं विनाशयिष्यसे ज्वलन्॥ ३॥
स्थिताय बोधिमण्डपे हिताय लोकसंचयं
जिताय मारसैन्यकं श्रिताय सत्तृणासनम्।
सुजातशाक्यभूपतेर्युताय पारमार्थकै-
र्वृताय बोधिसंवरैर्नमोऽस्तु धर्मराज ते॥ ४॥
भजामि भव्यभावुकं भवस्य भावभेदकं
सुबोधिवैभवोद्भवं सुभाद्रिकं शुभांशिकम्।
भवौघभारभेदितुं बभार बोधिभारकं
सुभद्रभानुभास्वरं सुभावितं शुभावहम्॥ ५॥
जिनेन्द्रमूलमण्डपे लसद्वितानविस्तृते
सहस्रकल्पपादपे प्रपूर्णवत्प्रशोभिते।
हिरण्यरत्नवेदिकाकुशासनस्थितं विभुं
नमामि शाक्यसौगतं तथागतं वरं सदा॥ ६॥
पठन्ति ये जिनाग्रतो विनिर्मितं हरेण तत्
सुपञ्चपञ्चचामरं त्रिकालमेव मङ्गलम्।
सुकीर्तिधर्मसंयुतं लसन्ति सप्त वृद्धयो
व्रजन्ति ते सुखावतीं सुखेन सत्सुखावतीम्॥ ७॥
शङ्करकृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम्।